← सूक्तं ७.११४ अथर्ववेदः - काण्डं ७
सूक्तं ७.११५ (७.११०)
भृगुः
सूक्तं ७.११६ →
दे. इन्द्राग्नी। १ गायत्री, २ त्रिष्टुप् , ३ अनुष्टुप्।

अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति ।
उभा हि वृत्रहन्तमा ॥१॥
याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा ।
प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥
उप त्वा देवो अग्रभीच्चमसेन बृहस्पतिः ।
इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥