← सूक्तं ७.०८२ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०८३(७.७८) अथर्वा |
सूक्तं ७.०८४ → |
दे. अग्निः। १ परोष्णिक् , २ त्रिष्टुप् । |
वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् ।
इहैव त्वमजस्र एध्यग्ने ॥१॥
अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन ।
दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥२॥