← सूक्तं ७.१२२ अथर्ववेदः - काण्डं ७
सूक्तं ७.१२३(७.११८)
ऋषिः - अथर्वाङ्गिराः
दे. चन्द्रमाः, वरुणः, देवः। त्रिष्टुप्।

मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१॥