← सूक्तं ७.११२ अथर्ववेदः - काण्डं ७
सूक्तं ७.११३(७.१०८)
भृगुः।
सूक्तं ७.११४ →
दे. अग्निः। बृहतीगर्भा त्रिष्टुप्, २ त्रिष्टुप्।

यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।
प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥
यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः ।
वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥