← सूक्तं ७.०८७ अथर्ववेदः - काण्डं ७
सूक्तं ७.०८८(७.८३)
शुनःशेपः।
सूक्तं ७.०८९ →
दे. वरुणः। अनुष्टुप्, २ पथ्यापङ्क्तिः, ३ त्रिष्टुप्, ४ बृहतीगर्भा त्रिष्टुप्।

अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः ।
ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥
दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः ।
यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥२॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥३॥
प्रास्मत्पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये ।
दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥४॥