← सूक्तं ९.१० अथर्ववेदः - काण्डं ९
सूक्तं ९.११
ब्रह्मा
सूक्तं ९.१२ →
दे. अतिथिः, विद्या। १ आसुरी गायत्री, - - - -

यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥१।४९॥
यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥२।५०॥
यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥३।५१॥
तेषां न कश्चनाहोता ॥४।५२॥
यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५।५३॥
यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥६।५४॥
स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥७।५५॥
स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥८।५६॥
स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥९।५७॥
स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥१०।५८॥
स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥११।५९॥
स उपहूत उपहूतः ॥१२।६०॥
आप्नोतीमं लोकमाप्नोत्यमुम् ॥१३।६१॥
ज्योतिष्मतो लोकान् जयति य एवं वेद ॥१४।६२॥ {२०}