← सूक्तं ७.०९९ अथर्ववेदः - काण्डं ७
सूक्तं ७.१००(७.९५)
कपिञ्जलः।
सूक्तं ७.१०१ →
दे. गृध्रौ। अनुष्टुप्, २-३ भुरिक्

उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः ।
उच्छोचनप्रशोचनावस्योच्छोचनौ हृदः ॥१॥
अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव ।
कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥
आतोदिनौ नितोदिनावथो संतोदिनावुत ।
अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥

सायणभाष्यम्

उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः ।
उच्छोचनप्रशोचनावस्योच्छोचनौ हृदः ॥१॥
उत् । अस्य । श्यावौ । विथुरौ । गृध्रौ । द्याम्ऽइव । पेततुः ।
उच्छोचनऽप्रशोचनौ । अस्य । उत्ऽशोचनौ । हृदः ॥ १ ॥
अस्य मण्डूकात्मना भावितस्य शत्रोः संबन्धिनौ विथुरौ । व्यथ भयचलनयोः इत्यस्माद् औणादिकः कुरच्प्रत्ययः । छान्दसं संप्रसारणम् । संततं चलनशीलौ श्यावौ श्याववर्णौं ओष्ठौ उत्पेततुः उत्पतताम् उद्गच्छताम् । मण्डूकमुखापनोदनेन शत्रोरोष्ठौ विदारितौ भवताम् इत्यर्थः । यद्वा श्यैङ् गतौ इत्यस्माद् उत्पन्नः श्यावशब्दः । श्यावौ परस्परसंसक्तौ शत्रुरूपेण भावितस्य मण्डूकस्य प्राणापानौ विथुरौ व्यथनशीलौ भयवन्तौ सन्तौ उत्पतताम् इति । श्याववर्णौ वा प्राणापानौ । तौ हि वायोर्वृत्तिभेदौ । वायोर्हि धूम्रवर्णत्वं मन्त्रशास्त्रप्रसिद्धम् । उद्गमने दृष्टान्तः - गृध्रौ द्यामिव इति । यथा गृध्रौ तार्क्ष्यौ द्याम् दिवम् उत्पततः । 'औतोऽम्शसोः' (पा ६,१,९३) इति द्योशब्दस्य अमि परत आकारादेशः । पेततुरिति । छान्दसो लिट् । किं च उच्छोचनप्रशोचनौ । उच्छोचयति ऊर्ध्वम् उत्कृष्य उत्कृष्टं वा शोकं करोतीति उच्छोचनः । प्रकर्षेण शोचयतीति प्रशोचनः । एतत्संज्ञकौ मृत्युदूतौ अस्य पुरोवर्तिमण्डूकरूपेण भावितस्य शत्रोः हृदः हृदयस्य उच्छोचनौ उत्कर्षेण शोचयितारौ। भवत इति शेषः। शोचयतेर्नन्द्यादित्वात् ल्युः।

अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव ।
कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥
अहम् । एनौ । उत् । अतष्ठिपम् । गावौ । श्रान्तसदौऽइव ।
कुर्कुरौऽइव । कूजन्तौ । उत्ऽअवन्तौ । वृकौऽइव ॥ २ ॥
एनौ पूर्वमन्त्रोक्तौ श्यावौ ओष्ठौ प्राणापानौ वा शत्रुसंबन्धिनौ । इदंशब्दस्य अन्वादेशे 'द्वितीयाटौस्स्वेनः' (पा २,४,३४ ) इति एनादेशः अनुदात्तः । अहं प्रयोक्ता उदतिष्ठिपम् उत्थापयामि उद्गमयामि । बलान्निःसारयामीत्यर्थः । तिष्ठतेर्ण्यन्तात् लुङि चङि 'तिष्ठतेरित्' (पा ७,४,५ ) इति इत्त्वम् । बलात्कारेण उत्थापने दृष्टान्तत्रयं गावावित्यादि । यथा श्रान्तसदौ श्रान्तौ श्रमवन्तौ सीदन्तौ गोष्ठे श्रमेण निषीदन्तौ गावौ वालदण्डमूलनितोदनादिना बलाद् उत्थापयन्ति । यथा च कूजन्तौ ध्वनिं कुर्वन्तौ कुर्कुरौ श्वानौ पाषाणप्रहरणादिना बलाद् अपसारयन्ति । यथा च वृकौ । अरण्यश्वा वृक इत्युच्यते । उदवन्तौ गोयूथमध्ये वत्सान् उद्गृह्य गच्छन्तौ धावन्तौ वृकौ यथा गोपालाः बलाद् यूथाद् अपसारयन्ति तद्वत् । ओष्ठयोः प्राणापानयोर्वा द्वित्वाद् द्वित्वसंख्यावन्तौ गावौ श्वानौ वृकौ दृष्टान्तत्वेन उपन्यस्तौ । अवतेर्धातो रक्षणाद्यनेकार्थस्मरणाद् अत्र गत्यर्थः अवतिः।

आतोदिनौ नितोदिनावथो संतोदिनावुत ।
अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥
आऽतोदिनौ । निऽतोदिनौ । अथो इति । सम्ऽतोदिनौ । उत।
अपि । नह्यामि । अस्य । मेढ्रम् । यः । इतः । स्त्री । पुमान् । जभार ॥ ३ ॥
अत्र शत्रोरोष्ठौ प्राणापानौ वा उत्क्रमणवेलायाम् एतदेतदवस्थापन्नौ करोतीति पूर्वार्धेन उच्यते । आतोदिनौ सर्वतो व्यथनशीलौ शत्रोः सर्वावयवसंक्लेशकारिणौ । उत्थापयामीति पूर्वमन्त्रोक्तक्रियानुषङ्गः । तथा नितोदिनौ नितरां निकृष्टं वा व्यथयन्तौ अतिकष्टं बाधाकारिणौ। अथो अनन्तरम् उत अपि च संतोदिनौ संभूय व्यथाकारिणौ । उद्गमयामीति संबन्धः । किं च यः स्त्री पुमान् वा द्वेष्यः इतः अस्मदीयात् स्थानात् जभार जहार । आस्माकीनं धनम् इति शेषः। यद्वा इतः अस्मिन् प्रदेशे जहार प्रहृतवान् अस्मान् बाधितवान् । अस्य शत्रोः मेढ्रम् । मर्मस्थानोपलक्षणम् एतत् । अपि नह्यामि बध्नामि । यथा मर्मस्थानबन्धनेन मरिष्यति तथा करोमीत्यर्थः ।

टिप्पणी

किं भाष्यकरणे उच्छुष्मशब्दः आधारः भवितुं शक्यते, अयं विचारणीयः। बौद्धसम्प्रदाये वज्रक्रोध उच्छुष्म महाबलसंज्ञकः देवः अस्ति। तृतीय एवं प्रथममन्त्रानुसारेण, हृदयस्य तोदका क्रोधादयःः ये भावाः सन्ति, तेभ्यः हृदयः उच्छोचन एवं प्रशोचनसंज्ञकयोः बलयोः सर्जनं कर्तुं शक्यते। किन्तु तौ बलौ गृध्रौ स्तः। गृध्रः किं भवति, अस्मिन् संदर्भे पद्मपुराणे ६.१७९ आख्यानमस्ति यत् एकः पिंगलसंज्ञकः द्विजः कुकर्मकारणतः गृध्रयोनिं प्राप्नोति। गीतायाः पंचमाध्यायस्य श्रवणेन गृध्रस्य मुक्तिः अभवत्। गीतायाः पञ्चमाध्यायस्य सारं अस्ति - ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ कर्मसम्पादनतः प्राक् सम्यग्ज्ञानं आवश्यकं अस्ति। यजुर्वेदस्य आधारं भौतिकरूपेण कर्मसंपादनापेक्षया भावनामात्रतः कल्पवृक्षस्य सर्जनमस्ति। यः जनः क्रोधादपि उपयोगी बलस्य निष्पादने समर्थः अस्ति, सैव बौद्धसम्प्रदायस्य वज्रक्रोध उच्छुष्मः अस्ति। वेदे शुष्मशब्दः बलार्थकः अस्ति।

प्रथममन्त्रे यौ गृध्रौ स्तः, द्वितीयमन्त्रे तौ गावौ एवं वृकौ स्तः। वृकस्य स्वभावः ऋजुतास्थाने वक्रताजननं भवति। तृतीयमन्त्रे तौ आतोदिनौ, नितोदिनौ एवं संतोदिनौ भवतः।

श्यावौ - द्र. श्यामशबलोपरि टिप्पणी

विथुरौ - अयमेकमात्रमन्त्रः अस्ति यत्र सायणाचार्येण विथुरशब्दस्य निरुक्तिः व्यथ भयचलनयोः इति कृतमस्ति। अन्यत्र विथुरं - हीनं, यथा पत्नी वियुक्ता भर्त्रा (ऋ. १.८७.३) भवति, अविथुरा - अवियुक्ता (१.८७.१), विथुराणि शिथिलानि तृणानि (१.१६८.६), विथुराणि हीनानि शवांसि (६.२५.३), व्यथितानि बाधितानि (६.४६.६), विथुरं न शवः - हीनं (१.१८६.२) इत्यादि कृतमस्ति। लक्ष्मीनारायणसंहितायां ३.७.४० प्राणायामवत्सरे दृढध्रुव-पुत्रस्य थुरानन्दस्य कथा अस्ति। थुरानन्दः असुराणामेव प्रियमस्ति। अयं संभवमस्ति यत् विथुरः धुरा-रहितः, अक्षरहितः आनन्दः भवेत्। यदि आनन्दः अक्षस्य अनुदिशं व्यवस्थितं भवेत्, तर्हि अयं प्रबलः भविष्यति, यथा आधुनिकविज्ञानानुसारेण चुम्बकस्य बलं भवति। उणादिकोश १.३९ अनुसारेण व्यथेः सम्प्रसारणम् धः किच्च। यथा - विधुरः।

अस्मिन् सूक्ते हृदयस्य द्वैधीभावस्य विस्तारमस्ति। लोके प्रसिद्धमस्ति यत् हृदयचक्रः द्वादशदलपद्मः अस्ति। तस्मिन् द्वादशदलपद्मे एकः अष्टदलकमलः निहितः अस्ति। सैव वृन्दावनं अस्ति। द्वैधीभावस्य व्याख्या केनापि भक्तजनेन स्थायी एवं संचारीभावरूपेण एवंप्रकारेण प्रस्तुता अस्ति -

दो भाव होते है स्थायी और संचारी । संचारी भाव आविर्भूत होकर कार्य करके तिरोहित हो जाता है । अर्थात् किसी विशेष समय आया और चला गया , कुछ देर पहले भाव जगत में रो लिए , फिर संसार में हो गए , यें संचारी है । संचारी भाव रसास्वादन नहीँ हो सकता , रस पीया नहीँ जाता । परन्तु स्थायी भाव में रसास्वादन करना सम्भव है । संचारी भाव भावदेह प्राप्त करने के पहले भी जीव हृदय में कार्य करता रहता है , परन्तु वह बिजशक्तिसम्पन्न नहीँ होता , इसलिए उसमें फलोद्गम की सम्भावना नहीँ होती । वास्तविक भक्त वही है , जो भाव की संचारी अवस्था से स्थायी अवस्था में पहुँच सकता है । और स्थायी भाव के लिए ही भक्तगण नाम और मन्त्रसाधन करते है ।