← सूक्तं ७.०८४ अथर्ववेदः - काण्डं ७
सूक्तं ७.०८५(७.८०)
अथर्वा
सूक्तं ७.०८६ →
दे. पौर्णमासी, ३ प्रजापतिः। त्रिष्टुप् , २ अनुष्टुप्।

पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय ।
तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥
वृषभं वाजिनं वयं पौर्णमासं यजामहे ।
स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥२॥
प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।
यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥
पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु ।
ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः ॥४॥