अद्भुतसागरः - भागः १
अद्भुतसागरः ।
निःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितः ।
झोपाभिध-
ज्यौतिषाचार्यपण्डित-
श्री-
मुरलीधरशर्मणा संशोधितः ।
स च
काश्यां
प्राभाकरी-यन्त्रालये
तदधिपतिद्वारा मुद्रयित्वा प्राकाश्यं नीतः ।
सं. १९६२.
(सर्वेऽस्याधिकाराः प्रकाशकायत्तीकृताः)
Tele. Chowkhamba Series, Varanasi
THE CHOWKHAMBA SANSKRIT SERIES OFFICE
Foreien Book-Sellece & Publishers
THE
ADBHUTASAGARA
BY
VALLALA SENA DEVA
EDITED
BY
PANDITA MURALI DHARA JHA JYAUTISHACHARYA.
(All rights reserved)
PRINTED & PUBLISHED
BY
THE PRABHAKARI & Co.BENARES CANTT.
1905.
Registered Under Sec. 18, & 19 of Aet XXV of 1867.
The Adbhutasagara of Vallala Sena Deva (and his son Lakshmana sena who completed the work left unfinished by his father) treats of the same Subject, but is richer in matter, more systematic in its treatment, and its bearings are more suited to the needs of the modern times.
That my author had the suitability of his subject matter to the requirements of his times if not ours, particularly in view, will appear from his rejection of many particulars treated of at length in the Brihatsamhita, as useless; his enlarging upon other parts with quotations from Garga, Vasishtha, Parasara and others; and his introduction of new matter from Vasantaraja (on Sakuna Sastra), Susruta (on medical science ), Salihotra and Pilukacharya (on Veterinary), Vyasa and Valmiki.
My Professor in his Ganaka Tarangini mentions this interesting and wonderful production of Vallala Sena and regrets that he could not procure a complete copy of it. And well might he regret, for during the Mahomedan period this book seems to have been all but lost.
The Sanskrit College copy of it is only a confused mass of scattered leaves that has defied all attempts to arrange it into a connected whole.
After three years of laborious search, at the request of the Prabhakari Company, I came by seven incomplete MSS, some consisting of pages at the beginning, some, of those, at the end; and others, of different parts of the middle of the book.
I then set myself to the task of arranging the scattered parts into a complete whole, a task difficult in itself; and rendered doubly so by imperfect and incorrect readings; so that I at first thought of giving it to the press in parts that I could make out of the Confused mass. Two years of perseverence and hard labour have at last been rewarded with complete success. The parts have, as if by magic, arranged themselves into a connected whole-and here is the ADBHUTASAGARA at last.( 4 )
I have carefully compared all the quotations from different authors with the original texts.
Some of the quotations from the Valmikiya Ramayana, the Srimadbhagavata and the Mahabharata, differ in wording, if not in sense, from the original texts, while there are others that I could not find in the books referred to. I have added my remarks on such quotations and references in foot notes.
उपलभ्यमानायामपि तस्यां (बृहत्संहितायां) तथा सर्वथा ग्रन्थकाराभिप्रायप्रकाशः सुमनोमनोनभसि पूर्वमपकृष्टभाषारचितया टीकया मुद्रितया नाभूद्यथा जगद्गुरुवर-महामहोपाध्याय-पण्डित-श्रीमत्-सुधाकर-द्विवेदिचरणानासाद्य परम्परातो बहुवर्णविकलया शकलितया चातिप्रयासतः सुवर्णसकलीभूयं मुद्रितया श्रीमद् भट्टोत्पल-विवृतया संप्रति द्योत्यते ।
सत्यामपि तस्यां सविवृतिबृहत्संहितायां द्योऽन्तरिक्षभूमीराश्रित्य बहवोऽद्भुतरूपा उत्पातास्तादृशा येषां नामग्राहमपि चर्चा नास्त्येव तत्र (बृहत्संहितायां) सन्त्यथो अनेके तादृशा विषयाः के चन यथार्थे गणितविद्भिरेवावगन्तुं क्षमा अपरे च कति चन समयविरहात् तत्तद्वस्त्वनुपयो गाद्धान्यपलालायिताः । एवं विषयंविघटनान्यालोच्य मिथिला-महीमहेन्द्रो निःशङ्कशङ्कर-श्रीमद्-वल्लालसेनदेवोऽनेकेभ्यः श्रुतिस्मृतिपुराणेतिहासज्यौ-तिषधर्मशास्त्र-चरक सुश्रुत-शांकुनिक-वसन्तराज-प्रभृतिग्रन्थेभ्यः सामयिकोपयोगिविविधोत्पातादिविषयजातसारान् संगृह्याद्भुतसागरमभिधानानुरूपं सर्वविद्वज्जनमनोमोदनं संलक्षितविषयावर्त्तकम-समाप्यैव संसारमसारमवगम्य समुद्दण्डभुजदण्डमण्डितं भूमण्डलं सकलभूपाललक्षणलक्षितायात्मतनयाय श्रीमल्लक्ष्मण[१]सेनदेवाय समर्प्य पत्न्या सह निर्जरपुरातिथ्यं मुदोरीचकार ।
अद्भुतसागरे
विषयानुक्रमणिका ।
|
|
अद्भुतसागरे
|
|
विषयानुक्रमणिका ।
|
|
अद्भुतसागरे
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
विषयानुक्रमणिका।
|
|
अद्भुतसागरे।
|
|
अद्भुतसागरे शुद्धिपत्रम्।
|
|
अद्भुतसागरे।
|
|
शुद्धिपत्रम्।
|
|
अद्भुतसागरे।
|
|
अथ
मिथिलामहीमहेन्द्रनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवसम्पादितोऽयम्।
अद्भुतसागरः ।
आवृत्तानागतातीतसूक्ष्मसाक्षात्प्रदर्शनम्
परं ज्योतिरिवानन्तं ज्यौतिषं तदुपास्महे ॥
नृपकोटिकिरीटरोचिरंशुस्नपनप्रांशुनखांशुमञ्जरीकैः ।
'चरणैर्धरणीं प्रसाधयन्तो वि'[७]यदोजोऽधिकमासतेन्दुवंश्याः ॥
भुजातेजस्तेषामियमसहमानेव वसुधा
द्विधा भावं-भावं नवशकलभावं गतवती ।
यशोलेपानां तद्विलसितमहो नेयमभवद्-
विदीर्णब्रह्माण्डस्थविरपिठरीकर्परपुटः ॥
भुवः काञ्चीलीलाचतुरचतुरम्भोधिलहरी-
परीताया भर्त्ताऽजनि विजयसेनः शशिकुले ।
यदीयैरद्यापि प्रचितभुजतेजःसहचरै-
र्यशोभिः शोभन्ते परिधिपरिणीता इव दिशः ॥
वेदायनैकपथिकः ककुभां भुजङ्गः संग्रामरङ्ग इव जङ्गमतामुपेतः ।
चेतोमहौषधिनेवेशवशाहितश्रीर्वल्लालसेन इति भूमिपतिस्ततोऽभूत् ॥
किं लक्ष्म्या तुलयामि कातरशतं पान्त्या नृणां तं सुरं
लक्षाप्याजिविचुम्बितां स सकलां धत्ते सुदोस्सम्पदम् ।
यस्याङ्घ्रिः पतिभैक्ष्यकाकुविलुठद्विद्वेषिनारीशिरः-
सिन्दूरोत्करमुद्रितो जनलिपिर्निर्मुक्तियन्त्रं द्विषाम् ॥
मन्दारोदयसेवितोऽपिन गिरिभ्रान्त्याऽतिभूतः क्व चिद्
व्यक्तग्राहविचेष्टितोऽपि विततो नक्षत्रवीथीबलैः ।
आपत्राणपरायणक्षितिभृतां तुङ्गैरनङ्गीकृतः
सर्वत्राद्भुतसागरोऽवनिभृता तेनायमारभ्यते ॥
मीमांसालयमांसलस्मृतिपरामर्षप्रकर्षस्फुरद्-
वेदाङ्गागमतत्त्वनिस्तुषमतिर्निःशङ्कपृथ्वीपतिम् ।
युक्तायुक्तनिरूपणप्रणयिनं प्रीत्या महीनाथनं
वंशोत्तंसमहार्घरत्ननिलयश्रीः श्रीनिवासं व्यधात् ॥
ज्योतिर्विदार्यवचनानि विचर्यतेषां तात्पर्यपर्यवसितो ग्रन्थानानुपूर्व्या ।
विप्रप्रसादवसादबुद्धिर्निःशङ्कशङ्करनृपः कुरुते प्रयत्नम् ॥
ग्रन्थेऽत्र वृद्धगर्गगर्गपराशरवशिष्ठगार्गीयान् ।
बार्हस्पत्यबृहस्पतिकठश्रुतिब्रह्मसिद्धान्तान् ॥
आथर्वणाद्भुताशितषट्त्रिंशद्ब्राह्मर्षिकृतीः ।
गार्गीयमतौशनसे कालावलिसूर्यसिद्धान्तौ ॥
विन्ध्यवासि-वदरायणोशनःशालिहोत्रविधुगुप्त[८]सुश्रुतान् ।
पीलुकार्यनृपपुत्रदेवलान् भार्गवीय बिजवायकाश्यपान् ॥
नारदमयूरचित्रे चरकं यवनेश्वरस्य मतम् ।
निखिलं वराहमिहिराचार्यग्रन्थं वसन्तराजकृतिम् ॥
मार्कण्डेयपुराणं स्कान्दं भागवतमाद्यमाग्नेयम् ।
पाद्मं मत्स्यपुराणं रामायणभारताख्याने ॥
हरिवंशविष्णुधर्मोत्तरे निबन्धं चरिष्यमाणं च ।
वचनं तेषां सारान् बहुशोऽथान्वीक्ष्य सोऽद्राक्षीत् ॥
विषमपदत्वाच्छतशो विरुद्धवचनार्थभेदपरिशुद्धिः ।
पुनरुक्तिलिखनतोऽस्मिन् बहुशो बहुसम्मतिर्ग्राह्या ॥.
अद्भुतलक्षणमद्भुतविषयविवेकोत्पत्तिहेतुम् ।
अभिधायादावद्भुतफलपाकस्थाननिर्देशम् ॥
दिव्याश्रयेऽत्र रविशशिराहुमहीनन्दनेन्दुतनयानाम् ।
सुरगुरुभार्गवभानुजकेतुध्रुवकुम्भसम्भवाद्यानाम् ॥
ग्रहयुद्धाकृतियोगाद्यादित्याद्यब्दवत्सरर्क्षाणाम् ।
अद्भुतशान्तीर्वक्ष्यत्यावर्त्तैः पञ्चदशभिः सः ॥
प्रतिरविपरिधिसुरधनुर्भादण्डाकाशनगराणाम्
निर्घातसन्ध्ययोर्दिग्दाहच्छायान्धकारधूमानाम् ॥
रेणोर्नीहारोलका विद्युन्मरुदभ्रजलदगर्भाणाम् ।
वृष्ट्यतिवृष्टिकबन्धप्रभृतीनामद्भुतानि सह शान्त्या ॥
नाभसमाश्रयमध्यममभिधाताऽष्टादशावर्त्तैः ।
पतिभैक्ष्यकाकुविलुठद्वैरिवधूवाष्पधौताङ्घ्रिः ।।
भूकम्पजलाशययोर्वह्नेर्दीपसुरशक्तकेतूनाम् ।
क्षितिरुहलताफलकुसुमशस्यान्नव्यञ्जनादीनाम् ॥
गेहोपस्करवस्त्रोपानच्छयनासनास्त्रनगराणाम् ।
दिव्यस्त्रीनरदर्शनमानुषपिटकोदयादीनाम् ॥
स्वप्नै करिष्टदन्तप्राणिप्रसवादिसकलशकुनानाम् ।
नानामृगविहगादेर्गजस्य तुरगस्य वृषभस्य ॥
मूषिकशत्रोः शरमासमुद्भवानां शृगालस्य ।
पल्ल्याः पिपीलिकायाः खञ्जनकस्याथ पोतक्याः ॥
एवं मेचकपेचकध्वाङ्क्षाणां चाद्भुतानि सह शान्त्या ।
भौमाश्रयमभिवक्ता त्र्यधिकैः षट्त्रिंशदावर्त्तैः ॥
अथ दिव्यदिव्यनाभसनाभसभौमान्तरिक्षभौमाख्यान् ।
दिव्यान्तरिक्षभौमाभिधानसौमिश्रकोत्पातान् ।
आवर्त्तैरभिधाता मिश्रकमध्याश्रयं षड्भिः ॥
शाके नवाष्टखेन्द्वा-१०८९ ख्य आरेभेऽद्भुतसागरम् ॥
गौडेन्द्रकुञ्जरालानस्तम्भबाहुर्महीपतिः ।
ग्रन्थेऽस्मिन्नसमाप्त एव तनये साम्राज्यलक्ष्मी मुदा
दीक्षापर्वणि दक्षिणे निजकृतेर्निष्पत्तिमस्थापयत् ।
मानादानतिलाम्बुसंवलनभं सूर्यात्मजासङ्गमं
गङ्गायां विरचय्य निर्जरपुरं भार्यानुयातो गतः ॥
श्रीमल्लक्ष्मणसेनभूपतिरतिश्लाघ्यो यदुद्योगतो
निष्पन्नोऽद्भुतसागरः कृतिरसौ वल्लालभूमीभुजः ।
ख्यातः केवलमर्णवः सगरजस्तातस्य तत्पूरण-
प्रावीण्येन भगीरथेन भुवनेष्वद्यापि विद्योतते ॥
अथाद्भुतनिरूपणम् । तत्र बृद्धगर्गः ।
अभूतपूर्वं यत् पूर्वं यत् पूर्वं जायतेऽन्यथा ।
तदद्भुतमिति प्रोक्तं नैमित्तं स्यान्निमित्तजम् ॥
एवं बार्हस्पत्येऽपि । अभूतपूर्वे यल्लोकस्य पूर्वे भवति पूर्वे च यदन्यथा भवति तदद्भुतममिति | तत् द्विविधम् । नैमित्तमनैमित्तं च। केतूदयादिना निमित्तेन यदद्भुतं जायते तन्नैमित्तम् । तच्छुभाशुभसूचकम् । इतरदनैमित्तम् । तच्च द्विविधम् । शुभसूचकमशुभसूचकं च । यदशुभसूचकं सा उत्पातः ।
यदुक्तं बाईस्पत्ये ।
प्राग्विनाशाय संप्रोक्को यो श्रोत्पात इति स्मृतः उद्वेगकारि मर्त्त्यानां यदप्रीतिविवर्धनम् ॥
अहितत्वादनिष्टत्वाच्छब्दाः पर्यायवाचकाः ।
अतोऽन्यान्यप्यशुभसूचकान्युत्पातेष्वन्तर्भवन्ति । अत "एव य: प्रकृतिविपर्यासः प्रायः संक्षेपतः"-इहं वटकणिकायां वराहेण प्रायः शब्दः प्रयुक्त इति।
अथोत्पात विवेकः तत्र पराशरः ।
प्रकृतेर्भूतविकृतप्रादुर्भावाँश्चोत्पातमाचक्षते । तेषां द्यौरन्तरिक्षं भूरेताश्चाश्रयः पञ्चमहाभूतानि योनिः ।
अतो गर्गः ।
वटकणिकायाम् ।
आथर्वणाद्भुते ।
प्रकृतिविरुद्धमद्भुतमपीदं : शकुप्रबाधाय देवाः सृजन्ति- इति
अथोत्पातोत्पत्तिकारणम् । मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
“पुरुषापचारान्नियतमपरज्यन्ति देवताः ।
ततोऽपरागाद्देवानामुपसर्गः प्रवर्त्तते"[९]॥
गर्गसंहितायां बार्हस्पत्ये च ।
अतिलोभादसत्याद्वा नास्तिक्याद्वाऽप्यधर्मतः ।
नरापचारान्नियतमुपसर्गः प्रजायते ॥
ततोऽपचारान्नियतमपरज्यन्ति देवताः ।
ताः सृजन्त्यद्भुतान् भावान् दिव्यनाभसभूमिजान् ॥
त एव त्रिविधा लोके उत्पाता देवनिर्मिताः ।
विचरन्ति विनाशय रूपैः सम्बोधयन्ति च ॥
येषु शान्तिं प्रकुर्वन्ति न ते यान्ति पराभवम् ।
ये तु न प्रतिकुर्वन्ति क्रियया श्रद्धयाऽन्विताः ॥
नास्तिक्याद्वा विमोहाद्वा विनशन्त्येव तेऽचिरात् ।
अथ त्रिविधाद्भुतविवेकः। मत्स्यपुराणविष्णुपुराणधर्मोत्तरयोः ।
गर्गसंहितागार्गीयबार्हस्पत्येषु च ।
भौमाद्भुतस्य भूगोळोत्पन्नत्वात् सकलभूगोलगामिफलसूचकत्वप्रशकौ विशेष उक्तः । तवैकदेशिकमिति । यस्मिन् यस्याधिकारस्तत्रोत्पन्नं तस्यैव शुभाशुभसूचकमित्यर्थः ।
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
वराहसंहितायाम् ।
तथा च काश्यपः ।
बार्हस्पत्ये तु।
गोदोहश्च शिवाय तनभूमौ कर्त्तव्यः ।
तथा च गार्गीयवराहसंहितयोः ।
भार्गवीये तु ।
अल्पफलदिव्योत्पाते च कोटिहोमाशक्तावमृताख्या महाशान्ति: कर्तव्या।
यदुक्तं गार्गीये ।
बार्हस्पत्येऽथर्वस्मृतौ च ।
विष्णुधर्मोत्तरे ।
सन्निहित[१२] पुण्यनक्षत्रप्राप्तौ [१३] पुण्याभिषेको वा कर्त्तव्यः ।
तथा च वराहसंहितायाम् ।
अथाद्भुतानां फलपाकस्थाननिर्देश:। तत्र पराशरः ।
नृपनृपतिसुतराज्ञीकोषलोकपुरपुरोहितवाहनेष्वतेषां फलमतिनिवर्त्तते ।
मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।
नृपादिपरं स्वाम्यादिपरं माण्डलिकगृहस्थादीनामपि फलदर्शनात् ।
तथा च गर्गः ।
देवस्याष्टत्वाद्दैवम् ।
अथोत्पातफलपाकस्थानं वटकणिकायाम् ।
ननूक्ततफलस्याद्भुतस्य कथमशुभाशुभत्वमवगन्तव्यम् । अवगतेऽनुष्ठानमुच्यते ।
तदभावे पुनरेषां न फलं ज्ञेयमिति ।
अथात्र फलगै,रवात् प्रथमं दिव्याद्भुतोक्तेः प्राधान्यदोषदादित्याद्भुतान्येवाभिधीयन्ते ।
शुभसूचकादिकलक्षणमाह पराशरः ।
रविर्महान् परिमण्डलः कुक्षिमान् विपुलो घृतमण्डनिभः क्षेमारोग्यकरः सुवर्णरजतपद्मप्रभो विमलः स्निग्धो जगद्विताय ।
वराहसंहितायाम् ।
अमलवपुरवऋमण्डलः स्फटिकविपुलामलदीर्घदीधितिः ।
अविकृततनुर्वर्णचिह्नभृजगति करोति शिवं दिवाकरः ॥
येषामयं स्वामी तेषु विशेषण शुभकरः । विपरीतो विशेषेण विपरीतकरः ।
रविस्वामिकान्याह यवनेश्वरः ।
नृपाटवोशैलसुवर्णताम्रसिंहानलव्याडविषौर्णिकानाम्।
हिंसोग्रवाग्द्रव्यवदुष्णरूक्षद्रव्याकराणां प्रभुरुच्यतेऽर्कः ॥
कश्यपस्तु ।
प्रागर्धं नर्मदायाश्च शोणाः शबरमागधाः |
भद्रा[१४] बङ्गाः कलिङ्गाश्च बाह्लीका यवनाः शकाः ॥
काम्बोजा मेकलाः सुह्माः प्राग्ज्योतिषकिरातकाः ।
चीनाः सर्वे सशैलेयाः पार्वता बहिरन्तजाः ॥
यमुनादक्षिणं कलं कौशाम्ब्यौदुम्बराणि च ।
विन्ध्याटवी च पुण्ड्राश्च वर्धमानं च पर्वताः ॥
श्रीपर्वतश्चेदिपुरं गोलाङ्गुलकमेव च ।
इक्षुमत्याश्रिता ये च जनाः शूरा मदोत्कटाः ॥
गौडमिति द्रष्टव्यं वराहसंहितायाम् ।
गर्गः ।
[१७]स्वमन्यथा हन्ति नित्यं निजनाशं करोति च ।
नृपाणां भयदोऽपि स्यादवृष्टिभयकारकः ॥
स्वतः कृतोऽमात्यकृतो वा नाशो निजनाशः ।
तथा च वराहसंहितायाम् ।
उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितः ।
यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः ॥
स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः ।
स भवति शुभस्तेषां येषां प्रभुः परिकीर्त्तितः ॥
अतिविहितविपरीतलक्षणक्षयमुपगच्छति तत्परिग्रहः ।
डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः ॥
यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यतो वा ।
भवति जनपदस्य चाऽप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥
अथ प्रकृत्यादिविवेकः ।
तत्र स्वकालिककपिशवर्णरश्मियोगिन्यगणितागतप्रमाणोपायादिस्थानयोगित्वाखण्डलत्वचिह्नादिका प्रकृतिः । प्रकृतिवैपरीत्यं विकृतिः । स्निग्धनिर्मलत्वगणितागतविम्बप्रमाणाधिक्यस्फुटविमलामलदीर्घरश्मिजालादयो गुणाः । एतस्माद्विपरीता दोषाः । प्रकृतिर्गुणदोषरहिता शुभफला। गुणवती अतिबहुला । अशुभफला दोषवती ।विकृतिर्गुणदोषरहिताऽशुभफला। दोषवती। बहुशुभफला । तत्र विकृतिप्रकृतिगुणदोषसंख्याबलाबलमाकलय्य
शुभाशुभ फलव्यवस्था कर्त्तव्या ।
अथायनसमये रवे: शुभलक्षणम् । तत्र गर्गपराशरौ ।
अयने सुप्रभः स्निग्धः सेवते यदि भास्करः ।
अयने इति कर्मपदम् । एवं च ये ये अयने सेवते इत्यर्थः ।
अयनक्रमो वराहसंहितायाम् ।
तथा च काश्यपः ।
तादृशमयनं कदाचिच्छास्त्रत एवासीन्न तूत्पातात् ।
पूर्ववचनाच्छ्रविष्ठामिति धनिष्ठाद्यपरम् । आश्लेषामिति आश्लेषार्धपरम् ।
पराशरश्च ।
यद्यप्राप्तौ वैष्णवमुदग्मार्गं प्रतिपद्यते दक्षिणमाश्लेषां वा
महाभयाय ।
अत्रापि वैष्णवं वैष्णवान्तम् । आश्लेषाऽऽश्लेषार्धमिति ।
वराहेण तु विरुद्धं लिखितम् ।
प्रत्यक्षपरीक्षणोपायश्च तेनैवोक्तः ।
तथा च वृद्धगार्ग्यः ।
अनिवृत्ते समे वाऽपि निवृत्तः शस्यते रविः ।
वराहेण तूत्तरायणमात्र एवैतदुक्तम् ।
तद्यथा ।
पराशरश्च ।
तथा च स्वकालिकमृतुक्रममाह पराशरः ।
तस्य श्रविष्ठाद्यात् पौष्णान्तं चरतः शिशिरः । वसन्तः पौष्णार्धाद्रोहिण्यन्तम् । सौम्यात् सार्पर्धं ग्रीष्मः । प्रावृद् सार्पाद्याद्धस्तान्तम् । चित्राद्यादिन्द्रार्धं शरत् । हेमन्तो ज्येष्ठार्धाद्वैष्णवान्तमिति ।
तस्येति सवितुरिति सम्बन्ध: । वराहकालिकऋतुक्रमस्तु पञ्चसिद्धान्तिकायाम् ।
उदगयनमकरादावृतवः शिशिरादयश्च सूर्यवशात् ।
द्विभवनकालसमाना दक्षिणमयनं च कर्कटकात् ॥
द्वौ द्वौ राशी मकरादृतवः षट् सूर्यगतिवशाद्ग्राह्याः।
शिशिरवसन्तग्रीष्मवर्षाशरदः सहेमन्ताः ॥
इदानीं पुनरयनमक्रमेण व्यवस्थोच्यते ।
धनुषों विंशत्यंशात् षष्टांशकभोगसंमिता ऋतवः ।
शिशिराद्याः षट् क्रमशः सम्प्रत्ययनक्रमेण रवेः ।।
अथ वर्णफलम् । तत्र पराशरः ।
शिशिरे ताम्रः कपिलो वा । वसन्ते कौङ्कुमो वा हरितः ।
ग्रीष्मे कपिलवैडूर्यः । प्रावृषि सर्ववर्णः । शरदि पद्माभः । हेमन्ते
लोहितः । सर्वर्तुश्वेतः पाण्डुवर्णश्च प्रशस्यते । विपरीतो विपरीतकरः ।
अत्र गर्गसम्मतिरप्यस्ति । वृद्धगर्गेण तु कार्त्तिकादिसंवत्सरं त्रिधा विभज्य ऋतुत्रयं प्रदर्श्य तद्वर्णफलं कात्तिकमासद्विकं चोक्तम्।
तद्यथा ।
हेमन्तग्रीष्मवर्षासु रक्तः पीतः सितः शुभः ।
कार्त्तिके मार्गशीर्षे तु रक्तः सूर्यः प्रदृश्यते ॥
पौषे माघे यदा सूर्यो भवेन्माञ्जिष्ठसन्निभः ।
फाल्गुने चैव चैत्रे च लाक्षारुधिरसन्निभः ॥
वैशाखे च तथा ज्येष्ठे गौरः स्यादर्कमण्डलः ।
आषाढे श्रावणे चैव रक्ताभः सुमहद्युतिः ॥
प्रौष्ठपद्यामाश्वयुजे वैडूर्यहरितो रविः ।
स्वरूपमेतन्मासेषु वर्णाश्चोक्ता विवस्वतः ॥
स्वरूपे क्षेममारोग्यं विपरीते विपर्ययः ।
अशुभवर्णफलं वराहसंहितायाम् ।
ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् ।
हेमन्ते पोतोऽर्कः करोति न चिरेण रोगभयम् ॥
हितकृद्विप्रादीनां स्निग्धसितरक्तपीतकृष्णोऽर्कः ।
रूक्षस्तद्भयकारी विकारमन्यं गतो यदि वा ॥
पराशरः ।
रविर्विवर्णो भूरिवर्णोऽन्नाभावाय । श्यावो जनमरणाय । धूमाभो वृष्टिनिग्रहाय । ताम्रो रुधिराभो वा शस्त्रकोपं करोति । कृष्णवर्णो जगतः क्षयाय । व्यामिश्रवर्णो यावत् स दृश्यते तावत् परस्परविनाशाय । कृष्णरुधिरवर्णो जगत्क्षयकरः । वैडूर्यकृष्णबभ्रुवर्णः पांशुव*[१८]र्णोत्सादकरः ।
वराहसंहितायाम् ।
रुधिरनिभो वियत्यवनिपान्तकरो न चिरात् ।
परुषरजोऽरुणीकृततनुर्यदि वा दिनकृत् ॥
असितविचित्रनीलपरुषो जनघातकरः ।
खगमृगभैरवस्वररुतैश्च निशाद्यमुखे ॥
वियति दशमे मध्याह्न इत्यर्थः । निशाद्यमुखे उदयास्तमयोरसितादिषर्णो जनधातकर इति ।
वृद्धगर्गः ।
उदये नीलवर्णोऽर्को मृत्युरोगकरो भवेत् ।
दुर्भिक्षं कृष्णकपिलः कृष्णादीनां च वर्धनः॥
कृष्णादीनामिति चौरादीनाम् ।
तथा ।
वैडूर्यवर्णः सलिलं रक्तशस्त्रमुदीरयेत् ।
परुषः कोपयेदृस्यून् धर्षणं चारुणप्रभः ॥
ताम्रो वस्त्रभयं कुर्यादग्निवर्णोऽग्निजं भयम् ।
स्मृतो धूमावृतो रूक्षो विरश्मिर्वृष्टिहा रविः ।।
उदयमिति सर्वत्र सम्बध्यते। उदय एव गर्गेणापि वर्णस्याग्निमयकरत्वप्रतिपादनात् ।
तथा च तद्वाक्यम् ।
उदयेऽग्निशिखाप्रख्यः कुर्यादग्निमयं रविः।
दृष्ट्वा तं रुधिरप्रख्यं संग्राममभिनिर्दिशेत् ॥
वराहसंहितायाम् ।
*श्यावेऽर्के[१९] । कीटभयं भस्मनिभो भयमुशन्ति परचक्रात् ।
बृद्धगर्गः ।
श्यावे नीले च दुर्भिक्षं रजतार्चिःप्रभेऽशुभम् ।
पीताभे च महाव्याधिः कृष्णे मृत्युभयं भवेत् ॥
अनावृष्टिर्ध्रुवा तत्र षड्भिर्मासैर्न संशयः ।
पराशरः ।
मयूरचन्द्रिकाभो द्वादशवार्षिकीमनावृष्टिं विधत्ते ।
गर्गश्च।
मयूरचन्द्रिकाभो वा यदा भवति भास्करः ।
पूर्णे तु द्वादशे वर्षे तदा वर्षति वासवः॥
विष्णुधर्मोत्तरवराहसंहितयोरप्येवम् । इदं चाशुभवर्णफलाभिधानमृतुस्वभावव्यतिरिक्तवर्णपरम् ।
वराहसंहितायाम् ।
ऊर्ध्वं करोति दिनकृत् ताम्रः सेनापतिं विनाशयति ।
पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति ॥
ऊर्धकरो दिवसकर इत्युत्पले विलिख्य व्याख्यातम् ।
चित्रोऽथ वाऽपि धूम्रो रविरश्मिर्व्याकुलीकरो[२०]त्युर्वीम् ।
तस्करशस्त्रनिपातैर्यदि न सलिलमाशु पातयति ॥
पराशरः ।
रविरश्मयो रूक्षा विच्छिन्नास्तनवो ह्रस्वा धूम्राभा लोहिता विवर्णा गर्हिताः । स च निष्प्रभो जनमारकरः ।
अस्यार्थः । सप्रभो रविस्तस्य रश्मयो रौक्षादिदोषयुक्ता विगर्हिताः । तथाविधेषु रश्मिषु निष्प्रभो रविर्जनमारकर इति ।
तथा चोत्तरकाण्डे इन्द्रपराजयनिमित्तम् ।
"भास्करो निष्प्रभश्चैव”*[२१] ।
वनपर्वणि भीमपराजयनिमित्तम् ।
"निष्प्रभश्चाभवत् सूर्यश्छन्नरश्मिस्तमोवृतः”[२२]– इति ।
मध्याह्नव्यतिरेकेणैतत् ।
अथ तामसकीलकादिफलम् । वराहसंहितायाम् ।
तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
वर्णस्थानाकारैस्तान् दृष्ट्वाऽर्के फलं ब्रूयात् ॥
गर्गः ।
कृष्णाभाः कृष्णपर्यन्ताः संकुलाः कृष्णरश्मयः ।
राहुपुत्रास्त्रयस्त्रिंशत् कीलकाश्चातिदारुणाः ॥
वराहसंहितायाम् ।
ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ॥
[२३]तेषामुदये रूपाण्यम्भःकलुषं [२४]रजःकृतं व्योम ॥
तरुनगशिखरामर्दी सशर्करो मारुतश्चण्डः ।
ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः ॥
निर्घातमहीकम्पादयो भवन्त्यत्र चोत्पाताः ।
म पृथक् फलानि तेषां शिखकीलकराहुदर्शनं यदि च ॥
तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात् ।
यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यविम्बस्थाः ।
तस्मिन् तस्मिन् व्यसनं महीपतीनां*[२५]न संदेहः ।
क्षुत्प्रम्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः ॥
निर्मासबालहस्ताः कृच्छ्रेण हि यान्ति परदेशम् ।
तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः ॥
सन्तः सन्नशरीराः शोकोद्भववाष्परुद्धदृशः ।
क्षामाजुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः ॥
स्वनृपतिचरितं कर्म न पुराकृतं प्रब्रुवन्त्यन्ये ।
गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ॥
सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते शस्यम् ।
अथ तेषां विशेषफलं गार्गीये ।
ध्वाङ्क्षो वा कृष्णशङ्कुर्वा कबन्धो वाऽर्कमण्डले ।
दृश्यते यत्र तत्राशु भूमिपालो विनश्यति ॥
आग्नेयपुराणे हिरण्यकशिपुवधनिमित्तम् ।
पूर्वापरासु सन्ध्यासु कबन्धो दृश्यते रवौ ।
मौशलपर्वणि वृष्णिवंशक्षयनिमित्तम् ।
गार्गीये ।
अनोधनुःक्षेत्ररूपा नृपवित्तक्षयावहाः ।
अनः शकट: । तद्रूपाः धनुःक्षेत्ररूपाश्च ।
वराहसंहितायाम्।
दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात् कबन्धसंस्थाने ।
ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे।।
तथा ।
कीलकदण्डकबन्धध्वाङ्घायुधपीठसन्निभाः सूर्ये ।
दुर्भिक्षनृपभयव्याधिचौरयुद्धान्यराज्याय ॥
गार्ग्यऽपि ।
[२८]*श्वशृगालाश्वकीलानां तथा धूमकबन्धयोः ।
दर्शनं सूर्यविम्बे चेद्विनाशो भूपतेस्तदा ॥
वृद्धगार्ग्यः ।
शृगालान् गर्दभातश्वाँस्तथाऽन्यान्मृगपक्षिणः ।
आदित्यमण्डले दृष्ट्वा । देशभङ्गं विनिर्दिशेत् ॥
क्रव्यादमृगपक्षिदर्शने तु गर्गः ।
मण्डलाभ्यन्तरस्थैश्च ऋव्यादमृगपक्षिभिः |
परचक्रागमो वाच्यः प्रजानाशस्तथैव च ॥
अहस्करे पताकादीन् प्रासादाँस्तोरणानि च ।
सन्ध्ययोरुभयोः पश्येन्महदुत्पद्यते भयम् ॥
वराहसंहितायाम् ।
राजोपकरणवर्णच्छत्रध्वजचामरादिभिर्विद्धः ।
राजान्यत्वकुदर्कः स्फुलिङ्गधूमादिभिर्जनहा ॥
वटकणिकायाम् ।
ज्वालास्फुलिङ्गधूमै जनक्षयः-इति ।
हरिवंश मत्स्यपुराणपद्मपुराणेषु हिरण्यकशिपुवधनिमित्तम् ।
“अमुञ्चच्चासितां सूर्यो। धूमवर्त्ती महाभयाम्" [२९] ।
वराहसंहितायाम्
एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय ।
सितरक्तपीतकृष्णैस्तैर्विद्धोऽर्कोऽनुवर्णघ्नः ॥
उक्तादन्यस्थान एको दुर्भिक्षकर: । उक्तसंस्थानोऽनुक्तसंस्थानो वा ह्यादिर्नृपविनाशाय । अनुक्रमेण वर्णान् ब्राह्मणादीन् हन्तीत्यनुवर्णघ्नः ।
तथा ।
दृश्यन्ते च यतस्ते रविविम्बस्योत्थिता महोत्पाताः ।
आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥
अथ संस्थानफलम् । तत्र गर्गः ।
खण्डो वा कृष्णवर्णो वा ह्रस्वः पिङ्गलकोऽपि वा ।
आदित्यो दृश्यते यत्र राज्ञो मृत्युं विनिर्दिशेत् ॥
पिङ्गलक इति कृष्णमेचकाकृतिः ।
वृद्धगर्गः ।
खण्डो वा [३०]कृष्णरेखा वा मुण्डः पिङ्गलकोऽपि वा ।
देशविभ्रममादित्यो राजमृत्युं च सूचयेत् ॥
एतत्फलं रूक्षे रवौ वक्तव्यम् ।
यथा वराहः ।
खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः ।
यस्मिन् देशे रूक्षश्चार्कस्तस्याभावः प्रायो राज्ञः ॥
पराशरः ।
मुण्डाकार उलूकसंस्थान उन्मादापस्मारकृत् ।
वृद्धगर्गः ।
विरुक्षेण भवेत् क्षेमः स्थालीपिठरसन्निभे ।
अनावृष्टिश्च वैरं च संक्षिप्ते सूर्यमण्डले ॥
रूक्षोऽरुणोऽञ्जनश्यामः सूर्यो वा ह्रस्वमण्डलः।
रूक्षोऽरुणो ह्रस्वमण्डल इत्येकनिमित्तम् । रूक्षोऽञ्जनश्यामो ह्रस्वमण्डल इत्यपरम् ।
तथा।
निष्प्रभे धूम्रवर्णेऽर्के सर्वतो जायते भयम् ।
गर्गः ।
अतिरूक्षे भयं ब्रूयात् स्थालीपिठरसन्निभे ।
संक्षोभात् क्षीयते लोको दुर्भिक्षं वज्रसन्निभे ॥
वराहसंहितायाम् ।
क्षुन्मारकृद्घटनिभः खण्डो नृपहा विदीधितिर्भयदः ।
तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥
ध्वजचापनिभे युद्धानि भास्करे वेपनेऽतिरुक्षे च ।
पराशरस्तु ।
तोरणसंस्थानः पुरनाशाय । छत्राकारो देशविपर्याय शकटाकारे च । शरासनाकृति*[३१] र्वज्राभो वा सद्य आहवाय । परुषो वेपनः शस्यनाशनः ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"द्विधाभूत इवादित्य उदये प्रत्यदृश्यत"[३२] ।
वृद्धगर्गः ।
आदित्यमण्डलं छिन्नं द्विधा वा यदि वा त्रिधा ।
तद्राजमरणं ब्रूयाद्दण्डो वा यदि दृश्यते ॥
पराशरः ।
विलग्नाकृतिर्गर्भविनाशनाय । ऊर्ध्वदण्डो जटिलः शस्त्रको पदयाधिकरः । संक्षिप्तः क्षयाय । वज्राकारो दुर्भिक्षयाय । परुषाकारो रुधिरप्रभोऽनेकनृपतिसहस्राच्छादनकरः ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः”[३३] ।
मयूरचित्रे ।
विष्णैरिव चादित्यस्त्रिकूट इव लक्ष्यते ।
जनमाराग्निशस्त्राद्यं घोरमुत्पद्यते भयम् ॥
विष्णुधर्मोत्तरे ।
द्विसूर्ये गगने युद्धं क्षत्रियाणां विनिर्दिशेत् ।
द्विचन्द्रे ब्राह्मणाधिक्यमाधिक्यं प्रलयाय च ॥
वराहसंहितायाम् ।
दिवि भाति यदा तुहिनांशुयुगं द्विजवृद्धिरतीव तदाऽऽशु शुभम् ।
तदनन्तरवर्णरणोऽर्कयुगे जगतः प्रलयस्त्रिचतुष्प्रभृति ॥
आग्नेयपुराणे रावणशक्रयुद्धे शक्रपराजयनिमित्तम् ।
सप्त चैवोत्थिताः सूर्याः शोषयन्तो रसातलम् ।
मात्स्यपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।
सप्तधूमनिभा घोराः सूर्याः दिवि समुत्थिताः ।
गर्गः ।
दृष्टाः सूर्यास्तु चत्वार उदिताः सर्वतो दिशम् ।
शस्त्रेण जनमारेण तद्युगान्तस्य लक्षणम् ॥
भार्गवीयेऽप्येतदुक्तम् ।
वृद्धगर्गस्तु ।
दृष्ट्वा त्रिचतुरः सूर्यानुदितान् सर्वतो दिशम् ।
शस्त्रेण निधतं तत्र तद्युगान्तस्य लक्षणम् ॥
अथोदयास्ताद्भुतफलम् । तत्राहिमकिरण इत्यनुवृत्तौ वराहसंहितायाम् ।
रक्तोऽस्तमेति रक्तोदितश्च नृपतिं करोत्यन्यम् ।
समस्तदिन एव रक्तोऽन्यं नृपं करोति । अन्यं परं शत्रुमिति यावत् ।
वृद्धगर्गः ।
उच्चैरुदयते रूक्षो विरश्मिस्तु प्रकाशते ।
उच्चैरस्तमयं कुर्यान्महाभयकरः स्मृतः ॥
हेमन्तव्यतिरेकेणोच्चैरुदयास्तसमयोः फलमेतत् । वराहसंहितायाम् ।
भानोरुदयेऽपि दिवाऽस्तमये गन्धर्वपुरप्रतिमाध्वजिनी ।
विम्बं निरुणद्धि तदा नृपतेः प्राप्तं सनरं सभयं प्रवदेत् ॥
भार्गवीयें ।
आदित्यस्य रथः श्वेतः सन्ध्यायां यदि दृश्यते ।
प्रत्यासन्नं भयं विद्यात् तस्मिन्नुत्पातदर्शने ॥
गर्गः ।
आदित्ये सरथा सेना सन्ध्याकाले यदा भवेत् ।
प्रत्यासन्नं विजानीयाद्भूमिपस्य पराजयम् ॥
पराशरः ।
अर्कमण्डले रथसेनातपत्रादिदर्शनं नृपनाशाय ।
सन्ध्याव्यतिरेकेणाप्येतत् फलम् ।
गर्गः ।
आदित्यस्य रथं दृष्ट्वा भ्रमन्तं वामदक्षिणे ।
देशस्य विप्लवं ब्रूयात् तस्मिन्नुत्पातदर्शने ॥
इत्येवं सन्ध्याव्यतिरेकेणापि ।
अत्रानुक्तविशेषशान्तिः ।
आदित्योत्पातेषु प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या। आदित्योत्पाते च विशेषेणादित्यः पूजनीयः ।
एवदुक्तमाथर्वणाद्भुते ।
सूर्यस्योदयकाले तु विकृतिर्यत्र दृश्यते ।
मण्डले तत्समीपे वा रश्मीनां वा विपर्ययः ॥
विकारस्तु यदा तेषां सूर्यः पूज्योऽत्र देवताः ।
इत्यविहितविशेषशान्तय आदित्योत्पाताः ।
अथ विहितविशेषशान्तय आदित्योत्पाता मयूरचित्रे ।
शशशोणितवर्णेऽर्के युद्धं रुधिरकर्दमम् ।
शशशोणितवर्णाभो यदा भवति भास्करः ।
तदा भवन्ति संग्रामा घोरा रुधिरकर्दमाः ॥
मध्याह्ने शशशोणितवर्णे सूर्ये बहवो घोरा: संग्रामाः । अन्यदा त्वेक एवेति वचनद्वयसामञ्जस्यम् ।
तथा च वराहसंहितायाम् ।
शशरुधिरनिभे भानौ नभःस्थलस्थे भवन्ति संग्रामाः ।
शशिसदृशे नृपतिवधः क्षिप्रं चाग्यो नृपो भवति ॥
नमः स्थलस्थे दशमस्थे मध्याह्न इत्यर्थ: । शशिसदृशश्च मध्याह्न एव ।
यथाऽऽह वृद्धगर्गः ।
कांस्यपात्रीनिभः सूर्यः शशाङ्क इव लक्ष्यते ।
विरश्मिर्नभसो मध्ये महद्भयकरः स्मृतः ॥
राज्ञो देशस्य च नाशो महद्भयम् ।
तथा च मयूरचित्रे ।
आदर्श इव दृष्टश्च राज्ञो देशस्य चान्तकृत् ।
तत्रैव ।
आदर्श इव सूर्ये च जनदेशभयं वदेत् ।
गर्गः ।
उदयास्तमये भानौ कबन्धसदृशे भयम् ।
अन्यसमये च पराशरः ।
कबन्धाकृतिर्महासंग्रामकृत् ।
स्कन्दपुराणे तु तारकवधनिमित्तम् ।
दृश्यते च कबन्धाभो भास्करोऽपि तदा भृशम् ।
मयूरचित्रे तु ।
कबन्धसदृशे सूर्ये शस्त्रपातभयानि च ।
सेनापतेर्वधश्चैव भयं तद्देशभूपतेः ॥
विपरीताश्च धर्मिष्ठा जायन्ते निर्धनाः प्रजाः ।
गोब्राह्मणहितं कुर्यात् पुण्यं भूतसुखावहम् ।
त्रिरात्रोपोषितो भूत्वा हविष्याशो पुरोहितः ॥
अपामार्गस्य जुहुयात् समिधोऽष्टोत्तरं शतम् ।
अच्छिन्नदर्विकां कृत्वा ब्राह्मणान् भोजयेत् तदा ॥
पायसं कुशरं चैव यथाकाममतन्द्रितः ।
सुवर्णं रजतं कांस्यं दद्याद्भूरि च दक्षिणाम् ॥
इति प्रथमशान्तिः ।
मयूरचित्रे ।
शङ्खगोक्षीरवर्णे च सूर्ये युद्धं सुदुष्करम् ।
कृष्णा रेखा रवैर्मध्ये भयाय मरणाय च ॥
'कृष्णरेखो रविर्देशविभ्रमराजमृत्युसूचकः'-इति वृद्धगर्गेणोक्तम् । तद्वचनं च प्रागेव लिखितमिति ।
वराहसंहितायां तु ।
कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं सचिवम् ।
अल्पत्वेन नृपं सचिवमिति पाठो दर्शितः । नृपं हन्ति सचिवं च हन्ति इति तद्व्याख्याम् ।
मयूरचित्रे।
युवराजवधश्छिद्रे वधो माण्डलिकस्य च ।
रविविम्बस्थबुधाच्छादनकृतच्छिद्रस्य युवराजवधः फलम् । बुधस्य कुमारत्वात् ।
अधःस्थभार्गवकृतरविच्छिद्रस्य मण्डलेश्वरसचिववधः फलम्। भार्गवस्य सचिवत्वात्।
शङ्खगोक्षीरवर्णादिषु शान्तिर्मयूरचित्रे ।
रवेः पूजोत्सवं कृत्वा जुहुयात् समिधां ततः ।
अर्कस्याथ घृताक्तानामाकृष्णेनेति मन्त्रतः ॥
द्वादशैव सहस्राणि त्वष्टाभिरधिकानि च ।
प्रथमां वा द्वितीयां वा तेषु शान्तिं प्रयोजयेत् ॥
मयूरचित्रे ।
व्योममध्यगतं पश्येद्यदि सूर्यद्वयं नरः ।
चौरव्याघ्रभयावृष्टिदुर्भिक्षं राष्ट्रविद्रवः ।
दधिमधुघृताक्तानां जुयादयुतं शुचिः ।
उपोष्यार्कस्य समिधां धेनुं दद्याद्द्विजातये ॥
इति सप्तमीशान्तिः ।
नारदः ।
आकाशस्थो यदा भानुरुदित्वा न प्रकाशते ।
व्याघ्रचौरभयं चैव दुर्भिक्षं राष्ट्रविद्रवः ॥
एतदपि मध्याह्न एव न प्रकाशते तथाविधप्रकाशयुक्तो न भवति ।
इमा रुद्रायेति मन्त्रैर्जुहुयात् सर्पिषा हुतिम् ।
आहुतेर्द्वे सहस्रे तु होमश्च कथितो भवेत् ॥
[३४]वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
इति विहितविशेषशान्तय आदित्योत्पाता:। अत्रानुक्तफलपाकसमयानां सूर्याद्भुतानां पक्षेण फलपाको बोद्धव्यः ।
तथा च गार्गीये ।
पक्षाद्विपाकः सूर्यस्य इति ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लासेनदेववनरचितेऽद्भुतसागरे सूर्याद्भुतावर्त्तः ।
अथ चन्द्राद्भुतावर्त्तः ।
तत्र शुभसूचकचन्द्रलक्षणमाह पराशर: ।
चन्द्रमाः स्निग्धप्रसन्नो रश्मिवान् श्वेतःक्षेमसुभिक्षवृष्टिकरः ।
तथा वराहसंहितायाम् ।
यदि कुमुदमृडालहारगौरस्तिथिनियमात् क्षयमेति वर्धते वा ।
अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥
स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गश्चोदग्विचरन् नागवीथ्याम् ।
दृष्टः सौम्यैरशुभैर्विप्रयुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ॥
अत्रैव समागमे नागवीथीं वक्ष्यामः । येषामयं स्वामी तेषामेवम्भूतो विशेषेणाभ्युददयाय । विपरीतो विशेषेण विपरीताय ।
चन्द्रस्वामिकान्याह यवनेश्वरः ।
स्त्रीचित्तनिद्रारतिभक्ष्यपेयःशीतद्रवस्वादुरसौषधीनाम्
स्रग्वस्त्रभूषामणिमौक्तिकानां प्रभुः शशाङ्गो लवणाम्बुजानाम् ॥
काश्यपश्च ।
पर्वता जलदुर्गाश्च कोशलाः पुङ्गणा हलाः ।
स्त्रीराज्यं [३५]तरु[३६] कर्काद्यास्तुषारा वनवासिनः ॥
मौक्तिका मणिशङ्खाब्जमौषधीः कुसुमं फलम् ।
द्वीपा महार्णवीयाश्च मधुरा लवणादयः ॥
गोधूमाः शालयः शृङ्गिकर्षकाश्च यवा अपि ।
सोमपब्राह्मणानां च याज्ञिकास्तुरगा रसः ॥
स्त्रीसौभाग्यविविक्तानि हास्यलास्येक्षितानि च ।
एतेषामधिपश्चन्द्रो हृष्टानां च प्रकीर्त्तितः ॥
वराहसंहितायाम् ।
गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुषाराः ।
वनवासितङ्गणहलस्त्रीराज्यमहार्णवद्वीपाः ॥
मधुररसकुसुमफललवणसलिलमणिशङ्गमौक्तिकाब्जानाम् ।
शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥
सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्य[३७]विप्राणाम् ।
शृङ्गिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥
अथाशुभसूचकचन्द्रलक्षणम् ।
पराशरः ।
खण्डः स्फटितो विवर्णो। वेपनोऽशशाङ्कश्चन्द्रमाः प्रजानाशाय राज्योपप्लवाय च
इति ।
अशशाङ्क इति लक्ष्मरहितः ।
भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।
"अलक्ष्य प्रभया हीनः पौर्णमासीं न कार्त्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले"[३८] ॥
वराहसंहितायाम् ।
भस्मनिभः परुषोऽरुणमूर्त्तिः शीतकरः किरणैः परिहीनः ।
श्यावतनुः स्फुटितः स्फुरणो वःक्षुड्डमरामयश्चौरभयाय ॥
डमर उपप्लवः ।
बृद्धगर्ग:
विलग्नमध्यो नीलाभो वज्रसंस्थानसंस्थितः ।
मध्यच्छिद्रो विलीनाभो भयं कारयते महत् ॥
अथ वर्णफलं भार्गवीये ।
शुक्ले शरीरे सोमस्य ब्रह्मवृद्धिं विनिर्दिशेत् ।
गर्गस्तु ।
शुक्लः स्निग्धः प्रसन्नश्च क्षेमवर्षकरः शशी ।
वृद्धगर्गस्तु ।
दधिशङ्खसवर्णस्तु मुक्ताराशिनिभोऽमलः ।
भ्राजिष्णुरतिसुस्निग्धः क्षेमारोग्यकरः शशी ॥
गर्गः ।
पाण्डुवर्णैः शशी मध्ये सुभिक्षक्षेमकारकः ।
गार्गीयेऽपि ।
सुवर्णाभो वस्त्रवृद्धिः ।
हरिवंशे हिरण्यकशिपुवधनिमित्तम् ।
"विवर्णत्वं च भगवान् गतो निशि निशाकरः” [३९] ।
पराशरः ।
भस्मारुणवह्निताम्रपीतपाण्डुनीलरूक्षवर्णैः क्षुद्वैरकरः ।
मञ्जिष्ठारुणवर्णो वा ज्वरं तीव्रं निवेदयेत ।
वृद्धगर्गसंहियां गार्गीये च ।
लोहिते कुप्यते शस्त्रं दुर्भिक्षं चोपजायते ।
कपिले कृप्यति त्वग्निरक्षिरोगश्च जायते ॥
कृष्णवर्णो गवां हर्त्ता दुर्भिक्षस्य च कारकः ।
नानाविधैर्व्याधिभिश्च तदा संपीडयते प्रजा ॥
हरितः सर्वशस्यानामुपद्रवकरः स्मृतः ।
वृद्धगर्ग: ।
हरितोऽपीतये विद्यात् पशूनां चाप्युपद्रम्
तत्रैव ।
कृष्णे शरोरे सोमस्य शूद्राणां वधमादिशेत् ।
पीते शरीरे सोमस्य वैश्यानां वधमादिशेत् ||
रक्त शरीरे सोमस्य राज्ञां च वधमादिशेत् ।
राज्ञां क्षत्रियाणाम् ।
वृद्धगर्गः ।
नीले श्यामे च शशिनि रुक्षे धूमतमोवृते ।
अनावृष्टिभयं रोगानग्निवातं विनिर्दिशेत् ।।
पिण्डितस्तस्कराकर्षी [४०]रसोऽन्नार्घकरो भवेत् ।
पिण्डितो घनः ।
अथोच्चनीचस्थानोदितचन्द्रफलम् । तत्र वृद्धगर्गः ।
उच्चैः सुभिक्षं नीचैस्तु सोमे दुर्भिक्षलक्षणम् ।
अथ प्रथमोदितचन्द्रस्य नीलमेघाद्यावरणफलम् । तत्र वृद्धगर्गः ।
यदा सोमः प्रतिपदि नीलैराच्छाद्यते धनैः ।
"अन्यर्त्तुकाले यात्रायां मरणं तत्र निर्दिशेत् ॥
अन्यर्त्तुकाल इति प्रावृट्कालादन्यत्रेति ।
तथा ।
यदा सोमः प्रतिपदि रजसा तमसाऽथ वा ।
आवृतः प्रतिदृश्येत भयं तत्र समादिशेत् ॥
प्रतिपद्ग्रहणं प्रथमदर्शनोपलक्षणम् ।
इति चन्द्र कुष्ठादिशरोरलक्षणम् ।
अथ गणितागतप्रमाणादधिकन्यूनप्रमाणफलम् । वराहसंहितायाम् ।
ज्ञेयो विशालमूर्त्तिर्नरपतिलक्ष्मीविवृद्धये चन्द्रः ।
वृद्धगर्गः ।
विशालः श्रीकरो भूमेः राज्ञश्चैव जयावहः ।
सुवृष्टिः सुषमा चैव ब्रह्मवृद्धिस्तथोत्तरा ॥
विशाल: प्रस्तारायामाभ्यो बृहत्प्रमाणः ।
वराहसंहितायाम् ।
स्थूलः सुभिक्षकारी प्रियधान्यकरस्तु तनुमूर्त्तिः ।
स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः ॥
प्रियधान्यकर इति महार्घकर ।
अथ संस्थानि तत्र नौसंस्थानमाह वृद्धगर्गः ।
ईषन्मात्रोद्यतं शृङ्गं विशालः कुक्षिमान् स च ।
शशी तत् खलु नौस्थानं क्षेमसौभिक्षकारकम् ॥
उभयमेव शृङ्गं यदा किञ्चिदुन्नतं भवति तदा नौस्थानं भवति ।
तथा च पराशरः ।
नाभ्युच्छ्रितोभयं शृङ्गं कुक्षिमान् विशालो नौस्थानम् ।
नातिमात्रोन्नतः पीनो विशालः शुभमण्डलः |
शुक्लः स्निग्धो यदा चन्द्रो नौस्थानं तदिहोच्यते ॥
तत्र सर्वस्य लोकस्य सुखं स्यादुत्तरोत्तरम् ।
नाविकानां भवेत् पीडा नौस्थानं शशिनि स्थिते ॥
शुभमण्डलः शोभनं छायामण्डलं यस्येति ।
भार्गवीये ।
स्निग्धः पीनः सुवर्णाभः पक्षादौ यदि चन्द्रमाः ।
नौस्थायी संप्रदृश्येत[४१]वस्त्रवृद्धिं विनिर्दिशेत् ll
अथ लाङ्गलम् । तत्र पराशरः ।
ईषदुन्नतोत्तरशृङ्गो लाङ्गलसंस्थानम् । तत् सुभिक्षक्षेमकारकम् ।
गार्गीये तु ।
[४२]नीचं स्याद्दक्षिणं श्रृङ्गं चन्द्रस्योन्नतमुत्तरम् ।
तत् स्थानं लाङ्गलं नाम क्षेमारोग्यसुभिक्षकृत् ॥
राज्ञां प्रीतिर्निर्निमित्तं पीडा लाङ्गलजीविनाम् ।
उन्नतमित्यर्धोन्नतम् ।
तथा xxxxहतायाम् ।
अर्धोन्नते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन् ।
प्रीतिश्च निर्निमित्तं मतुजपतीनां सुभिक्षं च ॥
वृद्धगर्गस्तु ।
उत्तरं शृङ्गमुद्यम्य नीचं यद्यस्य दक्षिणम् ।
कुरुतें लाङ्गलस्थानं चन्द्रमाः शुभदर्शनम् ॥
तस्मिन् क्षेमं सुभिक्षं च स्थाने भवति लाङ्गले ।
अनामयं प्रजानां च राज्ञां च विजयो भवेत् ॥
पूर्वाणामुत्तराणां च विनिर्देश्यस्तदा जयः ।
[४३]बहुक्षत्रविवृद्धिं च दिशं हन्याच्च दक्षिणाम् ॥
भार्गवीये ।
रूप्याभो लाङ्गलस्थायी श्रीमान् संलक्ष्य मण्डलः ।
पक्षादौ यदि दृश्येत ब्रह्मक्षत्रसुखावहः ॥
वृद्धगर्गस्तु ।
रूप्याभो लाङ्गलस्थायी ब्रह्मक्षत्रसुखावहः ।
कुङ्कुमाभो मरणदो हरिद्राभस्तथैव च ॥
यत् तु ।
लाङ्गली ग्रसते लोकान् युगान्तं प्रतिपादयेत् ।
इति भार्गवीयवाक्यं तद्दुष्टलाङ्गलपरम् ।
गर्गः ।
यदा सोमः प्रतिपदि नौस्थायी संप्रदृश्यते ।
उत्तरोज्ज्वलशृङ्गो वा लाङ्गली वा मनोहरः ॥
क्षेमं सुभिक्षमारोग्यं सर्वभूतेषु निर्दिशेत् ।
राज्ञां च विजयं ब्रुयाद्वर्धन्ते शृङ्गणस्तथा ॥
अथ मृदङ्गः । वराहसंहितायाम् ।
चन्द्रो मृदङ्गरूपः क्षेमतुभिक्षावहो भवति ।
मृदङ्गरूपो मध्ये मृदङ्गवत् स्थूल:।
यथा । चन्द्रशुभलक्षणे गर्गः ।
मृदङ्गमध्यः सोमो वा सौम्यायां चेन्नतो दिशि
अथाशुभसंस्थानानि तत्र दुष्टलाङ्गलमाह गार्ग्यः ।
दक्षिणं चोन्नतं शृङ्गं न्यूनं तस्य तथोत्तरम् ।
दुष्टलाङ्गलसंस्थानं प्रजाक्षयकरं स्मृतम् ॥
उन्नतमिति अर्धोन्नतमित्यर्थः ।
तथा च पराशरः ।
अर्धोन्नतदक्षिणोन्नतशृङ्गो दुष्टलाङ्गलः पुरसैन्योद्योगनाशकृत्-इति ।
पुरसैन्ययोरुद्योगनाशः ।
तथा च वराहसंहितायाम् ।
दक्षिणविषाणमर्धोन्नतं यदा दुष्टलाङ्गलाख्यं तत् ।
[४४]पाण्डानरेश्वरनिधनकृदुद्योगकरं बलानां च ॥
गार्गीये ।
नीचमुत्तरशृङ्गं स्याद्दक्षिणं चोन्नतं यदि ।
सैन्योद्वेगकरं स्थानं तदिन्दोर्दुष्टलाङ्गलम् ॥
पाण्ड्यस्य नृपतेर्मृत्युं कुर्याच्चन्द्रस्तथोदितः ।
वृद्धगर्गः ।
दक्षिणं शृङ्गमुद्यम्य नीचमस्य तथोत्तरम् ।
सेनोद्योगकरं स्थानं कुरुते दुष्टलाङ्गलम् ॥
दक्षिणाः पश्चिमाश्चैव विजयन्ते तथास्थिते ।
वैश्यशूद्राभिवृद्धिश्च शस्त्रमृत्युश्च जायते ॥
बाह्लीकयवनायोध्याँस्तुषाराँश्च समालवान् ।
शूरसेनाँश्च निर्हन्ति चन्द्रश्चैव तथोत्थितः ॥
अथ धनुर्गार्गीये ।
धनूरूपे चन्द्रमसि युद्धं सर्वत्र जायते ।
ज्यायतस्तु जयस्तेषां पृष्ठतस्तु पराजयः ॥
ज्यौतिषपराशरवराहसंहिताद्वयेऽपि चैवम् ।
गर्गवृद्धगर्गौ ।
उदये च यदा सोमो दृश्यो धनुरिवोदितः ।
धनुर्धराणामुद्योगो जगतश्च पराभवः ॥
क्षत्रिया क्षत्रियान् हन्ति वर्णाश्चैव तथाऽपरे ।
ज्यायतश्च जयस्तेषा पृष्ठतश्च पराजयः ॥
भार्गवीचे तु ।
लाक्षारुधिरवर्णाभो धनुःस्थायी यदा भवेत् ।
संग्रामं योजयेत् सोमो लोके च तुमुलं भयम् ॥
वराहसंहितायाम् ।
धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो
बलोद्योगं चन्द्रः कथयति जयं ज्याऽस्य च यतः ।
अथावाङ्मुखम् । तत्र गर्गः ।
अधोमुखं यदा शृङ्गं शशिनो दृश्यते तदा ।
संस्थानवर्जितकरे गोघ्नं दुर्भिक्षदायकम् ॥
शृङ्गमित्येकवचन निर्देशादेकं शृङ्गम् ।
तथा च वराहसंहितायाम् ।
अभ्युच्छ्रायादेकं शशिनो यद्यवाङ्मुखं भवेच्छृङ्गम् ।
आवर्जितमित्यसुभिक्षकारि तद्गोधनस्यापि ॥
पराशरस्तु ।
क्षुच्छस्त्रभयदोऽवाक्शिराः । एतत्संस्थानश्चन्द्र उत्तरोशृङ्गोन्नतोऽप्येतत् फलं करोति। तथा व वराहसंहितायाम् ।
प्रोक्तस्थानाभावादुदगुच्चः [४५]शस्यवृद्धिवृष्टिकरः-इति ।
अन्यथा प्रोक्तस्थानाभावादित्यनर्थकं स्यात् ।
गार्गीये त्ववाक्शिरोलक्षणमन्यथा तद्यथा ।
दक्षिणेन स्थूलकायो हीनकायस्तथोत्तरे ।
अवाक्शिरसि चन्द्रेऽस्मिन्नचिरान्नक्षतिः क्षितिः ॥
भीष्मपर्वणि कुरुपाण्डवसेनाक्षयनिमित्तम् ।
अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः ।
अथ संकटं गार्गीये ।
तीक्ष्णसंकटशृङ्गाग्रो रोगशस्त्रक्षुधावहः ।
वृद्धगर्गस्तु ।
सगताभ्यां समाभ्यां च तीक्ष्णग्राभ्यां यदा शशी ।
दृश्यते संकटस्थानं रोगशस्त्रक्षुधाकरम् ॥
अथ कुण्डम् । तत्र गर्गः ।
अच्छिन्ना मण्डले रेखा शशिनो दृश्यते यदा ।
कुण्डाख्यं नाम तत् स्थानं नृपविग्रहदायकम् ॥
वराहसंहितायाम् ।
अव्युच्छिन्ना रेखा समं ततो मण्डले च कुण्डाख्यम् ।
तस्मिन् माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥
अथ दण्डः । तत्र पराशरः ।
दण्डवद्दण्डस्थायी दण्डकृत् प्रजानाम् ।
गर्गवृद्धगर्गौ तु ।
चन्द्ररेखा यदा चोर्ध्वा भवेद्दण्डवदायता ।
उदक्छृङ्गाधिका चैव दण्डस्थानं तदुच्यते ॥
वृद्धगर्गः ।
उद्युक्तदण्डा राजानो विनिघ्नन्ति समन्ततः ।
पौरं जनपदं चात्र ज्वरदाहश्च जायते ॥
गर्गस्तु ।
उद्युक्तदण्डा राजानो विमिहन्युः समन्ततः ।
गवां पीडां विजानीयाद्दण्डस्थायी यदा शशी ॥
गार्गीये तु ।
उदितो दण्डवच्चन्द्रो गवां पीडाकरः स्मृतः ।
उग्रदण्डाश्च राजानो विनिघ्नन्ति परस्परम् ॥
अथ वज्रः । वराहसंहितायाम् ।
मध्यतनुर्वज्राख्यः क्षुद्भयकृत् संभ्रमाय राज्ञां च ।
वृद्धगर्गः ।
राज्ञां भयमसौ तीक्ष्णं विदध्याद्वज्रविग्रहः ।
अथ युगम् । तत्र गर्गवृद्धगर्गौ ।
चन्द्ररेखा यदा व्यक्ता दक्षिणोत्तरमायता ।
शुक्लादौ प्रतिदृश्येत तद्युगस्थानलक्षणम् ॥
गर्गः।
सेनोद्योगा भवन्त्यत्र भूमिकम्पश्च जायते ।
पराशरस्तु
युगसंस्थानजगद्विद्रवभूकम्पाय ।
गागीये तु ।
सेनोद्योगो भवत्यत्र दुर्भिक्षं भूमिकम्पनम् ।
नानाविधैर्व्याधिभिश्च तदा संक्षीयते प्रजा ॥
अथ पार्श्वशयनम् । तत्र गर्गः ।
याम्यकोट्यायतः किञ्चिद्युगाकारो यदा शशी ।
पार्श्वशायीति स ज्ञेयः सार्थहा वृष्टिकारकः ॥
याम्यकोट्यायतः किञ्चिदिति याम्यकोट्या किञ्चिदुन्नतः ।
तथा वराहसंहितायाम् ।
युगमेव याम्यकोट्यां किञ्चित् तुङ्गं स पार्श्वशायीति ।
विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥
गार्गीये तु ।
किञ्चित् तुङ्गं याम्यकोट्यां युगमेव यदा भवेत् ।
अवृष्टिः पार्वतीयानां मरणं च तदा भवेत् ॥
भार्गवीये तु ।
पार्श्वशायी त विप्राणां भवेद्विघ्नसमन्वितः ।
वटकणिकायाम् ।
दण्डावाङ्मुखसंकटजर्जरकूटीकृतिर्न शुभः ।
जर्जर इति क्वचिन्निविडः क्वचिच्चानिविडः । कूटीकृति: फालाकृतिः ।
तत्रैव।
उदयत्रयमपि सदृशं न शुभं बहुरूपताऽथ चैकस्य ।
शुभमप्येकं स्थानं यदि निरन्तरमुदयत्रये भवति तदाऽप्यशुभम् । अशुभाभ्यन्तरमेवाशुभम् ।एकस्मिन्नेवोदयेऽनेकरूपताऽप्यशुभा ।
वराहसंहितायाम् ।
प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः ।
दक्षिणतुङ्गश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥
उत्तरायणस्थयो रविचन्द्रमसोः संयोगानन्तरमुदितस्य चन्द्रमसो दक्षिणशृङ्गोन्नतिरपि नाशुभाा । रवितश्चन्द्रस्योत्तरावर्जितत्वेन तस्या एव प्रकृतत्वात् । उत्तरशृङ्गोन्नतिरप्यशुभफला प्रकृतिविपरीतत्वात्।तथाचोत्तरशृङ्गोन्नतावुत्तरायणे दक्षिणायने च ।
दक्षिणशृङ्गोन्नतावशुभफलमुक्तं भार्गवीये ।
प्रथमे दर्शने त्विन्दोः समासाद्य यदा ग्रहम् ।
उत्तरं वर्धते शृङ्गं नीचीभवति दक्षिणम् ॥
एवमेव श्रविष्ठाद्यं आश्लेषाद्ये न चन्द्रमाः ।
उद्गच्छेद्दक्षिणं शृङ्गं नीचीभवति चोत्तरम् ॥
अत्र नश्येत राष्ट्रं च अन्तर्गिरि महागिरिः ।
विदर्भान् मद्रकाँश्वैव कौशिकान् द्राविडाँस्तथा ॥
अन्ध्राँश्चेव शकाँश्चैव भारताँश्चापि सर्वशः ।
सागराँस्तिरजाँश्चैव समुद्रे ये तु दक्षिणे ॥
एताञ्जनपदान् हन्ति यदि स्यादुत्तरोन्नतः ।
काश्मीरान् दरदान् दर्भान् शूरसेनान् पटच्चरान् ॥
शाल्वाँश्च विरजाँश्चैव समुद्रे ये च पश्चिमे।
एताञ्जनपदान् हन्ति यदा स्याद्दक्षिणोन्नतः ॥
समासाद्य यदा ग्रहमिति भूम्यावरणानन्तरितप्रथमदर्शनव्यावृत्त्यर्थम् ।
चन्द्रस्योदयसमये त्वयनरेखातः समोत्तरवर्त्तिनोः समदक्षिणवर्त्तिनोर्वा भिन्नायनस्थयोः सूर्याचन्द्रमसोः समशृङ्गता भवति तत्फलम् ।
वटकणिकायाम् ।
समः समः-इति ।
उदयदिनसमानि सुभिक्षादीनि तस्मिन् मासे करोतीति समः ।
तथा च गर्गः ।
समशृङ्गो यथा दृश्यः शशी क्षेमसुभिक्षदः ।
प्रतिपत्सदृशं तत्र वासवो वर्षते तदा ॥
प्रतिपत्सदृशमित्युभयत्र सम्बध्यते । प्रतिपत्सदृशक्षेमसुभिक्षदः शशी भवति वासवश्च प्रतिपत्सदृशं वर्षतीति ।
तथा च वराहसंहितायाम् ।
समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः ।
एकायनस्थयोस्तु रविचन्द्रमसोः समशृङ्गचन्द्रोदये विकृतिस्तत्फलमशुभमेष ।
तथा च पराशरः ।
समोभयशृङ्गः समस्थान इन्दुर्महाभयकृत् ।
वृद्धगर्गः ।
पीतकच्छन्नसंस्थाने एकशृङ्गे त्वशृङ्गके।
रोगदुर्भिक्षशस्त्राणि प्राणिनां च पराभवः ॥
पराशरः ।
अथैतानि शक्लप्रतिपदि द्वितीयायां वा लक्षणानि भवन्ति ।
भयमेति तथैक्ष्वाकुर्माया च सह मालवैः ॥
कार्पासतिलमुद्गानां शाखानां च महीरुहाम् ।
सुभिक्षं जायते तत्र उत्तरा बलवत्तराः ॥
पराशरः ।
ज्येष्ठे ज्येष्ठनृपनृपपत्नीगणमुख्यशस्योपद्रवाय ।
वृद्धगर्गस्तु ।
ज्येष्ठाः श्रेष्ठाश्च पीड्यन्ते ज्येष्ठ्यामुपगते ग्रहे ।
वराहसंहितायां तु ।
ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः
शस्यानि वृष्टिश्च महागणाश्च।
प्रध्वंसमायान्ति नराश्च सौम्या:
सान्त्वैः[४६] समेताश्च निषादसंज्ञाः॥
वृद्धगर्गस्तु ।
आषाढपौर्णमास्यां तु गृहीते रजनीकरे ।
क्वचिद्वर्षति पर्जन्यस्तथा शाल्वं निपातयेत् ॥
पराशरस्तु ।
शाल्वनिषादवृष्टिशस्यन्नमाषाढे ।
वराहसंहितायां तु ।
आषाढपर्वण्युदपानवप्रनदीप्रवाहान् फलमूलवर्त्तान् ।
गान्धारकाश्मीर पुलिन्दचीनान् हतान् वदेन्मण्डलवर्षमस्मिन् ॥
वृद्धगर्गः ।
श्रावण्यां पौर्णमास्यां तु गृहीते रजनीकरे ।
योगक्षेमविनाशश्च शस्यनाशश्च जायते ॥
पराशरस्तु ।
श्रावणे च क्षेममुभिक्षमन्यत्र चीनकाश्मीरपुलिन्दगान्धारेभ्यः ।
वराहसंहितायाम् ।
काश्मीरान् सपुलिन्दनीनयवनान् हन्यात् कुरुक्षेत्रजान्
गान्धारानपि मध्यदेशसहितान् दृष्टो ग्रहः श्रावणे ।
काम्बोजैकशफाँश्च शारदमपि त्यक्त्वा यथोक्तानिमा-
नन्यत्र प्रचुरान्नवृष्टिमनुजैर्धात्रीं करोत्यावृताम् ॥
वृद्धगर्गः ।
प्रौष्ठपदे गृहीते तु प्रावृड्भवति पुष्कला[४७] ।
क्षेमं तु बङ्गमगधकाश्मीरदरदान् प्रति ॥
पराशरस्तु ।
भाद्रपदे मगधदरदकलिङ्गबङ्गानपास्य शस्यक्षेमाय च ।
वराहसंहितायाम् ।
कलिङ्गबङ्गान् मगधान सुराष्ट्रान्
म्लेच्छान् सुवीरान् दरदान् शकाँश्च ।
स्त्रीणां च गर्भातसुरो निहन्ति
सुभिक्षकृद्भाद्रपदेऽभ्युपेतः ॥
वृद्धगर्गः ।
क्षेमं भवति शस्यं च गृहोतेऽश्वयुजि ग्रहे ।
अश्वग्रहणे सुभिक्षक्षेमायावन्तिवाह्लीकचीनकाम्बोजसैन्धवानामभावाय च ।
वराहसंहितायां तु ।
काम्बोजचोनयवनान् सह शल्यकृद्भि-
र्बाह्लीकसिन्धुतटवासिजनाँश्च हन्यात् ।
आनर्त्तपौण्ड्रभिषजश्च तथा किरातान्
दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षकृच्च ॥
पराशरः ।
कार्त्तिके सुभिक्षक्षेमारोग्याय काशिकोशलशूरसेनाभावाय च।
वराहसंहितायां तु ।
कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान्
कल्माषानथ शूरसेनसहितान् काशीं न संतापयेत् ।
हन्यादाशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो
दृष्टं क्षत्रियतापनं जनयति क्षेमं सुभिक्षान्वितम् ॥
वृद्धगर्गः ।
पौर्णमास्यां यदा चन्द्रः कार्त्तिक्यामुपरज्यते ।
पौण्ड्रान् कलिङ्गान् मत्स्याँश्च शूरसेनाँश्च पीडयेत् ॥
काश्यपः ।
कार्त्तिके कोशला गावः प्रधानाश्चाहिताग्नयः ।
वाधन्ते गणमुख्याश्च क्षत्रिया गोमिनस्तथा ॥
सुवृष्टिर्जायते चापि शस्यसम्पत् तथोत्तमा ।
प्राच्यां दिशि भयं ब्रूयात् क्षेममन्यत्र निर्दिशेत् ॥
पराशरस्तु ।
मार्गशीर्ष मृगपौण्ड्रसोमपभयाय वृष्टये च ।
वराहसंहितायां तु ।
काश्मीरकान् कोशलकान् सपौण्ड्रान् मृगाँश्च हन्यादपरान्तकाँश्च ।
ये सोमपास्ताँश्च निहन्ति सौम्ये सुदृष्टिकृत् क्षेमसुभिक्षकृच्च ॥
सौम्ये मार्गशीर्ष ।
वृद्धगर्गस्तु ।
मार्गशीर्षे गृहीते तु क्षेमं शस्यं च नश्यति ।
पौराश्च भयमृच्छन्ति मृगाश्च सह सोमपैः ॥
औशीनरान् काश्यपाँश्च ब्राह्मणाँश्च तपः स्पृशेत् |
ग्रीष्मे शस्यं च भवति शारदं चोपहन्यते ॥
पौषे भयदुर्भिक्षब्रह्मक्षत्रोपरोधाय ।
वराहसंहितायां तु ।
पौषे द्विजक्षत्रजनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः ।
ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिर्भयं च विन्द्यादसुभिक्षयुक्तम् ॥
वृद्धगर्गस्तु ।
पौर्णमास्यां यदा पौष्यामुपरज्येत चन्द्रमाः ।
कुरवश्च विदेहाश्च फलमश्नन्ति दारुणम् ॥
मन्दा वृष्टिर्भवत्यत्र श्रेष्ठो वर्णो विनश्यति ।
अनयान्मत्रिणश्चैव पोड्यन्ते नात्र संशयः ॥
पित्तज्वरोऽपि भवति श्रेष्ठः पञ्चत्वमृच्छति ।
महावला महाविद्याः पीडयन्ते पशुपवाहनाः॥
कुक्षिरोगोऽतिसारश्च ज्वररोगश्च वर्धते ।
पराशरः ।
माघे शस्त्रप्रकोपप्रावृड्वृद्धये बङ्गाङ्गानर्त्तवनकाशिदेशोत्सादनकृत्।
वराहसंहितायां तु ।
माघं तु मातृपितृभक्तवशिष्टगोत्रात्
स्वाध्यायधर्मनिरतान् करिणस्तुरङ्गात् ।
बङ्गान् सकाशिमनुजाँश्च दुनोति राहु-
र्वृष्टिं च कर्षकजनानुमतान् करोति ॥
पराशरः ।
फाल्गुनेऽन्नसम्पच्च ।
वृद्धगर्गस्तु ।
फाल्गुन्यां कुरवश्चैव स्त्रियश्च सुभगास्तथा ।
दाक्षिणात्याश्च राजानः पीडयन्ते नात्र संशयः ॥
पीडाकरं फाल्गुनमासिपर्व बङ्गाश्मकावन्तिकमेकलानाम् ।
नृत्यज्ञशस्यप्रवराङ्गनानां धनुर्धरक्षत्रतपस्विनां च ॥
पराशरः ।
नटनर्त्तक धनुर्धरशस्य विनाशाय चैत्रे ।
वृद्धगर्गस्तु ।
पौर्णमास्यां यदा चैत्र्यां चन्द्रमा गृह्यते तदा ।
शस्यानि च प्रणश्यन्ति क्षेमं च सह कारुभिः ॥
लेखकाँश्चित्रशिल्पाँश्च सुमहानामयः स्पृशेत् ।
वराहसंहितायां तु ।
चैत्रे तु चित्रकरलेखकगेयसक्तान्
रूपोपजीविनिगमज्ञहिरण्यपण्यान् ।
पौण्ड्रोड्रकंकयजनानथ वाऽश्मकाँश्च
तापः स्पृशत्यभरपोऽत्र च चित्रवर्षी ॥
वृद्धगर्गः ।
पौर्णमासीषु यत् सोमे फलमेतदुदाहृतम् ।
एतदेव भवेदर्के त्वमावास्याफलं त्विति ॥
अथ राशिफलं वराहसंहितायाम् ।
पाञ्चालकलिङ्गशूरसेनाः काम्बोजौड्र किरातशस्त्रवार्त्ताः ।
जीवन्तितुयेहुताशवृत्त्या तं पीडामुपयान्तिमेषसंस्थे ॥
गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः ।
ते पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽपि वा वृषे ॥
मिथुने प्रवराङ्गाना नृपा नृपमात्रा बलिनः कलाविदः
यमुनातटजाश्च बाह्लिका मत्स्याः सुह्मजनैः समन्विताः ॥
आभोरान् शवरान् सपह्लवान् मल्लान् मत्स्यकुरून् शकानपि
पाञ्चालान् विकलाँश्च पीडयेदन्नं चापि निहन्ति कर्कटे ॥
सिंहे पुलिन्दगणमेकलसिन्धुयुक्तान्[४८]
राजपोमान् नरपतीलन् वनगोचराँश्च ।
षष्ठे तु शस्यकविलेखकगेयसक्तान्
हन्त्यश्मकत्रिपुरशालियुताँश्च देशान् ॥
तुलाधरेऽवन्त्यपरान्त्यसाधून् वणिग्दशार्णान् मरुकच्छपाँश्च ।
अलिन्यथोदुम्बरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥
धन्विन्यमात्यवसुधाजि[४९] विदेहमल्लान्
पाञ्चालवैद्यवणिजो विषमायुधज्ञान् ।
हन्यान्मृगे तु झषमन्त्रिकुलानि नीचान्
मन्त्रौषधीषु कुशलान् स्थविरायुधीयान् ॥
कुम्भेऽन्तर्गिरिजात्यपश्चिमजनान्[५०] भारोद्वहाँस्तस्करान्
आभीरान् दरदार्यसिंहलजनान्[५१] हन्यात् तथा वर्वरान् ।
मीने सागरकूलसागरभवद्रव्याणि [५२]माल्यान् जनान्
प्रज्ञान् वार्युपजीविनः शुभकलं कूर्मोपदेशाद्वदेत् ॥
अथ नक्षत्रफलं वटकणिकायाम् ।
कूर्मविभागेन वदेत् पीडां देशस्य वीक्ष्य नक्षत्रम् ।
अश्विन्यामश्चानश्वजीविनश्च । याम्ये कलिङ्गात् दक्षिणाँश्चोपतापयति । कृत्तिकासुकलिङ्गमत्स्याधिपतीन् । रोहिण्यां क्षुच्छस्त्रकोपैः प्रजाः। मृगशिरसिशात्वनिषादकैकेयान् । रौद्रैशकान् कुकुरान् पल्व-
लोपजीविनश्च । पुनर्वसौ पाण्ड्यभरुकच्छकार्पासाँश्च । पुष्ये गोमन्तसिधुसौवीरकुरुपाञ्चालान् । सार्पेकाशिकलिङ्गसिंहलराजन्यान्। पित्र्ये दण्डकारण्यवासिनः पितृधान्यं च । भाग्येषु भगान् काम्बोजान् सुराष्ट्राधिपतिं च । आर्यम्णे मगधाङ्गयवनान् । हस्ते दशार्णान् । त्वाष्ट्रे मद्रान् कुरुक्षेत्रं च । वायव्ये काश्मीरोशीनरान् वाजिनश्च । विशाखयोर्वृक्षाश्मकान् । मैत्रे काशिकोशलान् । ज्येष्ठायां ज्येष्ठजातीयान् दरदाँश्च । मूले क्षुद्रकमालवयौधेयान् । आप्ये पञ्चनदान् सुवीराधिपतिं च । वैश्वदेवे आर्जुनायनपौण्ड्रशिविमालवान् । श्रवणे शाल्वानानर्त्तकाँश्च । वासवे धनिनः शकारण्यजाँ[५३]श्च । वारुणे कैकेयात् जलचराँश्च । आजे अङ्गबङ्गमगधकुकुरान् । आहिर्बुध्ने अश्मकेक्षुक्षुद्रकत्रिगर्त्तान् । पौष्णे वैदेहानर्त्तकसिन्धुसौवीरान् ।
ज्यौतिषपराशरविष्णुधर्मोत्तरयोः ।
ग्रहोपश्लिष्टे नक्षत्रं ग्रहणं तु यदा भवेत् ।
तदा पीडा विनिर्देश्या सैनिकानां नृपैः सह ॥
अथ दिक्फलं तत्र पराशरः ।
उदग्दक्षिणप्रत्यक ब्राह्मणक्षत्रिय विट्शूद्रोत्सादनायानुपूर्व्या ।
काश्यपः ।
सौम्यपार्श्वगते विप्रान् पूर्वस्यां क्षत्रजातयः ।
वैश्यान् दक्षिणतो राहुर्हन्ति पश्चिमतोऽपरान् ॥
वटकणिकायां तु ।
उदगादिषु दिक्षु शुभो विप्रादीनां सितादिवर्णघ्नः ।
काश्यपः ।
पूर्वे सलिलजान्[५४] हन्यात् पश्चाद्धन्यात् कृषीवलान् ।
याम्ये वरगजान् हन्ति सौम्ये गोनाशकृन्मतः ॥
तथा च वराहसंहितायाम् ।
पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः ।
पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥
सलिलवरदन्तिघाती याम्येनोदग्गवामशुभः ।
वटकणिकायाम् ।
विदिगादिगतो हन्याद्राहुम्लेंच्छान् सविजिगीषून् ।
वराहसंहितायाम् ।
म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद्भुताशसक्ताँश्च ।
अथ ग्रासविशेषो वराहसंहितायाम् ।
सव्यापसव्यलेहग्रहननिरोधावमर्दनारोहाः ।
आद्यन्तं मध्यतमस्तमोऽन्त्य इति ते दश ग्रासाः ॥
पराशरेणान्यथा दश ग्रासा दर्शितास्तद्यथा ।
देशोपद्रवा ग्रसनारोहणोपघ्राणोन्मर्दननिरोधपरिलेहनापसव्यसव्यान्तमध्यतमउपप्लवाश्च -इति ।
अत्रान्तमध्य इत्येकः । तमउप्लव इत्यपरः ।
अथैतेषां लक्षणानि फलं च । तत्र पराशरः ।
प्रदक्षिणं सव्यं प्रजाहिताय ।
भार्गवीये तु ।
प्रदक्षिणे तु सौमनस्यम् ।
वराहसंहितायां तु ।
सव्यं गते तमसि जगजलप्लुतं भवति मुदितमभयं च ।
पराशरः ।
अप्रदक्षिणमपसव्यं प्रजाभावाय ।
वराहसंहितायां तु ।
अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ।
पराशरः ।
समन्ताजिह्वयाऽभिलेहनं समानफलं पूंवर्णे इति । पूर्वेण निरोधेनेत्यर्थः । निरोधनान्तरस्याभिधानात् ।
वराहसंहितायां तु ।
जिह्वावलेढि परितस्तिमिरनुदो मण्डलं स यदि लेहः ।
प्रमुदितसमस्तभूप[५५]प्रभूततोया च तत्र मही ॥
पराशरः ।
अर्धत्रिभागपादग्रहणं ग्रसनप्रख्यातं नृपतिप्रच्युतये ।
वराहसंहितायाम् ।
ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथ वाऽप्यर्धम् ।
स्फीतनृपतिवित्तहानिः पीडा च स्फीतदेशानाम् ॥
तत्रैव।
पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् ।
स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥
पराशरेण त्वन्यथा निरोधोऽभिहितः ।
सर्वमण्डलधूमावरणं निरोधस्तदारोग्यक्षेमसुभिक्षलक्षणम्।
पराशरः ।
उन्मर्दनं चिरमर्केन्दुसकलमण्डलाक्रमणं प्रजाविद्रवकरम् ।
काश्यपस्तु ।
अवमर्दे पापमर्दात् स्वयं संक्षुभ्यते नृपः ।
वराहसंहितायाम् ।
अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् ।
हन्यात् प्रधानभूपान् प्रधानदेशाँश्च तिमिरमयः ॥
भार्गवीये ।
सर्वं संग्रह्य च ज्योतिश्चिरमन्तर्दधाति च ।
हन्ति स्फीतानि राष्ट्राणि प्रधानं च नराधिपम् ||
पराशरः ।
मण्डलमध्ये ग्रहणावर्त्तनमारोहणं नरपतिविक्षोभः प्रजानाशकरः ।
दाहज्वरः कुक्षिरोगो मरकश्चात्र जायते ॥
तदा न वर्षेत् पर्जन्योऽन्त्यजाञ्छूद्राँश्च पीडयेत् ।
श्वेतो वा पाण्डुवर्णो वा द्विजघ्नः पार्श्वरोगकृत् ॥
विष्णुधर्मोत्तरेऽप्युपरागमात्रवर्णफलमुक्तम् । तद्यथा ।
उपरागे श्वेतरक्तः पोतकृष्णो राहुर्ब्राह्मणक्षत्रिय विट्शूद्रपीडाकरो भवति ।
ज्योतिषपराशरेऽपि ।
पांशुर्ब्रह्मघ्नः । लोहितक्षत्रियविनाशाय कृष्णः कापोतकश्च। शूद्रघ्नः क्षयकुक्षिरोगाय ।
वराहेणापि सामान्येनैव वर्णफलमुक्तम् ।
श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ ।
पांशुविलोहितरूपे क्षत्रध्वसाय भवति वृष्टेश्च ॥
विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय ।
कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥
अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् इति ।
भार्गवीये ।
धूमवर्णोऽग्निवर्णा वा ग्रामेषु नगरेषु च ।
अग्न्युत्पातं गृहस्थानां सदा स कुरुते ग्रहः ॥
वृद्धगर्गस्तु ।
धूम्रवर्णोऽग्निवर्णो वा मारीमग्निं च कोपयेत् ।
वराहसंहितायां तु ।
सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ।
अर्चिष्मान् अग्निस्तद्वति सार्चिष्मति ।
पराशरः ।
पाटलकुसुमसंकाशोऽशनिभयदो भवति।
अशनिभयसंप्रदायी पाटलकुसुमोपमो राहुः ।
भार्गवीये ।
ताम्रो भवति शस्त्राय रूक्षो भवति मृत्यवे ।
नीलो लोहितपर्यन्तो राहुश्चरति भास्करे ॥
पीडयेदाहिताग्नीँश्च ये चान्येऽग्न्युपजीविनः ।
यदा त्विन्द्रधनुर्वर्णो राहुश्चरति भास्करे ॥
अमात्यो हन्ति राजानं राजा वाऽमात्यमात्मनः ।
वृद्धगर्गस्तु ।
राहुरिन्द्रधनुष्प्रख्यो भयादिव्याधिवर्धनः ।
भयं घोरं विजानीयाद्रूक्षो यदि च दृश्यते ॥
पराशरः ।
बालार्कांशुकपिलो दुर्भिक्षाय ।
वराहसंहितायाम् ।
बालरविकमलसुरचापरूपभृच्छस्त्रकोपाय ।
पराशरः ।
नीलः स्तेयवृद्धये चैत्यविनाशाय। दूर्वाङ्कुरहरितो जनमरणाय । हरिद्रो व्याधये ।
वराहसंहितायां तु
हरिते रोगोल्वणता शस्यानामीतिभिश्च विध्वंसः ।
दूर्वाकाण्डश्यामे हारिद्राभे च निर्दिशेत्मरकम् ॥
भार्गवीये तु ।
श्यामो भवति वाताय धूम्रो भवति वृष्टये ।
हारिद्रः सर्वरोगाणां कोपं सृजति दारुणम् ॥
वराहसंहितायाम् ।
कापोतारुणकंपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् ।
आधूम्रै क्षेमसुभिक्षमादिशेन्मन्दवृष्टिश्च ॥
भार्गवीये ।
चक्राकारस्तु लोकानां घोरं जनयति ज्वरम् ।
स्वाभाविकवर्णानाह ब्रह्मगुप्ताचार्यः ।
"आन्तद्यन्तयोः स धूम्रः कृष्णः खण्डग्रहेऽर्धतोऽत्यधिके ।
ग्रासः कृष्णाताम्रः सर्वग्रहणे कपिलवर्णः” [५६]॥
अथाङ्गारकादीनां ग्रहराशिस्थितफलं च वराहसंहितायाम् ।
आवन्तिका[५७] जनपदाः कावेरीनर्मदातटाश्रयिणः ।
दृष्टाश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥
ग्रस्ते ग्रहणराशिस्थिते । न तु चन्द्रादित्यवद्ग्रस्ते । चन्द्रग्रहणे छारिकाया भूछायाया भौमकक्षापर्यन्तमनुत्थानात् ।
भूछायापरिमाणम् ।
खतिथिनगानललोचन- २३७१५०
योजनदीर्घा च भवति भूच्छाया ।
स्पृशति च बुधकक्षोपरि
गजरसनृपयमशैल-७२१६६८ योजनान्येव॥
रविग्रहे च सूर्यासन्नस्थानां ग्रहाणामस्तमितत्वाद्ग्रहणादर्शनात् । न च गणितानुमानमात्रेण ग्रहणफलं भवति ।
अत एव ग्रहसहितत्वमात्रमुक्तं वटकणिकायाम् ।
सहितो ग्रहेण येन च तद्देशश्चाप्नुयात् पीडाम् ।
वराहसंहितायाम्।
अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् ।
स्त्रीनृपयोधकुमारान् सह विद्वद्भिर्बुधो हन्ति ॥
ग्रहणोपगते जीवे विद्धं नृपमन्त्रिगजयध्वंसः ।
सिन्धुतटवासिनामप्युदग्दिशं संश्रितानां च ॥
भृगुतनये राहुगते दशार्णकाः कैकयाः सयौधेयाः ।
आर्यावर्ताः शिवयः स्त्रीसचिवगणाश्च पीड्यन्ते ॥
बुधभार्गवयोगफलं बोद्धव्यम् । चन्द्रग्रहणे तद्योगासम्भवात् ।
सौरे मरुभवपुष्करासौराष्ट्रिकधतवोऽर्वुदान्त्यजनाः ।
गोमन्तपारियात्राश्रिताश्च नाशं व्रजन्त्याशु ॥
अथ ग्रहदृप्टिफलम् । वराहसंहितायाम् ।
पश्यन् ग्रस्तौ[५८] सोम्यो घृतमधुतैलक्ष्याय राज्ञां च ।
यदा रविचन्द्रौ ग्रस्तै भवतस्तदा ग्रहौर्दर्शनादेतानि फलानि ईर्शनादेतानि फलानि भवन्तीति व्याख्येयन् । पश्यन्तीति यथासम्भवं सम्बन्धनीयम् । तत्र सोम्यश्चन्द्रं पश्यन्निति सम्बन्धः बुधस्यादित्यदर्शनासम्बन्धत्वादिति ।
भौमः समरविमर्दं शिखिकोपं तस्करभयं च ।
शुक्रः शस्यविमर्दं नानक्लेशं च जनयति धरित्र्याम् ॥
रविजः करोत्यवृष्टिं दर्भिक्षं तस्करभयं च ।
यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा ।
सुरपतिगरुणाऽवलोकितं तच्छममुपयाति जलैरिवाग्निरिद्धः ॥
अथ हीनातिरिक्तवेलफलम् । तत्र गर्गः ।
वेलाहोने शस्त्रभयं गर्भाणां श्रवणं तथा ।
अतिवेले फलानां त शस्यानां क्षयमादिशेत् ॥
वराहसंहितायां तु ।
वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च ।
अतिवेले कुसुमफलक्षयो भयं शस्यनाशश्च ॥
काश्यपस्तु |
अनागतमतीतं वा वेलाहीनाधिकं च यत् ।
गर्भस्रावस्त्वनावृष्टिः फलं पुष्पं विनश्यति ॥
अथ खांशफलम् । तत्र दृश्यनभोभागं त्रिधा विभज्य फलमुक्तं भार्गवीये ।
यौवनस्थाँश्च पूर्वाह्णे हन्ति यज्ञविदाञ्जनान् ।
औदकानि च सत्त्वानि नागेन्द्रश्चात्र दुःखितः ॥
अथ मध्यपथं प्राप्तः शूद्रान् हन्ति सतस्करान् ।
उपरक्तो नृपं हन्ति चन्द्रश्च वरवारणात् ॥
प्रलम्बः प्रमदां हन्ति क्षत्रं राष्ट्रं च सर्वशः ।
त्रिगर्त्ताश्चात्र पीड्यन्ते मत्स्याश्च कुरवो जनाः[५९]॥
वटकणिकायाम् ।
पीडयति विप्रराजन्यसत्रिनृपवैश्यशूद्रदस्युगणान् ।
खांशेष्वसुरः सप्तसु दृष्टो नष्टः शिवायोक्तः ॥
वृद्धगर्गस्तु ।
गवां तु प्रथमं क्षेत्रं द्वितीयं ब्रह्मवादिनाम् |
क्षत्रियाणां तृतीयं स्यान्मध्यमं सार्वलौकिकम् ॥
पञ्चमं पुरवैश्यानां षष्ठं स्याच्छूद्रयोषिताम् ।
सर्वासामन्त्यजातीनां सप्तमं क्षेत्रमुच्यते ॥
येषां सोमो युगे ग्रस्तो विमर्दो यत्र वा भवेत् ।
तेषां पीडां विजानीयान्मोक्षे क्षेममथादिशेत् ॥
काश्यपस्तु ।
प्रथमांशे विप्रप्रीडा क्षत्रियाणां द्वितीयके ।
तृतीये चान्त्यजानां तु चतुर्थे मध्यदेशजान् ॥
वैश्यानां पञ्चमे खांशे षाष्ठांशे प्रमदाभयम् ।
दस्युप्रत्यन्तिकान् म्लेच्छान् नाशयेत्[६०]सप्तमांशके ॥
येषामंशे भवेन्मोक्षस्तजातीनां शुभं वदेत् ।
हत्तीत्यनुवृत्तो वराहसंहितायां तु ।
अग्नुपजीविगुणाधिकविप्राश्रमिणोऽयुगाभ्युदितः ।
कर्षकपाखण्डवणिक्क्षत्रियबलनायकान् द्वितीयांशे ॥
अयुगायुदितः प्रथमंशोदितः ।
विनाशाय ग्रहणमित्यनुवृत्तौ पराशरः ।
क्षत्रियबलाध्यक्षयोर्मध्याभिलाषिणः-इति ।
मध्याभिलाषी तृतीयखांशस्थः ।
वराहसंहितायां तु ।
कारुकशूद्रान् म्लेच्छाँस्तृतीयखांशे च मद्विजनान् ।
पराशरः ।
श्वेतभवानां मध्यप्राप्तस्य ।
वराहसंहितायां तु ।
मध्यांशे नरपतिमध्यदेशहा शोभनश्च धान्यार्घः ।
मध्याह्नरेखानी विशेषमाह वृद्धगर्गः ।
नभोमध्यगतो राहुः सोमे सूर्येऽथ वा स्थितः ।
प्रजानामथ राज्ञां न भयं कुर्याद्विसर्पतः ॥
पञ्चमषष्ठसप्तमवंशफलमाह पराशरः ।
चतुर्थान् किञ्चिदावृत्तस्य क्षत्रियस्त्रीणां व्यालम्बितस्य शूद्रतस्कराणामस्तमये ।
वराहसंहितामाम् ।
तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे ।
स्त्रीशूद्रान् षष्ठेऽंशे दस्युप्रत्यन्तहाऽस्तमयकाले ॥
यस्मिन् खांशे मोक्षस्तत्रोक्तानां फलं भवति ।
अथ ग्रस्तोदयास्तफलम् । तत्र काश्यपः ।
उदितास्तमितौ ग्रस्तौ सर्वशस्यक्षयङ्करौ ।
वराहसंहितायाम् ।
ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ ।
"ग्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत"[६१]।
पराशरस्तु ।
गृहीतो यद्युदागच्छेदस्तं वा यदि गच्छति ।
अयोगक्षेममाचष्टे त्रीणि वर्षाण्यसंशयम् ॥
बार्हस्पत्ये तु ।
गृहीतो राहुणा सार्धमुत्तिष्ठति यदा शशी ।
तदा धर्मपरिक्षीणा कलिमाविशति प्रजा ॥
अमुक्तो राहुणा सार्धमस्तं गच्छति चन्द्रमाः ।
तदा तमोमयस्तस्मान्मृत्युमाविशति प्रजा ॥
वृद्धगर्गस्तु ।
गृहीतो यद्युदागच्छेदस्तं वा यदि गच्छति ।
शारदं तु तदा शस्यं जातमात्रं विपद्यते ॥
ग्रैष्मेण तत्र जीवन्ति नरा मूलफलेन वा ।
भयदुर्भिक्षरोगैश्च तदा संक्षिप्यते जगत् ॥
भार्गवीये ।
गृहीतो यद्युदागच्छे द्यदि वा प्रतितिष्ठति ।
अयोगक्षेम आदेश्यस्त्रिषु लोकेषु दारुणः ॥
प्रतितिष्ठत्यस्तमेति ।
शारदं त्रीणि वर्षाणि शस्यजातं न पच्यते ।
निदाघेन्मत्र जीवन्ति प्रजा मूलफलेन वा ॥
आदित्यस्य [६२]ग्रस्तोदयास्तमये विशेषो बार्हस्पत्ये ।
पराजितो राहुनिपीतमण्डलो विवर्णभावाधिगतोऽपि [६३]निष्प्रभः ।
यदाऽस्तमायाति हिवै दिवाकरस्तदाऽऽशु विद्यात तु महज्जनक्षयम् ॥
पराजितो ग्रस्यमानः । निष्प्रभमण्डलः सर्वग्रस्तः ।
अथार्धोदयास्तग्रहणफलम् । तत्र पराशरः ।
यज्ञनैकृतिकविनाशायार्धोदितग्रहणम् ।
वराहसंहितायां च ।
अर्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञाँश्च ।
उदितो गृह्यमाणश्च हन्ति वेदविदो जनान् ।
बालाँश्च जटिलान् हन्ति ये च काषायवाससः ॥
ऋषिपुत्रस्तु ।
उदयेऽस्तमये वाऽपि सूर्यस्य ग्रहणं भवेत् ।
तदा नृपभयं विद्यात् परचक्रस्य चागमम् ॥
अथोदितग्रहणफलम् । तत्र वृद्धगर्गः ।
उदितो गणमुख्याँश्च ब्राह्मणाँश्चापि पीडयेत् ।
उदितो नीललोहितः ।
विनाशाय ग्रहणमित्यनुवृत्तौ पराशरस्तु ।
गुणाधिकगणमुख्यानामुदितस्य ।
सन्ध्याग्रहणफलम् । तत्र वृद्धगर्गः ।
संध्याकाले तु गर्भस्था गृहीतः पीडयेत् प्रजाः ।
गावो गर्भं विमुञ्चन्ति न च वर्षेत् पुरन्दरः ॥
सन्ध्यापरिमाणं सन्ध्यालक्षणं च वक्ष्यामः ।
अथ मोक्षलक्षणम् । तत्र पराशरः ।
षड्विधो मोक्षो वामदक्षिणच्छर्दनाभिनिर्वहणान्तमध्यो नृपक्षयाभिवर्षणसुभिक्षशस्त्रकोपमध्यजनाक्षेमशरच्छस्यनाशकरः।
इति मोक्षषट्कस्य क्रमेणैतानि फलानि ।
वराहसंहितायां तु ।
हनुकुक्षिपायुभेदाद्विर्द्विः संछर्दनं च मरणं च ।
मध्यान्तयोर्विदरणमिति दश शशिसर्ययोर्मोक्षाः ॥
काश्यपः ।
दक्षिणे हनुभेदः स्यादाग्नेय्यां यदि गच्छति ।
शस्यनाशं च कुरुते नृपभङ्गं सुदारुणम् राहोरगुतावः ॥
वराहसंहितायां तु ।
आग्नेय्यामपगमनं दक्षिणहतुसंज्ञितं शशिनः ।
शस्यविमर्दो मुखरुग्नृपपीडा स्यादवृष्टिश्च ॥
काश्यपः ।
पूर्वोत्तरहनुभेदो[६४] नृपपुत्रवधप्रदः ।
वराहसंहितायां तु ।
पूर्वोत्तरे णवामो हनुभेदो नृपकुमारभयदायो ।
मुखरोगः शस्त्रभयं तस्मिन् विन्द्यात् सुभिक्षं च ॥
काश्यपः ।
दक्षिणः कुक्षिभेदः स्याद्याम्ये मोक्षो भवेद्यदि ।
राजपुत्रभयं तत्र दक्षिणाशापतेर्वधः ॥
वराहसंहितायां तु ।
दक्षिणकुक्षिविभेदो दक्षिणपार्श्वे यदि भवेन्मोक्षः ।
पीडा नृपपुत्राणामभियोज्या दाक्षिणा रिपवः ॥
काश्यपः ।
सौम्यायां तु यदा मोक्ष वामक्क्षिविभेदनम् ।
स्त्रीणां गर्भविनाशाय सौम्याशाधिपतेर्भयम् ॥
वराहसंहितायां तु ।
वामस्तु कुक्षिभेदो यद्युत्तरमार्गसं स्थितौ राहुः ।
स्त्रीणां गर्भविपत्तिः शस्यानि च तत्र मध्यानि ॥
काश्यपः ।
पायुभेदगतो राहुर्वायव्यो निर्ऋताश्रयः ।
गुदरोगभयं विन्द्याद्वामे राज्ञीभयं भवेत् ॥
वायव्यो मोक्षो पायुभेदो नैर्ऋत्यो दक्षिणः । उभयोरेव गुदारोगफलं पायुभेदत्वात् । वामे तु राज्ञीभयमधिकम् ।
तथा च वराहसंहितायाम् ।
नैर्ऋतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ ।
गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ॥
काश्यपः ।
ग्रासो मोक्षो यदा पूर्वे छर्दनं तु तदा भवेत् ।
क्षेमहार्दिप्रदो जेयः शस्यनिष्पत्तिकारकः ॥
वराहसंहितायां च ।
पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत ।
संछर्दनमिति तत् क्षेमशस्य हार्दिप्रदं जगतः ॥
काश्यपः ।
पूर्वेण ग्रसते राहुरपरस्यां विमुञ्चति ।
क्षुत्तस्करभयं[६५] तत्र मोक्षस्तु जरणं स्मृतम् ॥
वराहसंहितायां च ।
प्राक् प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् ।
क्षुच्छस्त्रभयो द्विग्ना न शरणमुपयान्ति तत्र जनाः ॥
मध्ये यदि प्रकाशस्तन्मध्यविदारणं नाम ।
अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥
तदिति वृष्टिकरं सुभिक्षदं न भवति । दुर्भिक्षमेव करोतीत्यर्थः ।
तथा च काश्यपः ।
यदा प्रकाशते मध्ये दुर्भिक्षमरकौ तदा ।
पराशरेण चाऽस्य शरच्छत्यनाशकत्वमात्रमुक्तम् । तद्वचनं प्रागेव लिखितम् ।
काश्यपः ।
पर्यन्ते विमलत्वं स्यात् तमो मध्ये यदा भवेत् ।
मध्याख्यदेशनाशः स्याच्छरच्छस्यं विनाशयेत् ॥
वराहसंहितायां च ।
पर्यन्तेषु विमलता बहुलं मध्ये तच्छमोऽन्त्यदरणाख्यम् ।
मध्याख्यदेशनाशः शारदशस्यक्षयश्चास्मिन् ॥
एते सर्वे मोक्षा वक्तव्या भास्करे किन्तु ।
पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥
पराशरः ।
मोक्षागमो दिग्भ्यो राज्ञां जयपराजयो वेदितव्यौ । गृहीत्वा ततः पूर्वनिवर्त्तनमभियोक्तृवधाय विपर्ययेणाभियुक्तस्य ।
अथ ग्रहणसमयाग्रहणफलम् । तत्र गर्ग: ।
दिग्दाहोल्कामहीकम्पास्तमोधूमरजांसि च ।
सूचयन्त्यागमं राहोः पुनः पर्वण्युपस्थिते ॥
वराहसंहितायां तु ।
ग्रस्ते क्रमान्निमित्तैः पुनर्ग्रहो मासषङ्गपरिवृद्ध्या ।
पवनोल्कापातरजःक्षितिकम्पतमोऽशनिनिपातैः ॥
पराशरस्तु ।
उपरक्ते यदा चन्द्रे बलवान् वाति मारुतः ।
मासे षष्ठे तदा विन्द्याद्राहोरामनं ध्रुवम् ॥
उल्कायां द्वादशे मासि रजस्यष्टादशे तथा ।
भूमिकम्पे चतुर्विंशे त्रिंशे तमसि निर्दिशेत् ॥
षड्विंशेऽशनिपातेऽस्मात् सर्वेषां स्यात् षडन्तरेः- इति ।
एवं सर्वेषामुक्तनिमित्तनां सम्भवे क्रमेण षडन्तरे भवतीत्युक्तस्यै संक्षेपः । अथ वा सर्वेषामुक्तनिमित्तानामेकस्मिन् ग्रहणे सम्भवे षडुत्तरे षड्विंशे ग्रासे द्वाचत्वारिंशन्मासे पुनर्ग्रहणं भवतीत्यर्थः । पराशरः ।
षण्मास्या चन्द्रमसस्ततोऽर्धषष्ठे चादित्यस्याभिपूजितमाहुराचार्या: ।
वृद्धगर्गस्तु ।
स्वर्भानुरिन्दुं षष्ठे तु मासे यद्युपतिष्ठति ।
तदा क्षेमं सुभिक्षं च योगक्षेमं च निर्दिशेत् ॥
यदा त्वष्टादशे मासि राहुः सोममुपक्रमेत् ।
रसक्षयो व्याधिभयं विनाशः फलपुष्पयोः ॥
चतुर्विंशे यदा सोमो दैत्येन ग्रस्यते यदि ।
अनावृष्टिभयं घोरं दुर्भिक्षं च विनिर्दिशेत् ॥
यदा त त्रिंशतितमे मासि संगृह्यते शशी ।
तदा क्षयः समुत्पद्येत् प्रचलेद्वाऽपि मेदिनी ॥
चन्द्रे पञ्चममा तु मासे त्वेकादशे तथा ।
सप्तदशे तु सूर्यस्य ग्रहणं क्षुद्भयाय तु ॥
पराशरस्तु ।
सप्तदशत्रयोदशपञ्चत्रिशन्मासिकानि चेन्दोस्त्रीणि विसन्धिग्रहणानि क्षुद्व्याधिमरकदुर्भिक्षोपद्रवाय वेदितव्यानि ।
एवमेवैतानि प्राकृतग्रहणानि वटकणिकायाम् ।
वर्षस्य व्यतीतान्यतिकष्टानि पर्वाणि
विष्णुधर्मोत्तरे ।
अत्यन्तादर्शने राहोस्तथा चात्यन्तदर्शने ।
प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैः ॥
अथ ग्रहणनिर्मुक्तावद्भुतफलम् । तत्र वराहसंहितायाम् ।
“परुषवपनाव्दगर्जितविद्युत्परिवेषभूमिकम्पाद्याः ।
"सप्ताहन्तर्न शुभा ग्रहणनिवृत्तौ शुभा वृष्टिः"[६६]॥
वृद्धगर्गपराशरौ तु।
अथेन्द्रग्रहनिर्मुक्ते सप्ताहन्तर्भवेद्यदि ।
पांशुवर्षोऽन्ननाशः स्यान्नीहारो रोगवृद्धये ॥
नृपनाशाय भूकम्प उल्का मन्त्रिविपत्तये ।
रोगाय परिवेषः स्याद्भयायैवाभ्रासंप्लवः ॥
विद्युद्गर्भविनाशाय दिग्दाहश्चाग्निवृद्धये ।
निर्घातेन्द्रधनुर्दण्डो दुर्भिक्षाय भयाय च ॥
पवनः परुषो रूक्षचौरोपद्रवसूचकः ।
वराहसंहितायाम् ।
मुक्ते सप्ताहान्तः पांशुनिपातोऽन्नशस्यसंक्षयं कुरुते ।
नीहारो रोगभयं भूकम्पः प्रबलनृपमृत्युं च ॥
उल्का मन्त्रिविनाशं नानावर्णाश्च भयमतुलम् ।
स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥
परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयम् ।
रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥
निर्घातः सुरचापो दण्डश्च क्षुद्भयं सपरचक्रम् ।
ग्रहयुद्धै नृपयुद्धं केतुश्च तदैव संदृष्टः ॥
वृद्धगर्गपराशरौ ।
सर्वोपद्रवनाशः स्यात् सम्यग्वृष्टिर्भवेद्यदि ।
वराहसंहितायां तु ।
अविकृतसलिलनिपातैः सप्ताहान्तः सुभिक्षमादेश्यम् ।
यच्चाशुभं ग्रहणजं तत्सर्वं नाशमायाति ॥
अथोभयपक्षीयग्रहणफलं वटकणिकायाम् ।
समरागमाय राहुर्यदि पक्षान्ते पुनर्दृश्यः ।
भार्गवीये ।
यदि च राहुरुभौ शशिभास्करौ ग्रसति पक्षमनन्तरगं ततः ।
पुरुषशोणितकर्दमवाहिनी भवति भूर्न च वर्षति वासवः ॥
एकस्मिन् मासे उभयपक्षीयग्रहणफलमेतत् ।
तथा च काश्यपः ।
एकमासेऽर्कचन्द्राभ्यां ग्रहणं न प्रशस्यते ।
परस्परवधं कुर्युः स्वयलक्षोभिता नृपाः ॥
वराहसंहितायां च ।
यद्येकस्मिन् मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः ।
स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपं च ॥
मासभेदे तु फलमुक्तं भार्गवीये ।
गृहीत्वा भास्करं पुर्वं गृह्णाति शशिनं यदि ।
तत्र मासोत्तरं नाम आराध्यन्ते हि देवताः ॥
वराहसंहितायां तु ।
अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः ।
नैकऋतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥
सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहोऽर्कस्य ।
तत्रामयः प्रजानां दम्पत्योर्वैरमन्योन्यम् ॥
वृद्धगर्गपराशरौ ।
यद्राहुचरितं प्रोक्तं चन्द्रग्रहणहेतुकम् ।
तदेव सकलं सूर्ये वेदितव्यं शुभाशुभम् ॥
अत्रानुक्तविशेषशान्तिषु राहूत्पातेषु रविग्रहणे रविराहुपूजापूर्विका चन्द्रग्रहणे चन्द्रराहुपूजापर्विका प्रभूतकनकान्नगोमहीदा- नादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या-इति ।
अथ विहितविशेषशान्तयो राहूत्पाताः । तत्रा पर्वग्रहणे वृद्धगर्गः ।
अपर्वणि भयं यस्माद्ग्रहणं शशिसूर्ययोः ।
पराशरस्तु ।
अपर्वण्युपरक्तः प्रजानाशाय ।
मयूरचित्रे ।
अपर्वग्रहणे दस्युशस्त्रकोपा भवन्ति च ।
वधो मुख्यस्य भूपस्य तथा राष्ट्रस्य जायते ॥
आरण्यककांण्डे खरादिवधनिमित्तम् ।
“सकबन्धः सपरिघः स्वर्भानुश्च दिवाकरः ।
जग्राह कालपर्यन्तमपर्वणि महाग्रहः"[६७] ॥
त्रयोदशीग्रहणे तु विशेषः । तथा च मुशलपर्वणि यदुकुलोत्सादननिमित्तम् ।
“चतुर्दशीपञ्चदशीकृतेयं राहुणा पुनः ।
प्राप्ते वै भारते युद्धे दृष्टा चाद्यक्षयाय नः"[६८]॥
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
वृद्धगर्गस्तु ।
दृश्येते च त्रयोदश्यां चन्द्रार्कौ ग्रहणं गतौ ।
छत्राण्यनैकानि तदा मृज्यन्ते भूमिपक्षये ॥
संपुत्रदारा नश्यन्ति संग्रामे लोमहर्षणे ।
अनेन वनितायाः स वैधव्यान्तकरोऽधिकम् ॥
त्रयोदश्यां चन्द्रार्कौ ग्रहणं गताविति एकस्यामे च त्रयोदश्यां युगपद्ग्रस्ताविस्यर्थः ।
तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् ।
अपर्वणि ग्रहौ जातौ प्रजासंक्षयमिच्छतः”[७१] ॥
ग्रहौ जातौ मुखपुच्छाभ्यां ग्रासौ जातावित्यर्थः ।
एतच्चापर्वग्रहणं द्विविधं राहुकृतं त्वष्टृकतं च तथा च कठश्रुतिः ।
यच्चापर्वणि राहुदर्शनं तत्र नरपतेर्वधमादिशेत् ।
सभापर्वणि तु पाण्डवानां वनप्रवेशे कुरुक्षयनिमित्तम् ।
“राहुरग्रसदादित्यमपर्वणि विशां पते”[७२] ।
ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।
अपर्वणि शशाङ्कार्को त्वष्टा नाम महाग्रहः ।
आवृणोति तमः श्यामः सर्वलोकविपत्तये ॥
वराहसंहितायां तु ।
सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते ।
स निहन्ति सप्तभूषाञ्जनाँश्च शस्त्राग्निदुर्भिक्षैः ॥
राहुक्तराशिस्थितयोस्तत्सप्तमराशिस्थितयोश्च रविचन्द्रमसोरपर्वग्रहणं राहुकृतमिति राहुकृतपर्वग्रहणशान्तिमाह नारदः।
अकस्माल्लक्ष्यते चन्द्रेऽपर्वणि राहुदर्शनम् ।
अद्भुतं तत्र विज्ञेयं शान्तिं चेमां प्रयोजयेत् ॥
औदुम्बर्याः सहस्राणि अष्टौ च जुहुयाद्विजः ।
मध्वक्तानि घृतान्यत्र जातवेदसि मन्त्रवित् ॥
विप्राय दक्षिणां दद्याद्वेनुं च वृषभं तथा ।
एकरात्रोषितो भूत्वा ततः संपद्यते शुभम् ॥
इति कोटिहोमशक्तावियं शान्तिः । राहुकृतापर्वग्रहे कठश्रुतिविहिता सूर्यदैवाऽपि शान्तिः कर्त्तव्या सा च कठश्रुत्युक्ताऽद्भुतमिश्रके लिखितव्या ।
त्वप्ट्टकृतापर्वग्रहणे तु ।
प्रभूतफलकनकान्नगोमहीदानादिका सामान्यशान्तिः कर्त्तव्या-इति ।
अथाग्नेयमण्डलग्रहणफलं मयूरचित्रे ।
आग्नेयमण्डलं सूर्यचन्द्रयोर्ग्रहणे सति ।
पित्तदाहोऽतिसारश्च शिरोरोगस्तथैव च ॥
ज्वरस्तापस्तथा कष्टं कासश्वासस्तथैव च ।
कुक्षिरोगादयो रोगाः प्रभवन्तीह देहिनाम् ॥
भूमिदोहोऽत्र कर्त्तव्यो नगरे भ्रमणे तथा ।
कार्या दुर्वासमिद्धोमो जपश्चैव विशेषतः ॥
नटप्रेक्षणकं कुर्यान्नोपघातः कथंचन ।
इति चतुर्थीशान्तिः ।
अथ वायव्यमण्डलग्रहणफलं मयूरचित्रे ।
वायव्यमण्डले वायोः क्षोभो वृष्टिर्न जायते ।
प्रासादामरवेश्मानि शैला वृक्षाः पतन्ति च ॥
दुर्भिक्षमशुभं रोगो गूढगर्भाः स्त्रियस्तथा ।
भूमिदोहो गवां दानं हेमदानं जपस्तथा ॥
होमाश्च नगरस्थाने ततः सम्पद्यते सुखम् ।
होमाः कोटिहोमाः । आहुतिबहुत्वाद्बहुवचनम् ।
इति पञ्चदशी शान्तिः ।
आग्नेयांदिमण्डलानि भूमिकम्पे लिखिण्यामः ।
अथ जन्मराशिस्थचन्द्रादित्यग्रहणशान्तिः । मत्स्यपुराणे
यस्य राशिं समासाद्य भवेद्ग्रहणसम्भवः ।
तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधिविधानवत् ॥
चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणवाचनम् ।
संगृह्य चतुरो विप्रान् शुक्लमाल्यानुलेपनैः ॥
पूर्वमेवोपरागस्य समासाद्यौषधादिकम् ।
स्नापयेच्चतुरः कुम्भान् ब्रह्मणान् सागरानिति[७३]॥
गजाश्वरथ्यावाल्मीकसङ्गमाद्ध्रगोकुलात् ।
राजद्वारप्रवेशाच्च मृदमानीय निःक्षिपेत् ॥
पञ्चगव्येन कुम्भेषु शुद्धमुक्ताफलानि च ।
रोचनापद्मशङ्कौ च पञ्चभङ्गसमन्वितौ ।
पञ्चगव्येनेति पञ्चगव्येन सह निःक्षिपेदित्यर्थः ।
अथ पञ्चभङ्गः ।
पालाशाश्वत्थकपित्थविल्वोदुम्बरपल्लवैः ।
पञ्चभङ्ग इति ख्यातो बालानां शान्तिकारकः - इति ॥
स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् ।
गजदन्तं सकुमुदं तथैवोशीरगुग्गुलम् ॥
एतत्सर्वं विनिःक्षिप्य कुम्भेष्वावाहयेत् सुरान् ।
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ॥
आयान्तु यजमानस्य दुरितक्षयकारकाः ।
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ॥
सहस्रनयनश्चन्द्रग्रहपीडां व्यपोहतु ।
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ॥
चन्द्रोपरागसम्भूतामग्निपीडां व्यपोहतु ।
यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः ॥
यमश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु ।
रक्षोगणाधिपः साक्षात् प्रभयाऽनलसप्रभः ॥
खड्गव्यग्रोऽतिभीमश्च रक्षःपीडां व्यपोहतु ।
नागपाशधरो देवः सदा मकरवाहनः ॥
स जलाधिपतिश्चन्द्रग्रहपीडां व्यपोहतु ।
प्राणरूपेण यो लोकान् पाति कृष्णमृगाश्रयः ॥
वायुश्चन्द्रोपरागोत्थां ग्रहपीडां व्यपोहतु ।
योऽसौ निधिपतिर्देवः खड्गशूलगदाधरः ॥
चन्द्रोपरागकलुषं धनदोऽत्र व्यपोहतु ।
योऽसाविन्दुप्रभो रुद्रः पीनाकी वृषवाहनः ॥
चन्द्रोपरागपापानि स नाशयतु शङ्करः ।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ॥
ब्रह्मविष्णवर्कयुक्तानि तानि पापं दहन्तु च ।
एवमामन्त्रितैः कुम्भैरभिषिक्तो गुणान्वितैः ॥
ऋग्यजुःसाममन्त्रैश्च शुक्लमाल्यानुलेपनैः ।
पूजयेद्वस्त्रगोदातैर्ब्राह्मणानिष्टदेवताम् ॥
एतानेव ततो मत्रान् विलिख्य कनकान्वितान् ।
वस्त्रे पट्टेऽथ वा[७४] भूर्जे पञ्चरत्नसमन्विते ।
यजमानस्य शिरसि निदध्युस्ते नरोत्तमाः ।
ततोऽतिवाहयेद्वेलामुपरागानुगामिनीम् ॥
प्राङ्मुखः पूजयित्वा तु संपश्यन्निष्टदेवताम् ।
चंन्द्रग्रहे निवृत्ते तु कृतगोदोहमङ्गलः ॥
कृतस्नानस्तु तत् पट्टं ब्राह्मणाय[७५] निवेदयेत् ।
अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् ॥
न तस्य ग्रहपीडा स्यान्न च बन्धुधनक्षयः ।
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥
सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्त्तयेत् ।
अधिकाः पद्मरागाः स्युः कपिला च सुशोभना ॥
य इदं शृणुयान्नित्यं श्रावयेद्दाऽपि मानवः ।
सर्वपापविनिर्मुक्तः शक्तलोके महीयते ॥
अथ जन्मनक्षत्रग्रहणफलं ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।
यन्नक्षत्रगतो राहुर्ग्रसते चन्द्रभास्करौ ।
तज्जातीनां भवेत् पीडा यदि ते शान्तिवर्जिताः ॥
अत्र जन्मनाडीनक्षत्रोपतापविहिता शान्तिः कर्त्तव्या । ताश्च नाडीर्नक्षत्रोपशातौ वक्ष्यामः ।
भार्गवीये ।
यस्य राज्यस्य नक्षत्रे स्वर्भानुरुपरज्यते ।
राज्यभ्रंशं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥
राज्यस्य नक्षत्रेऽभिषेक: । तदभिषेकनक्षत्रं यदि जन्मनक्षत्रमपि नृपतेः स्यात्
तदा मरणं फलम् । अथाभिषेकनक्षत्रोपतापशान्तिश्च कर्त्तव्या फलपाकसमये ।
वराहसंहितायां तु ।
सुरद्विषोऽब्दार्धाद्वर्षात् सूर्यग्रहणे- इति ।
एतान्याहुतानि राहुकृतग्रहणे गर्गादिभिरभिहितानि । वराहादिभिस्तु ग्रहणमेव राहुकृतं न भवतीत्युक्तम् ।
तथा च वराहसंहितायाम् ।
अमृतास्वाद विशेषाच्छिन्नमपि शिरः किलासुरस्येदम् ।
प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥
इन्द्वर्ककमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने ।
अन्यत्र पर्वकालाद्वरप्रसादात् कमलयोनेः ॥
मुखपुच्छविभक्ताङ्गं भुजङ्गप्राकारमुपदिशन्त्येके ।
कथयन्ति मूर्त्तमपरे तमोमयं सैंहिकेयाख्यम् ॥
यदि मूर्तो भविचारी शिरोऽथ वा भवति मण्डली राहुः ।
भगणार्धेनान्तरितो गृह्णाति कथं नियतचारः ॥
अनियतचारो यदि चेदुपलब्धिः संख्यया कथं तस्य ।
पुच्छाननाभिधानोऽन्तरेण कस्मान्न गृह्णाति ॥
अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति ।
मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम् ॥
राहुद्वयं यदि स्याद्ग्रस्तेऽस्तमितेऽथ वोदिते चन्द्रे ।
तत्समगतिनाऽन्येन ग्रस्तः सूर्योऽपि दृश्येत ॥
भूछायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः ।
प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्धात् ॥
वृक्षस्य स्वच्छाया यथैकपार्श्वे न भवति दीर्घचया ।
निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥
सूर्यात् सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः ।
चन्द्रः पूर्वाभिमुखश्छायामौर्वी तदा विशति ।
चन्द्रोऽधःस्थः स्थगयति रविमम्बुदवत् समागतः पश्चात् ।
प्रतिदेशमतश्चित्रं दृष्टिवशाद्भास्करग्रहणम् ॥
तथा च भट्टबलभद्रः ।
भूछाया शशिकक्षास्था विधौ भार्धेऽर्कतः स्थिते ।
यदा विशत्यविक्षिप्ता चन्द्रस्य स्यात् तदा ग्रहः ॥
"इन्दुना छादितं सूर्यमधोविक्षिप्तगामिना ।
न पश्यन्ति यदा लोकास्तदा स्याद्भास्करग्रहः"[७६]॥
वराहसंहितायाम् ।
आवरणं महदिन्दोः कुण्ठ विषाणस्ततोऽर्धसंछन्नः ।
स्वल्पं रवेर्यतोऽतस्तीक्ष्णविषाणो रविर्भवति ॥
एवमुपरागकारणमुपदिष्टं दिव्यदृग्भिराचार्यैः ।
राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः ॥
योऽसावसुरो राहुस्तस्य वरो ब्रह्मणा समाज्ञप्तः ।
आप्यायनमुपरागे दत्तहुताशेन ते भविता ॥
तस्मिन् काले सान्निध्यमस्य तनोपचर्यते राहुः ।
याम्योत्तरा शशिगतिर्गणितेऽप्युपचर्यते तेन ॥
ब्रह्मसिद्धान्ते तु ।
"एवं वराहमिहिरश्रीषेणार्यभटविष्णुचन्द्राद्यैः ।
लोकविरुद्धमभिहितं वेदस्मृतिसंहिताबाह्यम् ॥
यद्येवं ग्रहणफलं गर्गाद्यैः संहितासु यदभिहितम् ।
तत्काले होमजपस्नानादिफलस्य चाभावः ॥
राहुकृतं ग्रहणद्वयमागोपालाङ्गनाप्रसिद्धमिदम् ।
बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥
स्मृतिषूक्तं न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ ।
राहुग्रस्ते सूर्ये सर्वं गङ्गासमं तोयम् ॥
स्वर्भानुरासुरिरिनं तमसा विव्याध वेदबाह्यमिदम् ।
श्रुतिसंहितास्मृतीनां भवति यथैक्यात् तदुक्तिरतः ॥
राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते ।
भूछायातमसीन्दोर्वरप्रसादात् कमलयोनेः”[७७] । ॥
तथा च गर्गः ।
तपःप्रवृत्तस्य राहोर्ब्रह्मा वरं ददौ पञ्चदश्यन्ते चन्द्रमुपसर्प- इति।
ब्रह्मसिद्धान्ते ।
“चन्द्रोऽम्बुमयोऽधःस्थो यदग्निमयभास्करस्य मासान्ते ।
छादयति शमिततापो राहुश्च्छादयदि तत्सवितुः"[७८] ॥
सूर्यसिद्धान्ते ।
“तमोमयस्य तमसो रविरश्मिपलायिनः ।
भूछाया चन्द्रविम्बं च स्थाने द्वे परिकल्पिते"[७९]॥
ब्रह्मसिद्धान्ते ।
भूछायाव्याससमः शशिकक्षायां स्थितः शशिग्रहणे ।
राहुश्छादयतीन्दुं सूर्यग्रहणेऽर्कमिन्दुसमः ॥
यत् तदधिकं तमोमयराहुव्यासस्य सूर्यदृष्टत्वात् ।
नश्यति भूछायेन्द्वोर्व्याससमोऽस्माद्भवति राहुः ॥
भूछाया नेन्दुमतो ग्रहणे छादयति नार्कमिन्दुर्वा ।
तत्स्थस्तद्व्याससमो राहुश्छादयति शशिसूर्यौ"[८०] ॥
वीरभद्रः ।
सिंहिकातनयस्यास्य राहोः पुच्छमुखादृते ।
नान्यदस्त्युदरं बाहुपादादिकमिति श्रुतिः [८१]॥
वसिष्टः ।
स्वर्भानु प्रत्यासन्नभगणार्धान्तरितः सूर्याचन्द्रमसौ मुखपुच्छाभ्यां गृह्णाति -इति ।
इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे राहोरद्भुतावर्त्तः ।
अथ मङ्गलाद्भुतावर्त्तः ।
तत्र शुभसूचकमङ्गललक्षणमाह पराशरः ।
वर्णरश्मिप्रमाणतेजोयुक्त उदग्मार्गगः स्नेहवान् सर्वलोकहिताय भवति चात्र।
प्रदक्षिणगतिः कान्तः स्निग्धः स विपुलोऽमलः[८२]।
तप्तकाञ्चनसंकाशो भवेल्लोकस्य वृद्धये ॥
प्रदक्षिणगतिर्ग्रहाणामुदग्गामी ।
वराहसंहितायां तु ।
विपुलविमलमूर्त्तिः किंशुकाशोकवर्णः
स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः ।
विचरति यदि मार्गं चोत्तरं मेदिनीजः
शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥
अत्र मध्यमार्गचारी मध्यमफल: । दक्षिणमार्गचारी भयद इत्यूहनीयम् ।
यथाऽऽह गर्गः ।
याम्यादिपित्र्यनिधनं[८३] नवर्क्षं मार्गमुत्तरम् ।
भाग्यादितान्तं तु मध्यमं मार्गमुच्यते ॥
आषाढपौष्णभान्तं तु दक्षिणं समुदाहृतम् ।
सौम्यमार्गस्थितो भौमः प्रजानां हितकारकः ॥
मध्ये तु मध्यफलदो याम्ये तु भयदः स्मृतः ।
येषामयं स्वामीतेषां वर्णरश्मिप्रभादिशुभलक्षणयुक्तो विशेषेण शुभकर: । विपरीतो विशेषेण विपरीतकरः । मङ्गलस्वामिकान्याह यवनेश्वरः ।
चमूनृपस्तेनहुताशवृत्तिविषाग्निशस्त्रक्षतजक्षितीनाम् ।
प्रवालधात्वाकरपुष्पजातिचामोकराणां क्षितिसूनुरीशः ॥
काश्यपस्तु ।
महेन्द्रमलयं विन्ध्यं सिप्रा वेणा महानदी ।
गोदावर्या नर्मदाया भीमायाः पश्चिमा दिशः ॥
चेदिकाः कौङ्कणा दुर्गा द्रविडा वेत्रवन्नदी ।
मन्दाकिनी पयोष्णो च मालती सिंधुपारकाः ॥
सपाण्ड्याश्चोलदेशस्था द्रविडा वाऽश्मकास्तथा[८४]।
भासापराः कुन्तलाश्चा केरलां दण्डकास्तथा ॥
नागराः पौरवाश्चैव कर्षकाः शस्त्रवृत्तयः ।
हुताशनाजीविनो ये कुञ्जराः पशुपास्तथा ॥
सांग्रामिका नृशसांश्च सङ्कराश्चोपघातकाः ।
कुमारा भूमिपतयो दाम्भिकास्तस्करा अपि ॥
एतेषां भूमिजः स्वामो तथैवाग्न्युपजीविनाम् ।
वराहसंहितायाम् ।
शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ।
निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥
मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥
द्रविड विदेहान्ध्राश्मकभासापरकौङ्गणाः समव्रिषिकाः ।
कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करिणः ॥
नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्त्तानाम् ।
आडविकदुर्गकर्वटवधिकनृशंसावलिप्तानाम् ॥
नरपतिकुम्भारकुञ्जरदम्भिकडिम्भाभिघातपशुपानाम् ।
रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥
कोषभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥
अथ वर्णफलम् । तत्र वृद्धगर्गः ।
पीतकः कृष्णवर्णो वा विरश्मिर्वा विगर्हितः ।
अथ चारफलम् । तत्र वृद्धगर्गः ।
त्रिंशद्भिर्लोहितो मासैर्विचरेद्राशिविंशकम् ।
यदा स पूजितश्चारो न च न्यूनो न चाधिकः ॥
अथास्य नक्षत्रविशेषेषु चारादिफलं वराहसंहितायाम् ।
चारोदयाः प्रशस्ताः श्रवणमघादित्यमूलहस्तेषु ।
एकपदादिविशाखाप्राजापत्येषु च कुजस्य ॥
प्राजापत्ये श्रवणे मूले त्रिषु चोत्तरेषु शके च ।
विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥
विष्णुधर्मोत्तरे तु ।
ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन् कुजः ।
घोरां करोत्यनावृष्टिं कृत्तिकासु मधासु च ॥
ध्रुवेषु उत्तरात्रयरोहिणीषु ।
वराहसंहितायाम् ।
दक्षिणतो रोहिण्याश्चरन्महीजोऽर्घवृष्टिनिग्रहकृत् ।
धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥
भित्त्वा मघा विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् ।
मरकं करोति घोरं यदि भित्वा रोहिणो याति ॥
वृद्धगर्गः ।
वक्त्रकाले तु संप्राप्ते स्थूलो भवति लोहितः ।
हर्षितश्चातिरक्तश्च ज्वलिताग्निशिखोपमः ॥
विष्णुधर्मोत्तरे ।
गतागतं तदा कुर्यान्मघामध्येन लोहितः ।
तदा भवत्यनावृष्टिः पाण्ड्यो राजा विनश्यति ॥
वराहसंहितायाम् ।
मध्येन यदि मघानां गतागतं लोहितः करोति ततः ।
पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमनावृष्टिः ॥
भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।
“वक्त्रानुवक्रं कृत्वा च श्रवणं यावकप्रभः ।
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः”[८५] ॥
वृद्धगर्गः ।
यद्वारे कुरुते वक्रमनुवकं च लोहितः ।
नक्षत्रसप्तजान् देशाँस्तद्वारं च निहन्ति सः ॥
नाधोभात् सप्तजान् द्रुह्यान्न चाष्टादशतोऽधिकान् ।
उदयर्क्षान्महीजस्य भवेद्वेक्रं कथंचन ॥
अथास्य पञ्च वक्त्राणि वराहसंहितायाम् ।
उष्णमश्रुमुखं व्यालं लोहिताननमेव च ।
निस्त्रिंशमुशलं चेति पञ्च वक्तकुजस्य तु ॥
तत्रोष्णमुखम् । तत्र गर्ग: [८६]।
उदयात् सप्तमे कुर्यादष्टमे नवमेऽपि वा ।
निवृत्तिं लोहिताङ्गस्तु तदुष्णं वक्त्रमुच्यते ॥
नरोऽग्निजीविनो ये च पचन्ति च दहन्ति च ।
तेषामेवोच्यते तापो जायते च धनसंक्षयः ॥
विष्णुधर्मोत्तरे ।
अथ यस्मिन् नक्षत्रे भौमोदयं प्रतिपद्यते । यस्मात् सप्ताष्टनवमर्क्षेपूष्णमुखं नाम वक्त्रं करोति येनाग्निमन्तो ब्राह्मणा अग्रजीविनश्च पीडयन्ते ।
वृद्धगर्गः ।
कुर्यादुदयनक्षत्रात् सप्तमादष्टमादपि ।
निवृत्तिं नवमाद्वाऽपि वक्त्रमुष्णं तदुच्यते ॥
अग्निहोत्रपरा विप्राः पीडयन्ते चाग्निजीविनः ।
प्रजासु प्रायशश्चात्र ज्वरदाहश्च जायते ॥
पराशरस्तु ।
उदयर्क्षात् सप्ताष्टनवमेषु नक्षत्रेषु निवृत्तः प्रजानां संक्षयं विशेषतः पचतां दहतां न पीडां धत्ते ।
अथाश्रुमुखं विष्णुधर्मोत्तरे ।
दशमैकादशद्वादशेऽश्रुमुखं नाम मरककारकम् ।
गर्गस्तु ।
दशमैकादशे चापि निवृत्ते द्वादशेऽपि वा ।
लोहिताङ्गे ग्रहे ज्ञेयं वक्त्रमश्रुमुखं च तत् ॥
तत्र वर्षति पर्जन्ये दूषयन् वै शुभान् रसान् ।
दुष्टास्तं दूषयन्याशु नृणां धातुँस्तथा दृशम् ॥
बहवो व्याधयो दुष्टा उत्पाद्यन्ते शरीरिणाम् ।
चतुर्भिः कारणैरेतैस्ततो धातुः प्रलीयते ॥
दूषयति वर्षति दुष्टवर्षे रसान् दूषयतीत्यर्थः ।
तथा च पराशरः ।
दशमैकादशद्वादशेषु प्रदुष्टवषैर्द्रव्यरसान् दूषयन् प्राजानां धातून् प्रकोपयति व्याधीन् प्रवर्त्तयति ।
अथ व्यालं विष्णुधर्मोत्तरे ।
त्रयोदशचतुर्दशयोर्व्यालाख्यं व्यालवृद्धिकरम् ।
पराशरस्तु ।
त्रयोदशचतुर्दशयोः शस्यव्यालदंष्ट्रिप्राबल्यं हिरण्यसंचयम् ।
वृद्धगर्गस्तु ।
त्रयोदशगतः कुर्याच्चतुर्दशगतोऽपि वा ।
निवृत्तिमुदयाद्भौमो वक्त्रं व्यालं तदुच्यते ॥
भवेत् तत्र मृगव्यालदंष्ट्रिभ्यः सर्वतो भयम् ।
औदकानि न सत्वानि शस्यमुत्तमतां व्रजेत् ॥
गर्गस्तु ।
त्रयोदशे वा नक्षत्रं यदि चापि चतुर्दशे ।
निवृत्तिं कुरुते भौमस्तद्दक्त्रं व्यालमुच्यते ॥
भवन्ति प्रचुरा व्यालास्तस्मिन् सर्पा ह्यशेषतः ।
नृपाणां च भयं विन्द्याच्छस्यसम्पत्तिमादिशेत् ॥
अथ लोहितमुखं विष्णुधर्मोत्तरे ।
पञ्चदशषोडशयो रुधिरमुखं संग्रामकारकम् ।
गर्गः ।
यदि पञ्चदशे भेऽथ भूसुतः षोडशेऽपि वा।
निवृत्तिं कुरुते भौमस्तद्वक्त्रं लोहिताभिधम् ॥
दीप्तिमन्तः पार्थिवाश्च भवन्ति प्रस्थिता भुवि ।
क्षुद्ररोगश्च सुमहान् मुखरोगा भवन्ति च ॥
पराशरस्तु ।
पञ्चदशषोडशयोर्मुखरोगनृपक्षोभशस्त्रकोपाश्च ।
तद्वक्त्रमुष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥
द्वादशदशमैकादशनक्षत्राद्वक्रिते कुजेऽश्रुमुखम् ।
दूषयति रसानुदये करोति रोगानवृष्टिं च ॥
व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये ।
दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥
रुधिराननमिति वक्त्रं पञ्चदशात् षोडशाच्च विनिवृत्तेः ।
तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥
असिमुशलं सप्तदशाष्टादशतोऽपि वा तदनुवक्रे ।
दस्युगणेभ्यः पीडां करोत्यवृष्टिं सशस्त्रभयाम् ॥
ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।
फल्गुन्योरुदयं कृत्वा वक्रं स्याद्वैश्वदेवते ।
प्राजापत्ये प्रवासः स्यात् त्रैलोक्यं तत्र पीड्यते ॥
प्रवासोऽस्तमयः ।
तथा च वराहसंहितायाम् ।
भाग्यार्यमोदितो यदि निवर्त्तते वैश्वदैवते भौमः ।
प्राजापत्येऽस्तमितस्त्रीनपि लोकान् निपीडयति ॥
पराशरस्तु ।
उदितः श्रवणे भौमः पुष्ये वक्रमियाद्यदि ।
प्राजापत्योदितश्चैव नाशाय स्यान्महीक्षिताम् ॥
हरिवंशे कंसवधनिमित्तम् ।
“एवं घोरो ग्रहः स्वातिमुल्लिखन् खे गभस्तिभिः |
वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः"[८७] ॥
बाणयुद्धे च ।
“वक्रमङ्गारकश्च के कृत्तिकासु भयङ्करः ।
"गणस्य जन्मनक्षत्रं भर्त्सयन्निव सवशः"[८८] ॥
वृद्धगर्गः ।
त्रैमासिकः क्षुद्भयाय भयकृत् पाञ्चमासिकः ।
प्रवासो लोहिताङ्गस्य चतुर्मासस्तु पूजितः ॥
वराहसंहितायाम् ।
यस्मिन्नक्षेऽभ्युदितस्तदिग्व्यूहाञ्जनान् हन्ति ।
पराशरः ।
यथा जनपदव्यूहे दिग्विभागः प्रकल्पितः ।
नक्षत्रे मोहितं कुर्याल्लोहिताङ्गस्तथाऽऽमयम् ॥
नक्षत्राणां दिग्देशादिकं नक्षत्राद्भुते वक्ष्यामः ।
अत्रानुक्तविशेषशान्तिषु मङ्गलोत्पातेषु मङ्गलपूजापूर्विकाप्रभूतकनकान्नगोमहीदानादिक-सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो गार्गीये ।
त्रिभिर्मासैस्तु भौमस्य ।
वराहसंहितायां तु ।
अङ्गारकस्य च वक्रोक्तः-इति ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मङ्गलाद्भुतावर्त्तः ।
अथ बुधाद्भुतावर्त्तः ।
तत्र शुभसूचकबुधलक्षणमाह पराशरः ।
विमलजलरजतस्कूटिकाभः प्रशस्यते ।
वराहसंहितायाम् ।
हेमकान्तिरथ वा शुकवर्णः शस्यकेन मणिना सदृशो वा ।
स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्ययेन शुभकृच्छशिपुत्रः ॥
शस्यको मणिर्नीलवर्ण: शस्याख्यो मणिः । येषामयं स्वामी तेषामेवंविधो विशेषेण हिताय विपरीतो विशेषेण विपरीताय ।
बुधस्वामिकान्याह यवनेश्वरः ।
नानागुणद्रव्यविकल्पयुक्तिनैपुण्यशिल्पश्रुतिवेसराणाम् ।
माहात्म्यमन्त्रार्थविदाब्दिकानां प्रभुर्बुधश्चैत्यवनस्पतीनाम् ॥
वटकणिकायां तु ।
बुधस्य सौराष्ट्रकभोजबङ्गा गङ्गाश्रिताश्चोत्तरकूलनद्यः ।
सिन्धोश्च मध्या मथुरापुरस्ताद्गोमन्तसिन्ध्वद्रिगुहाश्रिताश्च ॥
काश्यपस्तु ।
चित्रकूटगिरी रम्यो हिमवान् कौशिकी तथा ।
मथुरायाश्च पूर्वार्धं लोहित्यः सिन्धुरेव च ॥
गाम्भीरिका च सरयू रथाख्या गण्डकी नदी ।
गान्धर्वा लेख्यहाराश्च दर्दुराश्चोपकृत्रिमाः[८९]॥
विदेहाः सर्वजलजाः काम्बोजाश्च सुराष्ट्रिकाः ।
गन्धयुक्तिविदो ये च सौगन्धिकप्रलेपकाः ॥
सुवर्णरजतं रत्नमातङ्गतुरगादि यत् ।
पौरा जनपदाः सौम्याः सोमपुत्रोऽधिपः स्मृतः ॥
वराहसंहितायाम् ।
लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च ।
गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥
मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
सौराष्ट्रसेतुजलमार्गपण्यविलपर्वताश्रयिणः ॥
उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥
चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
दूतनपुंकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः ॥
आवर्त्तिक[९०] नटनर्त्तकघृततैलस्नेहतिक्तबीजानि ।
व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥
अथास्य नक्षत्रविशेषचारफलं वराहसंहितायाम् ।
विचरन् श्रवणधनिष्ठाप्राजापत्येन्द्रवैश्वदेवानि ।
मृद्गन् हिमकरतनयः करोत्यदृष्टिं सरोगभयाम् ॥
मृद्गन् निघ्नन् ।
तथा च काश्यपः ।
सौम्यं विष्णुं धनिष्ठां च रोहिणीं विष्णुमेव च ।
शशिजश्च यदा हन्ति प्रजा रोगैश्च पीड्यते ॥
वराहसंहितायाम् ।
रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा |
शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥
काश्यपस्तु ।
रौद्रादीनि यदा पञ्च भेदितानि समन्ततः ।
चन्द्रजेन तदा पीडा शश्वत् क्षुद्भव्याधिभिः ॥
हस्तादिषु यदा षट्सु नक्षत्रेष्विन्दुजः स्थितः ।
गवामशोभनः प्रोक्तः सुभिक्षं शस्यसम्पदः ॥
वराहसंहितायां तु ।
हस्तादीनि चरन् षडृक्षाण्युपपीडयन् गवामशुभः ।
स्नेहरसार्घविवृद्धिं करोति चोर्वी प्रभूतान्नाम् ॥
आर्यम्णं हौतभुजं भाद्रपदामुत्तरां यमेशं च ।
चन्द्रस्य सुतो निघ्नन् प्राणभृतां संक्षयं कुरुते[९१]॥
काश्यपस्तु ।
भरणीकृत्तिकार्यम्णमाहिर्बुध्नं च चन्द्रजः ।
धातुद्रव्यविनाशाय धनवार्त्ताँश्च पीडयेत् ॥
निघ्नन्निति सम्बन्धः ।
रेवतीं वारुणं मूलमश्विनीं चैव सोमजः ।
वणिजां जलजानां च तुरङ्गाणां च पीडनम् ॥
निघ्नन् करोतीति सम्बन्धः ।
वराहसंहितायां तु ।
आश्विनवारुणमूलान्यपमृद्गन् रेवतीं च चन्द्रसुतः ।
पण्यभिषग्गोजाविकसलिलजतुरगोपघातकरः ॥
पूर्वाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्गीयात् ।
क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥
काश्यपस्तु ।
पूर्वाद्यृक्षत्रये सौम्यो भेदं कृत्वा यदि व्रजेत् ।
क्षुच्छस्त्रतस्करभयं करोति प्राणिनां वधम् ॥
पराशरस्तु ।
विशेषस्तु सौम्यादिषड्नक्षत्रचारी सुवृष्टये । श्रविष्ठावारुणयोश्च । दक्षिणतो नैर्ऋतेन्द्रपूर्वासु भयकृत्। अश्विन्यां वणिग्विनाशाय । त्वाष्ट्रे शरच्छस्यानाम्
अथास्य देवलमतेनोदयदिनैर्गतिचतुष्टयं वराहसंहितायाम् ।
ऋज्वतिवाऽवक्ता विकला च मतेन देवलस्यैताः ।
पञ्चचतुर्द्व्येकाहा ऋष्यादीनां षडभ्यस्ताः ॥
तथा च देवलः ।
दिनानि त्रिंशदुदितस्तिष्ठेद्यदि च सोमजः ।
ऋज्वी गतिः सा विज्ञेया प्रजानां हितकारिणी ॥
चतुर्विंशदि्दनान्येवं यदि तिष्ठेच्च सोमजः ।
अतिवक्ता गतिर्ज्ञेया दुर्भिक्षभयलक्षणा ॥
अहानि द्वादश यदा बुधस्तिष्ठेत् तथोद्गतः ।
वक्त्रा गतिस्तु विज्ञेया शस्त्रसंभ्रमकारिणी ॥
षड्दिनानि यदा तिष्ठेदुद्गतः सोमनन्दनः ।
विकला सा गतिर्ज्ञेया भयरोगविवर्धिनी ॥
अथास्योदयदिनैर्गतिसप्तकमाह वृद्धगर्गः ।
प्रकृता च विमिश्रा च संक्षिप्ता तीक्ष्णसंज्ञिता ।
बुधस्य घोरा पापा च गतिर्योगान्तिकी तथा ॥
प्राकृतीं गतिमास्थाय त्रिपक्षं दृश्यते ग्रहः ।
मासं मासं च पादोनं मिश्रासंक्षिप्तयोर्भवेत् ॥
अष्टादशाहं तीक्ष्णायां पक्षं योगान्तिकीगतः ।
एकादशाहं पापायां दर्शयित्वाऽस्तमृच्छति ॥
अह्नां द्वाविंशतिं सार्धां संक्षिप्तामेत्य लक्ष्यते ।
अष्टादशाहं तीक्ष्णायां घोरायां दशपञ्च च ॥
पापायां पादहीनानि तथैकादश तिष्ठति ।
योगान्तिक्यामिन्दुसूनुर्त्तवाहं लक्ष्यते तथा ॥
चारकाले य एवोक्ताः सोमपुत्रस्य भागशः ।
अस्तकाले तु एव स्युः सूर्यमण्डलचारिणः ॥
पराशरश्च ।
अथ चत्वारिंशत्रिंशद्द्वाविंशत्यष्टादशपञ्चदशैकादशतवरात्राणि गतिक्रमादुदितोऽभिदृश्यते । तान्येवास्तमिते भवन्तीति ।
उदयदिनान्नवदिनपर्यन्तं योगान्तिकी । तदुपरि एकादशाहपर्यन्तं पापा । तदुपरि पञ्चदशपर्यन्तं घोरा । एवमन्या अपि । अत्र यान्युदयास्तदिनानि गणिते न सम्भवन्ति तान्युत्पातवशाद्भवन्ति ।
उदयश्चास्य सोत्पात एव तथा च वराहसंहितायाम् ।
नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् ।
जलपवनदहनभयकृद्धान्यार्घक्षयविवृद्ध्यै वा ॥
वृद्धगर्गस्तु ।
स्नेहशस्यरसादीनां तथाऽर्घक्षयवृद्धयोः ।
ग्रहाणामुदयार्थं वा दृश्यते ह्युदितो बुधः ॥
अत्युष्णमतिशीतं च वर्षं वायुरथोभयम् ।
फलं बुधोदयस्यैतद्रसधान्यविनाशकम् ॥
पराशरस्तु ।
उष्णशीतवाय्वभ्र सूर्येन्दुग्रहणायोदयते शस्यविघाताय न ।
अथैतासां फलं गर्गः ।
क्षेमारोग्यसुभिक्षेषु लक्षणा प्राकृता गतिः ।
संक्षिप्ता च विमिश्रा च शुभा शुभफलोदये ॥
शुभमशुभं च मिलितमेतयोः फलम् ।
तथा च नक्षत्रदिनाभ्यां प्राकृतां गतिमभिधायोक्तं वराहसंहितायाम् ।
संक्षिप्तमिश्रयोर्मिश्राम्-इति ।
गर्गः ।
तीक्ष्णा घोरा च पापा च तथा योगान्तिकी परा ।
एताश्चतस्रः सौम्यस्य दुर्भिक्षक्षेमलक्षणाः ॥
प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः ।
सप्त पराशरतन्त्रे नक्षत्रैः कीर्त्तिता गतयः ॥
प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च ।
मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि ॥
संक्षिप्तायां पुष्यः पुनर्वसुः फाल्गुनीद्वयं चेति ।
तीक्ष्णयां भाद्रपदाद्वयं सशक्राश्वयुक् पौष्णम् ॥
घोरा श्रवणं त्वाष्ट्रं वसुदेवं वारुणं चैव ।
पापाख्या सावित्रं मैत्रं चन्द्राग्निदेवतं चेति ॥
योगान्तिकी तु मूलं द्वे आषाढे गतिः सुतस्येन्दोः ।
प्राकृतगत्यामारोग्यवृष्टिशस्यप्रवृद्धयः क्षेमम् ॥
संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ।
तथा च पराशरः ।
अथास्य गतीः सप्त वक्ष्यन्ते प्राकृता विमिश्रा संक्षिप्ता तीक्ष्णा घोरा पापा योगान्तिकी चेति । प्राकृता याम्याग्नेयरोहिणीवायव्यानि सा क्षेमारोग्यशस्यवती । विमिश्रा सौम्यार्द्रामघाऽऽश्लेषा च । संक्षिप्ता पुण्यार्यम्णभाग्यादि-त्यानि । तीक्ष्णाऽजपादश्चत्वारि ज्येष्ठा च । घोरा त्रीणि श्रवणादीनि त्वाष्ट्रं च । पापा सावित्र्यैन्द्राग्न्यमित्राणि । योगान्तिकी मूलमाषाढे । एताश्चतस्त्रो दुर्भिक्षाक्षेमाय ।
अथोदयास्तफलं तत्र पराशरः ।
हस्तोदितो मैत्रमनुचरन् पशुगोकोशलानभिहन्ति । विशाखामध्यगस्तु शस्यम् ।
विष्णुधर्मोत्तरे ।
कार्त्तिकेऽश्वयुजे पौषे आषाढे श्रावणे बुधः ।
दृष्टो लोकभयाय स्यान्माघवैशाखयोस्तथा ॥
वृद्धगर्गस्तु ।
वैशाखे पौर्णमासे च श्रावणाषाढयोरपि ।
न दृश्यते बुधः प्रायो मासेष्वन्येषु दृश्यते ॥
यदाऽदृश्येषु दृश्यः स्याद्दृश्येषु च न दृश्यते ।
गवां रोगमनावृष्टिं दुर्भिक्षं चातिनिर्दिशेत् ॥
पौर्णमासे कार्त्तिके ।
अथोदयदिनफलम् । तत्र वृद्धगर्गः ।
पुरस्तादुदितः सौम्यो धान्यस्त्रेहार्धवर्धनः ।
अर्घह्रासकरः स्निग्धो भवत्ययनमास्थितः ॥
अथ वक्त्रफलम् । तत्र वृद्धगर्गः ।
अवर्षे कुरुते वर्षं वर्षे वर्षति यच्छति ।
भयं च कुरुते क्षेमं सर्वत्र प्रतिलोमगः ॥
अत्रानुक्त विशेषशान्तिषु बुधोत्पातेषु बुधग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो गार्गीये ।
बुधे यावत् तु दर्शनम्-इति ।
इति महाराजाधिराज निश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे बुधाद्भुतावर्त्तः ।
अथ बृहस्पत्यद्भुतावर्त्तः ।
तत्र शुभसूचकबृहस्पतिलक्षणं वराहसंहितायाम् ।
अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः ।
ग्रहहतो न यदि सत्पथवार्त्ता हितकरोऽमरगुरुर्मनुजानाम् ॥
बृहस्पतिस्वामिकान्याह यवनेश्वरः।
मङ्गाल्यधर्मद्विजवेदयज्ञधान्याकरस्थानगुणात्मजानाम् ।
सुवर्णयानासनपौष्टिकानां प्रभुर्गुरुर्मव्रिमहत्तराणाम् ॥
काश्यपस्तु ।
त्रैगर्त्ताः सिन्धुसौवीराः शतद्रूर्मथुरा नदी ।
शुघ्नौदीच्या विपाशा च दारुकाम्बष्ठका अपि ॥
राजा पुरोहितो मन्त्री माङ्गल्यं पौष्टिकं व्रतम् ।
कारुण्यकर्मसिद्धानां विद्याशौचतपस्विनाम् ॥
मत्स्याश्च वाटधानाश्च यौधेयाश्चार्जुनायानाः ।
सारस्वताः पारतकाः हस्त्यश्वध्वजचामराः ॥
शब्दार्थविदुषः पौरा नीतिज्ञाः शीलसंयुताः ।
मांसी तगरकुष्टं च शैलेयं लवणं सुरा
मधुरस्वादुवल्लीजविप्राणां चाधिपो गुरुः ॥
वराहसंहितायाम् ।
सिन्धुनदपूर्वभागो मधुरापश्चार्थभरतसौवीराः ।
शुघ्नौदीच्यविपाशासरिच्छतद्रूरमठशाल्वाः ॥
त्रैगर्त्तपौरवाम्बष्ठपारता वाटधानयौधेयाः ।
सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ॥
हस्त्य श्वपुरोहितनृपतिमन्त्रिमाङ्गल्यपौष्टिकासक्ताः ।
कारुण्यसत्यशौचत्रतविद्यादानधर्मरताः ।
पौरमहाधनशब्दार्थवेद विदुषोऽभिचारनीतिज्ञाः ।
मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च ॥
शैलेयकमांसीकष्टतगररससैन्धवानि वल्लीजम् ।
मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥
अथ वर्णफलम् । तत्र पराशरः।
श्वेतरक्तपीतकृष्णवर्णो ब्राह्मणादिवर्णजयाय ।
वराहसंहितायाम्।
धूम्राभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे।
विपुलेऽमले सुतारे रात्रौ दृष्टे नृपाः स्वस्थाः ॥
अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यावे ।
हरिते च तस्करेभ्यः पीडा रक्ते च शस्त्रभयम् ॥
अथ नक्षत्रफलम् । तत्र पराशरः।
मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजावकरः ।
वराहसंहितायां तु।
उदगारोग्यसुभिक्षक्षमकरो वाक्पतिश्चरन् भानाम् ।
याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥
पराशरः।
प्रच्छादनेऽवरोहिण्याः प्रजापीडां विनिर्दिशेत् ।
शकटारोहणे विद्याज्जगतः संभ्रमं बुधः ॥
अथ राशिफलं विष्णुधर्मोत्तरे।
जीवस्त्रयोदशभिर्मासै राशिं विचरन् शुभफलो भवति । अन्यथा कष्टफलः।
पराशरस्तु।
सपादमृक्षद्वयमब्देन प्रविचरन् सम्पत्करो विपर्ययाद्विपरीतः ।
वराहसंहिताया तु।
विचरन् नक्षत्रद्वयं मिष्टस्तत्सार्धवत्सरेण मध्यफलः ।
शस्यानां विध्वंसो विचरेदधिकं यदि कदाचित् ।।
अथ बार्हस्पत्याब्दफलं वराहसंहितायाम् ।
वर्षाणि कार्त्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि ।
क्रमशस्त्रिभं च पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥
काश्यपश्च ।
कार्त्तिकादिसमा ज्ञेया द्विद्विनक्षत्रचारिणः ।
त्रिभं भाद्रपदं ज्ञेयं फाल्गुनाश्वयुजौ[९२] तथा ॥
नक्षत्रचारिण इति चारशब्द उदयचारपरः ।
तथा च काश्यपः ।
संवत्सरे युगे चैव षष्ट्यब्देऽङ्गिरसः सुतः ।
यन्नक्षत्रोदयं कुर्यात् तत्संज्ञं वत्सरं विदुः ॥
वृद्धगर्गश्च ।
प्रावासान्ते समर्क्षेण तूदितो युगपच्चरन् ।
तस्मात् कालात् तदृक्षाद्यो गुरोरब्दः प्रवर्त्तते ॥
वराहसंहितायां च ।
नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री ।
तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥
पराशरेणाप्युदयादेव फलमुक्तं तद्वाक्यमत्रैव लिखिष्यामः । अतो यत्र चारमात्रेण बार्हस्पत्याब्दश्रवणं तत्रोदयचारपरता । पराशरवृद्धगर्गाभ्यां तु श्रवणादित्रये श्रावणः । पूर्वभाद्रपदादित्रये भाद्रः । अश्विनीभरण्योराश्विन इत्युक्तम् तद्वाक्यमनन्तरमेव लिखितम् ।
अथैतेषां फलम् । तत्र पराशरः ।
तस्मिन् कृत्तिकारोहिणीषूदिते क्षुच्छस्त्राग्न्यनावृष्टिप्राबल्यं गोशाकटिकपीडा च । सौम्यरौद्रयोरेतदेव गवादिवर्जम् । तिष्यपुनर्वस्वोरुक्तविपर्ययः । पुष्यवन्मघाऽऽश्लेषासु राज्ञामृपतापश्च । फाल्गुनीसावित्रेषु क्वचित् क्षेमसुभिक्षं नारीदौर्भाग्यं च । चित्रास्वात्युदितो नृपशस्यवर्षक्षेमारोग्यकरः । एवमेवैन्द्राग्न्यमैत्रयोः । ऐन्द्रनैर्ऋतयोर्वनस्पतिवर्षश्रेष्ठनृपतिप्रधानविनाशायेतरवृद्धये । आषाढ-
योः प्राक्परशस्यानां वृद्धिक्षयौ मध्यक्षेमवर्षणमन्योन्यभेदश्च । श्रवणश्रविष्ठावारुणेषु यज्ञनृपशस्यवर्षक्षेमारोग्यवृद्धये । अजाहिर्बुध्न्यपौष्णेष्वाषाढफलं प्राक्शस्यविपर्ययः । प्रभूतशस्यविक्षेप[९३]
क्षेमाण्यश्वयुग्भरण्योः ।
विष्णुधर्मोत्तरे ।
आग्नेयकेशगे जीवे वर्षे स्याद्वह्निदैवतम् ।
अहितं तु विनिर्दिष्टं गोद्विजाग्न्युपजीविनाम् ॥
केशगे रोहिणीगते ।
गर्गस्तु ।
कार्त्तिकः प्रचुरातङ्कः क्षुच्छस्त्राग्निभयप्रदः ।
गोशाकटिकपीडाकृद्वारुणोऽवर्षकृन्मतः ॥
वराहसंहितायां तु ।
शकटानलोपजीविकगोपीडाव्याधिकोपश्च ।
वृद्धिस्तु रक्तपीतककुसुमार्ना कार्त्तिके वर्षे ॥
वृद्धगर्गस्तु ।
कृत्तिकां रोहिणीं चापि चरेद्यदि बृहस्पतिः ।
अब्दः स कार्त्तिको नाम भयव्याधिसमाकुलः ॥
अग्निः कुप्यति शस्त्रं च चित्रं वर्षति वासवः ।
अपरं पुष्कलं विन्द्यात् पूर्वशस्यमपुष्कलम् ॥
कार्त्तिकः ।
विष्णुधर्मोत्तरे ।
सौम्यरौद्रोपगे जीवे सौम्यं वर्षमुदाहृतम् ।
ईतयः सकलास्तत्र अनावृष्टिभयं तथा ॥
गर्गस्तु ।
वर्षाहन्ता विशुष्काम्बु[९४] मिथोभेदभयावहः ।
शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः ॥
वराहसंहितायाम् ।
सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च शस्यवधः ।
व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥
वृद्धगर्गस्तु ।
सौम्यं रौद्रं च नक्षत्रं चरेद्यदि बृहस्पतिः ।
भवेत् स मार्गशीर्षोऽब्दः सर्वदोषसमन्वितः ॥
न वर्षति तदा देवः शुष्यन्ति च जलाशयाः ।
न समृद्व्यन्ति शस्यानि जातं चैव विहन्यते ॥
दुर्भिक्षभयरोगैश्च विविधैश्चाप्युपद्रवैः ।
चराचराणां भूतानामनयः संप्रवर्त्तते ॥
मार्गशीर्षः ।
विष्णुधर्मोत्तरे ।
आदित्यपुष्यगे चाब्दं विज्ञेयं गुरुदैवतम् ।
आतङ्करहिते लोके क्षेमारोग्यसुखप्रदम् ॥
वराहसंहितायाम् ।
शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥
द्वित्रा गुणा हि यस्मात् स द्वित्रिगुणो हि धान्यार्थः । यावता मूल्येन यावद्धान्यं
लब्धमासीत् तावता तद्विगुणं त्रिगुगं वा लभ्यत इत्यर्थः ।
गर्गस्तु ।
पुनर्वसुं च पुष्यं च चरेद्यदि बृहस्पतिः ।
पौषः संवत्सरः स स्यात् सर्वौषधिसमन्वितः ॥
शस्यं सम्पद्यते सर्वं सम्यग् वर्षति वासवः ।
उत्तमं क्षेमसौभिक्षं भवेद्धर्मस्तदा सताम् ॥
पाषः । विष्णुधर्मोत्तरे ।
सार्पपित्रोपगे जीवे पित्र्यं वर्षमुदाहृतम् ।
हार्दिवृष्टिप्रदं लोके शिवसौभिक्षकारकम् ॥
वराहसंहितायां तु ।
पितृप्रजापतिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् ।
आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥
गर्गस्तु ।
क्षेमारोग्यसुभिक्षाणि वर्षाणि च शुभानि च ।
पितृपूजाः प्रवर्त्तन्ते माघे राज्ञां च सन्धयः ॥
वृद्धगर्गस्तु ।
आश्लेषां च मघां चैव चरेद्यदि बृहस्पतिः ।
माघसंवत्सरः स स्यात् सर्वभूतहितोदयः ॥
सम्यग्वर्षति पर्जन्यः शस्यमुत्तमतां भजेत् ।
क्षेमारोग्यसुभिक्षाणि प्रजा धर्मकरी तदा ॥
माघः ।
विष्णुधर्मोत्तरे ।
फाल्गुनीद्वयहस्तस्थे वर्षं भाग्यमुदाहृतम् ।
चौरप्राबल्यदं घोरं नारीदौर्भाग्यकारकम् ॥
गर्गस्तु ।
नारीदौर्भाग्यकृद्घोरः फाल्गुनः शस्यवर्षदः ।
क्वचित् क्षेमसुभिक्षाणि क्वचिदक्षेमकारकः ॥
वराहसंहितायाम् ।
फाल्गुनवर्षो विन्द्यात् क्वचित् क्वचित् क्षेमवृष्टिशस्यानि ।
दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥
वृद्धगर्गः ।
फाल्गुन्यौ चैव हस्तं च चरेद्यदि बृहस्पतिः ।
स फाल्गुनोऽतिक्रूरः स्याद्धान्यमुत्कर्षतां व्रजेत् ॥
क्वचिन्निष्पद्यते शस्यं क्वचिच्छस्यं विपद्यते ।
क्वचित् सुभिक्षं भवति क्वचित् क्षेमः क्वचिद्द्वयम् ॥
फाल्गुनः ।
विष्णुधर्मोत्तरे ।
चित्रास्वातिगते जीवे त्वाष्ट्रं वर्षमुदाहृतम् ।
शूकधान्यक्षयकरं भूपानां भयवर्धनम् ॥
गर्गस्तु ।
मृदुभावाश्च राजानः स्त्रियः कामपरायणाः ।
क्षेमारोग्ये च मृदुनी चैत्रो वर्षस्तदा मृदुः ॥
वृद्धगर्गस्तु ।
चित्रां स्वातिं च नक्षत्रं चरेद्यदि बृहस्पतिः ।
चैत्रः संवत्सरः सोऽल्पक्षेमारोग्यसुभिक्षकृत् ॥
मृदवः पार्थिवाश्चात्र चित्रं च मृदु वर्षति ।
वराहसंहितायां तु ।
चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः ।
वृष्टिस्तु कोशधान्यस्य भवति पीडा च रूपवताम् ॥
चैत्रः ।
विष्णुधर्मोत्तरे ।
विशाखामैत्रगे जीवे वर्षमिन्द्राग्निदेवतम् ।
सौभिक्षानन्दजनकं यज्ञधर्मप्रवर्धनम् ॥
वराहसंहितायां तु ।
वैशाखे धर्मपरा विगतभयाः प्रमुदिताः प्रजाः सर्वाः ।
यज्ञक्रिया प्रवृत्तिर्निष्पत्तिः सर्वशस्यानाम् ॥
गर्गस्तु ।
ईतयः प्रशमं यान्ति सन्धिं कुर्वन्ति पार्थिवाः ।
वैशाखे शस्यजनना वृष्टयः सम्भवन्ति च ॥
वृद्धगर्गस्तु ।
विशाखां चैव मैत्रं च चरेद्यदि बृहस्पतिः ।
निरीतिकः स वैशाखो हायनः प्राणवर्षकृत्[९५] ॥
सर्वशस्यानि पुष्यन्ति सुभिक्षं क्षेममेव च ।
नरेन्द्राश्चाविरोधेन प्रजा रक्षन्ति धर्मतः ॥
वैशाखः ।
विष्णुधर्मोत्तरे ।
ज्येष्ठामूलोपगे जीवे वर्षं स्याच्छकदैवतम् ।
पीडाकरं धर्मभृतां सम्यक् श्रेष्ठमहीभृताम् ॥
गर्गः ।
वृक्षगुल्मलताशस्यक्षेमकर्मविनाशनः ।
क्रूराज्ञादीप्तिजननो ज्येष्ठः श्रेष्ठनरान्तकृत् ॥
वराहसंहितायां तु ।
ज्येष्ठे ज्ञातिकुलधनश्रेणीश्रेष्ठा नृपाः ससर्वधर्मज्ञाः ।
पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ॥
वृद्धगर्गस्तु ।
ज्येष्ठे मूले च नक्षत्रे चरेद्यदि बृहस्पतिः ।
ऐन्द्रसंवत्सरः स स्यात् सर्वभूतहिते शिवः ॥
दुर्भिक्षं जायते घोरं वैरं चैव प्रवर्त्तते ।
न च वर्षेत् तदा देवो न च निर्वर्त्तते सदा ॥
ज्येष्ठः ।
विष्णुधर्मोत्तरे ।
आषाढद्वयगे जीवे वैश्वदेवमुदाहृतम् ।
नाशुभं न शुभं लोके राजविग्रहकारणम् ॥
वराहसंहितायाम् ।
आषाढे जायन्ते शस्यानि क्वचिदवृष्टिरन्यत्र ।
योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥
गर्गस्तु ।
दुर्भिक्षाक्षेमजनन आषाढोऽन्योन्यभेदकृत् ।
भूपालयुद्धजननी मध्यमक्षेमकारकः ॥
वृद्धगर्गस्तु ।
पूर्वोत्तरे च आषाढे चरेद्यदि बृहस्पतिः ।
आषाढः स तु विज्ञेयस्तस्य संवत्सरोऽशुभः ॥
मिथो भेदाः प्रवर्त्तन्ते बलक्षोभा भवन्ति च ।
शारदं पच्यते धान्यं ग्रीष्मधान्यं न पच्यते ॥
आषाढः ।
विष्णुधर्मोत्तरे ।
विष्णुवासवभस्थे तु वैष्णवं परिकोर्त्तितम् ।
क्षेमसौभिक्षदं लोके पाखण्डपरिपीडनम् ॥
वराहसंहितायां तु ।
श्रावणवर्षे क्षेमं सम्यक् शस्यानि पाकमुपयान्ति ।
क्षुद्रा ये पाखण्डास्ते पीड्यन्ते च तद्भक्ताः ॥
गर्गस्तु ।
श्रावणः शस्यसम्पन्नः क्षेमारोग्यविवर्धनः ।
धान्यमाहार्घ्यमायाति सम्यग्वर्षति वासवः ॥
क्षुद्राः पाखण्डिनः सर्वान् सद्भक्ताँश्चोपतापयेत् ।
वृद्धगर्गस्तु ।
श्रावणादीनि च त्रीणि चरेद्यदि बृहस्पतिः ।
श्रावणो नाम सोऽब्दः स्यात् क्षेमसौभिक्षपुष्टिमान् ॥
श्रावणः । गर्गस्तु ।
प्रौष्ठपादे वरं शस्यं विनश्यत्यपरं च यत् ।
निष्पद्यते क्वचित् क्षेमं क्वचिदक्षेमकारकम् ॥
वरं शस्यं श्रेष्ठशस्यं सम्भवति । अपरं भावि तद्विनश्यतीति योजनम् ।
तथा च विष्णुधर्मोत्तरे ।
प्रौष्ठपादद्वयोपगे जीवे वारुणगे तथा ।
पूर्वशस्यप्रदं त्वाजं पश्चाद्धान्यविनाशकम् ॥
वराहसंहितायां तु ।
भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वशस्यं च ।
न भवत्यपरं शस्यं क्वचित् सुभिक्षं क्वचिच्च भयम् ॥
वृद्धगर्गस्तु ।
रेवतीं न प्रौष्ठपदं चरेद्यदि बृहस्पतिः ।
प्रौष्ठपाद इति ज्ञेयो मध्यः संवत्सरो भवेत् ॥
सम्पद्यते शस्यपूर्वमुत्तरं नोपपद्यते ।
योगक्षेमो भवेन्मध्यो धान्यमुप्तार्धतां व्रजेत् ॥
भाद्रः ।
विष्णुधर्मोत्तरे ।
पौष्णाश्वियाम्यगे जीवे वर्षं स्यादश्विदैवतम् ।
सुवृष्टिक्षेमदं लोकं सर्वातङ्गविवर्जितम् ॥
वराहसंहितायां तु ।
अश्वयुगब्देऽजस्त्रं पतति जलं प्रमुदिताः प्रजाः क्षेमः ।
प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ॥
पराशरस्तु ।
भवेच्छस्याम्बुजलजक्षेमश्चाश्वयुजः शिवः ।
संवृत्तो वत्सरः श्रीमान् सर्वकामसुखावहः ॥
अश्विनीं चैव याम्यं च चरेद्यदि बृहस्पतिः ।
संवत्सरः सोऽश्वयुजः सर्वभूतहितावहः ॥
सुभिक्षारोग्यक्षेमं च भवेत् स हि सदोत्तमः ।
आश्विनः ।
अथ बार्हस्पत्ये द्वादशयुगानि ।
विष्णुधर्मोत्तरे ।
तथा खण्डयुगानीह द्वादशोक्तानि भूपते ।
षष्ट्यब्दं च निवर्त्तन्ते पञ्चाब्दानि पृथक् पृथक् ॥
एतेषां तु प्रवक्ष्यामि देवतानि पृथक् पृथक् ।
विष्णुर्वृहस्पतिः शक्तो वह्निस्त्वष्टा तथैव च ॥
अहिर्बुध्नश्च[९६] विश्वेदेवा निशाकरः ।
इन्द्राग्नी चैव नासत्यौ भगश्चौव महाबलः ॥
इति द्वादश ये प्रोक्ता मया खण्डयुगे खलु ।
वटकणिकायाम् ।
चत्वारि युगान्यादौ शुभानि चत्वारि मध्यानि ।
चत्वारि तान्यशुभानि बुधैर्विशेषः कृतो वर्षे ॥
प्रभवादिनिर्विशेषो विष्णुधर्मोत्तरे ।
प्रभवो विभवः शुक्लः प्रमोदश्च प्रजापतिः ।
वैष्णवे तु युगे पञ्च प्रोक्ताः संवत्सराः शुभाः ॥
वराहसंहितायाम् ।
क्वचित् त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः ।
संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथाऽपि ॥
तस्माद्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः ।
क्रमेण पञ्चानां फलं पञ्चकम् । विष्णुधर्मोत्तरे ।
अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ।
अब्दा जीवयुगे पञ्च तेषामाद्याः शुभास्ततः ॥
वराहसंहितायां तु ।
अद्योऽङ्गिराः श्रीमुखभावसंज्ञौ युवा च धातेति युगे द्वितीये ।
वर्षाणि पञ्चैव यथाक्रमेण त्रोण्यत्र शस्तानि समे परे द्वे ।
त्रिष्वद्भिराद्येषु [९९] निकामवर्षी देवो निरातङ्गभयश्च लोकः ।
अब्दद्वयेऽप्येव समा सुवृष्टिः किन्त्वत्र रोगाः समारागमश्च ॥
विष्णुधर्मोत्तरे ।
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः ।
शाक्रेऽन्दाः पञ्च निर्दिष्टा येषामद्यौ शुभावहौ ॥
वराहसंहितायां तु ।
शाक्रे युगे पूर्वमथेश्वराख्यं वर्षं द्वितीयं बहुधान्यमाहुः ।
प्रमाथिनं विक्रममप्यतोऽन्यं वृषं च विन्द्याद्गुरुचारयोगात् ॥
आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
पापः प्रमाथी वृषविक्रमौ च सुभिक्षदौ रोगभयप्रदौ च ॥
कृतानुकारं सत्ययुगसादृश्यम् ।
विष्णुधर्मोत्तरे ।
वर्ही सुभानुस्तरणो वारिदश्च तथा नृपः ।
आग्नेये पञ्च निर्दिष्टा द्वितीयं तेषु शोभनम् ॥
वराहसंहितायाम् ।
श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् ।
वर्ष द्वितीयं तु सुभानुसंज्ञं रोगप्रदं मृत्युकरं नवं[१००] च ॥
तारणं तदनु भूरिवारिदं शस्यवृद्धिमुदितातिपार्थिवम् ।
पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुंलम् ॥
विष्णुधर्मोत्तरे ।
सर्वजित् सर्वधारी च विरोधी विकृतः खरः ।
त्वाष्ट्रे पञ्चयुगे येषां द्वितीयस्तु शुभप्रदः ॥
वराहसंहितायां तु ।
त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी ।
तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ॥
नन्दनोऽथ विजयो जयस्तथा मन्मथश्च परतश्च दुर्मुखः ।
कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमः परः ॥
विष्णुधर्मोत्तरे ।
नन्दनो विजयश्चैव जयः कामश्च दुर्मुखः ।
अहिर्बुध्य्नयुगे पञ्च येषामाद्या हितास्त्रयः ॥
वराहसंहितायां तु ।
हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च ।
शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ॥
ईतिप्रायाः प्रचुरपवना वृष्टिरब्दे तु पूर्वे
मन्दं शस्यं न बहु सलिलं वत्सरेऽत्र द्वितीये ।
अत्युद्वेगः प्रचुरसलिलः स्यात् तृतीयश्चतुर्थो
दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥
विष्णुधर्मोत्तरे ।
शोककृच्छुभकृत् क्रोधी विश्वावसुपरावसू ।
वैश्वे पञ्च शुभौ येषामब्दौ राजन् द्विपञ्चमौ ॥
वराहसंहितायां तु ।
विष्णुधर्मोत्तरे ।
प्लवङ्गः कीलकः सौम्यः समो रोधकृदेव च ।
सौम्ये पञ्च शुभौ येषां प्रथमानन्तरावुभौ ॥
वराहसंहितायां तु ।
आद्यः प्लवङ्गो नवमेयुगेऽब्दः स्यात् कीलकोऽन्यःपरतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं शुभप्रदौ कीलकसौम्यसंज्ञौ ॥
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यत् पञ्चमं रोधकृदित्यथाब्दं चित्रं जलं तत्र च शस्यसम्पत् ॥
विष्णुधर्मोत्तरे।
धावनं मथनं वीरं राक्षसं चानलं तथा ।
इन्द्राग्निदैवते पञ्च सर्व एवाशुभप्रदाः ॥
वराहसंहितायां तु ।
इन्द्राग्निदेवं दशमं युंगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् ।
प्रमाथिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ॥
परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोषः ।
अलसस्तु जनः प्रमाथिसंज्ञे मरकं रक्तकपुष्पवीजनाशः ॥
विक्रमः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा ।
ग्रीष्मधान्यजननीऽथ राक्षसो वह्निकोपमरकप्रदोऽनलः ॥
विष्णुधर्मोत्तरे।
पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती ।
आश्विने तु युगे पञ्च तृतीयस्तेषु शस्यते ॥
वराहसंहितायाम् ।
एकादशे पिङ्गलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च ।
आद्ये त्ववृष्टिर्महती सचौरा श्वासो हनुत्कम्पयुतश्च कासः ॥
यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाञ्च ।
रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः ॥
विष्णुधर्मोत्तरे ।
दुन्दुभ्यङ्गारकौ रक्तः क्रोधश्चापि क्षयस्तथा ।
भाग्ये पञ्च शुभाः सर्वे विशेषेण च पञ्चमः ॥
वराहसंहितायां तु ।
भाग्ये युगे दुन्दुभिसंज्ञमाद्यं शस्यस्य वृद्धिं महतीं करोति ।
अङ्गारसज्ञं तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥
रक्ताख्यमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च ।
क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यं कुरुते विरोधैः ॥
क्षयमिति युगास्यान्त्यस्यान्त्यं बहुक्षयकारकम् ।
जनयति भयं तद्विप्राणां कृषीवलवृद्धिदम् ॥
उपचयकरं विट्शूद्राणां परस्वहृतां तथा ।
कथितमखिलं षष्ट्यब्दे यत् तदत्र समासतः ॥
षष्ट्यव्दारम्भसमयो विष्णुधर्मोत्तरे ।
माघशुक्लसमारम्भे चन्द्रार्कौै वासवर्क्षगौ ।
जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा भवेत् ॥
अथाद्भुतसागरारम्भशकाब्दात् षष्ट्यब्दयुगगणनम् ।
खनवदशो - १०९०नशकाब्दात्
षड्- ६गुणितात् पुनः कृताब्धि-४४ गुणात् ।
षट्त्रिगुणाश्वि -२३६समेता
दयुतत्रय -३००००लब्धयुतो गताब्दगणः ।।
तस्मादिषुभि-५र्लब्धानि पञ्चयुक्तानि सूर्य-१२-शिष्टानि ।
वृत्तानि वैष्णवादीन्यध:प्रविष्टस्य वर्षाणि ।।
अत्रानुक्तविशेषशान्तिषु बृहस्पत्युत्पातेषु बृहस्पतिपूजापूर्विका
प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो वराहसंहितायाम् ।
जीवस्य वर्षेण -इति ।
इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे बृहस्पत्यद्भुतावर्त्तः ।
अथ भार्गवाद्भुतावर्त्तः।
तत्र शुभसूचकभार्गवलक्षणमाह पराशरः ।
हिमकनकरजतशङ्खस्फटिकवैदूर्यमुक्तामधुघृतमेदमांससम-
वपुरच्छस्निग्धदीपकान्तिप्रकाशः प्रसन्नार्चिरणुरवनिपतिहितकरः प्रशान्तवैरदुर्भिक्षरोगावृष्टिश्च ।
अपि च ।
कूटाङ्गारनिभः स्निग्धो मार्गस्थो रजतप्रभः ।
भार्गवो विस्तृतो विश्वप्रजाभावकरः स्मृतः ॥
कूटाङ्गारनिभः सप्तलोहवर्णः ।
वराहसंहितायां तु ।
दधिकुमुदशशाङ्ककान्तिभृत् स्फुटविकसन् किरणो वृहत्तनुः ।
सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥
येषामयं स्वामी तेषामेवम्भूतो विशेषेणाभ्युदयाय विपरीतो विशेषेण विपरीताय ।
भार्गवस्वामिकान्याह यवनेश्वरः ।
वज्रादिरत्नाकरगोसुतस्त्रीविवादगन्धाम्बरभूषणानाम् ।
सौभाग्यसौख्यश्रुतिसञ्चयानां प्रभुर्निधीनां धनिनां च शुक्रः ॥
काश्यपस्तु ।
गिरिर्बहुगिरिर्नाम देशः ।
सुरूपं सुभगोद्यानं कामुका: कामचारिणः ।
पेशला मधुरा हृद्याः सलिलाशयजीविनः ॥
तरुणा योषितः क्रीडा विदुषां जनगोष्ठिका ।
चित्राण्डजाः कुशास्तरणपत्रोर्णं नालिकामलम् [१०६]॥
पिप्पल्यश्चन्दनं जातिरजाद्यामलकं[१०७] तथा ।
गन्धपत्रं च लोध्रं च शुक्र एषां पतिः स्मृतः ॥
वराहसंहितायां तु ।
तक्षशिलमार्त्तिकावतबहुगिरिगान्धारपुष्कलावतकाः ।
प्रस्थलमालवकैकयदशार्णकोशीनरः शिवयः ॥
ये च पिबन्ति वितस्तामैरावतीं चन्द्रभागसरितं च ।
रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥
सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः ।
वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥
उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः ।
विद्वदमात्यवणिग्जनपट[१०८]कृच्चित्राण्डजास्त्रिफलाः ॥
कौशेयकटुक[१०९] कम्बलपत्रौर्णिकलोध्रुगन्धपत्राणि ।[११०]
जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥
वटकणिकायां तु ।
देशा भृगोस्तक्षशिला वितस्ता गान्धारकाः पुष्कलमालवाश्च ।
दशार्णकोशीनरचन्द्रभागाश्चैद्याश्च संप्रस्थलकैकयाख्याः ॥
अशुभसूचकभार्गवलक्षणमाह पराशरः ।
श्यावनीलरूक्षकपिलरक्तध्वस्तदीनाल्पलोधसन्निभः शस्त्रवैरव्याध्यवर्षान्नक्षयकरः ।
अथ वर्णफलम् । तत्र वृद्धगर्गः ।
सुवर्णरजताभश्च घृतमण्डनिभो महान् ।
शुक्रो माञ्जिष्ठवर्णश्च दधिवर्णश्च वर्षकः ॥
वराहसंहितायाम् ।
शिखिभयमनलाभे शस्त्रकोपश्च रक्ते
कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
हरितकपिशरूपे श्वासकासप्रकोपः
पतति न सलिलं खाद्बस्मरुक्षासिताभे ॥
वृद्धगर्गश्च ।
नीले कपिलवर्णे वा भयं भवति भार्गवे ।
ताम्रवर्णे तथा रूक्षे मेघेष्वम्बु न विद्यते ॥
श्यामवर्णोऽभिघाताय नीलपीतस्तु रोगकृत् ।
चित्रे भयान्युदीर्यन्ते दुर्भिक्षं कपिले भवेत् ॥
धूम्रवर्णोऽग्निवर्णो वा कुर्याद्वस्त्राग्निसम्भवम् ।
अथ नक्षत्रगतफलम् । तत्र काश्यपः ।
अश्विन्यां तुरगे पीडा याम्ये तु कृषिजीविनाम् ।
वराहसंहितायां तु ।
अश्विन्यां हयपीडा याम्ये तु किरातयवनाम् ।
पराशरः ।
अनलमभिव्रजन् पुरविरोधाय ।
काश्यपस्तु ।
भेदयेत् कृत्तिकां शुक्रो बहु तोयं हि पातयेत् ।
रोहिणीतुरगं घोरं गृद्धाकुलभयावहम् ॥
वराहसंहितायां तु ।
भिन्दन् गतोऽनलर्क्षं कुलातिक्रान्तवारिवाहाभिः ।
अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री ॥
काश्यपः ।
मृगे तु सर्वशस्यानां क्षयं कुर्याद्भृगोः सुतः ।
वराहसंहितायां तु ।
सौम्योपगतो रसशस्यसंक्षयायोशनाः समादिष्टः ।
आर्द्रागितस्तु कोशलकलिङ्गहा सलिलनिकरकरः ॥
काश्यपः ।
पुनर्वसौ विदर्भाँश्च पीडयत्युशनाः शुभः ।
पुष्ये तु वृष्टिमाख्याति पुष्टां शस्यविवृद्धये ॥
वराहसंहितायां तु ।
अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः ।
पुष्ये पुष्टा वृष्टिर्विद्याधररणविमर्दश्च ॥
काश्यपः ।
आश्लेषासु च सर्पाणां पीडां कुर्याद्भृगोः सुतः ।
मघायां तु गते घोरं भयं विन्द्यात् तु भार्गवे ॥
सलिलं च भवद्भूरि येन धात्री न दृश्यते ।
वराहसंहितायां तु ।
आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन् शुक्रः ।
भिन्दन्मघां महामात्रदोषकृद्भूरिवृष्टिकरः ॥
काश्यपस्तु ।
भाग्ये पुलिन्दशवरान् नाशयेत् सलिलं पतेत् ।
आर्यम्णे तु भवेत् पीडा पाञ्चालकुरुजाङ्गले ॥
सुवृष्टिश्च सुभिक्षश्च चरत्यस्मिन् भृगोः सुते ।
वराहसंहितायां तु ।
भाग्ये शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय |
आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी ॥
काश्यपः ।
हस्ते प्राप्ते कौरवाणां पीडां चित्रकरेषु च ।
जलस्य तु निरोधं वै कुर्यादेवं तु भार्गवः ॥
सवृष्टिं कृपकृत्पीडां चित्राभेदं यदा व्रजेत् ।
वराहसंहितायाम् ।
कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः ।
कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥
काश्यपः ।
स्वातिं स्थित्वा सुवृष्टिं च वणिङ्नाविकभीतिकृत् ।
वराहसंहितायां तु स्वातिगतिमात्रेण फलमुक्तम् ।
स्वातौ प्रभूतवृष्टिर्दूतवणिङ्नाविकान् स्पृशत्यनयः ।
काश्यपः ।
विशाखायां सुवृष्टिश्च मैत्रे मैत्रं विकाश्यते ।
ऐन्द्रे पौरविरोध: स्यान्मूले तु भिषजां भयम् ॥
वराहसंहितायां तु ।
ऐन्द्राग्नेऽपि सुदृष्टिर्वणिजां न भयं विजानीयात् ।
मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसंतापः ॥
मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः ।
काश्यपः ।
आषाढयोर्व्याधिभयं वैष्णवे श्रवणे रुजः ।
धनिष्ठायां कर्मकृतां वारुणे शौण्डिकक्षयः ॥
प्रौष्ठपादे व्याघ्रहिंसा आहिर्बुध्न्ये फलक्षयः ।
पापिनां सनृपाणां च पौष्णे विद्यान्महाभयम् ॥
वराहसंहितायां तु ।
आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति ।
श्रवणे श्रवणव्याधिः पाखण्डभयं धनिष्ठासु ॥
शतभिषजि सौण्डिकानामजैकभे द्यूतजीविनां पीडा।
कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥
आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् ।
पराशरः ।
भार्ग्यार्यमानिलेन्द्राग्नेयप्रौष्ठपादरौद्रयाम्यतिष्यगतः स्निग्धो रश्मिवान् वर्षकरः ।
वटकणिकायाम् ।
भाद्रपदानिलचित्रा याम्यविशाखे सफाल्गुन्यौ ।
समुपेत्य वर्षति सितो भिन्दँश्च गतो मघाग्नेये ॥
मूलज्येष्ठाषाढापुनर्वसूनां यदैति मध्येन ।
भौमहते चामार्गे। यावत् तावत् कुतः सलिलम् ॥
पराशरः ।
प्राजापत्यत्वाष्टेन्द्राग्नेयमैत्राणामुदङ्मध्यदक्षिणेन च व्रजन् क्षेमशस्यवृष्टीनां प्रकृष्टमध्यान्तफलो भवति मित्र्याग्नेययोरुदङ्मध्यगतः । प्रजाहिताय एवमेवाषाढादित्यरोहिणीमध्यगत इन्दोर्दक्षिणतः सुवृष्टये सूर्यादुत्तरतः ।
अवर्षके भे विचरन् यदि वर्षति भार्गवः ।
वर्षकर्क्षगतो वर्षं षोडशार्चिर्न वर्षति ॥
षोडशार्चिरिति संपूर्णरश्मिरपि न वर्षतीत्यर्थः ।
वृद्धगर्गस्तु ।
आग्नेयत्वाष्ट्रमैत्राणि रोहिणीं पित्र्यमेव च ।
ऐन्द्राग्नं चापि रौद्रं च शुक्रो दक्षिणतश्चरन् ॥
करोत्यर्थकृतां वृद्धिमवृष्टिं शस्यनिग्रहम् ।
शस्त्रं रोगं च कोपं च ग्रीष्मे चाग्निभयं भवेत् ॥
आषाढरोहिणीनां च भेदने च पुनर्वसोः ।
एतदेव फलं कुर्यात् पुराणं चापि विद्रवन् ।
एषामेवोत्तरेणेह चरन् सौभिक्षवृष्टिकृत् ॥
भार्गवो मध्यगश्चापि कुर्यान्मध्यशुभाशुभम् ॥
अथास्य वीथीमार्गनिर्णयो वराहसंहितायाम् ।
नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः ।
अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः कथिताः ॥
तथा च काश्यपः ।
त्रिष्वश्विन्यादिकर्क्षेषु विज्ञेया नागवीथिका ।
गजा तु रोहिणी चैवमादित्यैरावती स्मृता ॥
मघाद्या वृषभा ज्ञेया गोवीथी हस्तसंज्ञिता ।
जारद्गवी विशाखाद्या मूलाद्या मृगवीथिका ॥
अजा तु विष्णुदैवत्या भाद्राद्या दहना स्मृता ।
अश्विन्यादिभिस्त्रिभिर्नक्षत्रैर्भार्गवस्यैता वीथयो भवन्ति । गजा तु रोहिणी चैवेति । रोहिण्यादिनक्षत्रत्रयेण गजवीथी भवतीत्यर्थः । एवमन्यत्रादिशब्दोऽध्याहार्यः ।
तथा चासितः ।
अश्विन्यादित्रिभाः सर्वा नागाद्या दहनान्तिकाः ।
वीथयो भृगुपुत्रस्य नव प्रोक्ता मनीषिभिः ॥
वराहेण त्वेता एव वीथयो नक्षत्रान्तरैः कथिताः ।
तथा च वटकणिकायाम् ।
वीथी नागानाम्नी स्वातिर्भरणी च कृत्तिका चैव ।
स्वायम्भुवात् त्रिभा स्याद्गजा तथैवरावती वृषभा ॥
अजपादादिचतुष्कं गौः स्याज्जारद्गवी त्रिभा श्रवणात् ।
मैत्रादित्रिमृगाऽजा हस्ता चित्रा विशाखा च ।
द्वे आषाढे दहना तिस्र उदग्वीथयः क्रमाच्छुभदाः ।
तिस्रो मध्या पापा याम्याः पापा मृगाद्यास्तु ॥
नागा तु पवनयाम्यानलानि पैतामहात् त्रिभास्तिस्रः ।
गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भाद्रपदे ॥ .
जारद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभं च मैत्राद्यम् ।
हस्तविशाखात्वाष्ट्राण्यजा त्वषाढाद्वयं दहना ॥
तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः ।
तासामप्युत्तरमध्यदक्षिणावस्थितैकैका ॥
उत्तरवीथीषु सितः सुभिक्षशुभकृद्गतोऽस्तमुदयं वा ।
मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥
अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् ।
उदगाद्यासु यथाक्रममेवं फलनिश्चयं ब्रूयात् ॥
पराशरेण त्वस्य वीथयो न कथिताः । सामान्यग्रहवीथय एवास्य वीथय इति तत्सुरसः । ताश्च मार्गनिर्णये लिखिष्यामः । वीथीफलानि तु लिख्यन्ते तद्यथा ।
तत्र नागवीथीगतो नागाजामाश्रिताँश्च पीडयति । गजकुलानि गजवीभ्याम् । ऐरावत्यां नृपतिबलविरोधः । आर्षभ्यां वयोवित्तज्ञानबलाधिकशस्यपीडा श्लेष्मव्याधिप्रादुर्भावश्च । गोवीथ्यां शस्यगोमतां हानिः । जरद्गववीथ्यां शास्त्रविदाम् । मृगवीथ्यां मृगव्याधिः शस्यतपस्विनां पित्तरोगोद्भवश्च । अजायां शस्यकर्षब्रह्मचारिणामाधिक्यम् । दहनवीथ्यां शस्यमेघविलपनमग्निपित्तव्याधिसम्भवश्च । दीप्तिमदृक्षमपि चरन् सुभिक्षक्षेमाय निष्प्रभं वीपरीतः ।
अथ मण्डलफलं वटकणिकायाम् ।
भरणीरौद्रमघानिलशाक्रधनिष्ठादिसंप्रवृत्तेषु ।
चारोदयः शुभो मण्डलेषु हित्वेन्द्रपित्राद्ये ॥
विष्णुधर्मेत्तरे ।
अथोदयास्तमयचारैः शुक्रस्य याम्याद्यं नक्षत्रचतुष्टयाद्यं म- ण्डलं सुभिक्षजननम् । रौद्राद्यमपि चतुष्टयं द्वितीयं सुभिक्षजननमेव । मघाद्यं पञ्चर्क्षं तृतीयं शस्यम् । स्वात्याद्यं पञ्चनक्षत्रं चतुर्थमभयप्रदम् । शाकात् पञ्चर्क्षं पञ्चमं च रोगजननम् । धनिष्ठाद्यं षड्नक्षत्रं वसमतिवृद्धिकरम् ।
वृद्धगर्गस्तु ।
भरण्यादीनि चत्वारि प्रथमं शुक्रमण्डलम् ।
सर्वभूतहितं नाम क्षेमसौभिक्षवर्षदम् ॥
शाल्वाधिपः शूरसेनः पीड्यते मगधाधिपः ।
मत्स्याधिपः शिम्बिपतिर्गवां रोगं च निर्दिशेत् ॥
आर्द्रादिरोहिणीं नाम द्वितीयं शुक्रमण्डलम् ।
चण्डातिवर्षी पर्जन्यः सर्वशस्यानि भावयेत् ॥
क्षेमारोग्यसुभिक्षैश्च मोदन्ते सर्वतः प्रजाः ।
कलिङ्गाश्मकविप्राणामनयस्तत्र जायते ॥
मघादिदारुणं नाम्ना तृतीयं शुक्रमण्डलम् ।
अहितं सर्वभूतानां दारुणव्याधिसंकुलम् ॥
संजातान्यपि नश्यन्ति सर्वशस्यानि चेतिभिः ।
उद्योगाश्चापि जायन्ते वायुरग्निश्च कुप्यति ॥
वैरोचनं चतुर्थं तु खात्याद्यं शुक्रमण्डलम् ।
शिवाभिवर्षी पर्जन्यः शर्वशस्यानि भावयेत् ॥
सुभिक्षं जायते लोकं सन्धिं कुर्वन्ति पार्थिवाः ।
यज्ञोत्सवसमाजैश्च प्रजा नन्दति भूरिशः ॥
ज्येष्ठाद्यमूर्धदण्डं च पञ्चमं शुक्रमण्डलम् ।
उद्युक्तदण्डा राजानस्तत्र यान्ति पराभवम् ॥
जायन्ते विविधा रोगा दुर्भिक्षं चापि जायते ।
वैश्वानरपथे ह्येष मण्डलः स्यादवृष्टिमान् ॥
षट्कं षट्कं श्रविष्ठादि मण्डलं तीक्ष्णसंज्ञितम् ।
तत्रोत्तमा शस्यसम्पद्वर्षते वाऽतितीक्ष्णतः ।
वराहसंहितायां तु ।
भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम् ।
बङ्गाङ्गमगधवाह्लिककलिङ्गदेशेष्वभयजननम् ॥
अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो हन्यात् ।
भद्राश्वशूरसेनकयौर्धेयककोटिवर्षनृपान् ॥
भचतुष्टयमार्द्राद्यं द्वितीयममिताखुशस्यसम्पत्यै ।
विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥
अन्येनात्र क्रान्ते म्लेच्छाटविकश्वजीविगोमन्तान् ।
गोनर्दनीशूद्रान् वैदेहाँश्चामयः स्पृशति ॥
विचरन् मघादिपञ्चकमुदितः शस्यप्रणाशकृच्छुकः ।
क्षुत्तस्करभयजननो नीचोन्नतिसङ्गरकरश्च ॥
पित्र्याचेऽवष्टब्धो हन्त्यश्मकनाविकान् शवरशूद्रान ।
पौड्रापरान्त्यमौलिक[११२] वनवासिद्रविडसामुद्रान् ॥
स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम् ।
ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ॥
अत्राक्तान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून् ।
प्रत्यन्तावन्तिपुलिन्दतङ्गणाशूरसेनाँश्च ॥
ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्तस्कररोगदं प्रवाधयति ।
काश्मीराश्मकमत्स्यान् सचारुदेवीमवन्ती च ॥
अत्रारोहेद्द्रविडाभीराम्बष्ठत्रिगर्त्तसौराष्ट्रान् ।
नाशयति सिन्धुसौवीरकाँश्च काशीश्वरस्य वधः ॥
षष्ठं षण्नक्षत्रं शुभमेतन्मण्डलं धनिष्ठाद्यम् ।
भूरिधनगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् ॥
अत्रारोहेच्छौलिकगान्धारावन्तयः प्रपीड्यन्ते ।
वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥
पराशरस्तु वैरोचनाख्यं चतुर्थमण्डलं चित्राद्यमाह । तद्यथा ।
आद्यरोहितदारुणवैरोचनोर्ध्वदण्डतीक्ष्णानि षण्मण्डलानि । तत्र भरण्यादीनि चत्वारि चतुर्नक्षत्राणि । ज्येष्ठाश्रविष्टाद्ये द्वे पञ्चषण्नक्षत्रे । अथेतैषु मण्डलेषु प्रविचरन् क्रमात् गोब्रह्मचारिनृपपत्नी तनयसुहृद्भूपालप्रजानामुपतापाय ।तथैवोदयास्तमयौ कुर्वन् प्रथमेऽतीव सुभिक्षायाङ्गबङ्गशवरकलिङ्गाननयैः स्पृशति।
अत्रैवान्यग्रहारूढोऽसौ माञ्जिष्ठपुरुषादशृरसेनपट्टच्चरपण्यागाराभावाय । द्वितीयेऽन्नसम्पत्प्रदोऽवन्त्यमकमालवपाण्ड्य कैकयोपद्रवाय। तृतीये शकसौराष्ट्रनृपानयायान्यग्रहारूढः काश्मीरयवनक्षुद्रमालवकिरातशकाननयेन युनक्ति । चतुर्थेषु वर्षशस्यक्षेमाणि विधत्ते । अन्यग्रहारूढः सुभगान् शिक्षिताँश्चोपतापयति । पञ्चमे मगधान् शूद्रान् जनननयैः स्पृशति । अत्रैवान्यग्रहारूढो व्याधिभयदुर्भिक्षाय वर्षाणि सृजति । विशेषतस्तु कुरुपाञ्चलशाल्वेयशूरसेनपटच्चराहारप्रभृतयोऽभिपीड्यन्ते । षष्ठे बालगर्भान् बालशूद्रान् हिनस्ति । यद्यारोहेत तदा काम्बोजैः सैन्धवो नृपतिः पराजायेत । आवन्त्यश्मकाधिपती चोपस्सृज्येते । वराहसंहितायाम् ।
अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभम् ।
पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥
पराशरः ।
आद्यमेव मण्डलं वातमार्गमाहुस्तीक्ष्णम्। व्यालमार्गमूर्ध्वदण्डं वैश्वानरमृते श्रवणात् । वातमागंगोऽतिरूक्षो वातरिक्ताम्भोदाशनिदः । व्यालेन विषाग्निचौरप्राबल्यम् । वैश्वानरेण तीव्रवर्णनिग्रहकर्त्ता च ।
हरिवंशे कंसवधनिमित्तम् ।
“वैश्वानरपथे शुक्रो ह्यतिचारं चचार ह"[११३] ।
अथास्यायनक्रमेण पञ्चमार्गानाह पराशरः । तद्यथा ।
प्राक्प्रतीच्योरुदयास्तमयादुदङ्मध्यदारुणास्त्रयो मार्गास्तेषां दक्षिणोत्तरमध्यमोत्तरमध्यम-मध्यमदक्षिणा गत्यन्तरालदेशं पञ्चधा विभज्य पञ्च मार्गाः कल्पनीयाः ।
एतदुक्तं भवति । दक्षिणायनादनुलोमविलोमाभ्यां षट्त्रिंशद्भिरंशकैकत्तरमध्यमोत्तरमध्यममध्यमदक्षिण-दक्षिणाः पञ्च मार्गा भवन्तीति । एतेष्वस्तमितत्य भार्गवस्य क्रमेणास्तदिन्याह ।
पराशरः ।
प्रागस्तमित उत्तरोत्तरमध्यमध्यमानुत्तरदक्षिणेषु मार्गेषु पञ्चपञ्चाशत्षष्टिपञ्चसप्तत्येकाशीतिनवति-भिर्दिवसैः पश्चाद्दर्सनमुपैति। प्रतीच्यामस्तमितः षडष्टद्वाशपञ्चदशचतुर्विंशतिभिरहोभिः प्रागुदयते । अन्यथा जगदशिवकरो भवति।
अथोदयास्तफलम् । तत्र पराशरः ।
प्रागुदितो नवभिर्मासैरेकविंशतिनक्षत्राणि चरति । प्रतीच्यामष्टभिरेकोनविंशतिनक्षत्राण्याप्तः शुभाशुभफलः ।
कार्त्तिके तु यदा मासि कुरुतेऽस्तमनोदयौ ।
तदाऽह्नां नवतिं पूर्णां देवो भुवि न वर्षति ॥
काश्यपः ।
कृष्णपक्षे पञ्चदशीचतुर्दश्यष्टमीषु च ।
शुक्रो यदोदयं कुर्यात् तदा वृष्टिं विमुञ्चति ॥
वराहसंहितायाम् ।
चतुर्दशे पञ्चदशेऽथ वाऽष्टमे तमिस्रपक्षस्य तिथौ भृगोः सुतः ।
यदा व्रजेद्दर्शनमस्तमेव वा तदा मही वारिमयी च लक्ष्यते ॥
अत्रानुक्तविशेषशान्तिषु भार्गवोत्पातेषु भार्गवपूजापूर्विका
प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो गार्गीये ।
षण्मसिकस्त्वौशनसः -इति ।
इति द्वाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे भार्गवाद्भुतावर्त्तः ।
अथ शनैश्चराद्भुतावर्त्तः।
तत्र शुभसूचकशनैश्चरलक्षणमाह पराशरः ।
पाण्डुः स्निग्धोऽमलः श्यामो विशुद्धार्चिः शनैश्चरः ।
मार्गस्थश्चापि सव्यश्च नक्षत्राद्धित इष्यते ।
मार्गस्थञ्चापि सव्यश्चेति । उत्तरमार्गस्थ इत्यर्थः ।
येषामयं स्वामी तेषामेवंविधो विशेषेण हितो विपरीतो विशेषेण विपरीतः ।
शनैश्चरस्वामिकान्याह यवनेश्वरः ।
आनर्त्तवाहाहन[११४] वृद्धनीचपुंस्त्वोनसत्त्वालसदीक्षितानाम् ।
विद्धान्नदासाञ्जनसीसलौहकाष्ठायसानां प्रभुरर्कसूनुः ॥
वटकणिकायां तु ।
सरस्वती यत्र गता प्रणाशं वेदस्मृती मालवकं सुराष्ट्रम्।
पाश्चात्यदेशो विदिशाननं च शौरेः स्मृतं पुष्करमर्बुदं च ॥
काश्यपस्तु ।
अर्बुदो रैवतगिरिः सौराष्ट्राभीरकास्तथा ।
ऋतुभुजो प्रभासं सरस्वती दक्षिणा दिशः[११५]॥
आनर्त्तशूद्रविदिशः खलतैलिकनीचकोः ।
वेदस्मृती शौकरिका मलिनश्च नदीतटम् ॥
दुःशीलकाः शाकुनिका पशुपालवधास्तथा ।
पाखण्डिनश्च वैतण्डा निर्गुण्डा शवराः शकाः ॥
विरूपाः कटुतिक्ताश्च रसायनविघातकाः ।
पुलिन्दास्तस्कराः सर्पा महिषोष्ट्रखरा अपि ॥
चणका वातला वल्लाः पुंस्त्वसत्त्वविवर्जिताः ।
काकगृद्धशृगालानां मृगाणां च शनैश्वरः ॥
वराहसंहितायां तु ।
अनर्त्तार्बुदपुष्करसौराष्ट्राभीरशुद्ररैवतकाः ।
नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥
कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती नदीतटजाः ।
खलमलिननीचतैलिकविहीनसत्त्वोपहतपुंस्काः ॥
बन्धनशाकुनिकाशुचिकैवर्त्तविरूपवृद्धशूकरिकाः ।
गणपूज्यस्खलितव्रतशवरपुलिन्दार्थपरिहीनाः ॥
कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः ।
खरकरभचणकवातुलमाषतिलाश्चार्कपुत्रस्य ॥
अशुभसूचकशनिलक्षणमाह वृद्धगर्गः ।
वपुष्मान्रश्मिमाली च चन्द्रसूर्यसमीपगः ।
नातीव च विनिर्भाति नित्यं च परिवेषवान् ॥
भवत्यथ सधूमश्च यदा स्यात् तु शनैश्वरः ।
राजानश्च विनश्यन्ति तदा देशाश्च मानुषाः ॥
कृष्णः कषायवर्णो वा पीतको लोहितोऽपि वा ।
श्यामो वा धम्रवर्णो वा वैश्वानरपथे स्थितः ॥
त्रीणि वर्षाणि नक्षत्रं पीडयन्नुपगच्छति ।
तदा देशो निराधारः शून्यो भवति नित्यशः ॥
अथ वर्गफलं वराहसंहितायाम् ।
वैदूर्यकान्तिरमलः शुभदः प्रजानां
बालातसीकुसुमवर्णनिभश्च शस्तः ।
पञ्चापि वर्णमुपगच्छति तत्सवर्णान्
सूर्यात्मजः क्षपयतीति मुनिप्रवादः ॥
तथा च पराशरः ।
यद्यद्ववर्णस्तत्तवर्णविनाशको भवति ।
गर्गस्तु ।
भवत्यर्कात्मजे रूक्षे श्यामपीतारुणप्रभे ।
तदाऽत्मजानां भावानां क्षुच्छस्त्रानिकृतं भयम् ॥
पराशरः ।
नीलपीतः क्षुधे । रक्तभस्मचित्रवर्णः शस्त्रर्वैरदोऽण्डजनिहन्ता-इति ।
शस्त्रदो वैरदश्चेति सम्बन्धः । रक्तादिवर्णत्रयस्यैतत्क्रमेण फलत्रयम् ।
तथा च वराहसंहितायाम् ।
अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतममूखः ।
शस्त्रयाय न रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥
वृद्धगर्गस्तु ।
मांसशोणितसंकाशो यदा स्यात् तु शनैश्वरः ।
अयुध्यमानाः शस्त्रेण वधमृच्छन्ति मानवाः ॥
हरिवंशे मत्स्यपुराणे च हिरण्यकशिपुवधनिमित्तम् ।
“शनैश्चरो लोहिताङ्गो लोहिताङ्गसमद्युतिः" [११६]॥
अथ नक्षत्रचारफलं विष्णुधर्मोत्तरे ।
यद्देशद्रव्यपुरुषनक्षत्रेषु शौरिर्विचरति तत्पीडावहो भवति ।
वटकणिकायां तु ।
यस्मिन्नृक्षे विचरति सौरो बलवान्छुभैरयुतदृष्टः ।
तद्देशजन्यकर्मद्रव्यघ्नोऽतीव पापयुतः ॥
वराहसंहितायां तु ।
श्रवणानिलहस्तार्द्राभरणीभाग्योपगः सुतोऽर्कस्य ।
प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥
तथा च गर्गः ।
याम्यवायव्यसावित्र्यरौद्रश्रवणसंस्थितः ।
भवेत् स्निधवपुः सौरो मार्गो चैवातिवर्षदः ॥
वराहसंहितायाम् ।
अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन्न चातिजलम् ।
क्षुच्छस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्ये ॥
गर्गस्तु ।
सार्पवारुणमहेन्द्रनक्षत्रेषु च संस्थितः ।
स्निग्धः सौरः क्षेमकरो नातिवर्षं प्रमुञ्चति ॥
क्षुच्छस्त्रावृष्टिदो मूलं सूर्यपुत्रः समाश्रितः ।
विष्णुधर्मोत्तरे ।
सौम्यत्वाष्ट्रविष्ठासु स्थिते सौरे महीक्षितः ।
सर्वे पीडां समृच्छन्ति जना यान्ति यमालयम् ॥
अथ प्रत्येकनक्षत्रचारफलं वराहसंहितायाम्
तुरगतुरगोपचारककविवैद्यामात्यहाऽर्कजोऽश्विगतः ।
याम्ये नर्त्तकवादकोगेयज्ञक्षुद्रनैकृतिकान् ॥
पराशरस्तु ।
अश्विन्यामश्वारोहाश्वपालवैद्यामात्यकविनायकान् । भरणीषु वादकगायननर्त्तकक्षुद्रनैकृतिकान् पीडयति ।
वराहसंहितायाम् ।
बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजोविनश्चमूपाश्च ।
रोहिण्यां कोशलमद्रकाशिपाञ्चालशाकटिकाः ॥
पराशरस्तु ।
आग्नेये प्रविचरन्नर्कजोऽग्निस्थलशूरसेना हिताग्निलोहकारधात्वाकराङ्गनाशौण्डिकाग्न्युपजिविन उपतापयति । प्राजापत्ये मद्रकपाञ्चालकाशिकोशलाङ्गशाकटिकाश्चालोड्यन्ते[११७]।
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
“रोहिणीं पीडयन्नेव स्थितो राजन् शनैश्वरः”[११८] ।
यद्यपि 'चारेण पीडां कुरुतेऽर्कपुत्रः' - इत्येन चारमात्रेण शनैश्चरः पीडयतीत्युक्तं
तथाऽपि कुरुपाण्डवसैन्यवधस्य गुरुत्वादत्र रोहिणीपीडनमवगन्तव्यम् ।
तथा च वराहसंहितायाम् ।
रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथ वा शिखी ।
किं वदामि यदनिष्टसागरे जगदशेषमुपयाति संक्षयम् ॥
गर्गः ।
रोहिणीशकटं भौमो भिनत्यर्कसुतोऽथ वा ।
केतुर्वा जगतो ब्रूयात् प्रलयं समुपस्थितम् ॥
वराहसंहितायाम् ।
मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाश्च ।
रौद्रे पारतदूरं[११९]मठतैलिकरजकचौराश्च ॥
पराशरस्तु ।
सौम्ये यजमानयाजकार्यजनमध्यदेशवत्सजनपदाः । रौद्रे पारतरमठतैलिकरजकदस्यवः ।
वराहसंहितायाम् ।
आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः ।
पुष्ये घाण्टिकघौषिकयवनवणिक्कितवकुसुमानि ॥
पराशरस्तु ।
आदित्ये सुराष्ट्रसिन्धुसौवीरपञ्चनदप्रत्यन्ता विधवाश्च । पुष्येषु पुष्यमाणवकघाण्टिकघौषिकपोतयात्रिपवनवणिग्दूतान् ।
वराहसंहितायाम् ।
सार्पे जलरुहसर्पाः पित्र्ये वाल्हीकचीनगान्धराः ।
मौलिक[१२०] पारतवैश्याः कोष्ठागाराणि वणिजश्च ॥
पराशरश्च ।
आश्लेषासु च सर्पाः सलिलजाः । मघासु मौलिकचीनगान्धारवैश्यपारतदरदशिविकोष्ठागाराणि ।
वराहसंहितायाम् ।
भाग्ये रसविक्रयिकपण्यस्त्रीकन्यकामहाराष्ट्राः ।
आर्यम्णे नृपगुडलवणभिक्षुकाम्बूनि तक्षशिला ॥
पराशरास्तु ।
भाग्ये रसविक्रयिकपण्यस्त्रीकन्यकामहाराष्ट्राः । आर्यम्णे नृपनृपतिपत्नीसुततिललवणगुडभि-क्षकपूजककूर्चधरतक्षशिलादरदवासिनः ।
वराहसहितायाम् ।
हस्ते नापितचाक्तिकचौरभिषक्सुचिकद्विपग्राहाः ।
बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥
पराशरस्तु ।
हस्ते हस्तिहस्तिग्राहस्तेनभिषग्रजकसूचिकनापितमालाकारबन्धकीकोशलाः ।
वराहसंहितायाम् ।
चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि ।
स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः ॥
पराशरस्तु ।
त्वाष्ट्रे प्रमदालेखकचित्रकरचित्रभाण्डानि । स्वातौ दूतचरसूतमागधप्लवकनटनर्त्तक-गायकवादकपोतयात्रिकाः ।
वराहसंहितायाम् ।
ऐन्द्राग्नाख्ये त्रैगर्त्तचीनकौलूतकुङ्कुमं लाक्षा ।
शस्यान्यथ माञ्जिष्ठं कौसुम्भं च क्षयं याति ॥
पराशरस्तु ।
ऐन्द्राग्ने त्रिगर्त्तचीनकौलूतलाक्षाकुङ्कुमकुसुम्भमाञ्जिष्ठपीतकुसुमशस्यानि विग्रहकामाश्च ।
वराहसंहितायाम् ।
मैत्रे कुलूततङ्गणखसकाश्मीराः समन्त्रिचक्रचराः ।
उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ॥
पराशरस्तु ।
अनुराधासु खसतङ्गणकुलूतकाश्मीरसमचक्रिचरमन्त्रिघाण्टिकाः[१२१] । मित्रभेदं च विन्द्यान् ।
वराहसंहितायाम् ।
ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः ।
मूले च काशिकोशलपाञ्चालफलौषधीयोधाः ॥
पराशरस्तु ।
ऐन्द्रे जातिगणकुलश्रेणीज्येष्ठनृपनृपतिसत्कृतपुरोहितान्[१२२] । मूले काशिकोशलपाञ्चालमूलफलौषधीयोधान् ।
वराहसंहितायांम् ।
आप्येऽङ्गबङ्गकोशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च ।
उपतापं यान्ति जनाः वसन्ति ये ताम्रलिप्त्यां च ॥
पराशरस्तु ।
पूर्वाषाढास्वङ्गमगधबङ्गपुण्ड्रकोशलमिथिलागिरिव्रजतासिनः ।
वराहसंहितायाम् ।
विश्वेश्वरेऽर्कपुत्रश्वरन् दशार्णान् निहन्ति यवनाँश्च ।
उज्जयिनीं शवरान् पारियात्रकान् कुन्तिभोजाँश्च ॥
पराशरस्तु ।
उत्तरास्ववन्तिशवरकुन्तिभोजदशार्णयवनपारियात्रिकान् ।
वराहसंहितायाम् ।
श्रवणे तु गजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिङ्गान् ।
वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम् ॥
पराशरस्तु ।
वैष्णवेऽग्निवेशकलिङ्गेशविद्विद्विप्राश्रमभिषग्राजाधिकृतपुरोहितान् । श्रविष्ठासु मगधाधिपतिविजयाय विविधवसुनिचयाय तदधिकृतानां देशाँश्च निपीडयति ।
वराहसंहितायाम् ।
साजे शतभिषजि भिषक् कविशौण्डिकपण्यनीतिवार्त्ताँश्च ।
आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं न ॥
पराशरस्तु ।
शतभिषजि भिषङ्मद्यसुरासवक्रयविक्रयवनितोपजीविदस्यु-
पाखण्डिनिवासिनः । प्राक्प्रौष्ठपदायां द्रविडकैवर्त्तावन्तिचोलपाण्ड्यसिंहलमहेन्द्रनगनिवासिनः । उत्तरायां स्त्रीहिरण्यनिचयतस्करशमीधान्यनदनदीयानयुग्यकरान् ।
वराहसंहितायाम् ।
रेवत्यां राजभृतः क्रौञ्चद्वीपाश्रिताः शरच्छस्यम् ।
शवराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥
पराशरस्तु ।
रेवत्यां शरच्छस्यराजभृतकशवरवनवासिक्रौञ्चद्वीपनिवासिनः ।
अथ नक्षत्रचारविशेषफलं वराहसंहितायाम् ।
एकर्क्षचरो वर्षाच्छुभप्रदो द्विभगतिश्च मध्यफलः ।
त्रिभगतिरधमफलकरो दिनकरतनयो विनिर्दिष्टः ॥
वृद्धगर्गस्तु ।
एकर्क्षचारी वर्षात् त स्निग्धो मन्दगतिग्रहः ।
क्षेमशस्यसुभिक्षाणामाख्याता द्विगुणं चरन् ॥
प्रजाहितानां भावानां विदध्यान्मध्यमं गुणम् ।
त्रिनक्षत्रगतं चारं यदा सौरो निषेविते ॥
तदा भयान्युदीर्यन्ते धूमकेतुरुदेति वा ।
यदि चोर्ध्वं सनक्षत्रं सौरः प्रत्यवसर्पति ॥
समस्तानां भयं विद्यात् तदा चित्रं च वर्षति ।
अथ मार्गफलम् । तत्र वृद्धगर्गः ।
कुर्यात् प्रजानां सौभिक्षमुत्तरं मार्गमास्थितः ।
दुर्भिक्षं चाग्निमूच्छीं च दक्षिणं मार्गमास्थितः ॥
चरन् कृत्तिकारोहिण्योरुत्तरे चापि दारुणः ।
पराशरस्तु ।
सममन्यैर्मार्गफलमन्यत्रार्द्रासावित्रश्रवणयाम्यानिलभाग्येभ्यः । अन्यत्रार्द्रेति । आर्द्रासावित्रयस्यानिलानां तीक्ष्णसम्भ्रमः । लम्बमाने पुरस्तादेव तेन भाग्यस्य चोग्रं वाऽस्य चोग्रं तदुत्तरेणापि गमनमशोभनम् । एवमशोभनमध्यपतित्वाच्छ्रवणस्य तदुत्तरगमनमप्यशोभनमिति ।
वृद्धगर्गः ।
नक्षत्रपृष्ठतः सौरो यदा प्रत्यक् प्रलम्बते ।
तदा भवति दुर्भिक्षमुत्तरेण तु संभ्रमः ॥
लम्बमाने पुरस्तात् तु भयं भवति शस्त्रतः ।
व्याधिस्तु सुमहायासो जायते दक्षिणाश्रये ॥
बहुनामायासं करोतीति सुमहायासाः ।
अधस्ताद्राजमणरमुपरिष्टात् पराजयः ।
अथोदयास्तफलं विष्णुधर्मोत्तरे ।
रौद्रे हस्ते तथा चाप्ये आहिर्बुध्न्ये शनैश्वरः ।
यदोदयं प्रपद्येत तदा नश्यन्ति पार्थिवाः ॥
वृद्धगर्गस्तु ।
द्वयोर्नक्षत्रयोर्मध्ये यदोदेति शनैश्वरः ।
दिशानां मध्यदेशानां प्रत्यन्तानवमर्दति ॥
विरश्मिश्चोदितो हन्याद्दुष्टान् सर्वान् सुजातिषु ।
उदितो वा पुनः सौरो वैश्वानरपथे स्थितः ॥
पुरपर्वतदुर्गाणि कुधान्यानि च मर्दति ।
पराशरस्तु ।
तस्याष्टाविंशतिवार्षिकः सप्तविंशतिनक्षत्रचारः । त्रिमार्गस्तत्र । प्रवासक्रमात् सप्तविंशतिस्त्रिंशदधिकोना चाहामन्यथा त्वहितः ।
अस्यार्थ: । प्रवासोऽस्तमयः । तत्समयोऽहां त्रिंशत् । अधिकोना एकेनाधिका ऊना वेति ।
अथ वक्रफलं वराहसंहितायाम् ।
प्रागद्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम् |
दुर्भिक्षं कुरुते भयमुग्रं मित्राणां च विरोधमवृष्टिम् ॥
विलोमितगतिः सौरः प्राग्द्वारेषु यदा भवेत् ।
अनावृष्टिभयं घोरं दुर्भिक्षं मित्रविग्रहः ॥
विष्णुधर्मोत्तरे ।
प्राग्द्वारेषु चरँस्तेषु सौरो वक्रमियाद्यदि ।
पृथिवीं पीडयेत् सर्वां पूर्वदेशं विशेषतः ॥
अत्रानुक्तविशेषशान्तिषु शनैश्चरोत्पातेषु शनैश्चरपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो वराहसंहितायाम् ।
अब्देन शनेः इति ।
इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शनैश्चराद्भुतावर्त्तः ।
अथ केत्वद्भुतावर्त्तः ।
पौर्णिमास्यां तु यदृक्षं तस्मात् पञ्चदशो रविः ।
रवेर्द्वादशगः केतुः केतोः सप्तमगो बुधः ॥
बुधाद्द्वितीयगः शुक्रः शुक्रादष्टमगः कुजः।
शनिः सुरगुरू राहुर्ज्ञेयाः शास्त्रात् स्थिरा नव ॥
तत्र शुभसूचककेतुलक्षणमाह पराशरः ।
स्निग्धः प्रसन्नो विमलः प्रदक्षिणगतिस्तथा ।
दृश्यते येषु देशेषु शिवं तेवराषां विनिर्दिशेत् ॥
वराहसंहितायाम् ।
ह्रस्वस्तनुः प्रसन्नः स्निग्धत्वजुरचिरसंस्थितः शुक्लः ।
उदितो वाऽप्यभिवृष्टः सुभिक्षसौख्यावहः केतुः ॥
तथा च समाससंहितायाम्
अचिरस्थितोऽभिवृष्टस्त्वृजुस्तनुः स्निग्धमूर्त्तिरुदगुदितः ।
ह्रस्वः स्मितः प्रसन्नः केतुर्लोकस्य भावाय ॥
येषामयं स्वामी तेषामेवम्भूतो विशेषेण शुभकर: । विपरीतो विशेषेण विपरीतकरः ।
अशुभसूचककेतुलक्षणं वराहसंहितायाम् ।
उक्तविपरीतिरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
इन्द्रायुधानुकारी विशेषतो द्वित्रिचूडो वा ॥
वटकणिकायाम् ।
न शुभो विपरीतोऽतो विशेषतः शक्रचापसंकाशः ।
द्वित्रिचतुश्चूडो वा दक्षिणदिक्स्थश्च मृत्युकरः ॥
हरिवंशे बाणयुद्धनिमित्तम् ।
“दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् "[१२३] ।
केतुस्वामिकान्याह काश्यपः ।
प्राकाराभ्युच्छ्रिताः शृङ्गगिरिस्था विजिगीषवः ।
प्रत्यन्तवासनिरताः परच्छिद्रविशारदाः ॥
मूर्खा विज्ञानहीनाश्च निर्मर्यादा नरास्तथा ।
परदाररता नीचाः केतोरेतान् विनिर्दिशेत् ॥
वराहसंहितायां तु ।
गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः ।
प्रत्यन्तनिग्रहेच्छा व्यवसायपराक्रमोपेताः ॥
परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिकाः।
मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥
वटकणिकायां तु
सिखिनो गिरिसंस्थितावगाणा मरुभूः पह्लवचोलसुह्महूणाः ।
व्यवसायपराक्रमोपपन्नाः परदारार्थरता मदोत्कटाश्च ॥
अथ वर्णफलं गार्गीये ।
सर्वेषामेव केतूनामष्टौ वर्णाः प्रकीर्त्तिताः ।
श्वेतो रक्तस्तथा पीतः कृणश्चेति चतुष्टयम् ॥
अर्चिषो धूमकेतूनामुदयेषूपलक्षयेत् ।
हरितो धूम्रवर्णश्च कपिलो वह्निसन्निभः ॥
हन्ति वर्णांस्तथा सर्वान् धूमकेतुश्चराचरान् ।
भार्गवीये तु ।
विप्रान् श्वेताकृतिर्हन्ति क्षत्रियान् हन्ति लोहितः ।
वैश्याँस्तु पीतको हन्ति शूद्रान् हन्ति तथाऽसितः ॥
इतरान् पीडयेत् केतुरन्यवर्णो यदा भवेत् ।
षण्मासाभ्यन्तरे राज्ञो मरणं च तथा दिशेत् ॥
श्वेतः शस्त्राकुलं कुर्याल्लोहितस्त्वग्नितो भयम् ।
क्षुद्भयं पीतकः कुर्यात् कृष्णो रोगमथोल्वणम्॥
अथाकृतिफलं भार्गवीये ।
वृक्षाकारो विनाशाय सुखाय मुशलाकृतिः ।
दीर्घसूक्ष्मः सुखायैव हस्खः स्थूलो विनाशकृत् ॥
अथ केतूनामुदये पूर्वनिमित्तानि भार्गवीये ।
उष्णं वा यदि वा शीतं निर्घातः पांशुवृष्टयः ॥
नीहारो भूमिकम्पश्च दिशां दाहस्तथैव च ।
उल्काया दर्शने केतो रूपं विन्द्यादनागतम् ||
अशुभस्य मयोक्तं ते शुभस्य च निबोध मे।
मृदुस्निग्धाः शुभा वाता निर्मलाः सकला दिशः ॥
शान्ता मृगविहङ्गाश्च ग्रहाः स्फुटमरीचयः ।
कुवेरवायुवरुणसूर्याग्नियमपुत्रकाः ॥
षड्विधा: केतवो वसन्तादिषु पडृतुषदयन्ते यदुक्तं भार्गवीये ।
चैत्रवैशाखयोर्मध्ये कौवेराँस्तु विनिर्दिशेत् ।
तेषां चैव तु कार्याणि लक्षणैः शृणु यादृशैः ॥
उद्धृतैर्यूपवेदीभिरुच्छ्रितैर्ध्वजतोरणैः ।
हविर्धूमाकुला तत्र दृश्यते च वसुन्धरा ॥
त्रिविष्टपं समापन्नस्तदा शक्रो महीपतिः ।
एवं प्रजास्तु मन्यन्ते कुबेरो गृहमागतः ॥
उदये कुवेरपुत्राणामेतद्भवति लक्षणम् ।
ज्येष्ठे चैव तथाऽऽषाढे वायुपुत्रान् विनिर्दिशेत् ॥
तेषा मेव तु कर्माणि लक्षणैः शृणु यादृशम् ।
वान्ति चैव महावाता महायुद्धं महाभयम् ॥
भज्यन्ते च महावृक्षास्तोरणाट्टालकानि च ।
गृहाणि रमणीयानि क्षयं यान्ति जलानि च ॥
उदये वायुपुत्राणामेतद्भवति लक्षणम् ।
श्रावणप्रौष्टपदयोर्वारुणाँस्तु विनिर्दिशत् ॥
तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
आवाहयन्ति ते. मेघान् पूर्णां कुर्याद्वसुधराम् ॥
उन्मार्गाः सरितो यान्ति जलवेगसमाहताः ।
धान्यं समर्घतां याति ईतयो न भवन्ति हि ॥
उदये वरुणानां तु एतद्भवति लक्षणम् ।
आश्विने कार्तिके चैव सूर्यपुत्रान् विनिर्दिशेत् ॥
तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
ततो दहति शीतांशुः सर्वान्नानि दिवाकरः ॥
मृयन्ते च तदा गावः श्वापदाश्च विशेषतः ।
विषं च प्रबलं तत्र सर्वदंष्ट्रिषु दारुणम् ॥
उदये सूर्यपुत्राणामेतद्भवति लक्षणम् ।
मार्गशीर्षे च पौषे च वह्निपुत्रान् विनिर्दिशेत् ॥
तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
अग्निर्दहति राष्ट्राणि हरितश्च वनानि च ॥
विद्रवन्ति ततो देशाः समन्ताद्भयपीडिताः ।
कस्मिँश्चिज्जायते क्षेमं कस्मिँचिज्जायते भयम् ॥
उदये वह्निपुत्राणमेतद्भवति लक्षणम् ।
माघफाल्गुनयोर्मध्ये यमपुत्रान् विनिर्दिशेत् ॥
तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
शीघ्रं भवति दुर्भिक्षं हाहाभूतमचेतनम् ॥
छर्दिज्वरातिसाराश्च ग्लानिश्चैवाक्षिवेदना ।
उदये यमपुत्राणामेतद्भवति लक्षणम् ॥
देवलस्त्वाग्नेयाद्या नवविधा अष्टोत्तरशतकेतवः । कृत्तिकादिषु त्रिषु नक्षत्रेषु स्थिता उदयन्ते इत्याह ।
तद्यथा ।
कृत्तिका रोहिणी सौम्यं पृथिवीमध्यमुच्यते ।
केतवो ह्यत्र दृश्यन्ते आग्नेया दश पञ्च च ॥
आग्नेयेषु च दृष्टेषु लोकानां च क्षयो ध्रुवम् ।
नित्योद्विग्नाश्च राजानो जनमारस्तदा भवेत् ॥
रौद्रं पुनर्वसुः पुष्यः पृथिव्या पूर्वमुच्यते ।
केतवो ह्यत्र दृश्यन्ते रौद्रास्तेऽप्येकविंशतिः ॥
यदा रोद्राः प्रदृश्यन्ते दुर्भिक्षं निर्दिशेत् तदा ।
घूर्णन्ते च प्रजाः सर्वा मृत्युक्षुद्रोगपीडिताः ॥
आश्लेषापित्र्यभाग्यानि विन्द्यादक्षिणपूर्वतः ।
केतवो ह्यत्र दृश्यन्ते उद्दालकिसुता दश ॥
केतवो ह्यत्र दृश्यन्ते शिखिनो मुनिसम्भवाः ।
सुभिक्षं क्षेममारोग्यं सुवृष्टिः शस्यसम्पदः ॥
आर्यम्णादीनि च त्रीणि विन्द्याद्दक्षिणभागतः ।
केतवो ह्यत्र दृश्यन्ते काश्यपेयाश्चतुर्दश ॥
अनावृष्टिभयं घोरं प्रजानामतिदारुणम् ।
स्वाती विशाखा मैत्रं च भागो दक्षिणपश्चिमः ||
केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः ।
भयं च विविधं विन्द्याद्बर्गस्य वचनं यथा ॥
दुर्भिक्षं मरकं घोरमनावृष्टिश्च दारुणा ।
उपद्रवश्च भूतानां तदा भवति दारुणः ॥
ज्येष्ठा मूलमघापाढा भाग एषां तु पश्चिमः ।
केतवो ह्यत्र दृश्यन्ते सुतास्ते सोमसम्भवाः ॥
सुभिक्षं च सुवृष्टिश्च मही यज्ञोत्सवाकुला ।
उत्तरा श्रवणं चैव नक्षत्रं वसुदैवतम् ॥
केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः ।
माहेयेषु च दृष्टेषु लोकानां संक्षयो ध्रुवम् ॥
तदा राजसहस्राणां मही पिवति शोणितम ।
वारुणं चैव नक्षत्रं तथा भाद्रपद्वयम् ॥
केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव तु ।
ऊर्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ॥
ऊर्मिकेतुर्यदा दृश्यस्तदा ह्युदकजं भयम् ।
श्वेतकेतुर्ययदा दृश्यः श्वेतास्थिं कुरुते महीम् ॥
तदा मानुषमांसानि भक्षयन्तीह मानुषाः ।
न माता मन्यते पुत्रं पुत्रो वा मातरं तथा ॥
न पिता पुत्रसम्भूतं स्नेहं संप्रतिपद्यते ।
न पतिर्मन्यते नारी न बन्धुर्बान्धवं तथा ॥
क्षुद्भयार्त्तं जगत् कृत्स्नं चक्रवद्भ्रमते तदा ।
धूमकेतुर्यदा दृश्यस्तस्य वक्ष्यामि लक्षणम् ॥
स हन्ति तारया योधान् राजानं मन्त्रिणं तथा ।
स हन्ति शिखया देशान् सराष्ट्रजनकाननान् ॥
रेवत्याश्वयुजं चैव नक्षत्रं यमदैवतम् ।
केतवो ह्यत्र दृश्यन्ते यमपुत्रास्त्रयोदश ॥
यमपुत्रेषु दृष्टेषु लोकानां संक्षयो ध्रुवम् ।
स्थावरा मानुषाः सर्वे पशवः पक्षिणस्तथा ॥
चतुर्विधानां भूतानां संक्षयो जायते तदा ।
तथा च वराहसंहितायाम् ।
आग्नेयरुद्रजौद्दालकिकाश्यपमृत्युसोमजाश्चैव ।
क्षितितनयवरुणपुत्रा यमजाताः केतवश्वोक्ताः ॥
आग्नेये नृपमरणं क्षुद्भयमतुलं वदन्ति रौद्रेषु ।
औद्दालकिजे शस्यक्षमे कश्यपसुते त्वनावृष्टिः ॥
क्षुच्छस्त्रमनारोग्यं यमतनये शस्यमुत्तमं सौम्ये ।
माहेये नृपमरणं वरुणसुते क्षुद्भयं च शस्त्रं च[१२४]॥
गर्गश्च केतूनां सहस्रसंख्यामाह । तथा च तद्वाक्यम् ।
अनित्योदयचणामशुभानां च दर्शनम् ।
आगन्तूनां सहस्रं स्याद्ग्रहाणां तन्निबोध मे ॥
चकाराच्छुभाः केतवो न विंशतिजातयो भवन्ति ।
तत्रादित्यपुत्रा वराहसंहितायाम् ।
हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सुसिखाः
प्रागितरदिशोर्दृश्या नृपतिविरोधप्रदा रविजाः ॥
गर्गस्तु।
शुद्धस्फटिकसंकाशा मृणालरजतप्रभाः।
मुक्ताहारसुवर्णाभा सशिखाः पञ्चविंशतिः ॥
किरणाख्यार्कपुत्रास्ते दृश्यन्ते प्राग्दिशि स्थिताः ।
तथा चापरभागस्था नृपतेर्भयदाश्च ते ॥
चन्द्रसुतानाह गर्गः ।
चन्द्ररश्मिसवर्णाभा हिमकुन्देन्दुसप्रभाः ।
त्रयस्ते शशिनः पुत्राः सौम्याशास्थाः शुभावहाः ॥
सौम्याशास्था उत्तरदिकस्था इत्यर्थः ।
तथा च वराहसंहितायाम् ।
शशिकिरणरजतहिमकुमुदकुन्दकुसुमोपमाः सुताः शशिनः ।
उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥
भौमात्मजानाहाथर्वमुनिः ।
कुङ्कुमा लोहिताङ्गस्य पुत्रा विद्रुमवर्चसः ।
त्रिशिखा वा त्रितारा वा षष्टिरित्युत्तरे पथि ॥
त्रिशिखा वा त्रितारा वा इति वाशाद्भौ मुसञ्चये ।
वराहसंहितायां तु ।
क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः ।
नाम्ना च कौड्कुमास्ते सौम्याशासंस्थिताः पापाः ॥
त्रिचूलाश्च त्रिताराश्चेति त्रिचूलताराः । तथा च गर्गः ।
त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः ।
प्रायेणोत्तरभार्गं तु सेवन्ते नित्यमेव ते ॥
लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।
नामतः कौङ्कुमा ज्ञेया राज्ञां संग्रामकारकाः ॥
बुधात्मजानाहाथर्वमुनिः ।
एकपञ्चाशतो ज्ञेयास्तस्कराः सूक्ष्मरश्मयः ।
बौधाः कमलगर्भाभाः किञ्चित्पाण्डुरतेजसः ॥
गर्गश्च ।
अरुन्धतीसमा रुक्षाः किञ्चिदव्यक्ततारकाः ।
सपाण्डुवर्णाः श्वेताभाः सूक्ष्मरश्मिभिरावृताः ॥
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।
एकाधिकास्तु पञ्चाशद्यथोत्पथचरा ग्रहाः ॥
यथोत्पथचरा यथेष्टदिकचराः ।
तथा च वराहसंहितायाम् ।
नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिकप्रभवाः ।
बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥
बृहस्पतिपुत्रानाहाथर्वमुनिः ।
मुक्तानिकरगौराभास्त्यजन्त इव चार्चिषः ।
स्फुरन्त इव चाकाशे विकचा रश्मिभिर्वृताः ॥
प्रायशो दक्षिणे मार्गे नीचैर्विख्यातमण्डलाः ।
विकचाः पञ्चषष्टिस्ते बृहस्पतिसुताः स्मृताः ॥
गर्गस्तु ।
शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।
एकतारा वपष्मन्तो क्किचा रश्मिभिर्वृताः ॥
एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः ।
नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः ॥
अत्र शिखाया अनभिधानात् शिखाशून्यास्तारकामात्ररूपा एते बोद्धव्याः ।
तथा च वराहसंहितायाम् ।
विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः ।
षष्टिः पञ्चभिरधिका स्निग्धाः याम्याश्रिताः पापाः ॥
भार्गवसुतानाहाथर्वमुनिः ।
गोक्षीरकुसुमप्रख्यास्तीव्रेण वपुषाऽन्विताः ।
चरन्त्यन्तरवीथीषु स्निग्धा विपुलतेजसः ॥
एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः ।
विज्ञेयाश्चतुराशीतिः शुक्रपुत्रा महाग्रहाः ॥
वराहसंहितायां तु ।
सौम्येशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥
तीव्रफला अतिविरुद्धफला: ।
गर्गस्तु पूर्वस्यामेतेपामुदयमाह । तद्यथा ।
स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सप्रभाः ।
अर्चिष्मन्तः प्रसन्नाश्च तीव्रेण वपुषाऽन्विताः ॥
एते विसर्पका नाम शुक्रपुत्राः पुरोदयाः ।
अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः ॥
शनैश्चरपुत्रानाहाथर्वमुनिः ।
ये श्वेताः किञ्चिदाकृष्णा द्विशिखाः सिततारकाः ।
ते षष्टिः कनका गौराः शनैश्चरसुता ग्रहाः ॥
गर्गस्तु ।
सस्निधा रश्मिसंयक्ता द्विशिखाः सिततारकाः ।
षष्टिस्ते कनका घोराः शनैश्चरसुता ग्रहाः ॥
अनुक्तत्वादेपामुदये दिङ्नियमो नास्ति । तथा च वराहसंहितायाम् ।
स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्वराङ्गरुहाः ।
अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ।
राहुपुत्रानाहाथर्वमुनिः ।
कृष्णाभा कृष्णपर्यन्ताः कलुषाकृतिरश्मयः[१२५]।
राहुपुत्रास्त्रयस्त्रिंशत् कोलकाश्चातिदारुणाः ॥
वराहसंहितायां तु ।
त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥
तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ॥
ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्गेऽपि ।
इत्यादि सप्रपञ्चं सूर्याद्भुतावर्त्त उक्तमिति ।
अथ कालसुता वराहसंहितायाम् ।
षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
पुण्ड्रा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥
पुण्ड्राश्चित्रवर्णाः । पुण्ड्रा नाम ये जनपदास्तेषामभयप्रदा इत्युत्पलेन [१२६] व्याख्यातम् । तदयुक्तम् ।
यदाहाथर्वमुनिः ।
पुण्ड्रताराः कबन्धाः स्यू रूक्षा भस्मसरश्मयः ।
कालपुत्राः कबन्धास्ते स्मृताः षण्णवतिर्ग्रहाः ॥
गर्गश्च ।
पुण्डूतारा विरूपाश्च कबन्धाकृतिसंज्ञिताः ।
पीतारुणसवर्णाश्च भस्मकर्बुर[१२७]रश्मयः ॥
कालपुत्राः कबन्धाश्च नवतिः षट् च ते स्मृताः ।
लोके मृत्युकरा घोरा भवन्त्यशुभदर्शनाः[१२८]॥
अथ मृत्युसुता वराहसंहितायाम् ।
वक्रशिखा मृत्युसुताः कृष्णा रुक्षाश्च तेऽपि तावन्तः ।
दृश्यन्ते याम्ययां जनमरकावेदिनस्ते च ॥
तावन्तः पञ्चचिंशतिरित्यर्थः । वराहेण पञ्चविंशतिसंख्यानां रविपुत्रकेतूनां पूर्वोक्तत्वात् ।
गर्गश्च ।
रूक्षाः कृष्णा वक्रशिखा दृश्यन्ते याम्यदिकस्थिताः ।
पञ्चविंशा मृत्युसुताः प्रजानां भयकारिणः ॥
अग्निपुत्रा वराहसंहितायाम् ।
शुकवदनबन्धुयावकलाक्षाक्षतजोपमा हुताशसुताः ।
आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥
तावन्तः पञ्चविंशतिः ।
तथा च गर्गः ।
अग्निपुत्रा ग्रहा ज्ञेयास्तत्राग्निभयवेदिनः ।
आग्नेय्यां दिशि दृश्यन्तं लोहिताः पञ्चविंशतिः ॥
अथान्यान् विश्वरूपसंज्ञानग्निपुत्रानाहाथर्वमुनिः ।
नानावर्णाग्निसंकाशा ज्वालामाला विसर्पिणः ।
विश्वरूपाः सुता अग्नेर्ग्रहा विंशच्छतं स्मृताः ॥
गर्गस्तु ।
नानावर्णाग्निसंकाशाः दीप्तिमन्तो विशालिनः [१२९] ।
सृजन्त्यग्निभिवाकाशे सर्वज्योतिर्विनाशनाः ॥
तेऽप्यग्निपुत्रा विज्ञेयास्तीव्राग्निभयवेदिनः ।
विंशद्ग्रहशतं घोरं विश्वरूपेति नामतः ॥
विंशद्ग्रहशतं विंशत्यधिकं शतमित्यर्थः ।
तथा च वराहसंहितायाम् ।
विंशत्याऽधिकमन्यच्छतमग्नेर्विश्वरूपसंज्ञानाम् ।
तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥
वरुणपुत्रानाहाथर्वमुनिः ।
वंशगुल्मप्रतीकाशाश्चन्द्ररश्मिसरश्मयः ।
शुकतुण्डनिभैश्चापि रश्मिभिः किञ्चिदावृताः ॥
उदयेहः सृजन्तीव स्निग्धत्वात् सौम्यदर्शनात् ।
एते नाम्ना स्मृताः कङ्गा द्वात्रिंशद्वारुणा ग्रहाः ॥
वराहसंहितायां तु ।
कङ्गा नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः |
शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥
गर्गस्तु ।
वायुपुत्रानाहाथर्वमुनिः ।
अरुणास्तु सुता वायोः परुषाः सप्तसप्ततिः ।
वातेरिता भ्रमन्तीव रूक्षा विस्तीर्णरश्मयः ॥
वराहसंहितायां तु ।
श्यामारुणा वितारा धूसररूपा विकीर्णदीधितयः ।
अरुणाख्या वायुसुताः पापफलाः सप्तसप्ततिः परुषाः ॥
अथ वायुसुताः ।
पाण्डुराभिः सुदीर्घाभिः शिखाभिः शीतरश्मयः ।
मिश्रीभूतास्तु विज्ञेया गुण्डिता इव रेणुभिः ॥
अतिसन्तानकास्त्वन्ये षष्टिर्वायोः सुता ग्रहाः ।
अथ धूमकेतुसुताः ।
विकेशकाः प्रकाशन्ते कृष्णलोहितरश्मयः ।
मिश्रीभूतास्तु ते ज्ञेया गुण्डिता इव रेणुना ॥
धूमकेतोः सुता घोराः शतमेकाधिकं च यत् ।
अथानुरुपुत्राः ।
अत्यर्थकरकास्त्वन्ये प्रतप्तकनकप्रभाः ।
अनूरुपुत्रकाः षष्टी रात्रिका मध्यचारिणः ॥
अथ व्यालपुत्राः ।
ये तु नक्षत्रवर्गस्य भागमुत्तरमाश्रिताः ।
एकतारा वपुष्मन्तो महाकायाः प्रभान्विताः ॥
व्यालकस्य तु ते पुत्राः सप्तषष्टिः समन्ततः ।
नामतो विकचा नाम तन्त्रज्ञैः परिकीर्त्तिताः ॥
अत्र ब्रह्मराशिपुत्राः ।
सन्तानकनिभा ये तु दृश्यन्ते सूक्ष्मरश्मयः ।
एकतारा द्विताराश्च अथ वा पञ्चतारकाः ॥
ब्रह्मराशेस्तु ते पुत्रा ग्रहास्तरस्थानसंस्थिताः ।
संचरन्ति नभः सर्वमुत्पन्ने पुरुषक्षये ॥
अथ प्रजापतिसुताः !
अणवो लोहितास्त्वन्ये प्रकाशन्ते विकेशकाः ।
कनकाः पञ्चषष्टिस्ते प्राजापत्या ग्रहाः स्मृताः ॥
अथादित्यादिसप्तग्रहपरिवेषमण्डलगताः ।
परिवेषेषु जातेषु ग्रहाणां मण्डलेषु च ।
दृश्यन्ते कार्मुका नाम सप्तान्ये ते समाश्रिताः ॥
अथाधर्मसम्भवाः ।
अधर्मसम्भवास्त्वन्ये चतुर्दश समाश्रिताः ।
अधःशिखाः प्रकाशन्ते विवर्णा घोरतारकाः ॥
अथ राहुपुत्राः ।
कर्णच्छिद्रप्रतीकाशाः कृष्णास्ते तारकाकृतौ ।
कीलका राहुपुत्राश्व चन्द्रसूर्यतलाश्रयाः ॥
वज्रः कबन्धस्त्रिशिखः शङ्खो भेरी खगो धनुः ।
दण्डः श्वा राहुपुत्रास्ते तव ते तुल्यवर्चसः ॥
सदा सोमार्कयोर्ह्येते मण्डलाभ्याससेविनः ।
राजान्यत्वाय दृश्यन्ते प्रजानां संक्षयाय च ॥
तत्र मन्दफला जेयाः शशाङ्कतलसेविनः ।
दिवाकरतलाभ्याससंविनो भृशदारुणाः ॥
अथ दिक्पुत्राः ।
पन्नगाख्याश्चतर्विशद्वात्रिंशत् कृष्णका ग्रहाः ।
विंशतिः सप्त च श्वेता अरुणा विंशतिर्ग्रहाः ॥
दक्षिणाद्यासु वीक्ष्यन्ते नीचैर्विभ्रान्तमण्डलाः ।
केवलं तारकाकारा दृश्यन्ते निष्प्रभा ग्रहाः ॥
पीतरक्ता ग्रहाः पञ्च पूर्वदक्षिणतः स्मृताः ।
दक्षिणापरतश्चापि पीतरक्तौ ग्रहौ स्मृतौ ॥
उत्तरापरतस्त्वेकः पीतरक्तौ ग्रहः स्मृतः ।
ऐशान्यां श्वेतरक्ताभ एकस्तिष्ठति सूर्यभः ॥
यः सान्ध्यवेलास्वर्काभो दिक्षु सर्वासु दृश्यते ।
नातिदूरं च वै स्निग्धः स वर्षाभयदायकः ॥
मृत्योर्निःश्वासजाश्चान्ये ज्ञेयाः षोडश केतवः ।
कूष्माण्डविम्बवत्संस्था निर्दिष्टा दक्षिणे पथि ॥
अथादित्यजाः ।
एकादशैव विज्ञेया द्वादशादित्यसम्भवाः ।
सूर्यचन्द्रनिरीक्ष्यास्ते तेजोधातुमया ग्रहाः ॥
अथ रुद्रकोधजाः ।
दक्षयज्ञे तु रुद्रस्य क्रोधादन्ये तु निःसृताः ।
भीमरूपा दशैकश्च जालाङ्कुशधरास्तथा ॥
अथ पैतामहाः ।
सप्त पैतामहाश्चान्ये निर्याता जर्जरा ग्रहाः ।
शिखाः सृजन्तो विनताततशुक्लपटोपमाः ॥
अथौद्दालकिसुताः ।
श्वेताः केतव इत्यन्ये व्याख्याता दश पञ्च च ।
उद्दालकऋषेः पुत्रास्ते नीचैर्भ्रान्तमण्डलाः ॥
ते तु श्वेतशिखाः सर्वे सौम्याकारास्तनुप्रभाः ।
अथामृतजाः ।
चतुर्दशेन्दुना सार्धं मथ्यमाने पुराऽमृते ।
केतवः कुन्दपुष्पाभाः क्षीरोदार्णवसम्भवाः ॥
विरश्मयस्ते विशिखा ह्रस्वकाया निरर्चिषः ।
रौप्यकुन्दनिभाः सौम्या ग्रहास्ते सिततेजसः ॥
अथ ब्रह्मकोपज:
ब्रह्मकोपभवस्त्वेको विश्वात्मा सबलो ग्रहः ।
चतुर्युगान्ते लोकानामुदयस्तस्य दृश्यते ॥
अथ नाभसाः ।
नक्षत्रपथमुत्सृज्य नाभसाः पार्श्वचारिणः ।
पूर्वतोऽभ्युदिता वा स्युर्नीचैरुत्तरतस्तथा ॥
याम्याद्यभ्युदिता वा स्युर्ह्रस्वा स्नेहपरिप्लुताः ।
सर्व एव तु विज्ञेया ग्रहा मन्दफलोदयाः ॥
अथ फलनिर्णयः ।
सर्वेषां पैतृकं रूपं प्रजाभाग्योद्भवं भवेत् ।
तत्कर्मजन्ममाहात्म्यशीलाभिजनमेव च ॥
तद्रूपाँस्तद्गुणाँश्चापि तद्देशाँस्तत्परिग्रहान् ।
सर्व एव क्षुधारोगमृत्युशस्त्राग्नितस्करैः ॥
पशुशस्योपघातैश्च हन्युरन्यैश्च कारणैः ।
धूपनात् स्पर्शनात् स्थानादुदयादस्तसम्भवात् ॥
हन्युः पञ्चविधाः सर्वे केतवो नात्र संशयः ।
शुक्रादीनां च ये पुत्रा ग्रहाणां परिकीर्त्तिताः ॥
तेषां बीजानि जानीयात् पितृभ्योऽभ्यधिकानि च ।
मृत्योः कालस्य सूर्यस्य ब्रह्मणस्त्रयम्बकस्य च ॥
भौमस्य राहोरग्नेश्च ग्रहा वायोश्च दारुणाः ।
प्रजापतेरधर्मस्य सोमस्य वरुणस्य च ॥
दिशां च विदिशां पुत्रा विज्ञेया मृदुदाणाः ।
कश्यपस्य च मारीचेरुद्दालकऋषेस्तथा ॥
पुत्रा मन्दफला ज्ञेयाः सौम्या अमृतसम्भवाः ।
अथैकादशजातय एकेात्तरशतकेतवो भवन्तीति पराशरादीनां मतम् ।
तथा च पराशरः ।
शतमेकोत्तरं केतूनां भवति तेषां षोडशमृत्युनिःश्वासजाः । द्वादशादित्यसम्भवाः । दश दक्षयज्ञविलयने रुद्रक्रोधजाः । षट् पैतामहाः । पञ्चदश क्रुद्धोद्दालकसुताः । पञ्च प्रजापतेर्हासजा: । सप्तदश मारीचिकश्यपललाटजाः । त्रयो विभावसुजाः । चतुर्दशं मध्यमाने समुद्रे सोमेन सह सम्भूताः । धूमोद्भव एकः । एकस्तु ब्रह्मकोपजः- इति ।
वृद्धगर्गस्त्वौरसा द्वादशादित्यसम्भवा एकादश केतवो भवन्ति । रुद्रक्रोधजाश्चेकादशेति ।
तद्यथा ।
मृत्योर्निःश्वासजास्तेषां केतवः षोडश स्मृताः ।
एकादश च विज्ञेया द्वादशादित्यसम्भवाः ॥
दक्षयजे तु रुद्रस्य क्रोधादन्ये विनिःसृताः ।
एकादशैते विख्याताः सप्त पैतामहाः स्मृताः ॥
ऋषेरुद्दालकस्यापि पुत्रा दश च पञ्च च ।
ते च यौवनसंवृद्धाः श्वेतकेतुत्वमागताः ॥
तथा प्रजापतेर्हासात् केतवः पञ्च निस्सृताः ।
षोडशैकश्च मारीचिकश्यपस्य ललाटजाः ॥
अग्निपुत्रास्त्रयस्तेषां केतवस्तिग्मतेजसः ।
सप्त पञ्च च द्वौ चाब्धेर्मथ्यमाने तदाऽमृते ॥
सोमेन सह सम्भूताः केतवो मध्यतः स्मृताः ।
अन्तकस्योग्ररूपस्य क्रोधादेको विनिस्सृतः ॥
धूमकेतुरिति ख्यातो ब्रह्मकोपात् तथाऽपरः ।
एतेषामेकादशजातीयानामेकोत्तरशतकेतूनां प्रत्येकानां नामान्याह वृद्धगर्गः ।
अतः परं प्रवक्ष्यामि केतूनां नामनिश्चयम् ।
विस्तरेण यथा शास्त्रं ब्रुवतो मे निबोधत ॥
तत्र मृत्युपुत्राः ।
दरस्तब्धः श्रमो मोहः श्यावः सर्वोऽत्ययस्तथा ।
पराशरस्तमो वृष्टिः शोषणोऽतिप्रभञ्जकः ॥
अस्थिकेतुर्वसाकेतुः शस्त्रकेतुरदर्शनः ।
एते निःश्वासजा मृत्योर्नामतः परिकीर्त्तिताः ॥
अथादित्यजाः ।
जृम्भाकेतुश्च दृष्टश्च वृक्षः कौम्भी हृदो रविः ।
तीक्ष्णो व्यालः कपालश्च तीव्रः प्रमथनस्तथा ॥
केतवस्ते दशैकश्च नामतस्तान् निबोधत ।
एकादशैते विख्याता द्वादशादित्यसम्भवाः ॥
अथ रुद्रक्रोधजाः ।
दक्षयज्ञे तु रुद्रस्य क्रोधादेवाभिनिस्सृताः ।
दशस्तुण्डो व्रती क्रोधश्चलकेतुर्जलोदरः ॥
व्याधः कटाहो नऋश्च शान्तिदश्च शतोदरः ।
दम्भो भवनकेतुश्च कलिर्वृषभगोशराः ॥
अथ पैतामहाः ।
एते पैतामहाः सप्त शिखण्डी चेति कीर्त्तिताः ।
अथोद्दालकिजा: ।
अग्निः श्वेतः कुशः क्षारी जटी क्रोधी निषूदनः ।
भस्मो भुवनकेतुश्च गोपो मृत्युः पराभवः ॥
गदः[१३२] प्रमथनः शोकः पञ्च व पञ्च पञ्च च ।
ऋषेरुद्दालकस्यैते पुत्रा वेै नामतः स्मृताः ॥
अथ प्रजापतिहासजा: ।
पिङ्गलो जटिलश्चैव विश्वरूपो महोदरः ।
कः प्रजापतिहासात् तु केतवः पञ्च निःसृताः ॥
अथ मारोचिकश्यपप्रजाः ।
बलः केतुर्द्रुमः श्वासः स्वधो चारी सुधीः क्षमः ।
कबन्धस्तापनः शम्भुश्चण्डो ग्राहो जटाधरः ॥
रक्षकौटपुटैरेभिर्नामतः परिकीर्त्तिताः ।
षोडशैकश्च मारीचाः कश्यपस्य ललाटजाः ॥
अथ विभावसुजाः ।
विभावसोस्तु ये पुत्रास्त्रयश्चैत्र तु कीर्त्तिताः ।
श्रुतकेतुर्मोहनश्च रश्मिकेतुश्च ते त्रयः ॥
अथामृतजाः ।
चतुर्दश तु ये चैते केतवोऽमृतसम्भवाः ।
नामतस्तु यथाशास्त्रं कीर्त्त्यमानान् निबोधत ॥
जलकेतुर्महाशङ्खः पद्मकेतुर्मणिस्तथा ।
रक्षो विसर्पणश्चैव हिमः शीतस्तथैव च ॥
आवर्त्तकेतुरुर्मिश्च कुक्षिः कुमुद एव च ।
कोपश्च भवकेतुश्च एते प्रोक्ताश्चतुर्दश ॥
अथान्तकक्रोधजः ।
अन्तकस्य तु यः क्रोधादेक एव विनिःसृतः ।
नामतस्तं वदन्तीह धूमकेतुरिति द्विजाः ॥
अथ ब्रह्मकोपजः ।
अथैको ब्रह्मकोपात् तु पृथगेव विनिःसृतः ।
एवं संवर्त्तको नाम केतुः परमदारुणः ॥
एकदैकशतं घूर्णन् नामतः परिकीर्त्तितः ।
एतेभ्यो ये उदयन्ते तानाह पराशर : ।
एभ्यः षड्विंशतिरुदयैः फलमावेदयन्ति । तन्नामतो रूपतः। फलतस्तत्कालतोऽभिधास्यामः । तत्र मार्त्त्यवास्त्रय उदयन्ति । एकैकशो वराकेतुरस्थिकेतुः शस्त्रकेतुर्वा । वृद्धगर्गस्तु ।
मृत्युनिःश्वासजा ये ते पूर्वमेवानुकीर्त्तिताः ।
तेषां दृश्यास्त्रयः प्रोक्ता विज्ञेया नभसि स्थिताः ॥
तेषां त्रयाणामेकैकं त्रिंशद्वर्षशते गते ।
केतूनामुदयो व्योम्नि दृश्यते तु गभस्तिमान् ॥
प्रथमस्तु वसाकेतुरस्थिकेतुरनन्तरम् ।
शस्त्रकेतुरिति ख्यातस्तृतीयो ज्ञानकोविदः ॥
अथैषामुदये पुर्वनिमित्तान्यह वृद्धगर्गः ।
उत्थानसमये चैषां निमित्तान्युपलक्षयेत् ।
अप्रमत्तः सदा विद्वानुद्युक्तः शास्त्रकोविदः ॥
देवतायतने देवों चलन्तीं रुदतीमपि ।
धूमायन्तीं श्वसन्तीं वा दृष्ट्वा केतुं निवेदयेत् ॥
व्यभ्रे नभसि वर्षाणि विद्युतोऽशनिमारुताः ।
भौमान्तरिक्षाश्चोत्पाता दृश्यन्ते चातिभैरवाः ॥
स्मशाननिलयानां च स्मशाने चोपजीविनाम् ।
सत्त्वानामाभिपादानां श्रूयते सुमहान् स्वनः ॥
उत्पातैरीदृशैर्घोरैर्दृश्यद्भिरनिशं ततः ।
याम्यानां क्षुद्धयं विन्द्यात् केतूनां केतुशास्त्रवित् ॥
वसाकेत्वादीनां लक्षणं फलानि वराहसंहितायाम् ।
उदगायतो महान् स्निग्धमूर्त्तिरपरोदयी वसाकेतुः ।
सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ॥
तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रथितः ।
स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥
तत्र वसाकेतुः स्निग्धो महानुदगायतशिखस्त्रिंशद्वर्षशतं प्रोष्य संप्लवेषु[१३३] पश्चिमेनोदितः स सद्यो मरकफलः सौभिक्षकरः । रूक्षोऽस्थिकेतुरसौभिक्षकरस्तुल्य [१३४]प्रवासकालफलः । पूर्वेण स्निग्ध एव शस्त्रकेतुः शस्त्रवृत्तराजविरोधमरकफलः समो रूक्षः - इति ।
वृद्धगर्गस्तु ।
उदगायतो महान् स्निग्धो वारुण्यामुदितो निशि ।
वसाकेतुरिति ख्यातः सद्यो मरककारकः ॥
स दृष्ट एव कुरुते सौभिक्षमिति चोत्तमम् ।
उग्रया शिखया भीमो दक्षिणेन नताग्रया ॥
अस्थिकेतुर्जनान् हन्याद्दुर्भिक्षमरकाग्निभिः ।
स दृष्ट एवं पृथिवीमाप्लावयति वारिणा ॥
रुक्षया शिखयाऽत्यर्थं क्षतजार्द्रप्रकाशया ।
शस्त्रकेतुर्भवेत् प्राच्यां शस्त्रमृत्युकरो महान् ॥
अथापरेपामुदितानां मृत्युसुतानां फलमाह वृद्धगर्गः ।
निकटालयसंस्था ये ये च उत्तरवासिनः ।
चतुष्पथनिकेताश्च पुरत्रयनिवासिनः ॥
एते चान्ये च वीभत्साः पुरुषादा निशाचराः ॥
लोकानन्तर्हिता घ्नन्ति केतवो मृत्युसम्भवाः ॥
वसादिकेतूनामुदयानन्तरममृतस्य कुमुदकेतोरुदयः ।
तल्लक्षणं वराहसंहियाम् ।
कुमुद इति कुमुदकान्तिर्वारुण्यां प्राकशिखो निशामेकाम् ।
दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥
वृद्धगर्गस्तु ।
तेषां कर्मफलस्यान्ते प्रफुल्लकुमुदप्रभः ।
नामतः परिसंख्यातः कुमुदः संप्रदृश्यते ॥
पश्चिमेनोदितः श्रीमान् शिखां कृत्वाऽतिसुप्रभाम् ।
याम्यैः केतुभिरातप्तं लोकमाश्वासयन्निव ॥
शङ्खगोक्षीरमुक्ताभां पूर्वेणाभिनतां शिखाम् ।
दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
सुभिक्षं जायते चात्र विरुध्यन्ते च पार्थिवाः ।
ज्वरा नानाविधाश्चात्र भवन्ति प्रवला नृणाम् ॥
पाण्डुरोगः प्रतिश्यायो मुखरोगावरोधकः ।
महिषान् वारणान् मत्स्यान् वराहानथ सारसान् ॥
मर्कटान् मकरान् नक्रानन्याँस्तोयचरानथ ।
सर्वान् प्रतापयत्येतान् केतुः कुमुदसम्भवः ॥
दश वर्षाणि वा प्राहुः फलं मासाँश्च षोडश ।
अयमुदितः क्षेमसुभिक्षावहः । पश्चिमोदितत्वात् पश्चिमदिग्देशस्थानां च पीडाकरः ।
यथा पराशरः ।
तत्र कुमुदकेतुर्वसादिकेतुचारसमाप्तौ वारुण्यां दर्शनमुपैति । गोक्षीर विमलस्निग्धप्रभां पूर्वेणाभिनतां शिखां कृत्वैकरात्रं चरन् स दृष्ट एव सुभिक्षमुत्पादयति दश वर्षाणि प्रजानामविरोधम् । प्रतीच्यां च मुखरोवगारोधकप्रतिश्यापाण्डु-रोगज्वरैः प्रजां वाधते- इति ।
अथापरकपालकेतोरुदयः । तल्लक्षणमाह वृद्धगर्गः ।
ततः कुमुदकेतोस्तु व्यतीतेऽमलदर्शने ।
द्वादशादित्यसम्भूतः केतुरन्यः प्रदृश्यते ॥
एकादश तु ये प्रोक्ता द्वादशादित्यसम्भवाः ।
तेषामप्युत्तर: केतुः सधूमार्चि: प्रदृश्यते ॥
पञ्चभिः पञ्चदशभिर्वर्षाणां पञ्चभिः शतैः ।
पुरस्तात् त्रिषु पक्षेषु गतेषु प्रतिदृश्यते ॥
निर्घातपांसुवर्षायैः पूर्वरूपैः सुदारुणैः
कपालकेतुरूपेण कालो दर्शयते दिवि ॥
स दृष्ट एव दुर्भिक्षमनावृष्टिं प्रजाक्षयम् ।
शस्त्रव्याधिभयं मृत्युं करोत्येव सुदारुणम् ॥
यावदर्शयते मासाँस्तावद्वर्षाणि वाधते ।
त्रिभागं नमसञ्चार्धं गत्वा प्रतिनिवर्त्तते ॥
प्रस्थार्धे उभयोरर्धं कृत्वैवमनयं तदा ।
कृतकर्मा भवत्येष प्रजार्धमुपयुज्य च ॥
पराशरेण त्वमास्यायामस्योदय उक्तः ।
तद्यथा ।
आदित्यजानां कपालकेतुरुदयते । अमावास्यायां पूर्वस्यां दिशि सधूमार्चिःशिखो नभोविषयार्थे चरन् दृश्यते । पञ्चविंशतिवर्षशतं प्रोष्य त्रीँश्च पक्षानमृतजस्य कुमुदकेतोश्चारान्ते स दृष्ट एव दुर्भिक्षानावृष्टिव्याधिभयमृत्यूपद्रवान् जनयति । यावतो मासान् दृश्यते तावतो मासान् मासर्वत्सरान् सप्तपञ्चप्रस्थं च शारदधान्यस्यार्धं कृत्वाप्रजानामर्धमुपयुङ्क्ते ।
वराहसंहितायां च ।
दृश्योऽमावास्यायां कपालकेतुः स धूमताम्रशिखः ।
प्राङ्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोगकरः ॥
तेषामेकादशानां तु ये चापि दश केतवः ।
अनेनैकेन विख्याता नामतः फलतस्तथा ॥
तेऽपि रूक्षाभया ख्याता वनस्थाः पर्वताश्रयाः ।
कीटाः पतङ्गा कण्टस्था वृश्चिका नकुलाः खगाः ॥
एते नानाविधा लोकान् विषवीर्यपराक्रमाः ।
केतवो घ्नन्ति भूमिष्टानन्तरिक्षचराँस्तथा ॥
अथापरमणिशिखन्य केतोरुदयः । यथाऽऽह वृद्धगर्गः ।
अस्य च प्रतिषेधार्थ कपालस्योपहिंसतः ।
केतुर्मणिशिखः श्रीमान् पश्चिमेनोदयिष्यति ॥
उत्थानसमये चास्य पूर्वरूपाणि लक्षयेत् ।
पूर्वरूपैर्हि शक्यः स्याद्विज्ञातुमुदितो ग्रहः ॥
स्निग्धजीमूतजालोघैः संपतद्भिरितस्ततः ।
स्रावद्भिर्वै सहस्राक्षो वर्षेणर्दयते जनान् ॥
न किञ्चिदपसव्यं स्यान्न किञ्चिदशुभं तथा ।
श्रूयते दृश्यते चापि तस्य दर्शनलक्षणैः ॥
पराशरस्तु ।
मणिकेतुरपि कपालकेतोश्वारावसाने प्रतीच्यामुदयन्नुपतापयति । प्रसूक्ष्मोऽरुन्धतीतारकामात्रः क्षीरप्रतीकाशया पूर्वाभिनतया स्तब्धया स्निग्धया शिखया शर्वर्यामेकमदृश्यः । स उदयात् प्रभृत्यर्धपञ्चमान् मासान् क्षेमसुभिक्षमुत्पादयति । क्षुद्रजन्तुप्रादुर्भावं करोत्यतिमात्रकालदृष्टः इति ।
वराहसंहितायां च ।
सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः ।
ऋज्वी शिखाऽस्य दृश्या[१३५] स्तनोद्गता क्षीरधांरेव ॥
उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ।
प्रादुर्भावं प्रायः करोति स क्षुद्रजन्तूनाम् ॥
प्रायो बहुकालं दृष्ट: क्षुद्रजन्तूनां मशकदंशादीनां प्रादुर्भावं करोति ।
क्षुद्रजन्तुलक्षणम् ।
क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः ।
शतं वा प्रसवो येषां केचिदानकुलादपि ॥
वृद्धगर्गस्तस्य रात्रियामत्रयोपरि दर्शनं सार्धचतुर्वर्षाणि सुभिक्षक्षेमादिकं चाह ।
यथा ।
यातेषु त्रिषु यामेषु दर्शयित्यनिमित्ततः ।
अरुन्धतीसमश्चापि सृक्ष्मत्वाद्रूपतः स्मृतः ॥
तनुस्निग्धां शिखां कृत्वा याममेकं प्रदर्शयेत् ।
एवं वर्षाणि चत्वारि पक्षान् द्वादश चापरान् ॥
सुभिक्षं क्षेममारोग्यं कुरुते नभसि स्थितः ।
याममात्रातिरिक्तकालदृष्टस्य तस्य फलम् ।
नानाव्यालसमाकोर्णाः सरीसृपसमाकुलाः ।
जानीयात् ताः समाः सर्वा मक्षिकादंशसंकुलाः ॥
भवत्यन्नमनास्वाद्यं नित्यं चैवाथ रोचकम् ।
केतौ मणिशिखे दृष्टे प्रजानामिति निर्दिशेत् ॥
अथापरकलिकेतोरुदयः । तत्र वृद्धगर्गः ।
दक्षयज्ञे तु रुद्रस्य क्रोधाद्ये चाभिनिःसृताः ।
तेषामेकादशानां तु केतुरेकः प्रदृश्यते ॥
अष्टादशेषु पक्षेषु शतैश्चान्यैस्त्रिभिर्गतः ।
वर्षाणां दारुणाकारः कलिकेतुः प्रदृश्यते ॥
अथास्योदये पूर्वरूपाण्याह वृद्धगर्गः ।
पूर्वरूपाणि चाग्नेये रौद्रे चाऽपि निशामय ।
अपसव्यानि सर्वाणि न तु कश्चित् प्रदक्षिणः ॥
सधूमा दारुणाकारा ज्वलदङ्गारसप्रभाः ।
ताराः पतन्ति गगनान्निर्घातोल्का दिशो दश ॥
एतैरेतादृशौर्घौरैः पूर्वरूपैः सुदारुणैः ।
केतोरुदय आचष्टे कलिरन्य उपस्थितः ॥
कलिकेतुलक्षणं वराहसंहितायाम् ।
प्राग्वैश्वानरमार्गे शूलाभः श्यावरूक्षताम्रार्चिः ।
नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥
रौद्रः केतुः ।
तथा च पराशरः ।
अथ दक्षयज्ञे रुद्रक्रोधोद्भवः कलिकेतुस्त्रीणि वर्षशतानि नव मासान् प्रोप्योदयते । पूर्वेण वैश्वानरपथेऽमृतजस्य मणिकेतोश्चारान्ते श्यावरूक्षताम्रारूणां शूलाग्राकारसदृशीं शिखां कृत्वा नभसस्त्रिभागचारी शस्त्रभयरोगदुर्भिक्षानावृष्टिमरकैभर्विद्रावयन् दिशान्ते दृश्यते । यावन्मासान् दृश्यते तावद्वर्षाणि त्रिभागशेषां प्रजां कृत्वाऽर्घं च शारदधान्यस्याष्टाढकं व्रजति-इति ।
वृद्धगर्गस्तु ।
ज्येष्ठामूलानुराधासु या वीथी संप्रकीर्त्तिता ।
तां वीथीं समुपारुह्य केतुः संक्रीडते भृशम् ॥
दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
पूर्वेणोदयते चैष नक्षत्राण्युपधूपयन् ।
प्रजासु सृजते घोरं फलं मासे त्रयोदशे ॥
त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
यावतो दिवसाँस्तिष्ठेत् तावद्वर्षाणि तद्भयम् ॥
शस्त्राग्निभयरौगेश्च दुर्भिक्षमरकैर्हताः ।
शीर्यमाणाः प्रजास्तत्र विद्रवन्ति दिशो दश ॥
कलिकेतुर्यदा चैष पूर्वेणोदयते शिखी ।
कृत्तिकास्वपि चाग्नेयः पश्चिमेन प्रदृश्यते ॥
तावुभौ दर्शयित्वा तु कर्म कृत्वा सुदारुणम् ।
प्रजाक्षयकरैर्घोरे गच्छतोऽस्तमनं सह ॥
शरद्धान्याढके चार्धं कृत्वाऽष्टौ स महाकृतिः ।
क्षपयित्वा जगत् कृत्स्नं विनिवृत्तौ ततस्तु तौ
तयोरन्तर्हिता ये च केतवो नभसि स्थिताः ।
यद्यद्घ्नन्ति विशेषेण तत्तच्छृणुत शास्त्रतः ॥
अजातमेव कार्पासमजातमतसी शणम् ।
हन्यात् पशूनथ च्छागान् नागान् केरिणस्तथा ॥
एतानेवंविधाँश्चैव केतोऽवन्तर्हिता दिवि ।
घ्नन्ति रौद्रास्तथाऽऽग्नेया रौद्रसत्त्वाश्रितान् जनान् ॥
अथातः परममृतजस्य शङ्खकेतोरुदयमाह वृद्धगर्गः ।
तयोस्तु द्वादशे पक्षे वर्षे चाष्टादशे गते ।
शिखया स्निग्धया स्निग्धः प्रदक्षिणनताग्रया ॥
मुक्ताहाराभया श्रीमानालोकं परतो व्रजेत् ।
नव मासान् स सौभिक्षं दृश्यमानं करोति वै ॥
आरोग्यं जनवृद्धिश्च दर्शनादस्य वर्धते ।
यज्ञोत्सवसमृद्धा च तदा भवति मेदिनी ॥
एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ।
लोकोद्योतकरः श्रीमान् शङ्खकेतुरिहोदितः ॥
पराशरेण शङ्खङ्केतु: पृथङ्नोक्त: । ऊर्म्यादिष्वेवास्यान्तर्भावः कृत इति ।
अथातः परं चलकेतोरुदयः । तस्योदपूर्वनिमित्तान्याह वृद्धगर्गः ।
पैतामहानां सप्तानां चलकेतुः प्रदृश्यते ।
प्रपातैः पञ्चदशभिः शतैः संवत्सरैर्दिवि ॥
उत्थाने चास्य लिङ्गानि यथावदुपधारयेत् ।
अनिष्टमशुभं तुच्छं नदन्ति मृगपक्षिणः ॥
अन्योन्यमभिसंरब्धाः पुरुषाः पुरुषैः सहः ।
विग्रहं दारुणं यान्ति राजानश्च परस्परम् ॥
उभे सन्ध्ये च विकृते रूक्षवर्णे सुलोहिते ।
न भ्राजति तदा व्योम पांशुध्वस्तं तमोवृतम् ॥
अथ चलकेतुलक्षणं वराहसंहितायाम् ।
अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया ।
गच्छेद्यथायथोदक् तथातथा दैर्घ्यमायति ॥
सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति ॥
हन्यात् प्रयागकूलाद्यावदवन्तीं त्रिपुष्करारण्यम्[१३६] ।
उदगपि च देविकामिति भूयिष्ठं मध्यदेशाख्यम् ॥
अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षैः ।
दश मासान् फलपाकः कैश्चिदिहाष्टादश प्रोक्तः ॥
पराशरस्तु
अथ पैतामहश्चलकेतुः । पञ्चदशवर्षशतं प्रोष्योदितः पश्चिमेनाङ्गुलिपर्वमात्रां शिखां दक्षिणाभिनतां कृत्वा कलिकेतोश्चारान्ते नभस्त्रिभागमनुचरन् यथायथा चोत्तरेण व्रजति तथातथा शूलाग्राकारां शिखां दर्शयन् ब्राह्मनक्षत्रमुपसृज्यात्मना[१३७] ध्रुवं ब्रह्मराशिं सप्तर्षींन् स्पृशन् नभसोऽर्धमात्रं दक्षिणमनुक्रम्यास्तं व्रजति । यः स्ववर्गे दारुणकर्मा स्ववर्गप्राप्तत्वादेवं कृत्स्नमभिहिनस्ति । लोकमपि वा भूमिं कम्पयित्वा दशमासान् मध्यदेशे भूयिष्ठं जनपदमवशेषं कुरुते । अन्येष्वपि च क्वचिच्छत्रुदुर्भिक्षव्याधिमरकभयैः क्लिश्नात्यष्टादशमासान्- इति ।
वृद्धगर्गः ।
पश्चिमेनाङ्गुलीमात्रां शिखां परमदारुणाम् ।
दक्षिणाभिनतां कृत्वा चलकेतुः प्रदृश्यते ॥
यथायथा दर्शयति त्रिभागं नभसश्चरन् ।
तथातथा शिखा चास्य सुदीर्घाऽत्युपजायते ॥
सुदीर्घां शूलसदृशीं शिखां कृत्वा सुदारुणाम् ।
धूपयेदथ नक्षत्रं ब्राह्मं पैतामहं शिखी ॥
धूपयेदथ नक्षत्रमेकं द्वे त्रीणि वा पुनः ।
स ब्रह्महृदयं स्पृष्ट्वा ध्रुवं सप्तर्षिभिः सहः ॥
दिशं वैश्रवणाक्रान्तामेवं विपरिवर्त्तते ।
स चार्धमेव नभशः परिक्रम्य प्रदक्षिणम् ॥
सप्तर्षिभिः प्रतिहतस्ततोऽस्तमुपगच्छति ।
स्ववर्गे दारुणं कर्म कुरुते स महाग्रहः ॥
गङ्गायाः पश्चिमात् कूलाद्यावदावन्तिकान् जनान् ।
पश्चिमान् पुष्करारण्यमुत्तरेण च वैदिकम् ॥
अत्रैव दारुणं कर्म कुर्वन् हि परिवाधते ।
शस्त्रदुर्भिक्षमरकैः क्वचिदन्यैरुपद्रवैः ॥
स तथा दारुणं कर्म कृत्वा वै सुमहाद्युतिः ।
लोकं चैवाखिलं सोऽथ संपीड्य स निवर्त्तते ॥
आढका आढकाः प्रस्थं धृत्वाऽर्घं सुमहत् तदा ।
कम्पयित्वा महीं कत्स्नां चलकेतुर्निवर्त्तते ॥
अतः परममृतजस्य जलकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।
चलकेतोरतीते तु यथावत् फलदर्शने ।
अमृतेयोऽपरः श्रीमान् जलकेतुः प्रदृश्यते ॥
उत्थानसमये चास्य निमित्तान्युपधारयेत् ।
स्निग्धगम्भीरमधुरा वाचः शृण्वन्ति सर्वतः ॥
मृगाणां पक्षिणां चैव वन्यानां सन्ध्ययोर्द्वयोः ।
एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ॥
जलकेतोरिह श्रीमानुदयः शास्त्रकोविदः ।
जलकेतुलक्षणं वराहसंहितायाम् ।
जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया ।
नव मासान् स सुभिक्षं करोति शान्ति च लोकस्य ॥
पराशरस्तु ।
अथ जलकेतुः पैजामहस्य चलकेतोर्नवमासावशिष्टे कर्मणि कृतं प्रवर्त्तयति । पश्चिमेनोदितः स्निग्धः सुजाततारः पश्चिमाभिनतशिखः स नवमासाभ्यन्तरे क्षेमसुभिक्षारोग्याणि प्रजाभ्यो धत्ते। अन्यग्रहकृतानां चाशुभानां व्याघाताय - इति । वृद्धगर्गस्तु ।
स्निग्धः पश्चाच्छिखः श्रीमान् दृश्यते दिशि पश्चिमे ।
अन्यकेतुभिरातप्तं जगत् प्रह्लादयन्निव ॥
प्राप्तिः कृतयुगस्येव जलकेतौ नभोगते ।
चतुर्मासोदितश्चैव ततः फलति कर्मभिः ॥
कर्म चास्य शुभं शस्यमारोग्यं क्षेम एव च ।
राहुणा केतुना वाऽपि बुधेनान्यग्रहेण वा ॥
यदि पापं कृतं कर्म दर्शनादस्य नश्यति ।
जलकेतुः प्रभुः प्रोक्तः शेषाः सौम्यास्त्रयोदश ॥
शुभास्तमनुगच्छन्ति केतुमन्ये च केतवः ।
सूक्ष्मरूपप्रभाश्चैव तथैवाकरदर्शनाः ॥
तारारूपास्तथा सर्वे विचरन्त्यस्य पार्श्वतः ।
केतुज्ञास्ताँस्तु पश्यन्ति ये चान्ये निपुणा जनाः ॥
चतुर्दशानामेतेषां शेषा रौद्राः प्रकीर्त्तिताः ।
ऊर्यादयोऽवशिष्टा अमृतजा जलकेतूदयानन्तरमुद्यन्ते इति ।
पराशरो यथाऽऽह ।
अथ जलकेतोश्चारसमाप्तावूर्म्यादयः शीतान्ता अन्ये प्रादुर्भवन्ति । ते त्रयोदशचतुर्दशाष्टादशवर्षान्तरिता दृश्यन्ते । स्निग्धाः सुभिक्षक्षेमाय विपर्ययाय विपरीताः । क्षुद्रजन्तूनां वधाय च- इति ।
वृद्धगर्गस्तु ऊर्म्यादीनामुदये विशेषमाह ।
ऊर्मिकेतुः प्रदृश्येत मध्ये चन्द्रमसोऽसितः ।
राहोदर्शनमास्थाय लोकं समोहयन्निव ॥
शोभनं तस्य नक्षत्रे दर्शनं पौर्णमासिके ।
बालेन्दुसदृशीं सौम्यां शिखां दर्शयते शुभाम् ॥
सोमस्य सप्तमे भागे नाम्ना चन्द्रसखः शिखी ।
अमृतेयो ग्रहः श्रीमानानन्दजलदो नृणाम् ॥
राहुमार्गमावृत्य निशाः सप्त प्रदृश्यते ।
दर्शनं चास्य शंसन्ति विप्राः शास्त्रविशारदाः ॥
राहुमार्गमपावृत्येति यस्मिन् कृत्तिकादिसप्तनक्षत्रात्मकमार्गे राहुस्तिष्ठति तन्मार्गमाश्रित्येत्यर्थः ।
वृद्धगर्गः ।
ततः प्रभृति भूयिष्ठा आमृतेयाश्च केतवः ।
सुभिक्षाय तु ते सर्वे प्रदृश्यन्तेऽमृतोद्भवाः ॥
यस्य स्नेहो यथा वर्णः सभिक्षाय स कल्प्यते ।
स एव रूक्षः कुरुते दुर्भिक्षं व्याध्युपद्रवम् ॥
अतः परममृतजस्य भवकेतोरुदयः । तत्र वृद्धगर्गः ।
ततः पर्यायशेषस्तु लोकानां हितकाम्यया ।
दर्शनेऽत्युत्तमः केतुर्भ्राजन् नभसि संस्थितः ॥
भवाय जगतः श्रीमान् भवकेतुः प्रदृश्यते ।
उत्थाने चास्य लिङ्गानि वेदितव्यानि पूर्वतः ॥
शास्त्रज्ञेनाभियुक्तेन प्राज्ञेनैतद्विजानता ।
न रौद्रं न च बीभत्सं न दीना न तु पापिनः ॥
व्याहरन्ति मृगारिष्टा ग्राम्यारण्याश्च पक्षिणः ।
एतैर्निमित्तैर्विज्ञेयं भवकेतुरुदेष्यति ॥
अथास्य लक्षणं वराहसंहितायाम् ।
भवकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ।
हरिलाङ्गूलोपमया प्रदक्षिणावर्त्तया शिखया ॥
पराशरः ।
तेषामष्टानां कर्मण्यतीते भवकेतुर्दृश्यते पूर्वेणैकररात्रम् ।
वृद्धगर्गस्तु ।
हरिलाङ्गूलसदृशीं शिखां कृत्वा तु भास्वतीम् ।
पूर्वेणैव निशामेकां दृष्टोऽस्तमुपगच्छति ॥
स सुभिक्षमथारोग्यं करोत्यथ महाद्युतिः ।
व्याधयश्चात्र बहव उत्पद्यन्ते सवेदनाः ॥
दन्तरोगप्रतिश्यायमुखरोगगलग्रहाः ।
एतानेवंविधाँश्चान्यान् व्याधीन् दारुणदर्शनात् ॥
प्रजानीयाद्रूक्षवर्णादन्नप्राणभयं नृणाम् ।
अतः परं श्वेतकेतोः कसंज्ञितस्य च केतोरुदयः।
तथा च वृद्धगर्गः ।
ऋषेरुद्दालकस्यापि पुत्रा ये संप्रकीर्त्तिताः ।
तेषां पञ्चदशानां तु श्वेतकेतुः प्रदृश्यते ॥
दशोत्तरे वर्षशते संप्रयाति ततो दिवि ।
उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ॥
अनिष्टलक्षणान्यत्र निमित्तानि भवन्ति वै ।
अनिष्टसन्धयो भूपा वैरमायान्ति दारुणम् ॥
शोणितौघपरिक्लिन्ना मही तत्र च दृश्यते ।
एतैरेवंविधेर्घोरैः पूर्वरूपैः सुदारुणैः ॥
श्वेतकेतोः समुदयः परिज्ञेयः सुदारुणः ।
शोभनः स तु विज्ञेयो लक्षणैश्च सुशोभनैः ॥
पूर्वेणोदयते चैष पश्चिमेनानतद्युतिः ।
कः प्रजापतिपुत्रश्च पश्चिमेन प्रपद्यते ॥
स तुल्यमुदितस्तेन प्रजाः शस्त्रेण हिंसति ।
निशार्धे दर्शनं चास्य प्रमाणं परिकीर्तितम् ॥
श्वेतः सप्त निशा दृश्यस्ततो गच्छत्यदर्शनम् ।
तावुभौ दश वर्षाणि प्रजाः पोडयतो भृशम् ॥
व्याधिभिर्दारुणैस्तैस्तैः प्रजानां मरणं ध्रुवम् ।
राजानश्च विरुध्यन्ते नानाव्याधिभयं क्वचित् ॥
क्वचित् पञ्चमिकी खारी क्वचिदर्घेण षष्टिका ।
क्षुद्भिरुत्सादितो देशो यत्र केतुः प्रदृश्यते ॥
पराशरस्तु ।
अथोद्दालिकिश्वेतकेतुर्दशोत्तरं वर्षशतं प्रोष्य भवकेतोश्चारान्ते पूर्वस्यां दिशि दक्षिणाभिनतशिखोऽर्धरात्रकाले दृश्यः । तेनैव सह द्वितीयः प्रजापतिसुतः पश्चिमेन कनामा ग्रहः केतुर्युगसंस्थायी युगपदेव दृश्यते । तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीडयतः । कः प्रजापतिपुत्रो यदा द्व्यधिकं दृश्येत तदा दारुणं प्रजानां शस्त्रकोपं कुर्यात् । तावेव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौ भवतः ।
वराहसंहितायाम् ।
प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।
क इति युगाकृतिरपरे युगपत् तौ सप्तदिनदृश्यौ ।
स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामायः ।
दशवर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥
सप्त सप्त च ये शेषाः श्वेतवान्तर्हिता दिवि ।
कः प्रजापतिपुत्रस्तु चत्वारस्तस्य चापरे ।
तेऽपि चान्तर्हिताः सर्वे समन्तात् केतवो दिवि ।
शृणुयाद्दिवि हिसन्ति द्रव्याणि च फलानि च ॥
तपस्विजनभोज्यानि मलानि च फलानि च ।
गैरिकानि च धातूँश्च पीडयेत् पुनरेव च ॥
स्त्रीणां गर्भान् गवां गर्भानण्डस्थान् पक्षिपन्नगान् ।
एतानन्त्तर्हिता घ्नति केतवो भृशदारुणः ॥
अतः परममृतजस्य पद्मकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।
श्वेतकेतावतीते तु पद्मगर्भवपुः शुभः ।
पद्मकेतुरिति ख्यातश्चरन् नभसि दृश्यते ॥
तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
पर्वतो वै नभश्चैव दिशो भूमिरथापि वा ॥
चन्द्रादित्यौ ग्रहाश्चैव भवन्ति विमला दिवि ।
एतैरन्यैश्च सल्लिङ्गेरुदयं तस्य निर्दिशेत् ॥
पद्मकेतुलक्षणं वराहसंहितायाम् ।
अपरेण पद्मकेतुर्मृणालवर्णो भवेन्निशामेकाम् ।
सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ॥
मृणालवर्णो मृणालशिखः ।
तथा च पराशरः ।
अथातः पद्मकेतुः श्वेतकेतुफलसमाप्तौ पश्चिमेनाह्लादयन्निव मृणालकुमुदाभया शिखयैकरात्रं चरन् सप्तवर्षाण्युच्छ्रितं हर्षमावहति । वृद्धगस्तु ।
मृणालमुक्ताशीतांशुर्जगत् प्रह्लादयन्निव ।
पश्चिमेनोदितः श्रीमानेकां दर्शयते निशाम् ॥
स सुभिक्षं स चारोग्यं प्रजानां हर्षमेव च ।
नित्योत्सवसमाजश्च नित्यं यज्ञपरा नराः ॥
देशे देशे मनुष्याणां भवन्ति विविधाः क्रियाः ।
आमृतेयोऽपरः केतुः फलं सृजति दर्शनात् ॥
तस्य पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ।
फलं दृष्टं च षण्मासान् महर्षिवचनं यथा ॥
अथातः परं स्वधितोहदयः । तत्र वृद्धगर्गः ।
षोडशैकश्च मारीचे: कश्यपस्य ललाटजाः ।
तेषामेकः स्वधिर्नाम चरन् पूर्वेण दृश्यते ॥
ततस्तु पञ्चदशभिः संवत्सरशतैर्गतैः ।
कृतान्तसदृशः क्रूरः प्रजानां च भयावहः ॥
तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
पतन्त्युल्काः सनिर्घाता वाता वान्ति सुदारुणाः ॥
महीकम्पा दिशां दाहाः परिवेषांशु मर्दनाः ।
स्त्रीणां च विकृता गर्भाः प्रदृश्यन्ते समन्ततः ॥
तस्य लक्षणं वराहसंहितायाम् ।
श्वेत इति जटाकारो रूक्षः श्यामो वियन्त्रिभागगतः ।
विनिवर्त्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥
श्वेत इति स्वधिकेतोरेव संज्ञान्तरम् ।
तथा च पराशरः ।
अथ काश्यपः स्वधिकेतुः पञ्चदशवर्षशतं प्रोष्यैन्द्र्यां सोमसहजस्य पद्मकेतोश्चारान्ते श्यावरूक्षो नभसस्त्रिभागमाक्रम्यापसव्य- निवृत्तोर्ध्वप्रदक्षिणजटाकारशिखः । स यावतो मासान् दृश्यते तावन्ति वर्षाणि दुर्भिक्ष[१३८]मावहति । मध्यदेश आर्यगणानामादानमौदीच्यैश्च भूयिष्ठां सत्रिभागशेषां प्रजामवशेषयति-इति ।
वृद्धगर्गस्तु ।
स कृत्वैव जटां रूक्षां शिखामूर्ध्वां प्रदर्शयेत् ।
वैष्णवं पदमाक्रम्य श्यावरूसमयतिः ॥
त्रिभागं नभसो गत्वा अपसव्यं निवर्त्तते ।
याम्याग्रशिखया भौमो नक्षत्राण्युपधूपयेत्
दर्शनादेव लोकानां भयं जनयते भृशम् ।
अस्य दर्शनतो म्लेच्छाः शका ये च महाशकाः ॥
तगणा बहवः सर्वे परस्पर जिगीषवः ।
क्रोधाविष्टाः समेष्यन्ति शस्तः परस्परम् ॥
ततः प्रथमसंग्रामे कबन्धैश्चित्रिता क्षितिः ।
वैमुख्यं क्षत्रियाः सर्वे गमिष्यन्ति कृतान्ततः ॥
तेषां रत्नानि पत्नीश्च क्षत्रियाणां महाशकाः ।
प्रतिगृह्य प्रयास्यन्ति मध्यदेशं विलुप्य च ॥
विप्राद्याँश्चतुरो वर्णान् कुरुक्षेत्रं तथैव च ।
अन्योन्यं ते तु संतुष्टाः प्रयास्यन्ति यमालयम् ॥
ये चाप्यन्तर्हिताः शेषाः केतवः षोडशैव तु ।
ते च भूमिगता व्याला वनपर्वतवासिनः ॥
सागराणां च सर्वेषां दुष्टसत्त्वाँस्तथैव च ।
मानुषान् भक्षयिष्यन्ति दारुणं रूपमास्थिताः ॥
अतः परममृतोद्भवस्यावर्त्तकेतोरुदयः । तत्र वृद्धगर्गः ।
अतिक्रान्ते स्वधौ केतौ निर्गते घोरदर्शने ।
आवर्त्तकेतुरात्मानं दर्शयत्यमृतोद्भवः ॥
उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ।
यानि पूर्वाणि चोक्तानि पद्मकेतोः प्रदर्शने ॥
अथास्य लक्षणम् ।
पश्चिमेनोदितः श्रीमान् शिखां शङ्खोदरारुणान् ।
पूर्वेणाभिनतां कृत्वा रात्र्यर्धे संप्रदृश्यते ॥
प्रदक्षिणावर्त्तगतिः शिखया प्रहसन्निव ।
दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
स दृष्ट एव षण्मासान् पक्षं चैव परं शिखी ।
सुवृष्टिं क्षेममारोग्यं सुभिक्षं कुरुते महत् ॥
यज्ञोत्सवप्रदानैश्च मही भवति संकुला ।
पराशरस्तु ।
अथावर्त्तकेतुः स्वधिकेतोः कर्मण्यतीते अपरस्यामर्धरात्रेण शङ्खोदरारुणाभया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् निशि दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्यं यज्ञोत्सवश्व जगतः ।
वराहसंहितायां च ।
आवर्त्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥
अतः परं रश्मिकेतोरुदयः । तत्र पराशरः ।
अथ रश्मिकेतुर्विभावसुनः प्रोष्य वर्षशतमावर्त्तकेतोश्चारान्ते कृत्तिकासु धूम्रशिखः श्वेतकेतोः सदृशफलः । स्वधिकेतुफलं वराहसंहितायाम् ।
आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥
वृद्धगर्गेण तस्य कलिकेतुना सह तुल्यकालमुदयः प्रोक्तः । तल्लक्षणं फलं च तत्रैवोक्तमिति ।
अथाग्निकेतोरुदयः । तत्र वृद्धगर्गः ।
अतिक्रान्तैस्त्रिभिर्वषैर्मासैः षड्भिस्तथा परैः ।
किंशुकाशोकसदृशः सौदामिन्या समद्युतिः ॥
पद्मकिञ्जल्कवर्णोऽयमग्निकेतुः प्रदृश्यते ।
दर्शनं तस्य जानीयान्नक्षत्रे शऋदैवते ॥
अध्यर्धमाससंदृष्टस्ततो गच्छत्यदर्शनम् ।
तस्योदयनकाले तु वर्त्तमानेऽग्निसंकुले ॥
गणाश्च गणमुख्याश्च तथा पुरनिवासिनः ।
उद्युक्ता घ्नन्ति राजानः परस्परवधैषिणः ॥
नियुद्धं घोरमायान्ति क्रोधलोभपरायणाः ।
त एव दृष्टाः सर्वे च विसर्पन्ति परस्परम् ॥
केचित् स्वदेशं गच्छन्ति परिश्रान्ता निरर्थकाः ।
एवमेव नरेन्द्राणां तथा ग्रामनिवासिनाम् ॥
परस्परं पीडयतां कालो गच्छति दारुणः ।
एष पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ॥
दारुणं कुरुते कर्म न तु दुर्भिक्षतो भयम् ।
अथ गदाकेतोरुदयः । तत्र वृद्धगर्गः ।
मार्गशीर्ष्याममावास्यां गदाकेतुः प्रदृश्यते ।
आदित्यरौद्रसार्पणि बार्हस्पत्यं तथैव च ॥
कोष्ठागारं च शिखया धूमयन्नरुणाभया ।
गदानिभो गदाकेतुर्हन्याद्दृश्यो नभोगतः ॥
गान्धारकाशीचीनाँश्च शकाँश्च दरदैः सह ।
शवरानेकपादाँश्च पुलिन्दान् सूर्पकर्णकान् ॥
एतानेवंविधान् हन्याद्विशेषेणान्त्यवासिनः ।
यावद्दर्शयते पक्षाँस्तावन्मासान् निहन्ति च ॥
मासैर्वर्षाणि जानीयादिति शास्त्रस्य निश्चयः ।
एवं केतुचक्रस्य पुनः पुनः परिवृत्तिर्भवति । पथाऽऽह वृद्धगर्गः ।
नक्षत्रचक्रमाकाशे यथैव परिवर्त्तते ।
केतुचक्रं तथैवेदमाकाशात् परिवर्त्तते ॥
अथ धूमकेतसंवर्त्तकेत्वोर्युगपदुदयः । तत्र वृद्धगर्गः ।
ततो वर्षसहस्रान्ते दृश्येते चोदितौ दिवि ।
केतुमालाग्रहस्यान्ते धूमसंवर्त्तको ग्रहौ ।
एतयोरुदये चापि निमित्तान्यपलक्षयेत् ।
स्त्रियो गर्भान् विमुचन्ति प्रतिरूपाण्यभीक्ष्णशः ॥
अभीक्ष्णं कम्पते वापी सशैलवनकानना ।
ससागरपुरद्वीपाऽनैकधातुधरा धरा ॥
पततामिव शैलानां नागानां बृहतामिव ।
नर्दतां क्षुद्रजातीनां श्रूयन्ते सुमहास्वनाः ॥
बालकानां कुमारीणां नराणां स्त्रीजनस्य च ।
क्रीडितस्याप्रशस्तानि व्याहृतानि तथैव च ॥
पतन्ति गगने चोल्काः सनिर्वाता दिशो दश ।
सज्वालाङ्गारधूमाद्याः सूर्यस्याभिमुखा इव ॥
एतैरेतादृशैर्घोरैः पूर्वरूपैर्भयावहैः ।
उदयं धूमकेतोश्च ब्रूयात् संवर्त्तकस्य च ॥
वराहसंहितायाम् ।
पश्चात् सन्ध्याकाले संवर्त्तो नाम धूम्रताम्रशिखः ।
आक्रम्य वियत्र्यंशं शूलाग्रावस्थितो रौद्रः ॥
यावत एव मुहर्त्तान् दृश्यो वर्षाणि हन्ति तावन्ति ।
भपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति ॥
अथ केवलधूमकेतोरुदयः । तत्रोदयपूर्वनिमित्तान्याह पराशरः ।
धूमकेतोः प्रागुदयनिमित्तानि । अवनेर्विचलनमग्नेः प्रभामान्द्यं प्रधूमनं दिशां शीतोष्णविपर्यासोऽतिरूक्षवायुसम्भवश्च ।
धूमकेतुलक्षणं फलं च भार्गवीये ।
धूमध्वजो धूमशिखो धूमार्चिर्धूमतारकः ।
एवं तावद्धूमकेतोर्लक्षणं समुदाहृतम् ॥
धूमकेतुलक्षणमाह पराशरः ।
अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानो धूमकेतुः पराभविष्यतां देशानां राज्ञां जनपदानां च वृक्षपुरपर्वतवेश्मध्वज-पताकाशस्त्रवर्मायुधावरणरथनागोष्ट्रपुरुषशयनभाण्डेषु वा दृश्यते । स एव च दिवि स्निग्धो विमलः प्रदक्षिणजटा कारशिखो गोगजाजनागवीथीं चोत्तरेण व्रजन् सुभिक्षं क्षेममारोग्यं चावहति ।
वराहसंहितायां तु धूमकेतोरेव ध्रुवकेतुसंज्ञया फलमुक्तम् ।
ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक् ।
दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥
सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।
गार्गीये ।
मृख्यात्मजः स एवेह धूमकेतुः क्षयावहः ।
दिव्यन्तरिक्षे भूमौ च जले चासौ प्रदृश्यते ॥
अपरेऽपि ये केतवः कथितास्ते दिव्यान्तरिक्षभौमाश्च भवन्ति अत एव शास्त्रे केतूनां गणनमशक्यत्वात्रोक्तम् ।
तथा च वराहसंहितायाम् ।
दर्शनमस्तमनं वा न गणितविधिनाऽस्य शक्यते ज्ञातुम् ।
दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात् ॥
अहुताशेऽतलरूपं यस्मिँस्तकेतुरूपमेवोक्तम् ।
स्वद्योतपिशाचालयमणिरत्नादीन् परित्यज्य ॥
ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षास्ते ।
दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः ॥
गार्गीये तु ।
अन्तरिक्षे यदा धूमो ज्वालां वा संप्रपद्यते ।
आन्तरिक्षः स केतुः स्याद्दिव्यस्ताराश्रितः स्मृतः ॥
पर्वताश्चैव वृक्षाश्च प्रासादनगराणि च ।
अकस्माद्यत्र धूम्यन्ते ध्वजवर्मायुधानि च ॥
रसवर्णविपर्यासः शब्दसंस्पर्शयोस्तथा ।
वृक्षौषधितृणे गुल्मे विकृतिर्यत्र दृश्यते ॥
तत्र भौमं विजानीयाद्धूमकेतुमुपस्थितम् ।
आन्तरिक्षोऽथ भौमो वा यत्र केतुः प्रदृश्यते ॥
तस्य देशस्य षण्मासाद्विनाशं परिनिर्दिशेत् ।
दिवा वा यदि वा रात्रौ दृश्येत ज्वलनं यदि ॥
यत्रासौ केतुरुदितस्तस्य देशस्य नाशकृत् ।
दिव्या नक्षत्रस्थास्तीव्रफला मन्दफलकरा भौमाः ।
प्राणिध्वजादितुङ्गेष्वथान्तरिक्षा न चात्यशुभाः ॥
केचित् केतुसहस्रं शतमेकसमन्वितं वदन्त्यपरे ।
नारदमतमेकोऽयं त्रिस्थानभवो विविधरूपः ॥
तथा च नारदः ।
दिव्योऽन्तरिक्षो भौमाख्य एकः केतुः प्रकीर्त्तितः ।
शुभाशुभफलं लोके ददात्यस्तमनोदयैः ॥
असंख्याता: केतवो भवन्तीत्युक्तमाथर्वणाद्भुते ।
अनेकशतसाहस्राननेकशतलक्षणान् ।
देवलस्तु ग्रहानाह सर्वानेव पृथक्फलान् ॥
वराहसंहितायां तु ।
यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् ।
उदयास्तमनैः स्थानैः स्पर्शैराधूपनै[१३९]र्दृष्टैः ॥
वृद्धगर्गः ।
सर्वथैवोपहिंसन्ति केतवो दारुणा जगत् ।
दिक्कालाकारवर्णैश्च दृश्यमाना नभोगताः ॥
अथोल्काभिहतशिखाफलं वराहसंहितायाम् ।
उल्काभिताडितशिखः शिखी शिवः शिवतरोऽभिदृष्टो यः ।
अशुभं स एव चोलावगाणसितहूणचीनानाम् ॥
वृद्धगर्गस्तु ।
यानि यान्युपहिंसन्ति नक्षत्राणि महाग्रहाः ।
तेषां तेषां जनपदान् केतवो घ्नन्ति दर्शने ॥
नक्षत्रजनपदान् नक्षत्राद्भुतावर्त्ते वक्ष्यामः ।
पराशरः ।
येषां नक्षत्रविषये रूक्षः सज्वाललोहितः ।
दृश्यते बहुमूर्त्तिश्च तेषां विन्द्यान्महद्भयम् ॥
अवर्षं शस्त्रकोपं च व्याधिदुर्भिक्षमेव च ।
कुर्यान्नृपतिपीडां च स्वचक्रपरचक्रतः ॥
यत्रोत्तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति ।
धूपयेद्वा स्पृशेद्वाऽपि हन्याद्देशाँस्तदाश्रयान् ॥
वराहसंहितायाम् ।
ये शस्ताँस्तान् हित्वा केतुभिराधूपितेऽथ वा स्पृष्टे ।
नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥
अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात् ।
बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम् ॥
औशीनरमपि सौम्ये जलजाजीवाधिपं तथाऽऽर्द्रासु ।
आदित्येऽश्मकनाथं पुष्ये मगधाधिपं हन्ति ॥
असिकेशं भौज पित्र्येऽङ्गं नाथमपि भाग्ये ।
औज्जयिनिकमार्यम् सावित्र्य दण्डकाधिपतिम् ॥
चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ज्ञः।
काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः ॥
इक्ष्वाकुरलकनाथश्च हन्यते यदि भवेद्विशाखासु ।
मैत्रे पुण्ड्राधिपतिर्जेष्टासु च सार्वभौमवधः ॥
मलेऽन्ध्रमद्रकपती जलदेव काशिपो मरणमेति ।
यौधेयकार्जुनायन शिविचैद्यान् वैश्वदेवे च ॥
हन्यात् कैकयनाथं पाञ्चनदं सिंहलाधिपं चाङ्गम्[१४०] ।
नैमिषनृपं किरातं श्रवणादिषु षट्स्वनुक्रमतः ॥
मृदुनक्षत्राभ्युदिताशुभकेतुफलमाहाथर्वमुनिः ।
मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च ।
दारुणेषु च ऋक्षेषु विद्यात् तत्सदृशं फलम् ॥
यथादेशं यथावर्णं यथावर्गपरिग्रहम् ।
सर्व एवोदिता हन्युः सर्व एवाशुभा ग्रहाः ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“धूसेनयोरशिवं घोरं पुष्यमाक्रम्य ताटकम्।
सेनयोरशिवं घोरं ज्येष्ठामाक्रम्य तिष्ठति ”[१४१] ॥
हरिवंशे कंसवधनिमित्तम् ।
"केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम्"[१४२] ॥
वराहसंहितायाम् ।
उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा ।
अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥
गार्गाये ।
अथ यत्रोदितः केतुः सोमं समुपधूपयेत् ।
तदा सर्वं शोषमेति भौमं स्थावरजङ्गमम्
समुद्राश्च क्षयं यान्ति सर्वा नद्यः सरांसि च ।
हैमवत्यो[१४३] विशुष्यन्ति नद्योऽन्यासां तु का कथा ॥
नखकेशवहो वायुः कपालशकलाकुलः ।
नद्यश्चासृक्प्रवाहिन्यः सोमे समुपधूपिते ।
अथ यत्रोदितः केतुर्लोहिताङ्गं प्रधूपयेत्
तदा प्रायः प्रदह्यन्ते ग्रामाश्च नगराणि च ॥
रक्तवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
रक्तपुष्पफला वृक्षाः सर्वे चाग्न्युपजीविनः ॥
हिरण्यं रजतं लोहं ताम्रसीसकमेव च ।
मणिरत्नं तथा वज्रं सर्वमेवोपहन्यते ॥
हिरण्यकारा कर्मकारास्ताम्रकांस्यादिकारकाः ।
प्राप्नुवन्ति वधं घोरं लोहिताङ्गे प्रधूपिते ॥
अथ यत्रोदितः केतुर्बुधं समुपधूपयेत् ।
तदा प्रजानां ये श्रेष्ठास्तेषां विन्द्यान्महद्भयम् ॥
पौराश्चात्र विनश्यन्ति वणिक्पथोपजीविनः ।
मृयन्ते राजपुत्राश्च राजकन्यास्तथैव च ॥
प्राज्ञा मेधाविनः शूराः कुमाराश्च विशेषतः ।
गर्भाश्चात्र विनश्यन्ति बुधे समुपधूपिते ॥
अथ यत्रोदितः केतुर्गुरुं समुपधूपयेत् ।
तत्र विद्याविशेषेण ब्राह्मणानामुपद्रवम् ॥
प्राज्ञा मेधाविनश्चैव तथैवाश्रमवासिनः ।
वाचा ये चोपजीवन्ति श्रेष्ठा जनपदाश्रये ॥
मद्राः कैकेयशाल्वाश्च नराः काशीनरास्तथा ।
कोशलाः कुरुपाञ्चाला मत्स्याश्च सह चेदिभिः ॥
एतद्देशमनुष्याश्च राजानश्च तदाश्रयाः ।
सर्व एते विनश्यन्ति गुरौ समुपधूपिते ॥
यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ।
तरा ससैन्या वध्यन्ते यात्रोद्युक्ता नराधिपाः ॥
यात्रागताश्च ये सार्था वसुमन्तश्च ये जनाः ।
क्षत्रिया योद्धृमुख्याश्च ख्यातविद्याश्च ये जनाः ॥
महाविपाश्च ये नागास्तथाऽन्ये ये च जन्तवः ।
तथा वा वारणः सर्वे भयमृच्छन्ति दारुणम् ॥
अथ यत्रोदितः केतुर्धूपयेत् तु शनैश्चरम् ।
तदा म्लेच्छगणाः सर्वे भयमृच्छन्ति दारुणम् ॥
कृष्णवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
कृष्णपुष्पफला वृक्षा वराहा महिषास्तथा ॥
गृध्राः केकाः सुपर्णाश्च कपोताः शूकचिल्लकाः ।
सर्व एते विनश्यन्ति मित्रपुत्रे प्रधूपिते ॥
यदा प्रधूपयेत् केतुः सप्तपन् ध्रुवमेव च ।
तदा लोकाः क्षयं यान्ति सलिलं चापि शुष्यति ॥
वराहसंहितायाम् ।
मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ।
शिखी धनविनाशकृत् कुशलकर्महा शोकदः ॥
भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो ध्रुवम् ।
क्षयं व्रजति विद्रुतो जनपदश्च व्यालाकुलः ॥
भार्गवीये ।
यस्मिन् देशे शिरस्तस्य स देशः पीड्यते ध्रुवम् ।
मध्ये तु मध्यपीडा स्याद्यतः पुच्छं ततो जयः ॥
विष्णुधर्मोत्तरे ।
यस्यां दिशि केतोः शिखा दीप्ता भवति तद्देशं नृपतिरभियुञ्जीत ।
यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् ।
यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥
प्रतिलोमं त यः केतोर्जयार्थी याति पार्थिवः ।
सामात्यवाहनवलः स नाशमुपगच्छति ॥
गार्गोये ।
यतो धूमस्ततो यात्रा यतो ज्योतिस्ततो जयः ।
यतः स्थानं ततः पीडा केतुनामुदये भवेत् ॥
प्रतिलोमं तु यः केतुं कृत्वा सेनां प्रयोजयेत् ।
जायते तस्य सेनाया भयं घोरं पराजयः ॥
यां दिशं धूपयेत् केतुर्न तत्राभिमुखो व्रजेत् ।
यस्यां दिशि प्रतिष्ठेत हन्ति तां स विशेषतः ॥
वराहसंहितायाम् ।
नम्रा यतः शिखिशिखाऽभिसृतो यतो वा
ऋक्षं च यत् स्पृशति तत्कथिताँश्च देशान् ।
दिव्यप्रभावनिहतान् स यथा गरुत्मान्
भुङ्क्ते महीं नरपतिः परभोगिभोगान् ॥
वटकणिकायाम् ।
उदयास्तमनाधूमनसंयोगाकारवर्णदिकपातैः ।
फलनिर्देशो दिवसैर्मासान्मासैश्च वर्षाणि ॥
बृहत्संहितायाम् ।
यावन्त्यहानि दृश्यो मासैस्तावद्भिरेव फलपाकः ।
मासैरब्दानि वदेत् प्रथमात् पक्षत्रयात् परतः ॥
गर्गश्च ।
यावन्त्यहानि दृश्येत तावन्मासान् फलं वदेत् ।
यावन्मासाँस्तु दृश्येत तावतोऽब्दाँस्तु वैकृतम् ॥
त्रिपक्षात् परतः कर्म पच्यतेऽस्य शुभाशुभम् ।
सद्यः समुदिते केतौ फलं नेहादिशेद्बुधः ॥
एवं त्रिपक्षात् परतः पापसंज्ञे विनिर्दिशेत् ।
शोभनेऽपि तथा केतौ फलं दर्शनतो वदेत् ॥
यस्य यस्य विशेषेण पाककालो न दर्शितः ।
अत्रानुक्तविशेषशान्तिकेषु केतूत्पातेषु केतुग्रहपूजापूर्विका ग्रहधूपने वा धूपितग्रहपूजापूर्विका च प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या -इति ।
अथ विहितविशेषशान्तिजा: केतूत्पाता: ।
तत्र नारदः ।
अकस्मादृश्यते केतुरुदयेऽस्तमये यदा ।
हन्त्यस्यान्तःपुरं राज्ञो ज्वरपित्तोद्भवो भवेत् ॥
इन्द्रनीलमणेश्चैव हेमरत्नसमन्वितम् ।
केतुं कृत्वा प्रदातव्यो ब्राह्मणाय तपखिने ।
मयूरचित्रेऽप्येतद्वचनमधिकृतम् ।
शान्तिस्तु ।
दधिमधुकृताक्तानां पुष्पाणामयुतं ततः ।
जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ॥
भूषितं हेमरत्नाद्यैस्ततः संपद्यते शुभम् ।
अथ वा वैष्णवी शान्तिश्चतुष्कर्म तथैव च ॥
विष्णोरराटमन्त्रेण जुहुयाद्घृतसंप्लुताः ।
अष्टोत्तरसहस्राणि द्वादशाथ प्रयत्नतः ॥
समिधोऽश्वत्थवृक्षस्य ब्राह्मणाँस्तर्पयेत् ततः ।
पर्वोक्तेन तु मन्त्रेण दद्याद्वत्सवृषादिकम् ॥
कुसुम्भस्याथ वा होमः केतुं कृण्वेति मन्त्रतः ।
इन्द्रनीलं सुवर्णं च दातव्यं च द्विजन्मने ॥
भार्गवोये ।
उत्थानं चैव केतूनां विनाशयेति हि स्मृतम् ।
तस्मादाथर्वणैर्मन्त्रैः शमनं कारयेद्बुधः ॥
आराधिताः शमं यान्ति ते ह्युत्पाता न संशयः ।
होमैर्जपैश्च विविधैर्दानैश्च बहुरूपकैः ॥
तस्य यत्र शिरोदेशस्तत उत्थाय वा व्रजेत् ।
धनं वा सर्वमुत्सृज्य मृत्योर्मुच्येत वा न वा ॥
दत्वा च पृथिवीं सर्वां राजा शान्तिं नियच्छति ।
अथ वर्णाद्भुते ।
केतूस्थिते तु सर्वस्मिन् भये तु समुपस्थिते ।
महाशान्तिं प्रकुर्वन्ति विविधां भूरिदक्षिणाम् ॥
उपयाति शमं सर्वं प्रजानां च सुखं भवेत् ।
राजानो मुदितास्तत्र पालयन्ति वसुन्धराम् ॥
पराशरः ।
यस्याभिषेकनक्षत्रं जन्म कर्मभं तथा ।
देशर्क्षं पीडयेत् केतुः सशान्तिपरमो भवेत् ॥
केतुपीडितेष्वभिषेकादिनक्षत्रेषु केतुग्रहपूर्विका नाडीनक्षत्राद्भुतविहिता सामान्यशान्तिः कर्त्तव्या । तां च नाडीनक्षत्राद्भुतावर्त्ते लिखिष्यामः ।
वृद्धगर्गः ।
एतत् ते केतुचक्रं तु केतुसंभव एव च ।
लक्षणं दर्शनं चैव यथावत् परिकीर्त्तितम् ॥
एतच्छिष्याय दातव्यं ब्राह्मणाय महात्मने ।
नित्यशुश्रूषमाणाय ब्रह्मचर्यपराय च ॥
निर्गुणायापि पुत्राय न दद्यात् केतुसम्भवम् ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे केत्वद्भुतावर्त्तः ।
अथ ध्रुवाद्यद्भुतावर्त्तः ।
तत्रागस्त्योदयास्तमयमाह ब्रह्मगुप्ताचार्यः ।
“राशिचतुष्केण यदा स्वर्क्षभयुतेन भवति तुल्योऽर्कः ।
उदयोऽगस्त्यस्य मुनेश्चक्रार्धाच्छोधितेऽस्तमयः" [१४४]॥
अथ शुभसूचकागस्त्यलक्षणं वराहसंहितायाम् ।
शातकुम्भसदृशं स्फटिकाभं तर्पयन्निव महीं किरणाद्यैः ।
दृश्यते यदि ततः प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या ॥
अथाशुभसूचकागस्त्यलक्षणमाह पराशरः ।
संवृतः पुररोधाय स्पन्दनो भयाय-इति ।
संवृतः स्वल्पः ।
वराहसंहितायाम् ।
रोगान् करोति कपिलः परुषस्त्ववृष्टिं
धूम्रो गवामशुभकृत् स्फुरणो भयाय ।
माञ्जिष्ठरागसदृशः क्षुधमाहवं न
कुर्यादणुश्च पुररोधमगस्त्यनामा ॥
अथ वर्णफलम् । तत्र गर्गः ।
शङ्खकुन्देन्दुगोक्षीरमृणालरजतप्रभः ।
दृश्यते यद्यगस्त्यः स्यात् सुभिक्षक्षेमकारकः ॥
पराशरः ।
सुस्निग्धवर्णः श्वेतश्च शातकुम्भसमप्रभः ।
मुनिः क्षेमसुभिक्षाय प्रजानामभयाय च ॥
तथा ।
नीलोऽतिवर्षाय। अग्निपरुपरूक्षाभो रोगाय । कपिलो वृष्टिनिग्रहाय । धूमाभो गवामभावाय । माञ्जिष्ठः क्षुच्छस्त्रभयाय ।
गर्गस्तु ।
वैश्वानरार्चिःप्रतिमो मांसशोणितकर्दमैः ।
रणैर्भयैश्च विविधैः किंचिच्छेषायते प्रजाः ॥
अथ सोत्पातागस्त्यफलं वराहसंहितायाम् ।
उत्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते ।
पराशरश्च ।
हन्यादुल्का यदाऽगस्त्यं केतुर्वाऽप्युपधूपयेत् ।
दुर्भिक्षं जनमारश्च तदा जगति जायते ॥
अथ सप्तर्षीणामद्भुनानि ।
भुजवसुदश १०८२मितशाके श्रीमद्वल्लालसेनराज्यादौ ।
वर्षैकषष्टि-६१भोगो मुनिभिर्विहितो विशाखायाम् ॥
वराहसंहितायाम् ।
एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम् ।
प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः[१४५] ॥
पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥
पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः ।
तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
"सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा"[१४६]।
विष्णुधर्मोत्तरे ।
उल्कयाऽमिहता रूक्षाः स्फुरणा रजसा हताः ।
ऋषयः सर्वलोकानां विनाशाय सभूभृताम् ॥
वराहसंहितायां तु ।
उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥
गर्गस्तु ।
उल्कया केतुना वाऽपि धूमेन रजसाऽपि वा ।
हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥
स्वं स्वं वर्गं तदा हन्युर्मुनयः सर्व एव ते ।
विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः ॥
एतेषां वर्गानाह पराशरः ।
देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः ।
नागा विद्याधराः सर्वे मरीचेः परिकीर्त्तिताः ॥
वराहसंहितायां तु ।
गन्धर्वदेवदानवमन्त्रौषधिसिद्धनागयक्षाणाम् ।
पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥
उल्काहतपीडाकर इति सम्बन्धः ।
पराशरः ।
यवनाः पारदाश्चैव काम्बोजा दरदाः शकाः ।
वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ॥
वराहसंहितायां तु ।
शकयवनदरदपारदकाम्बोजाँस्तापसान् वनोपेतान् ।
हन्ति वसिष्ठाभिहतो विवृद्धिदो रश्मिसम्पन्नः ॥
अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः ।
पराशरस्तु ।
धीमन्तो ब्राह्मणा ये च ज्ञानविज्ञानपारगाः ।
रूपलावण्यसंयुक्ता मुनेरङ्गिरसः स्मृताः ॥
वराहसंहितयोस्तु[१४७] ।
अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ।
पराशरस्तु ।
कान्तारजास्तथाऽम्भोजान्यत्रेर्नद्यः ससागराः ।
वराहसंहितयोस्तु ।
रक्षः पिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य ।
पराशरश्च ।
पिशाचा दानवा दैत्या भुजङ्गा राक्षसास्तथा ।
पुलस्त्यस्य विनिर्दिष्टाः पुष्पमूलफलं च यत् ॥
तत्सर्वं पुलहस्योक्तं यज्ञा यज्ञकृतश्च ये ।
क्रतोरेव विनिर्दिष्टा वेदज्ञा ब्राह्मणास्तथा ॥
अत्र पुष्पमूलफलं पुलहस्य यज्ञादयः क्रतोरिति सम्बन्धः ।
तथा च वराहसंहिताया।
पुलहस्य फलमूलं क्रतोस्तु यज्ञाः सुयज्ञकृतः ।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षय निमित्तम् ।
“या चैषा विश्रुता राजँस्त्रैलोक्ये साधुसंमता ।
अरुन्धरी तयाऽप्येष वसिष्ठः पृष्ठतः कृतः[१४८] ॥
अगस्त्यसप्तर्विध्रुवाणामशुभलक्षणं विष्णुधर्मोत्तरे ।
आगस्त्योऽरुणो रूक्षः श्यावो रेणूल्कयोपहतः शिखिशिखाध्वस्तो भयाय । एवंविधाः सप्तर्षयश्च । एवंविधे ध्रुवे त्रैलोक्यमपि पीड्यते ।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्त्तते"[१४९] ।
अथर्वमुनिः ।
यवक्रोतोऽथ रैभ्यश्च नारदः पर्वतस्तथा ।
कण्वश्च रैभ्यपुत्राश्च अर्वावसुपरावसू ।
सप्तैते स्थावरा ज्ञेयाः सह सूर्येण सर्पिण ।
स्थावराणां नरेन्द्राणां प्राच्यानां पक्षमाश्रिताः ॥
स्वस्त्यात्रेयो मृगव्याधो रुरुधः प्रचुरस्तथा ।
प्रभासश्चन्द्रहासश्च तथाऽगस्त्यः प्रतापवान् ॥
दृढव्रतस्त्रिशङ्कुश्च अजो वैश्वानरो मृगः ।
अरुणः श्वदतश्चैव याम्यायां स्थावराः स्मृताः ॥
गौतमोऽत्रिर्वसिटश्च विश्वामित्रश्च काश्यपः ।
ऋचीकपुत्रस्तु तथा भारद्वाजश्च वीर्यवान् ॥
एते सप्त महात्मान उदीच्यां स्थावराः स्मृताः ।
शिशुमारेण सहिता ध्रुवेण च महात्मना ।
पुलस्त्यः पुलहः सोमो भृगुरङ्गिरसा सह ।
हाहा हुहुश्व विज्ञेया विष्णहृदयमुत्तमम्
एतेषां स्थावराणां तु नियतानीति बुद्धिमान् ।
अवस्थानानि सर्वेषां दिक्षु रूपाणि लक्षयेत् ॥
प्रभान्वितानि श्वेतानि स्निग्धानि विमलानि च ।
अर्चिष्मन्ति प्रसन्नानि तानि कुर्युः प्रजा प्रजाहितम्।
निष्प्रभाणि विवर्नानि चेरुर्वीथ्याश्रितानि च ।
ह्रस्वाण्यस्नेहयुक्तानि न भवाय भवन्ति हि ॥
यत्किंचित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ।
क्रूरस्थेषु प्रसन्नेषु स्थावरं परिहीयते ॥
अत्रानुक्तविशेषशान्तिष्वगस्त्याद्यद्भुतेषु अगस्त्यादिपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिफलगुरुलाघवमवगम्य कर्त्तव्या ।
अत्रानुक्तफलपाकसमयविशेषणादगस्याद्यद्भुताना संवत्सरेण फलपाको बोद्धव्यः ।
तथा च पराशरः ।
तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते -इति ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरेऽगस्त्यसप्तर्षिध्रुवाद्यद्भुतावर्त्तः ।
अथ ग्रहयुद्धाद्यद्भुतावर्त्तः ।
तत्र गर्गः ।
छादनं रोधनं चैव रश्मिमर्दस्तथैव च ।
अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥
छादनं सकल विम्बाछादनम् । छादने सति भेदनं भवति । रोधनं किंचिदपवारणम् । एतदेवोल्लेखनम् । यदाह काश्यपः ।
भेदोल्लेखांशुसंमर्दा अपसव्यस्तथा परः ।
ततो योगो भवेदेषामेकांशकसमापनान् ॥
असंयुक्तबिम्बयोरन्योन्यरश्मिसंश्लेषोऽशुसंमर्दः सुसंनिहितासंयुक्तरश्मिप्रमण्डलयोः समदक्षिणोत्तराव-स्थिभिरपसव्यम् । एवमेतान्यपसव्यादीनि प्रतिलोमानि सन्निधितारतम्याद्भवन्ति । पराशरतन्त्रे ।
अथ भगवन्तमनन्ततपसं पराशरकथान्ते शान्तशार्ङ्गधरः कृताञ्जलिः संपूज्योवाच । यत् सूत्रमुक्तं भगवता युद्धमिति तत्संशयो नः कथमुपर्युपरिव्यवस्थानां ग्रहाणां समागमः स्वर्गे वाऽपिविग्रहोऽस्तीति । तमुवाच भगवान् । एवमेतत् सौम्य । किन्तु योगदर्शनतः शुभाशुभं दर्शयन्ति प्रजानाम् ।
वरासंहितयोस्तु ।
वियति चरतां ग्रहाणामुपर्युपर्यात् स्वमार्गसंस्थानाम् ।
अतिदूराद्दृग्विषये समतामित्र संप्रयातानाम् ॥
आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः ।
युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥
पराशरेण त्वपसव्यमनभिधायारोहणेन चतुष्प्रकारत्वमुक्तम् ।
तद्यथा ।
भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्च - इति । ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः । तेषां पूर्वः पूर्वो गरीयान् इति । संयुक्तयोः सपर्याधोऽवस्थितिरारोहणम् ।
इदं चोल्लेख एवान्तर्भवतीति गर्गादिभिर्नोक्तम् । पूर्वपूर्वो गरीयानिति । गुरुत्वमशुभफलतया ।
भार्गवीये ।
असव्यो विग्रहं ब्रूयात् संग्रामं रश्मिसंकुले ।
लेखनेऽमात्यपीडा स्याद्भेदने तु जनक्षयः ॥
वराहसंहितायां तु ।
भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥
अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।
युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥
अथ पराजितजययुक्तलक्षणम् । तत्र वृद्धगर्गः ।
ग्रहो ग्रहं समागम्य श्यावीभवति यो भृशम् ।
हानिं प्राप्नोति चाव्यक्तः स्पन्दते च मुहुर्मुहुः ॥
परस्परं विशेषेण किरणैरवरुध्यते ।
स्वकात् प्रच्यवते स्थानाद्यदि चाप्यनुलोमतः ॥
विकीर्ण इव चात्यर्थं तमसा ह्यधिसंभृतः ।
दृश्यते यदि स ज्ञेयो रूपैरेभिः पराजयी ॥
गर्गस्तु ।
अरश्मिर्लोहितः श्यामः परुषः सूक्ष्मतारकः ।
अपसव्यः कृतो यश्च चक्रान्तःपतितस्तथा ॥
च्युतः स्थानाद्धतो यश्च प्रतिपूर्वस्तथैव च ।
निष्प्रभो विगतश्चापि जवेनाभिहतस्तथा ॥
अप्राप्य वा निवर्त्तेत वेपनः कृष्ण एव च ।
लक्षणैः सप्तदशभिग्रहं विद्यात् पराजितम् ॥
विष्णुधर्मोत्तरे ।
ग्रहारूढश्च्युतः स्थानात स्फुरणो विजितो ग्रहः ।
वर्जितो यदि लिङ्गैश्च कृष्णः श्यावयुतिस्तथा ॥
लिङ्गैर्जयचिह्नः ।
उदङ्मार्गगतिः स्निग्धो विमलो विमलप्रभः
बृहद्रूपोऽतिशुक्लश्च विजयी कथितो ग्रहः ॥
भार्गवीये तु ।
सर्वेषां नभसि समागमे ग्रहाणा-
मुत्कृष्टो भवति तथैव रश्मिवान् यः ।
स्निग्धत्वं भवति च स ग्रहो जयेन
संयुक्तो भवति तु यः पराजयेन ॥
श्यामो वाऽप्यपगतरश्मिमण्डलो वा
रूक्षो वाऽप्यपगतरश्मिवान् कृशो वा ।
आक्रान्तो विनिपतितः कृतापसव्यो
विज्ञेयो हत इति स ग्रहो ग्रहेण ॥
पराशरस्तु ।
दशभिर्लक्षणैर्ग्रहं जितं विद्यात् । विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थो विरूढो विकृतो निष्प्रभोऽथ वाऽभिहतोऽप्राप्य निवृत्तो वैपनश्चान्यथा विजयी ।
वराहसंहितायां तु ।
दक्षिणदिकस्थः परुषो वेपथरप्राप्य सन्निवृत्तोऽणुः ।
अधिरुढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥
उक्तविपरीतलक्षणसंपन्नो जययुतो विनिर्दिष्टः ।
विपुलः स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः ॥
प्रभाकरस्तु ।
भवेद्ग्रहो जयी युद्धे उदीच्यो दक्षिणे सितः ।
पुलिशाचार्यश्च ।
सर्वे जयिन उदकस्था दक्षिणदिकस्थो जयी शुक्रः ।
अथ रव्यादीनां पराजयफलं भार्गवोये ।
कनकरजतसंचयाश्च सर्वे शमदममन्त्रधराश्च ये मनुष्याः ।
शकयवनतुषारवाह्लिकाश्च क्षयमुपयान्ति दिवाकरं प्रयातम् ॥
पराशरस्तु ।
सूर्यपीडायां वरनृपतितपस्विधार्मिकयशस्विभ्राजिष्णुतेजस्विपीतलोहितबीजफल-पुष्पौषधिमणिधात्वग्न्युपजीविनः शक्ययवनकाम्बोजदरदपारदपह्लवानागरैः सहोपतप्यन्ते । भार्गवीये ।
अथ सोमहते विद्याद्ध्रुवं राज्ञो विपर्ययम् ।
संहरन्ति च भूतानि भूमिपालाः पृथक् पृथक् ॥
परस्परं विरुध्यन्ते क्षुद्भयं चापि जायते ।
अनावृष्टिभयं घोरं विद्यात् सोमविपर्यये ॥
पराशरस्तु ।
सोमे सोमपद्विजस्वाध्यायिव्रतदीक्षतविद्वत्साधुसरित्सलिलोद्भवसागराश्रिताः क्षीरिण्योषधयो देवताभिः सहोपतप्यन्ते ।
भार्गवीये ।
त्रैगर्त्ताः क्षितिपतयः सयोधमुख्याः
पीडान्ते गिरिनिलयाग्निजीविनश्च ।
संग्रामाः सरुधिरपांशुवर्षमिश्रा
दुर्भिक्षं भवति धरासुतस्य घाते ॥
पराशरस्तु ।
अङ्गारकवधे स्फीतजनपदग्रामनैगमजनवनधान्यनिचयकोषेश्वरधनभूपलक्ष्म्यधिपौषधिवीजवनपुष्पफल-शौण्डिकाग्न्युपजीविनो व्याधिभयशस्त्रेणोपतप्यन्ते ।
भार्गवीये ।
सागरनिलया घोराः क्षयमुपयान्ति नरा वणिकप्रधानाः ।
भवति च राजा विजयी बुधेन प्रपतन्ति चात्र गर्भाः ॥
पराशरस्तु ।
बुधघाते नैगमजनधान्यनिचयमित्रोपजीविमन्त्रिपोतयान्त्रिकहयगजयोधमार्गणधीवराश्च तापमुपयान्ति ।
भार्गवीये ।
दैवज्ञास्तपसिसुनिश्चिता व्रतस्था आरूपा नृपतिगणाः पुरोहिताश्च ।
पीड्यन्ते भवति वधश्च नागराणां त्रैलोक्यं क्षयमुपयाति जीवघाते ॥
बृहस्पतिवधे सिन्धुसौवीराभिसारपौरत्रिगर्त्तमत्स्योसीनरशिविवैयासहारभूतयो नैगमजलचित्रकरशाल्वग्रामघोषनगरविद्वज्जनब्राह्मणपुरोहितब्रह्मचारिदीक्षितजप्यमङ्गलतत्परा आश्रमाश्च पीड्यन्ते ।
भार्गवीये ।
यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गा मगधविदर्भशूरसेनाः ।
ये योधा जनभुविचापिलब्धशब्दास्तं भृत्यैः क्षयमुपयान्ति शुक्रघाते ॥
पराशरस्तु ।
हते शुक्रे नश्यन्त्यभियोक्तृबङ्गाङ्गकलिङ्गमगधविदर्भचेदिवत्सभद्रकारयौ-धेयतरुकच्छसिन्धुसौवीराभिसारपौरत्रिगर्त्तमालवकैकया-म्बष्ठकाः शिवयो मालवद्रविडपौण्ड्रकोटीवृषपह्लववर्णरूपवन्तः कुसुमानि हस्त्यश्वयोधेश्वरा राजानो वर्षविघातं च विद्यात्।
भागवीये ।
महिषकपिवृषाः शकाः सपौण्ड्राः कृषिपशुपालरताश्च ये मनुष्याः ।
विविधभयसमाहिताश्च सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥
पराशरस्तु ।
पयाशौरपीडायामपि गोरण्डसेनापतिप्रधानपश्वस्फीतजनपदास्त्राग्न्युपजीविनो बहुस्त्रीकास्तथा शकमहिषदरदपारता आश्विनैः सहोपतापमुन्ति ।
भार्गवीये । ये केचिन्नृपतिसुदाम्भिकाः पिशाचा:
कार्याणां व्रतनियमेषु ये च पालाः ।
ये चान्यैः शवरपुलिन्दचेदिगाधा
बध्यन्ते यदि भवतीह राहुघातः ॥
वधे राहोर्निकृष्टजनवन्धनपालतस्करोपवर्त्तिकाः शितशमीधान्यशूलिकवार्धुपिकदुर्ग-विलकरवराहकुक्कुराश्वशृगालदुष्करा दस्यवश्व विनश्यन्ति ।
भार्गवीये ।
आक्रान्तं समनुभवन्ति पापसंहा
बध्यन्ते यदि भवति परस्परं हि घातः ।
संग्रामाः सरुधिरपांशवर्षमिश्रा
दुर्भिक्षं भवति तु केतुपीडनेन ॥
पराशरस्तु ।
वधे केतोः केतुभूतानां राज्ञां ग्रहक्षेत्रनिधिनिधानोद्युक्तनृपतिसाधुजनपार्वतीयानां शस्त्रसृष्टिप्रादुर्भावो भेदश्च ।
कस्य चित् पद्यम् ।
ग्रहस्य ये यस्य हतस्य देशाः पीडां समृच्छन्ति त एव तस्य ।
संप्राप्तवीर्यस्य जये समृद्धा जयन्ति शस्यद्विचतुष्पदाद्याः ॥
ग्रहदेशाः प्रत्येकं ग्रहाद्भुतेषु चोकाः । वराहेण तु रवियोगे ग्रहाणामस्तमितत्वाश्चन्द्रयोगे समागतत्वाद्रविचन्द्रमोयुद्धं नास्तीति नियप्तत्वात् तत्पराजयफलं नोक्तम् । आर्यविष्णुचन्द्रादिभिरण्यस्तमयादिपक्ष एवोक्तस्तथाऽपि विष्णुचन्द्रः ।
दिवसकिरणास्तमाप्तः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धं निगद्यतेऽतोऽन्ययुक्तानाम् ॥
प्रभाकरश्च ।
भौमादीनां प्रतियुद्धं शशिना च समागमः ।
सूर्येणास्तं जयो युद्धे उदीच्ये दक्षिणे सितः ॥
रविचन्द्रवबिम्बे राहुदर्शनं तश्च ग्रहणं न तु युद्धम् । वृद्धगर्गेणापि । भौमादिपञ्चकस्यैष युद्धमङ्गीकृतम् । तथा च ग्रहयुद्धोपसंहारे ।
ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः-इति॥
अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।
पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।
वराहसंहितायां तु ।
शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥
वृद्धगर्गस्तु ।
यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥
वराहसंहितायां तु ।
कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।
वृद्धगर्गस्तु ।
शुक्रेण भौमे तु हते जयन्ते यायिनो नृपाः ।
कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥
वराहसंहितायाम् ।
सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।
वृद्धगर्गस्तु ।
सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥
वृद्धगर्गः ।
लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥
पीड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः । तथा च वराहसंहितायाम् ।
भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥
वृद्धगर्गः ।
गुरुणा निहते सौम्ये जयमृच्छन्ति यायिनः ।
गर्भाः स्रवन्ति चाह्राय कम्पते च वसुन्धरा ॥
म्लेच्छान् श्रेष्टाँश्च बहुधा शूद्राँश्चैवानयः स्पृशेत् ।
वराहसंहितायां तु ।
गुरुणा बुध जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः।
त्रैगर्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥
भृगुणा जितेऽग्निकोषः शस्याम्बुदयायिविध्वंसः ।
वृद्धगर्गस्तु ।
बुधे च शुक्राभिहते शस्त्रमग्निश्च मूर्छति ।
यायिनश्चात्र पोड्यन्तं शस्यं वृष्टिश्च हन्यते ॥
वराहसंहितायाम् ।
रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।
पीड्यन्ते इति सम्बन्धः ।
वृद्धगर्गस्तु ।
नौजीविनो वरा योधा गर्भिण्योऽथ महाधनाः ।
पीड्यन्ते सौरनिहते वुधे मन्दं च वर्षति ॥
वराहसंहितायाम् ।
भौमेन जिते जीवे मध्यो देशो नरेश्वरा गावः ।
नश्यन्तीति सम्बन्धः ।
वृद्धगर्गस्तु ।
मध्यदेशनृपा मुख्या गावोऽथाश्रमिणो द्विजाः ।
नागराश्चापि पीड्यन्ते लोहिताङ्गहते गुरौ ॥
म्लेच्छान् शस्त्रभृतः शस्यं नागराँश्चापि पार्थिवान् ।
हन्याद्गुरुर्बुधहतो मध्यदेशं च कृत्स्नशः ॥
वराहसंहितायां च ।
शशितनयेनापि जिते बृहस्पतौ म्लेच्छशस्यशस्त्रभृतः [१५०] ।
उपयाति मध्यदेशश्च संक्षयं पञ्चभक्तिफलम् ॥
जीवे शुक्रेण जिते कुलूतगान्धारकैकया मद्राः ।
शाल्वा वत्सा बङ्गा गावः शस्यानि नश्यन्ति ॥
वृद्धगर्गस्तु ।
गुरौ शुक्रहते मद्राः शाल्वा गान्धारकेकयाः ।
बङ्गा मत्स्याश्च कुरवः पीड्यन्ते चापि नागराः ॥
ब्रह्मक्षत्रगणा गावः शस्यमाश्रमवासिनः ।
उत्तरादिक्प्रधानाश्च पीड्यन्ते च नरा भुवि ॥
वराहसंहितायाम् ।
सौरण चार्जुनायनवसातियौधेयशिविविप्राः ।
जोवे जीते नश्यतीति सम्बन्धः । वृद्धगर्गस्तु ।
नागराँश्चाभिहत्याच्छौरेणाभिहतो गुरुः ।
शरसेनान् कलिङ्गाँश्च शाल्वान् क्षत्रं च पीडयेत् ॥
वराहसंहितायाम् ।
कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।
वृद्धगर्गस्तु ।
अङ्गारकहते शुक्रे संग्रामस्तुमुलात्मकः ।
यायिनो बलमुख्याश्च पीड्यन्ते च बलाधिकाः ॥
वराहसंहितायाम् ।
सौम्येन पार्वतीयक्षीरविनाशोऽल्पवृष्टिश्च ।
जिते भृगुतनय इति सम्बन्धः ।
वृद्धगर्गस्तु ।
क्षीरिणः पार्वतीयाश्च पीड्यन्ते चापि यायिनः ।
न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥
वराहसंहितायाम् ।
शुक्रेण बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति ।
ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
कोशलकलिङ्गवङ्गा वत्सा मरत्स्याश्च मध्यदेशयुताः ।
महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥
वृद्धगर्गः ।
बृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर्षति ।
पाञ्चालाः शूरसेनाश्च वत्सा मत्स्याः सकोशलाः ।
पुण्ड्रा बङ्गाः कलिङ्गाश्च मध्यदेशश्च पीड्यते ॥
शनैश्चरहते शुक्रे गणमुख्याश्च यायिनः ॥
शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ॥
वराहसंहितायां तु ।
रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
जलजाश्च निपीड्यन्ते सामात्यं भुक्तिफलमन्यत् ॥
क्षितिजेन तङ्गणान्ध्रोड्रकाशिवाह्लीकदेशानाम्।
असिते निहते पीडेति सम्बध्यते।
वृद्धगर्गस्तु ।
शूद्रान्धकान् पिष्ठलकान् कोशलानपि तान् गणान् ।
अङ्गारकहतः सौरो नागराँश्चापि पीडयेत् ॥
वराहसंहितायाम् ।
सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।
संतप्यन्त इति सम्बन्धः । वृद्धगर्गस्तु ।
पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
नागराश्चापि पीड्यन्ते हते सौरं बुधेन तु ॥
वराहसंहितायाम् ।
सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।
पराभूते मन्दे इति सम्बन्धः ।
वृद्धगर्गस्तु ।
बृहस्पतिहतः सौरो वाह्लीकाँश्चापि पीडयेत् ।
बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणाँश्चानयः स्पृशेत् ॥
वराहसंहितायाम् ।
असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा ।
वृद्धगर्गस्तु ।
तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥
वराहसंहितायाम् ।
अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥
आदित्यादिभक्तय आदित्याद्भुतावर्त्तेषु लिखिताः ।
अथ नागरादिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः ।
बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।
स्थावरा अकृतोद्याप्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्यमा यायिन इत्यर्थः ।
भार्गवीये तु ।
दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥
सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेतवो यायिनः ।
विष्णुधर्मोत्तरे ।
राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ।
बुधो जीवः शनैश्चारी नागरा रविणा सह ॥
पूर्वे कपाले पौरोऽर्को यायी भवति चापरे ।
योगयात्रायां वराहः ।
मध्याह्नेऽर्कस्तुहिनकिरणो नित्यमाक्रन्दसंज्ञः
पौरः पूर्वे भवति दिनकृद्यायिसंज्ञोऽन्यसंस्थः ।
जीवः सौरस्तुहिनकिरणस्यात्मजश्चेति पौराः
केतुर्यायी सभृगुजकुजः सिंहिकानन्दनश्च ॥
आक्रन्दो यायिपौरेतरः पार्श्वस्थः ।
ऋषिपुत्रस्तु ।
गर्गशिष्या यथा प्राहुस्तथा वक्ष्याम्यतः परम् ।
भौमभार्गवराह्वर्ककेतवो यायिनो ग्रहाः ॥
आक्रन्दसारिणामिन्दुर्ये शेषा नागरास्तु ते ।
गुरुसौरबुधानेव नागगताह देवलः ॥
परान् धूमेन सहितान् राहुभार्गवलोहितान् ।
परान् यायिनः ।
पूर्वाह्णे नागरं सूर्यमपराह्णे तु यायिनम् ।
आक्रन्दं दिनमध्ये तु चन्द्रमाकन्दितं सदा ॥
बृहस्पतेरपि मतं गर्गस्याप्येवमेव तु ।
किञ्चिदभ्यधिकं चात्र विशेषमुशनाऽब्रवीत् ॥
भजत्याक्रन्दसारित्वं चककर्मणि लोहितः ।
संप्राप्तचक्रो वक्रश्च परमागन्तुरेव सः ॥
यवक्रीतोदयी दिक्षु ये ग्रहा ग्रहसङ्गमे ।
नागरास्ते ग्रह ज्ञेयाः स्वासु दिक्ष्वन्यतोऽन्यथा ॥
कैश्चित् कालवशादुक्तं दिग्भ्योऽन्यैर्वर्गतोऽपरैः ।
सर्वमेतदमीमास्यं न मिथ्या मुनिभाषितम् ॥
पराशरः ।
तेषां तज्जयाद्विजयोवधाद्वधोऽन्योन्यभेदाद्भेदः साम्यात् साम्यम् ।
विष्णुधर्मोत्तरे च ।
यायिना विजिते पौरे राष्ट्रे स्याद्यायिनां जयः ।
यायिग्रहे पौरजिते पुरे राज्ञां जयो मृधे ॥
भार्गवीये ।
यदा ग्रहो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ।
तथा नृपो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ॥
विष्णुधर्मोत्तरे तु ।
पौरेण विजिते पौरे पौरैः पौरक्षयं वदेत् ।
यायिना यायिनि हते यायिना यायिनां क्षयः ॥
ग्रहाणां चेद्भवेत् साम्यं साम्यं राज्ञां विनिर्दिशेत् ।
जयाजयौ नरेन्द्राणां निर्देश्यौ ग्रहबहुधैः ॥
आक्रन्दादिलक्षणं तत्पराजयादिफलं च वराहसंहितयोः ।
रविराक्रन्दो मध्ये पौरः पर्ने परे स्थितो यायी ।
पौरा गुरुबुधरविजा नित्यं शीतांशुराक्रंन्दः ॥
केतुकुजराहुशुक्रा यायिन एते ग्रहैर्हता हन्युः ।
आक्रन्दयायिपौरा जयिनो जयदाश्च वर्गस्य ॥
पौरा: पौरेण हताः पौरा पौरान् नृपान् विनिघ्नन्ति ।
एवं याम्याक्रन्दा नागरयायिग्रहाश्चैव ॥
द्वावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः ।
तत्रान्योन्यप्रीतिर्विपरीता चात्मपक्षगघ्नौ ॥
युद्धं समागमो वा यद्यव्यक्तैः स्वलणैर्भवतः ।
भुवि भूभृतामपि तथा फलमप्युक्तं विनिर्देश्यम् ॥
भार्गवीये ।
असव्यं त्रिषु मासेषु सङ्गमो मासिकः स्मृतः ।
लेखने पक्ष इत्याहुर्भेदनं सप्तरात्रिकम् ॥
अत्रानुक्तविशेषशान्तिषु ग्रहयुद्धोत्पातेषु योद्धृग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरोत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे ग्रहयुद्धाद्यद्भुतावर्त्तः ।
अथ कृत्यादियोगाद्भुतावर्त्तः ।
विष्णुधर्मोत्तरे ।
पाशचक्रधनुर्वजसंस्थानाः क्षुदवृष्टिदाः ।
ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥
वराहसंहितायां तु ।
ग्रहसंवर्त्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
कोपश्च[१५१] षडित्येषामभिधास्ये लक्षणं सकलम् ॥
एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च ।
संवर्त्तो नाम भवेच्छिखिराहुयुतश्च सम्मोहः ॥
पौर: पौरसमेतो यायी सह यायिना समाजाख्यः ।
यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥
उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः ।
अविकलतनवः स्निग्धा विपुलाश्च समागमे धन्याः॥
समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोपौ भयदौ प्रजानाम्।
समाजसंज्ञे तु समा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥
काश्यपश्च ।
संवर्त्तमौ मध्यौ सम्मोहौ भयदस्तथा ।
कोपश्चानिष्टफलदः समाजाख्यस्तु सध्यमः ॥
सन्निपाते महावैरमन्योन्यमुपजायते ।
विष्णुधर्मोत्तर ।
एकान्तरितनक्षत्रगताः स्युश्चंद्ग्रहा दिवि ।
माला नाम भवेद्योगो मध्यदेशक्षितीशहा ॥
पराशरस्तु ।
अथाष्टौ ग्रहयोगाः कोपः शृङ्गाटको व्यूहो माला धनुस्तुला ध्वजश्चक्रं चेति । तत्रैकर्क्षे पञ्च तारा ग्रहाः सूर्यानुगताः स्युः स कोपः । एकर्क्षगास्त्रयश्चन्द्रसंयुक्ताः स शृङ्गाटकः । विना सोमेन दृश्याश्चत्वारः स व्यूहः । पञ्चैकर्क्षगा दृश्येरन् स ध्वजः । एकैकर्क्षन्तरिताः पञ्च स माला। उदयेऽस्तमये च ग्रहरूपं दृश्यते सा तुला स एवाकृतिवशाद्धनुः । उदयास्तमध्यान्तरेभ्योऽन्यर्क्षगाः स चक्रं तत्र दुर्भिक्षकृतकोपः । शृङ्गाटको नृपयायिनां नाशाय भवति । व्यूहे पुराणामवरोधनम् ।
मालाऽभिषिक्तनाशाय मध्यदेशविपत्तये ।
धनुः कुनृपनाशाय चोरहस्युक्षयाय च ॥
शस्याम्बुनाशाय तुला तुलाज्ञश्चोपजीवति ।
ध्वजः शस्यविनाशाय चक्रं चक्रं विनाशयेत् ॥
विष्णुधर्मोत्तरे ।
यदा सप्तसु दृश्येत कृत्तिकादिषु संपतन् ।
सह शुक्रेण तु बुधस्तदा देवो न वर्षति ॥
पराशरः ।
उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती ।
पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥
ऋषिपुत्रस्तु ।
अन्योन्यमस्तमस्थौ तु यदि शुक्रबृहस्पती ।
पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥
वराहसंहितायां तु ।
गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोच्छ्रितम् ॥
निहन्ति शुक्रः क्षितिजेऽवतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः ।
चराचरं व्यक्तमथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥
सौम्यास्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृ-
द्रोगान् कामलपित्तजाँश्च कुरुते पुष्णाति च ग्रैष्मिकम् ।
हन्यात् प्रव्रजिनोऽग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान्
वैश्यान् गाः सह वाहनैर्नरपतीन् मृद्गाति पश्चाद्दिशः ॥
बृहस्पतौ हन्ति पुरः स्थिते सितः सितं समस्तं द्विजगोसुरालयम् ।
दिशं च पूर्वां करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥
शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशकराः ।
पुलिन्दशूद्राश्च सदक्षिणा पथाः क्षयं व्रजन्त्यक्षिमरुद्भवोद्भवैः ॥
यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः ।
नृनागविद्याधरसङ्गरास्तदा भवन्ति वार्त्ताश्च समुच्छ्रितान्तकाः ॥
गर्ग: ।
कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ
विद्याद्धितं सुखं लोके शान्तशस्त्रमनामयम् ॥
पराशरः ।
कृत्तिकासु शनैश्चारी विशाखायां बृहस्पतिः ।
तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत् ॥
एकनक्षत्रमाश्रित्य दृश्येतां युगपद्यदि ।
अन्योन्यभेदं जानीयात् तदा पुरनिवासिनाम् ॥
वराहः ।
यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षमाश्रितः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोऽब्दमेकम् ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
“संवत्सरस्थायिनौ च ग्रहौ प्रज्वालितावुभौ ।
विशाखायाः समोपस्थौ बृहस्पतिशनैश्चरौ”[१५२] ॥
संवत्सरनाम्नि वर्षे स्थायिनौ संरत्सरस्थायिनौ ।
विष्णुधर्मोत्तरे ।
चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ।
भार्गवश्च घनिष्ठासु तदा पौरभयं भवेत् ॥
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥
पराशरश्च ।
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत कोपवत् फलमादिशेत् ॥
कोपफलं दुर्भिक्षम् ।
अस्तोदये तु शुक्रस्य यदि चन्द्रदिवाकरौ ।
आवृत्य मार्गं कुर्वीत तदा वर्षति भार्गवः ॥
पुरस्तादेकनक्षत्रे दृश्येरँश्चेत् त्रयो ग्रहाः ।
अवर्षदुर्भिक्षभयं गोमनुष्यभयं भवेत् ॥
हिमवन्तमयोध्यां च तुङ्गणानेकपादकान् ।
पूर्वं समुद्रमगधानृक्षदेशाँश्च पीडयेत् ॥
मध्ये यदा प्रदृश्यन्ते शृङ्गाटकपदाश्रिताः ।
त्रयेणैकर्क्षमारुह्य मध्यदेशविपत्तये ॥
वारुण्यां यत्र दृश्यन्ते लम्बमानास्त्रयो ग्रहाः ।
तदृक्षमण्डलान्तःस्थाँस्त्रिगर्भाश्चानयः स्पृशेत् ॥
काश्यपः ।
भूमिपुत्रादयः सर्वे यस्यामस्त्रमिते रवौ ।
दृश्यन्ते सर्वककुभि तत्रानिष्टं विनिर्दिशेत् ॥
विष्णुधर्मोत्तरे तु ।
पूर्वस्यां यदि दृश्यन्ते सर्वे ताग ग्रहा यदि ।
प्राच्यानां तु तदा राज्ञां भवेत् पीडा च दारुणा ॥
मध्येन यदि दृश्यन्ते मध्यदेशो विनश्यति ।
वारुण्यां यदि दृश्यन्ते तां दिशं पीडयन्ति ते ॥
मध्येन यदि दृश्यन्त इति बुधभार्गवव्यतिरिक्तताराग्रहपरम् । बुधभार्गवयोर्नभोमध्ये दर्शनासम्भवात् ।
पराशरस्तु ।
पुरस्ताद्यत्र दृश्यन्ते पञ्चतारा ग्रहा दिवि ।
प्रकाशन्ते ध्वजाग्राणि पार्थिवानां युयुत्सताम् ॥
यदा सर्वे समागम्य मध्ये तिष्ठति दारुणम् ।
तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥
प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः ।
क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥
वराहसंहितायां तु ।
दृश्येत यत्र रवांशे ग्रहमाला दिनकरे दिनान्तगता ।
तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥
खांशे दशमस्थाने मध्याह्ने देश इत्यर्थ: । ग्रहमाला बुधभार्गवत्यतिरिक्ता । दिनान्तगतेऽस्तमितमात्रे न तु समयान्तरे ।
यस्यां दिशीक्षमाणा विशन्ति तारा ग्रहा रविं सर्वे ।
भवति भयं दिशि तस्यामायुधकोपः क्षुदातङ्गैः ॥
पराशरः ।
यद्यत् फलमिह प्रोक्तं ग्रहसंयोगसम्भवम् ।
तत्तन्नक्षत्रदेशेषु तेषु तेषु विनिर्दिशेत् ॥
एतेष्वनुक्तविशेषशान्तिषु आकृत्यादिग्रहयोगाद्भुतेषु योगकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या । अत्रानुक्तफलपाकसमयविशेषाणां दिव्याद्भुतानां वर्षेण फलपाकः पराशरेणोक्तः ।
बादरायणः ।
वृश्चिकस्थे सहस्रांशौ सौम्यैर्बलिभिरीक्षिते ।
तद्वत्केन्द्रयुतैर्विन्द्याद्ग्रीष्मधान्यस्य सम्पदः ॥
वराहसंहितयोः ।
भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः ।
बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥
अष्टमराशिगतेऽर्के गरुशशिनोः कम्भसिंहसंस्थितयोः ।
सिंहघटसंस्थितयोर्वा निष्पत्तिर्ग्रीष्मशस्यस्य ॥
सूर्याद्द्वितीयगे शुक्रे विधुजे तत्र संस्थिते ।
द्वयोर्वा द्वादशेऽप्येवं स्थितयोः शस्यसम्पदः ॥
सूर्येऽत्र गुरुणा दृष्टे योगः स्यादतिशोभनः ।
वराहसंहितयोस्तु ।
अर्कात् सिते द्वितीये बुधेऽथ वा युगपदेव वा स्थितयोः ।
व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ॥
शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् ।
अल्यादिस्थे सवितरि गुरोर्द्वितीयेऽर्धनिष्पत्तिः ॥
लाभहिबुर्कार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः ।
शस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ।
बादरायणः ।
वृश्चिकेऽर्के वृषे चन्द्रः कुम्भे जीवः कुजार्कजौ ।
मकरे चेद्भवेच्छस्यसम्पच्चक्रागमो महान ॥
वराहसंहितयोस्तु ।
कुम्भे गुरुर्गवि शशी सूर्येऽलिमुखे कुजार्कजौ मकरे ।
निष्पत्तिरस्ति महती पश्चात् परचक्ररोगभयम् ॥
बादरायणः ।
वृश्विकाय स्थितः सूर्यः पापमध्यगतो यदा ।
शस्यहा सप्तमे पापे जातं जातं विपद्यते ॥
वराहसंहितयोस्तु ।
मध्ये पापग्रहयोः सूर्यः शस्यं विनाशयत्यलिगः ।
पापः सप्तमराशौ जातं जातं विनाशयति ॥
अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् ।
शस्यं निहन्ति पश्चाद्रप्तं निष्पादयेद्व्यक्तम् ॥
पापौ सूर्यात् सप्तमस्थौ केन्द्रस्थौ चापि घातकौ ।
सौम्यदृष्टौ न सर्वत्र नाशनौ वृष्टिकोपतः ॥
वराहसंहितयोः ।
जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्विकस्थस्य ।
शस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥
वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ ।
भवति तदा निष्पत्तिः शस्यानामर्घपरिहानिः ॥
बादरायणः ।
स एव योगाभिहितो वृश्चिकस्थे दिवाकरे ।
वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः ॥
वराहसंहितयोः ।
विधिनाऽनेनैव रविवृषप्रवेशे शरत्समुत्थानाम् ।
विज्ञेयः शस्यानां नाशाय शिवाय वा तज्जैः ॥
त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
ग्रैष्मिकधान्यं कुरुते समर्घमुभयोपभोग्यं च [१५३] ॥
कार्मुकमृगघटसंस्थः शारदशस्यस्य तद्वदेव रविः ।
संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥
अत्रानुक्तविशेषशान्तिषु योगोत्पातेषु योगकर्तॄग्रहपूजापूर्विका जपहोमादिका शान्तिः कर्त्तव्या ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लासेनदेवरचितेऽद्भुतसागरे आकृत्यादियोगाद्भुतावर्त्तः ।
अथ रव्यादिवर्षाद्भुतावर्त्तः ।
वटकणिकायाम् ।
वर्षाधिपा अशुभदा दिनकरतनयप्रभाकरमहीजाः ।
क्षुच्छस्त्रदहनतस्कररोगभयावृष्टयः प्रोक्ताः ॥
शेषाणामतिशुभदं शोभनकनकान्नवारिसंपूर्णा ।
भवति वसुधा क्रियावाँल्लोकश्च नृपाः स्वभावस्थाः ॥
विष्णुधर्मोत्तरे ।
तीक्ष्णोऽर्कः स्वल्पशस्यश्च गतमेघोऽतितस्करः ।
बहूरगव्याधिगणैर्भास्कराब्दो रणाकुलः[१५४]॥
यवनेश्वरस्तु ।
दिवाकराब्दे रणविग्रहोग्रपृथ्वीश्वरस्तीव्रविषज्वराग्निः ।
अवर्षशुष्कक्षयशस्यसंघः[१५५]प्रचण्डवह्र्युग्रशिरोऽक्षिरोगः ॥
वराहसंहितयोस्तु ।
सर्वत्र भूर्विबलशस्यवती वनानि
दैवाद्विभक्षयिषुदंष्ट्रिसमावृतानि ।
स्पन्दन्ति नैव च पयः प्रचुरं स्रवन्ति
रुग्भेषजानि न तथाऽतिबलान्वितानि ॥
तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
नात्यम्बुदा जलमुचोऽनलसन्निकाशा: ।
नष्टप्रभर्क्षगणशीतकरं नभश्च
सीदन्ति तापसकुलानि सगोकुलानि ॥
हस्त्यश्वपत्तिमदसह्यबलैरुपैता
बाणाशनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
संवत्सरे दिनकरस्य दिनेऽथ मासे ॥
विष्णुधर्मोत्तरे ।
बहुवर्षातिशस्यश्च गवां क्षीरप्रदायकः ।
चन्द्राब्द: कामिनामिष्टश्चित्यङ्गितमहीतलः ॥
यवनेश्वरस्तु ।
वराहसंहितायां तु ।
व्याप्तं नभः प्रचलिताचलसन्निकाशै-
र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः ।
गां पूरयद्भिरखिलाममलाभिरद्भि-
रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥
तोयानि पद्मकुमुदोत्पलवन्त्यतीव
फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
गावः प्रभूतपयसो नयनाभिरामा
रामा रतैरविरतं रमयन्ति रामान् ॥
गोधूमधान्ययवशालिवरेक्षुवाटा
भूः पाल्यते नृपतिभिर्नय कर्मयुक्तैः[१५८] ।
चित्यङ्गिता ऋतुवरेष्टिविघुष्टनादाः
संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥
विष्णुधर्मोत्तरे ।
अग्नितस्कररोगाढ्यो नृपविग्रहदायकः ।
उपशस्यो[१५९]बहुव्यालो भौमाब्दो बालहा भृशम् ॥
यवनेश्वरस्तु ।
रणप्रचण्डः क्षितिरल्पशस्या विशुष्कवारिद्रुमशस्यवीरुत् [१६०] ।
अङ्गारकाब्दः प्रचुरोरगाग्निरातङ्कचौर्यक्षुदवृष्टिदृष्टः ॥
वराहसंहितायां तु ।
वातोद्धतश्चरति वह्निरतिप्रचण्डो
ग्रामान् वनानि गराणि च संदिधक्षुः ।
हाहेति दस्युगणपातहता रटन्ति
निःस्वीकृता विपशवो भुविमर्त्यसङ्घाः ॥
अभ्युन्नता वियति संहतमूर्त्तयोऽपि
मुञ्चन्ति कुत्रचिदपः प्रचुरं पयोदाः ।
सीम्नि प्रजातमपि शोषमुपैति शस्यं
निष्पन्नमप्यविनयादपरे हरन्ति ॥
भूषा न सम्यगभिपालनसक्तचित्ताः
पित्तोत्थरुक्प्रचुरता भूजगप्रकोपः ।
एवंविधैरुपहता भवति प्रजेयं
संवत्सरेऽवनिसुतस्य विपन्नशस्या ॥
विष्णुधर्मोधरे ।
ब्रह्मक्षत्रस्य शस्यानां जनानां च कलाविदाम् ।
वृद्धिप्रदोऽब्दो चौधस्तु भूयः शस्यकरः[१६१] क्षितौ ॥
यवनेश्वरस्तु ।
वराहसंहितायां तु ।
माहेन्द्र[१६४]जालकुहकाकरनागराणां
गान्धर्वलेख्यगणितास्त्रविचारवृद्धिः[१६५]।
पिप्रीषया नृपतयोऽद्भुतदर्शनानि
दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥
वार्त्ता जगत्यवितथा विकलात्रयी च
सम्यक् चरत्यपि मनोरिव दण्डनीतिः ।
मध्यस्थतासु विनिविष्ट[१६६]धियोऽपि केचि-
दान्वीक्षिकीषु च परं पदमीहमानाः ॥
हास्यज्ञदूतकविबालनपुंसकानां
युक्तिज्ञसेतुजलपर्वतवासिनां च ।
हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे
मासेऽथ वा प्रचुरतां भुवि चौषधीनाम् ।
विष्णुधर्मोधत्तरे ।
बहुयज्ञोऽतिशस्यश्च गोगजाश्वहितस्तथा ।
बहुवृष्टिप्रदः क्षेमो जीवाब्दो द्विजपुष्टिदः[१६७] ॥
यवनेश्वरस्तु ।
वराहसंहितायां तु ।
ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरन्त्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥
क्षितिरुत्तमशस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ।
क्षितिपैरतिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभान्ति ॥
विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाऽभितर्पयद्भिः ।
सुरराजगुरोः शुभेऽथ वर्षे बहुशस्या क्षितिरुत्तमर्द्धियुक्ता ॥
विष्णुधर्मोत्तरे ।
शस्याढ्यो धर्मबहुलो गतातङ्को बहूदकः ।
कामिनां कामदः कामं सिताब्दो नृपपुष्टिदः ॥
यवनेश्वरस्तु ।
पर्याप्तशस्यस्फुटकृष्णमेघाः प्ररूढवल्लीनवशस्यपुष्पाः ।
कामः प्रकामः क्षितिपैरथाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः ॥
वराहसंहितायां तु ।
शालीक्षमत्यपि धरा धरणी धराभ-
धाराधरोज्झितपयः परिपूर्णवप्रा ।
श्रीमत्सरोरुहतताम्बुतडागकीर्णा
योषेव भात्यभिनवाऽभरणोज्ज्वलाङ्गी ॥
क्षत्रं क्षितौ क्षपितभूरिवलारिपक्ष-
मुद्घुष्टनैकजयशब्दविराविताशम् ।
संहृष्टशिष्टजननष्टविनष्टवर्गीं
गां पालयन्त्यवनिपा नगराकराढ्याम् ॥
पेपीयते मधु मधौ सह कामिनीभि-
र्जेगीयते श्रवणहारि सवेणुवीणाम् [१७०] ।
बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्न-
मब्दे सितस्य मदनस्य जयावघोषः ॥
विष्णुधर्मोत्तरे
दुर्भिक्षमरकौ रोगान् करोति पवनं तथा ।
शनैश्चराब्दश्चौराँश्च विग्रहानिव भूभृताम् ॥
यवनेश्वरस्तु ।
दुष्टाल्पवर्षः प्रबलानिलोऽपि विपन्नशस्यश्चलितक्षितीशः ।
मृत्युक्षुधातङ्कभयोपसृष्टः शनैश्चराब्दः पशुशूद्रगोघ्नः ॥
वराहसंहितायां तु ।
उद्वृत्तदस्युगणभूरिरणाकुलानि
राष्ट्राण्यनेकपशुवित्तविनाकृतानि ।
रोरूयमाणहतबन्धुजनैर्जनैश्च
रोगोत्तमाकुलकुलानि बुभुक्षया च ॥
वातोद्धताम्बुधरवर्जितमन्तरीक्ष-
मारुग्णनैकविटपं च धरातलं द्यौः ।
नष्टाऽर्कचन्द्रकिरणातिरजोनिरुद्धा
तो याशयाश्च विजलाः सरितोऽपि तन्व्यः ॥
जातानि कुत्र चिदतोयतया विनाश-
मृच्छन्ति पष्टिमपराणि जलोक्षितानि ।
शस्यानि मन्दमभिवर्षति वृत्तशत्रौ
वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥
तत्रैव
अणुरपटुमयूखो नीचगो निर्जितो वा
न सकलफलदाता पुष्टिदाताऽन्यथाऽतः ।
यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः
शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥
यवनेश्वरः ।
अब्दाश्रयं लक्षणमीरितं यद्ग्रहस्वभावप्रभवं जनानाम् ।
तदेव तन्मासदिनर्त्तुयुक्तं तदीश्वरस्थानविकल्पितं च ॥
अथ वत्सराधिपगणनं विष्णुधर्मोत्तरे ।
सप्तच्छिन्ने तु यच्छेषं कलियातसमागणे[१७१] ।
आदित्यादिः स बोद्धव्यो ग्रहः संवत्सराधिपः ॥
अथ कलेर्गतसंवत्सराः ।
नन्दमैत्रा [१७२]ग्नि-३१७९ संयुक्तः शककालः कलेर्गतः ।
ब्रह्मसिद्धान्तकृता तु
“सावनवर्षाधिपोऽर्कादिः”[१७३]–इत्युक्तम् ।
अतस्तन्मतेनैतद्ग्रन्थारम्भशकाद्वर्षाधिपगणनम् ।
खनवदश-१०९० शेषशाके माघप्रथमांशके सितोऽब्दपतिः ।
चतुरंशोनैकाब्दे तुर्यस्य दिने तु सावनाब्दपतिः ॥
एवम् ।
वर्षाधिपास्तृतीयक्रमेण मासाधिपा ग्रहा ज्ञेयाः ।
होरेशा वारेशा स्पष्टाहोराऽत्रनाडिके सार्धे ॥
अत्राशुभफल वर्षे वर्षाधिपग्रहपूजाजपहोमादिका शान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे रव्यादिवर्षाद्भुतावर्त्तः ।
अथ संवत्सराद्भुतावर्त्तः ।
विष्णुधर्मोत्तरे ।
आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ।
इदाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ॥
तद्वत्सरोऽन्यः कथितस्तथा चैवात्र पञ्चमः ।
पराशरः ।
अथ वर्षेषु तावदाग्नेयः संवत्सरः परिवत्सर इदावत्सरश्चान्द्रो वायव्योऽथ वत्सरः ।
विष्णुधर्मोत्तरे ।
संवत्सरोऽग्निः परिवत्सरोऽर्क इदाभिधानो भगवाँच्छशाङ्कः ।
ब्रह्मा स्वयम्भूर[१७४]नुवत्सरोऽत्र इद्वत्सरः शैलसुतापतिश्च ॥
वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये ।
पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममनब्दमुक्तम् ॥
वराहसंहितायामप्येवम् पराशरस्तु ।
आग्नेये विद्यात् प्राबल्यमग्नेः पैत्तिकानां च रोगाणाम् । सौरे शङ्करसूनुनामक्षामपुष्पफलशस्यदमतीव । चान्द्रे ग्रैष्मिकाणां व्याधीनां बहुत्वमन्नस्य सम्पदं सर्वौषधीनां च विशेषेण क्षीरणीनाम् । वायव्ये वातवेगवान् वातरोगप्रबल्यं घनानामल्पोदकत्वं च । मार्त्त्येवे सर्वव्याधिप्राबल्यं बालमरकं गर्भस्रावं च-इति ।
अथ संवत्सरादिगणनम् ।
खनववियदिन्दु-१०९० हीना व्येकाः शकवत्सराः शरैस्तष्टाः । क्रमशोऽत्र संपरीदान्विन्द्व्या वत्सराः पञ्च ॥
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचिते
ऽद्भुतसागरे संवत्सराद्यद्भुतावर्त्तः ।
अथ ऋक्षाद्यद्भुतावर्त्तः ।
ऋक्षं नक्षत्रं राशिश्च । वटकणिकायाम् ।
नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्विताश्चेत् ।
आलोकं वा निर्निमित्तं न यान्ति ध्वंसं यायात् सर्वलोकः सभूपः ॥
विष्णुधर्मोत्तरे ।
रोहिणीशकटं भिन्युग्रहा यदि भवेत् तदा ।
नाशः प्रजानां क्रूरैश्च विशेषेणेह संक्रमे ॥
वराहसंहितयोः ।
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
केशास्थिशकलबाला कापालिकमिव व्रतं धत्ते ॥
बृहत्संहितायाम् ।
रोहिण्याऽनलभं च वत्सरतनुर्नाभिस्त्वषाढाद्वयं
सार्पं हृत् पितृदैवतं च कुसुमं शुद्धैः शुभैस्तैः फलम् ।
देहे क्रूरनिपीडेतेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं
पुष्ये मूलफलक्षयोऽथ हृदये शस्यस्य नाशो ध्रुवम् ॥
काश्यपश्च ।
कृत्तिका रोहिणी चोभे संवत्सरतनुः स्मृता ।
आषाढाद्वितयं नाभिः सार्पं हृत् कुसुमं मघा ॥
क्रूरग्रहहते देहे दुर्भिक्षानलमारुताः ।
क्षुद्भयं तु भवेन्नाभ्यां पुष्ये मूलफलक्षयः ॥
हृदये शस्यहानिः स्यात् सौम्यैः पुष्टिः प्रकीर्त्तिता ।
पराशरः ।
अथ दश ऋक्षाणि रहस्यभूतानि भवन्ति । तद्यथा कृत्तिका रोहिणी मघा प्रौष्ठपदं सार्पमैन्द्रं वारुणं याम्यमाप्यं वैश्वदेवं च । तेषूपसृष्टेषु शुभग्रहाणां वक्रचारोदयास्तमयैः शुभानामप्यथ यथोक्त-चारैर्भूकम्पोल्कापातनिर्घाताशनिराहुकेतुविकृतैर्वर्षासु वर्षं विद्यात् । समग्रैरुपसृष्टैः फलसामग्र्यमसमगैरसामग्र्यम् । रोहिणीज्येष्ठाप्रौष्ठपदानामुपघाते तीव्रतरं फलम् ।
अपि च ।
वारुणं पित्र्यमाग्नेयं ज्येष्ठामपि च रोहिणीम् ।
पीडयेयुर्यदैतानि राहुषष्ठाधिकारिणः ॥
दुर्भिक्षं जायते लोके शस्यमत्र न रोहति ।
शुष्यन्ति सरितः सर्वाः पर्जन्यश्च न वर्षति ॥
एतेष्वनुपतप्तेषु दशमर्दोषु कालवित् ।
विमुक्तान्तकसन्तापं जगद्वर्षासु निर्दिशेत् ॥
वराहसंहितायोः ।
रविरविसुतभोगमागतं क्षितिसुतभेदनचक्रभूषितम् ।
ग्रहणहतमथोल्कया हतं नियतमुखाकरपीडितं च यत् ॥
तदुपहतमिति प्रचक्षते प्रकृतिविपर्यपातमेव च ।
निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥
निगदित परिवर्गदूषणमिति रव्यादिभोगदृष्ठं नक्षत्रं स्ववर्गदूषणं करोतीत्यर्थः ।
अथ नक्षत्रवर्गः । वराहसंहितायाम् ।
आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
आकविकनापितद्विज[१७५] पटकारपुरोहिताब्दज्ञाः ॥
रोहिण्यां सुत्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसंपन्नाः ॥
मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः ।
मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥
रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
तुषधान्यतीक्ष्णगन्धाभि[१७६] चारवेतालकर्मज्ञाः ॥
आदित्ये सत्यौदार्यशौचकूलरूपधीयशोऽर्थयुताः ।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥
पुष्ये यवगोधूमः शालीक्षुवनानि मन्त्रिणो भूपाः ।
सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥
अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ।
परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ॥
पित्र्ये धनधान्यार्घाः कोष्ठागारणि पर्वताश्रयिणः ।
पितृभक्तवणिकशूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥
प्राकफाल्गुनीषु नट्युवतिसुभगगान्धर्वशिल्पिपण्यानि ।
कर्पासलवणमाक्षिकतैलानि कुमारकाश्चापि ॥
आर्यम्णे मार्दवशौचविनयपाखण्डदानशास्त्ररताः ।
शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥
हस्ते तस्करकुञ्जररथिकमहामात्र शिल्पिपण्यानि ।
तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ॥
त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ।
गणितपटुतन्तुवायाः शालक्या राजधान्यानि ॥
स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ॥
इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥
पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥
मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
बीजान्यतिधनवार्त्ता मलफलैर्ये च वर्त्तन्ते ॥
आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ॥
विश्वेश्वरे महामात्रमयकरितुरगदेवतासक्ताः ।
स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ॥
श्रवणे मायापटवो नित्योयुक्ताश्च कर्मसु समर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥
वसुभे मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियो हेण्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥
वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचरा जीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥
आजे तस्करपशुपालहिंस्त्र कीनाशनीचशठचेष्टाः ।
धर्मवतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥
आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखण्डा नरेश्वराः सारधान्यं च ॥
पौष्णे सलिलजफलकुसुमलवणमणिशङ्गमौक्तिकाब्जानि ।
सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥
अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तरगाः ।
तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥
याम्येऽसृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः ।
तुषधान्यनीचकुलोद्भवा विहोनाश्च सत्येन ॥
वराहसंहितायाम् ।
पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तरणि ।
सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं न कृषीवलानाम् ॥
आदित्यहस्ताभिजिताश्वितानि वणिग्जनानां प्रवदन्ति तानि ।
मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥
सौम्येन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि |
सार्पं विशाखाश्रवणाभरण्यश्चाण्डालजातेरभिनिर्दिशन्ति ॥
अथ प्रत्येकं मिलितानां च नक्षत्रतारकाणां पीडाफलम् । तत्र पराशरः ।
अथर्क्षोपसर्गाः । अयथावद्योगश्चन्द्रमसः सूर्यानुप्रवेशो ग्रहोदयास्तमयो रश्मिसंसर्गः । स्थानचारः परिवेष उल्काभियातो रश्मिहानिर्विवर्ण्यमिति । तेषां तारावयवशः पृथक्पृथक् फलमुपदेष्यामः । तत्र कृत्तिकानामाद्या तारोपसृष्टा कलिङ्गानां दुर्भिक्षमुत्पादयति । प्रादक्षिण्येन द्वितीया दस्युगणवैद्यकपीडनी। तृतीया नृपशस्य विनाशनी । चतुर्थी मगधकोशलानामुपतापाय । पञ्चमी विप्रान् पीडयति । षष्ठी दक्षिणपश्विमान् जनवरान् निषादाँश्च । युगपदुपसृष्टाः सर्वाः शूरसूक्ष्ममत्स्यपुण्ड्रताम्रलिप्तगौरेयहाटकपाण्डाकामरूपबङ्गाङ्गवेणुबन्धनसत्यारण्याहिताग्निब्रह्मचारिणो धान्येषु यवानुपहन्ति । यश्चेकैकस्यां तारायामुक्तम् ।
रोहिणीनां प्रागुत्तरेणाद्या तारोपसृष्टा मगधेशान् भुजगाँश्च पीडयति । उत्तरेण द्वितीया शस्यं सलिलं चोपतापयति । उत्तर एव तृतीया सां भूपान् महान्ति च कुलानि । दक्षिणपूर्वा योपतप्ताबीजोपतापिनी दक्षिणतः । दक्षिणतः पञ्चमी प्रजानामुपतापाय । युगपदुपसृष्टाः सर्वा मौञ्जिपुरुषादगौडकपञ्चालवन्धुधुर्यमहिषकुरुजाङ्गलशूरसेनानाम् । अन्नानां शालयः पीड्यन्ते । अस्यां पार्थिवानां शस्त्रप्रादुर्भावश्च । यच्चैकैकेश उक्तम् ।
मृगाशिरस्युत्तरेण या तारोपसृष्टा यतिमुनिब्राह्मणान् पीडयति। पूर्वेण द्वितीया तङ्गणोशीनरान् । तृतीया सर्वशस्यानि। युगपत् सर्वा: शाल्वनिषादगान्धारौदीच्याम्बष्टविदेहान् । बीजेष्वलावुककारुक्षोर्वारुकषष्टिकान् । यच्चैकैकस्य मुक्तशाल्वानां चाग्र्यम् ।
आर्द्रायाः प्राग्भागस्योपताप मालवादेविकानिवासिनश्चोपताप्यन्ते । दक्षिणस्य व्याधिचण्डालवैकृतिकबन्धनेपालानां कलिङ्गानां च सन्धिः । पश्चिमस्य मृगा धनुर्वृत्तयश्च उत्तरस्य नदनदीपल्वलाक्षोदकचराश्च । सर्वतस्त्वश्मकाः । स्नेहेषु तैलं पयः सुरासवेषु । यच्च पार्श्वेषूक्तम् ।
पुनर्वसोरुत्तरतारोपसर्गे देवमनुष्याः पीड्यन्ते । इतराया वणिजश्चावन्तिकाश्च । उभ्यां भरुकच्छपाण्ड्यापरान्तकान्त गिर्युपगिरिसूर्योपावृत्तकाः । कार्पासं बीजेषु । यच्चोभाभ्यामुक्तम्।
पुष्ये पूर्वेणोपतप्तः पार्थिवान् पीडयति । दक्षिणेन चेदिमत्स्यान् । पश्चिमेन कुरून् । उत्तरेण क्षितीशान । सर्वतः पाञ्चालसिन्धुसौवीरवर्धमाननास्तिक्यरामगिरिगौरीपुरनिवासिनः । कार्षिका द्विजाग्र्यमेधाविकधार्मिकदधिघृतपयांसि च
सार्पाणामुत्तरेणाद्या तारा तस्या उपसर्गाद्दंष्ट्रिण उपतप्य- न्ते । प्रदक्षिणेन द्वितीयायाम् । अहिग्राहिमायाकारबन्धनपालाः । तृतीयायां गजगजाध्यक्षाः । तदतु चतुर्युपसृष्टा तस्करान् विनाशयति । पञ्चमी दौवारिकान् खरकरभशूकरान् । षष्टी भुजगसरीसृपसुरामैरेयविदानुपहन्ति । युगपत् सर्वा विदर्भनैमिषमणिमतीनिवासिनः । वर्षाशालिशुण्ठीकोद्रवविनाशाय । यच्चैकैकश उक्तम् ।
मघानां दक्षिणतारोपतापे वासिष्ठाः पीड्यन्ते । तदुत्तरेण द्वितीया । तस्यामुपतप्तायामौषधयस्ताम्रपर्णकाश्च । तृतीयायां वृद्ध्युपजीविनः । चतुर्थ्यां कोष्ठागाराणि पितृधान्यं च पञ्चभ्यां माहिष्मतीनिवासिनः । षष्ठ्यां नागा नागाश्रिताश्च । युगपदुपसृष्टासु ताम्रपर्णकाधिपगणवाह्यानि । यच्चैकैकश उक्तम् ।
भाग्योत्तरतारोपघातेन किराताश्चोपताप्यन्ते । अपरायाः सुभगवनकाम्बोजाः । युगपदुपसृष्टे तदधिपतिपाञ्चालाभीरभागीरथमहापथविदेहान् पीडयतः । रसेषु गुडविकारान् । यच्चैकैकश उक्तम् ।
आर्यम्णस्य दक्षिणोपसृष्टा मगधाधिपतिविनाशाय । उत्तराउत्तरनिवासितां शस्यानां च । उभे विदेहशाल्वमत्स्याङ्गमगधनेपालत्रैपुराहिताग्नीनाम् । शस्येषु कुलत्थानाम् । यच्चैकैकश उक्तम्।
सावित्रस्य पूर्वदक्षिणेन तारोपसृष्टा तस्करान् पीडयति । द्वितीया दक्षिणेन प्राच्यान् । तृतीयोत्तरेण सौरगिरिकान् । चतुर्थ्युत्तरेण योगयुगन्धरभिक्षुकान् । एतस्यां तु पञ्चमी समिकलोत्कलद्वीपपुरराष्ट्राणि । युगपत् सर्वा दण्डकमध्यारण्यकचेदिगोकर्ण यामुनसप्तराष्ट्रवैणिकदशार्णाङ्गबङ्गसौरगिरिकाँश्च । चतुष्पपदेषु द्विरदान् । बीजेषु निष्पाबमूलकानि । औषधेषु पीप्पलीम् । यच्चेकैकश उक्तम् । अथ चित्रा प्राच्यां दिशि उपसृष्टा चेदीनामपां चाहिताय याम्यायां दण्डकाश्मकानाम् । वारुण्यां नटनर्त्तकचित्रकराणाम् । सौम्यायामार्त्तिकानां भावानाम् । सर्वासु पञ्चालकैकयभागीरथकुरुगन्धर्व-स्थलमद्रमाषमुद्गानाम् । विशेषतः कैकयश्रेष्ठानाम् । यच्चाशासूक्तम् ।
स्वातिः पूर्वेणोपसृष्टा वातवृष्टिं जनयति । दक्षिणेनातिवृष्टिम् । पश्चिमेन सिन्धुसौराष्ट्रनृपाँश्चोपहन्ति । उत्तरेण यवनकाम्बोजान् । सर्वतस्तूशीनरावन्तिचेदिवासोदिव्याभिसारकदर-दकाश्मीरोत्तरकुरूणामभावाय । शाकेषु सर्वपाराणाम् । चतुष्पदेष्वेकशफानाम् । पश्चाच्चाभिषिक्तः शैलाटविकश्च राजा विनश्यतीति । विशाखोत्तरतारोपसर्गे कोशलेक्ष्वाकव उपसृष्ट्यन्ते । इतरायां भ्रातरो विभक्ताः कुरवश्च । युगपदुपसर्गे यमजाः । शष्पेषु यवगोधूमाः । यच्चैकैकश उक्तम् ।
ज्येष्ठामध्यमधिष्ण्योपघाते ज्येष्ठनृपतिप्रधानजननारीविनाशं विन्द्यात्। पूर्वेण विदेहानाम् । एकशकानां पशुषु । स्वदेशेषु नृपस्य । शस्येषु कलायानां च । यच्चैकैकश उक्तम् ।
अनुराधानामुत्तरेण ज्योतिरुपहतं सन्धिविग्रहं मित्रभेदं स्वस्थकोशलानां चोपतापं जनयति । दक्षिणेन द्वितीयचमूपतिद्वाराऽधिपतीनाम् । तृतीयं दक्षिणेन वालेषु विदग्धानां च । चतुर्थं शस्यानां च । युगपदुपसृष्टा मगधाङ्गकाशिवैदेहभागीरथहिरण्यकुटुम्बकानाम् । तत्पश्चिमे यवनकाम्बोजानाम् । युगपत्सर्वास्विन्द्रप्रथममिन्द्रप्रस्थमाहेन्द्रगिरिम् । मध्यं पृथिव्याश्चेदिपृष्ठमभिसारं क्षेमधृतिदरदाँश्चोपहन्ति । मृगादिपशुहानिः । ऐडविडानां च श्रेष्ठस्येति । यच्चैकैकश उक्तम् ।मूलस्य पूर्वेणैकातारोपसृष्टा शस्यानां विपत्तये राष्ट्रदुर्भिक्षाय । उभे ग्रामनगरनिगमजनोपदेष्टृकर्णप्रावरणदस्यु-सौवीरमहिषमाहिष्मतीगिरिव्रजनिवासिनामभावाय । रसेषु च लवणस्य । मणिमतीनां च श्रेष्ठस्य । यच्चेकैकश उक्तम्
पूर्वाषाढाया: पूर्वेण ताराद्वयमुपसृष्टं कूपनदीसरः सागरसलिलाशयानामुपतापं जनयति । अपरं काशीनामवर्षं शवरेशविनाशं च । युगपच्चतस्रस्त्रिगर्त्तवीतिहोत्रभार्गववर्हिणप्रभासमार्यसुखं संजनयति । सागराश्रिताँश्चोपहन्ति । मत्स्येषु वर्हिकान् माहिष्मत्याः श्रेष्ठम् । यच्चासां द्वन्द्वश उक्तम् ।
वैश्वदेवस्योत्तरेण धिष्ण्यद्वयमुपसृष्टं चतस्रः समाः प्रजाः पीडयन्ति । दक्षिणेनामात्यधर्मिष्ठकाशिपुत्रं गृहस्थान् । युगपत्सर्वेषूपतप्तेषु वीतिहोत्रमर्जुनायनताम्रपर्णसैन्धवारण्यनैमिषजच्युतमार्ग-कौशिकसारस्वतान् । सर्वाणि च पुण्यायतनानि वर्णेषु । ब्राह्मणान् । पार्थिवेषूग्र्यान् । यच्च द्वन्द्वश उक्तम् ।
तथाऽभिजिता मध्यतारोपतापः शोषयति देवान् । द्वितीयोत्तरेण ब्राह्मणानृषिगणाँश्च । तृतीया दक्षिणेन नृपराष्ट्रकामात्यान। युगपत् सर्वान् ब्राह्मणान् ब्रह्मीं पुरव्रीहमतीं पूर्वगङ्गां स्वर्गङ्गां कालकूटां स्वस्तिभद्रां सर्पातिपन्नगयवनद्वीपं ब्रह्मचारिणो द्वीपेषु भद्राश्वान् पर्वतेषु पञ्चपर्वतपुष्परुद्रकान् कुलेषु श्रेष्ठान् । यच्चैकैश उक्तम् ।
श्रवणस्य मध्यमतारोपसृष्टा धनुर्धराणामभावाय। अपरा दक्षिणेन शूरसेनानां क्षत्रस्य । उत्तरेण तृतीया शूरसेनयवनकाम्बोजानां च । युगपत् सर्वास्त्रिगर्त्तानर्त्तमालवक्षुद्रकार्जुनायनाभीरयोधेयाम्ब- ष्ठसुह्मकानाम् । रसेषु सर्वरसानां च सकामानां न श्रेष्ठस्य । यच्चैकैकश उक्तम् ।
धनिष्ठायाः पश्चिमेन तारोपसृष्टा शकयवनकाम्बोजोत्तरनेपालानाम हिताय । द्वितीयोत्तरेणोत्तरपर्वतवासिनाम् । तृतीया पूर्वेण पूर्वसागरसंस्थितानाम् । चतुर्थी दक्षिणेन पक्षियवकलायसर्षपाणाम् । प्रत्यग्दक्षिणेन । पञ्चमी सिन्धुसौवीराभीराणाम् । युगपत् सर्वाः पाण्ड्यकैरातोड्रशोकमोकस्वमोकतलरवाङ्गबङ्गहेमकटसिंहलोत्कलनैकरसमूलमध्यदेशवाह्लीकसैन्धवकालकूटेक्षुमतीनिवासिनाम् । शस्येषु मुद्गानाम् । शकेषु श्रेष्ठानाम् । यच्चकैकश उक्तम्।
अथ वारुणं पूर्वणोपतप्तं कलिङ्गान् पीडयति । दक्षिणेन दक्षिणसमुद्रम् । पश्चिमेन पश्चिमभिषकक्षुद्रौषधानि । चोत्तरेण सर्वोषधीः स्त्रोश्च सर्वतस्ताम्रपर्णां ताम्रलिप्तकहाटकसह्यभरुकच्छपिङ्गभूपतिमूलापरान्तकपुकशश्मकपुरेन्द्र-राष्ट्रसौरगिरिशैलेयपारियवनान् । शस्येषु यवगोधुमान्
प्राक्प्रौष्ठपदोत्तरतारोपसृष्टा मगधाङ्गपुण्ड्रयवनकाम्बोजानामुपतापकर्त्ता । दक्षिणेनैकपगोमताम् । युगपदुभे भिषगम्बष्टमेकलोत्कलपुलिन्दशबरदर्दुरमलयनर्मदासिन्धुसौवीरकाश्मीरहितहिरण्य-बाहुवैशालेयशशकुन्तराजमार्गगोगजाश्वानाम् । यच्चैकैकश उक्तम् ।
आहिर्बुध्न्योत्तरतारोपसृष्टा महात्मनां राज्ञामहिताय । अपरा मगधकाश्मीरराजानाम् । युगपदुभे काम्बोजोशीनरत्रिगर्त्तकाश्मकार्जुनायनक्षुद्रकमालवाभीराणाम् । सर्वत्र महतां कुशलानाम् । रसेष्विक्षुरसानाम् । यच्चैकैकश उक्तम् ।
रेवती पूर्वेणोपसृष्टा पशूनुपहन्ति दक्षिणेनानर्त्तान् । पश्चिमे- न वाल्हीकसिन्धुसौवीरकीरपहवान् । उत्तरेणापः सर्वतः सुराष्ट्रवैदेहहिरण्यपादक्षुद्रकमालवमलयजवृजिनहैमवतबाहु-दाकुम्भिभोजानाम् । हिरण्यपादानां च श्रेष्ठम् । यच्च पार्श्वेषूक्तम् ।
आश्विनस्योत्तरतारोपसृष्टा किरातकाम्बोजगपह्लवान् पीडयति । अपरा रूपधनगुणान्वित चिकित्सकैकद्विशफानाम् । युगपदुभे प्राच्योदीच्यवाल्हीकपारतदरदकाशिवत्सनिषदानत्तान् किष्किन्धा न् यवनानां च श्रेष्ठ बीजेष्वौधौषधाीन् । अध्यक्षेषु चाध्यक्षान् । यच्चैकैकश उक्तम् ।
भरणीनां प्राक्तारोपतप्ता मेकलोल्फलकलिङ्गान् पीडयति । दक्षिणा प्रत्यन्ततस्करान् उदक् प्राणितः शश्येषु च । सर्वाः शवरवर्वरपुलिन्दतिमिङ्गिलदुर्भटाङ्गवङ्गरोडुमेकलान् । सर्वदस्युकलिङ्गानां दक्षिणार्धम् । शस्यषु शुकधान्यम् । पूर्वमेकलानां श्रेष्ठं च । यच्चैकैकश उक्तम् ।
अत्रानुक्तविशेषशान्तिषु नक्षत्रोत्पातेषु प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिककलगुरुलाघवमवगम्य कर्त्तव्या।
एतेषां फलपाकसमयं पाकसमयावर्ते वक्ष्यामः ।
अथ ग्रहाणां नक्षत्रमार्गचारफलं वराहसंहितायाम् ।
उत्तरमार्गों याम्यादि निगदितो मध्यमस्तु भाग्यादि ।
दक्षिणमार्ग आषाढादि कैश्विदेवं कृता मार्गाः ॥
तथा च गर्गः ।
भरण्यादौ मघान्ते च प्रथमे नवके गणे ।
वर्त्तमानः शुभो ज्ञेय उत्तरे पथि वर्त्तते ॥
उत्तरमार्गाश्रितः करग्रहोऽपि शुभफलो भवतीत्यर्थः ।
क्रूरो निर्ऋतिपर्यन्ते भाग्यादौ नवके गणे ।
वर्त्तभानश्च मध्यस्थो मध्यमे पथि वर्त्तते ॥
मध्यमार्गाश्रितः क्रूरग्रहोऽपि समफलो भवतीत्यर्थः ।
अश्वयुग्योगपर्यन्ताषाढादौ नवके गणे।
वर्त्तमानः सदा क्रूरो दक्षिणे पथि वर्त्तते ॥
दक्षिणमार्गाश्रितः शुभग्रहोऽपि क्रूरफलो भवतीत्यर्थः ।
तिसृभिस्तिनृभिर्वा वीथीभिरप्युदग्दक्षिणमार्गा भवन्ति ।
यदाह गर्गः ।
पूर्वोत्तरा नागवीथी गजवीथी तदुत्तरा ।
ऐरावती तृतीया स्यादेवं तास्तूत्तराः स्मृताः ॥
आर्षभी तु चतुर्थी स्याद्गोवीथी पञ्चमी स्मृता ।
षष्टी जारद्गवी ज्ञेयास्तिस्त्रस्ता मध्यमाश्रिताः ॥
सप्तमी मृगवीथी स्याद्दक्षिणं मार्गमाश्रिताः ।
अष्टमी त्वजवीथी स्याद्दहना नवमी तथा ॥
पराशरश्च ।
अथर्क्षमार्गास्त्रयो भवन्ति उत्तरमध्यदक्षिणाः । पुनरेकैकशस्त्रिधा नव वीथय इत्याचक्षते । उत्तरोत्तरे नागगजैरावत्यः । मध्ये ऋषभगोजारद्गव्यः । दक्षिणे नृगाजाविकाः । आसां नामान्यग्ने ययाम्यवायव्यानि । गजवीथी रोहिण्यादीनि त्रीणि । चत्वारि गजैरावत्यौ । आर्षभी फाल्गुन्यौ । गोवीथी प्राक्प्रौष्ठपदादीनि चत्वारि । श्रवणाश्रविष्ठावारुणानि जारद्गवी। मृगवीथी त्वाष्ट्रहस्तम् । आजी मैत्रमैन्द्राग्न्यम् । आविकेन्द्रमूलमाषाढे वैश्वानरं तमेयोच्छति ।
विष्णुधर्मोत्तरे ।
कृत्तिका याम्यवायव्या नागवीथ्युत्तरोत्तरा ।
गजवीथी उदङ्मध्ये प्राजापत्यादयस्तु या ॥
ऐरावती ह्यदग्याम्या आदत्यादिचतुष्टयम् ।
मध्योत्तरगताऽऽर्षभी फाल्गुन्योर्ऋक्षर्द्वयोः ॥
मध्यमध्ये त गोवीथी अजाद्यं भचतुष्टयम् ।
मध्ययाम्ये जरद्गुः स्यात् त्रितयं श्रवणादिकम् ॥
याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्त्तिते ।
अजा दक्षिणमध्ये तु विशाखा मैत्रसंयुता ॥
अविका स्यात् तु याम्ये तु शक्राद्यं भवतुष्टयम् ।
वैश्वानरपथं प्राहुस्तामेवात्यन्तदारुणम् ॥
बृद्धगर्गस्तु श्रवणादित्रयेण गोवीथीं पूर्वभाद्रपदादिचतुष्टयेन जरद्गवीं वीथीमाह ।
तद्यथा ।
वायव्यानलयाम्येषु नागाद्या उत्तरोत्तराः ।
रोहिण्यादिषु त्रिष्वेव द्वितीया गजवीथिका ॥
चतुर्ष्वादित्यपूर्वेषु तृतीयैरावती स्मृता ।
फाल्गुन्यौ चार्षभी ज्ञेया चतुर्थी मध्यमादिगा ॥
वैष्णवाद्येषु त्रिष्वाहुर्गोवीथीमथ पञ्चमीम् ।
षष्ठी चतुर्भिराजाद्यैर्वीथी जारद्गवी भवेत् ॥
सप्तमी मृगवीथी स्यात् सावित्रं त्वाष्ट्रमेव च ।
वैश्वानरी तथेन्द्रायैश्चतर्भिर्नवमी भवेत् ॥
नागवीथ्युत्तराद्ये ता वीथ्यो नव निदर्शिताः ।
वराहसंहितायाम्
वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गेषु ।
तथा च काश्यपः ।
नक्षत्राणां च ये मार्गा दक्षिणोत्तरमध्यमाः ।
त्रिधा विभज्य तानेव वीथीमार्गान् प्रकल्पयेत् ॥
अथ वीथीचारफलम् । तत्र गर्गः ।
उत्तरोत्तरमार्गस्था रश्मिमालाध्वगा ग्रहाः ।
निष्पन्दना इवात्यर्थं जयमाहुरुपस्थितम् ॥
विष्णुधर्मोत्तरे तु ।
उदयास्तमयेऽस्यां तु चारेणापि तथा ग्रहाः ।
उत्तरास्तु शुभा ज्ञेया दक्षिणाश्चाशुभा ग्रहाः ॥
सुप्रभारश्मिवन्तश्च नागवीथ्यां यदा ग्रहाः ।
तत् तदस्ति शुभं लोके यत्र पश्यन्ति मानवाः ॥
विरश्मयो विवर्णाश्च वैश्वानरपथाश्रिताः ।
न तदस्त्यशुभं नाम यत् तत् कुर्युर्जगन्त्रये ॥
वृद्धगर्गेण प्रत्येकवीथीफलमुक्तम् । तद्यथा ।
यदोदये प्रवासे वा चारे वा नागवीथिगाः ।
ग्रहास्तदाऽतिवर्षा स्यात् सुभिक्षक्षेम एव च ॥
गजवीथीगताश्चापि क्षेमवर्षसुभिक्षदाः ।
श्रेष्ठिकाश्चात्र पीड्यन्ते कुलानि च महान्ति च ॥
ऐरावत्यां सुभिक्षं स्याद्वर्षमारोग्यमेव च ।
नृपाः सवैरा जायन्ते बलक्षोभा भवन्ति च ॥
गोवीथ्याभवीथ्योश्च मध्यमं शस्यमुच्यते ।
बलिनो गोमिनो गावः पीड्यन्ते च महानृपाः ॥
जरद्गुवीभ्यां पीड्यन्ते वित्तज्ञानवयोऽधिकाः ।
धान्यार्घाश्चापि वर्धन्ते रोगाश्चापि कफोत्तराः ॥
अजवीभ्यां च पीड्यन्ते विप्रा ये च प्रजाधिकाः ।
जायते चापि दुर्भिक्षं दुर्वृष्टिभयमेव च ॥
मृगवीथ्यां मृगव्याधाः पीड्यन्ते च तपस्विनः ।
क्षुद्भयं त्वपि वर्धेत विकाराश्चापि वातिकाः ॥
वैश्वानयीं तथा वीथ्यां पित्तमग्निश्च जायते ।
मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥
वराहसंहितायाम् ।
नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।
याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः ।
तथा च काश्यपः।
उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा।
दक्षिणे दक्षिणो मार्गो नक्षत्रेषु प्रकीर्त्तितः।
एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् ।
अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।
उदयास्तमयं कुर्यान्मध्यमं मार्गमाश्रितः।
मध्यमं वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥
उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः ।
धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥
अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।
अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।
कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यार्द्रादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिङ्क्षत्रेषूपसृष्टेषु दिग्जनपदानां तापो भवति।
गर्गस्तु ।
कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः।
कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः[१७७] ॥
कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा।
सा पीडिता पीडयति मध्यदेशमशेषतः ॥
रौद्रादिः पीडिता पूर्वां सार्पादिः पूर्वदक्षिणाम् ।
आर्यम्णादिस्तथा याम्यां स्वात्यादिर्दक्षिणां पराम् ॥
ज्येष्ठादिः पश्चिमामाशां वैश्वादिरुत्तरोत्तराम् ।
वारुणादिस्तथा सौम्यां पूर्वादिः पूर्व-उत्तराम् ॥
विष्णुधर्मोत्तरे ।
कृत्तिका रोहिणी सौम्या मध्यदेशस्य निर्दिशेत् ।
पीडिते त्रितये तस्मिन् मध्यदेशः प्रपीड्यते ॥
आर्द्रा पुनर्वसू पुष्पः पूर्वस्यां तु भवेद्दिशि ।
पीडिते त्रितये तस्मिन् पूर्वदेशः प्रपीड्यते ॥
सार्पं मित्रं तथा भाग्यमनलस्य दिशि स्मृतम् ।
पीडिते त्रितये तस्मिन्नाग्नेयी पीड्यतेऽथ दिक् ॥
आर्यम्णमथ हस्तं च त्वाष्ट्रं स्याद्दिशि दक्षिणे ।
पीडिते त्रितये तस्मिन् दक्षिणा दिक् प्रपीड्यते ॥
स्वातिर्विशाखा मैत्रं च नैर्ऋत्यां दिशि कीर्त्तितम् ।
पीडिते त्रितये तस्मिन् नैर्ऋती पीड्यतेऽथ दिक् ॥
ज्येष्ठा मूलं च तोयं च वरुणस्य दिशि स्मृतम् ।
पीडिते त्रितये तस्मिन् वारुणी पीड्यतेऽथ दिक् ॥
वायव्यां दिशि निर्दिष्टा वैश्ववैष्णववासवाः ।
पीडिते त्रितये तस्मिन्नैशानी दिक् प्रपीड्यते ॥
काश्यपस्तु ।
क्षितौ भारतवर्षेऽस्मिन् नवभागव्यवस्थया ।
बहुलाद्यास्त्रयो ऋक्षा[१७८] मध्यदेशादिषु स्थिताः ॥
क्रूरग्रहहते तैस्तु पीड्यन्ते तन्निवासिनः ।
ते पीडामुपयास्यन्ति भिन्नैः क्रूरैश्च मर्दितैः ॥
विष्णुधर्मोत्तरे ।
स्वदेशपीडनं कर्यान्नक्षत्रं पीडितं कथम् ।
सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर ॥
मार्कण्डेय उवाच ।
शनैश्वरार्कौ चारेण वक्रेणाङ्गारको ग्रहः ।
उपरागेण राहुस्तु केतुश्चाधूमनोदयैः ॥
उदयास्तमयाभ्यां न जीवशक्रशशाङ्कजाः ।
संछादनेन च शशी असम्यग्योगतस्तथा ॥
तथा च यम्मिन् नक्षत्रे दिव्यपार्थिवनाभसाः ।
दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् ॥
पराशरस्तु ।
दिग्नक्ष त्रेषूपसृष्टेषु दिग्जनपदानामुपतापो भवति । विशेषतस्तु शूरसेनमगधकलिङ्गावन्तिसौर सैन्धवहारभूतिमद्रपुलिन्दाधिपतीनाम् ।
वराहसंहितायां तु ।
वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः ।
पाञ्चालो मागधिकः कालिङ्गश्च क्षयं याति ॥
आवन्तोऽथानत्तों मृत्युं चायाति सिन्धुसौवीरः ।
राजा च हारहौरो मद्रेशोऽन्यश्च कालिन्दः ॥
यदा उक्तविपरीतलक्षणं नक्षत्रं शुभग्रहादियुक्तं भवति तदा दिग्देशानामभ्युदयं करोति तथा चाभिहितक्रमेण मध्यप्रागादिदिग्देशानां नक्षत्राण्यभिधायोक्तम् ।
मार्कण्डेयपुराणे ।
एतत्पीडास्वमी देशाः पीड्यन्ते ये क्रमोदिताः ।
अथ दिग्देशाः । तत्र काश्यपः ।
कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी ।
मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥
आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा ।
मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥
गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः ।
सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥
कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् ।
पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥
पराशरस्तु ।
अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ [१७९] नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्रीवपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।
मार्कण्डेयपुराणे तु ।
भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः ।
उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥
मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः ।
धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥
वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः ।
कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥
कापिष्ठलाः कुकुराद्यास्तथैवोदुम्बरा जनाः ।
गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः ॥
वराहसंहितायाम् ।
भद्रारिमेदमाण्डव्यशाल्वनीपोज्जिहानसंख्याताः ।
मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥
माथुरकोपज्यौतिषधर्मारण्यानि शूरसेनाश्च ।
गौरग्रीवोद्दहिकपाण्डुगुडाश्वत्थपाञ्चालाः ॥
साकेतकङ्कमरुकालकोटिकुकुराह्वपारियात्रनगाः ।
औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ॥
वटकणिकायां तु ।
मध्यमुदक्पाञ्चाला गङ्गाया उत्तरं कुरुक्षेत्रम् ।
उदगपि च पारियात्रं मरुमथुरायोध्यमत्स्याश्च ॥
सारस्वतयामुनवत्सघोषसंस्थाननीपमाण्डव्याः ।
भद्रारिमेदनैमिषशाल्वोपज्यौतिषाश्वत्थाः ॥
औदुम्बरकुकुराह्वोज्जिहानगजशाल्वपाञ्चालाः ।
माध्यमिकोद्दैहिककालकोटिकापिष्ठलं मध्ये ।
अथ पूर्वदिग्देशाः । तत्र काश्यपः ।
पूर्वे मालवका भद्रा मिथिला पौण्ड्रवर्धनम् ।
काशिकोशलसूक्ष्माश्च मागधा मेकलास्तथा ॥
व्याघ्रवक्त्राः सूर्पकर्णा लौहित्यः शोण एव च ।
प्राग्ज्यौतिषमहेन्द्रादिकिराताः क्षीरवासिनः ॥
पराशरस्तु ।
अथ पूर्वस्यां च मालवशिविराञ्जनपद्मवृषभध्वजोदयशिखरिदन्तुरकाः काशिकोशलमगधमिथिलामेकलोत्कलपुण्ड्रककर्वटसम- तटोड्रगौडकभद्रद्रविडसुह्मताम्रलिप्त प्राग्ज्यौतिषवर्धमानवाजिमुखाम्बष्टपुरुषादसू- र्पकर्णिकोष्ठाधिश्रोत्रव्याघ्रमुखलौहित्यार्णवक्षीरोदार्णवमीनाशनकिरातसौवीरमहीधरा विवासिनैकपादोदयनिवासिनश्च ।
मार्कण्डेयपुराणे तु ।
वृषध्वजोऽजनश्चैव पद्माख्यो मलयाचलः ।
सूर्पकर्णव्याघ्रमुखौ गुर्वकः कर्पटाशनः ॥
तथा चन्द्रपुराश्चैव खशाः समगधास्तथा ।
शिवयो मिथिला औड्रास्तथा वदनदन्तुराः ॥
प्राग्ज्यौतिषाश्च लौहित्याः सामुद्राः पुरुषादकाः ।
वराहसंहितायां तु ।
अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः ।
व्याघ्रमुखसुह्मकघटचान्द्रपुराः सूर्यकर्णाश्च ॥
खशमगधशिविरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः ।
प्राग्ज्यौतिषलौहित्यक्षीरोदसमुद्रपुरषादाः ॥
उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः ।
एकपदताम्रलिप्तककोशलका वर्धमानाश्च ॥
अत्र प्रधानदेशा वटकणिकायाम् ।
आर्द्रादिकाशिकोशलमिथिलोत्कलवर्धमानपौण्ड्रोड्राः ।
लौहित्यमगधसमतटमेकलखशताम्रलिप्ताश्च ॥
अथाग्नेयोदिग्देशः । तत्र काश्यपः ।
आग्नेय्याशास्थिता ये च विन्ध्यं मलयपर्वतम् ।
विदिशाश्च दिशार्णश्च बङ्गा अङ्गाः कलिङ्गकाः ॥
किष्किन्धाः शूकराः पुण्ड्राः पाठराश्च विदेहकाः ।
क्षत्रियाः शवरा नग्ना नालिकेरार्णवाश्रिताः ॥
अथ प्राग्दक्षिणस्यां विन्ध्यातटवासिनश्चेदिवसतिदशार्णाङ्गबङ्गोपबङ्गकलिङ्गजठ-रपुण्डकशूलिकविदर्भन प्नपर्णकशवरकाश्च ।क्षत्रपुरपूरिककण्टस्थलवृषद्दीपकोशलोर्ध्वकर्णोड्-रचार्मत्वग्लुतकाकचारुहेम-कूटव्यालग्रीव महाग्रीश्मश्रुधरनालिकेरद्वोपकिष्किन्धाधिवासिनः ।
मार्कण्डेयपुराणे तु ।
कलिङ्गबङ्गजठराः कोशलाः शूलिकास्तथा ।
चेदयश्चोर्ध्वकणाश्च मत्स्यान्ध्रा विन्ध्यवासिनः ॥
विदर्भनालिकेराश्च चर्मद्वीपास्तथाऽलिकाः ।
व्याघ्रग्रीवा महाग्रीवास्त्रैपुराश्मश्रुधारिणः ॥
किष्किन्ध्यहिमकटाश्च निषधाः कण्टकस्थलाः ।
दशार्णा हरिका नग्ना निषदाः काकुलालकाः ॥
तथैव पर्णाः शवराः पादे वै पूर्वदक्षिणे ।
वराहसंहितायां तु ।
अथ प्रधानदेशा वडकणिकायाम् ।
आश्लेषाद्ये त्रैपुरनिषादराष्ट्राणि चेदिदाशार्णाः ।
पुरिका विन्ध्यान्तस्था वत्सान्ध्रविदर्भकालिङ्गाः ॥
अथ दक्षिणदिग्देशाः । तत्र काश्यपः ।
याम्ये माहेन्द्रमलय विन्ध्यं च कुसुमाकरम् ।
स्वमालिनी स्त्रीराष्ट्रं च धान्यं दशपुरन्दरा ॥
अवन्ती दर्पणं चैव कर्कोटकवनं तथा ।
कौन्तमार्गणकोपारा दण्डकारण्यमेव च ॥
प्रवालं मौक्तिकं शङ्खं वैडूर्यं ताम्रधातवः ।
प्रवालादि तस्योत्पत्तिस्थानमिति
ऋष्यमूकगिरी रम्यं पिशाश्रममेव च ।
कोङ्कणं चित्रकूटं च भरुचीपट्टनं तथा ॥
पट्टनं बलदेवस्य कार्मणेयकमेव च ।
नासिका चैव गोनर्दकर्णाटद्रविडानि च ॥
ककुलाङ्गालकोटिश्च निद्रा पाञ्चनदाश्रिताः ।
वैखण्डं कालेयं मालं सूर्यावर्त्तं कुजावहम् ॥
तथा भोगवती चेति विख्याता दक्षिणादिशि ।
पराशरस्तु ।
कर्कोटवनवासी[१८२] शिविकामणिकारकोङ्कणाभीराः ।
आकरवेणावर्त्तकदशपुरगोनर्दकेरलकाः ॥
कर्णाटमहाटविचित्रकूटनासिक्यकोलगिरिचोलाः ।
क्रौञ्चद्वीपजटाधरकावेर्या ऋष्यमूकश्च ॥
वैडूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः ।
गणराष्ट्रकृष्णवेल्लुपिशिकसूर्याद्रिकुसुमनगाः ॥
तुम्बवनकार्मणेयकयाम्योदधितापासाश्रमा ऋषिकाः ।
काञ्चीमरुचीपट्टनचर्यार्यकसिंहला ऋषभाः ॥
बलदेवपट्टनं दण्डकावनं तिमिङ्गिलाशना भद्राः ।
कच्छोदकन्दरदरीसताम्रपर्णीति विज्ञेयाः ॥
अथ प्रधानदेशा वटकणिकायाम् ।
अथ नैर्ऋतीदिग्देशाः । तत्र काश्यपः ।
नैर्ऋत्यां दिश्यमी देशाः सिन्धुपह्लवकच्छपाः ।
आभीराः शूद्रसौवीरा रैवताः क्रीतभीषणम् ॥
कालेयाः फलगिरयो वर्वराः खण्डमुञ्जकाः ।
यवना मार्गणानर्त्ताः कर्णप्राचेयकास्तथा ॥
किराता द्रविडाः सिन्धुस्त्रीमुखाः कपिलास्तथा ।
प्रभावमङ्गसंदेशं महासागर एव च ॥
पराशरस्तु ।
अथ प्रत्यग्दक्षिणस्यां महाराष्ट्रसिन्धुसुराष्ट्रसौवीरशूद्राभीरद्रविडकेतक सिन्धुकोलक हेमगिरिरैवतकानत्तकवाह्लीकयवनप-
ह्लववर्वरधूम्राम्बष्ठकर्णप्रवरकशिरोवासिनोऽतः परं महार्णवो यत्रौर्वकोषजोऽग्निर्वडवामुखः-इति ।
मार्कण्डेयपुराणे तु ।
काम्बोजाः पह्लवाश्चैव तथै वडवामुखाः ।
तथैव सिन्धुसौवीराः सानर्त्ता वनितामुखाः ॥
यवना मार्गणाः शूद्राः कर्णप्रावेयवर्वराः ।
किराताः पारताः पाण्ड्यस्तथा पारशवाः कुलाः ॥
प्रचुका हेमगिरिकाः सिन्धुकालकरैवताः ।
सौराष्ट्रवादराश्चैव द्रविडाश्च महार्णवाः ॥
एते जनपदाः पादे स्थिता वै दक्षिणापरे ।
वराहसंहितायां तु ।
नैर्ऋत्यां दिशि देशा: पह्लवकाम्बोजसिन्धुसौवीराः ।
वडवामुखारवाम्बष्टकपिलनारीमुखानर्त्ताः ॥
फेणगिरिपवनमार्गणकर्णप्रावेयपारशवशूद्राः ।
वर्वरकिरातषण्ढक्रव्यादाभीरचञ्जुमुखाः[१८५]॥
हेमगिरिसिन्धुकालकरैवतकसुराष्ट्रवादरद्रविडाः ।
स्वात्याद्ये भत्रितये ज्ञेयश्च महार्णवोऽत्रैव ॥
अथ प्रधानदेशा वटकणिकायाम् ।
स्वात्याद्ये सिन्धुसौवीरकपिलवनितास्यमार्गणानर्त्ताः ।
वर्वरमगधसुराष्ट्राः काम्बोजद्रविडरैवतकाः ॥
अथ पश्चिमदिग्देशाः । तत्र काश्यपः ।
पश्चिमेऽस्तगिरेः शृङ्गे महेन्द्रो नाम पर्वतः ।
महोपलो महाहेमशृङ्गः शानुभिराकुलः ॥
वामनः शृङ्गका वैश्या तारक्षुत्कशास्तथा ।
केशान्तिका हैहयाश्च निर्मर्यादाश्च ये नराः ॥
पराशरस्तु ।
अथ पश्चिमायां मणिमत्क्षरार्पणमेघवद्वनौघचक्रवदस्तगिरिप्रशस्ताद्रिमण्डिताः पञ्चनदकाशिब्रह्मवसतितारक्षितिपारतशान्तिकशिविरमहाशृङ्गिवायव्यगुडवासिजहैहयसत्कङ्गताजिकहूणपार्श्ववैकतकवोक्काणाः । अन्ये च गिरिवासिनस्त्यक्तधर्ममदार्या म्लेच्छजातयः ।
मार्कण्डेयपुराणे ।
मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तिगिरिस्तथा ।
अपरान्तिका हैहययाश्व शान्तिकादिप्रशस्तिकाः ॥
वोक्काणाः पञ्चनदका वामनाः पारतास्तथा ।
तार्क्ष्या ऋक्षाङ्गलकाः शर्कराः शाल्मवैश्यकाः ॥
गुरुपर्वाः फाल्गुनका वेणुमत्यां च ये जनाः ।
एकेक्षणाः शशरुहा दीर्घग्रीवास्तु सैनिकाः ॥
अश्वकेशास्तथा पुच्छे जनाः कूर्मस्य संस्थिताः ।
वराहसंहितायां तु ।
अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः ।
अपरान्तिकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ॥
पञ्चनदरमठपारततारक्षुभितं स[१८६]वैश्यकनकशकाः ।
निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च ॥
अथ प्रधानदेशा वटकणिकायाम् ।
ज्येष्ठादितोऽपरान्तिकशकहैहयभङ्गपाञ्चनदकतकाः ।
निर्मर्यादा म्लेच्छाः शान्तिकत्रोक्काणवैश्याश्च ॥
अथ वायव्यदिग्देशाः । तत्र पराशरः ।
अथ पश्चिमोत्तरस्यां दिशि गिरिमतिवेणुमतिरलमतिफाल्गुनकमाण्डव्यैकनेत्रमरुकुत्सतुषारताल [१८७]फलमद्रहलहंसवलाहानलानदीर्घकेशग्रीवाव्यङ्गाचर्मबङ्गखगशूलिगुरूहकुलाताः परमतः स्त्रीराष्ट्रम् -इति।
मार्कण्डेयपुराणे तु ।
माण्डव्याश्च तुषाराश्च अश्वफाललतास्तथा ।
कुलूतालद्रुमाश्चैव स्त्रीराष्ट्रलोहिकास्तथा ।
नृसिंहा वेणुमत्याश्च वनावस्थास्तथा परे ।
चर्मबङ्गास्तथा लूकास्तन्त्रकूर्चास्तथा जनाः ॥
तथा फाल्गुनका घोरा गुरुहा शूलिकास्तथा ।
एकेक्षणा वाजिकेशा दीर्घग्रीवास्तथैव च ॥
वामपादे जनाश्चैते स्थिताः कूर्मस्य भागुरेः ।
वराहसंहितायां तु ।
दिशि पश्चिमस्योत्तरस्यां माण्डव्यतुषारतालहलमद्राः ।
अश्मककूलूतहलडाः स्त्रीराष्ट्रनृसिंहवनखस्थाः ॥
वेणुमती फल्गुलुका गुलुहा मरुकुत्स[१८८]चर्मरङ्गाख्याः ।
एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥
अत्र प्रधानदेशा वटकणिकायाम् ।
विश्वेश्वरादिशूलिकतालतुषारैकनेत्रमाण्डव्याः ।
स्त्रीराज्यचर्मरङ्गाश्महलारुहककल्गुलुकाः ॥
अथोत्तर दिग्देशाः । तत्र काश्यपः ।
उत्तरस्यां तु कैलासं मरुमुत्तरजान् कुरुन् ।
विशातयः क्षुद्रपीनाः क्रौञ्चोऽथ हिमवान् गिरिः ॥
कैकया यमुनाश्चैव भोगप्रस्थाः क्षुरा नगाः ।
आदर्शाश्च त्रिगर्त्ताश्च उत्तराः केशधारिणः ॥
तक्षशिलाः पिङ्गलकाः कण्ठधाराश्च मानवाः ।
पुष्करावतकैराताश्चिपिटानासिकाश्च ये
मालवाः पिङ्गलाधर्मा यौधेया दासमेयकाः ।
हूणा हयमुखाश्चैव गान्धारा हेममालकाः ॥
राजन्याः खेचरा गव्याः श्यामकाः क्षेमधूर्त्तकाः ।
पराशरस्तु ।
अथोत्तरस्यां हिमवत्क्रौञ्चमधुमत्कैलाशवसुवन्मेरुनगोत्तरोत्तरमद्रपौरवयौधेयमालवशूरसेनराजन्यार्जुनायनत्रिगर्त्तकैकयक्षुद्रमालवकमत्स्यवसातिदर्भफलाफलाग्निस्थलपुस्थलशाकलक्षेमधूर्त्तदासमेयानहव्यमुरदण्डगव्यनव्यजनधानादाशेरकवाटधानान्तर्द्वीपगान्धारवन्दिसुरास्तुततक्षशिलालवणत्रिपुष्करावर्त्तयशोवतमणिवतिश्यामकशवरकोहलकनगरशरभूतिपुरकैरातकदशान्तदशपिङ्गलयामुनेयमणिकलद्गुणहेमतालाश्वमुखाः । हिवद्वसुमत्कैलाशक्रौञ्चत्पपरमभिजना-इति ।
मार्कण्डेयपुराणे तु ।
कैलासो हिमवाँश्चैव धनुष्मान् दर्दुरस्तथा ।
क्रौञ्चः कुरवकाश्चैव क्षुद्रमीनाश्च ये जनाः ॥
वशाभयः सकेकया भोगप्रस्थाः सयावनाः ।
अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्निक्षामार्जुनायनाः ॥
तथैवाश्वमखाः प्रान्ताश्चिपिटा: केशधारिणः ।
दासेरका वाटधानाः शरधानास्तथैव च ॥
पुष्करावर्त्तकैरातास्तथा तक्षशिलाश्रयाः ।
असुरा मालवा मुण्डाः कैशिकाः शरदण्डकाः ॥
पिङ्गला माणहलका हूणाः कोहलकास्तथा ।
मण्डव्या भूतिपुलकाः शातका हेमतालकाः ॥
यशोमत्स्याः सगान्धाराः खचराः सव्यवामकाः ।
यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ॥
क्षेमधूर्त्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ।
वराहसंहितायां तु ।
उत्तरतः कैलासो हिमवान् कुसुमान् गिरिधनुष्माँश्च ।
क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमीनाश्च ॥
कैकेयवसातियामुनभोगप्रस्थार्जुनायानाम्बष्ठाः ।
आदर्शान्तर्द्वीपत्रिगर्त्ततुरगाननाः श्वमुखाः ॥
केशधरचिपिटनासिकदासेरकवाटधानशरधानाः ।
तक्षशिलपुष्कलावतकैरातककण्टधानाश्च ॥
अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः ।
माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥
गान्धारयशोवतिहेमतालराजन्यखचरगव्याख्याः ।
यौधेयदासमेयाः श्यामाकाः क्षेमधूर्त्ताश्च ॥
अथ प्रधानदिग्देशा वटकणिकायाम् ।
शतभिषगाद्ये कैकयगान्धारा दर्शयामुनाश्चीनाः[१८९]।
दासेयचिपिटनासार्जुनायना दण्डपिङ्गलकाः ॥
अथैशानीदिग्देशाः । तत्र काश्यपः ।
ऐशान्यां दिशि काश्मीरं दरदश्व सतङ्गणाः ।
अभिसारकुलूता ये सौहृद्यं नष्टराज्यकम् ॥
चीनाः किरातकाम्बोजाः कौलिन्दा वनराज्यकाः ।
ब्रह्मपुरदीर्घलोलं पह्लवा एकपादकाः ॥
सुवर्णं भूरत्नं विश्वावसु धनं च जटाधरः ।
दिविष्ठाश्च धरा ये च कुलटाः कुचिकारिणः ॥
पौरवाश्चीतवसनास्त्रिनेत्रा: पुञ्जगा नगाः ।
पशुपालगणाध्यक्षाः कनकाचलवासिनः ॥
गान्धर्वाः कीरदेशाख्यदासमेया जनास्तथा ।
एतं कुर्मविभागेन विषया भारते स्थिताः ॥
पराशरस्तु ।
अथ प्रागुत्तरस्यां कौलृतपुरब्रह्मपुरकुलिन्ददिनपारतनष्टराज्यनवराष्ट्रवैमकेणभल्ल-सिंहपुरचामरतङ्गणसार्यकमाषकपार्वतकाश्मीरदरददार्वाभिसारजटाधरलोलसैरिन्ध्रिककारकौन्तलकिरातपशुपालचीनस्वर्णभूमिदेवस्थलदेवोद्यानानि ।
मार्कण्डेयपुराणे तु ।
मेरुकं नष्टराज्यं च पशुपालं सचोलकम् ।
काश्मीरं च तथा राष्ट्रमभिसारजनस्तथा ॥
दरदास्तङ्गणाश्चैव कुलटा वनराष्ट्रकाः ।
गिरिष्ठा ब्रह्मपुरकास्तथैव वनराज्यकाः ॥
किराताश्चीनकालिन्दा जनाः पहवलोलजाः ।
दीर्घा डामरकाश्चैव कुलटाश्चानुदीनकाः ॥
एकपादाः खशा घोषाः स्वर्णभौमाः सविश्वकाः ।
तथा वसुवनादिस्थाश्चीनप्रावरणाश्च ये ॥
त्रिनेत्रा: पौरवाश्चैव गन्धर्वाश्च द्विजोत्तम ।
पूर्वोत्तरे तु कूर्मस्य पादमेते समाश्रिताः ॥
वराहसंहितायां तु ।
अत्र प्रधानदेशा वटकणिकायाम् ।
राशेस्तदधिपस्य पीडायामपि राशिदेशानां पीडा भवति ।
तथा च मार्कण्डेयपुराणे ।
कूर्म देशास्तथार्क्षाणि देशेष्वेतेषु वै द्विज ।
राशयश्च तथार्क्षेषु ग्रहराशिष्ववस्थिताः ॥
तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ।
यस्यर्क्षस्य पतिर्यो हि ग्रहस्तद्धानितो भयम् ॥
तद्देशस्य मुनिश्रेष्ठ तथोत्कर्षे शुभागमे ।
मेषादयस्तयोर्मध्ये मुखे द्वौ मिथनादिकौ ॥
प्राग्दक्षिणे तथा पादे कर्किसिंहै। व्यवस्थितौ ।
सिंहः कन्या तुलश्चैव कुक्षौ राशित्रयं स्मृतम् ॥
तुला च वृश्चिकश्चोभौ पादे दक्षिणपश्चिमे ।
पृष्ठे च वृश्चिकश्चैव सहधन्वी व्यवस्थितः ॥
वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् ।
कुम्भमीनौ तथैवास्य उत्तरं कुक्षिमाश्रितौ ।
मीनमेषौ द्विजश्रेष्ठ पदे पूर्वोत्तरे स्थितौ ।
तस्माद्विज्ञाय देशर्क्षग्रहपीडां तथाऽऽत्मनः ॥
कुर्वीत शान्ति मेधावी लोकवादाँश्च सत्तम ।
आकाशाद्देवतानां च देशादीनां च दौर्हृदाः ॥
पृथिव्यां पतिता लोके लोकवादा इति स्मृताः ।
ताँस्तथैव बुधः कुर्याल्लोकवादान् न हापयेत् ॥
तेषां तु करणान्नृणामुक्तो दृष्टृाऽऽगमक्षयः ।
तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ॥
लोकवादाँश्च शान्तिं च ग्रहपीडासु कारयेत् ।
भूदोहानुपवासाँश्च शस्त्रचैत्यादिवन्दनम् ॥
जपं होमं तथा दानं स्नानं क्रोधादिवर्जनम् ।
दानं प्रभूतकनकादीनाम् ।
अक्रोधं सर्वभूतेषु मैत्रं कुर्यात् तु पण्डितः ।
वर्जयेदसतीं वाचमभिवादाँस्तथैव च ॥
ग्रहपूजां च कुर्वीत सर्वपीडासु मानवः ।
एवं शमन्त्यशेषाणि घोराणि द्विजसत्तम ॥
प्रयतानां मनुष्याणां ग्रहर्क्षत्थान्यसंशयम् ।
अथ कृत्तिकादीनामष्टमासिकः प्राकावर्त्तोक्तः फलपाकसमयः । राशेस्तु सामान्योक्तः संवत्सरः । अथ नाडीनक्षत्रपीडाफलम् । तत्र पराशरः ।
ग्ररैरुपहतं यस्य नक्षत्रमिह दृश्यते ।
विद्यात् पराभवं तस्य कर्म चास्य विपद्यते ॥ ·
चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ।
सांघातिकं षोडशकं यदृक्षं प्रसवर्क्षतः ॥
यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
दशमं जन्मनक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ॥
वैनाशिकं तु नक्षत्रं कर्मक्षयच्चतुर्दशम् ।
विष्णुधर्मोत्तरे ।
यस्मिन् भे जननं यस्य जन्मर्क्षं तस्य तत् स्मृतम् ।
चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ॥
दशमं जन्मन्नक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ।
सांघातिक षोडशं स्यान्नक्षत्रं प्रसवर्क्षतः ॥
यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
वैनाशिकं तु नक्षत्रं कर्मर्क्षाद्यच्चतुर्दशम् ॥
यन्नक्षत्रस्तु पुरुषः सर्वप्रोक्तो महीयते ।
राजा तु नवनक्षत्रान्नक्षत्रत्रितयं शृणु ॥
नित्यमभ्यधिकं षड्भ्यः पार्थिवस्य नृपोत्तम ।
देशाभिषेकनक्षत्रे जातिनक्षत्रमेव च ॥
जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ।
पूर्वात्रयं तथाऽग्नेयं ब्राह्मणानां प्रकीर्त्तितम् ॥
आदित्यमाश्विनं हस्तं शुद्राणामभिजित् तथा ।
सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ।
प्रतिलोमभवानां तु सर्वेषां परिकीर्त्तितम् ।
योगयात्रायां वराहः ।
जन्मर्क्षमाद्यं दशमं च कर्म सांघातिकं षोडशमृक्षमाद्यात् ।
अष्टादशं स्यात् समुदायसंज्ञं वैनाशिकं विंशतिभिस्त्रिभिश्च ॥
यत् पञ्चविंशं खलु मानसं च यदृक्ष एवं पुरुषस्तु सर्वः ।
राज्ञो नवर्क्षाणि विदन्ति जातिदेशाभिषेकैः सहितानि तानि ॥
कूर्मोपदेशादिह देशभानि राज्ञोऽभिषेकेऽहनि चाभिषेकम् ।
"पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ॥
सपौष्णमेत्रं पितृदैवतं न प्रजापतेर्भं च कृषीवलानाम् ।
आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवन्ति तानि ॥
मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ।
सौम्यं तु चित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ॥
सार्पं विशाखाश्रवणा भरण्यश्चाण्डालजातेरभिनिर्दिशन्ति”[१९४] ।
बृहद्यात्रायां च वराहः ।
जन्माद्यं कर्म ततो दशमं सांघातिकं च षोडशभम्।
समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥
नामानुरूपमेषां सदसत्फलमिष्टपापगुणदोषात् ।
ज्योतिः पराशरविष्णुधर्मोत्तरयोः ।
इह देहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।
कर्मर्क्षे कर्मणां हानिः पीडा मनसि मानसे ॥
मूर्त्तिद्रविणबन्धूनां हानिः सांघातिके हते ।
संतप्ते सामुदायिके मित्रभृत्यार्थसंचयः ॥
वैनाशिक विनाशः स्याद्देहद्रविणसम्पदाम् ।
पराशरस्तु ।
एतेष्वनुपतप्तेषु मानवो नोपतप्यते ।
ऋक्षेषु षट्सु युगपत् संतप्तेष्वाशु नश्यति ॥
विष्णुधर्मोत्तरे तु ।
पीडिते चाभिषेकर्क्षे राष्ट्रभ्रंशे विनिर्दिशेत् ।
देशर्क्षे पीडिते पीडां देशस्य च पुरस्य च ॥
पीडिते जातिनक्षत्रे राज्ञां व्याधिं विनिर्दिशेत् ।
वराहसंहितायां तु ।
रोगाभ्यागमवित्तनाशकलहाः संपीडिते जन्मभे
सिद्धिं कर्म न याति कर्मणि हते भेदस्तु सांघातिके ।
वित्तस्योपचितस्य सामुदायिके संपीडिते संक्षये
वैनाशे तु भवन्ति कायविपदश्चिन्तासुखं मानसे ॥
निरुपद्रुतभो निरामयः सुखभुङ्तष्टरिपुर्धनान्वितः ।
षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहावनीश्वरः ॥
योगयात्रायां वराहः ।
न भवति शरीरपीडा यस्य विना शान्तिभिः पीडा ।
तस्य शरीरविपत्तिं पाकान्ते देवलः प्राहः ॥
अथ शान्तिमाह पराशरः ।
तत्र जन्मर्क्षोपतापे श्वेतवृषभस्य शकृन्मूत्रं तद्वर्णायाश्च गोः
पयः कुशाँश्चोदकुम्भे निधायाभिषेचनं कुर्यात् ।
काश्यपश्च ।
श्वेतदन्तिशकुन्मत्रैः श्वेतगोपयसा कुशैः ।
कलशैरभिषेक्तव्यो जन्मर्क्षं यस्य पीडितम् ॥
विष्णुधर्मोत्तरे तु
शकृन्मूत्रे च संगृह्य श्वेतस्य वृषभस्य तु ।
श्वेतगोपयसा सार्धं स्नातव्यं शभवारिणा
सितगोक्षीरवृषभशकृन्मूत्रैः सह पूर्णकलशाद्यैः ।
स्नानं जन्मनि दुष्टेष्वाचारवतां हरति पापम् ॥
कर्मर्क्षपीडायां शान्तिमाह । पराशरः ।
कर्मर्क्षे गौरसर्षपप्रियङ्गुशतपुष्पीशतावरीभिरभिषिक्तो मधुघृतमिश्रमग्नौ हुत्वा दशरात्रं ब्रह्मचारी मांसक्षारक्षौद्रमद्यानि वर्जयेत् ।
काश्यपस्तु ।
शतावर्या प्रियङ्का च गौरवर्णैश्च सर्षपैः ।
शतपुष्प्याऽभिषेक्तव्यं कर्मर्क्षं यस्य पीडितम् ॥
जुहुयान्मधुसर्पिभ्यामयुतं तु जितेन्द्रियः ।
मधुमासं न भुञ्जीत कट्वाम्ललवणानि च ॥
विष्णुधर्मोत्तरे ।
सिद्धार्थकान् प्रियङ्गुं च शतपुष्पीं शतावरीम् ।
स्नातव्यमम्भसि क्षिप्त्वा कर्मर्क्षे तूपपीडिते ॥
वराहसंहितायां तु ।
कर्मणि मधुघृतहोमो दशाहमक्षारमद्यमांसादः ।
दूर्वाप्रियङ्गुसर्षपशतपुष्पशतावरीस्नानम् ॥
अथ सांघातिकनक्षत्रपीडायां शान्तिमाह पराशरः ।
सांघातिके प्रियङ्गुविल्वसितसर्षपशरलपिप्पलशतावरीचन्दनोदकैरभिषेकं कुर्यात् ।
काश्यपः ।
प्रियङ्का सर्पपैर्विल्वैः पिप्पलैः शरलैर्यवैः ।
चन्दनेन शतावर्या स्नानं सांघातिके हते ॥
विष्णुधर्मोत्तरे ।
प्रियङ्गुविल्वसिद्धार्थयवाश्वत्थासुरप्रियाः ।
चन्दनोदकसंयुक्ताः स्नानं सांघातिके हते ॥
वराहसंहितायां तु ।
सांघातिके तु तप्ते मांसमधुक्षौद्रमन्मथाँस्त्यक्त्वा ।
दान्तो दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति ॥
अथ सामुदायिकनक्षत्रपीडायां शान्तिमाह पराशरः ।
सामुदयिके सर्वगन्धसर्षपाक्षतैस्त्र्यहं स्नानं सुमनोभिरभिनवैः कुसुमैश्च द्विजानर्चयेत् ।
काश्यपस्तु ।
अक्षतैः सर्षपैः पुष्पैः सर्वगन्धसमन्वितैः ।
त्रिरात्रं स्नपने कुर्यात् सामुदये हतेऽशुभैः ॥
गन्धशास्त्रे ।
अगरुं कुङ्कुमे चन्द्रं चन्दनं च चतुःसमम् ।
सर्वगन्धमिति प्राहुः समस्तसुरवल्लभम् ॥
वराहसंहितायां तु ।
सामुदायिके तु दद्यात् काञ्चनरजतान्युपद्रुते धिष्ण्ये ।
अथ वेनाशिकनक्षत्रपीडायां शान्तिमाह पराशरः ।
वैनाशिक वृषशृङ्गोद्धृतमृद्विल्वोत्पलसोमशतपुष्प्यम्भसाऽभिषेकं कुर्यात् ।
काश्यपः ।
वैनाशिके वृषश्रृङ्गमृत्तिकोत्पलसंयुजा ।
शतपुष्प्या पूर्णकुम्भैः स्नानं दुरितनाशनम् ॥
विष्णुधर्मोत्तरे तु ।
सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।
शतपुष्या ससोमाख्यैः स्नानं वैनाशिकं भवेत् ॥
वराहसंहितायां तु ।
वैनाशिकेऽन्नपानं वसुधां तु गुणान्वितां दद्यात् ।
मानसेऽश्वत्थसितचन्दनशिरीषकुञ्जरमदाम्भसा सुस्नातस्तोयभवैः कुसुमैः सोममभ्यर्चयेत् । व्रतं चान्द्रायणमाचरेत् ।
काश्यपश्च ।
शिरोषं चन्दनं शुक्लं वारणस्य मदोदकम् ।
नीरजेैः फुल्लकह्लारैरुदकुम्भाभिषेचनम् ॥
व्रतं चान्द्रायणं कुर्यान्मानसे ह्युपतापिते ।
विष्णुधर्मोत्तरे तु ।
शिरीषचन्दनाश्वत्थगजदानाम्बुभिर्नरः ।
स्नातस्तु मानसे तप्ते तस्माद्दोषाद्विमुच्यते ॥
वराहसंहितायां तु ।
मानसतापे होमः सरोरुहै: पायसैर्द्विजा भोज्याः ।
गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम् ॥
अथाभिषेकदेशजातिनक्षत्रपीडायां शान्तिर्विष्णुधर्मोत्तरे ।
पीडिते चाभिषकर्क्षे सर्वरत्नोदकैस्तथा ।
पीडिते देशनक्षत्रे मृद्भिः स्नानं विधीयते ॥
मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ।
नदीकूलद्वयान्नद्योः सङ्गमात् सरसस्तटात् ॥
अश्वस्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात् ।
शकस्थानात् सवल्मीकाद्राजस्थानाद्वनालयात् ॥
गजशृङ्गोद्धृता चैव वृषशृङ्गोद्धृता तथा ।
सर्वबीजोदकस्नातो जातिनक्षत्रपीडनात् ॥
मुच्यते किल्विषाद्राजन् नात्र कार्या विचारणा ।
देवीपुराणे सर्वबीजानि ।
यवगोधूममुद्गानि शालिः षष्टिक आढकी । तिलमाषाः प्रशान्ती च श्यामाकाशररालकः ॥
आढकी तु रविप्रसारिनीवारः । रालकः कङ्गुः ।
विष्णुधर्मोत्तरे स्नानमन्त्रः ।
इदमापः प्रवृहतः स्नानमन्त्रः प्रकीर्त्तितः ।
स्नानं तथैवं नृपचन्द्र पश्चात् स्नानं प्रकुर्याद्गृहसंप्रविष्टम् ।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रपीडाभिहितं यथावत् ॥
पीडाकरस्याथ ततस्तु कार्या पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र ।
संपूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान् सकलान् जहाति ॥
अथैकदैव पीडितषड्नक्षत्रपीडायां शान्तिः । तत्र काश्यपः ।
उदुम्बरफलैर्विल्वेः शतावर्या प्रियङ्गुभिः ।
अथर्वशिरसा जप्तैस्तोयैः सर्वाभिषेचनम् ॥
वराहसंहितायां तु ।
सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् ।
सावित्र्या क्षोरितरोः समिद्भिरमरद्विजानुरतः ॥
पराशरः ।
यथानक्षत्रपूजां बल्युपहारमग्निहोमं च कुर्यात् ।
अथ दिनरात्र्योस्तारकदर्शनादर्शनफलं बार्हस्पत्ये ।
निर्निमित्तं ज्योतिषां चेद्दिवासंदर्शनं भवेत् ।
रात्रावनभ्रे यदि वाऽदर्शनं तद्विगर्हितम् ॥
वराहसंहितायाम् ।
व्यभ्रे निश्युडुनाशो दर्शनमपि वाऽह्नि दोषकरम् ।
मत्स्यपुराणे तु ।
रात्रावनभ्रगगने भयं स्यादृक्षवर्जिते ।
दिवा सतारे गगने तथैव भयमादिशेत् ॥
अरण्यकाण्डे खरवधनिमित्तम् ।
उदाभासद्दिवा चन्द्रस्तारागणसमन्वितः [१९५] ।
गार्गीये ।
यस्मिन् देशे दिवा तारा दृश्यते दिवि कर्हि चित् ।
तस्य देशस्य यो राजा सराष्ट्र: स विनश्यति ॥
वराहसंहितायाम् ।
त्रिदशगुरौ नृपतिवधो दिया दृष्टे .................।
पराशरस्तु ।
कदा चिद्दृस्यते यत्र दिवा देवपुरोहितः ।
राजा च म्रियते तत्र सर्वदेशो विनश्यति ॥
जन्मनक्षत्रादिस्थे बृहस्पतौ दिवा दृष्टे नृपवधः । अन्यत्र तु देशनाशः- इति ।
विष्णुधर्मोत्तरे ।
अकस्माद्यत्र दृश्येत दिवा देवपुरोहितः ।
राजा वा म्रियते तत्र सर्वदेशो विनश्यति ॥
पराशरः ।
अहः सर्वं यदा शुक्रो दृश्यते तु महाग्रहः ।
तदा चागन्तुभिर्ग्रामा बर्ध्यन्ते नगराणि च ॥
अहः सर्वमिति शौकं सकलसावनमित्यर्थः । सकलसौरसावनदिने भार्गवदर्शनासम्भवात् ।
वराहसंहितायाम् ।
दृष्टो मस्तगतोऽर्को भयकृत् क्षद्रोगकृत् समस्तगतः ।
अर्धदिवसे तु सेन्दुर्नृपपुरबलभेदकृच्छुक्रः ॥
मस्तगत इति पञ्चमुहूर्त्तोनप्रहरत्रयं यावत् । तत्रैव मस्तकस्थापयित्वादर्कस्य समस्तप्रहरिति प्रागेव व्याख्यातं तदयुक्तम् । अनस्तमितेऽपि सूर्ये सदैव पुष्टो भार्गवो दृश्यत एव यतः । अतो मस्तगत इत्येष एव पाठः ।
वटकणिकायाम् ।
यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।
अथ राश्यद्भुतानि । तत्र काश्यपः ।
चतुःपञ्चद्विसप्तस्थो नवदिमुद्रगो गुरुः ।
यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिकृत् स्मृतः ॥
द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः ।
शुक्रः सप्तरिपुस्थो वा हानिकृद्वद्धिगोऽन्यगः ॥
पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यगाः ।
वराहसंहितयोः ।
राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः ।
द्व्येकादशपञ्चाष्टमसंस्थ: शशिजश्च वृद्धिकरः ॥
षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकरः ॥
काश्यपः ।
इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु ।
भवन्ति तद्भवानां तु द्रव्याणां शुभदाः स्मृताः ॥
वराहसंहितायां तु ।
इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशोनाम् ।
तद्द्रव्याणां वृद्धिः सामर्धं सुलभताऽत्रैव ॥
काश्यपः ।
राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः ।
तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति च ॥
वराहसंहितायां तु ।
राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥
मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।
वराहसंहितयोस्तु ।
वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥
यवनेश्वरस्तु ।
भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वक्पत्रदग्धप्रहतक्षतानाम् ।
मनःशिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥
काश्यपः ।
वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।
वराहसंहितायां तु ।
गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।
यवनेश्वरस्तु ।
क्रीडाविहारस्त्रगपत्यनारीविद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥
काश्यपः ।
मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।
वराहसंहितायां तु ।
मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।
यवनेश्वरस्तु ।
पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥
द्वन्द्वार्थयोगो मिथुनौषधादिज्ञानोपदेशव्यवहारधीराः ।
नैपुण्यवैकारिकदम्भजीवा राशेस्तृतीयस्य नटाः सधूर्त्ताः ॥
काश्यपः ।
कर्कटे फलदूर्वादि कोद्रवः कदली तथा ।
वराहसंहितायां तु ।
कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।
यवनेश्वरस्तु ।
नारीतरस्विश्रुतवृद्धिविप्राः सरांसि वाप्यः कुमुदोत्पलानि ।
द्रव्याणि शीतानि मृदुद्रवाणि स्वादूनि संजीवनहर्षणानि ॥
नक्राः समण्डूककुलीरकूर्माः शाकानि पुष्पाणि च वारिजानि ।
फेनाः सकुन्ता जलजीविनश्च राशेश्चतुर्थस्य परिग्रहाः स्युः ॥
काश्यपः ।
सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडः ।
वराहसंहितयोस्तु ।
सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ।
यवनेश्वरस्तु ।
शैलाटवोशृङ्गविषास्थिकाष्ठत्वग्मांसरोमाजिनतान्तवानाम् ।
आरण्यजानां नखदन्तिशृङ्गिकुरुङ्गरूक्षोक्षुरसौषधीनाम् ॥
व्याधेष्टकृद्विप्रनृमुख्यभूभृन्मूर्छाग्निशौर्णिकञ्चनानाम् ।
ऋत्विग्भिषग्मन्त्रभृदुद्धतानां सिंहो निरुक्तो विभुरोजसां च ॥
काश्यपः ।
कन्या कुलत्थमुद्गानां नीवाराणां कलायकम् ।[१९६]
वराहसंहितयोस्तु ।
षष्ठेऽतसीकलायाः कुलत्थगोधूमनिष्पावाः ।
यवनेश्वरस्तु ।
कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥
काश्यपः ।
तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।
वराहसंहितायाम् ।
सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।
यवनेश्वरस्तु ।
तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकारे ॥
काश्यपः ।
वृश्चिकेक्षुरसं[१९७]सैक्यमाजं लोहं सकांस्यकम् ।
वराहसंहितायां तु ।
अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।
यवनेश्वरस्तु ।
श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥
काश्यपः ।
धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।
वराहसंहितायां तु ।
नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।
यवनेश्वरस्तु ।
हयद्विपाः शाकुवचक्रवाकवर्मास्त्रयोधायुधयप्रशाणाः ।
वेदाङ्गमन्त्रक्रतुहव्यभाण्डवेदान्तिकाचार्यमुनिक्रियाश्च
ज्ञानोपदेशागमवाग्वरिष्ठकाव्यस्मृतिव्याकृतिमङ्गलार्थाः ।
राष्ट्राण्यमात्यापुरमन्त्रिपौराः सुगन्धिनो यच्च सुगन्धि सत्त्वम् ॥
काश्यपः ।
मकरे शस्यसीने च सुवर्णगुडधातवः ।
वराहसंहितायां तु ।
मकरे तरुगुल्माद्ये सैक्येक्षुसुवर्णकृष्णलोहानि ।
यवनेश्वरस्तु ।
वन्या मृगा मन्त्रबलेक्षुपादानलद्विजाश्च ऋिमिशैवलाद्याः ।
दंष्ट्राविशिष्टा मकरादयोऽन्ये ससीसलोहायसधातुधान्याः ॥
कुशस्यधान्यानि सकाञ्चनानि वल्लीद्रमादीनि च सेकजानि ।
वैराणि जीवा मृगपक्षिनिम्ना मृगाश्रये यच्च जलाधिवासे ॥
काश्यपः ।
कुम्भे कुसुमचित्राणि हंसाश्च जलदोद्भवाः ।
वराहसंहितायां तु ।
कुम्भे सलिलजफलकुसुमरत्नचित्राणि हंसाश्च[१९८]।
यवनेश्वरः ।
तडागकूपप्रतिरोधबन्धसंप्रेक्ष्यचीनश्लथलोहिताङ्गाः ।
कुशस्यलोहायसकृष्णमांसश्वपाकचौरान्तरवद्धवृद्धाः
नपुंसकानौकृतिका जलोत्था विचित्रपुष्पाणि फलानि हंसाः ।
सुरासवाद्यम्बुचरा वकाद्या वटादयः कुम्भभृदाश्रयाः स्युः ॥
काश्यपः ।
पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।
वराहसंहितयोस्तु ।
मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि[१९९] ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥
यवनेश्वरस्तु ।
गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य पूजाजपहोमादिका शान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।
दिव्याश्रयः परिपूर्ण: ।
अन्तरिक्षाश्रये प्रतिसूर्याद्भुतावर्त्तः ।
तत्र शुभसूचकप्रतिसूर्यलक्षणं वटकणिकायाम् ।
प्रतिसूर्यकः प्रशस्तो दिवसकृदनुवर्णसुप्रभास्निग्धः ।
वैडूर्यनिभः स्वच्छः क्षेमसुभिक्षाय शुक्लश्च ।
अथ रवेरुदगादिषु प्रतिसूर्यफलं वराहसंहितायाम् ।
दिवसकृतः प्रतिसूर्यो जलकृदुग्दक्षिणे स्थितोऽनिलकृत् ।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥
विष्णुधर्मोत्तरे तु ।
प्रतिसूर्यस्तदग्जलकृत् दक्षिणेनान्ताद्वातकृत् । उभयस्थितो महावर्षाय । उपरि राजमृत्यवे । अधस्ताज्जनविनाशाय । उभयतो महाभयाय । सर्वतस्त्रिभुवनपीडावहो भवति ।
पराशरस्तु ।
तथा प्रतिसूर्यकेषु रवेः पूर्वतो युवराजस्य राज्ञो वधाय । दक्षिणपूर्वतोऽग्निवृद्धये । दक्षिणतो विग्रहाय । प्रत्यग्दक्षिणतो दस्युविनाशाय । प्रत्यग्वर्षदः । पश्चिमोत्तरतो वातवृष्टिदः । उत्तरतोऽतिवृष्टिकर: पूर्वोत्तरतश्च । सन्ध्यायां वहवश्च दृश्येरन् क्रमादिक्षु सकलनृपतिविनाशं कुमारवधं मरकभयं दस्युशस्यपीडामन्नक्षयं व्याधिशस्त्रकोपयजमानयाजकभयम् । पाखण्डिपीडां सप्रभे प्रतिसूर्ये । निष्प्रभे रवौ राष्ट्रवधं विद्यात् ।
वराहसंहितायाम् ।
उभयपार्श्वगतौ परिधी रवेः प्रचुरतोयकरौ वपुषाऽन्वितौ ।
अथ समस्तककुप्परिचारिणः परिधयस्तु कणोऽपि न वारिणः ॥
तथा च वराहसंहितायाम् ।
परिधेस्तु प्रतिसूर्यः-इति प्रतिसूर्यानुवृत्तौ ।
पराशरस्तु ।
परिधी उभयपार्श्वतः स्निग्धौ वर्षकरौ रूक्षौ विनाशनौ पृष्ठतो वा संग्रामाय । परिमण्डलाः कुम्भकुण्डाकृतयः प्रशस्ताः । विपरीता अन्ये शङ्खवैडूर्यपरिग्रहाः । स्निग्धाः प्रशस्ताः सन्निकृष्टाः प्रजाहिताय वर्षाय च पीते व्यायिभयं विद्यात् । ताम्रे शस्त्रकोपो भवति ।
दीप्ताग्निवर्णः कनकप्रभो वा सन्ध्यासु चेद्भास्करमावृणोति ।
कम्पे तु भूः खात् प्रपतेन्महोल्का राजा विनश्येत् सहितः प्रजाभिः॥
दीप्ताग्निवर्णः कनकप्रभो वा प्रतिसूर्यो भास्करमावृणोति तिरस्कुरुत इत्यर्थः ।
वटकणिकायाम् ।
पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
प्रतिसूर्याणां माला दस्युभयातङ्कतो नृपतिहन्त्री ॥
पराशरस्तु ।
सन्ध्यासपीपे यदि भास्करस्य दृश्येत माला प्रतिसूर्यकाणाम् ।
सूर्ये भवेयुः प्रचुराश्च वैरा रोगाश्च घोरा विविधप्रकाराः ॥
अत्रानुक्तविशेषाशान्तिषु प्रतिसूर्योत्पातेषु सावित्रीमश्रकलशदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिफललगुरुलाघवमवगम्य कर्त्तव्या ।
मयूरचित्रे ।
उदीयमाने सूर्ये च दृश्यते च प्रतिसूर्यकः ।
त्रीण्यब्दानि भवेत् त्रासो मासार्धेन न संशयः ॥
अत्र साधारणी शान्तिः कर्त्तव्या भतिमिच्छता ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे प्रतिसूर्याद्भुतावर्त्तः ।
अथ परिवेषाद्भुतावर्त्तः ।
तत्र परिवेषम्बरूपमाह पराशरः ।
अथ परिवेषा वाताभ्ररश्मि विकारसमुत्थाननं चन्द्रे सूर्ये वा सद्यः फलमादिशेदतः सप्तरात्राद्वा यावद्दर्शने भेदे ।
वराहसंहितायां तु ।
सम्मूर्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषः ॥
अत्र गवीन्द्वोरित्युपलक्षणम् । ग्रहाणां नक्षत्राणां चेति बोद्धव्यम् ।
तदुक्तं भार्गवीये ।
गृहीत्वा भूरजः सूक्ष्मवर्णं पांशुं नियम्य च ।
पीडामहति योगेन मरुता मण्डलीकृतात् ॥
हिता हितार्थलोकानां ज्योतींष्युपरुणद्धि वै ।
नक्षत्रग्रहताराणां शशिनो दिनपस्य च ॥
निविष्टो भाव आगन्तुः परिवेष इति स्मृतः ।
रक्तवर्णादयः परिवेषा नव इन्द्रादिदिक्पालकृताः ।
तथा च वराहसंहितायाम् ।
ते रक्तनीलपाण्डुरकापीताभ्राभशवलहरितशुक्लाः ।
इन्द्रयमवरुणनैर्ऋतिश्वसनेशपितामहाग्निकृताः ॥
धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये ।
अतः परं प्रवक्ष्यामि नक्षत्रेषु ग्रहेषु च ।
परिवेषान् बहुविधान् नानाविधफलोदयान् ॥
ऐन्द्रवारुणकौवेरान् रक्तपाण्डुरमेचकान् ।
पाण्डून् वभ्रूँश्च नीलाँश्चानलानिलयमात्मकान् ॥
प्राजापत्याँश्च रौद्राँश्च नैर्ऋत्याँश्चैव भार्गवान् ।
हरिच्छवलकापोतान् परिवेषानुवाच ह ॥
नवैते परिवेषाणां वर्णा दैवतयोनयः ।
बहुत्वमेते गच्छन्ति अन्योन्यगुणसंश्रयात् ॥
एवं ते सर्व एव स्निग्धाः शुभावहा भवन्ति ।
तथा च काश्यपः ।
सितपीतेन्द्रनीलाभा रक्ताः कापोतवभ्रवः ।
शवलाग्निमेचकाः स्निग्धा विज्ञेयास्ते शुभवहाः ॥
अथापरोऽपि वायुकृतः परिवेषो वराहसंहितायामुक्तो यथा ।
प्रविलीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः ।
भार्गवीये तु ।
धूमकर्पूरमाञ्जिष्ठरक्तपीतासिताकृतिः ।
भवत्येकतरे पार्श्वे रूपणाविलमण्डलः ॥
तनुना वाऽभ्रजालेन समन्तात् परिवारितः ।
मुहुर्मुहुश्च विलयं सन्धानं वाऽपि गच्छति ॥
सोऽपि वायुकृतो ज्ञेयो मृदुमन्ददिवाकरः ।
परिवेषोऽल्पफलदो वातवृष्टद्युपबृहितः ॥
अथ चेद्वातवृष्टिस्तु त्रिरात्रान्नोपजायते ।
ज्वलज्ज्वलनचौराणां प्रादुर्भावः प्रजायते ॥
स्निग्धो मधुघृतशिखिचाषपत्रनीलाब्जरत्ननिभः ।
क्षेमसुभिक्षाय भवेत् परिवेषोऽर्कस्य शशिनो वा ॥
वराहसंहितायां च ।
वर्णेनैकेन यदा वहलः स्निग्धः क्षुराभ्रसंकीर्णः ।
स्वर्त्तौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥
क्षुरः कोकिलाक्षपुष्पं तद्वर्णमभ्रं क्षुराभ्रम् | मध्यदिने तु शस्त्रोत्पाताय वर्षाय वा ।
भार्गवीये ।
मयूरगलशङ्खेन्दुमुक्तागोक्षुरपाण्डुराः ।
मधूकघृतमण्डाभा दूर्वाश्यामाश्च वृष्टये ॥
पराशरः ।
अखण्डा विकृता सद्योजाः श्वेताः स्निग्धाश्च नताः परिवेषाः सद्यो वर्षाय वा ।
वराहसंहितायां तु ।
शिखिगलसमेऽतिवर्षं बहुवर्णे नृपवधो भयं धूम्रे |
हरिचाषनिभे युद्धान्यशोककुसुमप्रभे वाऽपि ॥
विष्णुधर्मोत्तरे ।
बहुवर्णे परिवेषे प्रजापीडा स्यात् । विवर्णा एवार्धचन्द्राकृतयो वहिर्ज्योतिष्मत्यः सेनावधाय ।
भार्गवीये ।
रक्ते पीते सिते ताम्रे कृष्णेऽथ हरितेऽरुणे ॥
क्षुच्छस्त्रव्याधिवर्षाग्निमृत्युशस्त्रानिलाय च ।
वर्णानां तु भयं ज्ञेयं यथावर्णपरिग्रहः ॥
कपोतः सबलश्चापि तिर्यग्योनौ व्यवस्थितौ
मौशले वृष्टिवंशक्षयनिमित्तम् ।
“परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसर्ययोः ।
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः"[२००] ॥
पराशरस्तु ।
धूम्रवर्णोऽग्निवर्णो वाऽग्निभयाय । अतिमात्रं रक्तः शस्त्राय पीतो व्याधये । कृष्णो विरुद्धानामन्योन्यवधाय वर्षाय च । परुषोऽन्योन्यवधायैव । नील उपायतो वलस्यैकदेशोपघाताय । लोहितश्चौराणाम् । कपिलो ब्राह्मणानाम् । पीतवर्णः संधानाय । पाण्डुरो निःश्रेयसे । समवायेषु तु द्वादशसु कालकालपरुषपरुषहरितहरितनीलनीलताम्रताम्रकपिलक- पिलारुणारुणरक्तरक्तशुक्लशुक्लपीत।पीतपाण्डुकृष्णेषु द्वयोर्वर्णयोः पूर्वः पूर्वो वर्णो गरीयान् । अभ्यन्तरोऽभ्यन्तराणां बहिर्बाह्यानां त्रीणि चन्मण्डलानि स्युरन्तलोहितं मध्ये पीत बहिः श्वेतं स्यात् बाह्यस्य राज्ञो जयाय अभ्यन्तरस्य च वधाय विपर्यये विपरीतम् । अभ्यन्तरतः कुलीनमेवाभिषिञ्चति । अन्तपीतके रक्तमध्ये बहिःश्वेते इति ।
भार्गवीये ।
यायिनां स्थावराणां च तथैवाक्रन्दसारिणाम् ।
परिवेषाद्विजानीयाद्वाह्यभ्यन्तरमध्यतः ॥
वराहसंहितायां च ।
नागरकाणामभ्यन्तरस्थितानां यायिनां च बाह्यस्थाः ।
परिवेषमध्यरेखा विज्ञेयाऽऽक्रन्दसाराणाम् ॥
रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम् ।
स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस्तेषाम् ।
भार्गवीये तु ।
सरक्तः श्यामकलुषो येषां भागो हतप्रभः ।
तेषां पराजयं विद्यात् स्निग्धे तेषां च वै जयः ॥
येन येनात्र वर्णेन यो यो भागोऽनुरज्यते ।
तत्र तेषां फलं विन्द्याद्भक्त्यादिषु प्रकीर्त्तितम् ॥
अथ शुभसूचकपरिवेषलक्षणम् ।
वराहसंहितायाम् ।
चाषशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः ।
अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥
अथाशुभपरिवेषलक्षणं । भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“परिवेषस्तथा घोरः चन्द्रभास्करयोरभूत् ।
वेदयानो भयं घोरः राज्ञां देहावकर्तनम्"[२०१] ॥
घोरो भयानकः पापफल इत्यर्थः ।
तथा च वराहसंहितायाम् ।
सकलगगतानुचारी नैकाभः क्षतजसन्निभो रूक्षः ।
असकलशकटशरासनशृङ्गाटकवत् स्थितः पापः ॥
वटकणिकायाम् ।
शृङ्गाटकचाषोरगशकटनिभः परुषमूर्त्तिरतिबहुलः ।
सकलगगनानुचारी बहुवर्णश्चानुबन्धी च ॥
द्वित्रिगुणः खण्डो वा त्रिसन्ध्यमभ्युच्छ्रितो ग्रहच्छादी ।
परिवेषः पापफलो ग्रहरोधी हन्ति तद्भक्तान् ॥
भार्गवीये ।
तापतीक्ष्णार्ककिरणे प्रसन्नाम्बरमण्डले ।
लोहिताख्ये क्षुरभ्रान्ते सरश्मौ पीतमण्डले ॥
अप्रकाशाद्दिनपतेरानक्षत्रानुगामिनि ।
सान्द्राभतारस्तनिते परिवेषे प्रकाशिनि ।
अनृतावपि जानीयान्महद्भयमुपस्थितम् ।
कृष्णनीहारतिमिरैः संप्रत्याक्रान्तमण्डले ।
विकारैर्नाभसैः कीर्णैः स्फुलिङ्गोपचितेऽशुभे ॥
विषमे विगतस्त्रेहे विध्वस्तकलुषाद्भुते ।
त्रिषु सन्धिषु भूयिष्ठे दर्शनं चोपगच्छति ॥
द्वित्रिनक्षत्रगे वाऽपि नक्षत्रार्धगतेऽपि च ।
प्रदीप्तैर्वा रसद्भिश्च वीक्षमाणैर्मृगद्विजैः ॥
परिवेषं विजानीयान्नृपोत्थानमुपस्थितम् ।
सप्तरात्राद्भयं घोरं चौरशस्त्राग्निमृत्युभिः ॥
अरण्यकाण्डे खरवधनिमित्तम् ।
"श्यामं च रक्तपर्यन्तं बभूव परिवेषणम् ।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम्"[२०२] ॥
हरिवंशमत्स्यपुराणपद्मपुराराणेषु हिरण्यकशिपुवधनिमित्तम् । सूर्य इत्यनुवृत्तौ ।
"गगनस्थश्च भगवान् सततं परिविष्यते”[२०३]।
गगनस्थो दशमस्थो मध्याह्न इत्यर्थः ।
वराहसंहितायाम् ।
प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथ वा ।
रक्तोऽस्तमेति रक्तोदितश्च भूयः करोत्यन्नम् ॥
विष्णुधर्मोत्तरे ।
उदयास्तमने भानोः चन्द्रस्य च यदा भवेत् ।
परिवेषस्तदा राजा क्षिप्रमेव विनश्यति ॥
वराहसंहितायाम् ।
प्रतिदिनमर्कहिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः ।
परिविष्टयोरभीक्ष्णं लग्नास्तमयोर्भयं[२०४] तद्वत् ॥
गर्गः ।
उदयेऽस्तमये मध्ये सूर्याचन्द्रमसोर्दिवि ।
परिवेषः प्रदृश्येत तद्राष्ट्रमवसीदति ॥
वराहसंहितायाम् ।
दीप्तमृगविहङ्गमरुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् ।
भयकृत् तडिदुल्काद्यैर्हतो नृपं हन्ति शस्त्रेण ॥
गर्गः ।
दिवा सूर्ये परीवेषो रात्रौ चन्द्रे यदा भवेत् ।
एकस्मिँस्तदहोरात्रे तदा नश्यति पार्थिवः ॥
विष्णुधर्मेत्तरे ।
सकलं यदहः सूर्यो रात्रिं चेत् सकलां शशी ।
परिवेषो भवेद्राजा तत्रापि वधमृच्छति ॥
पराशरस्तु ।
सोमसूर्ययोः सकलाहोरात्रपरिवेषणं क्षुद्व्याधिभयैः प्रजानाशाय -इति ।
मयूरचित्रे ।
विक्षिप्तमण्डले रूक्षे परिवेषेऽर्कचन्द्रयोः ।
वृष्टिं तत्र विजानीयाद्विपर्यासे विपर्ययः ॥
रक्ताभे परिवेषे च रवेः स्याद्भूपतेः क्षयः ।
चन्द्रस्य तु चमूनां तु सम्प्रभस्याप्रभस्य च ॥
गर्गः ।
द्विमण्डलपरीवेषः सेनापतिवधङ्करः ।
युद्धं सुदारुणं कुर्यात् दृश्यते मण्डलैस्त्रिभिः ॥
भार्गवीये ।
द्वाभ्यां सेनापतिभयं युवराजभयं त्रिभिः ।
मण्डलैः पुररोधः स्यात् त्रिभिरभ्यधिकं ध्रुवम् ॥
पराशरस्तु ।
सन्ध्ययोश्चेत् सप्तमण्डलानि सूर्येऽभीक्ष्णं दृश्येरन् उपतापस्तस्य देशस्यमरकः स्यात् क्षुच्छस्त्रकोपाभ्यामन्योन्यविरोधाच्च ।
अथ नक्षत्रग्रहावरोधकं चन्द्रपरिवेषफलम् । तत्र पराशरः ।
यत्र त्रीण्यवरुध्येरँश्चन्द्रमाः सनक्षत्रो ग्रहस्तव्यहाद्देवो वर्षति मासाद्वा भयं ब्रूयात् ।
गर्गश्च ।
त्रयो यत्रावरुध्येरन् नक्षत्रं चन्द्रमा ग्रहः ।
त्र्यहाद्वर्षं समाचष्टे मासाद्वा विग्रहं महत् ॥
वराहसंहितायां च ।
वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे ।
होराजन्माधिपयोर्जन्मर्क्षे वाऽशुभो राज्ञः ॥
वेति व्यवस्थितविकल्पः । आत्मनः शत्रोर्वा जन्माधिपे लग्नाधिपे जन्मनक्षत्रे च परिवेषाभ्यन्तरे मासेन विग्रहो भवति । अन्यथा वृष्टिः । विग्रहे सति यस्य जन्माधिपादयः परिवेषावरुद्धास्तस्य राज्ञः पराजयोऽन्यस्य जय इति बोद्धव्यम् ।
सूर्यपरिवेषे तत्फलं गणितेनानुमाय वक्तव्यम् । अत एव बृहद्यात्रयां वराहः ।
परिवेषोऽर्कशशिनोः शत्रुपक्षग्रहैः सह ।
स्निग्धोऽखण्डश्च जयदः पापदो भयमण्डलः ॥
शत्रुपक्षा ग्रहाः शत्रोर्जन्माधिपहोराधिपराज्याधिपवर्त्तमानदशाधिपाः । अत्र शत्रुपक्षप्रहैरित्युपलक्षणम् । शत्रुपक्षीयजन्मादिनवनक्षत्रैरवबोद्धव्यमिति ।
अथ रविचन्द्रपरिवेबाभ्यान्तरस्थभौमादिग्रह फलं वटकणिकायाम् ।
बलपपुरोहितनरपतिकृषिकृत्पीडा क्रमेण परिविष्टैः ।
कुजगुरुसितार्कपुत्रैः सौम्येन तु मन्त्रिपरिवृद्धिः ॥
केतोः शस्त्रोद्योगो राहोः परिवेषणेन रोगभयम् ।
राज्ञः शस्त्रेण निधनं पिनद्धे दैत्यमन्त्रिणि ।
सौरे स्यादम्भसा पीडा जीवे राज्ञः पुरोधसाम् ॥
बुधे ज्ञानिवधो भौमे दस्युशस्त्राग्निसम्भवः ।
भार्गवीये तु ।
सेनापतिकुमारणां सेनायाश्चापि विद्रवः ।
लोहिताङ्गपरीवेषे शस्त्राग्न्युत्पात एव च ॥
मन्त्रिणो लेखकाश्चापि वर्धन्ते स्थावराणि च ।
वृष्टिं चापि विजानीयात् परिविष्टे बुधे ग्रहे ॥
पुरोहितामात्यनृपा हन्युरन्योन्यमेव च ।
पुररोधं विजानीयात् परिविष्टे बृहस्पतौ ।
यायिनः क्षत्रियाँश्चापि नृपयत्नीश्च पीडयेत् ।
धान्यार्घं पृथु कुर्याच्च परिविष्टे भृगोः सुते ॥
स्थावरान् कर्षकाँश्चापि क्षुद्रधान्यं न पीडयेत् ।
वातवृष्टिं च जनयेत् परिविष्टः शनैश्वरः ॥
बाह्यमेवहि गर्भाँश्च राहुः पीडयते ध्रुवम् ।
व्याधीँश्चैव हि जनयेत् परिविष्टः सचन्द्रमाः ॥
क्षुच्छस्त्राग्निभयं घोरं राजतो मृत्युतस्तथा ।
परिविष्टश्च केतुः शिखिनश्च हिनस्ति सः ॥
वराहसंहितायां तु ।
भौमे कुमारवलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् ।
मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च ॥
जीवे परिवेषगते पुरोहितामात्यनृपपीडा ।
शुक्रे यायिक्षत्रियराज्ञी पीडा प्रियं चान्नम् ॥
परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः ।
परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ॥
क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ ।
रविचन्द्रपरिवेषाभ्यन्तरभृग्वादिग्रहफलं वटकणिकायाम् ।
युद्धं क्षुद्भयनृपनाशमृत्यवो व्याधिभिः क्रमशः ।
भार्गवीये तु ।
द्वयोः संग्राममाचष्टे ग्रहयोः परिविष्टयोः ।
क्षुुद्भयं त्रिषू विज्ञेयं वर्षनिग्रह एव च ॥
चतुर्भिम्रियते राजा सामात्यः सपुरोहितः ।
युगान्त इति जानीयात् परिवेष्टेषु पञ्चसु ॥
वराहसंहितायां च ।
युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः ।
दिवसकृतः शशिनो वा क्षुद्वष्टिभयं त्रिषु प्रोक्तम् ॥
याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः ।
प्रलयमिव भवति जगतः पञ्चादिषु मण्डलस्थेषु ॥
रविचन्द्रपरिवेषाभ्यन्तरस्थौ यदि द्वौ ग्रहौ यायिनागरौ भवतस्तदाऽतिदारुणं युद्धं शीघ्रं भवति ।
तथा च काश्यपः ।
परिवेषाभ्यन्तरस्थौ द्वौ ग्रहौ यायिनागरौ ।
युद्धं तत्र भवेत् क्षिप्रं घोररूपं सुदारुणम् ॥
अनावृष्टिः क्षुद्भयं च परिवेषगतैस्त्रिभिः ।
चतुर्णां परिविष्टानां राज्ञां च मरणं भवेत् ॥
मण्डलान्तर्गताः पञ्च पृथिव्यां भयदाः स्मृताः ।
अथ पृथक् ताराग्रहाणां नक्षत्राणां च परिवेषफलम् । तत्र पराशरः ।
ग्रहाणां परिवेषो यथास्वं पीडयति नक्षत्राणां च - इति ।
भार्गवीये ।
ताराग्रहरीवेषो नपक्षत्राणां च केवलम् ।
महाग्रहोदयं कुर्यान्मरणं वा महीपतेः ॥
महाग्रहः केतुः ।
पृथक् ताराग्रहस्यैव नक्षत्राणामथापि वा ।
परिवेषो यदा दृश्यस्तदा नरपतेर्वधः ॥
यदि केतूदयो न स्यादन्यथा तद्भवेत् फलम् ।
वराहसंहितायां तु ।
ताराग्रहस्य कुर्यात् पृथगेव समुत्थयोर्नरेन्द्रवधः ।
नक्षत्राणामथ वा यदि केतोर्नोदयो भवति ॥
अथ प्रतिपदादितिथिषु फलं भार्गवीये ।
ब्रह्मक्षत्रियविट्शूद्रान् हन्यात् प्रतिपदादिषु ।
ग्रामान् पुरं च कोषं च पञ्चम्यादिषु तु त्रिषु ॥
अष्टम्यां युवराजं च चमूपालान् हिनस्ति वै ।
नवम्यां च दशम्यां च एकादश्यां च पार्थिवान् ॥
त्रयोदश्यां बलक्षोभो द्वादश्यां रुध्यते प्रजा।
राज्ञीपीडा चतुर्दश्यां पञ्चदश्यां नृपस्य च ॥
वराहसंहितायाम् ।
ब्रह्मक्षत्रियविशूद्रहा भवेत् प्रतिपदादिषु क्रमशः ।
श्रेणीपुरकोषाणां पञ्चम्यादिष्वशुभकारी ।
युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः ।
पुररोधी द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् ॥
नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् ।
कुर्यात् तु पञ्चदश्यां पीडां मनुजाधिपस्यैव ॥
परिवेषमण्डलं यस्यां दिशि भिद्येत दारुणम् ।
तस्यां दिशि विशेषेण विद्यात् तीव्रतरं फलम् ॥
भार्गवीये ।
छिद्राण्येव त्रीणि च स्युर्महान्ति विमलानि च ।
तैर्द्वारैः पार्थिवो यायात् प्रच्छन्नास्तु विशङ्कटाः ॥
प्रच्छन्ना या दिशस्ता विशङ्कटा दुर्गाद्याः ।
विष्णुधर्मोत्तरे तु ।
यतः खण्डपरीवेषस्तां दिशं नृपतिर्यायात् ।
भार्गवीये तु ।
कालाम्बुदपरिस्रावग्रहोदयनिमित्तजम् ।
इत्येवं जन्म सर्वेषां शेषमुत्पातलक्षणम् ॥
पराशरः ।
सर्व एव सन्ध्ययोर्दृश्यमाना वर्षासु वर्षकाः स्युरन्यर्त्तौ भयाय ।
अत्रानुक्तविशेषशान्तिषु परिवेषोत्पातेषु परिविष्टग्रहनक्षत्रदेवतापूजापूर्विका सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
मत्स्यपुराणे ।
परिवेषेऽपि वृष्टिविकारविहिता शान्तिः कर्त्तव्या-इत्युक्तम् । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।
अथ विहितविशेषशान्तयः परिवेषोत्पाता मयूरचित्रे ।
परिवेषे समुत्पन्ने शुक्लादौ ब्राह्मणादयः ।
हतप्रभा वा जायन्ते तथा शक्रधनुर्निभे ॥
औदुम्बराणां पञ्चैव सहस्राणि समाहितः ।
अष्टोत्तरं घृताक्तानां शतमष्टोत्तरं तथा ॥
पायसं भोजयेद्विद्वान् दधिक्षीरगुडोदनैः ।
इति षोडशी शान्तिः ।
सप्तहात् परिवेषफलपाक इति वराहेणोक्तम् ।
गार्गीये ।
ग्रहाणां परिवेषेषु त्रिरात्रात् फलमादिशेत् ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे परिवेषाद्भुतावर्त्तः ।
अथेन्द्रधनुरद्भुतावर्त्तः ।
तत्रेन्द्रधनु: स्वरूपं वराहसंहितायाम् ।
सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे ।
वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥
विन्ध्यवासिन[२०५] इयमार्या वराहेण लिखिता ।
वराहसंहितायां तु ।
के चिदनन्तकुलोद्भवनिश्वासोद्भुतमाहुराचार्याः ।
तथा च काश्यपः ।
अनन्तकुलाजाता ये पन्नगाः कामरूपिणः ।
तेषां निश्वाससम्भूतं शऋचापं प्रचक्षते ॥
अथ शुभ सूचकेन्द्रधनुर्लक्षणम् । तत्र काश्यपः ।
स्निग्धवर्णं घनश्यामं सर्वत्र दिशि दृश्यते ।
बहूदकं सुभिक्षं च शिवं शस्यप्रदं भवेत् ॥
वराहसंहितायाम् ।
चापमैन्द्रमनुलोममखण्डं प्रोज्ज्वलं वहलमातपमिष्टम्[२०६] ।
तथा च ।
अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम् ।
द्विरुदितमनुलोभं च प्रशस्तमम्भः प्रयच्छति च ॥
अनुलोममिति यात्रासमये बोद्धव्यम् । यात्रायामेव बहुभिरेवम्भूतस्य धनुषः प्राशस्त्याभिधानात् ।
तथा च ऋषिपुत्रः ।
द्विरुद्गतमविच्छिन्नं स्निग्धमिन्द्रायुधं महत् ।
पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु ॥
तथा च नन्दी ।
बहुवर्णमविच्छिन्नं द्विरुद्गतं स्निग्धममरपतिचापम् ।
पश्चात् पार्श्वे चापि प्रयाणकाले रिपु वधाय॥
बृहस्पतिः ।
नीलताम्रमविच्छिन्नं द्विगुणं स्निग्धमायतम् ।
पृष्ठतः पार्श्वयोर्वाऽपि जयायेन्द्रधनुर्भवेत् ॥
मयूरचित्रे ।
सन्नाहकाले सैन्यानां[२०७] वक्रमिन्द्रायुधं यदि ।
पक्षयोरुभयोर्मृत्युस्तढेत्याहुर्मनीषिणः ॥
पराशरः ।
प्रविच्छिन्ने बहुरागे स्निग्धवातानुबन्धे सद्यो वर्षं तथा कृष्णे स्निग्धे नीलाभ्रवृक्षत्रयस्थे सूर्येऽप्येवम् ।
अथाशुभसूचकेन्द्रधनुर्लक्षणमाह पराशरः ।
स्निग्धे समद्रद्विनगे वा वर्षमनृतौ भयं च ।
अथ वर्णफलं वराहसंहितयोः ।
पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ।
पराशरस्तु ।
रक्तमाञ्जिष्ठे श्यामारुणनीलपीतके भयम् । परुषे राजमृत्युं सर्वस्मिन्नेव च ।
अथ दिक्फलं काश्यपः ।
अनावृष्ट्यां भवेद्वर्षमैन्द्र्यां वर्षत्यवर्षणम् ।
पश्चिमायां भवेद्वर्षं सदा कार्मुकसंस्थितौ ॥
विन्ध्यवासी च ।
कुरुते वृष्टौ वृष्टिं निहन्ति तामेव शक्रदिशि ।
कथयति सदैव वृष्टिं धनुरैन्द्रं पश्चिमाशायाम् ॥
वराहसंहितायां च ।
वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्रयाम् ।
पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥
पराशरस्तु ।
पश्चिमश्चेति सूर्ये तिष्ठत्यनुदेशं पुरस्तादृश्येत क्षेमाय स्यात् तनुवर्षाय विपरीतं वर्षविघाताय।
सन्ध्याकाले निवृत्ते तु पुनर्वषाय वर्षति ।
विपरीतमवर्षाय वर्षायैव तु पश्चिमम् ॥
वराहसंहितयोः ।
विदिगुद्भूतं दिक्स्वामिनाशनम् ..............।
पराशरः ।
प्रागुत्तरस्यां दिशि श्वेतवर्णचापदर्शनं दुर्भिक्षाय ।
अथ स्थानफलं वराहसंहितयोः ।
जलमध्येऽनावृष्टिर्भुवि शस्यवधस्तरुस्थिते व्याधिः ।
वल्मीके शस्त्रभयम्'.................-इति॥
अथावष्टब्धादित्येन्द्रधनुः फलं वराहसंहितायाम् ।
सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः ।
पराशरः ।
सूर्यं भूमिं चेद्विष्टभ्यति तदा पुरोहितवधः । सन्ध्ययोश्च सूर्याचन्द्रमसौ परिरभ्य विन्द्यान्मस्त्रिसेनानायकानामनामयम्-इति । शत्रुभिरुपरुद्धे पुरे यदि सपरिषात् सूर्यात् सादितमिन्द्रधनुर्भवति तदा पुरमोक्षदं भवति न नृपतिविरोधप्रदम् ।
यदुक्तं मयूरचित्रे ।
उपरुद्धं दिवानाथं शक्रचापं रुणद्धि चेत् ।
त्वरितं पुरमोक्षः स्यादिति गर्गेण भाषितम् ॥
अथ समयफलं पराशरः ।
अनृतौ संस्थानकाले चेद्गर्भसामर्थ्यकरमिन्द्रधनुः शेषकाले तु भयदम्-इति ।
संस्थानकाले मेघगर्भाधानकाले ।
अत्रानुक्तविशेषशान्तिष्विन्द्रधनुरुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
चन्द्रादित्यावरोधके त्विन्द्रधनुषि तत्पूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका शान्तिः कर्त्तव्या ।
अथ साधारण्यपि शान्तिर्मयूरचित्रे विहिता। तां शान्त्यद्भुतावर्त्ते लिखिष्यामः ।
अथ रात्राविन्द्रधनुरद्भुतानि । तत्र वर्णफलमौशनसे ।
श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रविनाशम् ।
वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥
पराशरस्तु ।
रात्रौ श्वेते ब्राह्मणानाम् । रक्त क्षत्रियाणां च । पीते विशाम् । कृष्णे शूद्राणाम् । यथाष्टदिक्षु चैषामयनं ब्रूयात् । सर्वासु दिक्षु तु रूक्षे विच्छिन्ने गणानाम् ।
वराहसंहितायाम् ।
निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यानचिराद्धन्यात् ॥
रात्रौ चेदृश्यते चापं भयं भवति दारुणम् ।
मयूरचित्रे ।
निशांयामिन्द्रचापस्य दर्शने नृपतेर्वधः ।
परचक्रागमश्चैव यथा गर्गेण भाषितम् ॥
वराहसंहितयोः ।
निशि सचिववधाय धनुरैन्द्रम्-इति ।
एत् तु सामान्यमुक्तमिन्द्रधनुषः फलम् ।
विशेषफलं त्रिवर्णोर्ध्वंरेखेऽवगन्तव्यम् । यथोक्तं वार्हस्पत्ये ।
यदा त्रिवर्णः सुमहाँस्त्रिरेखो महेन्द्रनापः समुदेति रात्रौ ।
तदा भयं पार्थिवमण्डलानां वदन्ति शास्त्रार्थविदो द्विजेन्द्राः ॥
मण्डलानां माण्डलिकानाम् ।
मयूरचित्रे ।
त्रिवर्णश्च त्रिरेखश्च शक्रचापो यदा निशि ।
राज्ञां माण्डलिकानां च भयं भवति दारुणम् ॥
पूर्वस्यां दिशि राज्ञां याम्यां दिशि माण्डलिकानां मण्डलेश्वरसचिवानां सेनाप्रभृतीनामित्यर्थः ।
तथा वराहसंहितयोः ।
चापं मघोनः कुरुते निशायामाखण्डलायां दिशि भूपपीडाम् ।
याम्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमत्रिणौ वा ॥
नायकः प्रधानपात्रम् ।
काश्यपः ।
ऐन्द्र्यां दिशि यदा रात्रौ दृष्टं भूपवधो भवेत् ।
याम्यां सेनापतिस्तस्य विनाशमधिगच्छति ॥
पश्चिमस्यां तु संदृष्टं प्रधानं नाशमृच्छति ।
उत्तरस्यां यदा दृष्टं रात्रौ मन्त्रिविनाशनम् ॥
उपरुद्धे निशानाथे रात्राविन्द्रधनुर्यदि ।
तदा क्षोभः पुरस्य स्यात् परचक्रागमस्तथा ॥
अथेन्द्रधनुः फलं विष्णुधर्मोत्तरे ।
रात्राविन्द्रधनुश्चेद्व्यभ्रे महाभयाय च ।
वटकणिकायां च वराहः ।
व्यभ्रजं मरककारि.....................।
वराहसंहितायां च ।
व्यभ्रे नभसि सुरधनुर्दिवा यदा दृश्यतेऽथ वा रात्रौ ।
प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत् [२०८]॥
मत्स्यपुराणे ।
निरभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ।
इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव च ॥
परचक्रागमं ब्रूयाद्देशोपद्रवमेव च ।
बार्हस्पत्ये ।
निरभ्रे वा तथा रात्रौ श्वेतमिन्द्रायुधं यदि ।
पूर्वपश्चादुत्तरासु भवेद्दुर्भिक्षतो भयम् ॥
औशनसे तु ।
प्राच्यादिचतुरो वर्णान् हन्यादिन्द्रायुधं क्रमात् ।
रात्रौ श्वेतं तथा रक्तं पीतं कृष्णं च सर्वतः ॥
नारदः ।
रात्रौ चेन्द्रधनुर्यत्र दृश्यते यदि सत्तम ।
अद्भुतं तत्र विज्ञेयं शान्तिं चेमां समारभेत् ॥
औदुम्बर्याः सहस्राणि अष्टौ च जुहुयाद्द्विजः ।
मध्वक्तानि घृताक्तानि जातवेदांसि मन्त्रवित् ॥
विप्राय दक्षिणां दद्याद्धेनुं च वृषभं तथा ।
एकरात्रोषितो भूत्वा ततः संपद्यते शुभम् ॥
मत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितासु वृष्टिविकारविहिता शान्तिरत्र कर्त्तव्येत्युक्तम् । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।
अथ वर्णाद्भुते तु ।
इन्द्रायुधसवर्णानि वस्त्राण्याभरणानि च ।
दद्याद्गाश्च हिरण्यं च तदा तच्छमयेद्भयम् ॥
पराशरः ।
अथेन्द्रधनुषः सद्यः फलं सप्तरात्राद्वा -इति ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे इन्द्रधनुरद्भुतावर्त्तः ।
अथ रश्मिदण्डाद्भुतावर्त्तः ।
वराहसंहितायाम् ।
रविकिरणजालमरुतां सङ्घातो दण्डवत् स्थितो दण्डः ।
स विदिङ्मुखो नृपाणामशुभो दिक्षु द्विजातीनाम् ॥
शस्त्रभयातङ्ककरो दृष्टः प्राङ्मध्यसन्धिषु दिनस्य ।
शुक्लाद्यो विप्रादीन् यदभिमुखं तां च हन्ति दिशम् ॥
पराशरस्तु ।
अथ दण्डा धनुर्भिः स्रमानरूपफलाः । विशेषतस्तूभयतो विच्छिन्नो दण्डोऽमूलवान् स्यात् । अपरं धनुरदृश्यात्मत् । दृश्यन्तश्च रश्मयस्तीक्ष्णाग्राश्चन्द्रसूर्ययोः । अन्तस्त्र्यहात् फलं तेषु त्रिषु विद्यात् । घनाः स्निग्धा दीर्घाः परिपर्णा रक्तनीलाः श्वेतानुगामिनो योग- क्षेमाय । रक्ता रूक्षा ह्रस्वा नीचास्तु वर्षाय । काला दुर्भिक्षाय । धूम्रलोहितास्तनवः शस्यस्वापदे । अत्यन्तमानीलकृष्णाः पाण्डुराःपारावतमयूरचित्रवर्णा वा वर्षाय । बहवश्व स्निग्धा द्वौ नीलौ रक्तौ परुषौ वा परचक्रभयाय । तथा च रक्तपरुष एकच्छिद्रो विच्छिन्नो दुर्जातो राजमृत्यवे । विपरीतो राजजन्मने । पुण्डरीकाकार उल्कापाताय । रक्तकपिलौ पीतरक्तौ वाऽत्यन्तगौररूक्षौ राजनिर्याणाय । त्रिवर्णो राजक्षयाय । स्थूलकारोऽञ्जनवर्णो वर्षसम्पत्तये । अस्तमितमात्रे रश्मिदर्शनं मुख्यामात्य विनाशाय ।
अत्र सामान्या शान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे रश्मिदण्डाद्भुतावर्त्तः ।
अथ गन्धर्वनगराद्भुतावर्त्तः ।
तत्र काश्यपः ।
बहुवर्णपताकाढ्यं गन्धर्वनगरं महत् ।
दृष्टं प्रजाक्षयकरं संग्रामे लोमहर्षणे ॥
वराहसंहितयोस्तु ।
अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् ।
यदा तदा नागमनुष्यवाजिनां पिवत्यसृक् भूरि रणे वसुन्धरा ॥
अथ वर्णफलं वराहसंहितयोः ।
गर्न्धनगरमुत्थितमापाण्डुरमशनिपातवातकरम् ।
दीप्ते नरेन्द्रमृत्युर्वामोऽरिभयं जयः सव्ये
चौराटविकान् हन्याद्धूमानलशक्रचापाभम् ।
सितरक्तपीतकृष्णं विप्रादीनामभावाय ॥
उपस्थितायां चेत् सन्ध्यायां दृश्येत कुमारवधम् । अतीतायां वृद्धस्य राज्ञः । गन्धर्वनगरेण सहैवोदितः सूर्यः परचक्रागमनं कुर्यात्।
वराहसंहितायाम् ।
सितखपुरेऽर्कक्रान्ते पुरलाभो भेदने नाशः ।
नगरसदृशं सन्ध्याकाले यदा प्रतिदृश्यते
परमधिकृतं गन्धर्वाणां शतघ्निसमाकुलम् ।
नरपतिभयं देशे तस्मिँस्तदा परचक्रतो
रुधिकलिलः संग्रामो भवत्यतिदारुणः [२०९]॥
अथ दिक्फलं वराहसंहितायाम् ।
शान्तायां दिशि दृष्टं सतोरणं नृपतिविजयाय ।
पराशरः ।
दीप्तायां दिशि विच्छन्नरूपं वृक्षाग्रेषु दृश्यते महाभयम् । ऐशान्यां दिशि अभियोक्तृवधाय । वारुण्यामभियुक्तस्य । एभ्यस्त्वन्यानि दिशान्ते स्निग्धरूपाण्यविच्छिन्नानि शुभानि विन्द्यात् ।
बृहद्यात्रायां च वराहः ।
सिताद्यं ब्राह्मणादीँस्तु विदिग्वर्णस्तु सङ्करान् ।
प्रदक्षिणं च यात्रायां जयदे नेष्टमन्यथा ॥
ब्राह्मणादीन् हन्तीति सम्बन्धः । विदिक्षु विवर्णै चेति विदिग्वर्णम् ।
तथा च बार्हस्पत्ये ।
विदिक्ष्वेकं विवर्णं च पीडा ज्ञेया विवर्णिनाम् ।
आशाधिकारिणां चैव पीडा ज्ञेया यथाविधि ॥
बार्हस्पत्ये ।
प्राग्याम्यापरसौम्यानां गन्धर्वनगरं तथा ।
राज्ञः सेनापतेश्चैव युवराजपुरोधसाम् ॥
व्यसनं मरणं चापि विज्ञेयमनुपूर्वशः ।
बृहद्यात्रायां वराहः ।
गन्धर्वनगरं हन्ति प्राक्प्रभृत्यवनीश्वरम् ।
बलेशं युवराजं च पुरोहितमिति क्रमात् ॥
वराहसंहितयोः ।
उदगादितः पुरोहितनृपबलपतियुवराजदोषदं खपुरम् ।
नागरनृपविजयावहमुदग्विदिक्स्थं विवर्णनाशाय ॥
पराशरस्तु ।
अथ गन्धर्वनगराणि प्राच्याद्यष्टासु दिक्षु प्रादुर्भूतानि क्रमात् फलमावेदयन्ति । क्षुत्पीडामग्निप्रकोपं युवराजवधं तस्करोपद्रवंराजपीडां तपस्विनां भयं भूतागमनं वर्षम् इति ।
मयूरचित्रे तु ।
पूर्वस्यां दिशि विस्पष्टगन्धर्व नगरोदये ।
पश्चिमस्यां दिशि राज्ञो भयमापद्यते महत् ॥
सर्वास्त्वन्यासु दिक्ष्येवं विपर्यासात् फलं विदुः ।
बार्हस्पत्ये ।
सततं दृश्यमानं च राज्ञो राष्ट्रभयावहम् ।
वराहसंहितयोः ।
सर्वदिगुत्थं सततोदितं च भयदं नरेन्द्राणाम् ।
अत्रानुक्तविशेषशान्तिषु गन्धर्वनगरोत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
गन्धर्वनगरफलपाको मासत्रयेणेति पराशरादिभिरुक्तम् ।
वराहसंहितायाम् ।
गन्धर्वपुरं मासात्-इति ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गन्धर्वनगरातद्भावर्त्तः ।
आप्रहरांशेऽजाविकमुपहन्याच्छूद्रपौराँच ॥
आमध्याह्नाद्राजोपजीविनी ब्राह्मणाँश्च पीडयति ।
वैश्यजलदाँस्तृतीये चौरान् प्रहरे चतुर्थे च ॥
गर्गश्च ।
नीचानन्याँश्च हन्यात् तु सोऽस्तमेति दिवाकरे ।
प्रथमे प्रहरे शस्यानर्धरात्रे तु राक्षसान् ॥
रात्रित्रिभागे वैश्याँस्तु प्रत्यूषे शूद्रदस्यवः ।
वराहसंहितायां तु ।
अस्तं याते नीचान् प्रथमे यामे निहन्ति शस्यानि ।
रात्रेर्द्वितीययामे पिशाचसङ्घान् निपीडयति ॥
तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च ।
अथ तिथिफलं पराशरः ।
प्रतिपदष्टमीचतुर्दशीषु प्रादुर्भूतो मृदुरितरास्वितरः- इति ।
मृदुर्मृदुफलः । इतरस्तीव्रफल इत्यर्थः ।
अथ नक्षत्रफलं पराशरः ।
यत्र नक्षत्रे वर्षणं प्रदुष्यात् तस्मिन् वर्षणं विन्द्यात् ।
बार्हस्पत्ये ।
अनेभ्रे वाऽपि निर्घातः पतितो राजमृत्यवे ।
पराशरः ।
महास्वनश्च समग्रफलो भवति ।
बार्हस्पत्ये ।
अत्र रौद्रीं प्रकुर्वीत सुभयां वा भयप्रदाम् ।
बीजवापपरिशिष्टे तु ।
निर्घातस्य प्रयतने शान्तिं कुर्वीत वैष्णवीम् ।
विष्णुं संपूजयेत् सम्यग्ब्राह्मणाँश्चापि भोजयेत् ॥
निर्घातस्तु त्रिभिर्मासैः-इति ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे निर्घाताद्भुतावर्त्तः ।
अथ सन्ध्याद्भुतावर्त्तः ।
तत्र सन्ध्यासमयो वराहस्संहितायाम् ।
अर्धास्तमयात् सूर्यात् संदृष्टास्तारका यावत् ।
तेजःपरिहानिमुखाद्भानो रुद्धोदयो यावत्[२१०] ॥
अथ शुभसूचकलक्षणं वराहसंहितायाम् ।
शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च ।
पराशरस्तु ।
निर्वातनिर्मलस्निग्धायां शान्तमृगद्विजायां प्रसन्नायामनुपहतायां योगक्षेमं विन्द्यात् ।
वराहसंहितायां तु ।
मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा ।
मधुरस्वरशान्तविहङ्गमृगरुता पूजिता सन्ध्या ॥
वटकणिकायाम् ।
स्निग्धा प्रशान्तशकुना मृदुमारुता च
सन्ध्या सहस्रकिरणानुसमानवर्णा ।
शस्ता पयोदसमये कुरुतेऽतिवर्षं
वृष्टिं रुणद्ध्यशुभदा च विपर्ययेण ॥
अथाशुभसूचकसन्ध्यालक्षणं बार्हस्पत्ये ।
तमोधूमरजस्काभ्रदीप्तद्विजमृगावृताः ।
प्रदीप्तलक्षणाः सन्ध्याः सर्वा एवाहितावहाः ॥
भृशमुद्धातिनी सन्ध्या कुरुते विग्रहागमम् ।
तथा ।
प्रातः प्रदोषोद्रजसा निरुद्धा [२११]अनभ्रवत्योऽपि घनातुरूपाः ।
क्रूराश्च सन्ध्या रुधिरप्रकाशा भयानि राज्ञः प्रतिवेदयन्ति ॥
वराहसंहितायां तु ।
पांशुध्वस्ता जनपदनाशे धत्ते रूक्षा रुधिरनिभा वा ।
तथा ।
गृहतरुतोरणमथने सपांशुलोष्टोत्करेऽनिले प्रबले ।
भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ॥
दीप्तविहङ्गशिवामृगघुष्टा दण्डरजःपरिघादियुता च ।
प्रत्यहमर्कविकारयुता वा देशनरेशसुभिक्षवधाय ॥
अशुभाकृतिघनगन्धर्वनगरनीहारपांशुधूमवृता ।
वृष्टिं करोत्यवग्रहमन्यर्त्तौ शस्त्रकोपकरी ॥
दीप्तमृगाण्डजविरुता प्राङ्मध्या देशनाशमाख्याति ।
दक्षिणदिक्स्थैर्विरुताद्ग्रहणाय पुरस्य दीप्तास्यैः ॥
हरिवंशे कंसवधनिमित्तम् ।
"प्राक्सन्ध्या परिघग्रस्ता भाभिर्वाधति भास्करम्”[२१२]।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“उभे सन्ध्ये प्रकाशेते दिशो दाहसमन्विते[२१३]।
अथ वर्णफलं वराहसंहितायाम् ।
शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः ।
प्रकृतिभवाः सन्ध्यायां स्वर्त्तौ सान्ध्या विकृतिरन्या ॥
पराशरः ।
स्निग्धा गौरी योगक्षेमाय भवति श्वेतायां वस्त्रवृद्धिः ।
बार्हस्पत्ये तु ।
सन्ध्याः कमलकिञ्जल्कतडित्कल्पाः शुभावहाः ।
वराहसंहितायां तु ।
कुवलयवैदूर्याम्बुजकिञ्जकाभा प्रभञ्जनोन्मुक्ताः ।
सन्ध्या करोति वृष्टिं रविकिरणोद्भासिता सद्यः ॥
आषाढीयोगे पराशरः ।
वेदूर्यरजतहेमप्रभा सन्ध्या प्रावृड्वृद्धये ।
मयूरचित्रे ।
मनःशिला प्रियङ्गामा हरितालनिभा तथा ।
सद्यो वर्षाय सन्ध्या या हरिद्वाभाऽरुणा मनाक् ॥
हरिवंशेऽर्जुनपराजयनिमित्तम् ।
"सन्ध्यारागो जपावर्णः”[२१४] ।
लङ्काकाण्डे रावणवधनिमित्तम् ।
सन्ध्यया चावृता लङ्गा जपापुष्पनिकाशया ।
"दृश्यते संप्रदीप्तेव दिविसेऽपि प्रवृद्धया"[२१५] ॥
पराशरस्तु ।
परिमण्डलायां रक्तायां भयम् । हरितायां शस्त्रभयम् । माञ्जिष्ठामग्निम् । पीतायां चतुष्पद्रोगम् । श्यामायां चौरतो भयम् । नीलपीतायामीतिभयम् । हरितालवर्णायां प्रथमामात्यस्य शस्त्रेण वधम् । आम्रकोरकवर्णायां वर्षम् । नीलरक्तायामवग्रहम्। कृष्णायामवर्षम् । त्र्यहं चेत् श्यामा रक्ता गौरी वा स्यात् पशुघातं विन्द्यात् । वातकपिलामस्तमितमात्रे सूर्ये याऽतिमात्रप्रकाशा स्यात् प्रभा सा नामासौ तस्यां वर्षं विन्द्यात् । प्रत्यूषसि तद्रूपायामेव राज्ञः सेनापतेर्वा वधम् ।
तथा महावर्षं रूप्यवर्णायां नीलायां वा कृष्णायामनृतौ वर्षणमृताववग्रहाय । तथा च नीलमाञ्जिष्ठायामग्निजिविनां वधाय स्यात् । लोहितश्यामायां चौरवृद्धये । एवमेव चतूरागा पञ्चरागा वा ।
अत्रानुक्तविशेषशान्तिषु सन्ध्योत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या महाशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या ।
अथ विहितविशेषशान्तयः सन्ध्योत्पाता मयूरचित्रे ।
गोमूत्राभाऽऽज्यभाण्डाभा स्निग्धा हिङ्गुलसन्निभा ।
लाक्षा विद्रुमकान्तिश्च सन्ध्या वृष्ट्यै रणाय च ।
तमोयुक्ता रजोयुक्ता सन्ध्या राष्ट्रनृपान्तकृत् ।
ऋतुस्वभावजा सा तु सुभिक्षक्षेमकारिणी ॥
अत्र साधारणो शान्तिः कर्त्तव्या गर्गभाषिता ।
तत्रैव ।
निष्प्रभा वा यदा सन्ध्या रूक्षा भस्मरजःसमा ।
तदा पित्तज्वरोद्भूतैः पीड्यन्ते व्याधिभिर्जनाः ॥
शान्तिश्चतुर्दशी कार्या सन्ध्योल्कापातचोदिता ।
'सप्ताहात् सन्ध्ययोः फलपाकःइति पाकावर्त्ते वक्ष्यामः ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे सन्ध्याद्भुतावर्त्तः ।
अथ सन्ध्याकालिकरविकिरणाद्भुतावर्त्तः ।
पराशरः ।
स्निग्धाः परिपूर्णाः शुक्ला माञ्जिष्ठवर्णाः पीता अभ्यन्तरगामिनो रश्मयः शस्यन्ते । वराहसंहितायां तु ।
उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्त्ताः ।
किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥
शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः ।
अव्युच्छिन्ना ऋजवो वृष्टिकरास्ते त्वमोघाख्याः ॥
पराशरः ।
रूक्षा विच्छिन्नास्तनवो ह्रस्वा धूमाभा लोहिता विवर्णा गर्हिताः ।
वराहसंहितायाम् ।
विच्छिन्नविषमविध्वस्तविकृतकटिलापसव्यपरिवृत्ताः ।
तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदा किरणाः ॥
कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशवलाभाः[२१६]।
त्रिदिनानुबन्धिनो वृष्टयेऽल्पभयदास्तु सप्ताहात् ॥
ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च रुग्व्यसनम्[२१७] ।
हरिताः पशुशस्यवधं धूमसवर्णा गवां नाशम् ॥
मञ्जिष्ठाभाः शस्त्राग्निसंभ्रमं बभ्रवः पवनवृष्टिम् ।
भस्मसदृशास्त्ववृष्टिं तनुभावं शवलकल्माषाः ॥
पराशरः ।
बन्धुजीवनिकाशेन तपनीयनिभेन वा ।
उदये रजसा सूर्यः संवृतः शस्त्रमावहेत् ॥
वराहसंहितायां तु ।
बन्धूकपुष्पाञ्जनवर्णसन्निभं सान्ध्यं रजोऽभ्येति यदा दिवाकरम् ।
लोकस्तदा रोगशतैर्निपीड्यते शुक्लं रजो लोकविवृद्धिशान्तये ॥
तथा च पराशरः ।
शङ्कचूर्णनिकाशेन रजसा संवृतो रविः ।
राज्ञो विजयमाख्याति वृद्धिं जनपदस्य च ॥
अत्रानुक्तविशेषशान्तिषु सन्ध्याकालिकर विकिरणाद्भुतेषु सावित्रीमश्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
सूर्यरस्मीनां त्रिरात्राभ्यन्तरे फलपाक इति रश्मिदण्डाद्भुतावर्त्ते[२१८]उक्तम् ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वलालसेनदेवविरचितेद्भुतसागरे सन्ध्याकालिकरविकिरणाद्भुतावर्त्तः ।
अथ दिग्दाहाद्भुतावर्त्तः ।
तत्र दिग्दाहस्वरूपं बार्हस्पत्ये ।
सदाऽस्तमित आदित्ये वह्निज्वाला प्रदृश्यते ।
दिशां दाहं तु तं विन्द्याद्भार्गवस्य वचो यथा ॥
शुभसूचकदिग्दाहलक्षणं वराहसंहितायाम् ।
नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति सदागतिश्च ।
दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य ॥
अथ वर्णफलं वराहसंहितयोः ।
दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः ।
यश्चारुणः स्यादपसव्यवायुः स शस्यनाशं प्रकरोति दृष्टः ॥
बार्हस्पत्ये तु ।
श्वेताः पीताश्च रक्ताश्च दाहाः कृष्णाश्च वर्णतः ।
ब्रह्मक्षत्रियविट्शूद्रविनाशाय प्रकीर्तिताः ॥
रक्ताः शस्त्रभयं कुर्युः पीता व्याधिप्रकोपनाः ।
अग्निवर्णास्तथा कुर्युरग्निशस्त्रभयं महत् ॥
नेष्टाः क्षतजमाञ्जिष्ठबन्धुयावकवर्णकाः ।
सुपीतिपरुषश्याममेघवारणसन्निभाः ॥
सर्वा एव क्षुधारोगमृत्युशस्त्राग्निकोपनाः ।
ऋतौ तु वर्षं तीव्रं स्यात् सैन्यविद्रव एव वा ॥
अथ छायाव्यञ्जकदिग्दाहफलं वराहसंहितायाम् ।
याऽतीव दीप्त्या कुरुते प्रकाशं छायामपि व्यञ्जयतेऽर्कवद्यः ।
राज्ञो महद्वेदयते भयं स शस्त्रप्रकोपं क्षतजानुरूपः ॥
विष्णुधर्मोत्तरे ।
अतिदीप्तच्छायाव्यञ्जके राजमरणं विन्द्यात् ।
अथ दिवफलं बार्हस्पत्ये ।
दिक्षु चौरैः[२१९] प्रपीडयन्ते यथा दिग्देशभक्तयः ।
शकुनज्ञाननिर्दिष्टा ये च तत्राधिकारिणः ॥
दिगधिकारिकान् सर्वान् शाकुनाद्भुतावर्त्ते वक्ष्यामः ।
वराहसंहितायाम् ।
प्राक् क्षत्रियाणां सनेश्वराणां प्राक्दक्षिणे शिल्पिकमारपीडा ।
याम्ये सहोग्रैः पुरुषैश्च वैश्या दूताः पुनर्भूप्रमदाश्च कोणे ॥
पश्चात् तु शूद्राः कृषिजीविनश्च चौरास्तुरङ्गैः सह वायुदिक्स्थे ।
पीडां व्रजन्त्युत्तरतश्च विप्राः पाखण्डिनः स्युर्वणिजश्च शार्व्याम् ॥
पराशरस्तु ।
अथ दिग्दाहेषु प्राच्यादिष्वष्टासु दिक्षु दह्यमानासु विद्यात् तत्रैव देशे। अष्टमासान्तरादनावृष्टिभयं त्रिमासाद्रोगं महोत्पातं च भवमासादग्निप्रकोपं दशमासाद्वलक्षयं मासाद्राक्षः शस्त्रेण भयम् । अष्टाभ्यः सर्वतो भयं सप्तभ्यो युवराजभयं षड्भ्यः कन्यानां भयम् । सप्ताहात् सर्वासु चावर्षम् ।
बार्हस्पत्ये ।
दिशः सर्वाः प्रदह्यन्ते अक्षेमाय भयाय च ।
हिरण्यकशिपोर्वधाय सकलाकाशव्यापी दिग्दाहोऽभूत् ।
तथा च हरिवंशे ।
"सग्रहं सहनक्षत्रं प्रजज्वाल नभो निशि”[२२०] ।
मयूरचित्रे तु ।
विदिक्षु च दिशां दाहस्त्रिरात्रं यदि दृश्यते ।
शस्त्रसंपातमाचष्टे दुर्भिक्षमरकं तथा ॥
बार्हस्पत्ये ।
यथोक्तं तु महाशान्तिर्यथोक्तविधिना कृता ।
सर्वं दिग्दाहजं घोरं शमयेत् सा सदक्षिणा ॥
यत्रोकेति । अन्तरिक्षोत्पातविहिताऽभवाख्या वा महः शान्तिरित्यर्थः ।
मयूरचित्रे ।
गगने मेघसंछन्ने दिग्दाहश्चेन्महोदयः ।
दिवा वा यदि वा रात्रौ जायते नृपतेर्वधः ॥
द्वितीया शान्तिरुक्ता या सा च दिव्यप्रचोदिता।
वर्षारात्रौ च दिग्दाहे दुर्दिने नृपतेर्वधः ॥
वर्षारात्रेषु निर्ह्लादे दिशां दाहो महान् भवेत् ।
क्षिप्रं च भयमाख्याति देशस्य च नृपस्य च ॥
अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
'षण्मासा दिग्दाहफलम्’-इति पाकावर्त्ते वक्ष्यामः ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुसागरे दिग्दाहाद्भुतावर्त्तः ।
अथ छायाद्भुतावर्त्तः ।
मत्स्यपुराणे ।
विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते ।
दृश्यते तु प्रतीपा वा तदा देशभयं भवेत् ॥
अथर्वणाद्भुते च ।
यदा वाऽनभ्रविमले सूर्ये छाया न दृश्यते ।
दृश्यते सा प्रतीपा वा तदा देशभयं भवेत् ॥
वराहसंहितायां च ।
यद्यमलेऽर्कच्छाया न दृश्यते वा प्रतीपा वा ।
देशस्य तस्य सुमहद्भयमायातं विनिर्देश्यम् ॥
पराशरस्तु ।
दिवा व्यभ्रे विरजसि वा रवौ छायादर्शनं तत्प्रातिलोम्यदर्शनं वा जनमारभयम् ।
मत्स्यपुराणे हिरण्यकशिपुवर्धनिमित्तम् ।
"यदा च सर्वभूतानां छाया न परिवर्त्तते ।
अपराह्णगते सूर्ये लोकानां युगसंक्षये”[२२१]॥
मत्स्यपुराणाद्युक्ता सूर्येन्दुपर्यन्यसमीरणयोगात्मिका वृष्ट्यद्भुतावर्त्ते लिखिता शान्तिरत्र कर्त्तव्या ।
मयूरचित्रे तु ।
छाया वै यत्र भूतानां परिवृत्तिं न गच्छति ।
अपराह्णगते सूर्ये न च छायाऽवलम्बते ॥
अमात्यसार्थवाहानां श्रेष्ठानां च वदेद्वधम् ।
प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ॥
छायाद्भुतानामनुक्तफलपाकसमयविशेषत्वात् षाण्मासिकः फलपाको बोद्धव्यः ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेन देवविरचितेऽद्भुतसागरे छायाद्भुतावर्त्तः ।
अथ तमोधूमरजोनिहाराद्भुतावर्त्तः ।
तत्र पराशरः ।
अथ तमांसि स्थानदिग्वर्णविशेषैः शुभाशुभं दर्शयति प्रजानाम् । स्थानफलमाह भूम्याश्रिते तमसि वर्षंं विन्द्यात् । नभसि महावर्षम् ।
मत्स्यपुराणपद्मपुराणहरिवंशेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।
"विवेश रूपिणी काली कालमेवावगुण्ठिता।
द्यौर्न भात्यभिभूतार्का घोरेण तमसाऽऽवृता" [२२२] ॥
पराशरः ।
शरदन्नप्राचुर्यमुदक्चराणां च प्राणिनामुपद्रवम् । पर्वतौषधीनामभावं ग्रामनगरजनपदपीडाम् । आरण्यककाण्डे जनस्थाननिवासिनां वधनिमित्तम् ।
"तमसा चैव घीरेण समुद्भूतेन सर्वतः
प्रच्छादितं जनस्थानं नीचाकाशे समन्ततः”[२२३] ॥
मत्स्यपुराणे च ।
अनैशानि तमांसि स्युर्यत्र तच्चाशु नश्यति ।
अथ दिक्फलं पराशरः ।
दिक्षु जनपदपीडनम् ।
आदिकाण्डेषु परशुरामपराजयनिमित्तम् ।
"दिशः सतिमिराश्चासन् न तताप दिवाकरः” [२२४]।
मत्स्यपुराणपद्मपुराणहरिवंशेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।
"तिमिरौघपरिक्षिप्ता न राजन्ते दिशो दश"[२२५] ।
गदापर्वणि दुर्योधनवधनिमित्तम् ।
"बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः"[२२६] ।
अथ वर्णफलं पराशरः ।
पांशुरजोऽरुणप्रभेषु वृष्टिं श्वेते ब्राह्मणपीडामितरवर्णवृद्धिं लोहिते शस्त्रकोपं नीले शस्त्रक्षयं वर्षणं च प्रदोषे महाभयम् ।
मत्स्यपुराणे ।
रजसा वाऽपि धूमैर्वा दिशो यत्र समाकुलाः ।
आदित्यचन्द्रताराश्च विवर्णा भयवृद्धये ॥
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“ततस्तुमुलमाकाशमावृणोत् सदिवाकरम् ।
वातोद्धतं रजस्तीव्रं कौशेयनिकरोपमम्”[२२७] ॥
मध्यपुराणपुरणयों हिरण्यकशिपुवधनिमित्तम् ।
“न प्रकाशन्ति दिशो रक्तरेणुसमाकुलाः"[२२८] ।
आग्नेयपुराणेऽप्येवम् । हरिवंशे कंसवधनिमित्तम् ।
“अपराह्नगते सूर्ये लोकानां क्षयकारिणि ।
न प्रकाशन्ते च दिशो रक्तरेणुसमाकुलाः” [२२९]॥
आदिकाण्डे परशुरामपराजयनिमित्तम् ।
"रजसा च जगत् कृष्णं भस्मनैवावकीर्यते”[२३०]।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति[२३१]" - इति
अत्र तमोधूमायुत्पातेषु सावित्रीमत्रदशकलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमव-गम्य कर्त्तव्या ।
वराहेण त्वग्निविकृतप्रकरणमध्ये ।
धूमोऽग्निसमुत्थो रजस्तमश्चाग्निजं महाभयदम् ।
इति वाक्यं लिखित्वा 'मन्त्रैराग्नेयाद्यैः' इत्यादिभिराग्नेयी शान्तिर्विहिता। तां चाम्यद्भुतावर्त्ते लिखिष्यामः-इति ।
अत्रानुक्तफलपाकसमयविशेषयोस्तमोनीहारयोरान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
धूमरजसोस्तु फलपाकसमयो गार्गीये ।
धूमिकापांशुवर्षेषु फलं मासाद्विपच्यते ।
वराहसंहितायामप्येवम् ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुनसागरे तमधूमरजोनिहाराद्भुतावर्त्तः ।
अथोल्काद्भुतावर्त्तः ।
तत्रोल्कास्वरूपमाह गर्गः ।
अस्त्राणि विसृजन्त्येते शुभाशुभनिवेदकाः ।
लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥
वटकणिकायां तु वराहः ।
अस्त्राणि लोकपाला लोकाभावाय यानि विसृजन्ति ।
तान्युल्काः केषां चित् पुण्यकृतस्ते च्युताः स्वर्गात् ॥
वराहसंहितायां च ।
दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः ।
बार्हस्पत्ये ।
अप्रधृष्याणि यानि स्यू शरीराणीन्द्रियैर्दृढैः ।
क्षमावन्ति विशुद्धानि सत्यव्रतरतानि च ॥
तान्येतानि प्रकाशन्ते भाभिर्वितिमिरं नमः ।
समन्ताद्वलयन्तीह यस्मादंशुकरं तपः ॥
तानि भाग्यक्षयाद्भूयः प्रच्युतानि नभस्तलात् ।
क्षितौ सलक्षणान्येव निपतन्तीह भार्गव ॥
तेषां निपतनं विप्र यत्र यत्रेह जायते ।
तत्र तत्रैव विविधं प्रजानां जायते भयम् ॥
तत्र सामान्येन पतता ज्योतिर्विशेषेणैवोल्केति संज्ञा प्रतिपादिता । पञ्चविधा चोल्का भवति ।
तथा च वराहसंहितायाम् ।
धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः ।
वटकणिकायां च ।
उल्काऽथ पञ्चरूपा धिष्ण्योल्काविद्युतोऽशनिस्तारा ।
बार्हस्पत्ये ।
तारा धिष्ण्यास्तथोल्काश्च विद्युतोऽशनयस्तथा ।
विकल्पाः पञ्चधा चैषां परस्परबलोत्तराः ॥
तारालक्षणमाह काश्यपः ।
पद्मताम्राकृतिस्तारा हस्तमात्रायता मता ।
वटकणिकायाम् ।
तारा तु हस्तमात्रा यात्यूर्ध्वमधश्च श्वेतताम्राः ।
वराहसंहितायां च ।
तारा तु हस्तदीर्घा शुक्ला ताम्राब्जतन्तुरूपा च ।
तिर्यगधश्चोर्ध्व वा याति वियत्यूह्यमाने च ॥
बार्हस्पत्ये तु ।
यस्तु शुक्लेन वर्णेन वपुषा पेशलेन च ।
पद्मतन्तुनिकाशेन धूमराजीनिभेन वा ॥
उल्काविकारः सोऽप्युक्तस्तारका नाम नामतः ।
अथ धिष्ण्यालक्षणम् । तत्र काश्यपः ।
धनूंषि दश दृश्येत धिष्ण्या सक्ष्मा च विच्यता ।
ज्वलिताङ्गारवर्णाभा द्वौ ह हस्तौ दृश्यते नभे[२३२] ॥
वटकणिकायाम् ।
धिष्ण्या सिता द्विहस्ता धनूंषि दश याति कृतदेहा ।
बृहत्संहितायाम् ।
धिष्ण्या कृशाऽल्पपुच्छा दश धनुषो दृश्यतेऽन्तराभ्यधिका ।
ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥
बार्हस्पत्ये तु ।
ज्वलिताङ्गारसंकाशा जिाह्मगा त्वथ शीघ्रगा।
विना पुच्छावकाशेन द्विहस्ताऽतिकृशेन वा ॥
दशान्तराणि धनुषः पञ्च वाऽपि प्रदृश्यते ।
उल्काविकारो बोद्धव्यो धिष्ण्या इत्यभिधीयते ॥
अथ विद्युल्लक्षणम् । तत्र काश्यपः ।
विद्युत् त्रासकरी भीमा शब्दायन्ती चटाचटा ।
वटकणिकायां वराहः ।
विद्युत् तटतटाशब्दा ज्वालामालाकुला पतति ।
वराहसंहितायां च ।
विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
कुटिलविशाला निपतति जीवन्धनराशिषु ज्वलिता ॥
बार्हस्पत्ये तु ।
तत्र शब्देत न महता भृशं तटतटायिना ।
सत्ववित्रासनात्यर्थं शब्देनोद्देशकारिणा ॥
ज्वालामालाविसर्पिण्यः प्रकृत्याऽत्युग्रदर्शनाः ।
विद्युतो निपतन्त्याशु जीवत्सु वनराजिषु ॥
अथाशनिलक्षणं वटकणिकायाम् ।
अशनिः प्राणिषु निपतति दारयति धरातलं बृहच्छब्दा ।
बृहत्संहितायां च ।
अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥
काश्यपस्तु ।
नरेभतुरगाश्वाश्मवृक्षेषु पतते सदा ।
ज्वलन्ती चक्रवत् पश्येदशनीमभ्रसंस्थिताम् ॥
बार्हस्पत्ये तु।
तत्र शब्देन महता विवरेण विकर्षिणा ।
महाचक्रमिवागच्छेदायताङ्गा नभस्तलात् ॥
मनुष्यमृगहस्त्यश्ववृक्षाश्मपथि वेश्मसु ।
पतन्त्यशनयो दीप्ताः स्फोटयन्त्यो धरातलम् ॥
अथोल्कालक्षणम् । तत्र काश्यपः ।
बृहच्छिरास्तु सूक्ष्माङ्गा नतमानशिखोज्ज्वला ।
पौरुषी तु प्रमाणेन उल्का नानाविधा भवेत् ॥
वटकणिकायाम् ।
उल्काग्रतो विशाला बहुप्रकारा पुरुषमात्रा ।
बृहत्संहितायाम् ।
उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा।
दोर्घा च भवति पुरुषं भेदा बहवो भवन्त्यस्याः ॥
बार्हस्पत्ये तु ।
सूक्ष्माऽमूला विशालाग्रा पतन्ती वाऽपि वर्धते ।
कृशा नारीव दीप्तास्या सविषाङ्गारवर्षिणी ॥
उद्योतयन्ती गगनं काञ्चनेनैव कर्मणा
पीतेन चापि वर्णेन धूमधूम्राऽरुणेन वा ॥
नरप्रमाणा विज्ञेया उल्का बहुविधा तु सा ।
एवं पञ्चविधा ह्येताः शौनकेन प्रकीर्त्तिताः ॥
स्वर्गच्युतानां पततां लक्षणं पुण्यकर्मणाम् ।
प्रकृत्या पौरुषी योल्का तस्या भेदान् निबोधत ॥
पद्मशङ्खादिसंस्थानाः काश्चिदुल्का भवन्ति हि ।
वंशगुल्मनिभाः काश्चित् काश्चिदिन्द्रध्वजोपमाः ॥
काश्चिदन्द्रायुधप्रख्याः काश्चिन्मण्डलसन्निभाः ।
छत्रवच्चापि दृश्यन्ते चक्रवन्निपतन्ति च ॥
दण्डवच्चापि तिष्ठन्ति प्रभावन्ति च सर्पवत् ।
प्रकीर्णेन कलापेन खे गच्छेन्तीव वर्हिणः ॥
खण्डखण्डं गताः काश्चिदम्बरे स्तम्भिता यदा ।
काश्चित् प्रतीपगा वायोः काश्चिदम्बरमागताः ॥
तन्तुनैव हि सम्बद्धा धूयमानेन वायुना ।
पतन्ती दृश्यते का चित् का चिद्भमति चाम्बरे ॥
उल्कासङ्घै परिवृता पतेत् का चिन्नभस्तलात् ।
तेजांसि विकिरन्त्यन्याः प्रधावन्ति च गोलवत् ॥
प्रनृत्यत्प्रेतमार्जारवराहानुगतास्तथा ।
सस्वना विस्वनाश्चापि तथा चायुधसन्निभाः ॥
एताश्चान्याश्च विविधाः पतन्ति च नभस्तलात् ।
एतासां फलमुक्तानां प्रवक्ष्यामि पृथक् पृथक् ॥
पद्मशङ्खेन्दुवज्राहिमत्स्यध्वजनिभाः शुभाः ।
श्रीवृक्षस्वस्तिकावर्त्तहंसद्विरदवत् तथा ॥
वराहसंहितायाम् ।
ध्वजझषगिरिकरिकमलेन्दुतुरगसन्तप्तरजतहंसाभाः ।
श्रीवृक्षवज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ॥
एता एव यदा भ्रमन्तः पतन्ति तदा दोषावहा भवन्ति ।
यदुक्तं गार्गीये ।
छत्रध्वजझषाकारा भ्रमन्ती निपतेद्यदि ।
महोल्का सप्तरात्रेण सा निहन्यान्नृपोत्तमम् ॥
मयूरचित्रे ।
इन्द्रध्वजरथाकारा भ्रमन्ती निपतेद्यदि ।
महोल्का सप्तरात्रेण सामात्यं हन्ति पार्थिवम् ॥
नागाश्वरथरूपाश्च ससैन्यं घ्नन्ति पार्थिवम् ।
महीधरनिभास्तास्तु घ्नन्ति देशं सराजकम् ॥
वराहसंहितायाम् ।
सुरपतिचापप्रतिमा राष्ट्रं नभसि विलीना जलदान् हन्ति ।
पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥
बार्हस्पत्ये तु ।
राष्ट्रमिन्द्रायुधप्रख्या मत्रिणं चक्रसन्निभा ।
विलीयमाना नभसि हिनस्त्युल्का पयोधरान् ॥
प्रजावैकल्यकारिण्यो वायोश्च प्रतिलोमगाः ।
नभोमध्यं च या यान्ति याश्च कुर्युर्गतागतम् ॥
वराहसंहितायाम् ।
वर्हिपुच्छरूपिणी लोकसंक्षयावहा ।
सर्पवत् प्रसर्पिणी योषितामनिष्टदा ॥
बार्हस्पत्ये तु ।
मयूरपिच्छानुगता कुर्यादुल्का जनक्षयम् ।
स्त्रीणामनिष्टदा ज्ञेया या च सर्पति सर्पवत् ॥
उल्कासङ्घैः परिवृता याः पतन्ति नभस्तलात् ।
अनुसारिण्य उल्कास्ता राजराष्ट्रभयावहाः ॥
वराहसंहितायाम् ।
अम्बरमध्यात् पूर्वाह्णे निपतन्त्यो राजराष्ट्रनाशाय ।
आकाशमध्यादन्यत्र राजभयमात्रम् ।
यथाऽऽह पराशरः ।
युगपदर्चिस्तनयित्नुमत्यो निपतेयुः पार्थिवाभावाय ।
वराहसंहितायाम् ।
बम्भ्रमती गगनोपरि संभ्रममाख्याति लोकस्य ।
बार्हस्पत्ये च ।
लोकविभ्रममत्यर्थं भ्रमन्ती गगनोपरि ।
करोतीति सम्बन्धः ।
वराहसंहितायाम् ।
यस्याश्चिरं तिष्ठति स्वेऽनुषङ्गो दण्डाकृतिः स्यान्नृपतेर्भयाय ।
या वीक्ष्यते तन्तुवृतेव स्वस्था या वा महेन्द्रध्वजतुल्यरूपा ॥
बार्हस्पत्ये च ।
या चाकाशे चिरं तिष्ठेद्दण्डवद्भूपभीतिदा ।
तथा तन्तुवृता हन्ति नृपमिन्द्रध्वजोपमा ॥
वराहसंहितायाम् ।
हन्ति मण्डला पुरं छत्रवत् पुरोहितम् ।
वंशगुल्मसंस्थिता राष्ट्रदोषकारिणी ॥
बार्हस्पत्ये ।
पुरं मण्डलसंस्थाना छत्राकारा पुरोधसम् ।
वंशगुल्मनिभा राष्ट्रं हन्यादुल्का नभःस्थिता ॥
गोलवद्याः प्रधावन्ति तासु राष्ट्रभयं वदेत् ।
मयूरचित्रे ।
रथकूवरसंस्थाना हन्यान्नृपतिवाहनम् ।
असिपट्टिशसंस्थाना हन्याद्राष्ट्ं सराजकम् ॥
रथकूवरसंस्थाना हन्याद्भूपं सवाहनम् ।
शूलपट्टिशसंस्थाना देशं हन्ति सराजकम् ॥
उल्का लाङ्गलसंस्थाना कर्षकाँश्चैव घातयेत् ।
मयूरचित्रे ।
लाङ्गलाकृतयस्ताश्च शिखिकण्ठसमत्विषः ।
अमात्यान् नैगमाँश्चैव घ्नन्ति वै कर्षकाँस्तथा ॥
पराशरः ।
श्वमयूरशूकररक्षःप्रविकीर्णकेशानिकाशाभिः प्रवरनरपतिविनाशः स्यात् ।
बार्हस्पत्ये ।
वराहप्रेतशार्दूलसिंहमार्जारवानरैः ।
तुल्या भयावहा उल्काऽतिकृष्णाऽशनिभा च या ॥
शूलपट्टिशशक्त्यृष्टिपरश्वधसमुद्गरैः ।
अस्त्रावरणतुल्याश्च वृषभाश्च न पूजिताः ॥
वराहसंहितायाम् ।
प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गुलमृगाभाः ।
गोधाहिधूमरूपा पापा या चोभयशिरस्का च ॥
एवंविधा यदा विस्तीर्णा भवन्ति तदा मध्यफला बोद्धव्याः ।
यथाऽऽह काश्यपः ।
आयुधप्रेतसदृशी जम्बुकोष्ट्खराकृतिः ।
धूमरूपा च यो सोल्का विस्तीर्णा सा तु मध्यमा ॥
वराहसंहितायायाम् ।
व्यालशूकरोपमा विस्फुलिङ्गमालिनी ।
खण्डशोऽथ वा गता सखना च पापदा ॥
पतन्त्येव चेत् खण्डशो विशोर्येत सन्निपातं राज्ञामितरेतरभेदं च ।
बार्हस्पत्ये ।
प्रनृत्यत्प्रेतमार्जारवराहानुगताश्च याः ।
क्रव्यादव्यालरूपाश्च जलसंक्षयकारिकाः ॥
स्फुलिङ्गान् विसृजन्त्यो यास्ताश्च वह्निभयप्रदाः ।
खण्डखण्डगता नेष्टाः सस्वनाश्वातिदारुणाः ॥
क्ष्वेडितास्फोटिताक्रुष्टा गीतवादित्रनिस्वनाः ।
उल्काः पातेषु बोद्धव्या राजराष्ट्रभयावहाः ॥
वराहसंहितायां च ।
स्वेदास्फोटितवादितगीतोत्क्रुस्वना भवन्ति यदा ।
उल्का निपातसमये भयाय राष्ट्रस्य सनृपस्य ॥
मयूरचित्रे ।
सद्यो या रक्तवर्णा च ज्ञेया शस्यविघातिनी ।
महाशब्दं च कुर्वाणा यदोल्का निपतन्ति च ॥
विपत्तिविषयं याति सदारो नृपतिस्तदा ।
पद्मपुराणाग्नेयपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।
अपतन्नगराहुलका विद्युद्रुपाः सशब्दिताः ।
दिवा रात्रौ पतन्ति स्म हसन्त्यो रविमण्डलम् ॥
गार्गीये ।
अग्निवर्णा सनिर्घाता उल्का तु निपतेद्यदि ।
तदा हि योधलक्षस्य मही पिवति शोणितम् ॥
गदापर्वणि पाण्डवशिविरक्षयनिमित्तम् ।
"महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी ।
पापात चोल्का महती पतिते पृथिवीपतौ” [२३३] ॥
वटकणिकायाम् ।
क्रूरग्रहर्क्षलग्नक्षणतिथिकरणप्रभञ्जनैर्दीप्ता ।
दीप्ताण्डजमृगविरुतैर्निर्घातैः क्षितिविकम्पैश्च ॥
क्रूरग्रहर्क्षलग्नादिभिर्दीप्ता भवति अनिष्टफलदा भवतीत्यर्थः ।
अयोध्याकाण्डे ।
"सनिर्घाता महोल्काश्च पतन्ति हि महास्वनाः ।
प्रायेण हि निमित्तानामीदृशानां समुद्भवे ॥
राजा वा नाशमाप्तोति राष्ट्रं वा नाशमृच्छति”[२३४] ।
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“अपतद्दीप्यमाना च सनिर्घाता सकम्पना ।
उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः"[२३५] ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“पतन्त्युल्काः सनिर्घाताः शाक्राशनिसमप्रभाः ।
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥
विनिःसृत्य महोल्काभिस्तिमिरं सर्वतो दिशम् ।
अन्योन्यमुपतिष्ठन्द्भिस्तत्र चोक्तं महर्षिभिः ।
भूमिपालसहस्राणां भूमिं पास्यति शोणितम्[२३६] ॥
सनिर्घाता विद्युतोऽशनयश्च दोषाहा भवन्ति ।
तथा च द्रणपर्वणि द्रोणवधनिमित्तम् ।
“शक्राशन्यश्च निष्पेतुः संनिर्घाताश्च विद्युतः[२३७] ।
सभापर्वणि कुरुपुरविनाशनिमित्तम् ।
"उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत"[२३८]
गार्गीये ।
उल्का ज्वलन्ती निपतेद्यदा वै धूमान्विता तालसमानमात्रा ।
सव्यापसव्यं विहितान्तनादा सा हन्ति दीप्ताकुलजाबलाङ्गलान् ॥
मयूरचित्रे ।
उल्का ज्वलन्ती यदि रेणुरूपा सधृभ्रदण्डा पृथुतालमात्रा ।
सव्यापसव्यं विकृता सधूमा निहन्ति दस्यून् कुनृपाननेकान् ॥
पराशरः ।
सधूमा स्वरनिर्ह्नादिनी व्यभ्रेऽतिचण्डनिर्घाता नैर्ऋतीं दिशमभिपतेत् ज्वलन्ती तालमात्रा सधूमदण्डा हन्याद्रक्षः पिशाचदस्यून् कुराज्ञश्च ।
गार्गीये ।
पूर्वरात्रे तथोलका चेदादित्यपथमाश्रिता ।
पश्चिमाऽभिमुखी याति मध्यं गत्वा विशीर्यते ॥
तदा शस्येषु नष्टेषु दुर्भिक्षमचिराद्भवेत् ।
मयूरचित्रे तु ।
पूर्वरात्रे तु सम्भूता आदित्यपथमाश्रिता ॥
पश्चिमाभिमुखी याति मध्ये चैव विशीर्यते ।
निष्पन्नेष्वपि शस्येषु तदा दुर्भिक्षमादिशेत् ॥
मानुषाश्च विपद्यन्ते समृद्धाश्च कुटुम्बिनः ।
पराशरः ।
यत्रातिमात्रज्वालाङ्गारकणानि चोद्वमन्ती भृशं स्तनयित्नुमत्यभिपतेत् तत्राचिरात् परचक्रम् ।
मयूरचित्रे।
यदा महोल्का निपतेत् सधूमा घोरेण रूपेण च सस्फुलिङ्गा ।
अङ्गारवर्ष विपुलं सृजन्ती भयाय सा शंसति पार्थिवानाम् ॥
अभीक्ष्णमुल्का निपतन्ति यत्र स्फुलिङ्गयुक्ताश्च नभःस्थलान्ताः।
विनाशमाहूर्नृपतेस्तदानीं यथाऽऽह गर्गे हरभाषितानि ॥
उल्कावर्षो यदि भवेच्छिलावर्षसमन्वितः ।
योधमुख्यसहस्राणां भूमिः पास्यति शोणितम् ॥
आदिपर्वणि गरुणेन गजकच्छपभक्षणनिमित्तम् ।
".............पेतुरुल्काः सहस्रशः”[२३९]।
मौशले वृष्णिवंशक्षयनिमित्तम् ।
"उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि"[२४०] ।
पराशरः ।
या चावनिमभिपत्याशु पुरुषमात्रमभिज्वलेत् सा पञ्चमासाभ्यन्तरादन्यभूपतिकारिणी स्यात् । या च निपत्याङ्गारमिवाभासेन्मुहुरन्तर्दशरात्रीः साऽन्यमवनिपतिमधिकुर्यात् ।
पद्मपुराणे तारकामययुद्धे देवानां पराजयनिमित्तम् ।
पेतुरुल्काः सहस्राणि निपेतुः खचराणि च ।
पराशरः ।
तथा सुमहती सधूमज्वाला तारागणानुसृता यमभिप्रायात् तमपसव्यतः प्रतिलोमं वाऽऽगच्छेत् तं हन्यात् ।
अथोल्काया अधोमुखादिपतनफलं बार्हस्पत्ये ।
अधोमुखो नृपं हन्याद्ब्राह्मणानूर्ध्वगामिनी ।
तिर्यगाराजपत्नीश्च श्रेष्ठिनः प्रतिलोमिनी ॥
वराहसंहितायाम् ।
हन्त्यधोमुखी नृपान् ब्राह्मणाँस्तथोर्ध्वगा।
तिर्यगानृपाङ्गानाः श्रेष्ठिनः प्रतीपगा ।
अथ वर्णफलं गार्गीये ।
यदा विनिपतन्त्युल्काः कुन्देन्दुरजतप्रभाः ।
राजा विजयमाप्नोति सुभिक्षेक्षेम एव च ॥
यदा विनिपतन्त्युल्काः कुन्देन्दुरजतप्रभाः ।
राज्ञो विजयमानष्टे सुभिक्षक्षेमकारिका ॥
दधिकाञ्चनवैदर्यचन्द्रस्फटिकसन्निभाः ।
उल्कारजतसंकाशाः क्षेममाहुर्महीपतेः ॥
अग्निवर्णाश्च सुस्निग्धा रूप्यस्फटिकसन्निभाः ।
पतन्ति वर्षमाख्यान्ति महोल्काः सद्य एव तु ॥
वैदूर्यवर्णस्फटिकप्रकाशाः सुवर्णवर्णा रजतप्रभाश्च ।
याश्चन्द्रवर्णादधिकप्रकाशास्ताः क्षेममाहर्विजयं च राज्ञः ॥
वैदूर्यवर्णासु वदन्ति कृत्स्नं क्षेमं सुभिक्षं स्फटिकप्रभासु ।
अग्निप्रकोपं कनकप्रभासु रक्तासु संग्राममुदाहरन्ति ॥
श्यामा रूक्षा च विध्वस्ता शस्यपीडावहा मता ।
चन्द्रमण्डलवर्णा या पावकार्चिःप्रभाऽथ वा ॥
उल्का विनिपतेद्यत्र युवराजवधं वदेत् ।
वराहसंहितायाम् ।
श्यामारुतनीलाऽसृग्दहनासितसन्निभा रूक्षा ।
सन्ध्यादिनजा वक्रा दलिता च परागमभयाय ॥
शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णाघ्नी ।
क्रमशश्चैतान् हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः ॥
एताः शुक्लादिवर्णा उल्का यथाक्रमं कूर्मविभागोक्तक्रमेण मूर्धोरःपार्श्वपुच्छस्थान् जनपदान् हन्युः । बार्हस्पत्ये ।
हिनस्ति शुक्ला शीर्षस्था मध्यस्थान् क्षतजप्रभान् ।
पीता वैश्योपघाताय शूद्रान् हन्यात् सितेतरा ॥
स्फुलिङ्गाद्यशुभलक्षणयुक्तोल्का शुल्कादिवर्णा विप्रादिनाशिनी बोद्धव्या । यदुक्तं गार्गीये ।
श्वेता च सस्फुलिङ्गोल्का ब्राह्मणानां भयावहा ।
क्षत्रियाणां तु संरक्ता वैश्यानां पीतवर्णिका ॥
कृष्णा सधूमा शूद्राणां भयमाख्याति दारुणम् ।
मयूरचित्रे तु ।
रजउल्कापातविद्युद्दिग्दाहाः प्रभवन्ति चेत् ।
श्वेताः पीतास्तथा रक्ताः कृष्णा विप्रादिनाशनाः ॥
अनुवर्णं क्रमेणोक्ता यथा गर्गेण भाषितम् ।
अथ दिक्फलं वराहसंहितायाम् ।
उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा ।
स्निग्धा खण्डा ऋज्वी नीचोपगता च तद्वृद्द्यै ॥
वटकणिकायां तु ।
उदगादिषु विप्रादीन् सितरक्तसुवर्णकृष्णवर्णाश्च ।
घ्नन्तीति सम्बन्धः ।
पराशरास्तु ।
श्वेतरक्तपीतकृष्णवर्णाः सौम्यादिदिगनुगामिन्यो ब्राह्मणादिवर्णघातायान्यवर्णाऽन्यदिशमभिपतन्त्युभयवर्णमभिहन्यात् ।
आदित्यचन्द्राभिमुखाद्युल्कापातफलं गार्गीये ।
आदित्याभिमुखी या च उल्का पतति दारुणा ।
पराशरस्तु ।
महती चोज्ज्वलन्ती तिर्यक् सूर्यमभिद्रवेद्वधाय राज्ञः ।
मयूरचित्रे ।
आदित्याभिमुखी चोल्का पतन्ती दारुणा मता ।
शशाङ्काभिमुखी यत्र पतत्युल्का सुदारुणा ॥
करोति द्विजपीडाश्च पुरोहितवधं तथा ।
दिवोल्का चन्द्रार्कविनिर्गता उद्योतिनी अतिस्थूला सस्फुलिङ्गा तथोर्ध्वगा राजमृत्यवे स्यात् ।
अथ ग्रहनक्षत्रपीडाकृदुल्काफलं मयूरचित्रे ।
ग्रहर्क्षसोमसूर्येषु पतन्त्युल्का भयावहाः ।
कास्यपः ।
नक्षत्राणि ग्रहाश्चैव उल्कया ध्वस्तधूपिताः ।
तद्देशनाथनाशाय लोकानां संक्षयाय च ॥
पराशरस्तु ।
सूर्यमेव चेदभिहत्योल्का याम्यां दिशमभिपतेद्राज्ञो वधाय ।
पराशरः ।
या चार्कचन्द्रयोरग्रतो निपतेन्नृपतिजयमविजयं च पृष्ठतः।
वराहसंहितायाम् ।
पौरेतरघ्नमुल्काऽपसव्यकरणं दिवाकरहिमांश्वोः ।
उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥
आदित्यमण्डलादुल्कपातोऽतीव भयावहः । तथा च भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"पपात महती, चोल्का मध्येनादित्यमण्डलात्"[२४१] ।
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“पपात महती चोल्का आदित्यान्निःस्वनत्युत”[२४२] ।
स्कन्दपुराणे लोकोद्वेगनिमित्तम् ।
दिवाकरात् कबन्धाङ्गात् पेतुरुल्काः समन्ततः ।
चन्द्रविम्बविनिःसृताऽपि दोषावहा भवति । वराहसंहितायाम् ।
संस्पृशती चन्द्रार्कौ तद्विम्बविनिःसृता सभूकम्पा ।
परचक्रागमनृपभयदुर्भिक्षावृष्टिभयजननी ।
हरिवंशे बाणपराजयनिमित्तम् ।
"सूर्यं भित्वा महोल्का च पपात धरणीतले"[२४३]।
आश्वमेधिके सैन्धवपराजयनिमित्तम् ।
"उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः"[२४४] ।
शल्यपर्वणि कौरवक्षयनिमित्तम् ।
"सदण्डा: सोल्मुका राजन् कीर्यमाणाः समन्ततः ।
उल्का: पेतुर्दिवो भूमावाहत्य रविमण्डलम्"[२४५]॥
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
“पपात महती चोल्का प्राङ्मुखी भरतर्षभ ।
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना”[२४६] ॥
पराशरः ।
उदयेऽस्तमये भानुमुल्काऽऽहत्य समुच्छ्रिता ।
प्रज्वलन्ती तदा राजा क्षिप्रं शस्त्रेण हन्यते ॥
वराहसंहितायाम् ।
दिवसकरमुदयसंस्थितमुल्काशनिविद्युतो यदा हन्युः ।
नरपतिमरणं विद्यात् तदाऽन्यराष्ट्रप्रतिष्ठां च ॥
अथ चन्द्र पीडाकृदुल्काफलम् । पद्मपुराणमत्स्यपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।
उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ।
गार्गीये ।
चन्द्रमण्डलगा या च पावकार्चिः प्रभाऽथ वा ।
उल्का विनिपतेत् तत्र युवराजवधं वदेत् ॥
पराशरः ।
चन्द्रमसमभिहन्यादभियाक्तुर्वधाय च । सूर्ये नागराणां तयोरेवान्तरा चेद्व्रजेद्यायिनागरसंधानय- इति ।
वराहसंहितायां तु ।
उल्कया यदा शशी ग्रस्त एव हन्यते ।
हन्यते तदा नृपो यस्य जन्मनि स्थितः ॥
जन्मनि जन्मराशावित्यर्थः ।
पराशरः ।
उपरक्तं चन्द्रमसमभिदध्यादभियोक्तुर्वधाय ।
मत्स्यपुराणे हिरण्यकशिपुवधनिमित्तम् ।
"गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते"[२४७] ।
पराशरः ।
पीताऽरुण नीलासितरक्ता वा सस्फुलिङ्गाङ्गारार्चिर्वाऽर्कमिन्दुपुद्यन्तमभिघ्नती प्रवरनरपतिविनाशिनी स्यात् ।
वरासंहितायाम् ।
उदये घ्नती रवीन्दू पौरेतरमृत्यवेऽस्ते वा ।
बृहद्यात्रायाम् ।
लग्नेऽर्केन्दू निघ्नती शास्ति पौरान् उल्का हन्याद्या तु पौरग्रहाँश्च ।
यातुः शस्ता समृता वा ध्रुवर्क्षे नेष्टाऽतोऽन्या धूमिनी या न रूक्षा ॥
भौमघातफलं गार्गीये ।
यदा तु निपतन्त्युल्का हन्यादङ्गारकं ग्रहम् ।
तदा सेनापतिवधं शस्त्रकोपं च निर्दिशत् ॥
मयूरचित्रे ।
निपतन्ती यदा चोल्का निहन्त्यङ्गारकं ग्रहम् ।
सेनापतिवधं ब्रूयाच्छस्त्राग्निभयमेव च ॥
बुधघातफलं गार्गीये ।
यदा बुधं तापयन्ती उल्काज्वलनसन्निभा ।
तदा कुमारमरणं ज्ञेयं देशस्य पीडनम् ॥
मयूरचित्रे ।
बुधं सन्तापयत्युल्का ज्वालामालासमाकुला ।
कुमारमरणं ब्रूयाद्भृपपीडा च सम्भवेत् ॥
बृहस्प्रतिघातफलं गार्गीयमयूरचित्रयोः ।
बृहस्पतिं देवगुरुं यद्युल्का परितापयेत् ।
पुरोहितवधं ब्रूयात् पीड्यन्ते च द्विजातयः ॥
भार्गवघातफलं गार्गीये ।
भार्गवं तापयन्ती सा तत्र राजवधं वदेत् ।
मयूरचित्रे ।
भार्गवं तापयन्ती सा महाराजभयावहा ।
शनैश्चरघातफलं मयूरचित्रे ।
निपतन्ती यदा चोल्का दीप्ता हन्ति शनैश्वरम् ।
तदा नायकमुख्यानां गार्गीया ब्रुवते फलम् ॥
गार्गीये ।
यदा रविसुतं दीप्ता उल्का हन्ति शनैश्चरम् ।
तदा नायकमुख्याँश्च बलाध्यक्षाँश्च पातयेत् ॥
अथ नक्षत्रघातफलं वराहसंहितायाम् ।
भाग्यादित्यधनिष्ठामूलेषूल्काहतेषु युवतीनाम् ।
उग्रक्षत्रिय[२४८] पीडा पुष्यानिलविश्वदेवेषु ॥
ध्रुवसौम्येषु नृपाणामुग्रेषु सवारुणेषु चौराणाम् ।
क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥
जन्मनक्षत्रघातफलं गार्गीये ।
यस्य राज्ञस्तु नक्षत्रमुल्कया प्रतिहन्यते ।
स राजा नश्यति क्षिप्रं यदि शान्तिं न कारयेत् ॥
मयूरचित्रे ।
यस्य वै जन्मनक्षत्रमुल्कया प्रतिहन्यते ।
क्षिप्रं स हीयते राजा यदि शान्ति न कारयेत् ॥
पराशरस्तु ।
असिमुशलभिन्दिपालोरुभुजगाकृतिश्चंन्निर्घाताङ्गारधूमार्चिष्मती या वा महती यस्यर्क्षमवनिपतेरभिहन्यात् स हन्यते सराष्ट्रम् |
मयूरचित्रे |
त्रिशङ्कुं ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
अरुणं शिशुमारं च सप्तर्षीन् ध्रुवमेव च ।
एतानभिहतान् दृष्ट्वा उल्कादिभिर्महद्भयम् ॥
गार्गीये तु ।
त्रिशङ्कु ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
अरुणं शिशुमारं च ध्रुवं सप्तर्षिमण्डलम् ।
एतान् यदि निहन्त्युल्का तदा विद्यान्महाभयम् ॥
विलुप्यन्ते च भूतानि दस्युभिर्मरकेण वा ।
बार्हस्पत्ये ।
आशाग्रहोपघातेषु तद्दिश्यानां भयं वदेत् ।
वराहसंहितायाम् ।
आशाग्रहोपघाते तद्देश्यानाम्.....
पीडां करोतीति सम्बन्धः । तथा ।
नक्षत्रग्रहघातै स्तद्भक्तीनां क्षयाय निर्दिष्टा ।
वटकणिकायां च ।
उल्काग्रहर्क्षपाते तद्भक्तीनां च नाशाय ।
बार्हस्पत्ये तु ।
ग्रहेषु राज्ञां जानीयाद्भेषु तद्भक्तिजं भयम् ।
गार्गीये ।
यदि नक्षत्रमाश्रित्य द्विधा भूत्वा विशीर्यते ।
ज्ञेया प्रतिहता सोल्का न तत्र फलमादिशेत् ॥
अथोल्काविद्युदशनीनामाश्रयविशेषेषु पातफलं गार्गीये ।
ग्रहर्क्षसोमसूर्येषु निपतेत् तोरणे ध्वजे ।
गृहे च निपतेद्यत्र तत्रापि भयमादिशेत् ॥
मयूरचित्रे ।
तोरणध्वजगेहेषु स्वामिनां वधमादिशेत् ।
वराहसंहितायां तु ।
कुर्वन्त्येताः पतिता देवप्रतिमासु राष्ट्रभयम् ।
शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ॥
बार्हस्पत्ये ।
देवतार्चासु पतनाद्राजराष्ट्रभयं भवेत् ।
एतासामिन्द्रशिरसि पतने नृपतेर्भयम् ॥
द्वारि वा पुःक्षयं विन्याद्गृहे तत्स्वामिनो भयम् ।
वराहसंहितायाम् ।
चैत्यतरौ संपतिता सत्कृतपीडां करोत्युल्का ।
द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः ॥
बार्हस्पत्ये च ।
चैत्यवृक्षादिपातेषु सत्कृतानां महद्भयम् ।
पुरद्वारि पुरक्षोभमिन्द्रकीले जनक्षयः ॥
वराहसंहितायाम् ।
ब्राह्मायतने विप्रान् विनिहन्याद्गोमिनो गोष्ठे ।
ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥
वराहसंहितायाम् ।
......खले कृषिकराणाम् इति ।
मयूरचित्रे ।
वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥
बार्हस्पत्ये तु ।
स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ॥
अत्रानुक्तविशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या।
मयूरचित्रे तु ।
अत्र साधारणो शान्तिः कर्त्तव्या-इत्युक्तम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।
अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे ।
दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।
तथा च पराशरः ।
दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।
दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् ।
महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥
एतदपि दिवापतितमहोल्कापरम् ।
तत्रैव ।
दिवोल्कायां नृपो ज्ञात्वा वरेद्विप्रं सुशिक्षितः [२४९] ।
दत्वा ग्रामवरं चास्मै शान्तिकर्म प्रवर्त्तयेत् ॥
वृतः स गत्वाऽरण्यार्धं दीक्षामादित्यदैवताम् ।
गृहीत्वा नवरात्रं त तपेन्मूलाशनो यतः ॥
फलाशनो वा शाकाशो पिबेद्गव्यं पयोऽथ वा ।
नवाहान्ते त्रिरात्रं तु सलिलेनैव वर्त्तयेत् ॥
प्रागुदक्प्रवणे देशे रमणीयेऽथ वा पुनः ।
आरण्यमुपयुञ्जानश्चरेद्दीक्षां समाहितः ॥
महीक्षितश्चरेन्नित्यं बलिं द्वादशरात्रिकम् ।
समन्ताद्यो विपक्षश्च विदूरश्व महासुरः ॥
तथा समरसश्चैव एतेषां निर्दिशेद्बलिम् ।
आपूपं भक्तसहितं शूर्पे सचरुमेव [२५०] च ॥
रक्षेभ्यो रुधिरं दद्यादुहुद्धमृतकाश्च ये ।
सप्तधेन्वादिकानेतान् सम्भारानुपकल्पयेत् ॥
श्वेतां धेनुं लोहितां च कृष्णां च कपिलां तथा ।
वह्निस्वरूपां च तथा बहुरूपां च सप्तमीम् ॥
सुवर्णनाभं कुर्वीत् ताम्रपात्रं सुविस्तरम् ।
ताम्रस्रुवं शुक्लकृष्णा व्रीहीश्चैवोपकल्पयेत् ॥
तासां च सप्तधेनूनां क्षीरं संपाद्य यत्नतः ।
सद्योजातं दधि ततो मन्थानेनाभिमन्थयेत् ॥
इच्छन्ति के चिन्मन्थानं दक्षिणेनैव पाणिनां ।
असद्योजातमपि वा के चिन्मध्यं जगुर्दधि ।
तदुक्तं नवनीतं तु दिनान्येकादशैव हि ।
रक्षेत् पिपिलीकादिभ्यः सुगुप्तं तु निधापयेत् ॥
द्वादशेऽहनि संप्राप्ते यत्रोल्का पतिता भवेत् ।
तस्य देशमभिव्रज्य हेमपुङ्खशरेण तु ॥
प्रतिविध्य परं मृत्यो इति मन्त्रेण मन्त्रवित् ।
शान्तिवृक्षमयेनाथ संदंशेन तु मृत्तिकाम् ॥
गृहीत्वाऽनवेक्षमाणो गत्वा दक्षिणतः क्षिपेत् ।
द्देष्यदेससमीपे वा तां मृदं प्रक्षिपेद्बुधः ॥
अनवेक्षमाणः प्रत्येत्य अष्टौ दिश्याः प्रकल्पयेत् ।
वेदीर्मध्ये वेदीमेकां सप्तविध्यादिसंभृतः ॥
क्षीरोदनं मध्यमेऽग्नौ श्रपयित्वा यथाविधि ।
कामयुक्तेन जुहुयादुपस्ताराभिघारितम् ॥
संपातानानयेच्छषे ततः पूर्वादिवह्निषु ।
होमः प्रदक्षिणं कार्यः संपाताँश्चैव पातयेत् ॥
होमः क्षीरोदनैश्चैव यामाहुस्तारकामिति ।
ततः क्षीरोदनात् तस्मान् सार्धपिण्डद्वयं ततः ॥
उल्कापातसमीपस्थैः प्राश्नीयात् तु वरैः सह ।
सर्वे च ते वरान् दद्युः प्राश्यकर्मोपकल्पकाः ॥
तामेवोपाचरेयुस्ते सर्वे च द्वादशीं निशाम् ।
यथोक्तमालभेनात्र पशुमादित्यदैवतम् ॥
यद्दैवतां चरेद्दीक्षां हविस्तद्दैवतं भवेत् ।
यथोक्तेन विधानेन वर्षाहोमादिकं चरेत् ॥
सावित्रीशान्तिसश्राद्धैर्विश्वकर्माभिरैव न ।
आदित्यनैर्ऋतैर्होमै राष्ट्रं हुत्वा यथाविधि ॥
महाशान्तिं ततः कुर्याद्धोत्रे ग्रामस्वदक्षिणाम् ।
गार्गीये ।
यस्मिन् देशे पतन्त्युल्का भास्करे गगनस्थिते ।
सदेशो राजभृत्यश्च राजा चैव विनश्यति ॥
गगनस्थिते मध्याह्ने स्थित इत्यर्थः । यथाऽऽह नारदः ।
उल्का वा पतते विप्र मध्याह्ने चार्धरात्रतः ।
उदये प्रातः सन्ध्यायामपराहे विशेषतः ॥
तद्देशे म्रियते राजादुर्भिक्षं च भवेत् ततः ।
देशस्तत्र विनश्येत षड्भिर्मासैर्न संशयः ॥
अर्धरात्र एव तु यदा उत्तरस्यां दिशि पतति तदा महावर्षं करोति न राजरमणादिकम् ।
तथा च पराशरः ।
सौम्यां दिशमर्धरात्रेऽभिपतति महावर्षमिति । मध्याह्ने तु
यदा सधूमोल्कापातो भवति तदा सप्ताहाभ्यन्तरे फलं भवति ।
तथा च मयूरचित्रे ।
मध्याह्ने चेत् पतेदुल्का ज्वालाधूमसमाकुला ।
ससैन्यं सप्तरात्रेण नृपव्यूहं च नाशयेत् ॥
ज्वालासमाकुला ससैन्यं नृपं हन्ति । धूमसमाकुला व्यूहमिति ।
यदुक्तं भार्गवीये ।
मध्याह्ने चेत् पतेदुल्का ज्वलन्ती चाग्निसन्निभा |
ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥
उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।
तथा च मयूरचित्रे ।
उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे ।
प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।
मयूरचित्रे ।
प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
नगरं मुच्यते राज्ञा सकोषबलवाहनम् ॥
विधूमाऽत्र ज्वलन्तो पौरे नृपतिं हन्ति ।
तथा च गार्गीये ।
पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
नागरं हन्ति राजानं सकोपवलवाहनम् ॥
अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।
पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥
अपरासु मध्याह्ने सन्ध्यासु च ।
यदुक्तं गार्गीये ।
प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥
सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।
अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥
स्वदैवत्यमग्निदैवतमित्यर्थः ।
धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।
अस्मिन् नाशकृते शान्तिर्ग्रामस्य च शुभं भवेत् ॥
मयूरचित्रे
उदयेऽस्तमये वज्रपातो राज्ञां वधाय तु ।
तथा ।
प्रासादे भवने क्षेत्रे ग्राममध्ये तथा गिरौ ।
निर्घातश्चाशनिश्चैव पतिता यदि कर्हि चित् ॥
भयं तत्र विजानीयाच्छान्तिः साधारणी त्विह।
तथा।
यत्र वातो महावेगो महोल्कावज्रमुल्वणम् ।
तत्र वै षोडशो शान्तिर्या वाच्या परिवेषणे ॥
तथा।
प्रतोल्यां नगरद्वारे तोरणे राजवेश्मनि ।
गजगोवाजिशालासु पार्थिवानां गृहेषु च ॥
शान्तिगृहे देवगृहे राजमार्गे चतुष्पथे ।
उल्का वा यदि वा वज्रं पततश्चेत् कथञ्चन ॥
मासस्याभ्यन्तरे चैव तत्र विन्द्यान्महद्भयम् ।
राजा जनपदः पौरो भवेद्यश्च पुरोहितः ॥
द्वितीया शान्तिरत्रोक्ता विशेषस्तेष केवलः ।
त्रिषु स्थानेषु जायन्ते महोत्पाताश्च तेष्विमाम् ॥
शान्तिं कुर्याच्चरुं चास्य प्राशनं दक्षिणामपि ।
तथा।
प्राकारे नगरद्वारे तोरणे राजवेश्मनि ।
गजशालाश्वशालायां विद्युत्प्रपतनं सति ॥
विनश्यति बलाध्यक्षः प्रथमा शान्तिरत्र तु ।
तथा ।
सन्ध्ययोरुभयोरुल्कापातश्चैवाशनिध्वनिः ।
भयं ब्रूयाच्च भूपानां कोशशस्त्राग्निजं तथा ॥
तत्राग्निब्राह्मणानां च पूजां कृत्वा महीपतिः ।
हेमवाहनरत्नाद्यैर्महीं दद्याद्द्विजन्मने ॥
चरुः कार्योऽशनं तस्य भोज्या विप्राः सदक्षिणाः ।
इति चतुर्दशी शान्तिः ।
तथा ।
ज्वलत्युल्का पतेद्गेहेऽसुनाशार्थेन तद्भवेत् ।
शान्तिहोमं ततः कुर्याद्दद्याद्गां चैव दक्षिणाम् ॥
तथा ।
वज्रमुल्काऽशनिर्वाऽपि गृहादौ निपतेद्यदि ।
वर्षस्याभ्यन्तरे चैव भयं विन्द्याज्जनक्षयम् ॥
राजामात्यविनाशः स्याच्छान्तिरत्राग्निचोदिता।
त्रिरात्रोपोषितो भूत्वा हविष्याशो पुरोहितः ॥
अपामार्गस्य समिधं सहस्रं जुहुयाद्बुधः ।
अष्टोत्तरं ततो विप्रान् भोजयेत् पायसेन तु ॥
रक्ताशोकसवर्णानां गवां क्षीरं समाहरेत् ।
हुत्वा हुतिशतं विप्रो मन्त्रेणैन्द्रेण मन्त्रवित् ॥
सुवर्णं रजतं कांस्य हुत्यन्ते भूरिदक्षिणाम् ।
इति सप्तदशी शान्तिः । नारदः ।
गृहे वज्रं पदेद्यत्र तत्र दोषं विनिर्दिशेत् ।
धनं पुत्राश्च नश्यन्ति स्वयं नश्यति वा प्रभुः ॥
ईशारुद्रेति मन्त्रेण होम एव विधीयते ।
विप्राय दापयेत् तत्र तिलपात्रं सकाञ्चनम् ॥
धेनुं च वृषभं चैव ततः संपद्यते शुभम् ।
यत्र देव कुले वज्रं पतेदुघ्रोपि वा पुनः ।
ईशानो भिद्यते यत्र वज्रेणैवाहतः क्वचित् ॥
ग्रामोत्सादो भवेत् तत्र स्वामितो मरणं दिशेत् ।
राज्ञो वा मरणं राष्ट्रं धनं धान्यं च नश्यति ॥
अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
रत्निमात्रमतः खात्वा अधस्ताद्द्वादशाङ्गुलम् ॥
कुण्डं कृत्वा विधानेन ततो होमं समाचरेत् ।
शुचिश्च प्रयतो भूत्वा अग्निः स्थाप्यो विधानतः ॥
चरुं च यमदैवत्यं स्थापयित्वा विधानतः ।
परिधाप्याहतं वासः शोभनं द्विजसत्तम ॥
ससुवर्णेन हस्तेन ततः कर्म समाचरेत् ।
अष्टोत्तरशतं हुत्वा घृताक्तं समिधां ततः ॥
माषैर्मुद्गैस्तिलैश्चैव तण्डुलेश्च सितैस्तथा ।
घृतेन मधुना चैव नैवेद्यानि तु कारयेत् ॥
संपूर्णानां शरावाणां कुण्डे कुर्याम्निधापनम् ।
तिलधान्यैर्यवैश्चैव घृतेन मधुना सह ॥
एभिः पञ्चसहस्राणि शक्तिबीजेन होमयेत् ।
होमान्ते तर्पयेद्विप्रान् दक्षिणाभोजनादिभिः ॥
भूमिं धेनुमनाहं स्वर्णं धान्यं च दक्षिणाम् ।
पञ्चगव्यं ततः कृत्वा स्नायाद्देवालयं द्विजः ॥
कलशेन पुनः स्नायाद्देवं संपूज्य यत्नतः ।
स्त्रायात् स्नापयेदित्यर्थः ।
बलिं दत्वा विधानज्ञः कृशरैः पायसैस्तथा ।
विद्युदहोभिः षड्भिस्तद्वत् तारा विपाचयति ॥
अभिभवति यतः पुरं वलं वा भवति भयं तत एव पार्थिवस्य ।
निपतनि च यया दिाशा प्रदीप्ता जयति रिपूवचिरात् तु तत्र तत्र ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे उल्काद्भुतावर्त्तः ।
अथ विद्युदद्भुतावर्त्तः।
तत्र शुभसूचकविद्युल्लक्षणं मयूरचित्रे ।
मुक्तावलीनिभां स्निग्धां विद्युतं रजतप्रभाम् ।
मेघमध्यगतां दृष्ट्वा सुभिक्षं क्षेममादिशेत् ॥
बृहद्यात्रायां वराहः ।
तन्वी प्रलम्बा विजयाय दीर्घा तडिद्घनस्कूर्जितवर्जिता च ।
पराशरः ।
अथ विद्युदूर्ध्वाधस्तिर्यग्गतित्वात् पिण्डितत्वाच्च ज्वालावर्णवातविशेषान् दृष्ट्वा तत्फलं ब्रूयात् सयो जलधरो वर्षेत् । तत्र पूर्वा सूर्यकान्ता दक्षिणा शतह्नदा पश्चिमा तडित् उत्तरा सौदामिनी शेषा दिग्देवताविख्याताः । तासां सूर्यकान्ता सौदामिन्यैशानी वार्षिक्या । सूर्यकान्ता तु कृष्णा कृष्णमेघस्था अवर्षाय । श्वेता च वर्षाय च । वृषशिरसि स्थिता ग्रहयोर्वा मध्ये वातवर्षाय । आग्नेयी नैर्ऋती च वार्षिक्यौ । हरितावभासा तु नैर्ऋती महावर्षायेति ।
मयूरचित्रे तु ।
उदकपश्चिमपूर्वातु दिवेशान्यां च विद्युतिः ।
वृष्टिर्वायव्यभागे तु विज्ञेयः पवनोद्गमः ॥
रक्तमानीलपर्यन्ता यदा विद्युत् प्रकाशते ।
आग्नेयेऽथ दिशो भागे स्वल्पं वर्षति वासवः ।
शस्त्रसंपातभूयिष्ठं याम्ये तु भयमादिशेत् ॥
पराशरस्तु ।
स्निग्धा हरितावभासा सरश्मिः शतह्नदा मेदोवर्णा च महावर्षाय-इति ।
मयूरचित्रे ।
समन्ताद्यदि दृश्येरन् दिक्षु सर्वाशु विद्युतः ।
सप्तरात्रं महावर्षं घोरं चैव विनिर्दिशेत् ॥
परशरस्तु ।
सर्वाश्चेत् प्रदक्षिणमभिवृत्योदयन्त्यः सुर्महावर्षाय । विपर्यये विपरीताः । तासु बलवती चाशुगतिः पाण्डुताम्रा बहूदका। सर्वा एव वाताय कपिलिकाः । आतपाय लोहिताः । सर्वोर्ध्वगतयो रश्मिवत्योऽन्तःपरिवेषगताः । स्निग्धा नीलाश्चेतरेतरं विशेयुस्ताडयेयुरुल्लिखेयुर्वायोश्चादित्यं विशेयुः श्वेतमण्डलाकाराः सोमान्निष्क्रम्य सूर्यं विशन्त्यो वर्षाय । सूर्यान्निष्क्रम्य नीलश्वेतारुणावभासाः सोमं विशन्त्यो भयाय वर्षाय वा । दक्षिणमार्गे सर्वाः स्युरवर्षाय । त्रिषु चेन्मार्गेषु मध्यमोत्तमयोश्चरन्ती वर्षायैव । अजवीथ्यादिषु या नीलाभ्रस्था तिर्यगूर्ध्वचारिणी श्वेता या चाभ्रं चन्द्रं च युगपदेव संस्पृशेन्महावर्षाय। श्वेतात्र्यहमेव । इन्द्रपथेऽन्तः सप्ताहाद्देशनिपाताय । अन्या भयाय स्युः । सर्वाः सन्ध्ययोदिवा न प्रादुर्भूता अवर्षिण्योऽपि महावर्षाय । श्वेतारुणैका विरश्मिर्नभोमध्यचारिणो सद्योवर्षा ।
सूर्यकान्ताऽघोरा कपिलाभ्रे चाग्नेयी पीता। रक्ताभ्रे शतह्नदा ताम्रचूर्णैनैर्ऋतीतडित्सौदामिन्यौचास्निग्धकपिलमेघेषुशस्त्रपाताय-इति ।
आषाढशुक्ले नियतं विद्युल्लक्षणमद्भुतम् ।
वर्णरूपविकाराँश्च दिशो भागान् शुभाशुभान् ॥
चतुर्थीं पञ्चमीं चैव परीक्षेत प्रयत्नतः ।
अतिवृष्टिमनावृष्टिं भावाभावौ तथैव च ॥
सर्वशस्येषु निष्पत्तिं विद्युतो दर्शयन्ति हि ।
ऐन्द्र्यां चेत् स्फुरते विद्युदैन्द्रश्चापि हि मारुतः ॥
सुभिक्षं क्षेममारोग्यं निवृत्तिं च विनिर्दिशेत् ।
आग्नेय्यां चेदुभौ स्यातां भयं तत्र महद्भवेत् ॥
अनावृष्टिश्च लोकस्य शस्त्राग्निभयमेव च ।
याम्यायां स्फुरते विद्युद्याम्यश्चापि हि मारुतः ॥
विषमां तु सप्तां विन्द्याद्व्याधिमृत्युभयाकुलाम् ।
समा संवत्सरम् ।
कनीयसी तु नैऋत्यां तथा वह्नीतिका समा
मध्यमा शस्यसम्पत् स्याद्वारुण्यां व्याधिसंकुला ॥
पतङ्गदंशमशका वायव्यां मध्यशस्यदाः ।
अतिचारिभयं विद्यात् सौम्यायां भूरिसम्पदम् ॥
निवृत्तिः शस्यसम्पत्तिः प्रधानैशावगोचरे ।
प्रतिलोमेषु वातेषु ईतिवाहुल्यमादिशेत् ।
शुभायां स्पन्दमानायामनिष्ठा स्पन्दते यदि ॥
सम्पद्यते महाशस्यं महाँश्च स्यादुपद्रवः ।
अशुभा स्पन्दते पूर्वा यदा पश्चाच्च शोभना ॥
सुवृष्टिमेव तत्राहुर्न च शस्यं समृद्ध्यति ।
यदा च सर्वाः स्पन्दन्ते विषमां वृष्टिमादिशेत् ॥
मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां व वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बाल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।
अथ वाताद्भुतावर्त्तः ।
तत्र शुभसूचकवातलक्षणमाह पराशरः ।
इह खलु वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः
सम इति सर्वदा शस्यते ।
मत्स्यपुराणे ।
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।
अथाशुभसूचकवातलक्षणं मत्स्यपुराणे ।
वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृद्द्विज ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति"[२५१] ।
तथा ।
“वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः”[२५२] ।
मौशले वृष्णिक्षयनिमित्तम् ।
"ववुर्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः” [२५३] ।
भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।
“वायुर्वाति खरस्पर्शो रजसा विसृजन् नभः"[२५४] ।
बहुदिनानुबन्धिवात परमेतत् फलगौरवात् । तथा च मौशले वृष्णिक्षयनिमित्तम् ।
"उत्पेदिरे महावाता दारुणाश्च दिने दिने” [२५५] ।
बार्हस्पत्ये तु ।
वाति चाकालजो वायुर्घोरः शर्करकर्षणः ।
पातयन् वृक्षवेश्मादि गर्जयन्निव भीषणम् ॥
सप्ताहमथ वा पक्षमनुबन्ध्नाति दारुणम् ।
ततो यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥
आदिकाण्डे परशुरामपराजयनिमित्तम् ।
“तयोः समुद्यतोरेव वायुः प्रादुरभून्महान् ।
प्रचण्डः शर्कराकर्षी कम्पयन्निव मेदिनीम् ॥
उत्तरकाण्डे कार्त्तवीर्याद्रावणपराजयनिमित्तम् ।
चण्ड: प्रवाति पवनः सनादः सरजास्तथा ।
सकूर्चो वैकृतारावः संवर्त्तः क्षुभितो घनैः” [२५६] ॥
घनपर्वणि सौगन्धिकाहरणे भीमपराजयनिमित्तम् ।
“ततो वायुर्महान् शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीत् खरस्पर्शः संग्राममभिचोदयन्” [२५७] ॥
उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।
“....... ववुर्वाताः सुदारुणाः”। [२५८]
भागवते हिरण्यकशिपूत्पत्तौ ।
"ववौ वायुः सुदुःस्पर्श: फूत्कारानीरयन् मुहुः ।
उन्मूलयन् नगपतीन् वात्यानीको रजोद्धतः"[२५९] ॥
अथ दिक्फलं गार्गीये ।
पूर्वोऽभ्रजननो वायुरितरोऽभ्रविनाशनः ।
उदग्जनयते वृष्टिं वर्षत्येव च दक्षिणः ॥
उदग्जनयते वृष्टिमिति हिमसमयव्यतिरेकेण ।
पराशरः ।
तत्र पूर्वौ मेघानां संजननः । पश्चिमो विनाशनोऽन्यत्र नभोनभस्ययोः । नित्यं वर्षायोत्तरः । दक्षिणोऽभ्रसंप्लवकरो मन्दवर्षाणि यच्छत्यपिवाऽन्यवातजं वर्षम्। नैर्ऋतो वायव्यश्चाभ्रवान् महावर्षाय । ऐशान्यो मृदुरपि वर्षाय ।नानावातसंपातो महावर्षाय । सर्वेषां चान्यवातेकृतानामभ्राणामुपसृष्टवर्षाणां तत्प्रतिलोमो विनाशाय ।
अनुपसृष्टवर्षाणां तु महावर्षाय। पूर्वश्चेन्महाशब्दो नीचैर्वलाहकानामाकर्षी महावर्षायैव स्यात् । यस्यां च दिशि पूतिगन्धिनो निमित्तमागच्छेयुस्तस्यां दिशि शस्त्रकोपजननं विन्द्यात् ।
उद्योगपर्वणि हस्तिनापुरोत्सादनिमित्तम् ।
“प्रामथाद्धस्तिनपुरं वातो दक्षिणपश्चिमः ।
अरुजन् गणशो वृक्षान् परुषोऽशनिनिःस्वनः”[२६०] ॥
अत्र समयफलम् । तत्र पराशरः ।
ग्रीष्महेमन्तयोश्चेन्नाभिवर्षेद्वर्षाणां सम्पदं कुर्यात् । आधानकाले शर्कराकर्षिणो नीचैः स्वराः खरवपुषश्च शस्यन्ते ।
आदिपर्वणि जतुगृहदाहानन्तरं पाण्डावानां वनप्रवेशे कौरववधनिमित्तम् ।
“अप्रकाशा दिशः सर्वा वातैरासन्ननार्त्तवैः”[२६१] ।
पूर्वादिदिग्वातफलमभिधाय पराशरः ।
सर्वेष्वेवातिमात्रेष्वनवरतेषु शीघ्रेषु सप्तरात्रपरेषु भयं महावर्षं वा विन्द्यात् । द्वादशरात्रपरेषु महावर्षं राजमृत्युं वा । पक्षपरेषु भयमेव च । तत्र क्षुद्भयमैन्द्रे । आग्नेये क्षुच्छशस्त्रभयं दस्युतो राजदेशविनाशयोरन्यतरम् । याम्ये मूलफलपुष्पघातमुत्पातातङ्कपिटकभयम् । नैर्ऋते कृमिपतङ्गदंशमशककक्लेशशस्त्रप्रादुर्भावमीति चाधिकाम्
वारुणे फलपुष्पदमारोग्यं वा । वायव्ये क्षुच्छस्त्रभयै राजदेशविनाशयोरेकतरम् । सौम्ये क्षेमसुभिक्षम् । ईशाने शस्यसम्पदम्। सर्वतो दिग्भ्यस्तु युगपन्महाराजभयं सर्वदा ।
आषाढपौर्णमास्यां तु विशेषमाह पराशरः ।
अतोऽनन्तरमाषाढीसंयुक्ते शशिनि सुरभिरनुकूलः स्पर्शवान् मारुतः । पूर्व: पूर्वोत्तर उत्तरी वर्षशस्यातिवर्षकरो नैर्ऋताग्नेययाम्यवारुणवायव्यो मध्यशस्यवर्षकरः । विपर्ययो विपरीतेषु । आधानविसर्गान्तभागे निमित्तानि प्रावृषामाद्यन्तेषु मध्येषु फलम्- इति ।
आन्तरिक्षत्वादन्यत्र षाण्मासिकः फलपाकः ।
वातोत्पातशान्तिर्मत्स्यपुराणे ।
त्र्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ।
वैकृते वातजे वाऽपि वायव्या शान्तिरिष्यते ॥
वायोश्च पूजा द्विजशक्तुभिश्च हुत्वा तदुक्ताँश्च जपेच्च मन्त्रान् ।
दद्यात् प्रभूतं परमान्नमत्र सदक्षिणं तेन समोऽस्य भूपः ॥
वराहसंहितायाम् ।
वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
अवायोरिति पञ्चर्चा जप्याश्च प्रयतैर्द्विजैः ॥
ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।
बह्वन्नदक्षिणाहोमाः कर्त्तव्याश्च प्रयत्नतः ॥
बार्हस्पत्ये तु ।
वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
द्वाविमौ वाताविति च जप्तव्यं प्रयतैर्द्विजः ॥
बह्वन्नदक्षिणाहोमा कर्त्तव्याश्च प्रयत्नतः ।
वायव्यामेव शान्तौ च वायोः सवितुरीरयेत् ॥
आदावन्ते च मध्ये च तथैव मनुजो जपेत् ।
गुरवे दक्षिणां दद्याद्वायवीं शान्तिमद्भुताम् ॥
मयूरचित्रे तु ।
वहन्ति वाताः प्रखरं निरभ्राः स्तनितस्वनाः ।
भयं तत्र विजानीयाच्छान्तिः साधारणो त्विह ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वाताद्भुतावर्त्तः ।
अथ मेघाद्भुतावर्त्तः ।
तत्राषाढे स्वातिसंयुक्ते चन्द्रमसि शुभाशुभमेघलक्षणमाह पराशरः ।
स्वातिसंयुक्ते चन्द्रमसि घनस्निग्धस्तनयित्नुविद्युन्मण्डलनिरम्भोदैर्नभसोऽवच्छादनं सुभिक्षक्षेमाय । वातप्रादुर्भावोल्कानिर्धातकम्पोपघातैश्च तद्विपर्ययः ।
आषाढXXXरोहिणीयोगे तु वराहसंहितायाम् ।
रूक्षैरल्पैर्मारुताक्षिप्तदेहैरुष्ट्रध्वाङ्क्षप्रेतशाखामृगाभैः ।
अन्येषां वा निन्दितानां सरूपैर्मकैः शब्दैर्ना शिवं नापि वृष्टिः॥
बृहद्यात्रायां वराहः ।
ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः ।
जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥
पलालधूमसंचयस्थितोपमा वलाहकाः ।
बलाल्परूक्षमर्त्तयो विवर्धयन्ति भूभृतः ॥
निन्दितसत्त्वपिशाचविचित्राः पिशितभुगाकृतयः परुषाश्च ।
वज्रमुचः क्षतजास्रमुचो वाऽनलमयमाशु घनाः कथयन्ति ॥
हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।
"एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः ।
साकचन्द्रग्रहगणं छादयामासुरम्बरम् ॥
वेणुविद्युद्गणोपेता घोरनिदकारिणः" ।[२६२]
अथ गर्जनफलम् । बृहद्यात्रायां वराहः ।
स्फूर्जितं सलिलकुम्भनिषेकज्यौतिषार्णवमयं विजयाय ।
अथ वर्णफलं भार्गवीये ।
श्वेतः श्यामो हरित कृष्ण इति वर्णा व्यवस्थिताः ।
प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाश्च पूजिताः ॥
स्निग्धेषु व्यक्तवर्णेषु चतुर्ष्वेतेषु नारद ।
सन्ध्योपमाभ्रवर्णेषु वर्षं तेष्वतिनिर्दिशेत् ॥
रूपेषु चम्पकाभेषु मेघेष्वपि च वर्षति ।
एभ्यश्च विपरीता ये ते वृष्टिभयदा घनाः ॥
मयूरगलपद्मेन्दुकांस्यनीलीनिभानि तु ।
सन्ध्यास्वभ्राणि दृश्यन्ते तीव्रं वर्षमुपस्थितम् ॥
वराहसंहितायाम् ।
पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ।
मयूरचित्रे ।
पद्मिनीपत्रसंकाशा घना मत्स्यसमत्विषः ।
चन्द्रार्कावुपगूहन्ते घना यच्छन्ति भूर्यपः ॥
भार्गवीये ।
काञ्चनाभे जनारिष्टं सर्पिः सर्पनिभेषु च ।
हेमपावकवर्णेषु विपुलेषु जनक्षयः ॥
अथ दिफ्फलं मयूरचित्रे ।
आषाढ्यामेन्द्रदिग्भागे मेघस्तनितवायुषु ।
समग्राँश्चतुरो मासान् सम्यग्वर्षति वासवः ॥
आषाढे रोहिणीयुक्ते चन्द्रे विशेषो वराहसंहितायाम् ।
पूर्वोद्भृतैः शस्यनिष्पत्तिरब्दैराग्नेयाशासम्भवैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेऽर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वातवृष्टिः क्वचित् तु पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
पुष्टं शस्यं स्थाणुदिक्संप्रवृद्धिर्वायुश्चैवं दिक्षु धत्ते फलानि ॥
आषाढशुक्लचतुर्थीपञ्चम्योर्विशेषो भार्गवीये ।
चतुर्थी पञ्चमी चैव प्रतीक्षेत तदा शुचिः ।
आषाढशुक्ले नियतं विद्युद्दर्शनमद्भुतम् ॥
सविद्युतः सस्तनिता दर्शयन्ति यदा शुभम् ।
पूर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते ॥
पूर्वतः पूर्ववृष्टेषु दृश्यन्ते यदि तोयदाः ।
दक्षिणावर्त्तशुभदाः सुवृष्टिमिति निर्दिशेत् ॥
आग्नेयेष्वतिवृष्टिः स्याच्छस्यं चापि विपद्यते ।
याम्येषु विषमा वृष्टिर्व्याधिं मृत्युं च निर्दिशेत् ॥
वर्धयित्वा नैर्ऋतेषु सामान्यफलदायिनी ।
वारुणेषु पयोदेषु मध्यमं शस्यमादिशेत् ॥
वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ।
तत्रातिवृष्टिर्भवति स्वल्पं बीजानि वापयेत् ॥
वर्णस्नेहोपपन्नास्तु पूर्ववृष्टाः पयोधराः ।
सौम्या यत्र प्रवर्षेयुस्तत्र सर्वगुणाः स्मृताः ॥
अथ संस्थानि वराहसंहितायाम् ।
विलम्बिनो द्रुमोपमाः स्ववारुणप्रकाशिनः ।
घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ।
विष्णुधर्मोत्तरे ।
..........मेघैश्चायुधसन्निभैः ।
उदयास्तमये छन्नः पार्थिवानां न शस्यते ॥
वृद्धगर्गः ।
उद्यत्यर्के धनूरूपै रुध्यमाने च तोयदैः ।
परचक्रागमो वाच्यः प्रजानाशस्तथैव च ॥
वराहसंहितायाम् ।
आयुधभं नररूपं छिन्नाभ्रं परभयाय रविगामी ।
भार्गवीये।
अश्वस्था वारणस्थाश्च रथस्थाश्च यदा नराः ।
मेघेषु संप्रदृश्यन्ते सयोधाः सकुलध्वजाः ॥
तथा सवारणाश्चैव निघ्नन्तश्च परस्परम् ।
क्रव्याद्भिर्भक्षमाणाश्च गृध्रगोमायुवायसैः ॥
उद्योतन्ते यदा युक्ता राज्ञां संशयकारकाः ।
अथावृक्षादिफलम् । तत्र पराशरः ।
अथाभ्रविकारेषु वृक्षपरिघस्तनितसंचयात्मकेषु सद्यः फलमादिशेत् । अत्र सप्तरात्राद्वा षण्मासात् तु गर्भकालजं वर्षम् । तत्र वृक्षेष्वेव तावद्यदि सन्ध्यायां पीतमाञ्जिष्ठो दृश्येताभ्रवृक्षः । शान्तायां दिशि राज्ञो विनाशाय स्यात् । स एव दीप्तायां दक्षिणतो वाऽर्कस्य हस्त्यश्वयोधानामन्यतमश्रेष्ठविनाशाय । कपिलः कृष्णो वा तथा भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय । सन्ध्याकृतिश्चेत् पीतमाञ्जिष्ठनीलो वा हन्याद्राजानम् । पीतवर्णोऽर्कस्य पच्यमानः सद्यो बलकोपाय । पीताग्रश्चेद्घनः सन्ध्यायां प्रकाशेताहितक्षयाय । बहुकपिलस्तु ब्राह्मणानां पीडायै । लोहितः क्षत्रियाणाम् । हरितो वैश्यानाम् । कृष्णः शूद्राणाम् । चित्रो गणकानाम् । बहवश्चेद्गर्दभरूपिणोऽरुणवर्णा विलापिनः परुषाः सर्ववर्णापतापाय। धूम्रश्चेद्दृश्यमान आदित्यमियादभ्रवृक्षाकारोऽपि महते भयाय स्यात् । अच्छिन्नश्वेताग्रेण नभसो मध्यस्पृक् सद्यो वर्षाय। तथैव सूर्यमावृत्य
तिष्ठन् नीलश्चेताग्रो यदि वा वंशवोरणगुल्माभ्रवृक्षादुदीयादस्तमियाद्वाऽर्कः । एवमेव विरूपेषु मूलवत्सु विशालेषु स्तनयित्नुनिर्घोषः सतडित्कलापस्तमधिसप्ताभिहन्याच्छदयँस्तामभियुञ्जीत राजा ।
सन्ध्यालक्षणे एव वराहसंहितायाम् ।
दधिसदृशाग्रे नीलो भानुच्छादी स्वमध्यगोऽभ्रतरुः ।
पीतच्छुरिताश्च घना घनमूला[२६३]स्ते भवन्ति वृष्टिकराः ॥
पराशरः ।
आषाढीसंयुक्ते शशिनि स्निग्धाभ्रवृक्षप्रादुर्भावः प्रावृड्वृद्धये ।
सन्ध्यालक्षणे वराहसंहितायाम् ।
अनुलोमगेऽभ्रवृक्षे समुद्गते यायिनो नृपस्य बधः ।
वालतरुप्रतिरूपे युवराजामात्ययोर्मृत्युः ॥
पराशरः ।
अथाभ्रपरिघस्त्रिवर्णो भानुमावृत्य तिष्ठन्महते जनक्षयाय स्यात् ।
कपिलो वातहर्षाय । रक्तः शस्त्रकोपाय । माञ्जिष्ठोऽग्निभयाय ।
अरुणो वाताय । पीताभः क्षयाय द्विपदानां रोगाय च | कृष्णच्छिद्रः सद्यो वर्षाय । ताम्रः शस्त्रसमुत्पाताय पशूनां च हरणाय । श्यामो गन्धर्वपीडायै चौरवृद्धये वा। स्निग्धनीलो महावर्षाय । श्वेतः सुभिक्षाय ।
बृहद्यात्रायां वराहः ।
नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकः ।
कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः[२६४] ॥
स्कन्दपुराणे तारकवधनिमित्तम् ।
रक्तनीलाश्च परिघास्तिष्ठन्त्यावृत्य भास्करम् ।
हरिवंशे तु बाणपराजयनिमित्तम् ।
"त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत्"[२६५] ।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"श्वेतलोहितपर्यन्ता कृष्णग्रीवाः सविद्युतः ।
त्रिवर्णा परिघाः सन्धौ भानुमावारयन्त्युत" [२६६]॥
भार्गवः ।
नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् ।
त्रिवर्णं परिघं दृष्ट्वा विन्द्यादुदकवाहकम् ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ॥
“सकबन्धश्च परिघो भानुमावृत्य तिष्ठति” [२६७]।
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“सकबन्धस्तथाऽदित्ये परिघः समदृश्यत” [२६८]।
अथान्तःसूक्ष्मा रक्ताः परुषा नैऋत्यां दिशि प्रपद्यमाना राजवधाय स्युः । शेषा रश्मिभिः समानफलाः । अथाभ्राणि सञ्चितानि
सेनानगरकबन्धरूपाणि संग्रामाय । तत्र दिक्षु वर्णेषु यथास्वं जयपराजयं विन्यात् । विमूढानि घनानि महान्ति प्राकारशिखररूपाणि महावर्षाय पारावतमयरवर्णानि च तथा नृपजलचरामोदाय घटरूपाण्युपरिमण्डलवाद्याकृतीनि काञ्चनाञ्जनरूपशङखमणिमुक्ताप्रबालकाण्डधौतकृष्णायःप्रसन्नानि । तथा विद्युत्स्तनयित्नुमन्ति सुजातानि सूर्यस्य पुरस्तात् तान्यर्यमनाम्नः प्रदक्षिणपरिवर्त्तीनि । मध्याह्नरात्र्योश्च वायुस्तनयित्नुमन्त्यभिवर्षाय। पीतलोहितापीतनीलातिमात्रसञ्चयान्यनृत्तौ शस्त्राय वर्षाय च सूक्ष्माणि त्वव्यक्तरागाणि विच्छिन्नमूलान्यनर्थायातिवातवेगाय वा । तथा वराहाश्वखरदंष्ट्रिरूपाणि शीघ्रनिपातीनि शस्योपरोधायावग्रहाय वा ।
अत्रानुक्त विशेषशान्तिषु मेघोत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
अथ विहितविशेषशान्तयो मेघोत्पाता भार्गवीये ।
गर्दभैर्महिषैरुष्ट्रैवृकैर्वा शूकरैः खगैः ।
समानाकृतयः कुर्युः सन्ध्यायां जलदा भयम् ॥
यत् तु क्रीडादिमकरा घना यच्छन्ति भूर्यपः ।
इति मयूरचित्रवचनं तद्वार्षिकमेघपरम् ।
बार्हस्पत्यमयूरचित्रयोः ।
नानापक्षिमृगाकाराः शृगालोष्ट्राश्वसन्निभाः ।
उदयास्तमये मेघाः कुर्वन्ति जगतो भयम् ॥
वराहसंहितायां तु ।
प्रहणरूपैर्जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी ।
मृगमहिषविहङ्गखरकरभसदृशरूपैश्च रणकारी ॥
मयूरचित्रे ।
अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
तत्रैव ।
प्रावृट्काले च मेघेषु दण्डशूलोर्मिभेषु च ।
दस्युस्तेयक्षयो युद्धं भयं चैव महद्भवेत् ॥
अविच्छिन्ना यदा व्यक्ता गदायाः सदृशास्तथा ।
कपालसदृशाकरा मेघा दस्युभयावहाः ॥
वज्रपरिघतुल्येषु युद्धं मेघेषु जायते ।
एषूत्पातेषु दिव्योक्ता प्रथमो शान्तिरिष्यते ॥
रथाङ्गसदृशाकारा मेघाः प्रासादसन्निभाः ॥
कबन्धशिरःसंकाशा नृणामाहुर्महद्भयम् ॥
द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।
पताकाध्वजसेकाशाश्चक्रवर्त्तिवधं घनाः ॥
ब्रुवते दस्युसम्भूतिं शस्यनाशं रणं तथा ।
प्रथमां वा द्वितीयां वा दिव्यकाण्डप्रचोदिताम् ॥
शान्तिं कुर्यादिति सम्बन्धः ।
अत्रानुक्तफलपाकसमयविशेषाणामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे मेघाद्भुतावर्त्तः ।
अथ मेघानां गर्भाद्भुतावर्त्तः ।
तत्र वराहसंहितायाम् ।
अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायात्तम् ।
यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥
के चिद्वदन्ति कार्त्तिकशुक्लान्तमतीत्य गर्भदिवसाः ।
न तु तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥
मार्गशिरःसितपक्षप्रतिपत्प्रभृतिक्षपाकरेऽषाढाम् ।
पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥
मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च ।
पराशरः ।
माघेन श्रावणं विन्द्यान्नभस्यं फाल्गुनेन तु ।
चैत्रेणाश्वयुजं प्राहुर्वैशाखेन तु कार्त्तिकम् ॥
शुक्लपक्षेण कृष्णं तु कृष्णपक्षेण चेतरम् ।
रात्र्यह्नोश्च विपर्यासं गर्भकालविनिश्चयम् ॥
वटकणिकायाम् ।
पौषासितपक्षाद्यैः श्रावणशुक्लादयो विनिर्देश्याः ।
कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन ॥
रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः ।
बृहत्संहितायां तु ।
पौषस्य कृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् ।
माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति ॥
माघस्य कृष्णपक्षेण विनिर्दिशेद्भाद्रपदशुक्लम् ।
फाल्गुनशुक्लसंमुत्था भाद्रपदस्यासिते विनिर्देश्याः ॥
तस्यैव शुक्लपक्षोद्भवाश्च ये तेऽश्वयुक्शुक्ले ।
चैत्रसितपक्षजाताः कृष्णेऽश्वयुजश्च वारिदा गर्भाः ॥
चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति ।
सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ॥
नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥
शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ।
वटकणिकायाम् ।
सार्धः षड्भिर्मासैर्गर्भनिषेकः स्वनक्षत्रे [२६९] |
बृहत्संहितायां च ।
यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
पञ्चनवते दिनशते तत्रैव प्रसवमायति ॥
पराशरः ।
वाय्वभ्रविद्युत्स्तनयित्नुवर्षाणि गर्भाः। तान् लक्षयेत् प्रशस्तानप्रशस्ताँश्च । प्रशस्तता च यदा सूर्येन्दुनक्षत्रान्तरिक्षाश्रयाणां वर्षालिङ्गानां प्रादुर्भावरूपता गर्भाणां धारणमासे त्वसूतिः । विपर्यये
त्वशस्तता ।
वटकणिकायाम् ।
पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः ।
वर्षति पञ्चनिमत्ताद्रूपेणैकेन यो गर्भः ॥
वर्षा पञ्चनिमित्तो द्रोणो वृष्ट्याढकास्त्रयो मरुता ।
षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे [२७०] ॥
शस्तानि मार्गशीर्षाच्छीतहिममेघवातरसितानि ।
स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
पृथुला बहुला जलदास्त्वतिपृथुलजलचारिसत्त्वनिभाः ।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥
नृखगमृगा मुदिता निरूपहतास्तरवः ।
वियदमलं च यदा भवति तदा सुसमा ।
स्निग्धतडित्प्रतिसूर्यकमत्स्याः शक्रधनुः प्रथमापरसन्ध्ये ।
शान्तरवा मृगपक्षिमनुष्याः शक्रशशीश्वरदिाङ्मरुतश्च ॥
बृहत्संहितायाम् ।
ह्लादिमृदूदक्शिवशकदिग्भवो मारुतो वियद्विमलम् ।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ ॥
पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलौहिताम्रयुतम् ।
काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥
सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या ।
शशिशिवशकाशास्थाः शान्तरवा पक्षिमृगसङ्घाः ॥
विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥
गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः ।
स्वर्त्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ॥
पौषे समार्गशोर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः ।
नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥
माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
अतिशीतं सघनस्य च भानोरस्तोदयौ शस्तौ ॥
फाल्गुनमासे रूक्षश्चण्डः प्रबलोऽभ्रसंप्लवाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः ॥
पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
घनपवनसलिलविद्युस्तनितैश्च हिताय वैशाखे ॥
मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासाः ।
जलचरमत्स्याकारा गर्भेषु घनाः प्रभूतजलाः ॥
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥
वटकणिकाबृहत्संहितयोः ।
पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः
स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
विसृजति यदि तोयं गर्भकालेऽतिभूरि-
प्रसवसमयमित्वा शीकराम्भः करोति ॥
वटकणिकायाम् ।
गर्भोपघातलिङ्गाद्युल्काशनिभूमिकम्पनिर्घाताः ।
ग्रहयुद्धराहुशिखिनो भङ्गं खपुरं रजो वाऽपि ॥
बृहद्यात्रायाम् ।
गर्भोपघातलिङ्गद्युल्काशनिपांशुपातदिग्दाहाः ।
क्षितिकम्पखपुरकीलककेतूग्रहयुद्धनिर्घाताः ॥
रुधिरादिवृष्टिवैकृतपरिवेषेन्द्रधनूंषि दर्शनं राहोः ।
इत्युत्पातैरेतैस्त्रिविधेश्चान्यैर्हतो गर्भः ॥
स्वर्त्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।
गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥
भाद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति[२७१]॥
वटकणिकाबृहत्संहितयोः ।
शतभिषगाश्लेषार्द्रास्वातिमघासंयुतो गर्भः ।
पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः ॥
हत इति आघाननक्षत्रहननेन हत इत्यर्थः ।
तथा च पराशरः ।
येषु येषु नक्षत्रेषु गर्भस्थितिः स्यात् तेषु तेषु ग्रहाणामुदयास्तमयोल्कानिर्घाताशनिनिपातगन्धर्व नगरदिग्दाहार्करश्मिविकारभूचलनप्रादुर्भावो वर्षास्ववर्षाय ।
पुष्णाति बहून् दिवसानित्यत्र विशेषो बृहत्संहितायाम् ।
मार्गशिरादिष्वष्टौ षट् षोडशविंशतिश्चतुर्युक्ता ।
विंशतिरथ दिवशत्रयमेकतमर्क्षेण पञ्चभ्यः ॥
क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः ।
शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः ॥
गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
द्रोणाष्टांशेऽभ्यधिके वृष्टेर्गर्भः स्रुतो भवति ॥
गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः ।
आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः ॥
काठिन्यं याति यथा चिरकालघृतं पयः पयस्विन्याः ।
कालातीतं तद्वत्सलिलं काठिन्यमुपयाति ॥
वराहसंहितायाम् ।
ज्येष्ठसितेऽष्टस्याद्याश्चत्वारो वायुधारणा दिवसाः ।
मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥
वायोः संपर्कान्मेवैर्गर्भा धृयन्ते येषु ते वायुधारणा मृदुपवनादिमन्तः शुभा भवन्ति ।
काश्यपस्तु ।
ज्येष्ठस्य शुक्लाष्टम्यां तु नक्षत्रे भगदैवते ।
चत्वारो धारणाः प्रोक्ता मृदुवातसमीरिताः ॥
नीलाञ्जनसमैर्मेधैर्विद्युत्स्तनितमारुतैः ।
विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ ॥
एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः ।
अनार्यैस्तस्करैर्घोरैः पीडा चैव सरीसृपैैः ॥
वराहसंहितायाम् ।
यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
तस्करभयदाः प्रोक्ताः श्लोकाश्चाप्यत्र वाशिष्टाः ॥
सविद्युतः सपृषतः सपांशूत्करमारुताः ।
सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥
यदा वा विद्युतः श्रेष्ठाः शुभाशा: प्रत्युपस्थिताः ।
तदाऽपि सर्वशस्यानां वृद्धिं ब्रूयाद्विचक्षणः ॥
सपांशुवर्षा सापश्च शुभा बालक्रिया अपि ।
पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥
रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः ।
वृष्टिस्तदाऽपि विज्ञेया सर्वशस्याभिवृद्धये ॥
मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
तदा स्यान्महती वृष्टिः सर्वशस्यार्थसाधिका- इति ॥
पराशरः ।
विशेषतो ज्येष्ठबहुलपक्षद्वादश्यादिदिनचतुष्टयं धारणं गर्भाणाम् । ऋमात् सप्ताहोरात्रस्रावो मासविघाताय ।
वराहसंहितायाम् ।
तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः ।
श्रावणपूर्वा ज्ञेयाः परिस्रुताः धारणास्ताः स्युः ॥
ज्ञेया इत्यनावृष्टिमन्तो ज्ञेया इत्यर्थः । अत्र हेतुः परिस्स्रुता इति । यदार वटकणिकायाम् ।
ज्येष्ठसितस्वात्याद्यैः श्रावणपूर्वं चतुष्टयं ज्ञेयम् ।
वृष्टेस्तत्रावृष्टिः समरूपा धारणाः शुभदाः ॥
काश्यपश्च ।
स्वातौ तु श्रावणं हन्याद्वृष्टेरेवाग्निदैवतम् ।
भाद्रपदे त्ववृष्टिः स्यान्मैत्रे चाश्वयुजे स्मृताः ॥
ऐन्द्रे तु कार्त्तिके त्वेवं वृष्टे वृष्टिं निहन्ति च ।
एतेषु यदि नो वृष्टस्तदा सौभिक्षलक्षणम् ॥
वराहसंहितायाम् ।
दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति ।
तस्य मुनेरिव वाणी न भवति मिथ्याऽम्बुनिर्देशः ॥
अत्रानुक्तविशेषशान्तिषु गर्भाद्भुतेषु सावित्रीमत्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्ति रौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मेघानां गर्भाद्भुतः ।
अथ प्रवर्षणाद्भुतावर्त्तः ।
तत्र वराहसंहितायाम् ।
ज्येष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन ।
शुभमशुभं वा वाच्यं परिमाणं वाऽम्भसस्तज्जैः ॥
येन धरित्री मुद्रा जनिता वा विन्दवस्तृणाग्रेषु ।
वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥
पूर्वाषाढादौ नक्षत्रे एवम्भूतायां वृष्टौ वक्ष्यमाणं प्रसवकालेऽपि पूर्वाषाढादौ नक्षत्रे वृष्टिपरिमाणं वाच्यमित्यर्थः ।
वृष्टपरिमाणमेवम् ।
हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः ।
शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥
श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः ।
फाल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रौणाः ॥
ऐन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दशत्र्यधिकाः ।
आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः ॥
पञ्चदशाजे पुष्ये च कीर्त्तिता वाजिभे दश द्वौ च ।
रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रुतेष्वेते ॥
वटकणिकायां च ।
[२७२]द्वादश शक्रा आशास्तत्त्वानि नृपा धृतिर्नखास्तिथयः ।
विश्वे मनवोऽसुकराशस्तत्त्वानि [२७३]नृपा नृपा वेदाः ॥
विंशतिरिन्द्रा वेदाः शक्रा क्षितिपा नखाश्चतुर्दश तु ।
भूपा वेदास्तिथयस्तत्त्वानि नृपाः क्रमाद्द्रोणाः ॥
अश्विनिपूर्वेष्वेते ज्ञेया निरुपद्रवेषु पूर्णफलाः ।
पापग्रहाभिभूतेषु वृष्टिरोगातिभयजनकाः ॥
बृहत्संहितायां तु ।
रविसुतकेतुपीडिते भे
क्षितितनयत्रिविधाद्भुताहते च ।
भवति न हि शुभं न चापि वृष्टिः
शुभसहिते निरुपद्रवं शिवं च ॥
प्रसवकाले यत्र नक्षत्रे यावन्मात्रे वा देशे वृष्टिर्भवति तदुक्तं वराहसंहितायाम् ।
के चिद्यथाऽभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये ।
गर्गवशिष्ठपराशरमतमेतद्वादशान्न परम् ॥
के चिद्यथाऽभिवृष्टमिति । प्रवर्षणकाले यत्र देशे वृष्टिः प्रसवकालेऽपि तत्रैव वर्षतीत्याहुः ।
तथा च काश्यपः ।
यत्र प्रवर्षणे वृष्टौ वासवस्तत्र वर्षति ।
वर्षाकालं समासाद्य ययुत्पातो न दृश्यते ॥
दशयोजनमण्डलं वदन्त्यन्ये इति । प्रवर्षणकाले यत्र देशे वृष्टिस्ततो दशयोजनान्तराले वर्षतीत्यन्ये वदन्ति ।
तथा च देवलः ।
प्रवर्षणे यदा वृष्टो वर्षमाणः शतक्रतुः ।
वर्षाकालं समासाद्य वर्षते दशयोजनम् ॥
गर्गस्तु ।
आषाढादिषु वृष्टेषु वर्षाकाले विनिर्दिशेत् ।
योजनानि दश द्वे च वर्षते पाकशासनः ॥
वराहसंहितायाम् ।
येषु च भेष्वतिवृष्टिर्भूयस्तेष्वेव वर्षति प्रायः ।
यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥
वटकणिकायाम् ।
युग्माजगोमत्स्यगते शशाङ्के रविर्यदा कर्कटकं प्रयाति ।
जलं शताढे हरिकार्मुकेऽर्धमुक्तं च कन्यामृगयोरशीतिः ॥
कुलीरकुम्भालितुलाभिधाने संवृद्धियुक्ता नवतिः समन्तात् ।
पुनर्वसुप्रभृतिनक्षत्रयुक्तशुक्लप्रतिपत्सु प्रवर्षणजलपरिमाणमाह पराशरः । इह खलु शुक्लप्रतिपत्प्रभृतिवर्षं दशाकुलमाचक्षते । तस्यां या वदभिवृष्टे देशे वर्षतोऽपां प्रमाणमन्नशस्यप्रजाक्षेमाक्षेमलक्षणं वार्षिकमुपदेश्यामः । तत्रादित्ये विंशतिद्रोणाभिवर्षा सर्वशस्यक्षेमारोग्याय। पुष्येऽष्टादश द्रोणान् पश्चादभिवृद्धवर्षाय जघन्यशस्यसम्पदे । आश्लेषायां वर्षबीजक्षेमसाधुजनविघाताय त्रयोदशवृष्टये । पित्र्ये शस्योदकविघातकरपर्वतीयनृपतिवृद्धिं चतुर्दशद्रोणाभिवर्षणं च विन्द्यात् । भाग्ये चतुःषष्टिमाढकाणां वर्षात्यपि च शस्यरोगवृद्धये । शतमाढकानामार्यम्णेऽभिवृष्टो जनानभिनन्दयति । हस्ते पञ्चदशद्रोणान् क्षेमशस्यसम्पदं विन्द्यात् । पञ्चषष्टिद्रोणाभिवर्षी त्वाष्ट्रे सर्वजनवृद्धये । चतुरः स्वातौ शस्यविघातमक्षेमं चादिशेत् । ऐन्द्राग्ने विंशतिद्रोणाभिवर्षी राज्ञां विरोधकृद्भवति । मैत्रे द्विसप्तकद्रोणाभिवृष्टे नरेन्द्रोद्योगवणिग्बीजक्षीररोगवृष्टिं विन्द्यात् । ऐन्द्रे चतुर्द्रोणाभिवर्षी बीजान्युच्छेदयति । तच्चतुर्गुणो मूले सर्वशस्याभावो न क्षेमाय । आप्ये म्लेच्छसर्वशस्यव्याधिप्राबल्यम्। अष्टादशग्रहावसाने द्रोणान् षोडश वर्षति । हेमन्ते वा वैश्वदेवे शस्यवृद्धिः क्षेमायाभीक्षविंशतिपर्यन्तं द्रोणवर्षाय । श्रवणे मुखरोगातीसारज्वरशस्यप्राबल्यं वृष्टिद्रोणाश्चात्र षोडशैव । वासवे शीर्षरोगप्राबल्यं च । वारुणे तच्चतुर्भागमपि च शस्त्रं दुर्भिक्षजननं च विन्द्यात् । आजेऽष्टादशद्रोणप्रततवर्षाप्रधानभूपतिविरोधाय। आहिर्बुध्ये चतुर्दशाहकवर्षा कक्षिरोगशस्यदम्। अश्विन्यां द्वादशद्रोणान् पश्चादभिवृष्ट एकदेशे निम्नेषु शस्यं निष्पादयति । भरण्यां पञ्चदशद्रोणाभिवर्षा भवत्यग्निचौरक्षुद्व्याधिकरः । आग्नेये अग्निदंष्ट्रिशस्त्रभयाय षोडशद्रोणवर्षाय च । रोहिण्यामाढकशतवर्षा सर्वजगदामोदाय । सौम्ये विप्रशस्यव्याधिवृद्धये षोडशद्रोणवर्षाय । आर्द्रायामष्टादशाढ।
कवर्षा बीजशस्यभयाय ।
अपि च ।
आटकोँश्चतुरोद्राणानपां विन्द्यात् प्रमाणतः ।
धनुः प्रमाणं मेदिन्यां विन्द्याद्रोणाभिवर्षणम् ॥
चतुर्विंशाङ्गुलानाहे द्विचतुष्काङ्गुलोच्छ्रिते ।
भाण्डे वर्षाम्बुसंपूर्णे ज्ञेयमाढकवर्षणम् ॥
वराहसंहितायां तु ।
हस्तविशालं कुण्डकमधिकृत्वाऽम्बुप्रमाणनिर्देशः ।
पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम् ॥
तत्र कुण्डे पञ्चाशत् पलानि पतितानि तदा जलाढकवृष्टिर्भूतेति जानीयादित्यर्थः
अत्र प्रवर्षणोत्पातेषु वृष्टिविकारविहिता शान्तिः कर्त्तव्या।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे प्रवर्षणाद्भुतावर्त्तः ।
अथातिवृष्ट्याद्यद्भुतावर्त्तः ।
तत्र पराशरः ।
अतिवर्षमवर्षणं दर्भिक्षाय ।
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
अतिवृष्टिरनावृष्टिदुर्भिक्षादिभयं महत् ।
आदिशब्देन शत्रुभयस्य ग्रहणम् ।
तथा च वराहसंहितायाम् ।
दुर्भिक्षमनावृष्ट्यामतिवृष्टौ क्षुद्भयं परभयं च ।
बार्हस्पत्ये च ।
अतिवृष्टिरनावृष्टिदुर्भिक्षाच्च भयं भवेत् ।
अकालवर्षा रोगाय........॥
इति त्रिदिनातिरिक्तवृष्टिपरम् ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
अनृत्तौ त्रिदिनातिरिक्ता वृष्टिर्ज्ञेया भयाय तु।
भयाय रोगभयाय ।
अतिवृष्टौ तु विशेषमाह पराशरः ।
त्र्याहादूर्ध्वं यदा वर्षेत् प्रवृद्धः पाकशासनः ।
अनृतौ तस्य देशस्य स्यात् प्रधानवधो ध्रुवम् ॥
औशनसे च ।
यत्रानृतौ प्रवर्षेण त्र्यहादूर्ध्वं प्रवर्षति ।
यस्मिन् देशे प्रधानस्य पुरुषस्य वधो भवेत् ॥
बृहद्यात्रायां वराहः ।
सप्ताहं सततोऽन्यर्त्तौ वृष्टिर्हन्यान्नराधिपम् ।
अतिवृष्टिविशेषो बार्हस्पत्ये ।
सप्तरात्रं यदा वर्षेत् प्रवृद्धः पाकशासनः ।
अनृतौ तस्य देशस्य प्रधानानां वधो ध्रुवम् ॥
तत्रैव ।
अनृतौ वर्षतेऽभीक्ष्णं ऋतुष्वेव न वर्षति ।
अनारोग्यं भयं चैव प्रजानां चैव निर्दिशेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
अनभ्रे विकृता चैव विज्ञेया राजमृत्यवे ।
अनभ्रे वर्षतेऽकस्मात् पतिते गर्जितेऽपि वा ।
अनभ्रे वाऽपि निर्घातः पतितो राजमृत्यवे ॥
उद्योगपर्वणि भगवद्याने कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“अन्वेगेव च पर्जन्यः प्रावर्षद्विघने भृशम् [२७४]।
बृहद्यात्रायां वराहः ।
सप्ताहान्तर्बलभयकरो वृष्टिरन्यर्त्तुजाता
के चिद्यात्रामसितजलदै: प्रोज्झितां पूजयन्ति ।
चित्रोद्यायां बलपतिवधो रुक्षपीडाम्बुदायां
क्षुज्ज्येष्ठायां भवति नचिराद्व्यम्बुदायां च नाशः ॥
वाहनानि सव्यगा हन्ति योषितोऽन्यथा ।
पञ्जराकृतिस्थिता सर्वतो बलेश्वरम् ॥
अथ करकावृष्टिर्मयूरचित्रे ।
शालिखर्जूरसिकताभाः करका वदरोपमाः ।
शीतजातीफलाकाराः पतन्त्यः क्षेमकारणाः ॥
इन्द्रध्वजरथाकारैश्चक्रस्वस्तिकसन्निभैः ।
शङ्कपद्मनिभै राज्ञः करकैर्जयमादिशेत् ॥
मत्स्यकच्छपमण्डूकशूक्तिशम्बूकसन्निभाः ।
वदन्त्युपलकास्तापं दीयमानं धनैर्ध्वनम् ॥
विल्वोदुम्बरतालाभाः कपित्थाम्रशिरःसमाः ।
गदामुशलसंकाशाः करका घ्नन्ति भूनृपौ ॥
अत्र साधारणी शान्तिः कर्त्तव्या गर्गचोदिता ।
अथ शोणितादिवृष्टिः । तत्र पराशरः ।
शोणिताभिवर्षणं परचक्रागमाय ।
“इमे रुधिरधाराभिर्वर्षन्तोऽतिखर खनाः ।
व्योम्नि मेघा विवर्त्तन्ते परुषा गर्दभारुणाः[२७५] ॥
बार्हस्पत्ये तु ।
शोणितं वर्षते यत्र तत्र देशे भयं भवेत् ।
भयं शस्त्रभयम् ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
शोणितं वर्षते यत्र तत्र शस्त्रभयं वदेत् ।
स्कन्दपुराणे तु प्रह्लादपराजयनिमित्तम् ।
प्रस्रुताः क्षतजं मेघाः.........।
तत्रैव देवासुरयुद्धे देवानां पराजयनिमित्तम् ।
अनभ्रे भयदं वर्षमपतद्रुधिरं बहु ।
हरिवंशे बाणपराजयनिमित्तम् ।
"देवानामपि यो देवः सोऽभ्यवर्षत वासवः ।
शोणितं शोणितपुरे सर्वतः पुरमन्तिकात् [२७६] ॥
भागवते विष्णोरुत्क्रान्तिनिमित्तम् ।
“असृग्वर्षन्ति जलदाः .........[२७७]।
आदिपर्वणि गजकच्छपभक्षणनिमित्तम् ।
"उत्पातमेघा रौद्राँश्च ववृषुः शोणितं बहु[२७८]।
आग्नेयपुराणहरिवंशमत्स्यपुराणेषु हिरण्यकशिपुवधनिमित्तम्
“देवानामपि यो देवः सोऽभ्यवर्षत शोणितम्”[२७९]
मयूरचित्रे ।
रक्तवर्षे तथाऽऽकाशशब्दे नरपतेर्वधः ।
हरिवंशे कंसवधनिमित्तम् ।
"प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः”[२८०] ।
स्कन्दपुराणे तारकवघनिमित्तम् ।
रूक्षा रुक्षाशनिरवाडम्बरोल्मुकसन्निभाः ।
ववर्षुर्जलदास्तोयं रुधिराग्निविमिश्रितम् ॥
लङ्काकाण्डे प्रहस्तवधनिमित्तम् ।
"व्यभ्रमाकाशमाविश्य घोररूपः खरस्वनः ।
ववर्ष रुधिरं देवः प्रहस्तस्य रथोपरि"[२८१]॥
उत्तरकाण्डे माल्यवदादिराक्षसवधनिमित्तम् ।
“अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च”[२८२]
तत्रैव जगदुद्वेजकरावणोत्पत्तौ
“ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः”[२८३]।
उद्योगपर्वणि भीष्मसेनापत्यकरणे भीष्मवधनिमित्तम् ।
“प्रादुरासीदनभ्रे च वर्षं रुधिरकर्दमम्”[२८४]।
आश्वमेधिके सैन्धवपराजयनिमित्तम् ।
“रासभारुणसंकाशा धनुष्मन्तः सविद्युतः ।
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्”[२८५]॥
गदापर्वणि पाण्डवशिविरविनाशनिमित्तकथने धृतराष्ट्रे सञ्जयवाक्यम् ।
स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।
पपात नभसो रेणुः कपोतोदरधूसरः ।
मयूरचित्रे ।
पांशुतैलवसामांसवृष्टौ माण्डलिनां वधः ।
बार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरेषु ।
अङ्गारपांशुवर्षे तु नगरं तद्विनश्यति ।
मज्जास्थिस्नेहमांसानां जनमारभयं वदेत् ॥
पराशरः ।
अङ्गारसिकतापांशुप्रवर्षणं पुरविनाशाय । तथा मज्जासृक्स्नेहमांसास्थिवर्षणं जनमारभयाय ।
वराहसंहितायां च ।
अङ्गारपंशुवर्षे विनाशमुपयाति तन्नगरम् ।
औशनसे तु ।
अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति ।
क्षिप्रं तत्र भयं घोरं प्रवर्त्तेत चतुर्विधम् ॥
मांसवर्षं च मघवा यत्र देशेषु वर्षति ।
अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥
परचक्रागमः शीघ्रं विज्ञेयं सुमहद्भयम् ।
अहिताश्चात्र जायन्ते विपुला विकृतात्मकाः ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
फलपुष्पशमीधान्यं हिरण्यं वा भयावहम् ।
वृष्टिमिति सम्बन्धः ।
वराहसंहितायां च ।
धान्यहिरण्यत्वत्रफलकुसुमाद्यैर्वषिते भयं विन्द्यात्
मत्स्यपुराणे ।
पांशुजन्तूपलानां तु वर्षणे रोगजं भयम् ।
पराशरः ।
लोमोपलासवक्षीरदधिमधुघृततैलमत्स्यभेकपक्षिशस्यवर्षणं दुर्भिक्षाय ।
ओशनसे तु ।
सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति ।
तत्र शस्त्रोपघातः स्याद्भयं चातिप्रवर्त्तते ॥
सुरासवं तथा क्षौद्रं सर्पिस्तैलं पयो दधि ।
यत्र वर्षति पर्जन्यः क्षुद्रोगस्तत्र जायते ॥
धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम् ।
सिकतारजोवसामृतशर्करकाङ्गारवर्षेषु ॥
सुतपत्नीक्षुद्रोगा नृपवेशचमूमरणसंक्लेशैः ।
भेदोपजापमव्रिव्याधिभयविनाशभयशोकाः ॥
बार्हस्पत्ये तु ।
वृष्टिर्यदा वर्षति रेणुवर्षं तस्योपरिष्टाद्धरितालवर्षम् ।
अदृष्टपूर्वं च यदा प्रवर्षेत् तदा बलं नश्यति पार्थिवस्य ॥
अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
सूर्येन्दुपर्जन्यसमीरणानां यागः स्मृतो वृष्टिविकारकाले ।
धान्यं च गोकाञ्चनदक्षिणाश्च देयास्ततो नाशमुपैति पापम् ॥
बार्हस्पत्ये तु ।
सूर्येन्दुवायुपर्जन्या यष्टव्या वर्षवैकृते ।
अन्नानि सहिरण्यानि धान्यं गावश्च दक्षिणाः ॥
वैश्वदेवाश्च होतव्याः सर्वाद्भुतविनाशनाः ।
चतुर्णामपि वर्णानामभयं विद्यते ततः ॥
गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः ।
शतनिष्काश्च दातव्या अलाभे तु गवां शतम् ॥
मयूरचित्रे ।
हेमरक्तास्त्रपाषाणबालमुत्पांशुकर्दमैः ।
पुष्पायस्ताम्रकेशैश्च पृष्टौ सौर्या चरुक्रिया ॥
दिव्ये सूर्याय स्वाहेति प्रभृत्युक्तांऽतिदिश्यते ।
तत्रैव ।
प्रावृट्काले यदा मेघः पांशुवृष्टिं विमुञ्चति ।
चक्रवर्तिवधः प्रोक्तस्तदा गर्गेण भागुरे ॥
द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।
फलपाकसमयो गार्गीये ।
घृततैलवसावर्षे सद्यः फलमुदाहृतम् ।
व्यभ्रवृष्टिर्भवेन्मासात्.........इति ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽतिवृष्ट्याद्यद्भुतावर्त्तः ।
अथ कबन्धाद्भुतावर्त्तः ।
लङ्काकाण्डे धूम्राक्षनिर्याणे धूम्राक्षवधनिमित्तम् ।
“रुधिरार्द्रौ महाश्वेतः कबन्धो निपपात ह”[२८८] ।
गदापर्वणि पाण्डवशिविरवधनिमित्तम् ।
"बहु पादैर्बहुभुजैः कबन्धैर्धोरदर्शनैः ।
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप"[२८९]॥
अत्रापि सावित्रीमव्रदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽअद्भुतसागरे कबन्धाद्भुतावर्त्तः ।
xxxxxक्षाश्रयः पूर्णः ।
तत्रादावेव भूकम्पोत्पत्तिकारणमुच्यते विष्णुपुराणे ।
यदा विजृम्भतेऽनन्तो मुदा घूर्णितलोचनः ।
तदा चलति भूरेखा साद्रिद्वीपाब्धिकानना ॥
तत्र यथाक्रमं काश्यपगर्गवशिष्ठवृद्धगर्गाणां मतं वराहसंहितायाम् ।
क्षितिकम्पमाहुरेके मह्य[२९०]न्तर्जलनिवासिसत्त्वकृतम् ।
भूभारखिन्नदिग्गजनिःश्वाससमुद्भवं चान्ये ॥
अनिलोऽनिलेन निहितः क्षितौ पतन् सस्वनं करोत्यन्ये ।
के चित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः ॥
इदमन्ये प्राहुराचार्या इत्यस्य 'गिरिभिः पुरा सपक्षैः-' इत्यादिना वक्ष्यमाणेन सम्बन्धः । तत्र चानिलादिकृतो भूकम्प इति वक्तव्यम् ।
तथा च काश्यपः ।
अर्णवस्योपरि पृथ्वी सशैलवनकानना ।
स्थिता तन्मध्यगाः सत्त्वाः[२९१]संक्षोभाच्चालयन्ति ताम् ॥
गर्गस्तु ।
चत्वारः पृथिवीं नागा धारयन्ति चतुर्दिशम् ।
वर्धमानः सुवृद्धश्च अतिवृद्धः पृथुश्रवाः ॥
वर्धमानो दिशं पूर्वी सुवृद्धो दक्षिणां दिशम् ।
पश्चिमामतिवृद्धश्च सौम्याशां तु पृथुश्रवाः ॥
नियोगाद्ब्रह्मणो ह्येते धारयन्त्यम्बुसंस्थिताः ।
ते वसन्ति सदा श्रान्ताः स वायुं श्वसते महान् ॥
वेगान्महीं चालयते भावाभावनिदर्शकः ।
वशिष्ठस्तु ।
यदाऽतिबलवान् वायुरन्तरीक्षानिलाहतः ।
पतत्याशु स निर्घातो भवते वायुसम्भवः ॥
तस्य योगान्निपततश्चलत्यद्भयो हता क्षितिः ।
सोऽभिघातसमुत्थः स्यात् सनिर्घातमहीचलः ॥
वृद्धगर्गस्तु ।
प्रजा धर्मरता यत्र तत्र कम्पः शुभो भवेत् ।
जनानां श्रेयसे नित्यं विसृजन्ति सुरोत्तमाः ॥
विपरीतस्थिता यत्र जनास्तत्राशुभं वदेत् ।
विसृजन्ति प्रजानां तु दुःखशोक विवृद्धये ॥
पराशरस्तु ।
प्राक् खलु भगवन्तममरवरगुरुं गुरुं समुपसृत्य गौरवावनत-
शिरसः पराशरमुत्तरे हिमवतः पार्श्वेऽभितप्यमानत पसं प्रतपन्तमित्रो
दयगिरिशिखराधिरूढमर्कमृषिगणमध्यस्थं जगन्मध्यस्थमन्तेवा-
सिन ऊचुः । नावनिचलनमल्पकारणं नः प्रतिभाति । तत् किं नु
खलु भगवन्नकस्मात् किमधर्मगौरवादवनिधरस्कन्धप्रचलनप्रतिच-
लनमिति तद्दाञ्छन्ति तत् किमदृष्टकारितमुतार्णशयविचेष्टितमिति
शिष्यवचनमथ निशम्य नेत्युवाच भगवान् । पुराऽतिवीर्यप्रवृद्धप्र
भवाः पक्षिणः पवनपथचारिणोऽचलाः पतन्तः शतशोऽवनिमसकृ-
दतिकम्पयाम्बभूवुः । तदाऽखिलजगदहितमव निचलनमभिसमीक्ष्य
सुरपतिरविहतगतिमुपरि कुलिशमुत्क्षिप्य क्षितिधरपक्षान् क्षणान्निपात्यावनिमुवाचाद्विजमतः परं भयमपनयाम्यनिलानलबलभिदम्बुपत्यभिविसृष्टाः । कम्पाः कदा चिज्जगतो हिताहितवादिनो भविष्यन्ति- इति । तथा चौशनसे ।
चत्वारीमानि भूतानि कम्पयन्ति वसुन्धराम् ।
आपः शचीपतिश्चैव हव्यवाहः प्रभञ्जनः ॥
पूर्वां सहस्रनयनो दक्षिणां हव्यवाहनः ।
आपः पश्चादुदीचीं च स चचाल प्रभञ्जनः ॥
वराहसंहितायां च ।
गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च ।
आकम्पिता पितामहमाहामरसदसि सव्रीडम् ॥
भगवन् नाम ममैतत् त्वया कृतं यदचलेति तन्न तथा ।
क्रियतेऽचलैश्वलद्भिः शक्ताऽहं नास्य खेदस्य ॥
तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत् ।
साश्रुविलोचनमाननमवलोक्य पितामहः प्राह ॥
मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय ।
शक्रः कृतमित्युक्त्वा माभैषीर्वसुमतीमाह ॥
किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् ।
प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥
आथर्वणाद्भुतमयूरचित्रयोः ।
प्राग्द्वित्रिचतुर्भागेषु दिनरात्र्योर्यथाक्रमम् ।
अनिलाग्नीन्द्रवरुणाः कम्पयन्ति वसुन्धराम् ॥
पराशरः ।
तत्र चतुर्षु चतुर्भागेषु दिवानक्तमनिलानलेन्द्रवरुणजं कम्पक्रमं विन्द्यात्- इति ।
अहोरात्रस्य चतुर्षु प्रहरयुगलेषु क्रमेण वायव्यादयश्चत्वारो मण्डला भवन्तीति गार्ग्यादिवचनदर्शनादेकं व्याख्यानम् । तथा च गर्गः ।
कृत्वा चतुर्धाऽहोरात्रं द्विधाऽहोऽथ द्विधा निशाम् ।
देवताश्रययोगाच्च चतुर्धा भगणं तथा ॥
पूर्वे दिनार्धे वायव्य आग्नेयोऽर्धेऽथ पश्चिमे ।
ऐन्द्रः पूर्वेऽथ रात्र्यर्धे पश्चिमार्धे तु वारुणः ॥
चत्वार एवमेते स्युरहोरात्रविकल्पजाः ।
निमित्तभूता लोकानामुल्कोनिर्घातभूचलाः ॥
बृहस्पतिः ।
अह्नो यामद्वये पूर्वे शेषे चैव निशि क्रमात् ।
वायव्यादिषु विज्ञेया वेलामण्डलसंज्ञकाः ॥
दिनस्य चर्तुषु यामेषु रात्रेश्च वायव्यादयश्चत्वारो मण्डला भवन्तीति भार्गवीयम त्स्यपुराणविष्णुधर्मोत्तरादि-वचनसंदर्शनादपरं व्याख्यानम् ।
तथा च भार्गवीये ।
पवनाग्नीन्द्रवरुणाः कम्पयन्ति वसुन्धराम् ।
शुभाशुभार्थं लोकानां रात्रावहनि च क्रमात् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।
प्रथमे दिनयामे च रात्रौ च मनजोत्तम ।
इत्यादिप्रतिमण्डलं लिखिष्याम इति दिवा चतुर्षु यामेषु क्रमेण वायुवरुणदहनसुरपतयो मण्डलपतयो रात्रौ तु सुरपतिदहनवरुणवायवश्चेत्युशनसः स्वरसः ।
तदुक्तमाथर्वणाद्भुते ।
आद्यद्वित्रिचतुर्थे दिनयामे तद्विलोमतो रात्रौ ।
अनिलवरुणाग्नीन्द्रजमण्डलचक्रं वदत्युशना ॥
तथा चोशना ।
उदीच्यां यदि कम्पेत वायव्ये सप्तके गणे।
दिनाद्ययामरात्र्यन्ते वायव्यः कम्प उच्यते ॥
वायुना ध्वस्तवैश्मानो नराः कलहसंकुलाः ।
परस्परविरोधेन परस्परवधनेन च ॥
ईतयश्चापि जायन्ते वायुदोषसमुद्भवाः-
अयं चोशसो वेलामण्डलक्रमो न बहुसम्मत इति ।
अथ नक्षत्रमण्डलानि । तत्र वायव्यमण्डलमाह पराशरः ।
वायव्याभिजिद्वासवाश्विनार्यम्णहस्तत्वाष्ट्रेष्वनिलो भूमिं कम्पयन् परुषपवनविघातैस्तरुकुसुमशस्यानुच्छेदयत्युन्मादश्वासश्वपथुविषज्वरातङ्ककृत् । विशेषतो भिषग्वणिक्पण्यस्त्रीशिल्पिशूरचित्रकरविद्याविवादशीलधूर्त्तकुरुयवनदण्डकमत्स्यमगधशाल्वसौवर्धनपुलिन्दविदेहसुराष्ट्रनलदरददशार्णाङ्गबङ्गावन्तिमालवसारवत्रिगर्त्तसौवीरयौधेयक्षुद्रकशिविकवसातीनभिहन्ति ।
बार्हस्पत्ये तु । धनिष्ठानक्षत्रस्थाने मृगशीर्षमुक्तम् ।
तद्यथा ।
हस्ताश्विनौ तथा चित्रा ऋक्षमर्यमदैवतम् ।
ब्राह्मं मृगशिरः स्वाती वायव्यं मण्डलं स्मृतम् ॥
यद्यत्र चलतेऽभूमिर्निघातोक्ले तथैव च ।
अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
आदित्यो वा विगृह्येत सोमो वाऽप्युपरज्यते ।
वायव्यं तद्विजानीयदक्षेमं चात्र निर्दिशेत् ॥
पांशुवर्षं तथा घोरं क्षीरे सर्पिर्न जायते ।
प्रासादतोरणादीनि प्रपतन्ति महीतले ॥
मद्रका यवनाश्चैव शकाः काम्बोजवाह्लिकाः ।
गान्धाराश्चैव नश्यन्ति एतैः सार्धं तथा किल ॥
गजवाजिन उष्ट्राश्च वृका नकुलवेष्टकाः ।
पीडयन्ते व्याधिताः सर्वे ये च शस्त्रोपजीविनः ॥
पुरे श्रेष्ठ । विनश्यन्ति गणेषु गणसम्मिताः ।
गृहाणि रमणीयानि विशीर्यन्ते च सर्वशः ॥
आयासश्चोल्वणस्तत्र शस्त्रत्रासं समन्ततः ।
एतै रूपैश्च विज्ञेयं वायव्ये चलदर्शनम् ॥
गर्गकाश्यपमत्स्यपुराणविष्णुधर्मोत्तरमयूरचित्राथर्वणाद्भुतेषु धनिष्ठानक्षत्रस्थाने मृगशीर्षमभिजिन्नक्षत्रस्थाने पुनर्वसुनक्षत्रं चोक्तम् ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
प्रथमे दिनयामे च रात्रौ च मनुजोत्तम ।
हस्ते खातौ च चित्रायामादितरे चाश्विने तथा ॥
आर्यम्णे सोमदैवत्ये वायवी शान्तिरद्भुते ।
गर्गस्तु ।
सौम्यादित्यार्यम्णहस्तचित्रखात्यश्विनीषु वा ।
कम्पो वायुकृतश्चण्डो वायुनाऽपि विधूननः ॥
रुक्षारुणत्वं च दिशां रूक्षचण्डानिलस्तथा ।
शस्यमल्पतरं विन्द्याद्वृष्टिर्वध्येत वायुना ॥
सप्तमेऽहनि कम्पश्च महान् स्याद्वायुसम्भवः ।
काश्यपः ।
उत्तराफाल्गुनीहस्तं चित्राखातिपुनर्वसु ।
अश्विनी सोमदैवत्यं वायव्यं मण्डलं स्मृतम् ॥
अत्र वाता महाघोराः सशर्कररजोत्कराः ।
गर्भस्थाश्च निपात्यन्ते रोगक्षुद्भयपीडिताः ॥
कलिङ्गाः शवरा म्लेच्छास्तङ्गणाः क्षितिवासिनः ।
शान्तिं सामीरणीं कुर्यादुत्पातो यदि दृश्यते ॥
आथर्वणाद्भुतावते ।
हस्तचित्राश्विनीस्वातिमृगशीर्षपुनर्वसु ।
उत्तराश्चैव पाल्गुन्य एतद्वायव्यमण्डलम् ॥
वायव्ये शस्त्रकोपः स्यात् क्षीरे सर्पिर्न जायते ।
पांशुवृष्टिर्महाघोरा स्यादायासस्तथोल्वणः ॥
प्राकारतोरणारामाः प्रपतन्ति महीतले ।
पक्षिणो भूतलं यान्ति वायुवेगसमाहताः ॥
मद्रकाः यवनाश्चैव काम्बोजा वाह्लिकास्तथा ।
गान्धाराश्च विरुध्यन्ते विनश्यन्ति पुराणि च ॥
मयूरचित्रे तु ।
स्वातिहस्ताश्विनीचित्रामृगशीर्षपुनर्वसु ।
उत्तराफाल्गुनी चेति वदन्त्येतं तु मारुतम् ॥
अस्त्रवर्षं महाघोरं ज्वरदाहः प्रवर्त्तते ।
प्रासादतोरणं वेश्म प्रपतन्ति महीतले ॥
चैत्यवृक्षास्तथा हर्म्यं तथा देवकुलानि च ।
भूमौ प्रणिपतन्त्याशु वायुवेगसमीरिताः ॥
वारुणा वाह्लिका मत्स्या हूणाः पारसिकास्तथा ।
परस्परं विरुद्धाः स्युर्व्याधयः प्रभवन्ति च ॥
न च वर्षति पर्जन्यो नष्टशस्या वसुन्धरा ।
सधूमाश्च दिशः सर्वाः शुष्यन्ति सलिलाशयाः ॥
वराहसंहितायाम् ।
चत्वार्यार्यम्णद्यान्यादित्यं मृगशिरोऽश्वयुक् चेति ।
मण्डलमेतद्वायव्यमस्य रूपाणि सप्ताहात् ॥
वायव्ये भूकम्पे शस्याम्बुवनौषधीक्षयोऽभिहितः ।
श्वपथु श्वासोन्मादज्वरकाशभवो वणिक्पीडा ॥
रूपायुधमृद्वैद्यस्त्रीकविगान्धर्वशिल्पिपुण्यजनाः ।
पीड्यन्ते सौराष्ट्रककुरुमगधदशार्णमत्स्याश्च ॥
यदि नक्षत्रसन्धौ वा वेलासन्धौ मुनिमतभेदाद्वा मण्डलसंशयो भवति तदैतदुक्तफललक्षणद्वारेण वायुमण्डलनिर्णयं कृत्वा प्रतिविधानमाचरणीयम् ।
तथा च बार्हस्पत्ये ।
प्रकम्तिायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु
अतिप्रचण्डो विपुलो वायुर्वहति दारुणः ॥
शर्करोत्कर्षणश्चापि दिक्षु चैव विदिक्षु च ।
ततैतल्लक्षणोपेते विद्याद्वायुप्रकम्पितम् ॥
तस्मिन् भवति निर्दिशः शौनकस्य वचो यथा ।
शस्त्रैरावरणं कुर्यात् प्राकारं परिखास्तथा ॥
न तथा प्रविशेद्राजा जात्वात्मानं च गोपयेत् ।
संग्रामाश्चात्र विद्यन्ते मरणानि भवन्ति च ॥
राजपुत्रसहस्त्राणां भूमिं पिबति शोणितम् ।
मासं विंशतिरात्रं वा देवस्तत्र न वर्षति ॥
अश्वारूढैः सुसन्नद्धैर्वारणैश्च निरुत्तरम् ।
मासं विंशतिरात्रं वा संग्रामस्तुमुलो भवेत् ॥
द्वाभ्यां गताभ्यां मासाभ्यां परं स्याद्वहुलं जलम् ।
उष्णं दूषयते धान्यं क्षेत्रबन्धं यथाऽधिकम् ॥
सर्वेषामेव कम्पानां गर्हितं वायुकम्पितम् ।
भागवीये च ।
निष्प्रकाशमिवाकाशं भास्करो नातिभास्करः ।
दिशश्च न प्रकाशन्ते दुःखार्त्ता इव योषितः ॥
सद्यो वा मारुता रूक्षा वान्ति शर्करकर्षिणः ।
सप्ताहाभ्यन्तरे कम्पे मारुतेऽतिभयावहे ॥
तथा च वटकणिकायाम् ।
आर्यम्णपूर्वं भचतुष्टयं च शाशाङ्कमादित्यमथाश्विनेयम् ।
वायव्यमेतत् पवनः प्रचण्डो मासद्वयेनाशुभदः प्रजानाम् ॥
अत्र मयूरचित्रोक्ता त्रयोदशी शान्तिर्लिख्यते ।
शान्तिमत्र प्रवक्ष्यामि सर्वोपद्रवनाशिनीम् ।
पूजयेत् तत्र वायुं च चरुं कुर्यात् तथाऽऽशनम् ॥
आवायो वृयेत्यनेन मन्त्रेणाष्टोत्तरं तथा ।
सहस्राणि तु पञ्चैव जुहुयात् समिधं शुचिः ॥
औदुम्बरीघृतेनाक्तां वाञ्छयन् शान्तिमुत्तमाम् ।
पायसं मधुसंयुक्तं दधिक्षीरगुडोदनम् ॥
ब्राह्मणान् भोजयेच्चैव हुतान्ते भूरि दक्षिणाम् ।
सुवर्णं रजतं कांस्यं गृहं दासीसमन्वितम् ॥
अनड्वाहं च धेनुं च ब्राह्मणेभ्यो निवेदयेत् ।
इति त्रयोदशी शान्तिः ।
अथाग्नेयमण्डलमौशनसे ।
दक्षिणेन चलेद्भूमिराग्नेये सप्तके गणे ।
द्वितीययामे मध्याह्ने चाग्नेयः कम्प उच्यते ॥
तत्र बीजानि दह्यन्ते शुष्यन्ते चैव सागराः ।
दुर्भिक्षभयचौरादोंस्तस्मिन् कम्पे विनिर्दिशेत् ॥
द्वितीययामे रात्रेर्द्वितीयप्रहरे मध्याह्ने दिनस्य द्वितीयप्रहरे इत्यर्थः ।
तथा च मत्स्यपुराणे ।
द्वितीये दिनयामे च रात्रौ च रविनन्दन ।
पुष्याग्नेयविशाखासु पित्र्याजभरणीषु च ॥
उत्पाता ये तथा भाग्य आग्नेयीं तेषु कारयेत् ।
विष्णुधर्मोत्तरेऽप्येवम् । पराशरस्तु ।
अग्नीन्द्राग्न्यजयमगुरुभगपितृदेवतेष्वनलोऽभिकम्पयन् वर्षसरित्सरःस्रोतसामपः क्षपयन् मुखाक्षिरुगरोचकपिटकपाण्डुरोगज्वरकिटिभदद्रुदाहकृद्विशेषाद्दारुपावकाग्निदिक्पुलिन्दयवनवाह्लीकबङ्गोष्ट्रावन्त्यश्मकक्ष्वाकुकुलूततुषारशिविकत्रिगर्त्तवैदेहद्रविडसुराष्ट्रमध्यदेश-दशार्णाँश्च हिनस्ति ।
काश्यपः ।
कृत्तिकापित्र्यपुष्याश्वविशाखाभरणीभगाः ।
पूर्वभाद्रं तथाऽऽग्नेयं मण्डलं भयकारकम् ॥
अनिलानिलसंयोगान्महावह्निः समुत्थितः ।
ग्रामाश्च तेन दह्यन्ते कानानि वनानि च ॥
मध्यदेशकुरुक्षेत्रं द्विजा यज्ञसमन्विताः ।
आभीरा: सिन्धुगान्धारा विरुध्यन्ते परस्परम् ॥
नद्यः शोषं प्रयास्यन्ति गवां क्षीरं न जायते ।
स्नेहान्नरसहानिश्च शान्तिमग्नेस्तु कारयेत् ॥
आथर्वणाद्भुते ।
विशाखाकृत्तिकापुष्याः पूर्वा प्रौष्ठपदा तथा ।
भरणीपूर्वफाल्गुन्यावेतदाग्नेयमण्डलम् ॥
उल्काभूकम्पनिर्घातदिग्दाहेष्वग्निमण्डले ।
अदेहानां नर्दने च देवताकम्पने तथा ॥
चन्द्रार्कौ वा विगृह्येते दुर्भिक्षमरकामयाः ।
गावोऽल्पपयसो वह्निदाहपित्तज्वरोऽक्षिरुक् ॥
परचक्रागमः श्वासो नदीशोषोऽल्पशस्यता ।
अवृष्टिनिष्फलत्वं च पादपानां च सर्वशः ॥
कृत्तिकाभरणीपुष्या अजेन्द्राग्निमघास्तथा ।
प्राक्फाल्गुनीति चाग्नेयं चलत्यस्मिन् मही यदि ॥
उल्का वा यदि वा वज्रं निर्घातो यदि चापतेत् ।
देहिनां देहनाशः स्याद्गावोऽल्पपयसस्तथा ॥
व्याधिभिर्द्विजपीडा च पित्तज्वरसमुत्थितैः ।
गूढगर्भाः स्त्रियश्च स्युर्वह्निदाहश्च सर्वशः ॥
ईतिर्भवति शस्यानां प्रीतिश्चापि न विद्यते ।
दह्यते च तथा भूमिर्न च वर्षति वासवः ॥
वराहसंहितायाम् ।
पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि
वर्गो हौतभुजोऽयं करोति रूपाण्यथैतानि ॥
तारोल्कापातावृतमादीप्तमिवाम्बरं सदिग्दाहम् ।
विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः ॥
आग्नेयेऽम्बुदनाशः सलिलाशयसंक्षयो नृपतिवैरम् ।
दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगाश्च ॥
दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकाङ्गवाह्लीकाः ।
तङ्गणकलिङ्गवङ्गद्रविडाः शवराश्च नैकविधाः॥
यदि नक्षत्रसन्धौ वेलासन्धौ वा मुनिमतभेदाद्वा मण्डलसंशयो भवति तदैतदुक्तलक्षणद्वारेणाग्निमण्डलनिर्णयं कृत्वा प्रतिविधानमाचरणीयम् ।
भार्गवीये ।
तारापातैर्दिशां दाहैरुल्कापातैश्च सखनैः ।
हाहाकृतमिवाभाति प्रदीपितपथं नभः ॥
सप्ताहाभ्यन्तरे चापि क्षितौ वह्निः प्रकुप्यति ।
स आग्नेयो भवेत् कम्पो राजराज्यभयावहः ॥
बार्हस्पत्ये।
प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
यमजिह्वोपमा भीमा उल्का भवति भासुरा ॥
ताम्रः सूर्यश्च चन्द्रश्च दीप्ताश्च मृगपक्षिणः ।
दिशः सर्वा भवेयुश्च सूर्योदयसमप्रभाः ॥
क्षणोपेतं विद्यादग्निप्रकम्पितम् ।
तदैतल्लक्षणोपेतं विद्यादग्निप्रकम्पितम्
तस्मिन् भवति निर्देश: शौनकस्य वचो यथा ॥
हिरण्यं च सुवर्णं च यच्चान्यद्विद्यते गृहे ।
सर्वमेतत् परित्यज्य कर्त्तव्यो धान्यसंग्रहः ॥
राष्ट्राणि संदहेदग्निर्ग्रामांश्च नगराणि च ।
संग्रामाश्चात्र वर्त्तन्ते मांसशोणितकर्दमाः ॥
राजानश्च विरुध्यन्ते देवश्चात्र न वर्षति ।
एवमेतत् तु कम्पानां गर्हितं ह्यग्निकम्पितम् ॥
अस्य तु फलपाकः सार्धमासेन ।
यदुक्तं वटकणिकायाम् ।
अजैकपादं बहुला भरण्यो भाग्यं विशाखा गुरुभं मघा च ।
क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमग्निसंज्ञम् ॥
अत्र मयूरचित्रोक्ता द्वादशी शान्तिर्लिख्यते ।
अत्राग्नेयं चरुं कृत्वा पूजा चाग्नेस्तथैव च ।
वैश्वानरेत्याद्युभयमन्त्रेण जुहुयादति ॥
अष्टोत्तरसहस्रं च विल्वस्य समिधां शुचिः ।
पायसं मधुसंयुक्तं प्राशयित्वा द्विजोत्तमम् ॥
सुवर्णरजतं दद्याद्धुतान्ते भूरिदक्षिणाम् ।
यदा चलति पूर्वेण ऐन्द्राद्ये सप्तके गणे ।
चतुर्थयामे प्रदोषे ऐन्द्रः कम्पः स उच्यते ॥
तत्र बीजानि वर्धन्ते सुभिक्षं चैव जायते ।
स्वधर्मस्था हि राजानः सुक्षेमं शान्तिरेव च ॥
चतुर्थयामे दिनचतुर्थयामे। प्रदोषे रात्रिप्रथमयामे इति ।
पराशरः ।
ऐन्द्रवैष्णववैश्वदेवप्राजापत्यसौम्यादित्यमैत्रेषु सुरपतिरवनिं
चालयति । प्रावृडाम्भोदयज्ञधर्मान्नपानोत्सवोऽन्यत्र -इति ।
बार्हस्पत्ये । मृगशिरोनक्षत्रस्थाने घनिष्ठानक्षत्रमुक्तम् ।
तद्यथा ।
ज्येष्ठानुराधाश्रवणाधनिष्ठाश्च पुनर्वसु ।
प्राजापत्योत्तराषाढे माहेन्द्रं मण्डलं स्मृतम् ॥
यद्यत्र चलते भूमिर्निर्घातोल्के तथैव च ।
अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
आदित्यो वा निगृह्येत सोमो वाऽप्युपरज्यते ।
माहेन्द्रं तद्विजानीयात् सुक्षेमं चात्र निर्दिशेत् ॥
गावः समग्रवत्साश्च स्त्रियः पुत्रसन्विताः ।
कीटव्याला म्रियन्ते च ये चान्ये स्वेन्दजन्तवः ॥
वेदाध्ययनयज्ञेषु ब्राह्मणा निरताः सदा ।
विद्क्षत्रियाः स्वकर्माणः शूद्राः शुश्रूषवस्तथा ॥
काश्यापाथर्वमुनिमयूरचित्रमत्स्यपुराणविष्णुधर्मोत्तरवराहसंहिताद्वयवचनेषु मृगशिरोनक्षत्रस्थाने धनिष्ठानक्षत्रं पुनर्वसुनक्षत्रस्थानेऽभिजिन्नक्षत्रं चोक्तम् ।
तथा च काश्यपः ।
धनिष्ठा श्रवणं ज्येष्ठा तथाऽऽषाढोत्तराऽभिजित् ।
अनुराधा रोहिणी च माहेन्द्रं मण्डलं स्मृतम् ॥
ऐन्द्रया श्रियाऽभिशंसन्ति पृथिव्यां पार्थिवर्षभाः ।
प्रजासु क्षेममारोग्यं सर्वशस्यसमन्वितम् ॥
आथर्वणाद्भुते ।
ज्येष्टानुराधा श्रवणा धनिष्ठा चाभिजिन्मघा ।
रोहिण्यश्चोत्तराषाढा एतन्माहेन्द्रमण्डलम् ॥
ऐन्द्रे बहुफला वृक्षा गावोऽतिपयसस्तथा ।
सर्वशस्यवती पृथ्वी क्षेमारोग्यसुवृद्धयः ॥
वेदाध्ययनसम्पन्नाः स्वकर्मनिरता हिजाः ।
मयूरचित्रेऽपि ।
ज्येष्टानुराधारोहिण्यः श्रवणा चाभिजित् तथा ।
वैश्वदेवं धनिष्ठा च माहेन्द्रमिदमुच्यते ॥
दिग्दाहोल्कामहीकम्पैः गावोऽतिपयसस्तथा ।
सर्वशस्यवती पृथ्वी क्षेमारोग्यसुवृद्धयः ॥
बहुपुष्पफला वृक्षा उल्कापाते विशेषतः ।
वराहसंहितायाम् ।
अभिजिच्छश्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमैत्राणि ।
सुरपतिमण्डलमेतद्भवन्ति चाप्यत्र रूपाणि ॥
चलिताचलवर्ष्माणो गम्भीरविराविणस्तडित्वन्तः ।
गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥
गवलं माहिषशृङ्गमिति ।
यदि नक्षत्रसन्धौ वेलासन्धौ वा मुनिमतभेदाद्वा मण्डलसंशयो भवति तदैतदुक्तलक्षणद्वारेणैन्द्रमण्डलनिर्णयं कृत्वा प्रतिविधानमाचरणीयम् ।
तथा च भार्गवीये ।
सप्ताहाभ्यन्तरे कम्पे भवेद्वज्रधरात्मके ।
सखनैर्व्याप्तमत्यर्थं स्वस्तिवाक्यैर्घनैर्नभः ॥
नभसोऽन्ते च चारिण्यो विद्युतश्चार्कसन्निभाः ।
प्रान्तेष्वसंवृताश्चापि शीतशीताश्च मारुताः ॥
बार्हस्पत्ये तु ।
प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
गम्भीरगर्जमानश्च मेघ आयाति पार्थिव ॥
स्निग्धो ह्यञ्जनसंकाशः सुमहातोयदोपमः ।
वित्रासयन् दिशाः सर्वा द्रुतं चापि प्रवर्षति ।
इन्द्रायुधं भवेच्चात्र विद्युत्स्तनितमेव च ।
सुवृष्टिः क्षेममारोग्यं सुभिक्षं परमं पदम् ॥
यज्ञोत्सवैश्च मोदन्ते आनन्देर्मुदिताः प्रजाः ।
एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पितम् ॥
जानीयाक्षणैरेतैः सर्वमेव शुभाशुभम् ।
नन्वेतन्मण्डलस्य शोभनफलमुक्तं कथं शुभाशुभमिति । ऐन्द्रमण्डलमपि केषां चिदशोभनम् ।
तथा च काश्यपः ।
काशीकुशीति राजा च काश्मीरद्रविडान्धकाः ।
एते देशाः प्रपीड्यन्ते शान्तिरत्र पुरन्दरी ॥
पराशरश्च ।
प्रथितकुलाधिपतिसुराष्ट्रचीनकाश्मीराभिसारप्राच्यशककिरातपौरवाच्युकरार्णवमालवपह्लवदण्डककाशिकार्षककैलासमद्वहलवहलानामुपतापाय-इति ।
वराहसंहितातायाम् ।
ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥
काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृद्धिकरम् ॥
इष्टवृद्धिकरं सज्जनवृद्धिकरमिति । अत एवास्मिन् मण्डले विष्णुधर्मोत्तरादौ शान्तिरुक्ता ।
विष्णुधर्मोत्तरे ।
तृतीये दिनयामे च रात्रेश्च भृगुनन्दन ।
रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ॥
ज्येष्ठायां च तथा मैत्रे ये भवन्त्यद्भुताः क्व चित् ।
ऐन्द्री तेषु तु कर्त्तव्या शान्तिर्भृगुकुलोद्वह ॥
अत्र शान्तिशब्देन महाशान्तिर्बोद्धव्या ।
तदुक्तं मत्स्यपुराणे ।
तृतीये दिनयामे च रात्रौ च रविनन्दन ।
रौहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ॥
ज्येष्टायां च तथा मैत्रे ये भवन्त्यद्भुतास्तथा ।
ऐन्द्री तेषु प्रकर्त्तव्या महाशान्तिः कुलोद्वह ॥
फलपाकस्त्वस्य सप्तरात्राभ्यन्तरे ।
तथा च वटकणिकायाम् ।
प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेशं स्याद्वासवं चाभिजिच्च ।
ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात् तोयं संप्रहष्टाः प्रजाश्च [२९२]॥
अथ वारुणमण्डलमौशनसे ।
प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे ।
द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम् ॥
अत्र वृष्टिश्च महती शस्यवृद्धिस्तथैव च ।
प्रजा धर्मरताश्चैव भयरोगविवर्जिताः ॥
पराशरः ।
वारुणाहिर्बुध्न्यपूषारुद्रभुजगनैर्ऋत्यदैवतेषु कम्पोऽम्बुपतिकृ
तः । सततजलधरधाराप्रभिन्नकेदारपुरनगरप्रवृद्धतरतरुणक्षुपशस्यश्च-इति ।
काश्यपश्च ।
मूलर्क्षं प्रागषाढा च तथा भाद्रपदोत्तरा ।
रेवती वारुणं चार्द्राऽऽश्लेषा तद्वारुणं स्मृतम् ॥
माञ्जिष्ठकापोतनिभैर्वालाञ्जनचयप्रभैः ।
पद्मिनीपत्रसंकाशैर्घनैर्वर्षति वासवः ॥
शालिषष्टिकगोधूमयवकार्पासकोद्रवैः ।
शोभिता गोकुलवती वत्सहस्ता रवेर्मही ॥
आथर्वणाद्भुते ।
मूलोत्तरे प्रौष्ठपदा पूर्वाषाढा च रेवती ।
आर्द्राश्लेषाशतभिषाश्चैतद्वारुणमण्डलम् ॥
वारुणेऽप्येवमेव स्यान्माहेन्द्रे यादृशं फलम् ।
मयूरचित्रे ।
शततारमहिर्बुध्न्यं पूर्वाषाढा चरेवती ।
आर्द्रा मूलं तथाऽऽश्लेषा वारुणं त्विदमुच्यते ॥
उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये ।
क्षेमारोग्यसुभिक्षाय वृष्टये च सुखाय च ॥
बार्हस्पत्ये च ।
आर्द्राऽऽश्लेषा तथा मूलं पूर्वाषाढा तथैव च ।
वारुणं रेवती चैव तथाऽहिर्बुध्न्यमेव च ॥
वारुणं तद्विजानीयात् सुभिक्षं चात्र निर्दिशेत् ।
अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
आदित्यो वा विगृह्येत सोमो वाऽप्युपरज्यते ।
बहुक्षीरास्तथा गावो नागाश्च फणिनस्तथा ॥
शान्तारयः प्रजाः सर्वा गोमि जाङ्गलं ययुः ।
जलोपजीविनः सर्वे प्राप्नुवन्त्वृद्धिमुत्तमाम् ॥
खचराश्चात्र दृश्यन्ते स्निग्धवर्णाः समन्ततः ।
अस्त्रशस्त्राश्च राजानो ब्रह्मक्षेत्रं च वर्धते ॥
एतै रूपेश्च विज्ञेयं वारुणं चलदर्शनम् ।
वराहसंहितायाम् ।
पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्यवरुणदेवानि ।
मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥
नोलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
तडिदुद्भासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥
वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् ।
गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥
तथा च भार्गवीये ।
पाशोर्मिमकराकारैर्नगनागनिभैस्तथा ।
धाराङ्गुरपरिश्रावैर्नीलोत्पलदलप्रभैः
स्तनद्भिश्छाद्यते व्योम कम्पयन् वरुणः स्वयम् ।
बार्हस्पत्ये तु ।
प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
वर्षन्तस्तु समायान्ति महामेघाः समन्ततः ॥
नक्राश्च शिशुमाराश्च कर्ममकरसंस्थिताः ।
अभ्राकृतेषु दृश्यन्ते ग्रसन्तश्चन्द्रभास्करौ ॥
तदेल्लक्षणोपेतं विद्यादम्बुप्रकम्पितम् ।
तस्मिन् भवति निर्देशः शौनकस्य वचो यथा ॥
पर्वतेषु च यद्बीजमूषरे जाङ्गले तथा ।
तत्रोप्तमुद्यते बीजमन्यत्र तु विनश्यति ॥
औङ्रजानि च पुष्पाणि मूलानि च फलानि च ।
गच्छन्ति तत्र वृद्धिं हि सत्त्वाभ्युदयकानि च ॥
क्षेमं सुभिक्षमारोग्यं सुवृष्टिं चात्र निर्दिशेत् ।
एवमेवं तु कम्पानां सामान्यं त्वम्बुकम्पितम् ॥
इदं तु मण्डलं केषां चिदशोभनं च ।
तथा च पराशरः ।
अतीसारहिक्काक्षिरोगकृदपि वा विशेषतस्तु किरातकाश्मीरपारतावन्तकौकुरेयशौर्यारकचेदिवत्ससैन्धवोदकपात्रकोदधिनदनदीसंश्रितांश्च देशानुपहन्ति ।
वराहसंहितायाम् ।
वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् ।
गोनर्दचेदिकुकुरान् किरातवैदेहान् हन्ति ॥
काश्यपस्तु ।
अभ्रकाः सकरूषाश्च सिंहला जलजीविनः ।
नश्यन्ति विषयाश्चैव शान्तिं कुर्वीत वारुणीम् ॥
अत एवास्मिन् मण्डले मत्स्यपुराणविष्णुधर्मोत्तरयोर्वारुणी शान्तिरुक्ता ।
तथा च मत्स्यपुराणे ।
चतुर्थदिनयामे च रात्रौ च रविनन्दन ।
सार्पे पौष्णे तथाऽऽर्द्रायामहिर्बुध्न्ये च वारुणे ।
मूले वरुणदैवत्ये ये भवन्त्यद्भुतास्तथा ।
वारुणी तेषु कर्त्तव्या महाशान्तिर्महीक्षिता ॥
वरुणदैवत्यं जलम् । तस्मिन पूर्वाषाढायाम् । विष्णुधर्मोत्तरेऽष्वेवम् । अस्य फलपाकः सद्य एव । तदुक्तं वटकणिकायाम् ।
आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च ।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥
ऐन्द्रादिकफळसंक्षेपो भार्गवीये ।
सुभिक्षक्षेमदौ कम्पौ विज्ञेयाविन्द्रवारुणौ ।
आग्नेयवायुजौ कम्पौ राजराष्ट्रभयावहौ ।
येषामद्भुतानां फलपाको नोक्तस्तेवामयं फलपाककालो बोद्धव्यः ।
तथा च वराहसंहितायाम् ।
पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् ।
सद्यः फलति च वरुणो येषु न पाकोऽद्भुतेषूक्तः ॥
भूमिकम्पस्य तु पाककाल उक्तो वराहसंहितायाम् ।
षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः ।
तद्यथा ।
आग्नेयो भूमिकम्पो यः सार्धमासाद्विपच्यते ।
वारुणस्य फलं सद्यो वायव्यस्य त्रिमासिकः ॥
माहेन्द्रस्य फलं विद्यान्मासमर्धं तथैव च ।
वायव्याग्नेयवारुणमण्डलेषु भूमिकम्पशान्तिर्बार्हस्पत्ये ।
एतेषु त्रिषु कम्पेषु आथर्व: शास्त्रकोवदः ।
माहेन्द्रीममृतां वाऽपि कुर्याच्छान्तिं सदक्षिणाम् ॥
ऐन्द्रमण्डले च भूमिकम्पशान्तिः ।
ऐन्द्रकम्पे तु विधिवदैन्द्रमन्त्रैर्विधानवित् ।
तत्फलस्य प्रबद्धार्थं जुहुयाच्च जपेत् तथा ॥
पराशरः[२९३] ।
योऽन्यस्मिन् नक्षत्रे भागे वाऽन्यत्र भूचलो भवति ।
स भवेद्व्यामिश्रफलस्तन्मे गदतो निबोधध्वम् ॥
अथेन्द्रवारुणमण्डलसंयोगफलम् । तत्र काश्यपः ।
माहेन्द्रवारुणौ चोभौ वेलानक्षत्रयोगजौ ।
सुभिक्षक्षेमनैरुज्यसत्यधर्मप्रवर्त्तकौ ॥
वराहसंहितायाम् ।
वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके ।
गावोऽतिभूरियसो निवृत्तवैराश्च भूपालाः ॥
पराशरस्तु ।
काशाभिसारकाच्युतकच्छद्वीपार्यदेशजाः पुरुषाः ।
गणपूजिताः कुलाग्र्या नृपाश्च वरुणेन्द्रबध्याः स्युः ॥
अथ वायव्याग्नेयसंयोगफलम् । तत्र काश्यपः ।
वायुरग्निविमिश्रस्तु वेलामण्डलयोगतः ।
दुर्भिक्षावृष्टिरोगैश्च पीड्यन्ते तत्र वै जनाः ॥
वराहसंहितायाम् ।
प्रथितनरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः
क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्चापि ॥
पराशरस्तु ।
कुरुशाल्वमत्स्यनैषधपुण्ड्रान्धकलिङ्गविन्ध्यपादस्थान् ।
वाय्वाग्नेयः कम्पोऽनिलाग्निजीवान् रुजति मत्स्यान् ॥
अथ वारुणवायुसंयोगफलम् । तत्र पराशरः ।
आवन्तकाः पुंलिन्दा विदेहकाश्मीरदरदवासान्ताः ।
ऐन्द्र्याश्रिताश्च वायव्यवारुणे प्राप्नुयुः पीडाम् ॥
अथैन्द्र्याग्नेयमण्डसंयोगफलम् । तत्र पराशरः ॥
ऐक्ष्वाकुवेश्मरथ्यान् पटच्चराभीरचीनमरुकच्छान् ।
ऐन्द्र्याग्नेयः कम्पो हिनस्ति राज्ञश्च समुदीर्णान् ॥
प्राच्यशकचीनपह्लवयौधेयकपर्दियज्ञवद्गोमान्[२९४]।
शरदण्डमगधबन्धकिविनाशनः शक्रवायव्यः ॥
अथ वारुणाग्नेयमण्डलसंयोगफलमाह पराशरः ।
ससरित्सरःसमुद्राश्रिताँश्च गोनर्दमङ्गनाराज्यम् ।
क्षत्रियगणाँश्च हन्यात् कम्पो वरुणाग्निदैवत्यः ॥
ऐन्द्रवायव्यसंयोगस्य वारुणाग्नेयसंयोगस्य च निष्फलमाथर्वणाद्भुते कथितम् ।
तद्यथा ।
परस्परं विघातः स्यादैन्द्रवायव्ययोर्द्वयोः ।
वारुणाग्नेययोश्चैव वेलानक्षत्रभेदतः ॥
वराहसंहितायाम् ।
हन्त्यैन्द्रो वायव्यं वायुश्चाप्यैन्द्रमेवमन्योन्यम् ।
वारुणहौतभुजावपि वेलानक्षजाः कम्पाः ॥
निष्फलश्च भूकम्पो जलनिवासिसत्त्वादिकृतः । शुभाशुभसूचकोऽनिलादिकृतो बोद्धव्यः ।
अथ मण्डलफलम् ।
मघापुष्यकृत्तिकाविशाखाभरणीपूर्वफाल्गुन्यः-
इत्याग्नेयमण्डलम् ।
उत्तरफाल्गुनीहस्तचित्रास्वातीपुनर्वसुमृगशिराऽश्विन्यः-
इति वायव्यमण्डलम् ।
रेवत्युत्तराभाद्रपदपूर्वाषाढशतभिषाऽऽर्द्राऽऽश्लेषा मूलम्-
इति वारुणमण्डलम् ।
अभिजिच्छ्रवणाज्येष्ठोत्तराषाढाधनिष्ठारोहिण्यनुराधाः-
इति माहेन्द्रमण्डलः ।।
आग्नेये ऋक्षयोगे यदि चलति मही चन्द्रसूर्यग्रहौ वा
निर्घातोल्काऽशनीनां कथमपि पतनं दर्शनं धूमकेतोः ।
दह्यन्ते काननानि प्रवरपुरगृहस्तीव्रतेजाः पतङ्गो
रोगैः पित्तज्वराद्यैः सततमनुगतैः पीड्यते जीवलोकः ॥
प्राकाराट्टालचैत्याः पृथुगृहतरवो गोपुरा भूधराश्र
मूलाद्वै शीर्यमाणाः पवनरयवशाद्यान्ति भूतागमाँश्च ।
नारीगोगर्भघातस्तदनु च नियतं स्वल्पशस्या धरित्री
दुर्भिक्षं चातिकष्टं प्रभवति च महाव्याधिपीडा जनानाम् ॥
इति वायव्यमण्डलम् ।
गर्जन्तं वारिवाहा जलधरनमिताः पूर्यमाणाः क्षणेन
क्रीडन्ते मीनहंसा पयसि जनपदा हर्षिणः कामभाजः ।
वृक्षाः पुष्पैः समेताः फलभरनमिताः पुत्रवत्यश्च गावः
शस्यैः पूर्णा धरित्री सुखभरनमिता जन्तवः सर्वदैव ॥
इति वारुणमण्डलफलम् ।
लोको नित्यप्रमोदी विनययुतमना नष्टरोगावकाशो
दाने भोगे च शक्तः सकलभयकृतैर्दुःखसङ्घैर्विमुक्तः ।
कीर्त्तिं विस्तीर्य रम्यां त्रिभुवनफलके वर्धयेद्धर्मवृद्धिं
कोषैः पूर्णो नरेन्द्रो जनपदसहितो वर्धते श्रीसमेतः ॥
इति माहेन्द्रमण्डलफलम् ।
अथ मण्डलद्वयशान्तिर्प्रत्स्यपुराणविष्णुधर्मोत्तरयोः ।
भिन्नमण्डलवेलासु ये भवन्त्यद्भुताः क्व चित् ।
तेषु शान्यिद्वयं कार्यं निमित्ते सति नान्यथा ॥
निमित्तायं कृता शान्तिर्निर्निमित्ताय जायते ।
निमित्तायेति । अशुभसूचकनिमित्तायेत्यर्थः । एतैर्मण्डलैरन्येऽप्युत्पाताश्चिन्तनीयाः ।
वराहसंहितायाम् ।
अन्यानव्युत्पातान् जगुरन्ये मण्डलैरेतैः इति ।
निर्घातोल्कामहीकम्पाः स्निग्धगम्भीरनिःस्वनाः ।
मेघस्तनितशब्दाश्च सूर्येन्दुग्रहणं तथा ॥
मण्डलैरेव बोद्धव्याः शुभाशुभफलप्रदाः ।
वटकणिकायां च ।
उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः ।
वातोऽतिचण्डो ग्रसनं रवीन्द्वोर्नक्षत्रताराग्रहवैकृतानि ॥
व्यभ्रे वृष्टिर्वैकृतं चातिवृष्टिर्धूमोऽनग्नौ विस्फुलिङ्गार्चिषो वा ।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा ॥
सन्ध्याविकारः परिवेषदण्डा नद्यः प्रतीपा दिवि तूर्यनादः ।
अन्यच्च यत् स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव विचिन्तनीयम् ॥
अथ शुभसूचकभूकम्पलक्षणम् । तत्र पराशरः ।
स्निग्धस्वनाः प्रदक्षिणानुयायिनोऽम्बुधरधाराभिषिक्ताः पर्वसुच सर्व एव प्रशस्यन्ते ।
अथाशुभसूचकभूकम्पलक्षणम् ।तत्र हरिवंशे कंसवधनिमित्तम् ।
“चलत्यपर्वणि मही गिरीणां शिखराणि च”[२९५] ।
पराशरः ।
अवनेर्विदरणमतिमात्रचलनं महाभयाय -इति ।
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“चचाल चापि पृथिवी सशैलवनकातना" [२९६] ।
गदापर्वणि पाण्डवशिविरपराजयनिमित्तम् ।
“चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ।
स्कन्दपुराणे प्रह्लादपराजयनिमित्तम् ।
चचाल सकला तूर्वी धराधरसमन्विता [२९७] ।
गदापर्वणि दुर्योधनवधनिमित्तम् ।
“चचाल च महाकम्पं पृथिवी सवनद्रुमाः[२९८]।
विष्णुधर्मेत्तरे ।
सनिर्घाते दीर्घभूमिचाले राजमरणं स्यात् ।
उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“रसते कम्पते भूमिर्व्यथतीव च सर्वशः”[२९९]
शल्यपर्वणि शल्यवधनिमित्तम् ।
“चचाल शब्दं कुर्वाणा सपर्वतवना मही”[३००]
गदापर्वण पाण्डवशिविरक्षर्यानिमित्तम् ।
“ससागरवना घोरा पृथिवो सचराचरा ।
चचालाश निनिदा दिशश्चैवा विला भवन्”[३०१] ॥
भार्गवीये ।
यस्यां यस्यां दिशि धरा विरोति विकृतस्वरा ।
तस्यां तस्यां दिशि भयं सार्धं स्यादधिकारिभिः ॥
अथ सन्ध्याकालिकभूमिकम्पफलं मयूरचित्रे |
सन्ध्ययोरुभयोर्भूतो भूकम्पो यदि जायते ।
सन्ध्योल्कापातवत् कार्या दिव्य । शान्तिश्चतुर्दशी ॥
यदि वा षोडशी दिव्या पूर्वा साधरणो शुभा ।
अपरमपि मयूरचित्रे ।
सन्ध्ययोर्भूमिकम्पे तु नृपस्यादिवधः स्मृतः ।
प्रजापत्या ततः शान्तिः कृता चेच्छं भविष्यति ॥
औशनसे ।
यदा कम्पेत वसुधा सर्वेषु दिवसेषु च ।
शान्त्यर्थं योजयेद्विप्रान् प्रतिपूज्याश्च देवताः ॥
देवतास्ता एव मण्डलदेवता इत्यर्थः । पराशरः ।
अभीक्ष्णा बहवोऽवनिपतिविग्रहाय भयाय च -इति ।
भूकम्पदिवसात् तृतीये चतुर्थे सप्तमे वा पक्षे मासे सार्धमासे वा भूकम्पफलमाह काश्यपः ।
अर्धमासे चतुर्थेऽह्नि मासे सार्धे हि सप्तमे ।
कम्पते धरणो चेत् स्यान्नृपतेः श्रेयसः क्षयः ॥
श्रेष्ठनृपतिविनाश इत्यर्थः ।
पराशरः ।
त्रिचतुःसप्तरात्रे पक्षमासत्रिपक्षान्तरे प्रततानुभूकम्पिनः प्रवरनृपतिविनाशाय ।
वराहसंहितायां च ।
त्रिचतुर्थे सप्तमदिने पक्षे मासेऽथ वा त्रिपक्षे च ।
यदि भवति भूमिकम्पः प्रधाननृपनाशनो ज्ञेयः ॥
सकलभूकम्पादिदोपशान्तिमाह पराशरः ।
शमयान्त्यासप्ताहात् कम्पादिकृतं निमित्तमाश्चैव ।
अभिवर्षणोपवासव्रतदीक्षाजप्यहवनानि ॥
अथ मण्डलानां भूकम्पयोजननिर्णयो भार्गवीये ।
वायव्यं विंशतिशतमाग्नेयं नवतिं चलेत् ।
अशीतिं तु चलेदैन्द्रं सप्ततिं वारुणं चलेत् ॥
वराहसंहितायाम् ।
चालयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् ।
सलिलपतिरशीतिसंयुतं कुलिशधरोऽप्यधिकं च षष्टितः -इति ।
यां दिशं भूकम्पो गच्छति तां दिशं नृपतिरभियुञ्जीत ।
तथा च मत्स्यपुराणे ।
भूचालो यां दिशं याति यां च केतुः प्रधूपयेत् ।
........ तां च यायान्नराधिपः -इति सम्बन्धः ॥
विष्णुधर्मोत्तरे ।
यां दिशं भूकम्पो याति तां च यायाद्राजा-इति ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे भूमिकम्पाद्भुतावर्त्तः ।
अथ जलाशयाद्भुतावर्त्तः ।
तत्र पद्मपुराणे देवानां पराजयनिमित्तम् ।
"यथार्थमाहुः सरितो न च चुक्षुभिरेऽर्णवाः[३०२] ।
सुन्दरकाण्डे रामजयनिमित्तम् ।
“प्रसन्नाः सुरसाश्चापः ........ [३०३]।
बार्हस्पत्ये ।
विप्राणां भवति हि शुक्लमम्बुदोषो
राजानं सपदि निहन्ति लोहितं च ।
पीतं चेद्भवति निहन्ति वैश्यवर्गं ।
शूद्राणां भवति हि कृष्णमम्बुदोषः ॥
मत्स्यपुराणेऽसुरपराजयनिमित्तम् ।
“.........उद्भूताश्च महार्णवाः"[३०४]।
स्कन्दपुराणे प्रह्लादपराज्यनिमित्तम् ।
वेलावलीसमाकीर्णा उद्भूताः सिन्धुसागराः ।
उत्तरकाण्डे माल्यवदादिराक्षसवधनिमित्तम् ।
“वेलां समुद्रश्चोत्क्रान्तः....... ” [३०५]।
गदापर्वणि दुर्योधनवधनिमित्तम् ।
"उदपानगताश्चापो व्यवर्धन्त समन्ततः"[३०६]।
उत्तरकाण्डे जगदुद्वेजकरावणौत्पत्तौ ।
“अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः”[३०७] ।
भगवते हिरण्याक्षोत्पत्तौ ।
"चुक्रोश विमनाश्चाब्धिरूर्मिभिः क्षुभितोदरः ।
सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः "[३०८] ॥
भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।
"नद्यो नदाश्च क्षुभिताः सरासिं च मनांसि च"[३०९] ।
गार्गीये ।
जलाशयगतं वारि यत्र भ्राम्यति चक्रवत् ।
वर्धते हीयते वाऽपि तत्र राजवधो भवेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
नगरादपसर्पन्ते समीपमुपयान्ति वा ।
अशोष्या वाऽपि शुष्यन्ति प्रतीपं प्रवहन्ति वा ॥
नद्यो ह्रदाः प्रस्रवणा विरसा वा भवन्ति तु ।
विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
क्षीरस्नेहसुरारक्तं वहन्ते व्याकुलोदकाः ।
षण्मासाभ्यन्तरे तत्र परचक्रागमो भवेत् ॥
वृद्धगर्गस्तु ।
नगरादपसर्पन्ते सरत्वन्तीऽथनिम्निगाः ।
अशोष्या अपि शुष्यन्ति विमार्गं प्रवहन्ति वा ॥
ह्नदपल्वलकूपानामुदधेर्वाऽपि नर्दनम् ।
अचिरात् तत् पुरं शून्यं भवतीत्यभिनिर्दिशेत् ॥
प्रतिस्रोतो वहन्ते वा विरसं चारुनिम्नगाः ।
विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
क्षीरस्नेहं सुरारक्तं वहन्ते व्याकुलोदकम् ।
षण्मासाभ्यन्तरे तत्र परचक्रागमं वदेत् ॥
वराहसंहितायाम् ।
अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।
शोषश्चाशोष्याणामन्येषां वा ह्नदादीनाम् ॥
स्नेहासृङ्मांसवहाः संकुलकलुषं प्रतीपगाश्चापि ।
परचक्रस्यागमनं नद्यः कथयन्ति षण्मासान् ॥
बृहद्यात्रायां वराहः ।
बहुतोयेऽपि संशोषः कूपेऽसृक्पूतिगन्धिता ।
राज्ञोऽब्दार्धाद्वधं कुर्यात् स्रोतोऽन्यत्वे परागमः ॥
कृपेऽसृकपूतिविस्रुतिरित्युत्पलेन लिखितम् |
औशनसे ।
यस्य राज्ञो जनपदे नदी वहति कर्दमम् ।
काष्ठं तृणं चोपलं वा मृतकं मत्स्यजालकम् ॥
यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् ।
अष्टमासाज्जनपदो हन्यते शस्त्रपाणिभिः ॥
पराशरस्तु ।
नोपयोग्यानां नदीकूपपल्वलानामपक्रमं परिशोषणमपां वैरस्यं
पुरविनाशाय सरितां प्रतिस्रोतोऽभिगमनं क्षीरस्नेहमधुसुरापूयशोणितकुणपमांस-विण्मूत्रगन्धविलुलितसलिलप्रवणमहीयूकमपां गाधागाधपरिवर्त्तनमुच्छोषणं चापरचक्रागमनाय नरपतिभयाय वा ।
गदापर्वणिपाण्डवशिविरक्षयनिमित्तम् ।
“नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्” ।[३१०]
हरिवंशपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।
“नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः"[३११]। ।
अग्निपुराणे च ।
नद्यश्च प्रतिकुलं तु वहन्ति रुधिरोदकाः ॥
बार्हस्पत्ये ।
महोर्मिभिः क्षोभिततोयवेगाः स्वकूलजान् वृक्षगणान् हरन्त्यः |
नद्यः प्रतीयाम्बुवहा यदा स्युस्तदा भयं विद्धि नरेश्वरस्य ॥
एतेन स्रोतोभिघातजातस्य प्रादेशिकाभिन्नदोषावहत्वमित्युक्तम् ।
उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"उदपानाश्च कुम्भाश्च प्रासिञ्चन् शतशो जलम् ”[३१२]।
वराहसंहितायाम् ।
सलिलोत्पत्तिरवाते गन्धरसविपर्ययोऽत्र तोयानाम् ।
सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम् ॥
तथा च मत्स्यपुराणे ।
जलाशया विनिर्वृतिं प्रजल्पन्ति कथन्ति वा ।
प्रमुञ्चन्ति सुजिह्वां च ज्वालाधूमं सृजन्ति च ॥
अखाते वा जलोत्पतिमगन्धा वा जलाशयाः ।
संगीतशब्दाः श्रूयन्ते जनमारभयं भवेत् ॥
विष्णुधर्मोत्तरे ।
जलाशया विनिर्दन्ति प्रजल्पन्ति कथन्ति च ।
विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च ॥
अन्यन्मत्स्यपुराणतुल्यम् ।
गदापर्वणि पाण्डवशिविरक्षयनिमित्तम् ।
"ह्नदाः कूपाश्च रुधिरमुद्वमुर्नृपसत्तम" [३१३]।
गार्गीये ।
ज्वलेद्धूमोऽथ वा वह्निर्यस्मिन् देशे प्रतीयते ।
तत्र राजविनाशः स्यात् क्षिप्रमेव न संशयः ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“फेतायमानाः कूपाश्च नर्दन्ति वृषभा इव"[३१४] ।
वारहसंहितायाम् ।
ज्वालाधूमक्वाथारुदितोत्कुष्टानि चैव कृपानाम् ।
गीतप्रजल्पितानि च जनमरकाय प्रदिष्टानि ॥
गार्गीये ।
उत्तिष्ठन्ति घटाः कृपादकस्माद्यत्र कुत्र चित् ।
तत्र प्रधाननाशः स्यादिति वेदविदो विदुः ॥
अत्र शान्तिर्मत्स्यपुराणे ।
जलाशयविकारे च वारुणी शान्तिरुच्यते ।
वराहसंहितायां तु ।
सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः ।
तैरेव च जपहोमं शममेवं पापमुपयाति ॥
विष्णेधर्मोत्तरे ।
जलाशयानां वैकृत्यप्रयतस्तु जलाशये ।
स्थालीपाकेन पशुना वरुणं पूजयेद्द्विजः ॥
विष्णुधर्मोत्तरमत्स्यपुराणयोः ।
दिव्यमम्भःपयःसर्पिर्मधुनाऽचमनेन च ।
जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥
मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विजभोजनार्थम् ।
गावश्च देयाः सितवस्त्रयुक्तास्तथोदकुम्भाः सलिलाघशान्त्यै ॥
मयूरचित्रे तु ।
वापीकूपतडागानामतिवारि यदा भवेत् ।
दुर्भिक्षं मरणं चैव जायते च तदा भयम् ॥
अन्यस्तत्र भवेद्राजा तथैवान्यः पुरोहितः ।
शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ॥
वरुणस्येति मन्त्रेण वृद्धौ वाप्यादिकस्य वा ।
अपामार्गस्य जुहुयात् समिधो भूश्च दक्षिणा ॥
गायत्रीजपहोमौ वा कूपस्योद्गिरणे स्मृतः ।
भोजयेद्ब्राह्मणांँश्चैव घृतक्षीरगुडोदनैः ॥
पायसैर्मधुसंयुक्तैः क्षीरशान्तिं च कारयेत् ।
तत्रैव ।
प्रतिस्रोतो वहानद्यः कूलान्यपहरन्ति च ।
तथा उन्मार्गगामिन्यः शुष्यन्ति च जलाशयाः ॥
प्रद्रवन्ति सफेनाश्च वधाय नृपतेर्मताः ।
उद्गिरन्ति जलं कूपाः पुष्करिण्यो ह्नदास्तथा ॥
यदि वाऽप्यथ वा धूमस्तेभ्यः संदृश्यते यदि ।
गर्जत्यम्बुदनिर्घोषो राज्ञो निधनमादिशेत् ॥
दुर्भिक्षं मरकं चैव ग्रामस्योत्सादनं भवेत् ।
एकादशी ततः शान्तिः कर्त्तव्या दिव्यचोदिता च ॥
आत्रेये ।
उद्गिरत्युदक्तं यत्र कर्करीकलशादिकम् ।
वरुणं पूजयेत् तत्र वारुणीं शान्तिमाचरेत् ॥
महाव्याहृतिभिर्होम आपुष्पैरपराजितैः ।
चन्द्रस्वस्तिकमन्त्रेण चाज्यं हुत्वा विशेषतः ॥
संपातानानयेत् पात्रे तैलपूर्ण ततो जलम् ।
हुत्वा शान्त्युदकं तत्र तेनाभ्युक्षेच्च सर्वतः ॥
तिलधेनुर्दक्षिणाऽत्र होत्रे देया यथाविधि ।
उददानं त देवाय स्वस्थाने विनिवेशयेत् ॥
ध्रुवोऽसीत्यादिमन्त्रेण पूरयेदुदकेन तत् ।
हिरण्यवर्णा इत्यादि सूक्रेन द्विजपुङ्गव ॥
यैजवाय:[३१५] ।
कूपप्रपतने सौम्यां शान्तिं कुर्याद्यथाविधि ।
सोमं संपूजयेत् सम्यग्वरुणं च जलाधिपम् ॥
अथर्वमुनिः ।
कृपस्योद्गिरणेऽकस्माद्गर्जने शोषणे तथा ।
धूमायति ज्वलयति कुम्भे च स्वयमुत्थिते ॥
शुक्राद्भुतं विजानीयात् तद्वारे तं प्रपूजयेत् ।
दधिमध्वाज्यसहिता येनाचरदिति स्फुटम् ॥
उदुम्बरस्य समिधो जुहुयाद्घृतमेव च ।
वस्त्रं सुवर्णधेनुं च दद्याद्विप्राय दक्षिणाम्-इति ॥
फलपाकसमयो मयूरचित्रे ।
मासत्रयस्य च मध्ये जनक्षयः इति ।
वराहसंहितायाम् ।
“शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धम् ।
लोष्टस्य चाम्बुतरणं त्रिभिरेव विपच्यते मासैः”[३१६] ॥
पराशरस्तु ।
मासात् फलति नादेयम्............।
तथा ।
अनुक्तेष्वपि चान्येषु परं संवत्सरात् फलम् ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वलालसेनदेवविरचितेऽद्भुतसागरे जलाशयाद्भुतावर्त्तः ।
अथाग्न्यद्भुतावर्त्तः ।
तत्र पराशरः ।
अनग्निज्वननमग्नेरज्वालनमवनिपतिविनाशाय- इति ।
अग्नेरज्वलनमिन्धनवतोऽप्यग्नेरज्वलनमित्यर्थः ।
वराहसंहितायां तु ।
राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् ।
मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया ॥
तस्य पीडा विनाशरूपा प्रदीप्यत इति प्रशब्देन सातिशयं ज्वलनमाह ।
अतोऽग्निज्वलने पुसां व्याधिराश्वेव जायते ।
इति बृहद्यात्रावचनमीषज्ज्वलनपरम् ।
औशनसे तु ।
अनग्निर्ज्वलते यत्र देशे तूर्णमनिन्धनः ।
यो राजा तस्य देशस्य सदेशः स विनश्यति ॥
वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु च ।
अनग्निदीप्यते यत्र राष्ट्रे भृशमनिन्धनः ।
न दीप्यते वेन्धेनवान् सराष्ट्र: पीडयते नृपः ॥
यत्र राष्ट्रेऽनग्निर्दीप्यतेऽनग्निर्वा निरन्धनो दीप्यते । इन्धनवान् वा न
फलमिति । यदा त्वनिन्धनज्वलनमल्पं भवति तदा राष्ट्रपीडामात्रं फलम् ।
तथा च बार्हस्पत्ये ।
अग्निस्तु दीप्यते राष्ट्रे यत्राकस्माद्विनेन्धनम् ।
न दीप्यते चेन्धनवान् सराष्ट्रः पीडयते नृपः ॥
प्रज्वलतेदम्बु मांसं वा तथाऽऽर्द्रं वाऽपि किं चन ।
अग्निं विना च शुष्काणि नियतं नृपतेर्बधः ॥
विनाऽग्निना यदा दह्येदिति शुष्ककाष्ठादिकमित्यन्वयः ।
वराहसंहितयाम् ।
जलमांसार्द्रज्वलने नृपतिवधः ......।
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
प्रासादतोरणद्वारनृपवेश्मसुरालयम् ।
एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥
विद्युता वाऽपि दह्यन्ते तत्रापि नृपतेर्भयम् ।
वराहसंहितायाम् ।
प्रासादभवनतोरणकत्वादिषु चानलेन दग्धेषु ।
तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥
बार्हस्पत्ये तु ।
प्रासादतोरणद्वारं प्राकारं काश्यपं गृहम् ।
शयनासनपानं च ध्वजं छत्रं सचामरम् ॥
यद्यनग्निः प्रदहते वैद्युतो वाऽपि निर्दहेत् ।
सप्ताहाभ्यन्तरे तत्र नृपतेर्नियतं वधः ॥
नृपसम्बन्धिप्रासादादिपरमेतत् ।
वराहसंहितायाम् ।
नगरचतुष्पादण्डजमनुजानां भयकरं ज्वलनमाहुः ।
वृद्धगर्गस्तु ।
पुरवाहनयानानां ज्वलनं च मुहुर्मुहुः ।
दृश्यते यत्र सप्ताहात् तत्राप्याशु भयं भवेत् ॥
बार्हस्पत्ये तु ।
पुरवाहनयानेषु ज्वलन्नग्निर्मुहुर्मुहुः ।
दृश्यतेऽतीव सहसा तथाऽप्यग्निभयं भवेत् ॥
वृद्धगर्गः ।
प्रदीप्यते च सहसा चतुष्पात् पक्षिमानुषः ।
वृक्षा वा पर्वता वाऽपि परचक्रभयं भवेत् ॥
पराशरश्च ।
चतुष्पदपक्षिमनुष्याणामङ्गेषु धूमादिदर्शनं परचक्रागमनाय ।
औशनसे तु ।
पुमानश्वो गजो वाऽपि यदाऽकस्मात् प्रदीप्यते ।
दशमासात् परं तत्र जानीयाद्राष्ट्रसंभ्रमम् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
पुरवाहनयानेषु मनुष्यमृगपक्षिषु ।
विनाऽग्निं विस्फुलिङ्गदृश्यते यत्र कुत्र चित् ॥
तत्र संग्राममादिशेदिति सम्बन्धः ।
पराशरः ।
प्रासादचैत्यधूमप्रादुर्भावो महते भयाय ।
वृद्धगर्गस्तु ।
प्रासादादिषु चैत्येषु यदि धूमो विनाऽग्निना ।
भवन्ति वा विना धूमैरग्नयो वा भयाय ते ॥
तत्रैव ।
छत्रे गृहे वाऽथ रथे ध्वजे वा धूमः समुत्तिष्ठति यस्य तूर्णम् ।
स पार्थिवः साश्वमनुष्यकोषः पराभवं याति जनक्षयश्च ॥
वराहसंहितायाम् ।
सैन्यग्रामपुरेषु तु नाशो वह्नेर्भयं कुरुते ।
वृद्धगर्गः ।
शयनासनयानेषु केशप्रावरणेषु च ।
दृश्यतेऽग्निस्फुलिङ्गो वा धूमो वा मरणाय तत् ॥
यस्य शयनासनादौ तस्य मरणाय ।
वराहसंहितायाम् ।
धूमाग्निविस्फुलिङ्गैः शस्याम्बरमूर्धजैर्मृत्युः ।
समिद्भिः क्षीरवृक्षाणां शर्षपेण ससर्पिषा ।
होतव्योऽग्निः स्वकैर्मन्त्रैः सुवर्णं चात्र दक्षिणा ॥
वराहसंहितायाम् ।
मन्त्रैराग्नेयैः क्षीरवृक्षात् समिद्भिर्होतव्योऽग्निः सर्पिषावाऽपि यत्नात्।
अग्न्यादीनां वैकृते शान्तिरेवं देयं चास्मिन् काञ्चनं ब्राह्मणेभ्यः ॥
बार्हस्पत्ये तु।
समिद्भिः क्षीरवृक्षोत्थैः शर्षपैश्च घृतेन च ।
होतव्योऽग्निः स्वकैर्मन्त्रैः सुवर्णं चात्र दक्षिणा ।
वराहसंहितायां च ।
अग्निर्भूम्यामिति तिस्र आग्नेयीस्तत्र कारयेत् ।
गुरवे पार्थिवो दद्यात् प्रियाण्याभरणानि च ॥
पायसं सर्पिषा मिश्रं ब्राह्मणानपि भोजयेत् ।
तेषामपि यथान्यायं दक्षिणां दापयेत् ततः ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः ।
समिद्भिः क्षीरवृक्षाणां शर्षपैश्च घृतेन च ॥
अग्निलिङ्गैश्च जुहुयाद्बहु श्वेताम्बरः शुचिः ।
दद्यात् सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा नवीनम् ।
एवं कृते पापमुपैति नाशं यदग्निवैकृत्यभवं नरेन्द्र ॥
वैजवायः ।
अनग्नावग्निज्वलने अनग्नौ धूमसम्भवे ।
आममांसस्य ज्वलने दाहे च नववाससः ॥
अग्न्यपत्यभये चैत्र हेम्नो वृद्धिविनाशयोः ।
एष्वद्भुतेषु विधिवदाग्नेयीं शान्तिमाचरेत् ॥
अनग्नावग्निज्वलने द्वितीयां दिव्यचोदिताम् ।
आग्नेयीं यदि वा शान्तिं तत्र कुर्यात् समाहितः ॥
वैश्वानराय स्वाहेति मन्त्रेण घृतसंयुताः ।
वैकङ्कतस्य समिधो जुहुयाच्छमितव्रतः ॥
हुत्वा सप्तसहस्राणि चरुं कुर्यात् तथाऽऽशनम् ।
तर्पयेद्ब्राह्मणाश्चैव दधिक्षीरगुडोदनैः ॥
पायसैर्मधुसंयुक्तैः क्षीरशान्तिं च कारयेत् ।
ताम्रपात्रं तिलैः पूर्णं गृहं धेनुसमन्वितम् ॥
अनड्वाहं सुवर्णं च दद्यादन्ते हुतस्य च ।
अनग्नौ धूमसम्पत्तौ स्वामीपत्नीवधः स्मृतः ॥
शान्तिरेषैव कर्त्तव्या सर्वोपद्रवनाशिनी ।
अथ वा वक्ष्यते चैव हिरण्यस्यापहारतः ॥
आग्नेयी तत्र कर्त्तव्या शान्तिरत्र विपश्चिता ।
तत्रैव ।
अङ्गारः पतितो दृष्टो ज्वलन् वृक्षे गृहेऽथ वा ।
प्रभोद्रष्टुश्च नाशाय होमो व्याहृतिभिस्तथा ॥
आम्रस्यौदुम्बरीणां च गौर्देया विप्रभोजनम् ।
तत्रैव ।
धान्यकोष्ठे यदा धूमस्तदा संजायते भयम् ।
दधिमधुघृताक्तानामुपोष्य समिधं ततः ॥
जुहुयादयुतं संख्या होमे दद्याद्द्विजाय च ।
नारदः ।
गृहदाहो भवेद्यत्र अङ्गदाहस्तथैव च ।
केशाश्चापि च दह्यन्ते पटो वा दह्यते यदि ॥
स्नानं तत्र प्रकुर्वीत शान्तिं चेमां समाचरेत् ।
तिलधान्ययवानां च घृतेन मधुना सह ॥
आहुतीनां सहस्रं तु जुहुयाच्च समाहितः ॥
इषे त्वोर्जेति मन्त्रेण धनुं दद्यात् च दक्षिणाम् ॥
क्षौरं तत्र च कर्त्तव्यं ततः शान्तिर्भविष्यति ।
मासमेकं द्विजश्रेष्ठ क्षपयेद्ब्रह्मचर्यया ॥
यात्रोद्वाहं न कुर्वीत मासमेकं न संशयः ।
अन्यथा पुत्रदाराणां मरणं च भविष्यति ॥
षड्भिर्मासैश्च संपूर्णैः स्वयमेव विनश्यति ।
तस्माद्यत्नेन कर्त्तव्यमिति दोषस्य दर्शनात् ॥
अपहारे हिरण्यस्य प्रदाहे भवनस्य च ।
शिलामण्डपदाहे च दाहे देवफलस्य च ॥
देहदाहेऽथ देवानां नृत्ये हसितकम्पयोः ।
गाने धूमायने स्वेदे क्रीडने ज्वलने तथा ॥
रक्तधारास्त्रुतौ चैव दाहे च नववाससः ।
कुटुम्बस्य क्षये विद्वान् शुभकर्मसमारभे ॥
आग्नेयीं कारयेच्छान्तिं विशेषः श्रूयतामिह ।
आग्नेयचरुहोमान्ते चरोरेवाहुतिद्वयम् ॥
अग्निर्मूर्धेति मूर्धानमिति मन्त्रद्वयेन च ।
तस्योपरिष्टादाज्यस्य सावित्र्या चाहुतिद्वयम् ॥
कनकं रजतं ताम्रं दद्याद्धोत्रे च दक्षिणाम् ।
अथ होमाद्भुतानि विष्णुधर्मोत्तरे ।
प्रदक्षिणावर्त्तशिखस्तप्तजाम्बनदप्रभः ।
रथौघमेघनिर्घोषो विधूमश्च हुतोशनः ॥
अनुलोमः सुगन्धश्च स्वस्तिकाकारसन्निभः ।
वर्धमानाकृतिश्चैव नन्द्यावर्त्तनिभस्तथा ॥
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ।
स्वाहावसाने ज्वलनः स्वयं देवमुखं हविः ॥
यदा भुङ्क्ते महाराज तदा राज्ञो हितं वदेत् ।
हविषस्तु यदा वह्नेर्न स्यात् सिमसिमायितम् ॥
न व्रजेयुश्च मध्येन मार्जारमृगपक्षिणः ।
पिपीलिकाश्च कर्मज्ञ तदा ब्रूयाज्जयं नृपे ॥
मुक्ताहारगुणाभे च वह्नौ राज्ञां जयं वदेत् ।
तथैव च जयं ब्रूयात् प्रस्तरस्याप्रदायिनि ॥
योगयात्रायां वराहः ॥
हारकुन्दकुमुन्देन्दुसन्निभः संहतोऽङ्गमुखतो महोदयः ।
अङ्कुशातपनिवारणाकृतिर्हूयतेऽल्प उपामानहव्यभुक् ॥
“स्वाहावसानसमये स्वयमुज्ज्वलार्चिः
स्निग्धप्रदक्षिणशिखो हुतभुङ्नृपस्य ।
गङ्गादिवाकरसुताचलचारुहारां
धात्रीं समुद्ररसनां वशगां करोति ॥
चामीकराशोककुरण्टकाब्जवैदूर्यनीलोत्पलसन्निभेऽग्नौ ।
न ध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य ॥
येषां रथौघार्णवमेघदन्तिनां समस्वनोऽग्निर्यदि वाऽपि दुन्दुभेः ।
तेषां मदान्तेभघटाभिघट्टिता भवन्ति याने तिमिरोपमा दिशः ॥
ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति भूभृताम् ।
उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा ॥
द्विरदमदमहीसरोजलाजैर्घृतमधुना च हुताशने सगन्धे ।
"प्रणतरिपुशिरोमणिप्रभाभिर्भवति पुरः स्फुरितेव भूर्नृपस्य"[३१७] ॥
बृहद्यात्रायाम् ।
“इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृति-
र्भैर्यर्ब्दोदधिदुन्दुभीतशकटस्निग्धस्वनैः पूजितः ।
नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धो यथाऽभीष्टदः
सव्याङ्गे नृपतिं दहन्नतिहितः शेषं च लोकाद्वदेत्"[३१८] ॥
योगयात्रायाम् ।
कृतेऽपि यत्नेऽतिकृशः कृशानुर्यातव्यकाष्ठाविमुखो नतार्चिः ।
वामीकृतावर्त्तशिखोऽतिधूमो विच्छिन्नसोत्कम्पविलीनमूर्त्तिः ॥
सिमसिमायति चास्य हविर्हुतं सुरधनुःसदृशः कपिशोऽथ वा ।
रुधिरपीकवभ्रुहरिच्छविः परुषमूर्तिरनिष्टकरोऽनलः ॥
खरकरभवानरानुरूपो निगडविभीषणशस्त्ररूपभृद्वा ।
शवरुधिरवसास्थिवस्त्रगन्धो हुतभुगनिष्टफलः स्फुलिङ्गकृच्च ॥
वर्णविपाटनतुल्यनिनादो जर्जरशब्दविरूक्षरवो वा [३१९]।
आकुलयँश्च पुरोहितमर्त्त्यान् धूमलवैर्न शिवाय हुताशः ॥
अग्न्याश्रितं यत् फलमुक्तमस्मिँस्तज्जातकर्मादिषु पौष्टिकेषु ।
यज्ञेषु सर्वेषु च वह्निकार्येष्वेवं वदेद्यस्य यथानुरूपम् ॥
अत्रानुक्तविशेषशान्तिष्वग्न्युत्पातेष्वाग्नेयी शान्तिनिवृत्तिर्वेति ।
गार्गीये ।
अनग्निज्वलने विन्द्यात् सद्यः फलम्......-इति ।
पराशरः ।
अग्निजा: सप्तरात्रेण -इति ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽग्न्यद्भुतावर्त्तः ।
अथ दीपाद्भुतावर्त्तः ।
वराहसंहितायाम् ।
दीपः संहतमूर्त्तिरायततनुनिर्वेपथुर्दीप्तिमान्
निःशब्दो रुचिरः प्रदक्षिणगतिर्वैदूर्यहेमद्युतिः ।
लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं यश्चोद्यतं दीप्यते
शेषं लक्षणमग्निलक्षणसमं योज्यं यथाशक्तितः ॥
वामावर्तो मलिनकिरणः सस्फुलिङ्गोल्पमूर्त्तिः
क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्त्यन्वितोऽपि ।
दीपः पापं कथयति फलं शब्दवान् वेपथुश्च
व्याकीर्णार्चिर्विशलभमरुद्यश्च नाशं प्रयाति ॥
अत्रानुक्तविशेषशान्तिषु दीपोत्पातेष्वग्न्यद्भुतावर्त्तलिखिताऽऽग्नेयी शान्तिः कर्त्तयव्या ।
सप्ताहेनास्य फलपाक इति ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेदीपाद्भुतावर्त्तः।
अथ देवप्रतिमाद्भुतावर्त्तः
तत्र पराशरः ।
अथ देवाताभिज्वलनरोदनहसनापक्रमणवेपनपतनोद्वीक्षण-
औशनसे ।
दैवतानि प्रसर्पन्ति यस्य राज्ञो हसन्ति च ।
उद्वीक्षन्ते प्रधावन्ति तत्र विन्द्यान्महद्भयम् ॥
वराहसंहितायां तु ।
अनिमित्तचलनभङ्गस्वेदास्रुनिपातजल्पनाद्यानि ।
लिङ्गार्चायतनानां नाशाय नरेन्द्रदेशानाम् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
देवातार्चा: प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।
आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च ॥
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति नमन्ति च ।
कूजन्ते विक्षिपन्ते वा शस्त्रप्रहरणध्वजान् ॥
अवाङ्मुखाश्च तिष्ठन्ति स्थानात् स्थानं व्रजन्ति वा ।
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो वसाम् ॥
एवमाद्याः प्रदृश्यन्ते विकाराः सहसोत्थिताः ।
लिङ्गायतनचैत्येषु तत्र वासं न कारयेत् ॥
राज्ञो वा व्यसनं तत्र स वा देशो विनश्यति ।
हरिवंशे कंसवधनिमित्तम् ।
“चलिता देवताः स्थानात्........"[३२०]।
तत्रैव हिरण्यकशिपुवधनिमित्तम् ।
“उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
विक्रोशन्ति च गम्भीरं धूमायन्ति ज्वलन्ति च ॥
प्रतिमाः सर्वदेवानां कथयन्त्यो युगक्षयम्"[३२१] ।
अग्निपुराणे हिरण्यकशिपुवधनिमित्तम् ।
प्रतिमाः सर्वदेवानां हसन्ति च रुदन्ति च ।
उन्मीलन्ति निमीलन्ति धूमायन्ति ज्वलन्ति ॥
विक्रोशन्ति च गम्भीरं कथयन्त्यो युगक्षयम् ।
मत्स्यपुराणपद्मपुराणयोश्च हिरण्यकशिपुवधनिमित्तम् ।
“उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
विक्रोशन्ति स गम्भीरं धूमायन्ति ज्वलन्ति च ॥
प्रतिमाः सर्वदेवानां कथयन्ति महद्भयम्”[३२२]।
भागवते श्रीकृष्णोत्क्रान्तिनिमित्तम् ।
“दैवतानि रुदन्तीह स्विद्यन्तेऽद्य स्फुटन्ति च”[३२३] ।
बार्हस्पत्यवृद्धगर्गसंहितयोः ।
देवतार्चा: प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति वा ।
उद्विजन्ते हसन्ते वा प्रस्विद्यन्ति रुदन्ति वा ॥
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पतन्ति वा ।
भज्यन्ते विक्षिपन्ते वा शस्त्रप्रहरणध्वजान् ॥
अवाङ्मुखा भवन्त्येव स्थानात् स्थानं व्रजन्ति वा ।
वमन्त्यग्निं जलं धूमं स्नेहं रक्तं पयो वसाम् ॥
जल्पन्ते निःश्वसन्ते वा विचेष्टन्ते नमन्ति वा ।
विश्रमाद्वीक्ष्यतेऽन्यत्र गात्रैर्वाऽपि विचेष्टते ॥
यत्रैते संप्रदृश्यन्ते विकाराः सहसोत्थिताः ।
लिङ्गायतनचैत्येषु तत्र वासं न रोपयेत् ॥
राज्ञो वा व्यसनं तत्र स वा देशः प्रलीयते ।
क्षुच्छस्रमरणैर्वाऽपि किञ्चित् तन्नावशिष्यते ॥
तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"देवताः प्रतिमाश्चैव प्रकम्पन्ते हसन्ति च ।
वमन्ति रुधिरं चास्यैः स्विद्यन्ते प्रपतन्ति वा"[३२४]॥
औशनसे ।
विहसन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
विक्रोशन्ति च गम्भीरं धूमायन्ते ज्वलन्ति च ॥
प्रतिमाः सर्वदेवानां कथयन्त्यो महद्भयम् ।
भागवते श्रीकृष्णोत्क्रान्तिनिमित्तानि वैकृतानि ।
"मांसशोणितगन्धीनि यत्र तत्र महद्भयम् ।
यत्र चित्रमुदीक्षेत गायते चेष्टते मुहुः ॥
तत्र द्वादशमासेषु राज्ञो मरणमादिशेत्"[३२५]
मत्स्यपुराणे त्रिपुरदाहनिमित्तम् ।
"अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तथा ।
निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मगाः" [३२६] ॥
औशनसे तु ।
चित्राणि यत्र लिङ्गानि तथैवायतनानि च ।
विकारं चक्रुरत्यर्थं तत्र विन्द्यान्महद्भयम् ॥
वृद्धगर्गसंहिताबार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरेषु ।
पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत् ।
पराशरश्च ।
तत्र पितामहर्षिधर्मान् ब्राह्मणानाम् ।
वराहसंहितायाम् ।
ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् ।
ओशनसे तु ।
पितामहे तु यच्च स्यात् सोमे धर्मे ऋषिष्वपि ।
निमित्तमशुभं तच्च ब्राह्मणानां भयावहम् ॥
गुरुभृगुशनैश्चराणां कृतः कम्पः पुरोधसाम् ।
वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।
गुरुशुक्राग्निजानि स्युर्यानि तानि पुरोहिते ।
औशनसे तु ।
बृहस्पतौ वा शुक्रे वा पावके पाकशासने ।
यद्रूपं दृश्यते तत् तु विप्रे भाण्डारिके जने ॥
पराशरः ।
शक्रधनदयमवरुणरविशशाङ्कानां प्रवरनृपतीनाम् ।
वराहसंहितायाम् ।
वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे ।
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
मन्त्री सेनापतिश्चैव गन्धर्वाः सविनायकाः ।
पराशरः ।
यक्षगन्धर्वविनायकानां भयकृत् सचिवानां सेनापतीनाम् ।
औशनसे तु ।
गन्धर्वेषु निमित्तं यत् तदन्यस्मिन् प्रदृश्यते ।
सेनापतीनां भयकृत् सचिवानां भयाय च ॥
मणिभद्रादयो यक्षा गन्धर्वाश्चित्रयोनयः ।
तदुद्भवमपत्यानां प्रधानानां विभावयेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।
विनायकोद्भवं ज्ञेयं गणानां ये तु नायकाः ।
तत्रैव ।
ज्ञेयं सेनापतीनां च यत् स्यात् स्कन्दविशाखयोः ।
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
ज्ञेयं माण्डलिकानां तु यत् स्यात् स्कन्दविशाखयोः ।
स्कन्दविशाखयोर्माण्डलिकानां नरेन्द्राणां च ।
वराहसंहितायां च ।
स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ।
यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥
वृद्धगर्गसंहितामत्स्यपुराणबार्हस्पत्यविष्णुधर्मोत्तरेषु ।
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् ।
पराशरस्तु ।
रुद्रोपेन्द्रपवनविश्वकर्मणां प्रजानाम् ।
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
लोकानां विष्णुवाय्वोर्हि विश्वकर्मणि वाहने ।
वराहसंहितायाम् ।
धातरि च विश्वकर्मणि लोकाभावाय निर्दिष्टम् ।
औशनेसे तु ।
वाते प्रजापतौ चैव विश्वकर्मणि चैव हि ।
प्रवर्त्तन्ते यन्निमित्तं तज्ज्ञानोपादिकं भवेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।
लोकानां विष्णुवाय्विन्द्रविश्वकर्मसमुद्भवम् ।
पराशरः ।
भवशक्रधनदपत्नीनां नृपमहिषीणाम् ।
औशनसे तु ।
इन्द्राणी वरुणानी च भद्रकाली महीधरा।
वीरमाता च यत् कुर्यात् तद्राजमहिषीभयम् ॥
एवं तासां यथान्यायं याश्चान्या देवतास्त्रियः ।
कुर्युर्निमित्तं तत् स्त्रीणां प्रधानानां तु निर्दिशेत् ॥
पराशरः ।
देवप्रैष्ये नृपप्रैष्यो देवस्त्रीषु नृपस्त्रियः ।
वास्तुदेवेषु विज्ञेयं गृहिणामेव नान्यथा ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
देवप्रैष्ये नृपप्रैष्यो देवस्त्रीषु नृपस्त्रियः ।
वास्तोष्पत्यपुरे ज्ञेयं यच्च प्रासादकाश्यपे ॥
कुमारेषु कुमारीणां कुमारेष्वेवमेव तु ।
यक्षराक्षसनागेषु यथोक्तं सर्वकर्म च ॥
वराहसंहितायाम् ।
देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् ।
तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ॥
रक्षः पिशाचगुह्यकनागानामेवमेव निर्देश्यम् ।
ओशनसे ।
कुमाराणां कुमारीषु कुमारेषु कुमारकम् ।
तथा प्रैष्येषु सर्वेषु कल्पयेच्छास्त्रतः फलम् ॥
रक्षःपन्नगयक्षेषु लिङ्गस्थापनकेषु च ।
वीरमाता च यत् कुर्यात् तद्राजमहिषीभयम् ॥
गार्गीये ।
यत्र पूजां त्यजन्त्यर्वागकस्मादेषु कर्हि चित् ।
स्वामिनो मरणं तत्र तदभावे च भूपतेः ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
प्रासादं पौण्डरीकं वा विशीर्येत पतेत वा ।
वातवज्राहतं वाऽपि पुरमुख्यभयं भवेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
देवयात्रासु चोत्पातान् दृष्ट्वा देशभयं वदेत् |
बार्हस्पत्यवृद्धगर्गयोस्तु ।
देवतायतने वाऽपि प्रयातासु महोत्सवे ।
योगक्षेमाय लिङ्गाभ्यासीदनं चक्रवैकृते ॥
देवतायतने चापि यात्रायां वा महोत्सवे ।
अनोऽक्षचक्रकेतूतां युगस्य च विदारणम् ॥
भङ्गे पाते सादने वा समपर्यासनेऽपि वा ।
तस्य देशस्य राज्ञश्च विन्द्यादशुभमागतम् ॥
वराहसंहितायां च ।
दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि ।
समपर्यासनसादनभङ्गाश्च न देशनृपशुभदाः ॥
इदं च देवताद्भुतम् । यदीया देवतार्चा तदद्भुतफलं च नयति । असति तु सम्बन्धविशेषे नृपगतं तत्परिकरगतं तद्देशगतं च ।
तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
देवतायतनस्थाश्च कुरुराजस्य देवताः ।
"कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च "[३२७] ॥
वैजवायः ।
देवतार्चाविकारेषु प्रतिमार्चनपूर्विकाम् ।
कारयेद्वैष्णवीं शान्तिं देवराजशुभप्रदाम् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
देवताया विकारेषु श्रुतिं वेत्ति पुरोहितः ।
देवतानां तु गत्वाऽपि स्नानमाच्छाद्य भूषयेत् ॥
पूजयेच्च महाभाग गन्धमाल्यानुलेपनैः ।
मधुपर्केण विधिवदुत्तिष्ठेत् तदनन्तरम् ॥
तल्लिङ्गेन च मन्त्रेण स्थालीपाकं यथाविधि ।
पुरोधा जुहुयाद्वह्नौ सप्तरात्रमतन्द्रितः ॥
विप्राश्च पूज्या मधुनाऽन्नपानैः सदक्षिणं सप्तदिनं नरन्द्र ।
प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाञ्चनैः शान्तिमुपैति पापम् ॥
वराहसंहितायां च ।
बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः ।
स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाः ॥
मधुपर्केण पुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत् ।
स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः ॥
इति विबुधविकारे शान्तयः सप्तरात्रं
द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च ।
विधिवदवनिपालैर्यैः प्रयुक्ता न तेषां
भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥
बार्हस्पत्यवृद्धगर्गयोः ।
देवतार्चाविकारेषु शुचिर्विद्वान् पुरोहितः ।
त्रिरात्रोपोषितो भूत्वा नवशुक्लावरः शुचिः ॥
देवतां स्नाप्य चाच्छाद्य गन्धमाल्यैर्विभूषयेत् ।
मधुपर्केण विधिवदुपतिष्ठेत् समन्ततः ॥
धूपदीपैः सनैवेद्यैस्तिललाजाक्षतैस्तथा ।
भक्ष्यैर्भोज्यैश्च पेयैश्च मन्त्रवद्वलिभिस्तथा ॥
गोदानं भूमिदानं च गीतनृत्योत्सवक्रिया ।
रौद्री चात्रैव होतव्या सर्वाद्भुतविनाशिनी ॥
नृपश्च गुरवे दद्यादिष्टां भूमिं सदक्षिणाम् ।
आथर्वणाद्भुते ।
अथ यत्र देवता बहुविधा हासादिवेषाः कुर्युस्तत्रान्यराजागमनोदकवज्ररोगानावृष्टिशस्त्रकृन्मारजनपदाभ्युत्थानानि राजविनाशश्चेति । तत्र चतुष्पथे रुद्रं संपूज्योपक्रमेत् । 'ईशानं प्रपद्ये । भूः प्रपद्ये । स्वः प्रपद्ये । महः प्रपद्ये । जनः प्रपद्ये
वेदिदेशं प्रपद्ये' इति । अतो गवामष्टशतस्य क्षीरेण पायसं श्रपयित्वा
रौद्रेशान्तां सर्पिः पायसं च जुहुयादुपतिष्ठेत् संस्नाप्य शुक्लाः सुमनसो निवेद्य 'भव सर्वासां देवतानाम्' इति पुनरुपस्थापयेत् । तत्र गच्छेत् ततस्तस्यां सर्वाः शान्त्युदकेन स्नापयित्वा संपातकृते 'नमस्ते
गन्धः'-इति तिसृभिरनुलिप्य 'नतं पक्ष्म ऐन्द्रदेवाः'-इति गुग्गुलुकुष्टधूपं दद्यात् । एवं स्वपुरदारामात्याय राज्ञे जनपदेभ्यो मन्त्रवर्जं ब्राह्मणान् भोजयित्वा एभ्य एव गाः प्रदद्यात् ।
मयूरचित्रे तु ।
प्रतिमा शिवलिङ्गं च स्विद्यते यदि वाऽपि हि ।
दुर्भिक्षं शस्त्रसंपातो मरकं च तदा भवेत् ॥
दधिमधुघृताक्तानां समिधामयुतं पुनः ।
औदुम्बरीणां जुहुयादेकरात्रोषितः शुचिः ॥
वृषं दद्यादियं चापि शान्तिः कार्या विपश्चिता ।
वाप्यादीनां पयोवृद्धौ चूडाशाखाप्रभेदने ॥
यद्वा लिङ्गस्य संस्वेदे विश्वतश्चक्षुरित्यथ ।
अर्कहोमो विधातव्यः शान्तिरन्याऽथ वोच्यते ॥
अहानि स्नापयेत् सप्त दध्ना क्षीरेण सर्पिषा ।
कारयेद्भूमिदोहं च नटप्रेक्षणकं तथा ॥
होतव्यं लक्षमेकं तु समिधं श्रीफलानि च ।
इमा रुद्रेति मन्त्रेण द्विजा भोज्याः सदक्षिणाः ॥
तत्रैव ।
कम्पे हास्ये तथा नृत्ये रुदिते गीत एव च ।
निमेषोन्मेषणे याने देवमातृगणस्य च ॥
जल्पने क्रीडने चैव राजामात्यवधो भवेत् ।
धनक्षयश्च पौराणां देशोपद्रव एव च ॥
पुंस्त्रीनाम्नां नराणां च स्त्रीणामपि वधो भवेत् ।
अत्र चाभ्यर्चयेद्देवान् गन्धमाल्यानुलेपनैः ॥
शङ्खदुन्दुभिनादैश्च श्रीमद्भिर्गीतवादितैः ।
औदुम्बरीणां समिधां प्रयतो जुहुयाच्छतम् ॥
त्रिरात्रोपोषितो भूत्वा ऐन्द्रैर्मन्त्रैः समाहितः ।
उपहारश्च कर्त्तव्यो नृत्यगीतोपवादितैः ॥
गावश्च कपिला देया हुतान्ते भूरिदक्षिणाः ।
ततः शाम्यति तत्पापं शतक्रतुमतं यथा ॥
तत्रैव ।
परित्यजन्ति पुष्पाणि पूजिता देवता यदि ।
स्थानत्यागो भवेत् तत्र रोगपीडाभवेन्नृणाम् ॥
कारयेत् तत्र शान्तिं च होमं चैव सदक्षिणम् ।
नारदः ।
यतो देवकुले वजं पतेद्गृध्रोऽथ वा पुनः ।
कङ्को वा पतते विप्र चूडायामग्निदर्शनम् ॥
ईशानं भिद्यते यत्र वज्रेणैवाहतं क्व चित् ।
लिङ्गं वा स्विद्यते यत्र कम्पते वाऽनिमित्ततः ॥
चूडाभङ्गो भवेद्यत्र प्रतिमा विद्यते यदा ।
ग्रामोत्सादो भवेत् तत्र स्वामिनो मरणं दिशेत् ॥
राज्ञो वा मरणं राष्ट्रे धनं धान्यं च नश्यति ।
तत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ॥
रत्निमात्रमतः खात्वा अधस्ताद्द्वादशाङ्गुलम् ।
कुण्ड खात्वा विधानेन ततो होमं समारभेत् ॥
शुचिश्व प्रयतो भूत्वा अग्निः स्थाप्यो विधानतः ।
चरुं च पशुदैवत्यं साधयित्वा विधानतः ॥
परिधायाहतं वासः शोभनं द्विजसत्तम ।
ससुवर्णेन हस्तेन ततः कर्म समाचरेत् ॥
अष्टौत्तरशतं हुत्वा घृताक्तां समिधं ततः ।
माषैर्मुद्गैस्तिलैश्चैव तण्डुलैश्च सितैस्तथा ॥
घृतेन मधुना चैव नैवेद्यानि तु कारयेत् ।
संपूर्णानां शरावाणां कुण्डे कुर्यान्निवेदनम् ॥
तिलधान्यैर्यवैश्चैव घृतेन मधुना सह ।
एतैः पञ्च सहस्राणि शक्तिबीजेन[३२८] होमयेत् ॥
होमान्ते तर्पयेद्विप्रान् दक्षिणाभोजनादिना ।
भूमिं धेनुमनड्वाहं स्वर्णं धान्यं च दक्षिणाम् ॥
पञ्चगव्यं ततः कृत्वा स्नायादेवालये द्विजः ।
कलशेन पुनः स्नायाद्देवं संपूज्य यत्नतः ॥
बलिं दत्वा विधानज्ञः कृशरैः पायसैस्तथा ।
पुनर्द्विजातिजातं च अन्यद्वाऽत्यद्भुतं द्विजम् ॥
न भवेदशुभं किञ्चित् सर्वदेवाभयं भवेत् ।
ईशानं स्थापयेत् तत्र यागं कृत्वा विधानतः ॥
एवं कृत्वा विधानं तु कृतकृत्यो भवेन्नरः ।
मण्डपस्य यदा भित्तिः खण्डो देवकुलस्य च ॥
अकस्मान्निपतेद्यत्र कम्पते वाऽनिमित्ततः ।
लिङ्गानि तत्र वक्ष्यामि तन्मे निगदतः शृणु ॥
राज्ञो भयं च दुर्भिक्षं वृष्टिहानिस्तथैव च ।
अग्निदाहश्च सम्पातो देशे च मरकं भवेत् ॥
दधिमधुघृताक्तानामश्वत्थसमिधस्ततः ।
जुहुयादष्टशतं प्राज्ञ इमा रुद्रेति मन्त्रतः ॥
धेनुं च दक्षिणां दद्यात् तिलपात्रं सकाञ्चनम् ।
अनेनैव कृतेनाशु ततः संपद्यते शुभम् ॥
फलपाकसमयमाह पराशरः ।
संवत्सरे पूर्णेऽर्चाविकारजम् -इति ।
वराहसंहितायां तु ।
अर्चानां जल्पितरुदितप्रकम्पितस्वेदो मासत्रयेण -इति
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे देवप्रतिमाद्भुतावर्त्तः ।
अथ शक्रध्वजाद्भुतावर्त्तः ।
तत्र शक्रध्वजयष्टिकरणार्थे वृक्षच्छेदवृक्षपातशब्दादिफलं वराहसंहितायाम् ।
छिन्द्यात् प्रभातसमये वृक्षमुदक् प्राङ्मुखोऽपि वा भूत्वा ।
परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥
नृपजयदमविध्वस्तं पतितमानाकुञ्चितं च पूर्वोदक् ।
अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत् पतितम् ॥
शकटस्थशक्रध्वजानयने चक्रारभङ्गस्तत्फलं च ।
अरभङ्गे बलभेदो नेम्यां नाशो बलस्य विज्ञेयः ।
अन्नक्षयोऽक्षभङ्गे तथाऽणिभङ्गे तु वर्धकिनः ॥
यष्टिं प्रवेशन्तीं निपातयन्तो भयाय नागाद्याः ।
बालानां तलशब्दे संग्रामाः सत्त्वयुद्धे वा ॥
गर्गः।
अविध्वस्तमनाधूतमद्रुताजिह्ममूर्ध्वगम् ।
इन्द्रध्वजसमुत्थानं क्षेमसौभिक्षकारकम् ॥
वराहसंहितायां तु ।
नातिद्रुतं न च विलम्वितमप्रकम्प-
मध्वस्तमाल्यपिटकादिविभूषणं च ।
उत्थानमिष्टमशुभं यदतोऽन्यथा स्यात्
तच्छान्तिभिर्नरपतेः शमयेत् पुरोधाः॥
शान्तिभिरैन्द्रीभिः ।
विष्णुधर्मोत्तरे।
इन्द्रध्वजशिरो भज्येत् पतेदिन्द्रध्वजो यदि ।
भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः ॥
यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च ।
मातृकायास्तथा भङ्गे परचक्रभयं भवेत् ॥
इन्द्रध्वजोपकरणं यत्किञ्चिद्द्विजसत्तम ।
विनाशे तस्य विज्ञेया पीडा नगरवासिनाम् ॥
बार्हस्पत्ये।
इन्द्रध्वजशिरो भिद्येत् पतेद्वा वासवः क्षितौ।
भिद्यते शक्रयष्टिर्वा नियतं नृपतेर्वधः ॥
इन्द्रकीलो दृढो भिद्येद्द्वारपक्षसमापितः ॥
स्थपत्यश्च कपाटानि स्तम्भा वा राजमृत्यवे ॥
औशनसे तु।
देवराजध्वजानां तु भङ्गपातप्रकम्पनम् ।
चतुष्पाद्भीतये तत्र राज्ञां पापकरं ध्रुवम् ॥
पापं मरणम् ।
आथर्वणाद्भुते तु।
शिरोभङ्गे तु राजानं मध्यभङ्गे तु मन्त्रिणः ।
अणिभङ्गे जनपदान् मूलभङ्गे तु नागरान् ॥
हन्तीति सम्बन्धः।
इन्द्रारको यदा भिद्येद्राजकोशो विनश्यति ।
रज्जुच्छेदे परीपाते नृपतिस्तु विनश्यति ॥
वराहसंहितायां तु ।
राज्ञो विनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः ।
मध्याग्रमूलेषु च केतुभङ्गो निहन्ति मन्त्रिक्षितिपालपौरान् ॥
नश्यन्त्यदक्प्रभृति च क्रमशो द्विजाद्या
भङ्गे तु बन्धकिवधः कथितः कुमार्याः ।
आथर्वणाद्भुते शक्रध्वजपतने दिक्फलम् ।
यदि प्राच्यामग्निभयम् । यदि दक्षिणस्यां यमभयम् । यदि प्रतीच्यां वरुणभयम्। याद्युदीच्यां क्षुद्भयम् । यद्यन्तर्देशेषूभयतो भयं विन्द्यात्।
वराहसंहितायाम् ।
इन्द्रभङ्गपतने नृपमृत्युः।
तथा।
रज्ज्वा भङ्गे छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः ।
यद्यत् कुर्युर्बालकाश्चारणा वा तत् तत् तादृग्भावि पापं शुभं वा॥
गर्गस्तु।
प्रहृष्टमनसः सर्वे क्रीडेयुर्मुदिता यदि।
तदा जलेन गन्धैश्च विन्द्यात् सौभिक्षलक्षणम् ॥
अमेध्यै रक्तकैः केशैर्भस्मना कर्दमेन तत् ।
दुर्भिक्षं क्रीडने विन्द्याच्छस्त्रैश्चापि भयं भवेत् ॥
निर्वातोल्कामहीकम्पा दीप्ताश्च मृगपक्षिणः ।
उच्छ्रीयमाणाः शीघ्राश्च वायवश्च तदा भयम् ॥
वराहसंहितायां तु ।
हन्ति चाऽप्यथ पुरोहितमुल्कापार्थिवस्य महिषीमशनिश्च ।
तथा ।
धूमावृते शिखिभयं तमसा न मोहो
व्यालैश्च भग्नपतितैर्न भवन्त्यमात्याः ॥
आथर्वणाद्भुते ।
गृध्रश्चेत् तु तस्मिन् निपतति मृत्योर्भयं भवति ।
मृत्योरिति । नृपमृत्योर्देशमृत्योर्वा ।
तथा च विष्णुधर्मोत्तरे ।
निलीयते चेत् क्रव्यादः शक्रयष्टौ तथा द्विज ।
राजा वा म्रियते तत्र स वा देशो विनश्यन्ति ॥
देशशब्दोऽयं पुर इति मयूरचित्रवचनादवगम्यते तद्वचनमत्रैव शेषे लिखिष्यामः
वराहसंहितायां तु ।
क्रव्यादकौशिककपोतककाककङ्कैः
केतुस्थिते महदुशन्तिभयं नृपस्य ।
चाषेण चापि यवराजभयं वदन्ति
श्येनो विलोचनभयं निपतन् करोति ॥
तथा ।
तस्करान् मधु करोति निलीनम् ।
विष्णुधर्मोत्तरे ।
दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यदा ।
तेषां तीव्रफलं ज्ञेयं फलमत्यन्तदारुणम् ॥
इन्द्रध्वजनिपाते तु प्रायश्चित्तमिदं स्मृतम् ।
इन्द्रयागं पुनः कुर्यात् सौवर्णेनेन्द्रकेतुना ॥
राष्ट्रं दत्वा तु गुरवे बन्धनानि प्रमोचयेत् ।
सप्ताहं पूजयित्वा तु ध्वजं दद्याद्द्विजातिषु ॥
शान्तिरैन्द्री भवेत् कार्या यष्टव्यश्च पुरन्दरः ।
महाभोज्यानि कार्याणि ब्राह्मणेभ्यो दिने दिने ।
गावश्च देया द्विजपुङ्गवेभ्यो हिरण्यवासो रजतैः समेताः ।
एवं कृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्मनुजाधिपस्य ॥
वैजवायस्तु ।
उच्छ्रितस्य तु शक्रस्य ध्वजप्रपतने सति ।
कारयेद्वैष्णवीं शान्तिं नृपतिर्भूरिदक्षिणाम् ॥
नारदस्तु ।
इन्द्रे तूत्कम्पमाने तु यदा यष्टिर्विभिद्यते ।
राजविभ्रमदुर्भिक्षं ग्रामोत्सादश्च जायते ॥
सप्ताश्वान् रथसंयुक्तान् हेमरत्नविभूषितान् ।
विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
मयूरचित्रे तु ।
शक्रस्योत्थानवेलायां यष्टिभङ्गे च मध्यतः ।
म्रियते नृपतिस्तत्र नगरोत्सादनं भवेत् ॥
उपोष्य जुहुयात् तत्र दूर्वाणामयुतं शुचिः ।
दधिमधुघृताक्तानां समिधां ब्राह्मणाय च ॥
रथं सप्ताश्वसंयुक्तं दद्याच्छत्रं सकाञ्चनम् ।
धेनूनां विंशतिः शान्तिर्दशमी दिव्यजाऽथ वा ॥
तत्रैव ।
शक्रध्वजे तु गृध्रस्य पतने पुरसंक्षयः ।
विद्रवं नृपतेर्विद्याच्छान्तिः कार्या तु षोडशी ॥
संवत्सरेणास्य फलपाक इति वराहसंहितायामुक्तम् ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शक्रध्वजाद्भुतावर्त्तः ।
अथ वृक्षलताफलपुष्पशस्यान्नव्यञ्जनाद्यद्भुतावर्त्तः ।
तत्र सुन्दरकाण्डे रामजयनिमित्तम् ।
“प्रवान्त्यभ्यधिकं गन्धा नितान्तं पुष्पिता द्रुमाः"[३२९] ।
वराहसंहितायाम् ।
शाखाभङ्गेऽकस्माद्वृक्षाणां निर्दिशेद्रणोद्योगम् ।
हसने राष्ट्रभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥
पराशरश्च ।
वृक्षाणां रोदने व्याधिर्हसने देशविद्रवम् ।
शाखाप्रपतनेऽकस्मात् संग्रामे योधघातनम् ॥
स्थानात् स्थानान्तरगमे देशभङ्गभयं भवेत् ।
वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु ।
रोदने व्याधिमाख्याति हसने देशविभ्रमम् ।
शाखाप्रपतने कुर्यात् संग्रामे योधघातनम् ॥
जल्पत्स्वपि च वृक्षेषु रोदत्सु च धनक्षयम् ।
वदेदिति सम्बन्धः ।
जनक्षयमिति क्वचित् पाठः ।
वराहसंहितायाम् ।
सर्पत्सु तरुषु जल्पत्सु चाऽपि जनसंक्षयो विनिर्दिष्टः ।
बार्हस्पत्ये तु
नर्दने देशनाशः स्याद्योधा नश्यन्त्यशाखया ।
संभ्रमो देशनाशाय दारुशिल्पिक्षयाय च ॥
देशनाशो मरकः । वराहसंहितायाम् ।
पतिनामुत्थानं स्वयं भयं देशजनितं च ।
बार्हस्पत्ये ।
भेदश्च पतितोत्थाने.........।
शत्रुभिया धनपुत्रादिभिर्विश्लेषो भेदो मित्राणां परस्परशङ्कया स्नेहभङ्गो वा ।
तथा च मत्स्यपुराणविष्णुधर्मेन्तरयोः ।
उत्थाने पतितानां तु भयं भेदकरं भवेत् ।
वृद्धगर्गस्तु ।
उत्थाने पतितानां तु वदेद्व्याधिकृतं भयम् ।
पराशरस्तु ।
पतितपादपानां स्वयमुत्थानं जनमारभयाय ।
बार्हस्पत्ये तु ।
.............रुढेष्वन्नक्षयो भवेत् ।
वृद्धगर्गस्तु ।
शुष्कपादपसमारोहणं दुर्भिक्षाय ।
मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।
शुष्केषु संप्रदोहत्सु वीर्यमन्यच्च जीर्जति ।
बार्हस्पत्यवृद्धगर्गसंहितयोः ।
अरोगा यदि शुष्यन्ति तदा दुर्भिक्षलक्षणम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।
अरोगशोषणं ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् ।
वराहसंहितायां तु ।
शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम् ।
राष्ट्रविभेदस्त्वनृतौ बालवधोऽतीव कुसुमिते बाले ॥
अनृतावित्यनेनापि कुसुमितं सम्बध्यते ।
तथा च बार्हस्पत्यवृद्धगार्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु ।
सुराष्ट्रभेदं कुरुते फलपुष्पमनार्त्तवम् ।
औशनसे तु ।
अनृतौ चेत् फलं पुष्पं यत्र वा म्रियते द्रुमः ।
विन्द्याद्द्वादशमे मासि राज्ञस्तत्र विपर्ययम् ॥
द्रुप्त इत्येकवचनं चैत्यद्रुमपरम् ।
यत औशनस एवोक्तम् ।
अकाले पुष्पवन्तश्च फलवन्तश्च पादपाः ।
दृश्यन्ते यस्य राष्ट्रे तु तस्य नाशो विभाव्यते ॥
वृक्षा बालाश्च तरुणा यत्र स्युः फलपुष्पदाः ।
अकाले चापि दृश्येरंस्तत्र विन्द्यान्महद्भयम् -इति
हरिवंशाग्निपुराणमत्स्यपुराणपद्मपुराणेषु च हिरण्यकशिपुवधनिमित्तम् ।
"अकालेषु द्रुमाः सर्वे पुष्पन्ति च फलन्ति च ।
लताश्च सफलाः सर्वाः प्राहुर्दैत्यविनाशनम्[३३०] ॥
वृद्धाः प्राहुरिति सम्बन्धः । दैत्यनाशिका इति क्वचित् पाठः । क्वचित् तु नाशनमिति।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"अनार्त्तवं फलं पुष्पं दर्शयन्ति वनद्रुमाः"[३३१]।
अनृतौ फलपुष्पविहीनत्वाद्दोषावहं भवति ।
तथा चारण्यकाण्डे स्वरवधनिमित्तम् ।
“फलपुष्पविहीनाश्च तरवो न चकाशिरे[३३२] ।
तात्कालिकसकलपुष्पत्यागपरं चैतत् ।
बार्हस्पत्य संतमत्स्यपुराणविष्णुधर्मोत्तरेषु ।
बालानां मरणं कुर्याद्बालानां फलपुष्पता ।
पराशरस्तु ।
बालानां मरणं प्राहुर्बालानां फलपुष्पयोः ।
पादपेष्वन्यफलपुष्पप्रादुर्भावः परचक्रागमाय ।
बार्हस्पत्यवृद्धगर्गसंहितयोस्तु ।
एकवृक्षे तु नानात्वं संदृश्यं फलपुष्पयोः ।
व्यत्यासमयथार्थं वा परचक्रागमो भवेत् ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च"[३३३] ।
वराहसंहितायाम् ।
वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति ।
मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः ॥
स्नेहे दुर्भिक्षभयं महद्भयं निःसृते सलिले ।
भयमनावृष्टिभयम् ।
तथा च वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु ।
क्षयं सर्वत्र गोक्षीरे स्नेहे दुर्भिक्षलक्षणम् ।
वाहनापचयं मद्ये रक्ते संग्राममादिशेत् ॥
मधुस्रावे भवेद्व्याधिर्जलस्रावे च वर्षति ।
पराशरः ।
क्षीरे स्रवति गोपीडां स्नेहे दुर्भिक्षमादिशेत् ।
वाहनापचयं मद्ये शोणिते शस्त्रजं भयम् ॥
व्याधिं मधुनि तोये तु विन्द्याद्वर्षविनिग्रहम् ।
वराहसंहितायाम् ।
घृताढ्यपयसां स्रावे च्युते वृक्षात् तु तत्क्षयः ।
तैले नाशोऽथ मुख्यानां रक्ते शस्त्रकृतं भयम् ॥
मद्येन त मिथोभेदो रुग्भयं मधुनः स्रवे ।
यदा तु पूजितवृक्षजातान्यद्भुतानि भवन्ति तदा नृपपीडाकराणि भवन्ति ।
तथा वृक्षाद्भुतशेषे मत्स्यपुराणविष्णुधर्मेत्तरयोः ।
एतत्पूजितवृक्षेषु सर्वं राज्ञो विपद्यते ।
पुष्पे फले वा विकृते राज्ञो मृत्युं तथाऽऽदिशेत् ॥
औशनसे तु ।
यत्र स्रवेच्चैत्यवृक्षः सहसा विविधान् रसान् ।
पृथक् पृथक् समस्तान् वा तस्य वक्ष्यामि लक्षणम् ॥
घृते मधुनि दुग्धं च स्नेहे चैव तथाऽम्भसि ।
क्षौद्रे दधिनि पूये वा व्याधयः स्युः सुदारुणाः ॥
सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ।
पराशरः ।
पूज्यपादपानां पतनमवनिपतिविनाशाय ।
हरिवंशे तु बाणपराजयनिमित्तम् ।
"अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम्"[३३४] ॥
स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।
पादपाश्च विना वातं पतन्त्युन्मूलिता भुवि ।
बार्हस्पत्ये ।
पूजितानां फले धूमो राज्ञो मृत्युं समादिशेत् ।
वृद्धगर्गस्तु ।
यदि वा पूजिताश्चेत्या धूमायन्ति दिवानिशम् ।
विकृतान्यर्त्तुपुष्पा वा राज्ञो मृत्युभयं भवेत् ॥
वराहसंहितायां तु ।
पूजितवृक्षेष्वनृतौ कुसुमफलं नृपभयाय निर्दिष्टम् ।
धूमस्तस्मिन् ज्वालाऽथ वा भवेन्नृपवधायैव ॥
अन्यत्र ।
चैत्यवृक्षाः प्रभज्यन्ते विस्वरं विनदन्ति वा ।
प्रहसन्ति प्रसर्पन्ति प्रगायन्ति नदन्ति च ॥
आगमः परचक्रस्य तेषु चोत्पद्यते परः ।
मत्स्यपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।
"वानस्पत्या न पूज्यन्ते पूजनार्हाः कथं चन ।
वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च" [३३५]॥
बार्हस्पत्ये ।
यदा तु पत्राणि महाद्रुमाणां प्रकाशदुष्टानि भवन्ति मूर्ध्नि ।
समीक्ष्य तानीह यथार्थदर्शी भयं सराष्ट्रस्य नृपस्य विन्द्यात् ॥
नीलपीतारुणैर्वस्त्रैरकस्मात् कृष्णपाण्डुरैः ।
चैत्यवृक्षाः परिवृता द्विजादिभ्यः सितादिभिः ॥
चित्रैः खगपशुव्यालव्याधिः शस्यपरिक्षयः ।
त्रिवर्णैर्व्याधयस्तीव्रा दशमासात् परं स्मृताः ॥
औशनसे तु
शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः ।
ब्राह्मणानां भयं तीव्रमाशु घोरं विनिर्दिशेत् ॥
रक्तस्त्रावृतेश्चैत्यैः क्षत्रियाणां महद्भयम् ।
पीतवस्त्रैस्तु वैश्यानां शूद्राणां कृष्णवाससा ॥
नीलैः शस्योपघातः स्याच्चित्रैस्तु मृगपक्षिणाम् ।
विवर्णैर्व्याधयस्तीव्राः परं स्युर्दशमासतः ॥
एष्वन्द्भुतेषु लतादिष्वपि संभूतेष्वेतदेव फलं विभावितैकदेशन्यायेन बोद्धव्यम् ।
तथा च पराशरः ।
तरुगुल्मौषधिशस्यानां नातिपुष्पफलसम्भवः । सम्भवो वाऽ-
नृतौ जनमारभयाय ।
वृक्षाद्भुतशेषे बार्हस्पत्ये च ।
भेदश्च पतितोत्थाने रूढेष्वत्र क्षयो भवेत् ।
जल्पने धननाशः स्याद्गुल्मवल्लीलतासु च ॥
इति वृक्षविकारेषु लक्षणं परिकीर्तितम् ।
पाकं च दशमे मासि क्रोष्टुकं वचनं यथा ॥
औशनसे तु ।
पाकोऽस्य दशमे मासि शुक्रस्य वचनं यथा ।
वराहसंहितायाम् ।
वृक्षाणां वैकृत्ये दशभिर्मासैस्तु फलपाकः ।
अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
अन्येषु चैव युक्तेषु वृक्षोत्पातेष्वतन्द्रितः ।
आच्छादयित्वा[३३६] तं वृक्षं गन्धमाल्यैर्विभूषयेत् ॥
वृक्षोपरि तथा छत्रं कुर्यात् पापप्रशान्तये ।
शिवमभ्यर्चयेदेवं पशुं चास्मै निवेदयेत् ॥
मूलेभ्य इति षड्डोमान् कृत्वा रुद्रं जपेत् ततः ।
मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्राँश्च भुवं च दद्यात् ॥
गीतेन नृत्येन तथाऽर्चयेत् तं देवं हरं पापविनाशहेतोः ।
वराहसंहितायां च ।
स्रग्गन्धधूपाम्बरपूजितस्य छत्रं निधायोपरि पादपस्य ।
कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षडेव होमाः ॥
पायसेन मधुना च पूजयेद्ब्राह्मणान् घृतयुतेन भूपतिः ।
मेदिनी निगदिताऽत्र दक्षिणा वैकृते तस्कृते हितार्थिभिः ॥
बार्हस्पत्ये च ।
समाच्छाद्य ततं वृक्षं गन्धमाल्यैर्विभूषयेत् ।
भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् ॥
छत्रं ध्वजं प्रदातव्यं पूर्णहोमस्तथैव च ।
मन्त्रैरौषधसंयुक्तैर्भूप्रदानमथापरम् ॥
बलिं चैवोपहारं च गीतनृत्यं तथैव च ।
गन्धमाल्यं च धूपं च दीपं जप्यं तथैव च ॥
भक्ष्यं भोज्यं च पेयं न रुद्रस्योपहरेन्निशि ॥
रौद्री रौद्रेण मन्त्रेण वृक्षाद्भुतविनाशिनी ॥
गुरवे दक्षिणां दद्यान्नित्यं भूमिं च तत्त्वतः ।
वृद्धगर्गस्तु ।
आच्छादयित्वा[३३७] तं वृक्षं गन्धमाल्यैर्विभूषितम् ।
संस्थापयेच्चात्रं शिवं पशुं चास्य निवेदयेत् ॥
मूलेभ्य इति षड्डोमान् हुत्वा रुद्रं जपेत् ततः ।
मधुसर्पिषा तथा भोज्याः पायसेन द्विजातयः ॥
भूप्रदानं च कर्त्तव्यमेवं नश्यति किल्बिषम् ।
वृक्षस्योपरिच्छत्रं तु देयं पापप्रशान्तये ॥
गीतवादित्रनृत्यं तु रुद्रस्योपहरेन्निशि ।
मयूरचित्रे ।
अकस्माद्ग्राममध्ये तु शाखाभङ्गो महीरुहः ।
ग्रामः प्रलीयते तत्र षड्भिर्मासैर्न संशयः ॥
तस्य शान्तिर्द्वितीया स्यादान्तरिक्षप्रचोदिता ।
नारदस्तु ।
मध्याह्ने चार्धरात्रे च शाखाभङ्गो भवेद्यदि ।
ग्रामोत्सादो भवेत् तत्र षड्भिर्मासैन संशयः ॥
मण्डपभित्तिपतनात् प्रयुक्ता शान्तिरत्र तु ।
मयूरचित्रे तु ।
अकाले फलपुष्पादिदेशविद्रवकारणम् ।
वैपरीत्यं वनस्पतावृतूनां च विपर्ययः ॥
राजामात्यवधं प्राहुः परचक्रस्य चागमम् ।
आग्नेयी च द्वितीयाऽत्र याऽनग्निज्वलने श्रुता ॥
तत्रैव ।
रक्तसेको द्रुमे चैत्ये भयाय नृपतेर्भवेत् ।
शान्तिस्तु षोडशी तत्र कर्त्तव्या दिव्यचोदिता ॥
अनृतुफलपुष्पयोः शान्त्यन्तरमपि वृद्धगर्गादिभिर्विहितं तद्वचनमत्रैव फलाद्भुते लिखिष्यामः ।
अथ वृक्षादिविशेषाद्भुतानि ।
औशनसे तु ।
अश्वत्थे पुष्पिते क्षत्रा ब्राह्मणास्तु उदुम्बरे ।
प्लक्षे वैश्यास्तु पीड्यन्ते न्यग्रोधे दस्यवस्तथा ॥
वृक्षोत्पातविहितसामान्यशान्तिरत्र कर्त्तव्या ॥
गार्गीये ।
धवाश्वत्थकदम्बानां पुष्पितं यदि दृश्यते ।
तदा स्वामिविनाशः स्यान्नैव तत्र तु चान्यथा ॥
नारदः ।
वंशश्च पुष्पितो यत्र माणकश्च धवस्तथा ।
इक्षुश्च पुष्पितो यत्र श्रृङ्गवेरोऽथ वा यदि ॥
गृहं तत्र विनश्येत षड्भिर्मासैर्न संशयः ।
वंशनिर्मूलनं कुर्यान्माणकादीँश्च यत्नतः ॥
तस्मिन् स्थाने तु कर्त्तव्यं सर्वथा शान्तिकं तथा ।
धेनुं च दक्षिणां दद्यात् ततः सम्पद्यते शुभम् ॥
मयूरचित्रे ।
वंशो वा शृङ्गवेरो वा फुल्लितश्चेत् ततो भवेत् ।
स्वामिपत्न्योर्वधो राज्ञः शस्यस्य च परिक्षयः ॥
पित्तज्वरसमुत्थाश्च रोगाः स्युर्देहिनामपि ।
आग्नेयी शान्तिरत्रैव याऽनग्निज्वलनोदिता ॥
इक्षुश्चेवार्द्रकं चापि फलितश्चेत् कथं चन ।
दुर्भिक्षं राजनाशश्च राजोपद्रव एव च ॥
पर्वताद्या विना पुष्पं पुष्पवन्तो विभान्ति च ।
औदुम्बरीणां समिधो जुहुयाद्युतं ततः ॥
महाव्याहृतिभिर्विप्रं भोजयेद्गौश्च दक्षिणा ।
कदलीगर्भमूर्धन्याः प्ररोहन्ति गृहे यदि ॥
अरण्यं सम्भवेद्देशो गर्गस्य वचनं यथा ।
सहेमानं गृहं दद्याद्द्विजायौदुम्बरी समित् ॥
इमा रुद्रेति होतव्या सहस्रं चाष्टसंयुतम् ।
पक्षिणां गां ततो दद्याद्ब्राह्मणाय च भोजनम् ॥
अथ फलपुष्पशस्यान्नव्यञ्जनाद्भुतानि ।
वराहसंहितायाम् ।
फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम् ॥
शालेन कलमशाली रक्ताशोकेन रक्तश्च ।
पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥
न्यग्रोधेन च यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति ।
अश्वत्थेन ज्ञेया निष्पत्तिः सर्वशस्यानाम् ॥
जम्बूभिस्तिलमाषा शिरीषवृद्ध्या तु कङ्गुनिष्पत्तिः ।
गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥
अतिमुक्तककुन्दाभ्यां कार्पासं सर्षपान् वदेदशनैः ।
वदरीभिश्च कुलत्थाँश्चिरविल्वेनादिशेन्मुद्गाः ॥
अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणाः ॥
करिणश्च हस्तिकर्णौरादेश्या वाजिनोऽश्वकर्णेन ।
गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥
चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन ।
कुरवकवृद्ध्या वज्रं वैडूर्यं नन्दिकावर्तैः ॥
विन्द्याच्च सिन्दुवारेण मौक्तिकं कारुकाः कुसुम्भेन ।
रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥
श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ।
सौगन्धिकेन नरपतिरर्केण हिरण्यपरिवृद्धिः ॥
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथाऽऽरोग्यम् ।
खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥
पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन ।
निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥
दूर्वाकुशकुसुमाभ्यामिक्षुर्वह्निश्च कोविदारेण ।
श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ॥
पराशरस्तु ।
अथ शस्यं पश्य नृपतिहिताहितं तरुकुसुमसम्पदोऽनुव्याख्यास्यामः। तत्राशोकाश्वत्थशालतिन्दुकक्षीरिकाशशाशिरीषचिरवि- ल्वनीलाशोकेङ्गुददर्भदूर्वाकुसुमवदरोकुन्दजम्बूसिन्दुवारवेतसन्यग्रो-
धसप्तपर्णद्राक्षाभिमुक्तापारिजातमधूकविल्वोटजवासककिंशुकशिंशपानां शस्यकुसुमैश्च रक्तशालिसर्वधान्यकलमशालिषष्टिकयावकशर्षपमुद्गमसूरकशणेक्षुमूलकप्रियङ्गुकुलत्थकार्पासमाषयवकमुष्ठकसतिलकलायकगोधूमगौरकराजमाषकोद्रवशाकसम्पदं विन्द्यात् तथा लोध्रनन्द्यावर्त्तकुरवकचम्पकबन्धुजीवसिन्दुवारार्ककरञ्जकुसुम्भखर्जूरपिप्पलैस्ताम्रवैडूर्यवज्रकनकप्रधानमौक्तिकहिरण्यविषपिप्पलीतगराणां सम्पदमभिनिर्दिशेत् । रक्तोत्पलकमलाशिताकुमुदशतपत्रकुमुदसौगन्धिकस्वर्णयूथिकामलकपटोलशम्याकवृद्ध्याऽतिवृद्धिः । नृपतिमन्त्रिद्विजर्त्विकचमूपतिश्रेष्ठिचतुष्पादपक्षिगजानां तथा लोध्रनिचुलकुसुम्भनिम्बगजतुरगकर्णपाटलार्जुनशिशपानां वृषिभयं
शङ्खकारुकसुभिक्षकरितुरगगोषुवृष्टीनां सम्पद्भवति चोपघातः
पौर्णमासीषूल्कानिर्घातकम्पग्रहोपरागोपतप्तासु । तत्र माघे सुगन्धि
मधुरलवणद्रव्याणाम् । फाल्गुने शङ्खचन्दनकृमिबन्धकीनाम् ।
चैत्रे कार्पासफलचित्रभाण्डानाम् । वैशाखे कुसुमफलतरुत्वङ्गिर्यासादीनां पण्यानाम् । ज्येष्ठे सर्वशस्यानाम् । आषाढे क्षिप्तबीजानाम् । श्रावणे लाक्षालोध्रहरिद्रामाञ्जिष्ठानाम् । भाद्रपदे हयगजस्वरकरभचर्मशिल्पिनाम् । आश्वयुजेऽश्वोष्ट्रस्वरमाहिषहस्तिनाम् । कार्त्तिके कुसुमभाण्डानां ग्रैष्मिकाणां च शस्यानाम् । मार्गशीर्षे कनकमणिफलवस्त्र विषाणिनाम् । पौषे पुष्पेक्षुमणिभाण्डानाम् ।
अपि च ।
शमीखदिरपुन्नागपुष्पैर्दुर्भिक्षलक्षणम् ।
निम्बार्जुनकदम्बानां संपदा शस्यसंपदम् ॥
भयं भल्लातके क्षेममाम्रे वातं करञ्जकैः ।
मातुलिङ्गैरनावृष्टिं माधवीभिः सुरासवम् ॥
कोविदारैरग्निभयं पीलुभिश्चाप्यरोगताम् ।
मुक्तारजतशङ्कानां सम्पत् तिलकसम्पदा ॥
श्यामालता बन्धकीनामामयं कुटजैर्विदुः ।
मूलकान् शिशपापुष्पैर्जम्बूभिश्च तिलान् वपेत् ॥
शणौर्णिकं कर्णिकारैर्हयान् भव्यैर्विनिर्दिशेत् ।
अच्छिद्रपत्राः सुस्निग्धाः फलपुष्पसमन्विताः ॥
निर्दिशन्ति शुभं वृक्षा विपरीता विगर्हिताः ।
षण्यविद्यासमुद्देशश्चोक्तः पुष्पादिलक्षणैः ॥
वृहद्यात्रायां वराहः ।
कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत् ।
औशनसे तु ।
पुष्पे पुष्पं भवेद्यत्र फले वा स्यात् तथा फलम् ।
पर्णे पर्णं विजानीयात् तत्र जानपदे भयम् ॥
हरिवंशे तु हिरण्यकशिपुवधनिमित्तम् ।
"फले फलान्यजायन्त पुष्पे पुष्पं तथैव च"[३३८] ।
आग्नेयपुराणेऽष्वेवम् ।
पराशरः ।
शस्यनिचयेष्वेकस्माद्वृद्धिक्षयौ तिलेष्वतैलं भयाय ।
"सर्वशस्यपरिच्छिन्ना पृथिवी फलशालिनी ।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः"[३३९] ॥
पराशरः ।
यद्युत्पलकुमुदपुष्पसम्भवे यवव्रीहिष्वेककाण्डे द्वित्रिरन्तःशिरः प्रादुर्भावे तत्स्वामिनाशं विन्द्यात् ।
वराहसंहितायाम् ।
नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम् ।
कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥
अतिवृद्धिः शस्यानां नानाफलकुसुमसम्भवो वृक्षे ।
भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् ॥
अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् ।
अन्नस्य च वैरस्यं तदा च विन्द्याद्भयं सुमहत् ॥
विकृतकुसुमं फलं वा ग्रामादथ वा पुराद्बहिः कार्यम् ।
सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ॥ .
शस्ये च दृष्ट्वा विकृतं प्रदेयं तत्क्षेत्रमेव प्रथमं द्विजेभ्यः ।
तत्क्षेत्रमध्ये चरुमत्र भौमं कृत्वा न दोषं समुपैति तज्जम् ॥
बार्हस्पत्यवृद्धगर्गसंहितयोस्तु ।
यमकं जायते पुष्पं फलं वा यमकं यदि ।
कुमुदोत्पलपद्मानि एकनाले बहूनि तु ॥
बीजं यत्र प्ररोहेत् तु फलमध्ये प्रमादतः ।
एतदप्यद्भुतं नाम दम्पत्योस्तु विनाशनम् ॥
बहुशीर्षा द्विशीर्षा वा तथा निष्प्रसवा अपि ।
यवा वा व्रीहयो वाऽपि स्वामिनो मरणाय ते ॥
अन्यर्त्तुफलपुष्पैर्वा न फलन्ति फलन्ति वा ।
पोदपौषधिगुल्माश्च जनमारभयं भवेत् ॥
अथ वाऽतिशयं धान्यं भद्रमप्तं विनश्यति ।
तिला वाऽप्यर्धतैलाः स्युरतिला वा भयाय च ॥
अन्यं वा धारयेत् पुष्पं फलं वा विकृतं द्रुमः ।
धान्यानां वैकृते क्षेत्रं समं शस्येन दापयेत् ॥
सौम्यं चरुं पुष्पफलं विकृतं पशुमेव तु ।
क्षेत्रमध्येऽथ होमं तु निर्वपेच्छस्यवैकृते ।
भौमेनैवानुवाकेन निर्वपेच्छस्यवैकृतम् ।
सदक्षिणैर्द्विजैर्भुक्तैः कर्त्तारं वाऽर्चयेत् ततः ॥
मयूरचित्रे ।
धान्यात् सर्षपा जायन्ते गृहे क्षेत्रेऽथ चत्वरे ।
दुर्भिक्षं तत्र देशे स्याद्राजोपद्रव एव वा ॥
म्रियते च प्रभुस्तस्य वर्षस्याभ्यन्तरेण तु ।
सहस्रं समिधां तत्र हव्यमष्टोत्तरं स्मृतम् ॥
औदुम्बर्या इमा रुद्रा मन्त्रैर्गोदानभोजनैः ।
तत्रैव ।
उत्पतन्ति च धान्यानि गृहे चत्वर एव वा ।
म्रियते च सुतस्तस्य सप्तमासाद्विदूरतः ॥
तत्र दूर्वायुतं हव्यं मन्त्रोऽस्मिन् जातवेदसः ।
दक्षिणा गौर्ब्राह्मणानां भोजनं शुभकारकम् ॥
तत्रैव ।
अनग्नौ व्रीहद्यो यत्र स्फुटन्त्यन्येऽनुगा इव ।
मासाभ्यन्तरमात्रेण तत्र स्यान्नृपतेर्वधः ॥
आग्नेयी शान्तिरत्र स्यादनग्निज्वलनोदिता ।
तत्रैव ।
अङ्कुरान्न विना तोयं धान्यान्यग्निं विनैव तु ।
लाजाः स्युस्तत्र गोधान्यपुरोन्मादः प्रवर्त्तते ॥
दधिमधुघृताक्तानामुपोष्य जुहुयात् ततः ।
समिधामयुतं सप्तधान्यं दद्याद्विजातये ॥
आग्नेयी यदि वा शान्तिरत्र कार्या विपश्चिता ।
अनग्नावग्निज्वलने प्रोक्ता भूमौ द्वितीयका ॥
नारदः ।
यवो माषः कलायश्च तण्डुलश्च प्ररोहति ।
शुष्ककाष्ठप्ररोहे तु भक्ते रुधिरदर्शने ॥
माषतण्डुलधान्यानामयुतं जुहुयात् ततः ।
घृतेन मधुना चैव महाव्याहृतिमन्त्रवित् ॥
ब्राह्मणाय प्रदातव्यं सुवर्णं धान्यमेव च ।
वृषभश्चैव धेनुश्च ततः संपद्यते शुभम् ॥
गार्गीये ।
उत्स्विन्नाश्च मुहुर्माषाः प्ररोहन्ति यदि क्व चित् ।
तदा तत्र विनाशः स्यात् कुलस्येति न संशयः ॥
मयूरचित्रे ।
प्ररोहन्ति गृहे येषामुत्स्विन्ना व्रीहिजातयः ।
तेषां मृत्युर्भवेद्वर्षात् समिधां दर्भकाशयोः ॥
अयुतं तत्र होतव्यं मन्त्रोऽस्मिन् जातवेदसः ।
नारदः ।
उत्स्विन्ने दग्धधान्ये च यदि तत्रोङ्कुरो भवेत् ।
धान्यं वोत्पतते तत्र तण्डुलाश्चोत्पतन्ति च ॥
कलायश्च मसूरश्च मुद्गो माषस्तथैव च ।
शस्यानां हरणात् तत्र उत्सादश्व भविष्यति ॥
काष्ठे धान्यं यदा भूमौ दृश्यते मध्यतो यदा ।
म्रियते च प्रभुस्तत्र षड्भिर्मासैर्न संशयः ॥
जुहुयादयुतं तत्र धान्यस्यैव विशेषतः ।
दधिमधुघृताक्तस्य सर्वदा क्षेमकृन्नरः ॥
धान्यं विप्राय दातव्यं वस्त्रयुग्मं सकाञ्चनम् ।
धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
मयूरचित्रे ।
सिद्धान्ने व्यञ्जने चैव रुधिरं यत्र दृश्यते ।
राजामात्यविनाशः स्यान्मासमात्रान्न संशयः ॥
दशमी तत्र कर्त्तव्या शान्तिर्दिव्या प्रचोदिता ।
दध्नि संजायते तक्रं राज्ञो मरणकारकम् ॥
तैलं सर्पिर्जलं वाऽपि वृष्टिरत्यन्तमापतेत् ।
सिद्धान्ने व्यञ्जने चैव कृमिर्दुर्भिक्षकारकम् ॥
ऐन्द्री शान्तिस्ततः कार्या वर्धनीपतनोदिता।
योध्ररिष्टप्रकरणे पराशरः ।
अथ येषां सिद्धमन्नस्य विरसदौर्गन्ध्यमत्यन्तमभीक्षणं प्रतिपद्यते अन्धःस्थाल्यादयो वा विपद्येरन् उत्पातोक्तविकाराणि वा
लक्षेरन् तेषां वधाय स्यात् ।
भार्गवीये ।
मध्वाज्यदधिदुग्धेषु भक्ष्ये पाने विलेपने ।
यन्त्रवाहनशस्त्रेषु भवनेष्वायुधेषु च ॥
दर्पणे भक्तपात्रे च मणिमुक्ताफलेषु च ।
भूषणेषु तथाऽन्येषु शय्यायामासनेषु च ॥
काकोलूककपोतानां मृगस्य दर्शनं भवेत् ।
अन्येषां चाप्रशस्तानामागमो मृगपक्षिणाम् ॥
अश्वेतानां च पुष्पाणां सरीसृपमृगस्य च ।
वसालोहितमांसानामस्थिमज्जाशिरोरुहाम् ॥
अकस्माच्चैव संजाते दर्शने नखभस्मनाम् ।
रसान्यत्वे रसानां च दुर्गन्धे वाऽनिमित्तजे ॥
पद्मपुष्पाकृतिर्यत्र दृश्यते मधुसर्पिषि ।
कुशरे पायसे चैव क्षयस्तस्य धनायुषोः ॥
घृते वा मधुदध्नोर्वा यदा पद्माकृतिर्भवेत् ।
स्वस्तिकोवाऽपि दृश्येत क्षीरौदनहविःषु च ॥
श्रोत्रियाय तु तद्दद्याद्गां चैवं शमयेन्नरः ।
यत्रत्यं चाद्भुतं पश्येत् तच्चापि प्रतिपादयेत् ॥
कुर्याच्च वारुणीं शान्तिं परमेण समाधिना ।
अक्षतरुधिरे उत्स्विन्नधान्यप्ररोहादिविहिता नारदीया शान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वृक्षाद्यद्भुतावर्त्तः।
अथ गृहाद्यद्भुतावर्त्तः ।
बार्हस्पत्ये ।
राजवेश्मनि चैत्येषु प्रासादे तोरणे ध्वजे ।
औत्पातिकानि दृश्यन्ते राज्ञां तत्र भयं भवेत् ॥
प्रासादतोरणानां च द्वारप्राकारवेश्मनाम् ।
अकस्माद्बलिनां भङ्गो विज्ञेयो राजमृत्यवे ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।
प्रासादतोरणाट्टालद्वारप्राकारवेश्मनाम् ।
अनिमित्तं तु पतनमट्टानां राजमृत्यवे ॥
प्रासादानां विमानानां पतने कम्पने तथा ।
विना निमित्तं नृपतेः पीडामाहुर्मनीषिणः ॥
तथा ।
प्रासादश्च विमानानि प्रज्वलन्ति च यत्र वै ।
दृढानि च विशीर्यन्ते यस्य स म्रियते नृपः ॥
गार्गीये तु ।
प्रासादमण्डपादीनामकस्मात् पतने सति ।
स्वामिनोऽथ विनाशः स्यात् तदभावे च भूपतेः ॥
पराशरः ।
दृढद्वारकपाटवंशस्थूणाभङ्गे स्वामिविनाशं विन्द्यात् ।
गार्गीये ।
अकस्मादथ वा कोष्ठः सुदृढोऽनिपतेद्यदि ।
स्वामिनो मरणं तत्र षण्मासाद्भवति ध्रुवम् ॥
वराहसंहितायाम् ।
उन्मादः स्वयमुद्घाटिते च पिहिते स्वयं कुलविनाशः ।
मत्स्यपुराणे ।
स्वयमुद्घाटिते द्वारे उन्मादो गृहवासिनाम् ।
स्वयं वा पिहिते विन्द्यात् कुलनाशं विचक्षणः ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
एतेष्वभ्यर्चयेच्छक्रं सपत्नीकं द्विजोत्तमम् ।
भोज्यानि चैव कार्याणि सुराणां बलयस्तथा ॥
गावश्च देया द्विजपुङ्गवेभ्यो भुवस्तथा काञ्चनमम्बरं च ।
होमश्च कार्योऽमरपूजनं च एवं कृते शान्तिमुपैति पापम् ॥
बार्हस्पत्ये तु ।
महाबलिं महाशान्ति भोज्यानि सुबहूनि च ।
पूजयेच्च महेन्द्रं च महादेवमथापि वा ॥
ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रीं रौद्रे नियोजयेत् ।
गवामष्टशतं दद्याद्विप्रेभ्यो मनुजाधिपः ॥
गुरवे दक्षिणां दद्यात् प्रजास्वेवं शुभं भवेत् ।
गार्गीये ।
गृहाट्टालकहर्म्यादौ वरटा निवसेद्यदि ।
पिकोऽथ निवसेद्वाऽपि तदा स्वामिवधो भवेत् ॥
विष्णुधर्मोत्तिरे ।
गृहस्य च यदा चाषो व्याहरेत् पुरतः स्थितः ।
नृपावमाने वदति चाषः कलहभाजने ॥
वसन्तराजः ।
पर्यङ्कयानासनसंनिविष्टो गृहं प्रविष्टः कुरुते कपोतः ।
दुःखं त्रिभेदोऽपि विपाण्डुरः स्यादर्धेन चित्रो दिवसेन धूम्रः ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
उलूको वासते यत्र निपतेद्वा तथा गृहे ।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥
प्राकारद्वारगेहेषु तोरणापणवीथिषु ।
केतुच्छत्रायुधाद्येषु क्रव्यादः संपतेद्यदि ॥
जायते चाथ वल्मीको मधुनाऽध्यासते यदि ।
स देशो वशमायाति राजाऽथ म्रियते तदा ॥
द्वारप्राकारगेहेषु प्रासादतोरणध्वजे ।
पतन्ति बहवो गृध्राः काकोलूकबकैः सह ॥
अथाप्येतेषु स्थानेषु मधु संजायते यदि ।
नलिन्यश्चात्र वल्मीके षण्मासैर्म्रियते नृपः ॥
वराहसंहितायां तु ।
गृहचैत्यतोरणेषु द्वारेषु च पक्षिसङ्घसम्पातः ।
हव्याश्च दधिमध्वक्ताः शमीनां समिधोऽयुतम् ।
भूरिमिन्द्रप्रतिमिति मन्त्रेण रूप्यदक्षिणा ॥
तत्रैव ।
दर्वी वा मुशलं चापि स्थूणा वा भिद्यते यदि ।
भिद्यते मूर्धवंशश्च गृहं देवकुलानि च ॥
मासाभ्यन्तरमात्रेण गच्छन्त्युत्सादनं तु तत् ।
दस्युभिश्च विलुप्यन्ते वर्णा गच्छन्ति संक्षयम् ॥
तत्रैव ।
मन्दिरे मूर्ध्नि वंशस्य भङ्गे स्वामिवधो भवेत् ।
गृहं त्यक्त्वा समिद्धोमः कार्यो वैकङ्गतस्य च ॥
अष्टोत्तरसहस्रं तु मन्त्रोऽस्मिन् जातवेदसः ।
भोजनं ब्राह्मणायाथ दातव्या गौश्च दक्षिणा ॥
वैजवायस्तु ।
पूर्ववंशस्य च स्फोटे स्थूणायाश्च प्ररोहणे ।
वधूवाहनयानस्य छेदने भेदनेऽपि वा ॥
सोमं संपूज्य विविधैः सौम्यां शान्ति प्रयोजयेत् ।
मयूरचित्रे ।
यस्य गेहस्य कम्पेते स्तम्भवंशावकारणम् ।
दम्पत्योर्जायते मृत्युरत्र शान्तिरियं मता ॥
भव्यहोतव्यमयुतं दूर्वाणां समिधा ततः ।
काण्डात् काण्डेति मन्त्रेण हेम दद्यात् सभोजनम् ॥
नारदः ।
स्थूणा च कम्पते यत्र गृहं कटकटायते ।
गृहं तत्र प्रशीर्येत म्रियते गृहिणी तथा ॥
दधिमधुघृताक्तानां तिलानामयुतं ततः ।
होमयेत् तत्र धेनुं च दक्षिणात्वेन कल्पयेत् ॥
वस्त्रयुग्मं प्रदातव्यं काञ्चनेन समन्वितम् ।
ब्राह्मणान् भोजयेत् तत्र धान्यं दद्यात् तु दक्षिणाम् ॥
मयूरचित्रे ।
यदा कटकटायन्ते भवनान्यायुधानि च ।
मासाभ्यन्तरमात्रेण तदा संग्राममादिशेत् ॥
दिव्याऽत्रैकादशी शान्तिः करणीया विपश्चिता ।
तत्रैव ।
निर्भग्ने तोरणे द्वारे शान्तिरत्रैव दिव्यजा ।
नारदः ।
अकस्माद्गृहभूमिस्तु स्फुटते कुड्यकम्पनम् ।
गृहं च कम्पते यत्र कोकारावं विमुञ्चति ॥
गृहं वा पतते विप्र मूर्धवंशश्च भिद्यते ।
यस्य गेहे शृगालादिः प्रविष्टोऽथ प्रसूयते ॥
गृहं तस्य विनश्येत प्रभुर्वा म्रियते पुनः ।
पत्नी वा म्रियते तस्य पुत्रस्य मरणं भवेत् ॥
गृहोन्मादो भवेत् तस्य धनं चैव प्रलीयते ।
दधिमधुघृताक्तानां पत्राणां श्रीफलस्य च ॥
जुहुयादष्टसहस्राणि वैश्वानरेति मन्त्रवित् ।
सुवर्णं वस्त्रयुग्मं च धेनुं चापि पयस्विनीम् ॥
विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
मयूरचित्रे तु ।
अकस्माद्गृहमध्ये तु कोकारावं विमुञ्चति ।
मासाभ्यन्तरमात्रेण गर्भस्योत्सादनं तु तत् ॥
अत्रापि प्रथमा शान्तिर्यमलोत्पत्तिसम्भवा ।
मांसास्थीनि समादाय श्मशानोन्मत्तवायसाः ।
श्वा शृगालोऽथ वा मध्ये पुरस्य प्रविशेद्यदि ॥
विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् ।
चौरेण हसते लोकः परचक्रस्य चागमः ॥
संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा ।
ऐन्द्री शान्तिस्ततः कार्या वर्धनीपतनोदिता ॥
अथ वाऽश्वत्थसमिधो हव्या मध्वन्वितास्तिलाः ।
वैवस्वतेन मन्त्रेण निवेद्यान्नाः सफाणिताः ॥
तिलघृतोपहारं च क्षीरशान्तिं च कारयेत् ।
ततः शाम्यति तत्पापं प्रजापतिमतं यथा ॥
नारदः ।
मृगाश्चैव वराहाश्च व्याघ्रशार्दूलजम्बुकाः ।
निपतन्ति गृहे यत्र गोरूपाणि तथैव च ॥
मधुवासो भवेद्यत्र द्वारे वा लोहकीलकम् ।
योजितं चापि गोयुग्मं प्रविशेद्भवनं यदि ॥
गोशालाष्वश्वशालासु सुखशालासु[३४०] वै तथा ।
गृध्रादयः पतन्त्येते ततः शान्तिं समारभेत् ॥
धान्योनामयुतं तत्र जुहुयात् क्षेमकृन्नरः ।
धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
वसन्तराजः ।
रात्रौ गृहस्योपरि वासमानो दुःखाय शूकः सुतमृत्यत्रे स्यात् ।
गृहस्थनाशाय च सप्तरात्रं नाशाय राज्ञो द्विगुणान्यहानि ॥
त्र्यहं गृहद्वारि चरत्युलूके हरन्ति चौरा द्रविणान्यवश्यम् ।
तस्मिन् प्रदेशे निशि मांसयुक्तस्तद्दीपनाशाय बलिः प्रदेयः ॥
मयूरचित्रे तु ।
खगौघपतनं चैत्ये गृहद्वारेषु तोरणे ।
मधुवल्मीकपद्मानां जननाशः सदा भवेत् ॥
उलूकश्चैव गृध्रश्च कपोतः श्येन एव च ।
पतन्ति भवने यस्य तस्य प्राहुर्महद्भयम् ॥
पक्षान्मासान् तथा वर्षान्मृत्युः स्याद्गृहमेधिनः ।
पत्न्याः पुत्रस्य वा मृत्युर्द्रव्यं चैव प्रणश्यति ॥
ब्राह्मणाय गृहं दद्याद्दत्वा तन्मूल्यमेव च ।
गृह्णीयाद्यदि रोचेत शान्तिं चैतां प्रयोजयेत् ॥
चरुं यवमयं कृत्वा अश्वत्थसमिधोऽयुतम् ।
मनसः काममित्येत् हुत्वा जप्त्वा सुखी भवेत् ॥
यदि वा वर्धनी चेति तया शान्तिः प्रदिश्यते ।
ऐन्द्रीं शान्तिं ततः कुर्यात् त्रातारमिति मन्त्रतः ॥
औदुम्बरीश्च समिधो जुहुयाद्घृतसंयुताः ।
अष्टोत्तरसहस्राणि पञ्च तच्छान्तिकाम्यया ॥
चरुकर्माशनं चास्य विप्रान् दधिगुडौदनैः ।
तर्पयित्वा वरं हेम दद्याद्धेनुं च दक्षिणाम् ॥
नारदः ।
गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च ।
चिल्लश्च चर्मविलश्च भासः पाण्डुर एव च ॥
गृहे यस्य पतन्त्येते तस्य गेहं विपद्यते ।
पत्नी वा म्रियते तस्य पुत्री वा मातरस्तथा ॥
धनं तस्य प्रणश्येत् तु षड्भिर्मासैर्न संशयः ।
चरुं च यमदैवत्यं शतमेकं जुहोति च ॥
तिलैर्धान्यैर्यवैश्चैव घृतेन मधुना सह ।
जुहुयात् पञ्च सहस्राणि शक्तिबीजेन मन्त्रवित् ॥
कलायैश्चैव माषैश्च मुद्रैश्च सिततण्डुलैः ।
घृतेन दधिना चैव कुण्डे तत्र निवेदनम् ॥
सम्पूर्णाँस्तु शरावाँश्च पत्रेणैव निवेदयेत् ।
परिधायाहतं वासो जप्त्वा मन्त्रं समाहितः ॥
अष्टोत्तरशतं जप्त्वा पत्रं वा श्रीफलस्य च ।
दशावर्त्तं तु तेनेव शिखायां धारयेत् ततः ॥
हविष्यभुग्भवेत् तावद्यावद्धोमः समाप्यते ।
एकरात्रोषितो भूत्वा गृहं विप्राय दापयेत् ॥
मूलेनैव ततः कृत्वा स्नापयेत् कलशेन तु ।
धेनुं च दक्षिणां दद्याद्वस्त्रयुग्मं सकाञ्चनम् ॥
भोज्यं तु कारयेत् तत्र ततः सम्पद्यते शुभम् ।
मयूरचित्रे ।
गृहीत्वा तु शवस्याङ्गमन्ये तु मृगपक्षिणः ।
प्रविशन्ति गृहे यस्य षड्भिर्मासैर्विनश्यति ॥
आज्यहोमो महादानं तत्र शान्त्यै प्रवक्ष्यते ।
नारदः ।
यस्य गेहे शृगालादिः प्रविष्टोऽथ प्रसूयते ।
गृहं तस्य विनश्येत प्रभुर्वा म्रियते पुनः ॥
पत्नी वा म्रियते तस्य पुत्रस्य मरणं भवेत् ।
गृहोत्सादो भवेत् तस्य धनं चैव प्रलीयते ॥
दधिमधुघृताक्तानां पत्राणां श्रीफलस्य च ।
जुहुयादष्टसहस्राणि वैश्वानरेति मन्त्रवित् ॥
सुवर्णं वस्त्रयुग्मं च धेनुं चापि पयस्विनीम् ।
विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
फणिनोऽभिमुखं यत्र प्रविशन्ति गृहं यदा ।
निर्यान्ति च पुनस्तद्वत् तस्य लिङ्गानि मे शृणु ।
प्रमुखं म्रियते तत्र धनहानिर्न संशयः ।
दधिमधुघृताक्तानां यः शम्याः समिधोऽयुतम् ॥
जुहुयात् तस्य गेहे तु शन्नो देवीति मन्त्रवित् ।
धनं च दक्षिणां दद्यात् सुवर्णं वस्त्रयुग्मकम् ॥
एवं निर्वर्त्तिते होमे शुभं भवति सर्वतः ।
मयूरचित्रे ।
गृहद्वारेण सर्पस्य प्रवेशे गृहिणीवधः ।
षड्भिर्मासेर्न संदेह उपोष्य जुहुयात् ततः ॥
दधिमधुघृताक्तानामयुतं जुहुयाच्छुचिः ।
वैकङ्कतस्य विप्राय ताम्रं दद्याच्च दक्षिणाम् ॥
तत्रैव ।
अकस्माद्दुग्धधाराश्च पतन्ति जलविन्दवः ।
घृतं तैलं वसा मांसं पतन्ति भवनेऽथ वा ॥
ज्वरः श्वासश्च दद्रुश्च कुष्टं काशो विचर्चिका ।
पाण्डुरोगः शिरोरोगो भवन्ति व्याधयोऽपरे ॥
शार्दूलपतने प्रोक्तामैन्द्रीं शान्तिं तु कारयेत् ।
रक्तधारां गृहे दृष्टा प्राङ्गणे चादिशोद्रणम् ॥
अन्तर्वेश्मन्यशरीरगीतवादित्रनिःस्वनैस्तरस्वामिविनाशं विन्द्यात् ।
औशनसे ।
श्रूयते यस्य गेहेषु गीतवादित्रनिःस्वनाः ।
अकस्मान्म्रियते सम्यग्धनं चास्य विलुप्यते ॥
अनाहता दुन्दुभयो वादित्राणि नदन्ति च ।
छत्राणि च गृहे यस्य स तु शीघ्रं विनश्यति ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
विकृते वातजे वाऽपि वायव्या शान्तिरिष्यते ।
वायव्या शान्तिर्वाताद्भुतावर्त्ते[३४१] लिखिता ।
वराहसंहितायाम् ।
अङ्गारगैरिकाद्यैर्विकृतप्रेताभिवेशनं यस्मिन् ।
नायकविचित्रमथ वा नृपः क्षयं याति नचिरेण ॥
महाशान्त्योऽथ वलयो भोज्यानि सुमहान्ति च ।
कारयीत महेन्द्रं च माहेन्द्रीं च समर्चयेत् ॥
एतेषां फलपाकसप्रयं पाकावर्त्ते वक्ष्यामः ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गृहाद्यद्भुतावर्त्तः ।
अथ वातजोपस्कराद्यद्भुतावर्त्तः ।
शान्तिपर्वणि ।
“गम्भीरशब्दाश्च महास्वनाश्च शङ्का मृदङ्गाश्च नदन्ति यत्र ।
युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः"[३४२] ॥
औशनसे तु ।
सङ्खवैणववीणाश्च भेरीमुरजगोमुखाः ।
वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्यघट्टिताः ॥
संभृत्यैव ततो भावमन्यं जनपदं व्रजेत् ।
मृगवाद्यैः स देशो हि वायुश्चात्रोपजायते ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"अनाहता दुन्दुभयः प्रणदन्ति विशां पते"[३४३] ।
पराशरस्तु ।
अनाहतानां वाद्यानां श्रवणमाहतानामश्रवणं महते भयाय ।
भयायेति शस्त्रभयाय ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
वात्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः ।
आकाशे तूर्यनादाश्च गीतगन्धर्वनिःस्वनाः ॥
.........घोरं शस्त्रभयं भवेत् इति सम्बध्यते ।
बार्हस्पत्ये तु ।
भेर्यो मृदङ्गाः पटहा वाद्यन्ते चाप्यनाहताः ।
आहताश्च न वाद्यन्ते अबलानि बलानि च ॥
परचक्रभयं तत्र राज्ञो वा व्यसनं भवेत् ।
व्यसनं मरणम् ।
वराहसंहितायाम् ।
अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् ।
व्युत्पत्तौ वा तेषां परागमो नृपति मरणं वा ॥
व्युत्पत्तिर्विकृता उत्पत्तिः । सा चान्यजातीयशब्दोत्पत्तिर्दुःश्रुतिशब्दोत्पत्तिर्वा ।
अल्पमहत्प्रबलयोर्महदल्पशब्दोत्पत्तिर्वा ।
औशनसे तु ।
शङ्खवैणवतूर्याणां दुन्दुभीनां च निःस्वनाः ।
देशे यत्र भृशं तत्र राज्ञा दण्डो निपात्यते ॥
पराशरः ।
लूकातूर्यध्वनिः पुरः सैन्यमाचष्टे विजने पुरे ।
पुरः सैन्यमाचष्ट इति ।अग्रोपस्थितमिव शस्त्रसैन्यं कथयति शीघ्रं परचक्रागमो भवतीत्यर्थः ।
एतदेवोक्तमौशनसे ।
नदन्त्यरण्ये तूर्याणि श्रूयन्ते व्योम्नि नित्यशः ।
न वसेत् तत्र राजा तु समागम्य दिशो दश ॥
नु-शब्दोऽप्यर्थे । दश दिशोऽपि समागम्य तत्र न वसेत् । एतदुक्तं भवति । कृताखिलदिग्विजयोऽपि एतदुत्पातवति देशे वसन् शत्रुभिर्जीयेत इति । भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“अतभ्रे च महाघोरस्तनितः श्रूयते स्वनः”[३४४] ।
बार्हस्पत्ये तु ।
अरण्ये तूर्यनिर्घोषः श्रूयते यदि वाऽम्भसि ।
श्रूयन्ते च महाशब्दा गीतगान्धर्वनिःस्वनाः ॥
शरीरं व्यथते तत्र व्याधिर्वा सुमहान् भवेत् ।
पराशरः ।
चरस्थिरविपर्ययः परचक्रगमाय ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।
अचलाश्च चलन्त्येव न चलानि चलन्ति च ।
.........घोरं शस्त्रभयं भवेत् इति सम्बन्धः ।
बार्हस्पत्ये ।
शकटाद्यानि यानानि यदाऽयुक्तानि संययुः ।
भयं जनपदे विन्द्यान् तस्मिन्नुत्पातदर्शने ॥
पराशरः ।
आसनशकटयानभाण्डोनामकस्मात् सृतिर्महते भयाय ।
औशनसे तु ।
आसनं शयनं यानं यदाऽन्यत्र प्रसर्पति ।
राज्ञो मरणमादेश्यं वर्षस्याभ्यन्तरे तदा ॥
व्याहरन्ति प्रसर्पन्ति स्तम्भपाषाणपादपाः ।
शयनासनयानानि नियतं नृपतेर्वधः ॥
वैजवायः ।
नृत्यगर्जननिर्घोषैस्तथा कटकटस्वनैः ।
ईशायुग्यहलादीनां स्वामिनो मृत्युमादिशेत् ॥
सम्यग्गोसुतपत्नीनां नाशं ग्रामस्य दस्युभिः ।
पराशरः ।
अश्वानामगमनं महते भायय ।
बार्हस्पत्ये ।
यान्ति यानान्ययुक्तानि विना वा हेतुभिस्तथा ।
युक्तानि वा न गच्छन्ति नरेन्द्राणां महद्भयम् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।
यान्ति यानान्ययुक्तानि युक्तान्यपि न यान्ति चेत् ।
चोद्यमानानि तत्र स्यान्महद्भयमुपस्थितम् ॥
वराहसंहितायां च ।
यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम् ।
राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
काष्टादर्शकुठारादि विकारं कुरुते यदि ।
गवां लाङ्गलसङ्गश्च स्त्री स्त्रियं च निपातयेत् ॥
......... घोरं शस्त्रभयं भवेत् इति सम्बन्धः ।
वराहसंहितायां तु ।
गोलाङ्गलयोः सङ्गे दर्वीसूर्पाद्युपस्करविकारे ।
क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम् ॥
क्रोष्टुकनादे द्रव्यविकृते च पराशरः ।
मुशलदर्वीसूर्पखनितृदृषदुपलानां क्रोष्ट्रादिदर्वीहाराभिसरणविकृतचेष्टारुतानि नृपतिभयाय ।
बार्हस्पत्ये ।
काष्ठं वा नृत्यते यत्र दर्वी वा वहते यदि ।
प्रपतेन्मुशलं चापि सूर्पं वा धूयते यदि ॥
.......जायते तुमुलं भयम् इति शेषः ।
औशनसे ।
धान्यकोष्ठायुधागारा: पाषाणास्तूपपर्वताः ।
एते यत्र प्रसर्पन्ति विकृतानि भवन्ति च ॥
तस्मिन् देशे भयं क्षिप्रं बहुधा जायते महत् ।
एतेषु वातजोपस्कराद्यद्भुतेषु वाताद्यद्भुतलिखिता वायव्या शान्तिर्मत्स्यपुराणादिषु वहिता । मत्स्यपुराण एव त्वष्ट्र्यपि शान्तिरूपस्कराद्भुते विहिता ।
तद्यथा ।
उपस्करणवैकृत्ये त्वाष्ट्री पार्थिवनन्दन-इति ।
मयूरचित्रे च ।
शयनं वाऽऽसनं चापि यस्य संचलति स्वयम् ।
तस्य पुंसो विनाशः स्याद्वर्षस्याभ्यन्तरेण तु ॥
अपामार्गसमिद्धोम इमा रुद्रेति मन्त्रतः ।
तत्रैव ।
नृत्यगर्जननिर्घोषैस्तथा कटकटस्वनैः ।
ईशायुग्यहलादीनां स्वामिनो मरणं भवेत् ॥
शस्यगोसुतपत्नीनां नाशो ग्रामस्य च स्मृतम् ।
दिव्या एकादशी शान्तिः करणीया विपश्चिता ॥
वृषी[३४५]वा भद्रपीठं वा शयनासनमेव च ।
अस्पृष्टा यान्ति खे यत्र तत्र विद्यान्महद्भयम् ॥
प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ।
काष्ठानां चलने सद्यो भयं भवति देहिनाम् ॥
म्रियते तु सुतस्तस्य गायत्र्या हव्यमेव तु ।
श्रीफलस्य समिल्लक्षं दक्षिणा गौर्द्विजन्मने ॥
तत्रैव ।
शिलामुशलकांस्यानि निपतन्त्युत्पतन्ति च ।
तिलदूर्वायुतं हव्यं दानं गोकांस्यमेव च ॥
तत्रैव ।
दर्वी वा मुशलं चापि यदि वा यान्त्युदूखलम् ।
सार्थवाहजनश्रेष्ठिसचिवानां वधो भवेत् ॥
प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ।
वैजवायः ।
तत्र चरोश्च दर्व्याश्च प्राकारे भेदनादिके ।
उदूखलस्थो मुशलः प्रपतेदनिमित्ततः ॥
एष्वद्भुतेषु कर्त्तव्या शान्तिश्चैन्द्री यथोदिता ।
मयूरचित्रे ।
अथ युक्तमयुक्तं वा यानं युग्यं प्रधावति ।
भयं तत्र प्रदेष्टव्यममात्यस्य वधस्तथा ॥
श्रेष्ठिनां सार्थवाहानां वधोऽन्यस्य जनस्य च ।
प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ॥
तत्रैव ।
चलने तोयभाण्डस्य प्रणाशात् स्थानवर्जनात् ।
विनश्यति सुतस्तस्य वर्षस्याभ्यन्तरेण तु ॥
अष्टोत्तरसहस्रं स्यादश्वत्थसमिधां ततः ।
हव्यं रौद्र्याऽथ गायत्र्या गौर्देया विप्रभोजनम् ॥
तत्रैव ।
शब्देन काञ्जिकस्यापि गृहिणीमरणं भवेत् ।
तद्भाण्डं चातिवारि स्याद्राज्ञो मरणमादिशेत् ॥
षड्भिर्मासैर्न संदेह उपोष्य जुहुयात् ततः ।
दधिमधुघृताक्तानामयुतं जुहुयाच्छुचिः ॥
वैकङ्गतस्य विप्राय दानं गौः कांस्यमेव च ।
दर्वी वा मुशलं वाऽपि ताम्रं दद्याच्च दक्षिणाम् ॥
नारदः ।
काञ्जिकोद्वमने शब्दे प्रस्वेदे कम्पने तथा ।
गृहं तत्र प्रलीयेत गृहिणी म्रियते तथा ॥
कम्पादिविहिता नारदोक्ता शान्तिरत्र कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वातजोपस्कराद्यद्भुतावर्त्तः ।
अथ वस्त्रोपानहासनशयनाद्भुतावर्त्तः ।
तत्र पराशरः ।
अथ वाससां शुभाशुभैष्यत्फलसूचकमकस्मान्मषीकर्दमाञ्जनरुधिरगोमयैरुपरागस्तथाऽऽखुकोटगो-जन्तुभिरवभक्षणं पाटनं च काष्टकण्टकैर्दाहो वा वह्निना भवति तद्विज्ञानलक्षणमुपदेक्ष्यामः । तत्र प्राग्देशं प्रत्यक्पाशं नवधा वस्त्रं विभजेत् त्रिवंशम् । तदंशेषु तेषु क्रमात् फलनियमः । अर्थहानिरर्थागमो धनक्षयः स्त्रीविनाशः पत्र पीडादुहितृमरणं स्वशरीरव्याधिर्व्यसनसमागमश्चेत्यष्टासु । नवमेऽध्वगमनमर्थागमः कर्मसिद्धिश्च । कुम्भादर्शकर्णशस्त्रपदत्रिकूटेन्द्ररुचकहलगृहतोरणच्छत्रचन्द्रमेखलास्रुगुपवेदीपद्मशङ्खश्रीवत्सखस्तिकमत्स्यनन्द्यावर्त्ताकारैस्तु क्रमाद्विपुलोऽर्थागमः कुक्षिरोगो नेत्रपीडा[३४६] विरोधोऽध्वगमनमनारोग्यव्यसनमैश्वर्यमभिषेकागमः । प्रार्थितोत्पत्तिर्वेश्मलाभो धनागमो राज्यलाभः स्त्रीसङ्गमः सोमपानं क्रतुदीक्षां यज्ञफलावाप्तिर्विपुलार्थसम्पत्तिवेदनं स्त्रीलाभः सौख्यं काञ्चनागमोऽर्थसम्पच्च । कवन्धश्येनकेदारसर्पसूचीपाशमुद्गरलाङ्गलपीठिकाकारैर्मरणम् । द्विरदरथतुरगसदृशैर्यानपुत्रधनैश्वर्यावाप्तिः।हयगजभुजगतुलाचाषाकारैः संयुगः । दशासु मूले भार्याविनाशो मध्याग्रयोरर्थानाम् । पाशान्ते स्त्रीणाम् । सकलवस्त्रमध्यविनाशे मरणमुत्तरे पत्नीविनाशः । दक्षिणेऽपत्यापायः । तथा प्राग्भागे कुटुम्बविनाशाय । पूर्वदक्षिणे नारीणाम् । दक्षिणे सुहृदाम् । दक्षिणापरे पशूनाम् । पश्चिमे प्रेष्याणाम्। पक्षिमोत्तरे ज्ञातिवर्गस्य । पूर्वोत्तरे मध्यमे सर्वसम्पदाम् ।
तथा ।
नवे वस्त्रे यथोक्तं स्यात् फलं जीर्णे तु नेष्यते ।
न रक्ते न पुनर्धौते न स्वयं दग्धपाटिते ॥
अथास्वुभक्षणोपानच्छेदनलक्षणं व्याख्यास्यामः । तत्र विंशति श्छेदास्तेषां सप्त पूजिता विगर्हिताः शेषा भवन्ति । अङ्गुष्टादिकनिष्ठान्तं वैश्वानरदेशे प्रभक्षितेऽन्नपानस्त्रीवस्त्रलाभं विन्द्यात् । प्रदेशिन्यां स्त्रीवस्त्रलाभम् । मध्यमायां वधबन्धम्। अनामिकायां मातृमरणं स्वसृप्रजननं वा । कनिष्टिकायां पितृमरणं भ्रातुर्वा । नासातः स्त्रीधन
लाभम् । अङ्गुष्ठाङ्गुलिमूले व्याधिभयम् । चूलायां वैमनस्यम् । ग्रीवायां शिरश्छेदनम् । मूलादर्थयानपर्याप्तिम् [३४७]। कर्णिकासकलभक्षणे सन्धिच्छेदनम्।असकलेकलहोऽसत्प्रवृत्तिं च । पार्ष्णिबन्धेऽध्वगमनम्। पार्ष्णिस्थाने वाहनागमम् । बाह्यपदपुटच्छेदने भक्षणे तु सुहृद्भातृविनाशं विन्द्यात् । मध्यमस्य विपुलमर्थागमनम्। उत्तमस्य भूलाभम् । पदमध्ये शोकागमनम्। पार्श्वयोः पार्श्वरोगः । सकलोपानद्भक्षणे मरणविभ्रमप्रवासा भवन्ति ।
अपि च ।
न वासः फलसामग्र्यमर्धभक्तासु मध्यमम् ।
शुभाशुभं विनिर्देश्यं जीर्णासु न भवेत् फलम्[३४८]॥
वराहसंहितायां तु ।
वस्त्रस्य कोणेषु वसन्ति देवा नरास्तु पाशान्तदशान्तमध्ये ।
शेषास्त्रयश्चात्र निशाचराणां तथैव शय्यासनपादुकासु ॥
लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् ।
पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं चाधिकसुत्तरीये ॥
रुग्राक्षसांशेष्वथ वाऽपि मृत्युः पुंजन्म तेजश्च मनुष्यभागे ।
भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥
कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः ।
छेदाकृतिर्दैवतभागगाऽपि पुंसां भयं मृत्युसमं करोति ॥
छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्याः ।
छेदाकृतिनैर्ऋतभागगाऽपि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥
वस्त्रोत्पातशान्तिमाह पराशरः ।
विवर्णितं च यद्वस्त्रं विनश्येच्छेदमङ्गुलम् ।
विवर्णितं च यच्च स्यादनर्थाय विनिर्दिशेत् ॥
विलक्षणं त्यजेद्वस्त्रं समच्छेदमसङ्कुलम् ।
विवर्णितं च यद्वस्त्रं कृत्वा देवद्विजार्चनम् ॥
जपहोमोपवासैश्च तथा नाप्नोति किल्विषम् ।
विलक्षणमशोभनमिति ।
उपानदुत्पातशान्तिमाह पराशरः ।
गुरुवृद्धद्विजाचार्यस्नानमङ्गलसेवनात् ।
अंशुकानां च संयोगात् तस्माद्दोषात् प्रमुच्यते ॥
अत्रानुक्तविशेषशान्तिषु भूशय्यासनोत्पातेषु उपस्कारे वैकृतविहिता शान्तिः फलगुरुलाघवमवगम्य कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वस्त्रोपानहासनशयानाद्भुतावर्त्तः ।
अथ शस्त्राद्भुतावर्त्तः ।
तत्र पराशर: ।
धूमज्वाला शस्त्रांङ्गेऽवनिपतिविनाशाय । तथाऽऽयुधानां ज्वलनं धूमो व्याहारः कोशेभ्यश्च स्वयं निःसरणं परचक्रागमाय ।
वृद्धगर्गः ।
ज्वलन्ति यदि शस्त्राणि विनमन्ति नमन्ति च ।
कोशेभ्यो वा विनिर्यान्ति संग्रामस्तुमुलो भवेत् ॥
धावन्ते यदि शस्त्राणि निपतन्त्युत्पतन्ति च ।
तूणीरात् सहसा वाणा उद्गिरन्ति नदन्ति वा ॥
शुभा वाऽथापि मूर्छन्ति धनूंषि प्रलपन्ति च ।
येषु देशेषु तेषु स्यात् संग्रामस्तुमुलात्मकः ॥
वार्हस्पत्ये ।
ज्वलन्ति यदि शस्त्राणि विनमन्त्युन्नमन्ति च ।
कोशेभ्यश्च विनिर्यान्ति संग्रामस्तुमुलो भवेत् ॥
गर्जन्त्यायुधशस्त्राणि दहन्ति व्याहरन्ति वा ।
धनुर्वा सहसा बाणाः संग्रामस्तुमुलो भवेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
आयुधेषु प्रदीप्तेषु धूमायत्सु तथैव च ।
निर्यात्सु कोशाच्च तथा संग्रामस्तुमुलो भवेत् ॥
शुभा वाऽथापि मूर्छन्ते धनूंषि विकृतानि च ।
विकारश्चायुधानां स्यात् तत्र संग्राममादिशेत् ॥
वराहसंहितायां ।
आयुधज्वलनसर्पणस्वनाः कोशनिर्गमनवेपनानि वा ।
वैकृतानि यदि वाऽऽयुधेऽपराण्याशु रौद्ररणसंकुलं वदेत् ॥
औशनसे ।
नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः ।
तदा शस्त्रभयं तेषु देशेषु[३४९] च विनिर्दिशेत् ॥
मत्स्यपुराणे देवासुरयुद्धनिमित्तम् ।
"ततो जज्वलुरस्त्राणि......"[३५०]।
भीष्मपर्वणि च कुरुपाण्डवयुद्धनिमित्तम् ।
"निश्चेरुरचिर्षश्चापात् खड्गाश्च ज्वलिता भृशम् ।
व्यक्तं पश्यन्ति रूपाणि संग्रामं समुपस्थितम्”[३५१] ॥
आदिपर्वणि गरुडयुद्धनिमित्तम् ।
"इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात् ततः ।
सधूमान्यपतन् सार्चिर्दिवोल्का नभसश्च्युताः ॥
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ।
साध्यानां मरुतां चैव ये चान्ये देवता गणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्"[३५२] ।
अरण्यकाण्डे रामवाक्यम् ।
“सधूमा इषवश्चेमे महायुद्धाभिनन्दिनः ।
रुक्मपृष्टमिदं चापि चापं विस्फुरतीव मे ॥
संप्रहारं सुतुमुलो भवितेह न संशयः” [३५३]
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
"जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष"[३५४]।
तत्रैव द्रोणवाक्यम् ।
"उत्पतन्त इमे बाणा धनुः प्रस्फुरतीव मे ।
योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्त्तते मनः"[३५५]॥
क्रूरं संयोमस्त्राणि नेच्छन्तीति पराजयनिमित्ताभिधानम् ।
स्कन्दपुराणे देवासुरयुद्धनिमित्तम् ।
धूमायते इन्द्रवज्रम् ........।
तथा ।
नागा इव शराश्चास्य निर्वेमुर्ज्वलनं मुखे ।
आयुधानि च दीप्यन्ते सधूमं शक्रनन्दन ॥
वराहसंहितायाम् ।
क्वणितं मरणायोक्तं पराजयाय प्रवर्त्तनं कोशात् ।
स्वयमद्भुते च युद्धं ज्वलिते विजयो भवति खड्गे ॥
विष्णुधर्मेत्तरे ।
मही घृतसगन्धा च यत्रोत्पलसुगन्धिनः ।
वर्णतश्चोत्पलाकाराः सवर्णा गगनस्य च ॥
खङ्गाः शस्यन्त इति सम्बन्धः ।
वराहसंहितायाम् ।
करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः
शुभदोऽनिष्टो गोमूत्रपङ्गमेदःसदृशगन्धः ॥
कूर्मवासकक्षारोपमश्च भयदुःखदो भवति गन्धः ।
वैडूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥
विष्णुधर्मोत्तरे ।
समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव ।
श्रीवृक्षपर्वताकारा लिङ्गपद्मनिभाश्च ये ॥
मङ्गलानां तथाऽन्येषां सदृशा ये च भार्गव ।
काकोलूकसवर्णाभा विषमाङ्गुलिसंस्थिताः ॥
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ।
वराहसंहितायाम् ।
कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः ।
खड्गे व्रणा न शस्ता वंशानुगताः प्रभूताश्च ॥
श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम् ।
सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥
पत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च ।
एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत् क्रमशः ॥
सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ ।
क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥
लब्धिर्हानिः स्त्रीलब्धयो वधो वृद्धिमरणपरितोषाः ।
ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥
वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् ।
ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशदिति यावत् ॥
विष्णुधर्मोत्तरे चापलक्षणे ।
व्रणानां लक्षणं चास्य भविष्यति तु खड्गवत् ।
अत्र शस्त्रज्वालनेऽग्न्यद्भुतावर्त्तलिखिताऽऽग्नेयी[३५६]शान्तिः कर्त्तव्या इति ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वाल्लालसेनदेवविरचितेऽद्भुतसागरे शस्त्राद्भुतावर्त्तः
अथ पुराद्भुतावर्त्तः ।
तत्र पराशरः ।
साधुद्विजविहङ्गशूरपतिधार्मिकैः पुरपरित्यागः पुरविनाशाय ।
भागवते कृष्णोत्क्रान्तिनिमित्तम् ।
“इमे जनपदग्रामाः पुरोद्यानकराश्रमाः ।
भ्रष्टश्रियो निरानन्दाः किमिदं दर्शयन्ति नः"[३५७] ॥
मौशले वृष्णिक्षयनिमित्तम् ।
“प्रविद्धभूषिका रथ्या विभिन्नफणिकास्तथा"[३५८] ।
अत्रापि सावित्रीमन्त्रकलक्षहोमादिका सामान्या शान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पुराद्भुतावर्त्तः ।
गार्गीये ।
दिव्यस्त्रीपुरुषयोर्यत्र भूतगन्धर्वयोस्तथा ।
दर्शनं च विमानस्य नगरे यदि लक्ष्यते ॥
सामान्यपुरराष्ट्रस्य दुर्गकोषान्वितस्य च ।
तदा महीपतेस्तत्र विनाशो भवति ध्रुवम् ॥
नगरे राजधान्याम् । अन्यत्र तु देशानुपरम् ।
तथा औशनसे ।
दर्शनं देवयोनीनामसद्रूपस्य वा नृभिः ।
तद्देशस्य विनाशाय तत् प्राहुर्यस्य दर्शनम् ॥
पराशरः ।
रक्षःपिशाचपतङ्गैः पथिरोधनं जनमारभयाय ।
बार्हस्पत्ये ।
रक्षःपतङ्गैः पन्थानो न वहन्ते भयान्विताः ।
रक्षोरूपाणि दृश्यन्ते वनरथ्यागृहेष्वपि ॥
संप्रदृष्टैः पिशाचैर्वा रक्षोभिर्वाऽपि तापते ।
नगरं त्वचिरात् कालाज्जनमारेण वाध्यते ॥
उत्तरकाण्डे माल्यवदादिवधनिमित्तम् ।
“अट्टहासान् विमुञ्चन्तो घननादसमस्वानाः ।
वाश्यन्तश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥
भूताः परिपतन्ति स्म दृश्यन्ते तु सहस्रशः"[३५९]।
मौशले वृष्णिक्षयनिमित्तम् ।
"करालो विकटो मुण्डः परुषः कृष्णपिङ्गलः ।
स्कन्दपुराणे त्रिपुरदाहनिमित्तम् ।
अपवादाश्च श्रूयन्ते पुण्याहोदीरणेषु च ।
मत्स्यपुराणे ।
"हिंसहिंसेति श्रूयन्ते गिरश्च भयदाः पुरे"[३६३] ।
स्कन्दपुराणे प्रह्लादपराजयनिमित्तम् ।
निर्वाताः साशनिरवा गिरो हाहा रवा दिशः ।
उत्तरकाण्डे शैलृषसुतानां वधनिमित्तम् ।
“प्रादुरासीन्महाञ्छब्दः खे शरीरं न दृश्येत ।
सर्वेषु राजन् देशेषु तदद्भुतमिवाभवत्" [३६४] ॥
गदापर्वणि दुर्योधनवधनिमित्तम् ।
"अशरीरा महानादाः श्रूयन्ते स्म तदा नृप"[३६५] ।
तत्रैव पाण्डवशिविरक्षयनिमित्तम् ।
"यक्षाणां राक्षसानां च पिशाचानां तथैव च ।
अन्तरिक्षे महानादः श्रूयते भरतर्षभ"[३६६] ॥
स्कन्दपुराणे देवानां परजयनिमित्तम् ।
मुहूर्त्तेन चिरं कालं भवता चोभयं सुराः ।
पराभवं च शत्रूणां भविष्यति महद्भयम् ॥
इत्येवं नभसो वाचो महागम्भीरनिःस्वनाः ।
औशनसे ।
ब्राह्मणा यत्र वध्यन्ते ग्रामे राष्ट्रेऽथ वा पुरे ।
राजधानीषु वा यत्र तत्राभावस्य लक्षणम् ॥
मत्स्यपुराणे ।
एतेष्वभ्यर्चयेच्छक्रं सपत्नीकं द्विजोत्तम ।
भोज्यानि चैव कार्याणि ब्राह्मणानाशयेत् सदा ॥
गावश्च दद्याद्द्विजपुङ्गवेभ्यो भुवं तथा काञ्चनमन्दिराणि ।
होमश्च कार्यो द्विजपूजनं च एवं कृते शान्तिमुपैति पापम् ॥
बार्हस्पत्ये तु ।
अपूज्या यत्र पूज्यन्ते पूजनार्हा न कर्हि चित् ।
पूज्येऽवमाननिष्ठा च भयस्येतन्निदर्शनम् ॥
अधीयन्ते नार्हयन्ति ब्राह्मणा बलिभिः सुरान् ।
भिन्नाः कौटिल्यबहुला नराः परुषवादिनः ॥
ब्राह्मणाश्च निरुत्साहाः सन्ध्यासत्यविवर्जिताः ।
शीलाचारविहीनाश्च मद्यमांसानृतप्रियाः ॥
नराः पाखण्डभूयिष्ठा विनाशे पर्युपस्थिते ।
महाबलिं महाशान्ति भोज्यानि सुमहान्ति ॥
पूजयेत् तु महेन्द्रं च महादेवमथापि वा ।
ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रे रौद्रीं प्रयोजयेत् ॥
गवामष्टशतं दद्याद्विप्रेभ्यो मनुजाधिपः ।
गुरवे दक्षिणां दद्यात् पूजास्वेवं शुभं भवेत् ॥
मयूरचित्रे ।
अग्रहारे पुरे ग्रामे कलिर्यत्र महान् भवेत् ।
निर्निमित्तं प्रकृत्या वा द्विजैर्वा नृपतेर्भयम् ॥
शान्तिस्तु षोडशी तत्र कर्त्तव्या दिव्यचोदिता ।
यद्वा पैतामही शान्तिर्यथेयमुपदिश्यते ॥
अष्टोत्तरशतं तत्र पालाशीर्जुहुयाच्छुचिः ।
समिधोऽथ वृषं धेनुं दद्यात् साज्यं च पायसम् ॥
अथ वा यमलोत्पत्तायुक्ता शान्तिरिहापि वा ।
मार्कण्डेयपुराणे ।
कलहाकलहं गेहे करोत्यविरतं नृणाम् ।
कुटुम्बनाशहेतुं च तत्प्रशान्तिं निबोध मे ॥
दूर्वाङ्कुरान् मधुघृतक्षीराक्तान् बलिकर्मणि ।
विक्षिपेज्जुहुयाच्चैवानलं मन्त्रं च कीर्त्तयेत् ॥
भूतानां मातृभिः सार्धं बालकानां तु शान्तये ।
विद्यानां तपसां चैव शाम्यमस्य यमस्य च ॥
कृषिवाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा ।
कूष्माण्डी यातुधानाश्च ये चान्ये गणसंज्ञिताः ॥
महादेवप्रसादेन नन्दीश्वरमतेन च ।
सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु वै ॥
तुष्टाः सर्वं निरस्यन्तु दुष्कृतं नुरनुष्ठितम् ।
महापातकजं सर्वं यच्चान्यद्विघ्नकारकम् ॥
तेषामेव प्रसादेन विघ्ना नश्यन्ति सर्वशः ।
विवादेषु विवाहेषु वृद्धिकर्मसु चैव हि ॥
पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च ।
जपयज्ञाभिधानेन यात्रासु च चतुर्दशम् ॥
शरीरारोग्यभोग्येषु सखारम्भे धनेषु च ।
वृद्धबालातुरेष्वेवं शान्तिं कुर्वन्तु मे सदा ॥
आग्नेये ।
अकस्माच्छत्रुकलहे आग्नेयीं शान्तिमाचरेत् ।
शमस्वेत्यादिभिर्मन्त्रैर्नवभिर्जुहुयाद्घृतम् ॥
चरुं हुत्वा स्वयं प्राश्य दद्यात् स्वयं च दक्षिणाम् ।
यत्र वा कलहस्तस्मात् तत्र शान्त्युदकं परम् ॥
सदाचारा द्विजा यत्र युध्यन्त्यायुधपाणयः ।
तत्र देशविनाशः स्यादैन्द्रीं शान्तिं समाचरेत् ॥
आयाहि त्वं प्रभृतिभिर्मन्त्रैरष्टाभिराहुतिम् ।
आज्यस्य जुहुयादष्टौ होम ऐन्द्रचरोस्ततः ॥
इन्द्रः पूज्यो बलिर्देयो गोदानं द्विजपूजनम् ।
मयूरचित्रे ।
स्त्रियाश्चैव मनुष्यस्य केशाकेशि भवेद्यदा ।
आभीक्ष्णकलहौ तौ च विवादो यत्र मन्त्रिणा ॥
चाण्डाला ब्राह्मणैः सार्धं विवदन्ते तु यत्र वै ।
भयं तत्र प्रदेष्टव्यममात्यस्य वधस्तथा ॥
श्रेष्ठीनां सार्थवाहानां वधोऽन्यस्य जनस्य च ।
प्राजापत्या ततः शान्तिः कर्त्तव्या पापनाशिनी ॥
अश्वत्थसमिधं हुत्वा घृताक्तां मधुसंस्कृताम् ।
सावित्र्याऽष्टसहस्रेणा प्राजापत्यैस्तु यत्नतः ॥
पायसान् भोजयेद्विप्रान् हुतान्ते भूरिदक्षिणाम् ।।
तत्रैव ।
केशाकेशिफलं भूमौ पातयेच्च कलिं कुले ।
न शुभा याऽत्र सा शान्तिर्या गोधागृहवेशने ॥
नार्यौ द्वे केशसंलग्ने पततो गृहचत्वरे ।
अर्थहानौ ततः शान्तिर्होमो भोजनदक्षिणा ॥
गार्गीये ।
उह्यमानः शवोऽकस्मात् क्षितावभिपतेद्यदा ।
यत्कुलेऽसौ शवस्तेषां विनाशो भवति ध्रुवम् ॥
नारदः ।
शवस्तु नीयमानस्तु भूमौ निपतते यदि ।
कुटुम्बमरणं तत्र धनधान्यपरिक्षयः ॥
इमा रुद्रेति मन्त्रेण जुहुयात् सर्पिषा हुतिम् ।
आहुती द्वे सहस्रे च होमश्च कथितो भवेत् ॥
वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
मयूरचित्रे ।
मृतः श्मशानं नीतो यः प्रत्युज्जीवति मानवः ।
स्वस्थो वा भवति क्षिप्रं पुनरायाति मन्दिरम् ॥
स देशः क्षीयते क्षिप्रं परचक्रेण हन्यते ।
यमदृष्ट्या ततः शान्तिः सक्षीराः समिधः शतम् ॥
घृताक्ता जुहुयाद्विप्रो हुतान्ते भूरिदक्षिणाम् ।
सावित्र्याऽष्टसहस्रेण क्षीरशान्तिं च कारयेत् ॥
कपिला गौस्तिलं कांस्यं देयं यममतं यथा ।
पराशरः ।
मृतो वा व्याहरेद्गच्छेद्यत्र तत्र भयं वदेत् ।
अत्र सावित्रीमन्त्रदशलक्षहोमादिका सामान्या शान्तिः कर्त्तव्या।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मानुषाद्भुतावर्त्तः ।
अथ षिटकाः सितरक्तपीतकृष्णवर्णा द्विजादीनां वर्णानां क्रमात् स्थानवर्णविशेषेण सकलफलदा भवन्ति । तत्र सुव्यक्तः स्निग्धः सुवर्णाऽभिषेकागमं कुर्यात् । शिरसि धनागमम् । केशान्ते सौभाग्यम् । ललाटे धनसंचयम् । ध्रुवोर्दौर्भाग्यम् । संगरे दौःशिल्यमिष्टसंगमं च । नेत्रपुटयोः शोकम् । नेत्रयोरिष्टदर्शनम् । शङ्खभेदे प्रव्रज्या । चिन्तामश्रुपाते । गण्डयोः सुतनाशम् । नासावंशे वस्त्रलाभम् । अन्येषूत्पन्नं सुरभिसंगमंच चिवुकाधरोष्ठाधरेष्वर्थमभिप्रेतम् । हन्वोर्धनागमम् । गले पानमाभरणं च । शिरःसन्धौ ग्रीवायां चोपघातं शस्त्रेण । कर्णयोस्तद्भूषणमानन्दश्रवणम् । पार्श्वयोः शोकम् । उरसीष्टसंगमम् । स्कन्धयोर्भैक्षचर्याम् । कक्षयोरर्थक्षयम् । हृत्स्तनयोः पुत्रलाभम् । पृष्ठे दुःखशमनम् । अरिविनाशो बाह्वोः । प्रबाह्वोराभरणम् । मणिबन्धे नियमः । पाणौ धनागम् । भाग्यं चाङ्गुलोषु । शोकमुदरे । अन्नपानावाप्तिर्नाभौ । चौरैरर्थहरणमधरे । धनधान्यावाप्तिर्वस्तौ । सौभाग्यमर्थलाभं वृषणयोः । पुत्रजन्म स्त्रीलाभं मेहने। गुदे सौभाग्यम् । मानाङ्गनालाभमूर्वोः । जानुनोररिभिरुपघातम् । शस्त्रेण जङ्घायाम् । गुल्फयोरध्वपरिक्लेशागमनम्। स्फिजोरपहरणम् । पार्ष्णितलयोरगम्यागमनम् । अङ्गुलीष्वङ्गुष्ठे ज्ञातिपूजा-इति ।
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
अङ्गाद्दक्षिणभागे तु शस्त्रेषु स्फुरणं भवेत् ।
अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥
दक्षिणपार्श्वस्पन्दनमिष्टं हृदयं विहाय पृष्ठे च ।
बृहद्यात्रायां वराहः ।
दक्षिणपार्श्वस्पन्दनमभिधास्ये तत्फलं क्षयो वामे ।
पृथ्वीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्यात् ॥
भ्रूनासिकान्तरे प्रियसमागमो मृत्युलब्धिरक्षिनसोः ।
दृक्म्पर्यन्तेऽर्थाप्तिः पूर्वे ज्ञेयाऽत्र पाकं वा ॥
योषित् सम्यग्गण्डे दृक्कर्माधश्च सङ्करे विजयः ।
श्रवणे रहितश्रवणं नासायां प्रीतिसौमुख्यम् ॥
अधरोष्ठयोः प्रियसमागश्च वेद्यो गले च भोगाप्तिः ।
अंसे भोगविवृद्धिर्वाहाविष्टेन संयोगः ॥
हस्तेऽर्थाप्तिः पृष्ठे पराजयो वक्षसि स्मृतो विजयः ।
प्रीत्युप्तिः पार्श्वे स्तने त्वपूर्वा विजयलब्धिः ॥
कट्यां वरप्रमोदौ स्थानभ्रंशः प्रकीर्त्तितो नाभौ ।
अन्त्रे कोषविवृद्धिः क्लेशो हृदयेऽर्थपर्यन्तः ॥
वाहनलाभः स्फिक्पायुवेपने योषिदागमनम् ।
शिश्ने तनयोत्पत्तिर्वस्तावन्तःपुराभ्युदयः ॥
पृष्ठत उर्वोर्दोषः पुरतश्चलनेन सार्वहितलब्धिः ।
प्रचलति च जानुसन्धावरिसन्धानं वलवदुक्तम् ॥
देशैकदेशनाशो जङ्घायां स्थानलब्धिरङ्घ्रिपरम् ।
अध्वगमनं सलाभं चरणतलस्पन्दमाने तु" ॥
वसन्तराजः ।
स्याद्भूमिलाभः स्फुरितेन मूर्ध्नि स्थानप्रवृद्धिश्च ललाटदेशे।
भ्रृप्राणमध्ये प्रियसङ्गमाय नासाक्षिमध्ये च सहायलाभः ॥
दृगन्तमध्ये स्फुरणेऽर्थसम्पदुत्कण्ठता स्यात् स्फुरिते दृगादौ ।
जयोदृशोऽधःस्फुरणेरणे स्यात् प्रियश्रुतिः स्यात् स्फुरिते च कर्णे॥
योषित्समृद्धिः स्फुरिते च गण्डे घ्राणेन सौगन्ध्यमुदौ भवेताम् ।
भोज्येष्टसङ्गावधरोष्ठयोश्च स्कन्धं गले भोगविवृद्धिलाभौ ॥
स्पन्दे भुजस्य प्रियसङ्गमाय स्पन्दः करस्य द्रविणाप्तिहेतुः ।
स्पन्दस्तु पृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवानाम् ॥
भवेच्च पार्श्वस्फुरणे प्रमोदः स्तनप्रदेशे विषयस्य लाभः ।
कट्यां भवेतां तु बलप्रमोदौ स्थानस्य हानिः स्फुरितेन नाशः ॥
वृद्धिस्तथाऽन्त्रस्फुरणे धनस्य दुःखं धनान्तं हृदयस्य चान्तः ।
स्फिक्पार्श्वकम्पे वरवाहनाप्तिर्वराङ्गकम्पे वरयोषिदाप्तिः ॥
गुह्यप्रकम्पे तनयस्य जन्म वस्तिप्रकम्पे युवतिप्रवृद्धिः ।
दोषं प्रजल्पन्ति तथोरुपृष्ठे उरोः पुरः स्यात् सुसहायलाभः ॥
स्याज्जानुसन्धिस्कुरिते च सन्धिर्जङ्घाप्रकम्पेऽपि च लाभनाशः ।
स्थानातिरुवं चरणप्रकम्पे यात्रा सलाभाऽपि तलप्रकम्पे ।
विष्णुधर्मोत्तरे ।
दक्षिणेऽतिप्रशस्तेऽङ्गे प्रशस्तः स्याद्विशेषतः ।
अप्रशस्ते तथा वामे अप्रशस्तं विशेषतः ॥
पराशरः ।
उत्पातगण्डपिटका दक्षिणतो वामतस्त्वनभिघाताः ।
धन्या भवन्ति पुंसां तद्विपरीताश्च नारीणाम् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
लाञ्छनं पिटकं चैव ज्ञेयं स्फरणवत् तथा ।
विपर्ययेणाभिघातं सर्वं स्त्रीणां विपर्ययम् ॥
वसन्तराजः ।
मशकं तिलकं पिटकं वाऽपि व्रणमथ चिह्नं किमपि कदाऽपि ।
स्फुरितं यदाऽधितिष्ठति यावत् स्यात् पूर्वोक्तां फलमपि तावत् ॥
व्रणपिटकतिलकलाञ्छनमशादयस्त्वेव निर्दिष्टाः ।
कण्डूयनं नरपतेर्दक्षिणपाणौ जयायेति ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
अतोऽन्यथा सिद्धिरजल्पता तत्फलस्य शस्तस्य त निन्दितस्य ।
अनिष्टचिह्नोपगमे द्विजानां कार्यं सुवर्णेन तु तर्पणं स्यात् ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पिटकाद्भुतावर्त्तः ।
अथ स्वप्नाद्भुतावर्त्तः ।
तत्र पराशरः ।
अभियातव्यदिगीशेन्द्रयमवरुणसोमेभ्यः पृथिव्यै वायवे सूर्याय ग्रहेभ्यश्च यथाकल्पं यथामन्त्रं यथोपहारमपकृत्य शुचौ देशे कुशसंस्तृतायां भूमौ शय्यायां शीर्षकश्रियै पदाभ्यां भद्रकाल्यै बलिमुपहृत्योभयतः सर्वरत्नवीजौषधिगर्भान् नवानुदकुम्भान् कल्पयित्वा कृतस्वस्त्ययनः सावधानः शुचिः सूक्ष्मक्षौमाहतवसनः प्राङ्मुखो रुद्रेति हृदि रुद्रं समाधायातिरुद्रं जपेत् स्वप्नदर्शनार्थी ।
बृहद्यात्रायां वराहः ।
दूकूलमुक्तामणिभृन्नरेन्द्रः समं त्रिदैवज्ञपुरोहितो यः ।
स्वदेवतागारमनुप्रविश्य निवेशयेत् तत्र दिगीश्वरार्चाम् ॥
अभ्यर्च्य मन्त्रैस्तु पुरोहितस्तामधश्च तस्यां भुवि संस्तृतायाम् ।
दर्भैस्तु कृत्वा स्तरमक्षतैस्तु किरेत् समन्तात् सितशर्षपैश्च ॥
ब्राह्मीं सदूर्वामथ नागपुष्पं कृत्वोपधानं शिरसि क्षितीशः ।
पूर्णान् घटान् पुष्पफलापिधानानाशासु कुर्याच्चतुरः क्रमेण ॥
यज्जाग्रतो दूरमुदैति दूरमावर्त्त्य मन्त्रान् प्रयतस्त्रिरेतान् ।
लघ्वेकभुग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम् ॥
नवः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।
वामनाय विरूपाय स्वप्नाधिपतये नमः ॥
भगवन् देव देवेश शूलभृद्वृषवाहन ।
इष्टानिष्टे समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥
एकवस्त्रः कुशास्तीर्णे सुप्तः प्रयतमानसः ।
निशान्तं पश्यति स्वप्नं शुभं वा यदि वाऽशुभम् ॥
सत्याचार्यः ।
आयुस्तृतीयभागे शेषे गतिजः प्रकीर्तितः स्वप्नः ।
पूर्वे काले त्वागामिकोद्भवास्त्वेव निर्देश्याः ॥
अनूक आद्ये स्मृत आयुषोऽंशे शेषे त्रिभागे गतिजः प्रदिष्टः ।
गतैष्यजात्यन्तरसत्त्वसङ्गः स्वप्ने ह्यनूके गतिजे च नित्यम ।
धातुप्रकोपग्रहपाकचिन्ता दुष्टाऽभिचारोद्भवगुह्यकोत्था ।
धातोः प्रकोपादनिलात्मकस्य तच्चाद्रितुङ्गस्थललङ्घनानि ॥
पित्तेऽधिके काञ्चनरक्तमाल्यदिवाकराग्निज्वलनानि पश्येत् ।
श्लेष्माधिकश्चन्द्रभशुक्लपुष्पसरित्सरोऽम्भोनिधिलङ्घनानि ॥
जघन्यमध्यप्रथमे निशांशे प्रावृट्शरन्माधवसंज्ञिते च ।
काले मरुत्पित्तकफप्रकोपाः साधारणः स्यात् खलु तन्निपातः ॥
दशासु चोक्तं ग्रहपाकजातं चिन्तावदृष्टं न यथा तथैव ।
बीभत्ससत्त्वाभिभवोपचारे विश्वोद्भवो गुह्यकजः प्रदिष्टः ॥
अनूकचिन्तागतिदोषदृष्टान्यभीक्ष्णकर्माणि च निष्फलानि ।
अदृष्टदीर्घाः कथिताश्च तद्वदनित्यपाकाः कथितावशेषाः ॥
तस्य त्रिविधं दर्शनमपार्थकं यथार्थमन्यार्थं च । मनो हि निद्रानिहिततत्त्वविज्ञानं कदाचिदतिहर्षशोकक्रोधचिन्ताभयमदप्रमोदैर्ष्याकलुषितमतिदृष्टश्रुतार्थभूतार्थभावितमाविशुद्धधातुदोषप्रकोपप्रतापप्रतप्तेन्द्रियमिवोद्भवान्तमवशमभिक्षिप्तमतिवहुशोऽतिव्याकुलं दिवावृत्तं वा स्वप्नगतमनुभवति तदनियतमपार्थकंचोपदिशन्ति ।
कायवाङ्मनोविशुद्धानां चातिसत्त्वानां देवताः प्रत्यक्षवदभि
दर्शयन्ति तद्यथार्थमित्याचक्षते । न चानिमित्तभाविनो भावाः ।
कालो हि भूतार्थनिमित्तमेष्यफलबोधकं स्वप्नाख्यमभिदधाति ।
तदन्यथा दृष्टमन्यथानियतफलमिति भवति चात्र मनोविकारजस्वप्नमभिवाञ्छन्त्यपार्थकम् । यथार्थदर्शनार्थत्वाद्यथार्थं देवताश्रयं वा ।
योह्यन्यदर्शनादन्यफल आत्मनिमित्तजस्तमन्यार्थमनेकार्थं
प्रवक्ष्याम्यखिलार्थतोऽव्यः ।
चरकस्तु ।
दृष्टं श्रुतार्थभूतं च प्रार्थितं कल्पितं तथा ।
भावितं दोषजं चैव स्वप्नं सप्तविधं विदुः ।
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत् ।
बृहद्यात्रायां वराहः ।
प्रत्यक्षवद्भवति यः स्फुरतीव चान्तः
स्वप्नस्य तस्य नियमात सदसत्फलाप्तिः ।
स्वप्नाः शुभाशुभफलाः कथितानराणा
मुद्वेशमात्रमिह तानपवर्णयामि ॥
तव शुभं स्वप्नमाह पराशरः ।
तत्रावनेर्भुजगनलेनोद्धृत्य स्कन्धारोपणे वा ग्रसनमभिलङ्घनमर्कचन्द्रसंभक्षणं तृणमधिरोहणमुदधिसलिलसकलाभिपानमभितरणमवनेश्च रुधिरपरिप्लावनमन्त्रैरविकलपरिवारणं भुजापरिष्वञ्जनं वा सकलवसुधाधिपत्याय । तथा स्निग्धहरितफलितसितसुरभिकुसुमकुसुमितप्रशस्ततरुसमधिरोहरणम् । बृहदमलदृढहर्म्यश्वेतगजमस्तकक्षितिधरसितशिखरज्वालितरथनृपतिशिरसामपि । नरशिरोभक्षणमसृग्ह्रदावगाहनमभिषेचनपानानुलेपनमवनिविजयाय राज्ञाम् । अराज्ञामिष्टधनविद्यासुखाधिपत्याय ।
बृहद्यात्रायां वराहः ।
स्वाङ्गप्रज्वलनं परोपशमनं शक्रध्वजालिङ्गनं
दृक्संयुक्तचरैर्निपत्य च तरोः प्रक्षेपणं दिक्षु च ।
बद्धो वा निगडैर्प्रसेच्य दहनं नानाशिरोवाहुना
छत्रं वा द्विरदोऽभिषिच्य विभृयाद्दिव्योऽथ वा ब्राह्मणः ॥
उडुपदिनकृद्भङ्गः शृङ्गं च्युतास्वभिषेचनं
यदि च महिषीसिंहीव्याघ्रीगवां मुखदोहनम् ।
जठरनिसृतैश्चान्त्रैर्ग्रामद्रुमाद्रिविचेष्टनं
विशति यदि वा सुश्लिष्टाङ्गीतनुः प्रवराङ्गना ॥
नरजहृदयमूर्धाभक्षणं वा स्वदेहे
सुतनुभुजगसिंहेभाममांसादनानि ।
तृणतरुकुसुमाम्बुप्रोद्भवो वा स्वनाभौ
क्षितिगिरिपरिवर्त्तोन्मूलने वाऽधिराज्यम् ॥
दिनकरशशिताराभक्षणस्पर्शनानि
हरणमपि च मूर्ध्नः सप्तपञ्चत्रिधा वा ।
वृषभगृहनगेन्द्राश्वेभसिंहाधिरोहा
ग्रसनमदधिभम्याश्चाधिराज्यप्रदानि ॥
विपुलरणविमर्दद्यूतवादैश्च जित्वा
पशुमृगमनुजानां लब्धिरध्यासनं वा ।
विलसनपरिलेपोऽगम्यनारीगमो वा
स्वमरणशिखिलाभः शस्यसंदर्शनं च ॥
सितसुरभिमनोज्ञालेपमाल्याम्बराणां
द्विजसुरगुरुराज्ञां[३६७] दर्शनान्याशिषश्च ।
मणिरजतसुवर्णाम्भोजपात्रेषु भुङ्क्ते
यदि दधिपरमान्ने मज्जतेऽसृग्ह्रदे वा ॥
सिततुरगफलध्वजातपत्रव्यजनसरोजमणिद्विजेन्द्रलाभः ।
अभय विजय भुङ्खवेति शब्दाः परिणतराज्यफलप्रदाः प्रदिष्टाः ॥
योगयात्रायां वराहः ।
खं लेढि जिह्वया यः स्युरदक्षो दीर्घयाऽवरः स्वप्ने ।
अपि दासकुले ज्ञातः स सागरान्तां महीं पाति ॥
पराशरः ।
दुर्गाधिरोहणं स्वभुजचलान्मानुषामनुषद्विषदनिमित्तपातनमसिशरकवचचापभूषणान्यप्रहरणलाभोऽरिविजयाय । सिंहव्याघ्रतुरगर्षभगजनररथादिरोहणममलसलिलपुलिनविमलनभोग्रहार्कचन्द्रतारोदयाभिदर्शनम् । दर्शनं च सुरगुरुनृपतिसिद्धद्विजाचार्यकसितसुरभिकुसुमितवनप्ररूढवनहरितोद्यानविविधवननवशस्यपाकापाण्डुप्रवर्त्तितमहीतलानां तथाऽऽममत्स्यमांसभक्षभिः स्वाङ्गारशमनं पराननाङ्गसंभक्षणमभिनववास्तुप्रवेशकरणदर्शनमभिप्रवेशोऽवनिपतिमहिषीणां भवनशयनासनाङ्गज्वलनशकृदनुलेपनप्रभक्षणमदि-
रान्नपानसङ्गाभिताडनमगम्याभिगमनपलितपाणिसमेतवृद्धकेशश्मश्रुनखरोम्णामभिलखितकार्यसिद्धवृद्धयेऽधमानाम् ।
योगयात्रायां वराहः ।
शाद्वलतीरोपान्तां वसुधां नवशस्यशालिनीमटताम् ।
पद्मानि चिन्वतां वा स्वप्नान्ते वृद्धयः पुंसाम् ॥
शोकश्चिन्ता रुदितं व्याकुलता वन्धनं वधः क्लेशः ।
वृद्धिकराण्युक्तानि स्वप्नान्ते वाऽपि मरणानि ॥
पराशरः ।
सिंहव्याघ्रतुरगर्षभभुजङ्गमानां लाभो लाभश्च सितकुसुमितलतास्रग्वीणासनशयनकर्णिकाञ्जलिकादशनयवनपादुकास्थवृककङ्काविकानां स्त्रीलाभाय । वृश्चिकाहिदर्शनं मणिरत्नदर्शनं काञ्चनप्रदीपगजकलभतुरगकिशोरवत्सहंससर्पार्भकलाभः पुत्रलाभाय ।
बृहद्यात्रायां वराहः ।
मुद्रादृषदञ्जनीविपञ्चीस्त्रीसङ्गारिषु चाङ्गनाप्तिरुक्ता ।
लब्धे सरकेऽथ दर्पणे वा भृङ्गारादिषु चोद्भवं सुतस्य ॥
चरकः सुश्रुतश्च ।
स्वप्ने चोपलभेत पद्मोत्पलकुमुदामातकादीनि ।
पुन्नामधेयान्येव प्रसन्नमुखवर्णता भवेत् ब्रूयात् ॥
पुत्रमियं जनयिष्यति तद्विपरीतेति सा कन्याम् ।
पराशरः ।
श्वेतसूक्ष्माविरजःप्रशस्ताहतवसनभृङ्गारव्यजनसितचामरध्वजातपत्रद्विरदपायससैन्धवलवणदधिपयःप्रशस्तसितकुसुमवनशस्य लाभोऽर्थलाभाय ।
बृहद्यात्रायां वराहः ।
सिद्धिप्राप्तिः स्याद्धि कोषेऽसिलाभो वश्यो राजा जायते शासनाप्त्यै । तथा ।
क्रैपिण्यै धनलब्धिरम्बुतरणे शोकस्य नाशो भवेद्वर्षे रोदितशोचितादिषु तथा दाहे विवृद्धिः स्मृतः ।
विष्णुपुराणविष्णुधर्मोत्तरयोः ।
शैलप्रासादनागाश्ववृषभारोहणं हितम् ।
द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज ।
तृणद्रुमोद्भवो नाभौ तथैव बहुलाभता ।
तथा च बहुशीर्षत्वं पतितोद्भव एव च ॥
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बधारिता ।
चन्द्रार्कताराग्रसनं परिमार्जनमेव च ॥
भूम्यम्बुधीनां ग्रसनं शत्रूणां च वधक्रिया ।
जयो विदादद्यूतेषु संग्रामेषु तथा द्विजन ॥
भक्षणं चार्द्रमांसानां मत्स्यानां पायसस्य च ।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥
सुरारुधिरमद्यानां पानं क्षीरस्य वाऽप्यथ ।
अन्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ॥
मुखेन दोहनं शस्तं महिषीणां तथा गवाम् ।
सिंहीनां हस्तिनीनां च वडवानां तथैव च ॥
प्रासादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः ।
अम्भसा त्वभिषेकस्तु गवां शृङ्गश्रुतेन च ॥
चन्द्राद्भ्रष्टेन वा राज्ञा ज्ञेयं राज्यप्रदं हि तत् ।
राज्येऽभिषेकश्च तथा छेदनं शिरसोऽपि वा ॥
मरणं वह्निलाभश्च वह्निदाहो गृहादिषु ।
लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्याभिवादनम् ॥
तथोदकानां तरणं तथा विषमलङ्घनम् ।
हस्तिनीवडवानां च गवां च प्रसवो गृहे ॥
आरोहणमथासां च रोदनं च तथा शुभम् ।
वरस्त्रीणां तथा लाभस्तथाऽऽलिङ्गनमेव च ॥
निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम् ।
जीवतां भूमिपालानां सुहृदामपि दर्शनम् ॥
दर्शनं देवतीर्थानां विमलानां तथाऽम्भसाम् ।
शुभान्यथैतानि नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद्ध्रुवमर्थलाभम्
स्वप्नानि धर्मज्ञभृतां वरिष्ठव्याधेर्विमोक्षं तु तथाऽतुरोऽपि ॥
आग्नेयपुराणे राजभयनिमित्तम् । त्रिजटादृष्टस्वप्नाः ।
सपर्वतवनां कृत्स्नां ग्रसमानो महीमिमाम् ।
स्वप्ने रामो मया दृष्टो रुधिरं पीतवान् बहु ॥
मुक्तां नागसहस्रेण शिविकामन्तरिक्षगाम् ।
प्रास्थापयदथो सीतां सुखमास्थाय राघवः ॥
रावणश्च मया दृष्टो विमाने पुष्पके स्थितः ।
लक्ष्मणेन सह भ्रात्रा चतुर्दन्ते महागजे ॥
रामेण संगता सीता आरुह्य श्वेतपर्वतम् ।
सागरेण परिक्षिप्तं भास्करं परिमार्जनम् ॥
राघवश्च मया दृष्टः सीतया सहितो युवा ।
श्वेतहस्तिसमारूढः श्वेतवस्त्रावगुण्ठितः ॥
पाण्डुरर्षभयुक्तेन रथेनाश्वयुजा तथा ।
शुक्लमाल्याम्बरधरो लक्ष्मणेन च संगतः ॥
सुन्दरकाण्डे च त्रिजटावाक्यम् ।
“स्वप्नो ह्यद्य च मया दृष्टो दारुणो रोमहर्षणः ।
राक्षसानामभावाय भर्त्तुरस्या भयाय तु"[३६८] ॥
अस्याः सीतायाः ।
“सपर्वतां नगां कृत्स्त्नां ग्रसमानो वसुन्धराम् ।
मयाऽद्य दृष्टः स्वप्नान्ते रुधिरं पीतवान् बहु" ॥
गजदन्तमयीं दिव्यां शिविकामन्तरिक्षगाम् ।
मुक्तां गजसहस्रेण स्वयमास्थाय राघवः ॥
समुद्रेण परिक्षिप्तमारुह्य श्वेतपर्वतम् ।
रामेण संगता सीता भास्करेण प्रभा यथा ॥
द्रुमोपपातः काकुस्थो भार्यया सह सीतया ।
लक्ष्मणेन च वीरेण विमाने पुष्पके स्थितः ॥
पाण्डुरर्षभयुक्तेन रथेनाश्वयुजा तथा ।
शुक्लमाल्याम्बरधरो लक्ष्मणेन समन्वितः ॥
यस्या ह्येतादृशः स्वप्नो दुःखितायाः प्रदृश्यते ।
सा दुःखैर्बहुभिस्त्यक्ता प्रियं पश्येदनन्तरम्"[३६९]॥
आग्नेयपुराणे विभीषणराज्यनिमित्तं । त्रिजटादृष्टः स्वप्नः ।
विभीषणो गजारूढः श्वेतमाल्यानुलेपनः ।
मदयुक्तगजारूढः फलान्याहर्त्तुमुद्यतः ॥
बृहद्यात्रायां वराहः ।
दृष्ट्वा स्वप्नं शोभनं नैव स्वप्यात् पश्चाद्दृष्टो यः स्वपाकं विधत्ते ।
शंसेद्दुष्टं तज्ज्ञसाधुद्विजेभ्यस्ते चाशीर्भिः पूजयेयुर्नरेन्द्रम् ॥
मत्स्यपुराणे ।
एकस्यां यदि चेद्रात्रौ शुभं वा यदि वाऽशुमम् ।
पश्चाद्दृष्टश्च यस्तत्र तस्य पाकं विनिर्दिशेत् ॥
तस्मात् त शोभने स्वप्ने पश्चात् स्वापो न शस्यते ।
नाभिं विनाऽन्यगात्रेषु तृणवृक्षसमुद्भवः ।
चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ॥
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ।
उच्चप्रपतनं चैव दोलारोहणमेव च ॥
अर्जनं पद्मलोहानां हयानामपि मारणम् ।
रक्तपुष्पद्रुमाणां च चाण्डालस्य तथैव च ॥
वराहर्क्षखरोष्ट्राणां तथा वाऽऽरोहणक्रिया ।
भक्षणं पक्कमांसनां तैलस्य कृसरस्य च ॥
नर्त्तनं हसनं चैव विवाहो गीतमेव च ।
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनम् ॥
श्वेतो वराहोऽधोगमनं स्नानं गोमयवारिणा ।
पङ्कोदकेन च तथा वर्हतोयेन वाऽप्यथ ॥
मातुः प्रवेशो जठरे चितारोहणमेव च ।
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः ॥
दिव्यान्तरिक्षभौमानामुत्पातानां च दर्शनम् ।
देवद्विजातिभूपानां प्रजानां क्रोध एव च ॥
आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।
हानिश्चैव स्वगात्राणां विरेकवमनक्रिया ॥
दक्षिणाशाभिगमनं व्याधिनाऽभिभवस्तथा ।
फलोपहारश्च तथा शाद्वलानां विशोधनम् ॥
गृहाणां चैव पातश्च गृहसंमार्जनं तथा ।
क्रीडा पिशाचक्रव्यादवानरान्यनरैरपि ॥
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।
कषायवस्त्रधारित्वं तद्वस्तुक्रीडनं तथा ॥
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ।
एवमादीनि चान्यानि दुःस्वप्नानि विनिर्दिशेत् ॥
पराशरः ।
श्ववानरोष्ट्रखरनकुलमार्जारमहिषवराहद्वीपिभासाद्यप्रशस्तान्यदंष्ट्रिनखिक्रव्याददर्शनमभिद्रवणं वातक्लेशाय । यानं व्याधये । वधो वधाय । निपातः पराजयाय । केशलोमनखदर्शनपातनं मणिरत्नाभरणपतनं छेदनाय । हरणं व्याधिक्लेशबन्धुनाशाय । श्मश्रुकर्मोन्मर्दनं सकृन्मूत्रकरणं नग्नताऽऽत्मनो घृततैलवसनाभ्यङ्गवसनादिविकृतपुरुषस्त्रीभिरमानुषैरसकृदभिद्रवणं पक्वमत्स्यभक्षणं व्याधिक्लेशभयाय । विरेचनमन्नक्षयाय । घृतोदपूर्णकुम्भकमण्डलूपस्थानच्छत्रसूत्रबद्धरज्जुदर्शनं लाभो वाऽध्वगमनाय । मत्तप्रव्रजितनग्नशौण्डिकप्रशुष्कनदीह्नदतीर्थाभिदर्शनं शुकमयूरगोधामूषिकाजाविकनटनर्त्तकाश्ववारणगीतवादनं स्वयं वा गीतिनृत्यवादनं कांस्यभाण्डावभेदः सेतुतरुच्छेदः प्रवेशस्तमसि शून्यभिन्नागारेषु च शुष्कवृक्षदर्शनारोहणमवनेर्विचलनमशनिमेघनभोनीहारदर्शनं कृमिकीटपतङ्गदंशमशकमक्षिकाभिदर्शनमभिलपनं च । अञ्जनत्रपुताम्रशीसलोहाभावो रथशिखरयानच्छत्रावपतनं मज्जनं वा कलुषजले पङ्कवल्मीकपांशुसिकताऽधिरोहणमवसनं वा कलिक्लेशायानर्थाय । वा स्वभवनहर्म्यप्रासादनिपतनमभिनिष्क्रमणं वा स्वगृहादुत्थितरुदितानामङ्गनानामङ्गलीभिः सम्मार्जन्या वा मार्जनं सर्वस्वनाशाय । चन्द्रार्कनिपतनमभिप्लवो वा चक्षुर्व्याघाताय पार्थिवोपद्रवाय वा । नगरपुरशिखतोरणेन्द्रध्वजसुरपतिभवननिपतनं नृपतिविघाताय स्वपतिक्लेशाय वा ।
वराहः ।
नाभेरन्यत्र गात्रे तृणतरुकुसुसुमप्रोद्भवः स्नेहपानं
क्रीडायां नोपभोगाः खरकपिकरभव्यालरौद्रैश्च सत्त्वैः ।
कायस्यालेपनं वा कलुषजलमसीगोमयस्नेहपङ्कै-
र्दृग्जिह्वादन्तबाहुप्रपतनमथ वाऽनर्थशोकप्रदानि ॥
गीतक्रीडितभूषितप्रहसितप्रेङ्खेलितास्फोटिता-
न्यर्केन्दुध्वजतारकानिपतनं श्रोतोवहाधोगमः ।
रज्जुच्छेदचिताप्रपातजननीगात्रप्रवेशास्तथा
स्वप्ने कांस्यविवर्णनं च शिरसि क्लेशामयानर्थदम् ॥
स्थलपशुमृगकीटानूपचर्माण्डजानां
प्लवनमुदकनाशौ स्याद्विवाहोत्सवो वा ।
सरसिजजतुभाण्डक्रीडनं नर्त्तनं वा
मलिनविवसनत्वं वाऽऽशु शोकप्रदानि ॥
पुंद्रव्यनाशेषु हृताद्वियोगश्छेदश्च पाणेः कमलापहारे ।
प्रासादशृङ्गादिशिरोवताराः स्वप्नेषु नेष्टा इति संप्रदिष्टाः ॥
सर्पे कर्णं नासिकां वा प्रविष्टे तच्छेदः स्याद्वेष्टने चाशु बन्धः
वराहः ।
लास्ये प्राप्नोति वधं रुदिते हास्ये प्रगीतके रोगः ।
पवनं कलहप्रायं प्रतिलोमफलः किल स्वप्नः ॥
चित्रं कर्मविचित्रं यः पश्यति नैव वर्त्तितं स्वप्ने ।
शोकः समाश्रयेत् पतितं वासार्थमित्राण्डजे वृक्षम् ॥
स्वप्ने पिबतः पुंसो विरेचनं स्नेहमौषधं वाऽपि ।
रोगो ग्लपयति देहं हिमकिरणापात इव पद्मम् ॥
मञ्जर्योदधियात्राशयबलबालोषिता रजतयष्टिः ।
बध्री सकोषवीणा कार्या लाभाय लभ्यन्ते ॥
व्यावल्गितविक्रीडितविलसितसंगीतनृत्यहसितानि ।
स्वप्ने प्रतिबुद्धानामायासकराण्यभिहितानि ॥
योगयात्रायां वराहः ।
श्मश्रुकेशनखदैर्घ्यकर्त्तनं वानरीविकृतनार्युपासनम् ।
रक्तवस्त्रसरुजाङ्गनार्दनं रोगमृत्युभयशोकतापदम् ॥
बृहद्यात्रायां च ।
हरिणारोहे भ्रमणं मृत्युर्न चिरेण शूकरारोहे ।
उष्ट्रारोहे व्याधिर्वृद्धिः स्यात् कुञ्जरारोहे ॥
अथ रिष्टस्वप्नः । पराशरः ।
श्ववानरोष्ट्रखरनकुलमार्जारमहिषवराहद्वीपिश्येनभासाद्यप्रशस्तान्यदंष्ट्रिनखिक्रव्यादानामधिरोहणं नग्नं वाऽधिरुह्य याम्याशाभिगमनं मज्जनं वा क्वचिद्भस्मरक्तचन्दनतैलमसीप्रलिप्तगात्राशो-
कपुण्डरोकभृतो विसानि भक्षयतः पांशुसिकतागोमयेषु महति कलुषहृदे वा निमज्जनं तथा कुसुमितकिंशुककोविदारकरवीरचैत्ययष्टिरूपाधिरोहणं करवीरकमलदलमालाबन्धो वा भृष्टयवमसिभस्मतैलवशापानं गात्रानुलेपनं वा मरणाय ।
कालावल्यां तु ।
गृध्रश्च काकगोमायुरक्षःप्रेतपिशाचकैः ।
भक्ष्यते प्रोक्ष्यते वाऽपि खरजात्युष्ट्रसैरिभैः ॥
आत्मा यदीदृशः स्वप्ने दृश्यते भावविह्वलः ।
तत्राब्दैके गते नूनं गम्यतेऽन्तकवश्यता ।
सुवर्णं रजतं मूत्रं पुरीषं वमते निशि ।
स्वप्ने स मासे दशमे प्रयाति यममन्दिरम् ॥
पराशरः ।
सुवर्णरजतमूत्रपुरीषाणां वा स्वप्ने छर्दनं दशमे मासि मरणाय ।
मार्कण्डेयपुराणे ।
वान्त्यां मूत्रे पुरीषे च सुवर्णं रजतं तथा ।
प्रत्यक्षमथ वा स्वप्ने जीवितं दशमासिकम् ॥
देवलस्तु ।
छर्दिमूत्रपुरीषेषु सुवर्णरजतप्रभम् ।
प्रत्यक्षमथ वा स्वप्ने नवमासान् स जीवति ॥
पराशरः ।
यक्षरक्षःप्रेतपिशाचानां स्वप्नेदर्शनमतीन्द्रियाणां नवमे मासि।
मरणाय-इति सम्बन्धः ।
कालावल्याम् ।
रक्तगन्धप्रलिप्ताङ्गो रक्तमाल्योपशोभितः ।
तैलाभ्यक्तोऽतिभीतश्च मुण्डितो रक्तवस्त्रधृक् ॥
खरमारुह्य वेगेन दक्षिणां दिशमाव्रजेत् ।
यस्यात्मा दृश्यते स्वप्ने तन्नाशो वत्सरार्धतः ॥
देवलः ।
कृष्णैश्च विकटैश्चैव पुरुषैश्चोद्यतायुधैः ।
पाषाणैस्ताडयते स्वप्ने षण्मासान् न स जीवति ॥
वायुपुराणेऽप्येयम् ।
मार्कण्डेयपुराणे ।
करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं व्रजेन्नरः ॥
कालावल्याम् ।
लोहदण्डयुतं कृष्णं नरं कृष्णपरिच्छदम् ।
स्वप्ने च पार्श्वतो दृष्ट्वा त्रिमासान् मृत्युराप्यते ॥
आदित्यपुराणे तु ।
कृष्णं तथोद्भासितलोहदण्डं कृष्णाम्बरं स्वं च नरं निरीक्ष्य ।
तमेव संसाररिपुं विजेतुं विस्सृज्य मासत्रियेन याति ॥
देवलः ।
रक्तगन्धाम्बरः स्रग्वी गच्छेद्वा दक्षिणामुखः ।
खरोष्ट्रमपि वा रोहेत् त्रीन् मासान् नाभिजीवति ॥
तथा ।
दृष्ट्वाऽऽत्मानं मृतं स्वप्ने द्वादशाहं स जीवति ।
मार्कण्डेयपुराणे ।
केशाङ्गारं तथा भस्म भुजङ्गान् निर्जलां नदीम् ।
दृष्ट्वा स्वप्ने दशाहात् तु मृत्युरेकादशे दिने ॥
देवलस्तु ।
भस्माङ्गाराँश्च केशाँश्च नदीं शुष्कां भुजङ्गमान् ।
पश्येद्यो दशरात्रं च न जीवेत् तादृशः पुमान् ॥
वायुपुराणलिङ्गपुराणयोरप्येवम् ।
सुश्रुतः ।
अन्तावसायिभिर्यो वा कृष्यते दक्षिणामुखः ।
स्वस्थस्य व्याधयो व्याधितस्य मरणायेति सम्बन्धः ।
वायुपुराणलिङ्गपुराणयोस्तु ।
मुक्तकेशो हसँश्चैव गायन् नृत्यँश्च यो नरः ।
याम्यां दिशमितो गच्छेत् तदन्तं तस्य जीवितम् ॥
मार्कण्डेयपुराणे ।
क्षुद्रवानरयानस्थो गायन् वै दक्षिणां दिशम् ।
स्वप्ने प्रायाति तस्यापि न मृत्युः कालमृच्छति ॥
वायुपुराणलिङ्गपुराणयोस्तु ।
क्षुद्रवानरयुक्तेन रथेनाशां तु दक्षिणाम् ।
गायन्नथ व्रजेत् स्वप्ने विन्द्यान्मृत्युमुपस्थितम् ॥
देवलश्चैवम् ।
वायुपुराणलिङ्गपुराणयोः ।
उष्ट्रा वा रासभा वाऽपि युक्ताः स्वप्ने रथेऽशुभाः ।
यस्य सोऽपि न जीवेत् तु दक्षिणाभिमुखो गतः ॥
मार्कण्डेयपुराणे तु विशेषः ।
उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशम् ।
प्रयाति तं चेज्जानीयात् सद्यो मृत्युं नराधिपः ॥
चरकस्तु ।
श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम् ।
स्वप्ने पक्षं तथाऽऽसाथ स जीवन्तं विमुञ्चति ॥
वायुपुराणलिङ्गपुराणयोः ।
कृष्णाम्बरधराः श्यामा गायन्त्योऽप्सरसोऽङ्गनाः ।
नयेयुर्दक्षिणामाशां स्वप्नेऽप्येवं न जीवति ॥
देवलस्तु विशेषमाह ।
कृष्णाम्बरधरा श्यामा गायन्ती वाऽप्यथाङ्गना ।
यन्नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ॥
मार्कण्डेयपुराणे तु ।
रक्तकृष्णाम्बरधरा गायन्ति च हसन्ति याः ।
दक्षिणाशां नयेन्नारीः स्वप्ने सोऽपि न जीवति ॥
सुश्रुतः ।
कृष्णाम्बरधरा नारी हसन्ती मूक्तमुर्घजा ।
यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम् ॥
वायुलिङ्गमार्कण्डेयपुराणेषु ।
नग्नं श्रवणकं स्वप्ने हसमानं महाबलम् ।
एकं वा वीक्ष्य च बहून् विद्यान्मुत्युमुपस्थितम् ॥
वायुमार्कण्डेयपुराणेषु ।
आमस्तकतलो यस्तु निमज्जेत् पङ्कसागरे ।
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥
चरकः ।
लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात् ।
सरक्तपित्तमासाद्य तेनैवान्ताय नीयते ॥
वायुपुराणलिङ्गपुराणयोः ।
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः ।
कृष्णं रक्तमपि स्वेन तस्य मुत्युरुपस्थितः ॥
देवलस्तु विशेषमाह ।
छिद्रवासश्च कृष्णं च स्वप्ने यो बिभृयान्नरः ।
नग्नं वा श्रवणं दृष्ट्वा विन्द्यान्मृत्युमुपस्थितम् ॥
वायुपुराणेऽप्येवम् ।
लिङ्गपुराणे ।
श्वभ्रे यो निपतेत् स्वप्ने द्वारं चास्य पिधीते ।
न वोत्तिष्ठति यस्तस्मात् तदन्तं तस्य जीवितम् ॥
मार्कण्डेयपुराणेऽप्येवम् ।
लिङ्गपुराणे ।
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः ।
न च स्मृतं न चाभिज्ञा तदन्तं तस्य जीवितम् ॥
मार्कण्डेयपुराणे तु विशेषः ।
स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते पुनः ।
जलप्रवेशादपि वा तदन्तं तस्य जीवनम् ॥
नृत्यन्रक्षोगणैः सार्धं यः स्वप्नेऽम्भसि सीदति ।
स प्राप्य भयमुन्मादं याति लोकमतः परम् ॥
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते ।
स्वप्ने मज्जति सोद्वेगः श्रोतसा क्रियते च यः ॥
रक्षःप्रेतपिशाचस्त्रीचाण्डालद्रविडान्ध्रकैः ।
गृधोलूकैश्च काकाद्यैः स्वप्ने यः परिवार्यते ॥
वंशवेत्रलतायाततृणकण्टकसंकटे ।
संगृह्यते मुह्यति च स्वप्ने यः प्रपतत्यपि ॥
भूमौ पांशूपधानानां वल्मीके वाऽथ भस्मनि ।
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि ॥
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः ।
वयांसि च निलीयन्ते स्वप्ने मौढ्यमियाच्च यः ॥
स्वप्नोऽयं व्याधितानां च महते भयायेति सम्बन्धः ।
लता कण्टकिनी यस्य दारुणा हृदि जायते ।
स्वप्ने गुल्मस्तु मत्ताय क्रूरो विशति मानवम् ॥
नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनार्चिषम् ।
पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यति ॥
मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम् ।
स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः ॥
शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः ।
स्नेहं बहुविधं स्वप्ने चाण्डालैः सह यः पिबन् ॥
स चेत् प्रच्छर्दयेत् तादृक् प्रतिबुद्धो न जीवति ।
प्रेतैः सह पिबेन्मद्यं यः स्वप्ने कृष्यते शना ॥
सुघोरज्वरमासाद्य प्रयाति यममन्दिरम् ।
स्नेहं बहुविधं स्वप्ने चाण्डालैः सह यः पिबेत् ॥
बुद्ध्यते स प्रमेहेण गृह्यते स च मानवः ।
अयोध्याकाण्डे भरतवाक्यम् ।
“दृष्टो मयाऽद्य स्वप्नो वै चन्द्रमाः पतितः क्षितौ ।
संशुष्कः सागरश्चैव सूर्यो ग्रस्तश्च राहुणा ॥
अद्राक्षमपि च स्वप्ने पितरं रक्तवाससम् ।
कृष्यमाणं नरैर्बद्ध्वा दक्षिणामभितो दिशम् ॥
पुनश्चाप्येनमद्राक्षं स्नेहाक्तं रक्तमूर्धजम् ।
पतन्तमद्रिशिखरादगाधे गोमये ह्रदे ॥
तस्मिन् नग्नश्चोन्मज्जन् दृष्टो मे गोमये ह्नदे ।
पिबन्नञ्जलिना तैलं हसमानः पुनः पुनः ॥
तैलेनाभ्यक्तसर्वाङ्गस्तैलमेव व्यगहित ।
पीठे कार्ष्णायसे चैलविषण्णं कृष्णवाससम् ॥
प्रहसन्ति स्म राजानः प्रमदाः कृष्णपिङ्गलाः ।
दृष्टो रासभयुक्तेन रथेन च पिता मया ॥
रक्तमाल्याम्बरधरः प्रयातो दक्षिणामुखः ।
प्रदीप्तमम्भसा शान्तं दृष्टवानस्मि पावकम् ॥
सीदन्तं च तथाऽद्राक्षं पङ्के लग्नं महागजम् ।
विशीर्यमाणः शैलेन्द्रो भग्नश्चैत्यमहाद्रुमः ॥
स्वप्नेनाद्य मया दृष्टो निपतँश्च महीध्वजः ।
एवमेव मया स्वप्नो दृष्टः पापभयावहः ॥
व्यक्तं रामोऽथ वा राजा प्राणाँस्त्यक्त्वा दिवं गतः ।
यो हि रासभयुक्तेन रथेन परिकृष्यते ॥
मर्त्त्यः स नचिरादेव ध्रुवं याति यमक्षयम्”[३७०] ।
सुन्दरकाण्डे रावणवधनिमित्तं त्रिजटादृष्टः स्वप्नः ।
"विमानात् पुष्पकादद्य रावणः पतितः क्षितौ ।
कृष्यमाणः स्त्रिया दृष्टो मुण्डो रक्ताम्बरो हसन् ॥
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्नदम् ॥
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ।
काली कमलपत्राक्षी दिशं याम्यां प्रकर्षति"[३७१] ।
आग्नेयपुराणे ।
विमानात् पुष्पकादद्य रावणः पतितो मया ।
कृष्णमाणः स्त्रिया दृष्टो मुण्डः पीताम्बरो हसन् ॥
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
प्रयातो दक्षिणामाशां नागतः पुनरेव हि ॥
वराहे तु समारूढश्छागले गर्दभे तथा ।
शिशुमारे ससैन्यस्तु प्रयातो दक्षिणां दिशम् ॥
सुसमाजेन संवृत्तो गीतवादित्रनृत्यवान् ।
विदधद्रक्तवस्त्रं हि हास्ययुक्तः स नृत्यति ॥
सुन्दरकाण्डे कुम्भकर्णवधनिमित्तम् ।
"वानरेण मया दृष्टः कृष्यमाणेन चासकृत् ।
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।
पीतैर्निर्वासिता वस्त्रैः क्रीडन्तो गोमये ह्नदे ॥
समाजश्च महाभूतो नृत्यवादित्रगीतवान् ।
पिबतां मुण्डशीर्षाणां रक्षसां रक्तवाससाम् ॥
पीत्वा तैलं प्रवृत्ताश्च प्रहसन्ति महास्वनाः ।
लङ्कायां भग्नकक्षायां सर्वा राक्षसयोषितः"[३७२] ॥
आग्नेयपुराणे ।
पीत्वा तैलं प्रवृत्ता हि प्रहसन्त्यो महास्वनाः ।
लङ्कायां भस्मभूतायां सर्वा राक्षसयोषितः ॥
सागरे पतिता दृष्टा नद्यां चैव प्रवाहिताः ।
गजवाजिरथैर्युक्ता लङ्केयं ससुहृद्गणा ॥
सुन्दरकाण्डे तु ।
“लङ्गा चेयं पुरी कृत्स्ना सवाजिरथकुञ्जग ।
सागरे पतिता दृष्टा भग्नगोपुरतोरणा"[३७३] ।
लिङ्गपुराणे त्रिपुरबधनिमित्तकथने मयवाक्यम् ।
मयाऽद्य दृष्टः स्वप्नान्ते पीनाकी क्रोधमूर्छितः ।
उदरेऽस्मत्पुरीं सर्वां विवेशयति वेगितः ॥
मौशले वृष्णिवंशक्षयनिमित्तम् ।
“काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारक्तां प्रति धावति” [३७४]॥
तथा ।
वृष्ण्यन्धका नखा दन्ताः स्वप्ने दृष्टा भयानकाः ।
पराशरः ।
सुरर्षिसिद्धगणगन्धर्वयक्षनागानामुपयाचितानुबन्धे यथोक्त-
दर्शननिमित्तानुबन्धिफलम् ।
पराशरः ।
शुभाशुभस्वप्नविधानमुक्तमयुक्तयुक्तं च समूह्य बुद्ध्या ।
देशादिवर्णाकृतिसम्पदश्च तत्ततत्फलं संपरिकल्पयेच्च ॥
पादादिपादोत्तरपदवृद्ध्या वर्षार्धमासत्रयमासकालाः ।
क्षया विभागेषु चतुर्षु दृष्टाः स्वप्ना अनिष्टेष्टफलप्रदाः स्युः ॥
वराहः ।
आद्ये वर्षाद्वत्सरार्धाद्द्वितीये पाको वर्षार्धार्धभागे तृतीये ।
मासात् पाकः शर्वरीपश्चिमान्ते सद्यः पाको गोविसर्गेषु दृष्टः ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः ।
षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्त्रियामिकाः ॥
चतुर्थे मासमात्रेण पच्यन्ते नात्र संशयः ।
वराहः ।
भूयः प्रस्वपनं न चास्य कथनं गङ्गाभिषेको जयः
शान्तिः स्वस्त्ययनं निषेवणमिति प्रातर्गवां शृङ्गयोः ।
विप्रेभ्यश्च तिलान्नहेमकुसुमैः पूजा यथाशक्तितः
पुण्यं भारतकीर्त्तनं च कथितं दुःस्वप्नविच्छित्तये ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
एषामकथनं शस्तं भूयः प्रस्वपनं तथा ।
कल्कस्नानं तिलैर्होमो ब्राह्मणानां च पूजनम् ॥
स्तुतिश्च वासुदेवस्य तथा तस्य तु पूजनम् ।
नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् ॥
पराशरः ।
देवद्विजाग्निप्रतिपूजनानि मन्त्रोपजाप्यानि पवित्रमेव ।
तिलान्नगोभूमिहिरण्यदानं दुःस्वप्नसंदर्शननाशनानि ॥
बृहद्यात्रायां वराहः ।
तथाऽम्बुसंस्पर्शनमन्त्रहोमस्तिलप्रदानं स्वपनं च भूयः ।
शान्तिर्जपश्चाकथनं दमश्च दुःस्वप्नहन्त्रीणि पयश्च गाङ्गम् ॥
नारदः ।
चन्द्रादित्ययोराकाशे स्वप्ने चैवार्धदर्शनम् ।
ततः स्नानं प्रकुर्वीत प्रभाते द्विजसत्तम ।
तिलानामयुतं तत्र जुहुयात् सुसमाहितः ।
तिलोऽसीति तु मन्त्रेण ततः संपद्यते शुभम् ॥
धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
ब्राह्मणाँस्तोषयेत् तत्र दक्षिणाभोजनादिना ॥
दानं च द्विविधं देयमशुभानां विनाशनम् ।
ततः शान्तिर्भवेत् तत्र दुःस्वप्नं च विनश्यति ॥
षड्भिर्मासैस्तु संपूर्णैरन्यथा मरणं भवेत् ।
अत्रानुक्तविशेषशान्तिषु विशेषतोऽवगम्य गुरुलाघवं लक्षहोमचण्डीपाठादिशान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे स्वप्नाद्भुतावर्त्तः ।
अथ कायरिष्टाद्भुतावर्त्तः ।
तत्र रिष्टस्वरूपमाह सुश्रुतः ।
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् ।
तच्च रिष्टं समासेन.........इति ॥
प्रकृतेर्विकृतिर्नृणां बुद्धीन्द्रियशरीरजा ।
अकस्माद्दृश्यते येषां तेषां मरणमादिशेत् ॥
चरकः ।
मरणं चापि तन्नास्ति यन्न रिष्टपुरःसरम्-इति ।
तच्च रिष्टं द्विविधं नियतमनियतं च । तत्र कालमृत्युसूचकं नियतम् । गणितागतायु:समाप्त्यामरणं कालमृत्युस्तत्र प्रतीकाराभावः ।
महाभारते ।
न मन्त्रो न तपो दानं न मित्राणि न बान्धवाः ।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥
कैश्चिदपि कालमृत्योरपि वञ्चनोपायो दर्शितः ।
तथा च ।
रसायनं तथा द्रव्ययोगयुक्तैर्महात्मभिः ।
कालमृत्युरपि प्राज्ञैर्जीयते नालसैर्नरैः ॥
सुश्रुतश्च ।
ध्रुवं त्वरिष्टमरणं ब्राह्मणैस्तत् किलामलम् ।
रसायनतपोजप्यतत्परैर्वा निवार्यते ॥
अकालमृत्युसूचकमनियतम् । क्रूरग्रहदशान्तर्दशादिमरणमकालमृत्युः । तच्च स्वस्त्ययनादिसाध्यमेवेति ।
अथ रिष्टविशेषाः । तत्र वुद्ध्यादिरिष्टानि ।
तत्र पराशरः ।
सूक्ष्मार्थदर्शिनी मन्दाऽमन्दाऽसूक्ष्मार्थदर्शिनी ।
तपोयोगादृतेऽतीव बुद्धिः स्यात् प्राणसंशये ॥
सुश्रुतः ।
ह्रीरपक्रामति यतः कान्तिस्मृतिधृतिश्रियः ।
अकस्माद्यं भजन्ते च स परासुरसंशयम् ॥
अतिद्युतिरतिप्रज्ञा अप्रज्ञा वा द्युतिस्तथा ।
प्रकृतेर्विक्रियायत्नः षण्मासान्मृत्युलक्षणम् ॥
चरकः ।
शयनादशनादङ्गात् काष्ठात् कुड्यात् कटादपि ।
असन्मृगपतेः किञ्चित् समुद्यकालचोदिताः ॥
प्राणाः समुपतप्यन्ते विज्ञानमुपरुध्यते ।
इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना ॥
औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि ।
स्मृतिं विशति मेधावी ह्रीश्रियौ वाऽपसर्पतः ॥
उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति ।
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ॥
विज्ञानमिति शिल्पशास्त्रं शिथलीभवति निष्फलं भवति । सत्त्वमिति मनः । उपप्लवन्ते पाप्मान इति पापानि वर्धन्ते । ओज इति बलम् । तेज इति शारीरोऽग्निः ।
तथा ।
यैः पुरा विन्दते भावैः समेतैः परमां रतिम् ।
तैरेव रममाणस्य राज्ञो मरणमादिशेत् ॥
ज्योतिःपराशरविष्णुधर्मोत्तरयोः ।
इष्टैरनिष्टसंयोगोऽनिष्टैरिष्टसमागमः ।
भयधैर्यविपर्यासो जायते प्राणसंक्षये ॥
कालावल्याम् ।
अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति ।
आदित्यपुराणे तु ।
स्थूलः कृशः क्रोधवशश्च भीतो यदा त्वकस्माद्भवते महात्मा ।
तदा तनं प्रजहात्यब्दमात्रादभङ्गरां मनुजः स्वाक्षयर्थाम् ॥
भिषग्भेषजपानाक्षगुरुमित्रद्विजातयः ।
वशगाः सर्व एवैते ये रसायनवर्त्तिनः ॥
मार्कण्डेयपुराणे तु ।
येषां विनीतः सततं येऽस्य पूज्यतमाः स्मृताः ।
तानेव चावजानाति तानेव च विनिन्दति ॥
देवानार्चयते विद्वान् गुरुविप्राँश्च निन्दति ।
मातापित्रोरसत्कारं जामातृणां करोति च ॥
योगिनां चैव विदुषामन्येषां चैव निन्दति ।
प्राप्ते काले तु पुरुषस्तद्विज्ञेयं विचक्षणैः ॥
महाभारते ।
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
प्रथमं ब्राह्मणं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥
ब्राह्मणाश्च विवादन्ते ब्राह्मणांश्च जिघांसति ।
नैतान् स्मरति कृत्येषु याचितश्च न यच्छति ॥
रमते निन्दया नैव प्रशसां नाभिनिन्दति ।
अथ नयनारिष्टम् । तत्र देवलः ।
अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम् ।
यो न पश्येन्न जीवेत् स नरः संवत्सरात् परम् ॥
सोमच्छायेति । चन्द्रस्यैतच्छाया साऽर्कविम्बाच्छादिका यदपगमे चन्द्रमसः शुक्लत्वं वर्धते । एतदुक्तं भवति । अन्यदृश्यचन्द्रच्छायाच्छादितचन्द्रविम्बैकदेशादर्शनेरिष्टमिति । लिङ्गपुराणेऽप्येवम् ।
वराहसंहितायां तु ।
अरुन्धतीदेवपथं ध्रुवं च छायां शशाङ्कस्य च नेक्षते यः ।
अन्यैरदृश्यं यदि वीक्षते वा वर्षान्तरे मृत्युवशं प्रयाति ॥
न पश्यति तु यो व्यभ्रे प्रभामर्कनिशाकृतोः ।
छायां चन्द्रार्कयोश्चापि तयोश्च गमनं तथा ॥
देवमार्गप्रभां वह्नेर्ध्रुवं तारामरुन्धतीम् ।
पश्यत्यदृष्टमन्यैर्वा मृत्युः स्यात् तस्य वत्सरात् ॥
पराशरः ।
तत्र व्यभ्रे नभसि रविचन्द्रज्वलनप्रभाच्छायाऽन्धतीध्रुवान्यतारकाणामदर्शनं मरणाय मासि द्वादशे ।
चरकस्तु दृश्यादर्शनेऽदृश्यस्य दर्शने क्षिप्रं रिष्टमाह ।
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति ।
तावुभौ पश्यतः क्षिप्रं यमक्षयमसंशयम् ॥
योऽरुन्धतीं न पश्येत् तु दृष्टपूर्वीं कदाचन ।
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ॥
खण्डभागं दक्षिणतस्तेऽपि संवत्सरायुषः ।
दीपं ज्योतींषि दोप्तानि यश्चाग्निमिव पश्यति ॥
चन्द्रं सूर्यमिवाचष्टे सूर्यं वा चन्द्रवर्चसम् ।
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ॥
ज्योतींषीति गृहनक्षत्राणीत्यर्थः ।
कालावल्यां तु अरुन्धतीध्रुवरोहिणीदेवपथादर्शने षण्मासिकरिष्टमुक्तम् ।
अरुन्धतीं ध्रुवं चैव रोहिणीं च महापथम् ।
न पश्येदपि वाऽ कस्मादात्मस्थं वाऽंशुकं ज्वलत् ॥
यस्यैतल्लक्षणं तस्यं षण्मासान्मरणं दिशेत् ।
अंशुकं ज्वलदिति अदृश्याग्निज्वलदंशुकमित्यर्थः ।
आदित्यपुराणे तु ।
आकाशगङ्गामथ रोहिणीं च वसिष्ठभार्यां ध्रुवमध्यभं च ।
भ्रवोर्मध्ये देवपथं प्रपश्येत् पूर्णं चन्द्रं तारकां कृष्णवर्णाम् ॥
अदृश्यमानेन हुताशनेन स्याद्दग्धवस्त्रं त्वथ वा कथं चित् ।
षड्भिर्मासैस्तां प्रियां संप्रयाति कामीव नारीमभिसारिकां तु ॥
आकाशगङ्गामिति देवपथम् । मध्ये इति कर्मपदम् । दक्षिणभ्रूमध्यं वा ते चेन्न पश्येदित्यर्थः । पूर्णं चन्द्रमिति अपूर्णं पूर्णं पश्येदिति ।
तथा च वराहसंहितायाम् ।
संपूर्णं चाभितवं दृष्ट्यैको जीविताद्यस्येत् इति ।
कालावल्याम् ।
सतर्षीन् ग्रहचक्रं च दिशश्चात्यन्त निर्मलाः ।
स्वघ्राणरसने वाऽपि न पश्येन्म्रियते ध्रुवम् ॥
आदित्यपुराणे तु ।
ऋषीन् ग्रहान् कुकुभः पांशुवर्णाः पश्यन् न पश्येद्रसनाननानसः ।
षड्भिर्दिनैर्याति तनुं विहाय वाक्सायकैर्निहितः कामुके च ॥
मयूरचित्रे तु ।
अरुन्धतीं ध्रुवं चैव चन्द्रार्कौ महापथम् ।
न पश्येद्यदि तत्रैषा शान्तिर्गर्गप्रचोदिता ॥
हेम्ना कृत्वा स्वकां मूर्तिं ब्राह्मणेभ्यो निवेदयेत् ।
ब्रह्मशान्तिं ततः कुर्याद्ब्रह्मयज्ञान्तमित्यथ ॥
मन्त्रेण जुहुयात् पञ्चसहस्राणि तथाऽष्ट च ।
औदुम्बरीश्च समिधश्चरुप्राशनमेव च ॥
ब्राह्मणास्तर्पयेत् तत्र हुतान्ते भूरिदक्षिणाम् ।
चरकः ।
प्रभावतः प्रभाहीना निष्प्रभा वा प्रभावतः ।
नरान् विलिङ्गान् पश्यन्ति भावाभावं जिहासवः ॥
विष्णुधर्मोत्तरे ।
सप्रमाणामथान्येषां प्रभां यस्तु न पश्यति ।
मास्येकादशमे तस्य मरणं परिकीर्तितम् ॥
पराशरस्तु ।
वह्निसूर्येन्दुप्रभाणामदर्शनमेकादशे
मरणायेति सम्बन्धः ।
देवलस्तु ।
अरश्मिवन्तमादित्यं रश्मिवन्तं च पावकम् ।
यः प्रपश्यन् न जीवेत् स मासादेकादशात् परम् ॥
रश्मिवन्तं च पावकमिति दिवा पश्येदिति सम्वन्धः ।मार्कण्डेयपुराणलिङ्गपुराणयोरप्येवम् ।
कालावल्यां रश्मिहीनसूर्यदर्शने षाण्मासिकरिष्टमुक्तम् ।
पश्येद्रश्मिविनिर्मुक्तं सूर्यमिन्दुमलाञ्छनम् ।
तारामञ्जनकल्पां तु शुष्के वाऽप्योष्ठतालुके ॥
भूमिच्छिद्रं रविच्छिद्रमकस्माद्यः प्रपश्यति ।
यस्यैतल्लक्षणं तस्य षण्मासान्मरणं दिशेत् ॥
आदित्यपुराणे त्वेषामर्धमासिकरिष्टत्वमुक्तम् ।
भूम्यर्कयोश्छिद्रमतिप्रकाशं शशाङ्गमर्कं त्वथ शीतरश्मिम् ।
तदाऽर्धमासेन च तां प्रयाति पुनः प्रविष्टः कलहान्तरीयाम् ॥
अतिप्रकाशमिति सूर्यप्रकाशम् ।
मयूरचित्रे ।
चन्द्रमध्ये तु यश्छिद्रं पश्येन्मासं स जीवति ।
दक्षिणायां प्रभोर्मूर्त्तौ जुहुयाद्गौरसर्षपान् ॥
इत्यष्टमी शान्तिः ।
यद्वा धान्यानि दूर्वाश्च तिलान् हव्यान् यवाँस्तथा ।
अपामार्गं च शान्त्यर्थं महाव्याहृतिभिस्ततः ॥
दक्षिणा धेनुवस्त्राणि दातव्यानि द्विजातये ।
इति नवमी शान्तिः । नारदस्तु ।
आदित्यचन्द्रयोर्मध्ये छिद्रं पश्यति यो नरः ।
उत्पातमीदृशं दृष्ट्वा मासमेकं स जीवति ॥
इमा रुद्रेति मन्त्रेण जुहुयात् सर्पिषा हुतिम् ।
आहुती द्वे सहस्रे तु होमश्च कथितो भवेत् ॥
वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
मोक्षधर्मे तु चन्द्रसूर्ययोश्छद्रदर्शने सप्ताहरिष्टत्वमुक्तम् ।
शीर्णनाभिं तथाऽवक्रं छिद्रं सोमं प्रपश्यति ।
तथैव च सहस्राशुं सप्तरात्रेण मृत्युभाक् ॥
शीर्णनाभिमिति मध्यशून्यमवक्रं पूर्णम् ।
वटकणिकायां वराहः ।
एकश्चन्द्रविकारं यः पश्यति न स चिरं जीवेत् ।
बृहत्संहितायां च ।
शृङ्गेनैकेनेन्दुं विलीनमथ वाऽप्यवाङ्मुखमशृङ्गम् ।
सम्पूर्णं चाभिनवं दृष्ट्वा यो जीविताद्ग्रस्येत् ॥
गार्गीये ।
एकशृङ्गमशृङ्गं वा विशीर्णं पूर्णमेव च ।
प्रतिपद्युदितं चन्द्रं यः पश्यति स नश्यति ॥
प्रतिपच्चन्द्रोदयश्चन्द्राद्भुतावर्त्ते[३७५] उक्तः । चरकः ।
मृण्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम् ।
आदित्यमीक्षते श्वभ्रं चन्द्रं वा स न जीवति ॥
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम् ।
व्याधितोऽव्याधितो वाऽपि तदन्तं तस्य जीवितम् ॥
मार्कण्डेयपुराणे तु ।
शक्रायुधं वाऽर्धरात्रे दिवा वा ग्रहणं तथा ।
दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवित् ॥
देवलः ।
रात्रौ चेन्द्रायुधं पश्येद्विवा नक्षत्रमण्डलम् ।
परनेत्रेषु चात्मानं न पश्येत् स न जीवति ॥
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
कालावल्याम् ।
दिवोल्कापतनं पश्येन्नक्तं चेन्द्रधनुस्तथा ।
गम्यते तेन मासेन मृत्योर्वदनकोटरम् ॥
आदित्यपुराणे तु ।
उल्का दिवा चेन्द्रधनुर्निशायां विद्युल्लता व्योम्नि विना पयोदैः ।
मासि प्रपूर्णे स च संप्रयाति तां खण्डितां खां प्रकृतिं प्रयाति ॥
चरकः ।
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे ।
विद्युतो वा विना मेघान् यः पश्यति स नश्यति ॥
मयूरचित्रे तु ।
विना वातं विना मेघं तोयपाते जनक्षयः ।
मासत्रयस्य मध्ये च प्रभुर्दृष्ट्वा विनश्यति ॥
हव्यं सहस्रं तत्रैकः समिधो वेतसस्य च ।
कयानश्चित्रमन्त्रेण देया गौर्द्विजभोजनम् ॥
सुश्रुतः ।
विमानयानप्रासादैर्यश्च संकुलमम्वरम् ।
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ॥
अतिपश्यतीति सम्बन्धः । मयूरचित्रे तु ।
छत्रध्वजविमानानि दृश्यन्ते गगने यदि ।
मासत्रयस्य मध्ये तु द्रष्टुर्मृत्युं समादिशेत् ।
क्षीरशान्तिस्तु कर्त्तव्या तया संपद्यते शुभम् ॥
आदित्यपुराणे तु ।
गन्धर्वाणां नगरं वृक्षसंस्थं निरीक्ष्य वाऽऽकस्मिकमग्रसंस्थम् ।
मासैश्चतुर्भिरथ संप्रयाति रक्तैर्माल्यैः पुष्पवर्षैश्च युक्तम् ॥
कालावल्यां च ।
गन्धर्वनगरं पश्येद्वृक्षाग्रे यदि कुत्र चित् ।
दशमासावसाने च यमसद्मनि स व्रजेत् ॥
देवलस्तु ।
रुक्मशाखान् द्रुमान् दृष्ट्वा गन्धर्वनगराणि च ।
पश्येत् प्रेतपिशाचाँश्च दशमासान् स जीवति ॥
मार्कण्डेयपुराणे तु ।
दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च ।
सुवर्णवर्णान् वृक्षान् वा नवमासान् स जीवति ॥
लिङ्गपुराणेऽप्येवम् । विष्णुधर्मोत्तरे तु ।
रक्षःप्रेतपिशाचानां यक्षाणामपि दर्शनात् ।
अतीन्द्रियाणामन्येषां नवमे मरणं भवेत् ॥
पराशरस्तु ।
रक्षोयक्षपिशाचानां स्वप्ने दर्शनमतीन्द्रियाणां मूर्त्तित्यागो नवमे ।
चरकस्तु ।
जाग्रन् पश्यति यः स्वप्नान् रक्षांसि विविधानि च ।
अन्यद्वाऽत्यद्भुतं कश्चिन्न स जीवितुमर्हति ॥
कालावल्याम् ।
दृश्येताकस्मिकः क्वापि पुरुषः कृष्णपिङ्गलः ।
यदि वाऽब्दत्रये नूनं मरणं परिकीर्त्तयेत् ॥
घनीभूतमिवाकाशमाकाशमिव मेदिनीम् ।
विगीतमुभयं त्वेतत् पश्यन्मरणमृच्छति ॥
घनीभूतमिति कठिनतां यातम् । अथ वा घनीभूतं पृथिवीभूतम् । विगीतं विपरीतम् ।विष्णुधर्मोत्तरज्योतिःपराशरयोस्तु ।
पृथिवीमिव चाकाशमाकाशमिव मेदिनीम् ।
आकशमिव चात्मानं पूर्णमिन्दुं तथाऽतिथौ ॥
तोयवन्मेदिनीं तोयं मेदिनीमिव पश्यति ।
अतीन्द्रियं निरीक्षेत न चेत् तं करसंस्थितम् ॥
शुक्लकृष्णविपर्यासं सूक्ष्मासूक्ष्मविपर्ययम् ।
विपर्यासं सदसतामीक्षते जीवितक्षये ॥
सुश्रुतः ।
धूमनीहारवासोभिरावृतामिव मेदिनीम् ।
प्रदीप्तमिव लोकं च यो वै प्लुतमिवाम्भसा ।
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ।
यश्चानिलं मूर्त्तिमन्तमन्तरिक्षेऽभिपश्यति ॥
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ।
चरकस्तु ।
यस्य दर्शनमायाति मारुतोऽम्बरगोचरः ।
अग्निर्नायाति वा दीप्तस्तस्यायुःक्षयमादिशेत् ॥
स वै जले सुविमले जलजाले विशेन्नरः ।
स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते ॥
सिथते इति स्थिर इत्यर्थः ।
स एव ।
अग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम् ।
कृष्णं वा यदि वा शुक्लं सोऽग्नौ वसति सप्तमीम् ॥
सप्तमीमिति सप्तमीं निशाम् ।
आदित्यपुराणे ।
स वायुगात्रं त्वथ कृष्णरक्तं त्वाकस्मिकं स्वं च पुराग्रसंस्थम् ।
नराकृतिं वीक्ष्य त्रिभिस्तु वर्षैः सोत्कण्ठितो याति तनुं विहाय ॥
चरकः ।
आह्वयन्तं समीपस्थं स्वजनं जनमेव वा ।
महामोहावृतम्मन्यः पश्यन्नपि न पश्यति ॥
आदित्यपुराणे ।
दिवोदकेनैव मुखं प्रपूर्य फूत्कृत्य तन्मध्यगतं न पश्येत् ।
सुरेन्द्रचापं त्वथ वीक्षितं चेन्मासैश्चतुर्भिः किल संप्रयाति ॥
वीक्षितं पूर्वदृष्टम् ।
कालावल्यां च ।
प्रत्यर्कं वीक्ष्यते यस्तु विमेघेऽहनि यत्नतः ।
आपूर्य वदनं तोयैः फूत्कृतं वीक्षते क्रमात् ॥
तन्मध्ये दृश्यते नूनं धनुरिन्द्रस्य शोभनम् ।
तस्मिन्नदृश्यमाने तु षण्मासे मरणं भवेत् ॥
येन प्रत्यर्कं फूत्कृत्य जलकणौघमध्ये शक्रधनुः प्रत्यहं दृश्यते स यदा तन्न पश्यति तदा तस्य रिष्टं भवतीत्यर्थः ।
लिङ्गपुराणब्रह्माण्डपुराणयोः ।
दिवा वा यदि वा रात्रौ प्रत्यक्षे यो निहन्यते ।
हन्तारं न स पश्येच्च स गतायुर्न जीवति ॥
मार्कण्डेयपुराणे त्वस्यैव स्वप्ताहरिष्टत्वमुक्तम् ।
यश्चातिहन्यते भूतो दृट्वा रात्रावथो दिवा ।
स मृत्युं सप्तरात्रेण नरः प्राप्नोत्यसंशये ॥
पश्येन्मेलापकं क्वापि हंसकाकशिखण्डिनाम् ।
गम्यते तेन मासेन मृत्योर्वदनकोटरम् ॥
आदित्यपुराणे ।
देशे क्व चिद्धंसमयूरकाकसंङ्घातमुग्रं युगपद्रटन्तम् ।
मासि प्रपूर्णे स च संप्रयाति तां खण्डितां स्वां प्रकृतिं परां तु ॥
पश्येदिति सम्बन्धः ।
मयूरचित्रे ।
खरोष्ट्राश्वशृगालाश्च वृक्षस्योपरिसंस्थिताः ।
कथयन्ति तदा मृत्युं तत्र मासान्न संशयः ॥
कालावल्याम् ।
इन्द्रनीलनिभच्छाया मुक्ताफलविभूषिताः ।
शुक्लास्तस्था हि दृश्यन्ते यत्र गा व्योम्नि सन्निधौ ॥
तेषु वा दृश्यमानेषु षण्मासैर्मरणं दिशेत् ।
मार्कण्डेयपुराणे तु ।
स्ववस्त्रममलं शुक्लं रक्तं पश्येत् तथाऽसितम् ।
यः पुमान् मृत्युमापन्नं तस्यापि हि विनिर्दिशेत् ॥
कालावल्याम् ।
तत्राब्जं तु विजानीयात् षोडशच्छदमैन्दवम् ।
द्वादशारं भवेत् सौरमित्यागमगतिस्त्वियम् ॥
तत्र चत्वारि दृश्यानि दलान्यङ्गुलिपीडनात् ।
खद्योतद्युतिलावण्यभाजितावर्णयोरपि ॥
सोमाधो भ्रूलतापाङ्गप्राणान्तिकदले क्रमात् ।
विनष्टे निर्दिशेन्मृत्युं षड्भिर्युग्मैकमासतः ।
एष एव हि जायेत क्रमः सूर्येऽपि पूर्वकः ।
दिग्वाणगुणचन्द्रेषु दिनेषु मरणं दिशेत् ॥
पद्मयोरुभयोर्मध्ये चत्वारर्येव दलानि यः ।
पश्येदापीड्यमानानि मृत्युं दिनशर्तेर्दिशेत् ॥
अदित्यपुराणे ।
वामेक्षणाधःस्थितचन्द्रिकां स न पश्यति स्वाङ्गुलिपीडनेन ।
तदा स मासैर्विगतैश्च षड्भिः प्रयाति चैवं सकलं विहाय ॥
भ्रूमार्गसंकोचनसंस्थितां च संपीडनान्नैव पश्येद्यदा ताम् ।
तदा त्रिभिर्मासगतैर्नरश्च छिद्रं तु मर्माणि जहाति तानि ॥
कर्णपान्ते पीडयन्नानुपश्यन्मासद्वयेन प्रजहेत् स देहम् ।
घ्राणोपान्तं षोडयन्नानुपश्यन्मासेन देहं प्रजहाति तस्मात् ॥
नेत्रस्यार्धे दक्षिणस्याधःसंस्थां यदा कलां तां शशिनो न पश्येत् ।
तदा वर्षैश्चाष्टभिः स्वं च देहं जहेच्च नित्यं गतवाँश्च नित्यः ॥
नेत्राधःस्थां तां प्रपश्यन् स्वकान्तिं तस्माद्वर्षैः पञ्चभिः संप्रयाति ।
कर्णोपान्ते तां न पश्यँस्त्रिभिश्च वर्षैरतीतैः प्रजहाति सर्वम् ॥
घ्राणोपान्ते तां न पश्यँश्चतुर्भिर्वर्षद्वयेनैव गतेन मृत्युम् ।
सम द्वयोर्नेत्रयोस्तां च पश्यन्मार्गाष्टकस्थां युगपत् कलां तु ॥
मासैस्त्रिभिर्दशभिर्वासरैश्च रन्ध्रं व्रजेद्वासकसज्जिकां ताम् ।
अथ श्रोत्ररिष्टम् ।
गीताध्ययनवाद्यानामकस्माच्छृणुयाद्ध्वनिम् ।
ते प्रवृत्तं न शृणुयाद्विपरीतं शृणोति च ॥
दिव्यध्वनिं वा शृणुयाच्छृणुयाद्वाऽपि भैरवम् ।
अयाचितामादिशति भिक्षां देहीत्यसुक्षये ॥
शृणोति विविधान् शब्दान् यो दिव्यानसतो बहून् ।
समुद्रपुरमेघानामसम्पत्तौ च तत्स्वनात् ॥
तत्स्वनान् वा न गृह्णीते गृह्णीते वाऽन्यशब्दवत् ।
ग्राम्यारण्यस्वनाँश्चापि विपरीतान् शृणोत्यपि ॥
द्विषच्छन्देषु रमते सुहृच्छब्देषु कुप्यति ।
यश्चाकस्मान्नशृणोति तं ब्रुवन्ति गतायुषम् ॥
चरकः ।
अशब्दस्य च यः श्रोता शब्दोऽन्यश्च न बुध्यते ।
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ॥
मार्कण्डेयपुराणे ।
पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् ।
नश्यते चक्षुषो ज्योतिर्यस्य सोऽपि न जीवति ॥
पराशरः ।
श्रोत्रच्छिद्रयोरङ्गुल्यग्रावनद्धयोरन्तर्नादाश्रवणं सद्यो मरणाय ।
चरकस्तु ।
संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः ।
न शृणोति शुभं तत्र बुद्धिमान् परिवर्जयेत् ॥
कालावल्याम् ।
रत्यन्ते यदि वाऽकस्माद्घण्टानादोऽनुभूयते ।
येन तस्य विजानीयान्मरणं पाञ्चमासिकम् ॥
अथ घ्राणरिष्टं विष्णुधर्मोत्तरज्योतिःपराशरयोः ।
शोभनाशोभनघ्रेयग्रहणे तु विपर्ययः ।
सुरभीनामपां द्वेषो दुर्गन्धानामपीष्टता ॥
असुक्षयाय निर्दिष्टः प्रकृतेर्विकृतिर्यदि ।
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम् ।
न चेत् तान् सर्वशो विद्युस्तं विद्धि च गतायुषम् ॥
सुश्रुतस्तु ।
सुरभिं दूरभिं चेति दूरभिं सुरभिं तथा ।
यो वै गन्धं न गृह्णाति शान्तदीपे च मानवः ॥
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ।
मोक्षधर्मे तु ।
पूतिगन्धमुपघ्रति सुरभिं प्राप्य यो नरः ।
देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक् ॥
देवलः ।
दीपगन्धं च नापैति विद्यान्मृत्युमुपस्थितम् ।
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् । मार्कण्डेयपुराणे तु ।
दीपादिगन्धं नो वेत्ति.......- इति विशेषः ।
विष्णुधर्मोत्तरे ।
निर्वाणाद्दीपगन्धं तु यस्तु नाघ्राति मानवः ।
सप्ताहेन तु धर्मज्ञाः पश्यन्त्यर्कसुतं ध्रुवम् ॥
पराशरः ।
निर्वाणाद्दीपगन्धस्याघ्राणे सप्ताहात्-इति ।
अथ जिह्वारिष्टं विष्णुधर्मोत्तरज्योतिःपराशरयोः ।
षण्णां रसानां पर्यासमिष्टानिष्टविपर्ययः ।
अभक्ष्यलौल्यमत्यर्थं मरणायोपजायते ॥
सुश्रुतः ।
विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् ।
यो वै रसान् न संवेत्ति तं ब्रुवन्ति गतायुषम् ॥
श्लक्ष्णं खरं खरं श्लक्ष्णं शीतोष्णस्य विपर्ययम् ।
अकस्माद्वेत्ति यो देही दुर्लभं तस्य जीवितम् ॥
चरकस्तु ।
उष्णान् शीतान् खरान् श्लक्ष्णान् मृदूनपि सुदारुणान् ।
स्पर्श्यान् स्पृष्ट्वा ततोऽत्यर्थं मुमूर्षुस्तेष्वमन्यत ॥
सुश्रुतस्तु ।
यस्तूष्णमिति गृह्णाति शीतमुष्णं च शीतवत् ।
संजातशीतपिटको यश्च दाहेन पीड्यते ॥
उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते ।
प्रहारं नाभिजानाति स गच्छेद्यमशासनम् ॥
कालावल्याम् ।
खरशीतोष्णरूक्षादिस्पर्शश्चापि विहन्यते ।
गम्यते तेन मासेन मृत्योर्वदनकोटरम् ॥
ज्योतिःपराशरविष्णुधर्मोत्तरयोः ।
स्पर्शदृष्टिरसघ्राणशब्दचेष्टाविपर्ययः ।
दृश्यते हि मुमूर्षाणां स्वस्थातुरशरीरिणाम् ॥
चरकस्तु ।
शब्दः स्पर्शो रसो गन्धो रूपं चेष्टा विचिन्तितम् ।
उत्पद्यन्ते शुभान्येव प्रतिकर्मप्रवृत्तिषु ॥
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ।
प्रतिकर्मप्रवृत्तिष्विति तदर्थसकलधर्मप्रवृत्तिष्वित्यर्थः ।
पराशरः ।
यो न वेत्तीन्द्रियग्राह्यं वेत्ति वाऽतीन्द्रियं नरः ।
तपोयोगादृते देही देहमन्यं प्रयात्यसौ ॥
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम् ।
इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति ॥
तथा ।
स्वस्थः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतिः ।
पश्यन्ति येषु बहुशस्तेषां मरणमादिशेत् ॥
अथ केशाद्यरिष्टम् । तत्र चरकः ।
प्रमुह्य च नखान् केशान् प्रतिगृह्णात्यतीव च ।
तथा ।
यस्य केशातिरिक्ताश्च दृश्यन्तेऽभ्यक्तसन्निभाः ।
उपरुद्धायुषं ज्ञात्वा तं नरं परिवर्जयेत् ॥
आयम्योत्पाटितान् केशान् यो नरो नानुबुध्यते ।
अनातुरो वा रोगी वा षड्रात्रं नातिवर्त्तते ॥
मोक्षधर्मे ।
मूर्धतश्चोत्पतेद्धूमः सद्यो मृत्युनिदर्शकः ।
लिङ्गपुराणे तु ।
धूमं वा मस्तकात् पश्यन् दशाहं न स जीवति ।
देवलस्तु ।
मस्तके तु भवेद्धूमोऽर्धमासं न स जीवति ।
पराशरस्तु ।
जलार्द्रशिरसि धूमाभिदर्शनं सूर्यसंतप्तमस्तकस्यादर्शनमूष्मणो वा त्र्यहात् ।
प्रबलतरधूमदर्शमपरमेतत् ।
तथा च कालावल्याम् ।
उपरिष्टाद्विसर्पन्ति पञ्चाहं धूममालिकाम् ।
ब्रह्मद्वारेण पश्येद्यस्तस्यायुस्त्रिसमावधि ॥
छायाऽशिरष्का कचधूमनाशः खण्डं पदं देहजघोषहानिः ।
आहारशीलाकृतिवैकृतं च प्राप्तं कृतान्तं कथयन्ति तज्ज्ञाः ॥
चरकः ।
यस्य गोमयचूर्णाभं तूर्णं मूर्धनि जायते ।
सस्नेहं च भवेत् तत्र मासान्तं तस्य जीवितम् ॥
पराशरस्तु ।
गोमायचूर्णतुल्यरजसोऽङ्गेभ्य उत्तमाङ्गात् प्रवर्त्तनं पञ्चमे ।
कालावल्याम् ।
कमारुह्य व्रजेद्वेगी कृकलासस्तु यस्य हि ।
वर्णत्रयं बिभर्त्त्याशु तन्नाशः पाञ्चमासिकः ॥
कं शिरः ।
आदित्यपुराणे तु ।
यदा तु पीतारुणकृष्णवर्णं ब्रह्मद्वारे कृकलासं प्रपश्येत् ।
तदा स वै तच्छरीरं जहाति बालं त्वनाथेन भयादरण्ये ॥
कृकलासप्रकरणे वसन्तराजः ।
पतव्यकस्मात् तु स यस्य मूर्ध्नि शिवाय तस्याद्भुतशान्तिरुक्ता ।
शान्तिः चतुष्पदवैकृते विहिता ।
पराशरः ।
काकस्येनगृध्रादीनां क्रव्यभुजां पक्षिणां वाऽकस्माच्छिरोऽभिलयनं षष्ठे ।
विष्णुधर्मोत्तरे तु ।
क्रव्यादाः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः ।
काकस्येनादयस्तस्य षष्ठे मरणमादिशेत् ॥
देवलस्तु ।
काकः कपोतो गृध्रो वा निलीनो यस्य मूर्धनि ।
क्रव्यादाः पक्षिणश्चैव षण्मासान् न स जीवति ॥
गृध्रः कपोतः काको वा वायसो वाऽऽपि मूर्धनि ।
क्रव्यादो वा खगो लीनः षण्मासं न निवर्त्तते ॥
चरकः ।
लेखाभिश्चन्द्रवक्त्राभिर्ललाटमुपलीयते ।
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत् ॥
धमनीनामपूर्वाणां जालमत्यर्थशोभनम् ।
ललाटे दृश्यते यस्य षण्मासान् न स जीवति ॥
ललाटे वस्तिशीर्षे वा नीला यस्य प्रकाशते ।
राजी बालेन्दुकुटिला न सजीवितुमर्हति ॥
चरकः ।
भ्रृवोर्वा यदि वा मूर्ध्नि सीमन्तावर्त्तकान् बहून् ।
अपूर्वानकृताव्यक्तान् दृष्ट्वा मरणमादिशेत् ॥
त्र्यहमेते न जीवन्ति लक्षणेनान्तरा जनाः ।
अरोगाणां पुनस्तेतत् षड्रात्रं परमुच्यते ॥
चरकः ।
यस्य चेत् पक्ष्माणि जटाबद्धानि स्युः स परासुरिति विन्द्यात् ।
तथा ।
जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते ।
यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत् ॥
यस्य सूनानि वर्ष्माणि न समायान्ति शुप्यतः ।
चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव सः ॥
सूनानि उच्छ्वसितानि । वर्ष्माणि नयनोपरिष्टानि न समायान्ति सम्यक् संपूर्यन्ते ।
उपदिह्येते उपचिते भवतः ।
विष्णुधर्मोत्तरे ।
अवघट्टनं नेत्रस्य विना रोगं यदा भवेत् ।
एकस्य यदि वा दृश्येत् स्थानभ्रंशो द्वितीयके ॥
द्वितीयके मासि मरणायेति सम्बन्धः ।
पराशरः ।
एकनयनश्रावो विना रोगमवघट्टनं स्थानभ्रशनं वा द्वितीयके ।
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप ।
मूर्धतश्चोत्पतेद्धूमः सद्यो मृत्युनिदर्शनम् ॥
पराशरस्तु ।
परिभ्रान्ते स्थिरे ध्वस्तेऽव्यक्तनिन्द्ये विलोचने ।
उत्फुल्ले वर्त्मनो मूर्त्तदृष्टिर्देवोऽऽर्धदृष्टिके ॥
विवर्णश्यामहरिते निमेषरहिते प्लुते ।
निम्ने निमेषबहुले नेत्रे स्यातामसुक्षये ॥
चरकस्तु ।
तस्य चेच्चक्षुषी प्रकृतिहीने विप्नुक्तं अत्युत्पिण्डिते अतिप्रविष्टे अतिजिह्मे अतिविषमे अतिविमुक्तबन्धने । अतिप्रस्तुतोन्मिषिते सततनिमेषिते निमेषितोन्मेषातिप्रवृत्ते विपरीतदृष्टिके व्यस्तदृष्टिके । नकुलार्थे कपोतार्थे अलाभवर्णे कृष्णनीलश्यामघना
प्रहरणनिद्रामुक्तानां वैकारिकाणां वर्णानामन्यतमेनाभिसंप्लुते वा
स्यातां परासुरिति विन्द्यात् ।
विमुक्ते इति विगतियुक्ते । अत्युत्पिण्डिते अत्यन्तनिर्गते । अतिजिह्मे अतिकुटिले । अतिविषमे इति एकं संवृत्तमपरं विस्तृतम् । विपरीतदृष्टिके इति केकरदृष्टिके । अथवाऽन्यथा ग्राहिणी व्यस्तदृष्टिके इति विस्तृतिदृष्टिमण्डले ।
नकुलार्थे इति दिवा शुक्लरूपदर्शनी । कपोतार्थे इति दिवा कृष्णरूपदर्शिनी ।
तथा च तयोर्लक्षणम् ।
नकुलार्थस्तु रूपाणि दिवा शुक्लानि पश्यति ।
कपोतार्थस्तु रूपाणि दिवा कृष्णानि पश्यति ॥
अलाभवर्णे इति तप्ताङ्गारवर्णे । आदित्यपुराणे ।
सश्वेततारश्च दिने प्रयाति रक्तेक्षणः सन्ध्ययोश्चापि जीवः ।
निश्मगमे नीलतारः प्रयाति कामीव वा वर्जितलोलनेत्रः ॥
सुश्रुतः ।
यस्य दृष्टिमण्डले भिन्नविकृतीनि रूपाण्यालोक्यन्ते तस्य
मरणाय - इत्यनुवर्त्तते ।
देवलः ।
नासा च वक्रा भवति स ज्ञेयो गतजीवितः ।
लिङ्गपुराणब्रह्माण्डपुरणयोरष्येवम् ।
पराशरस्तु ।
वक्रविकृतनासादर्शनं मासान्ते ।
मरणायेति सम्बन्धः ।
विष्णुधर्मोत्तरे ।
मासेन विकृता नासा वक्रा च मरणप्रदा ।
नासाभङ्गेन धर्मज्ञ द्व्यहान्मरणमादिशेत् ॥
चरकः ।
गायतो नासिकावंशः पृथुत्वं यस्य गच्छति ।
असूनः सूनसंकाशः प्रत्याख्येयो विजानता ।
मार्कण्डेयपुराणे ।
नासिका वक्रतामेति कर्णयोर्नमनोन्नती ।
नेत्रं च वामं स्रवति स ज्ञेयो गतजीवितः ॥
लिङ्गपुराणे तु ।
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः ।
नासा वक्रा च भवति स ज्ञेयो गतजीवितः ॥
ब्रह्माण्डपुराणेऽप्यष्येवम् ।
कालावल्याम् ।
नेत्रे च वर्त्तुलीभूते कर्णौ भ्रष्टौ स्वदेशतः ।
वक्रा नासा भवेद्यस्य सप्तरात्रं स जीवति ॥
आदित्यपुराणेऽप्येवम् ।
मोक्षधर्मे तु ।
कर्णनासाधरसमं दन्तदृष्टिविरागिता ।
संज्ञालोपो निरूष्मत्वं सद्यो मृत्युनिदर्शनम् ॥
देवलः ।
गण्डयोः पिटके रक्ते तस्य मृत्युरुपस्थितः ।
लिङ्गपुराणेऽप्येवम् ।
ब्रह्माण्डपुराणे तु ।
गण्डे च पिटका रक्तास्तस्य मृत्युरुपस्थितः ।
पराशरश्च ।
गण्डयोश्च रक्ततिलकानामुत्पत्तिरहोरात्रात् ।
विष्णुधर्मोत्तरे तु ।
गण्डयोस्तिलकान् रक्तान् वर्णवैकृत्यमेव च ।
अहोरात्रेण मरणं पुरुषस्य समादिशेत् ॥
चरकः ।
यस्य नीलावुभावोष्ठौ पक्वजाम्बवरसंनिभौ ।
मुमूर्षुरिति तं विन्द्यान्नरं धीरो गतायुषम्-इति ॥
पराशरः ।
अकस्मात् पुष्पिता रूक्षा दग्धा स्थिरदृशाश्चलाः ।
सूक्ष्मस्थूलविपर्यस्था विरलाः सहितास्तथा ॥
अतिह्रस्वातिदीर्घा वा नताः शर्करिणोऽसिताः ।
प्रकृत्या विकृता दन्ता दृश्यन्ते जीवितक्षये ॥
चरकस्तु ।
अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः ।
विकृतासन्नरोगं तु विहायाराग्यमश्नुते ॥
दन्ताः प्रतिकीर्णाः श्वेताः जायन्ते शर्करा वा स्युः परासुरिति विन्द्यात् ।
तथाऽतिश्वेतना गुर्वी कटकोपचिता भृशम् ।
श्यामा सूनाऽर्थ वा शुष्का प्रेतजिह्वा प्रसर्पिणी ॥
अंत्यर्थविनता यस्य यस्य चात्यर्थसंवृता ।
जिह्वा वा परिशुष्का वा नासिका न स जीवति ॥
व्यावृत्तमूर्धजिह्वाक्षौ भ्रुवौ यस्य च विच्युते ।
कण्टकैश्चाचिता जिह्वायथा प्रेतस्तथैव सः ॥
तथा ।
मुखं चूर्णसमं तप्तं लिङ्गं सद्यो मरिष्यतः ।
तथा ।
नीलं वा यदि वा श्यामं ताम्रं वा यदि वारुणम् ।
मुखार्धे चान्यथा वर्णे मुखार्धे रिष्टमुच्यते ॥
स्नेहो मुखार्धे सुव्यक्ते रौक्षमर्धमुखे भृशम् ।
ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम् ॥
तिलकाः पिल्लवो व्यङ्गा राजयश्च पृथग्विधाः ।
आतुरस्याशु जायन्ते मुखे प्राणान्मुमुक्षतः ॥
मार्कण्डेयपुराणे ।
आरक्ततामेलि मुखं जिह्वा श्यामा सिता यदा ।
तदा प्राज्ञो विजानीयान्मृत्युमात्मानमादिशेत् ॥
लिङ्गपुराणे तु ।
यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम् ।
गण्डे च पिटके रक्ते तस्य मृत्युरुपस्थितः ॥
ब्रह्माण्डपुराणेऽष्वेवम् | चरकस्तु ।
मुखशब्दश्रवावोष्ठौ शुक्लस्यावातिलोहितौ ।
विकृत्या यस्य चानीलौ न स रोगाद्विमुच्यते ॥
कालावल्यां तु ।
कालाक्षयोर्मुखं चूर्णं सङ्ख्योर्मुक्तमांसता ।
संत्रासश्चोष्णता वंशे यस्य तं परिवर्जयेत् ॥
कालावल्यां तु ।
कृष्णपद्मोपमं वक्त्रं रसना कज्जलच्छविः ।
ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ॥
आदित्यपुराणे ।
पश्येच्च रक्तोत्पलकान्ति वक्त्रं नानावर्णस्त्वथ वा कृष्णजिह्वः
तदाऽर्धमासेन च तां प्रयाति पुनः प्रहृष्टः कलहान्तरीयाम् ॥
देवलस्तु ।
यस्य कृष्णौ करौ जिह्वा पद्माभासं च वै मुखम् ।
गण्डे च पिटका रक्ताः स जीवेच्चतुरो दिनान् ॥
चरकः ।
शुष्कत्वादास्य कण्ठस्य पेयं पातुं न पारयेत् ।
उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ॥
आदित्यपुराणे तु ।
सखिन्नहृत्कम्पिततालुमन्दस्खलद्द्विजिह्वश्च यदा महात्मा ।
तदाऽर्धमासेन च तां प्रयाति पुनः प्रहृष्टः कलहान्तरीयाम् ॥
कालावल्याम् ।
गात्रेऽप्यनेकशो वर्णा हृदयं वाऽपि रोदिति ।
तालुकण्ठौष्टनाभिश्च हिक्वा वाऽकस्मिकी यदा ॥
ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ।
चरकः ।
तस्य चेन्मध्ये परिदृश्यमाने स्पन्देयातां परासुरिति विन्द्यात्
यस्य वै भुक्तमात्रस्य हृदयं पीड्यते क्षुधा ।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥
मार्कण्डेयपुराणे तु ।
यस्य वै स्नानमात्रस्य हृदयं पीड्यते भृशम् ।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥
मार्कण्डेयपुराणेऽप्येवम् ।
लिङ्गपुराणे तु ।
यस्य वै स्नानमात्रस्य हृत्पादमवशुष्यति ।
पिबतश्च जलं शोषो दशाहं सोऽपि जीवति ॥
पराशरः ।
सद्यः स्नानानुलिप्तस्य हृत्पाणिपादाशुशोषणं त्र्यहात् ।
विष्णुधर्मोत्तरे ।
सद्यः स्नानानुलिप्तस्य हृत्पादशिरसां भवेत् ।
क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत् ॥
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
देवलस्तु ।
यस्य वै स्नानमात्रस्य उरः पादौ च शुष्यतः ।
मस्तके वा भवेद्धूमोऽर्धमासं न स जीवति ॥
चरकस्तु ।
यस्य स्नानानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम् ।
आर्द्रेषु सर्वमात्रेषु मासार्धं न स जीवति ॥
कालावल्यां तु ।
स्नानमात्रस्य यदपि हृत्पादौ शुष्यतः क्षणात् ।
मासद्वये गते तस्य गमनं यमसद्मनि ॥
मयूरचित्रे ।
हृदये मस्तके चापि कृशा दीप्तिर्विभाति च ।
मृत्युं तस्य विजानीयादर्वाग्मासद्वये ध्रुवम् ॥
चरकः ।
तस्य चेदुदरे शीर्षे शिरः प्रभाषेरन् श्यामताम्रहरिद्रानीलशुष्काश्च स्युः परासुरिति विन्द्यात् ।
मार्कण्डेयपुराणे ।
ऊर्ध्वं च दृष्टिर्न च संप्रतिष्ठिता रक्ता पुनः संपरिवर्त्तमाना।
मुखस्य चोष्मा शुषिरं च नाभेः शंसन्ति पुंसामपरं शरीरम् ॥
लिङ्गपुराणे ।
ऊर्ध्वं च दृष्टिर्न च संप्रतिष्ठिता रक्ताः पुनः संपरिवर्त्तमानाः ।
मुखस्य सोष्मा शुषिरा च नाभिरत्युष्णमूत्रो विषमस्य एषः ॥
ब्रह्माण्डपुराणेऽप्येवम् ।
चरकश्च
शेफश्चात्यन्त्यमुत्सिक्तं निःसृतौ वृषणौ भृशम् ।
ततश्चैव विपर्यासौ विकृत्या प्रेतलक्षणम् ॥
कालावल्यां तु ।
गच्छतश्च ततः पश्चान्निर्गमाद्बाहुजङ्घयोः ।
ब्रह्मसूत्रविनाशो वा नाशस्तस्यैकवासरः ॥
आदित्यपुराणे ।
निर्गच्छेद्वा वेश्मनो बाहुजङ्घाकपाटभङ्गे युगपद्गते च ।
तस्मिन् दिने सनिःशेषं प्रलीने सोत्कण्ठितां तामनुसंप्रयाति ॥
चरकः ।
घटयन् जानुना जानु पादावुद्यन् प्रपातयन् ।
यो यास्यति मुहुर्वक्त्रमातुरो न स जीवति ॥
हस्तौ पादौ धमन्यौ च तालु चैवातिशीतलम् ।
भवत्यायुः क्षये क्रूरमथ वा तु भवेन्मृदु ॥
हस्तपादं मुखं चोभे विशेषाद्यस्य शष्यतः ।
श्रूयते वा विना देहं स च मासाद्विनश्यति ॥
कालावल्याम् ।
स्वहस्तपादयोरेव वामदक्षिणयोरपि ।
अनामिकोत्तरदेशे आव्रणे कृष्णयोस्तदा ॥
दृष्टयोर्जीव्यते त्वष्टादशाहानि न संशयः ।
आदित्यपुराणे ।
पूर्णां तथा पादयोः कृष्णरेखां दिश्युत्तस्यां समुपस्थितां च ।
अनामिकोर्ध्वे नखपर्वणी च प्रयाति चाष्टादशभिर्दिनैश्च ॥
चरकः ।
अथास्याङ्गुलिरागच्छेत् तस्य चेदङ्गुलय आयामा न स्फुटेयुः
परासुरिति विन्द्यात् ।
तथा ।
तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बुवर्णा वा स्युः परासुरिति विन्द्यात् ।
तथा ।
पुष्पाणि नखदन्तेषु पक्वो वा दन्तसंश्रितः ।
चूर्णकश्चोष्णदन्तेषु लक्षणं मरणस्य तत् ॥
ओष्ठयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीषयोः ।
नखेष्वपि च वैवर्ण्यमेतत् क्षीणबलेऽन्तकृत् ॥
निकषन्ति च यः पादौ च्युताशः परिधावति ।
विकृत्या नरलोकेऽस्मिँश्चिरं वसति मानवः ॥
अयोगमभियोगं वा शरीरे मतिमान् भिषक् ।
खादीनां युपद्दृष्ट्वा भेषजं न विचारयेत् ॥
दन्तै श्छिद्रनखाग्राणि नखैश्छिद्यन् शिरोरुहान् ।
भूमिं काष्ठेन विलिखन् न रोगात् परिमुच्यते ॥
मुहुर्हसन् मुहुः क्ष्वेडन् शयनं हन्ति यः सदा ।
मुहुश्छिद्राणि विमृशेद्यो नरो न स जीवति ॥
आदित्यपुराणे ।
खण्डं स्वपादौ च निरीक्ष्य भूमौ मासैश्चतुर्भिस्त्वथ संप्रयाति ।
मार्कण्डेयपुराणे ।
खण्डं यस्य पदे पाष्णर्यो पदस्याग्रेऽथ वा भवेत् ।
पांशुकर्दमयोर्मध्ये सप्त मासान् स जीवति
देवलस्तु ।
पांशौ वा कर्दमे वाऽपि यस्य खण्डं पदं भवेत् ।
अग्रतः पृष्ठतो वाऽपि सप्त मासान् स जीवति ॥
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
पराशरस्तु ।
सिकतापांशुकर्दमेषु विकृतासकलपादाङ्गदर्शनं वा सप्तमे।
मयूरचित्रे ।
वालुकापांशुमध्ये च पदं दत्वा न पश्यति ।
मृत्युं तस्य विजानीयात् सप्तमासान्तरेण तु ॥
विष्णुधर्मोत्तरे ।
पदं वा सकलं यस्य खण्डं विकृतमेव वा ।
पांशुकर्दमयोदृश्येत् सप्तमे मासि मृत्युभाक् ॥
चरकः ।
चिरात् कालं मरिष्यतीति विन्द्यात् ।
तथा ।
निचितं यस्य मांसे स्यात् त्वगस्थिष्वेव दृश्यते ।
क्षीणं स्यान्न शुभं तस्य मासमायुः परं भवेत् ॥
ह्रस्वं च यः प्रश्वसिति त्वविद्धं स्पन्दते च यः ।
मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः ।
दीर्घं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते ।
हीनवर्णबलाहारो यो नरो न स जीवति ॥
दूर्वाग्रे[३७६] नयने यस्य मन्ये चानतकम्पने ।
बलहीनः पिपासार्त्तः शुष्कास्यो न स जीवति ॥
मार्कण्डेयपुराणे ।
संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।
न हृष्यतेऽम्बुस्पर्शाच्च तस्य मृत्युरुपस्थितः ॥
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् । देवलस्तु ।
मारुतो यस्य गात्रेषु मर्मस्थानानि कृन्तति ।
जीवेत त्र्यहं तु स नरो न संदेहस्तथा भवेत् ॥
अद्भिः स्पृष्टो न हृष्येत नाहनी द्वे स जीवति ।
चरकः ।
रसन्ति बलमङ्गानि चेष्टा व्युपरमन्ति वा ।
वैरस्यं भजते कायः कायच्छिद्रं विशुष्यति ॥
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ।
शरीरकम्पः संमोहो गतिर्वचनमेव च ॥
मर्त्तस्य चोपलभ्यन्ते यस्य मासे स जीवति ।
देवलः ।
अकस्माद्यो भवेत् स्थूलो योऽकस्माद्वा भवेत् कृशः ।
प्रकृतिर्विकृतिश्चैव अष्टमासान् स जीवति ॥
मार्कण्डेयपुराणे ।
स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते ।
प्रकृतेश्च निवर्त्तेद्यस्तस्यायुश्चाष्टमासिकम् ॥
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
विष्णुधर्मोत्तरे ।
दौर्बल्यं जायते यस्य बहुसम्पन्नभोजिनः ।
अनश्ने तस्य पीनत्वमष्टमे स्यात् स मृत्यभाक् ॥
पराशरस्तु ।
बहुसम्पन्नभुजो वाऽकस्माद्वलोपचयहानिरशुभो वाऽतिवृद्धिरष्टमे ।
स्थूलश्चाकस्मिको जायेताथ वाऽऽकस्मिकः कृशः ।
अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति ॥
आदिपुराणे[३७७] चैवम् ।
चरकस्तु ।
समस्तगुणसम्पन्नमन्नमश्नाति यो नरः ।
शश्वच्च बलवर्णभ्यां हीयते न स जीवति ॥
पराशरः ।
कृष्णपुरुषवर्णप्रादुर्भावमात्रोऽहोरात्रात् ।
कालावल्यां तु ।
गात्रेऽप्यनेकशो वर्णान् हृदयं वाऽपि रोदिति ।
ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ॥
चरकस्तु
यस्य वैकारिको वर्णः शरीरे तूपलभ्यते ।
अर्धे वा यदि वा कृत्स्त्ने निमित्तं न च नास्ति सः ॥
तथा ।
प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणभागेन यद्येवं पूर्वपश्चिमविभागेन यद्युत्तराधरविभागेन यद्यन्तर्बहिर्विभागेनान्तरिष्टमिति विन्द्यात् ।
वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याता इति ।पूर्वपश्चिमविभागेनेति अभिमुखपृष्टविभागेनेत्यर्थः । अन्तर्विभागेनेति । अत्रान्तर्गतो वर्णौ मुग्वनासाकर्णादिश्रोत्रान्तर्गतो बोद्धव्यः ।
चरकः ।
यो रसः प्रकृतिस्थानां नराणां देहसम्भवः ।
स एषां चरमे काले विकारं भजते द्वयम् ॥
कश्चिदेवास्य वैरस्यमत्यर्थमुपपद्यते ।
स्वादुत्वमपरश्चापि विपुलं भजते पुनः ॥
तमप्यनेन न्यायेन विद्याद्विकृतितां गतम् ।
मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात् ॥
मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह ।
विरसादपसर्पन्ते जन्तोः कायान्मुमूर्षतः ॥
अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः ।
अपि स्नातानुलिप्तस्य भृशमायन्ति सर्वशः ॥
तथा ।
सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः
सिप्रायन्ते घर्मायन्त इति। विष्णुधर्मोत्तरे ।
अर्धमासेन दुर्गन्धप्रभवस्य शरीरतः ।
मार्कण्डेयपुराणे च ।
यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।
तस्यार्धमासिकं ज्ञेयं योगिनो नृप जीवितम् ॥
वस्तसमश्छागसम इत्यर्थः ।
लिङ्गपुराणेऽप्येवम् ।
पराशरस्तु ।
अर्धमासाच्छवशोणितकुणपविण्मूत्रामनोज्ञगन्धप्रवर्त्तनहेतुकं गात्रेभ्यः -इति ।
कुणपः पिशाचादिः ।
देवलः ।
शवगन्धो भवेद्यस्य द्वादशाहं स जीवति ।
शवगन्धो भवेद्यस्य तिस्रो रात्रीः स जीवति ।
आदिपुराणे तु ।
उत्खातरोमाञ्चविरक्तदेहो निर्वर्षदन्तो विकृताननश्च ।
एभिर्दिनैः शावगन्धं प्रयाति परां च तां मण्डलां संप्रकर्त्तुम् ॥
सुश्रुतस्तु ।
पक्वमत्स्य[३७८]वशातैलघृतगन्धाश्च ये नराः ।
मद्यगन्धाश्च ये यान्ति गतास्ते यमसद्मनि ॥
चरकस्तु ।
नानापुष्पोपमा गन्धा यस्य चाभिदिवानिशम् ।
पुष्पितस्य वनस्येव नानाद्रुमलतावतः ॥
तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः ।
स चैवं वत्सराद्देहं जहातीति न संशयः ॥
एवमेकैकशः पुष्पैर्यस्य गन्धसमो भवेत् ।
इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते ॥
स मासेनाशुभान् गन्धानेकैकस्याथ वा पुनः ।
आजिघ्रेद्यस्य गात्रेषु तं विन्द्यान् पुष्पितं भिषक् ।
आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः ।
व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते ॥
तद्यथा चन्दनं कुष्टं तगरागुरुणी मधु ।
माल्यमूत्रपुरीषे च मृतानि कुणपस्य च ॥
ये चान्ये विविधात्मानो गन्धा विविधयोनयः ।
तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः ॥
इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम् ।
वक्ष्यामि यदभिज्ञाय भिषग्मरणमादिशेत् ॥
वियोनिर्वित्वरो गन्धो यस्य गात्रेषु जायते ।
इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम् ।
वित्वरः स्थायीत्यर्थः ।
पराशरस्तु ।
सुरभिर्वाऽप्यसुरभिर्यस्य गन्धः प्रवर्त्तते ।
अस्वस्थः स्वस्थदेहः स्याद्दृष्टं तज्जीवितान्तकृत् ॥
सुश्रुतस्तु ।
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते ।
वर्णान्यता वा रूक्षो वा यस्य गात्रे भवन्ति च ॥
स्नातानुलिप्तं यच्चापि भजन्ते नीलमक्षिकाः ।
सुगन्धिर्वाति वाऽकस्मात् तं ब्रुवन्ति गतायुषम् ॥
अर्धं शीतं त्वथ देहार्धमुष्णं सर्वं त्वकस्मादथ वा प्रतप्तम् ।
कुर्वन् दिनैः सप्तभिः संप्रयाति स्वाधीनेष्टां तां प्रियां कामुकेन ॥
कालावल्यां च ।
उष्णं यस्य भवेदर्धं शरीरं चार्धशीतलम् ।
तस्य सप्तमरात्रौ तु मृत्युरित्यागमोदितः ॥
यस्य चाकस्मिकी ज्वाला ज्वलन्ती जायते तनौ ।
स याति सप्तदिवसे मृत्योर्वदनकोटरे ॥
चरकस्तु ।
भृशं दाहाभिभूतस्य क्रोशतो भृशशीतलम् ।
यस्याङ्गमुपलभ्येत यथा प्रेतस्तथैव सः ॥
तथा ।
एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः ।
सहसोत्पद्यते जन्तोहीर्यमानस्य नास्ति सः ॥
पराशरस्तु ।
स्वरः प्रकृत्या विकृतो विस्वरोऽतिस्वरः कृशः ।
अजैडकानुकारी वा पक्षिणो वाऽप्यसुक्षये ।
चरकः ।
अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः ।
श्रोतारं चापशब्दस्य दूरतः परिवर्जयेत् ॥
यस्यान्यदपि किंचित् स्याद्वैकृतं स्वरवर्णयोः ।
बलमांसविहीनस्य तत् सर्वं मरणोदयम् ॥
तथा ।
वर्णस्वराग्निबलं वागिन्द्रियमनोबलम् ।
हीयेतायुःक्षये नित्या निद्रा भवति मानवे ॥
अतिदीर्घोऽतिह्रस्वो वा भृशमुष्णोऽतिशीतलः ।
उच्छ्वासः प्राणसंत्यागे गतासूनां प्रजायते ॥
चरकस्तु ।
दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति ।
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ॥
चरकस्तु ।
संस्थानेन प्रमाणेन वर्णेन प्रभयाऽपि वा ।
छाया विवर्त्तते यस्य स्वप्नेऽपि प्रेत एव सः ॥
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च या ।
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम् ॥
प्रतिप्रमाणसंस्थानां जलादर्शातपादिषु ।
छाया या सा प्रतिछाया छाया वर्णप्रभाश्रया ॥
श्वादीनां पञ्चपञ्चानां छाया विविधलक्षणा ।
नाभसी निर्मला नीला सस्नेहा निर्मलेव च ॥
रूक्षा श्यावाऽरुणा या च वायवी सा हतप्रभा ।
विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया ॥
शुद्धवैडूर्यविमला सुस्निग्धा चाऽम्भसी मता ।
स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी ॥
वायवी गर्हिता तासां चतस्रः स्युः शुभोदयाः ।
वायवी तु विनाशाय क्लेशाय महतेऽपि वा ॥
स्यात् तेजसी प्रभा सर्वा सा तु सप्तविधा स्मृता ।
रक्ता पीता सिता श्यामा हरिता पाण्डुराऽसिता ॥
तासां याः स्यर्विकाशिन्यः स्निग्धाश्च विमलाश्च याः ।
ताः शुभा रूक्षमलिनाः संक्षिप्ताश्च शुभोदयाः ॥
वर्णमाक्रामति छाया भाति वर्णप्रकाशिनी ।
आसन्ना लक्ष्यते छाया भा प्रकृष्टा प्रकाशते ॥
ना छायोनोऽप्रभः कश्चिद्विशेषाच्चिह्वयन्ति च ।
नृणां शुभाशुभोत्पत्तिं कालच्छायाः प्रभाश्रयाः ॥
कालावल्याम् ।
सायं चोषसि रात्रौ वा ज्योत्स्नावत्यां प्रयत्नतः ।
बाहू वितत्य चात्मीयां छायामालोक्य सर्वतः ॥
शनैरुत्तोलिते नेत्रे स्वछाया दृश्यतेऽम्बरे ।
न दृश्यते यदा तत्र शिरो मरणमादिशेत् ॥
पूर्ववच्च यदा बाहुर्दक्षिणो न विभाव्यते ।
भ्रातृनाशं विजानीयाद्वामो वाऽथ न दृश्यते ॥
बाहुस्ततो न संदिग्धं कलत्रसुतनाशकः ।
आदिपुराणे च ।
सूर्योदये वाऽस्तमने निशायां चन्द्रस्य ज्योत्स्नामथ चोत्थितस्तु
स्वात्मछायां बाहुदण्डौ प्रसार्य दृष्ट्वा कबन्धं प्रजहाति देहम् ॥
पश्यँश्च तां दक्षिणबाहुहीनां विसर्जयेद्भ्रातरमग्रभूतम् ।
पश्यँश्च तां वामभुजोच्छ्रितां च पुत्राँश्च दाराँश्च विसर्जयेच्च ॥
कालावल्याम् ।
ईषत्प्रविततौ बाहू जानूपरि निवेश्य च ।
एकीकृय च बाहूर्ध्वं दिदृक्षुस्तु करो भवन् ॥
रम्भाकोशनिभां छायां लक्षयेत् प्रत्यहं नरः ।
यदा त्वेकदलं तत्र विकाशि परिलक्षयेत् ॥
तस्यामेव तदा नुनं पूर्ववत् परिकल्पयेत् ।
आदिपुराणे ।
कृत्वा कराभ्यां मुकुटं ललाटे त्वरं निधायाथ च जानुपूर्वे ।
सुवर्तुलां तां च निरीक्ष्य भूयो विशेत् स्वदेहं समरान्निवृत्तः ॥
विशीर्णपर्णामथ तां च दृष्ट्वा षड्भिर्मासैस्तां सदेहां जहाति ।
यथैव हंसो वकतुण्डघातैर्विकीर्णपत्रां नलिनीं विरूपाम् ॥
मार्कण्डेयपुराणे तु ।
स्वां छायामथ वा दृष्टा चतुर्मासान् स जीवति ।
स्वच्छायाविकृतदर्शनं पञ्चमे मासि मरणाय-इति सम्बन्धः ।
महाभारते मोक्षधर्मे ।
"परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ।
आत्मच्छायाकृतीभूतं तेऽपि संवत्सररायुषः"[३७९] ॥
यस्य नेत्रे बहुभिः स्वदेहो न दृश्यते तस्यैव रिष्टं भवति ।
तथा च रिष्टप्रकरणे हारीतः ।
आदर्शतलसकाशे नेत्रे नष्टकुमारिका ।
चरकस्तु
दृष्ट्वा यस्य हि जानीयादात्मरूपां कुमारिकाम् ।
प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम् ॥
भागवते कंसारिष्टदर्शने ।
"अदर्शनं स्वशिरसः प्रतिरूपेषु सत्स्वपि"[३८०] |
पराशरस्तु ।
निर्मलेऽम्बुन्यादर्शे चात्मदेहादर्शनं स्वशिरश्च सद्यो मरणाय ।
मार्कण्डेयपुराणे तु ।
घृते तैले तथाऽऽदर्शे तोये वा नात्मनस्तनुम् ।
यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति ॥
आदिपुराणे ।
पश्यन्नपश्यञ्जलदर्पणेषु वक्त्रं तथा स्पर्शनस्वेदनं च ।
मासि प्रपूर्णे स च संप्रायाति लोकोत्तरं तत्र किमत्र चित्रम्[३८१] ॥
लिङ्गपुराणे ।
अप्सु वा यदि वाऽऽदर्शे यद्यात्मानं न पश्यति ।
अशिरस्कं तथाऽऽत्मानं मासादूर्ध्वं न जीवति ॥
देवलस्तु ।
अप्सु वा यदि वाऽऽदर्शे छायां पश्यति नात्मनः ।
छायां वा विकृतां पश्यन्मासमेकं स जीवति ॥
मयूरचित्रे ।
छायामशिरसं यश्च पश्येन्मासं स जीवति ।
शान्तिर्दिव्या चतुर्थीह कर्त्तव्याऽतियशस्विनी ॥
स्वच्छायां च न पश्येद्यः षण्मासान्न स जीवति ।
शान्तिरेकादशी कार्या तत्र दिव्यप्रचोदिता ॥
नारदस्तु ।
आत्मनश्चाशिरश्छायां नैव पश्येत् तु कर्हि चित् ।
उत्पातमीदृशं दृष्ट्वा मासमेकं स जीवति ॥
इमा रुद्रेति मन्त्रेण जुहुयात् सर्पिषा हुतिम् ।
आहुतिर्द्वे सहस्रे तु होमश्च कथितो भवेत् ॥
वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
चरकः ।
अवाक्शिरा वाऽजिह्वा वा यस्य वा विशिरा भवेत् ।
जन्तो रूपःतिच्छायां नैनमिच्छेच्चिकित्सितुम् ॥
विष्णुधर्मोत्तरे ।
जले न पश्येच्च मुखं निर्मले दर्पणे तथा ।
पश्येन्न पुरुषश्छायां सद्यो मरणमादिशेत् ॥
सुश्रुतस्तु
ज्योत्स्नादर्शोष्णुतोयेषु यश्च च्छायां न पश्यति ।
पश्यत्येकाङ्गहानां वा विकृतां वाऽन्यसत्त्वजाम् ॥
श्वकाकङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् ।
पिशाचोरगनागानां भूतानां विकृतामपि ॥
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ।
कालावल्याम् ।
स्वच्छायां दक्षिणे दृष्ट्वा तदैव मरणं दिशेत् ।
आदिपुराणे तु ।
सूर्योदये वाऽस्तमने च काले मध्याह्नकाले त्वथ दक्षिणस्याम् ।
देहच्छायां वीक्ष्य तनुं जहाति तस्मिन् दिनान्ते स्त्रियमेव दुष्टाम् ॥
चरकः ।
छिन्नाऽछिन्नाऽकुला छाया हीना वाऽप्यधिकाऽपि वा ।
नष्टतन्वी द्विधा छिन्ना विशरा विसृता च या ॥
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः ।
सर्वा मुमूर्षुतां ज्ञेया न चेल्लक्ष्मनिमित्तजाः ॥
महाभारते मोक्षधर्मे ।
"कृष्णश्यावच्छविच्छायः षण्मासान्मृत्यलक्षणम्"[३८२]।
सुश्रुतस्तु
श्यामा लोहितका नीला पीतिका वाऽपि देहिनाम् ।
अभिद्रवति यं छाया स परासुरसंशयम् ॥
मार्कण्डेयपुराणे ।
हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा पुनः ।
स्वां छायां विकृतां पश्येच्चतुष्पञ्च स जीवति ॥
चरकः ।
मुण्डज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा ।
रतिं न लभते याता[३८३] परलोकं समान्तरे ॥
दुर्बलो बहुभुक्तो यः प्राग्भुक्त्वाऽन्नमनातुरः ।
अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः ॥
सुश्रुतः ।
मूत्रपुरीषवृद्धिरभुञ्जानानां मरणाय-इति सम्बन्धः ।
मूत्रादिकमरिष्टं स्वप्नाद्भुतावर्त्ते[३८४] लिखितम् ।
चरकः ।
निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक् ।
यश्च सोदत्यपः प्राप्य न स जीवतुमर्हति ॥
कालावल्याम् ।
क्षुच्छकृन्मदमूत्राणि युगपत् सम्भवन्ति चेत् ।
तस्यामेव तिथौ तस्य वर्षेण मरणं भवेत् ॥
आदिपुराणेऽप्येवम् ।
चरकः ।
निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति ।
यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः ॥
लिङ्गपुराणब्रह्माण्डपुराणयोः ।
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा ।
क्रोशन्त्यभिमुखाऽभ्येति स गतायुर्भवेन्नरः ॥
देवलश्चैवम् ।
मार्कण्डेयपुराणे तु ।
सूर्योदये यस्य शिवा क्रोशन्ती याति संमुखम् ।
विपरीतरवा घोरा स सद्यो मृत्युमृच्छति ॥
बार्हस्पत्ये तु ।
मृगः पशुर्वा पक्षी वा वाशेद्यः संमुखे स्थितः ।
यस्य चोत्थापनं कुर्यात् स मनुष्यो विनश्यति ॥
अत्र मृगपक्षिवैकृतविहिता शान्तिः कर्त्तव्या । मयूरचित्रे ।
शिरोदध्नमुरोमात्रं कपोतो गृध्रवायसौ ।
निराशाश्चेदब्रुवन्त्येते गच्छतः पुरुषस्य तु ॥
अचिरेणैव कालेन श्मशानमधिगच्छति।
ते च भाण्डे चरुं कृत्वा वारुण्या होम इष्यते ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनविरचितेऽद्भुतसागरे कायरिष्टाद्भुतावर्त्तः ।
अथ दन्तजन्माद्भुतावर्त्तः ।
विष्णुधर्मोत्तरे ।
उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः ।
दन्तैर्वा सह यस्य स्याज्जन्म भार्गवसत्तम ॥
मातरं पितरं वाऽपि स्वादेदात्मानमेव च ।
तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥
गजपृष्ठगतं बालं नौस्थं वा दापयेद् द्विजः ।
तदभावे तु धर्मज्ञ काञ्चने वा बरसणे ॥
सर्वौषधैः सर्वगन्धैर्बीजैः पुष्पैः फलैस्तथा ।
पञ्चगव्येन रत्नैश्च मृत्तिकाभिश्च भार्गव ॥
स्थालीपाकेन धातारं पूजयेत् तदनन्तरम् ।
सप्ताहं चात्र कर्त्तव्यं तथा ब्राह्मणभोजनम् ॥
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ।
काञ्चनं रजतं गावं भुवं चात्मानमेव च ॥
बृहस्पतिः ।
बालानामष्टमे मासि षष्ठे वाऽपि ततः पुनः ।
दन्ता यस्य विजायन्ते माता वा म्रियते पिता ॥
बालकः पीड्यते तत्र स्वयमेव न संशयः ।
दधिमधुघृताक्तानामश्वत्थसमिधां ततः ॥
जुहुयादष्टशतं प्राज्ञः स्वमन्त्रेण तु मन्त्रवित् ।
धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
नारदः ।
बालानामष्टमे मासि दशमेऽपि तथा पुनः ।
दन्ता यस्य विजायन्ते माता वा म्रियते पिता ॥
बालकः पीड्यते तत्र स्वयमेव न संशयः ।
दधिमधुघृताक्तानामश्वत्थसमिधां ततः ॥
जुहुयादष्टशतं प्राज्ञः स्वमन्त्रेण तु मन्त्रवित् ।
धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
दन्तजन्मनि सामान्यं शृणु स्नानमतः परम् ।
भद्रासने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ॥
सर्वौषधैः सर्वबीजैः सर्वगन्धैस्तथैव च ।
स्रापयेत् पजयेच्चात्र वह्निं सोमं समीरणम् ॥
पर्वताँश्च तथा ख्यातान् देवं चैव तु केशवम् ।
एतेषामेव जुहुयाद्घृतमग्नौ यथाविधि ॥
ब्राह्मणानां तु दातव्या ततः शक्त्या तु दक्षिणा ।
ततः स्वलङ्कृतं बालमासनेषूपवेशयेत् ॥
भाजनच्छन्नमूर्धानं बीजैस्तैः स्नापयेत् पुनः ।
सुस्विन्नैर्बालकानां च तैश्च कार्यं तु पूजनम् ॥
पूज्याश्च विविधा नार्यो ब्राह्मणाः सुहृदस्तथा ।
सदस्तजन्मशान्तिं प्रसवाद्भुतावऽपि वक्ष्यामः ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरवितेऽद्भुतसागरे दन्तजन्माद्भुतावर्त्तः ।
प्रसवाद्भुतावर्त्तः ।
वराहसंहितायाम् ।
प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृति संप्रसूतौ च ।
हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।
अकालप्रसवा नार्यः कालातीतप्रजास्तथा ।
बन्ध्यार्धयुग्मप्रसवा द्वियुग्मप्रसवास्तथा ॥
अमानुषाणां मुण्डानि संजातव्यञ्जनानि च ।
अधिकाङ्गान्यनङ्गानि न्यूनाङ्गान्यथ वा पुनः ॥
चतुष्पात्पक्षिसदृशान् प्रसूयन्ते यदि स्त्रियः ।
विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् ॥
अप्राप्तवयसो गर्भा द्विचतुष्पात् स्त्रियोऽपि वा ।
विन्यस्तं विकृतं वाऽपि प्रजायन्ते भयाय तत् ॥
चतुरस्कं द्विशीर्षं च गात्रैरभ्यधिकं तथा ।
एकचक्षुरचक्षुर्वा दशनैः पलितैस्तथा ॥
व्यञ्जनैश्चैव संपन्नं मानुषी यत्र सूयते ।
द्विसंवत्सरपर्यन्ते राजा तत्र विनश्यति ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।
अकालप्रसवा नार्यः कालातीतप्रजास्तथा ।
विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा ॥
अमानुषा अमुण्डाश्च संजातव्यञ्जनास्तथा ।
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।
"विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत्” [३८५] ॥
पराशरस्तु ।
स्त्रीणामब्दद्वयं गर्भधारणं त्रिचतुर्विकृतपक्षिपशुनागजननं वा कुलदेशविनाशाय ।
ओशनसे ।
मानुषी जनयेद्यत्र त्रिशीर्षान् विविधान् पशून् ।
षण्मासोर्ध्वं भयं तीव्र तत्र तूत्पद्यते महत् ॥
परचक्रागमं चैव निर्दिशेदिह शास्त्रवित् ।
संग्रामश्चात्र विपुलो जायते विकृतात्मकः ॥
सर्पं वा पक्षिणं वाऽपि जनयेद्यत्र मानुषी ।
प्रवासस्तस्य देशस्य सप्तमासात् परं भवेत् ॥
बृहद्यात्रायां वराहः ।
देहनाशो यदा स्त्रीणां खगाहिपशुसम्भवः ।
ओशनसे तु ।
उष्ट्रं वा या प्रसूयेत वानरं वाऽपि मानुषी ।
अन्यद्वा जनयेत् किञ्चित् स्थावरं वाऽपि किञ्चन ॥
रोगेण शस्त्रपातेन दुर्भिक्षेण च पीडितः ।
स देशो व्यथते शीघ्रं राजा तत्र विनश्यति ॥
अमानुषं मानुषी च मानुषं वाऽप्यमानुषी ।
प्रसूयते प्रजानीयात् परचक्रागमं ध्रुवम् ॥
चतुरस्कं द्विशीर्षं वा गात्रैर्न्यूनाधिकैस्तथा ।
व्यञ्जनैश्चोपसम्पन्नं मानुषी या प्रसूयते ॥
द्विसंवत्सरपर्यन्ताद्राजा तत्र विनश्यति ।
उष्ट्रो गजो वा अश्वो वा मृगो वा यत्र जायते ॥
पक्षैर्मासाच्च भवति राज्ञः शस्त्रभयं महत् ।
परचक्रसमुत्थं वा स देशो भयमृच्छति ॥
योनिव्यतिकरं यत्र कुर्युरेवंविधं स्त्रियः ।
गौर्वा प्रसूयतेऽन्यानि तत्र राजा विनश्यति ॥
वसन्ति येषु देशेषु तेषु विद्यान्महद्भयम् ।
नारी खरवृषोष्ट्रॉश्च शुनः सूकरगर्दभान् ॥
राक्षसान् वा पिशाचान् वा यदाऽप्येवं प्रसूयते ।
व्यापद्यन्ते च धान्यानि शस्यानि च धनानि च ॥
चतुर्विधं भयं घोरं क्षिप्रमेव प्रवर्त्तते ।
बध्यते हि प्रधानस्तु सार्धमासाष्टके तथा ॥
व्याधिश्च तेषु देशेषु त्रीणि वर्षाणि निर्दिशेत् ।
औशनसे ।
गौरश्वं वडवा गावो यस्मिन् देशे प्रसूयते ।
अभ्यन्तरेण वर्षात् तु राज्ञो मरणमादिशेत् ॥
मौशले वृष्णिक्षयनिमित्तम् ।
“व्यजायन्त खरा गोषु करभाऽश्वतरीषु च ।
शुनीषु विडालाश्च मूषिका नकुलीषु च [३८८] ॥
औशनसे ।
अश्वा किशोरं जनयेत् शृङ्गिणं यत्र तत्र तु ।
आदिशेन्मरणं राज्ञस्तद्वर्षाभ्यन्तरेण तु ॥
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
जङ्गमं स्थावरे जायेत् स्थावरं जङ्गमे तथा ।
अस्मिन् जन्मविपर्यासे परचक्रागमं वदेत् ॥
पराशरश्च ।
गजाश्वयमलप्रसवे तत्स्वामिविनाशं विन्द्यात् ।
वृद्धगर्गसंहिताबार्हस्पत्यविष्णुधर्मोत्तरेषु ।
वडवां हस्तिनी गौर्वा यदि युग्मं प्रसूयते ।
विजातिं विकृतं वाऽपि षण्मासैर्म्रियते नृपः ॥
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्ति च हसन्ति च”[३९१] ॥
वराहसंहितायां तु ।
वडवोष्ट्रगोमहिषहस्तिनीषु यमलोद्भवे मरणमासाम् ।
षण्मासान् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ ॥
नार्यः परस्य विषये त्यक्तव्यास्तु हितार्थिना ।
तर्पयेच्च द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥
चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु ।
नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥
पराशरः ।
फलं तद्दुष्टगर्भाणां मातृगर्भविवासनात् ।
यस्मात् तस्मात् स्वविषये क्षितिं तत्र न धारयेत् ॥
औशनसे ।
विशन्ति येषु तान्याशु व्यक्तव्यानि शुभार्थिना ।
तस्मादेतानि सत्त्वानि राजा शीघ्रं प्रवासयेत् ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
परभूमिषु तान्याशु त्यक्तव्यानि शुभार्थिना ।
शान्तयश्चापि कर्त्तव्या ब्राह्मणैर्वेदपारगैः ॥
मत्स्यपुराणविष्णुपुराणयोः ।
“विवासयेत् तां नृपतिः स्वराष्ट्रात् स्त्रियश्च पूज्याश्च ततो द्विजेन्द्राः ।
किमिच्छकैर्ब्राह्मणतर्पणं च लोके ततः शान्तिमुपैति पापम्”[३९२] ॥
तथा ।
शान्तिः प्रसववैकृत्ये प्राजापत्या विधीयते ।
आथर्वणाद्भुते तु ।
विकृतं पशुजातं जीवन्तं पशुपतये निवेद्य रौद्रगणैराज्यं जुहुयाद्धुताग्निश्चेत् स्नापयित्वा स्रग्गन्धधूपैरलङ्कृत्य घृतेनाभ्युक्ष्याग्निं प्रज्वाल्य सकृद्धुत्वा महाशान्तिं कुर्यात् ।
तत्र श्लोकः ।
अपत्यभेदो विविधैकशीर्षे एकद्विशीर्षे भवति द्विरास्यम् ।
अपादहस्ते म्रियते त्वमात्यो जाते कबन्धे नृपतिर्विनश्येत्-इति॥
मयूरचित्रे तु ।
यत्र गर्भे विपर्यासो मानुषीणां गवामपि ।
अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥
अत्रापि दिव्यजा शान्तिः कार्या पञ्चदशी बुधैः ।
मानुषाभानुषाणां च गोजाश्वमृगपक्षिणाम् ॥
जायन्ते जातिभिन्नाश्च सदन्ता विकृतास्तथा ।
बहुशीर्षा अशीर्षा वा बहुकर्णा अकर्णकाः ॥
एकशृङ्गास्त्रिशृङ्गाश्च तथैव च चतुर्भुजाः ।
दीर्घकर्णा महाकर्णा गजकर्णाश्च मानवाः ॥
श्वापदव्याघ्रमार्जारहरिणा रूपधारिणाः ।
जायन्ते पुरुषा यत्र तत्र संग्राममादिशेत् ॥
राजश्रेष्ठवधी नाशो धनस्य च कुलस्य च ।
यमला यत्र जायन्ते नारीणां गजवाजिनाम् ॥
हस्त्यश्वकपिवक्त्राश्च कूष्माण्डाकृतयस्तथा ।
ब्रह्मशान्तिं ततः कुर्यादत्र ब्रह्मेति वायुना ॥
अष्टोत्तरसहस्राणि पञ्चैव जुहुयाद्बुधः ।
समिधां तु पलाशस्य तर्पयेत् पूर्ववद्द्विजान् ॥
दासीदाससमायुक्तं गोधान्यफलसंयुतम् ।
दद्याद्विप्राय तद्गेहं हुतान्ते भूरिदक्षिणाम् ॥
फलपाकोद्भवश्चास्य मासाभ्यन्तरमात्रतः ।
तथा चाष्टोत्तरं विद्वान् सहस्रं जुहुयाच्छुचिः ॥
खदिराश्वत्थसमिधो विरूपाक्षेण मन्त्रतः ।
दद्याच्च कपिलां धेनुं हुतान्ते कनकं तथा ॥
अथर्वमुनिः ।
मास्यष्टमे स्त्रीप्रसव उत्पातो भौम उच्यते ।
स्ववारे पूजयेद्भौमं दध्याज्यमधुसंयुतम् ॥
जुहुयान्मृत्युसूक्ताभ्यां मधूकसमिधोऽयुतम् ।
काञ्चनं वृषभं वस्त्रं दद्याद्विप्राय दक्षिणाम् ॥
अचिराज्जायते जन्तुर्द्वित्र्यनेकशिरास्तथा ।
सूर्याद्भुतं विजानीयात् पूजयित्वा दिवाकरम् ॥
दध्याज्यमधुसंयुक्ताः समिधस्त्वर्कसम्भवाः ।
यद्राजानं प्रभृतिभिर्जुहुयाद्घृतमेव च ॥
धेनुं सुवर्णं वस्त्रं च दद्याद्धोमे च दक्षिणाम् ।
सर्वदोषाः प्रशाम्यन्ति ततः संपद्यते शुभम् ॥
नारी जनयते सर्पान् मण्डूकाँश्चाप्यमानुषान् ।
बृहस्पत्यद्भुतमिदं तद्वारे तं प्रपूजयेत् ॥
उदुम्बरस्य समिधो दधिसर्पिर्युताः शुभाः ।
आहूतिसूक्तेन शुचिर्जुहुयान्नियमस्थितः ॥
वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् ।
स्त्रीगर्भपातो महिषी मानुषी गौरथापि वा ॥
यमलानि प्रसूयेत सिंहादित्येऽथ वाऽपि गौः ।
महिष्यां शुक्लवत्साश्च जायन्ते अतिवर्णिकाः ॥
सदन्ताश्चैव जायन्ते जातमात्रा हसन्ति च ।
बुधाद्भुतं विजानीयात् स्ववारे तं प्रपूजयेत् ॥
दर्शोऽस्य दर्शीति वटसमिद्धोमादि पूर्ववत् ।
वसुध्वजं सुवर्णं च दद्याद्विप्राय दक्षिणाम् ॥
वैजवायः ।
स्त्रिया गोर्वडवाया वा यमलं यदि जायते ।
दद्याद्यमलजननीं मारुतीं शान्तिमाचरेत् ॥
धेन्वा यमजनन्यैव निष्क्रीणीयात् तु तां स्त्रियम् ।
अग्निहोत्रप्रकरणे ।
स एव स्त्रीगोवडवायमलजनेन मारुतं सप्तकपालं यमजननीं
दद्यात् । धेन्वा सरूपवत्सया पत्नीं निष्क्रीणीयात् ।
मयूरचित्रे ।
घोटिका हस्तिनी चैव महिषी यमलं यदि ।
प्रसूते भूपतेर्नाशः संग्रामश्च महान् भवेत् ॥
कारयेल्लक्षहोमं च बहुदानं च कारयेत् ।
भोजनं ब्राह्मणायाथ दद्याद्गां चैव दक्षिणाम् ॥
महिष्या यमलोत्पत्तौ कन्यकानां च जन्मनि ।
दन्तवैकृतिजामैन्द्रीं शान्तिं यद्वा प्रयोजयेत् ॥
स्त्रियो वा यदि वा गावः सूत्वा न सुवते पुनः ।
विद्वानुत्पातनाशाय वायव्यं साधयेच्चरुम् ॥
वायवे स्वाहा वायुरिदं शमयतु स्वाहा वाचस्पते महिमानम्- इति हुत्वा रजतकाञ्चनं दद्यात् ।
वायव्यस्तत्र तत्रोक्तः स एव ख्यापितश्चरुः ।
एतत् फलं गर्भाधानोक्तमिथुनजन्मकोषस्थयमलजन्मत्रितयजन्मको षस्थबहुतरजम्मद्विगुणमुखहस्ताङ्घ्रिजन्मकबन्धजन्माबाहुजन्मैकनेत्रजन्मानेत्रजन्महीनाङ्गजन्मसर्पादिजन्मयोगजातव्यतिकरेण बोद्धव्यम् । आधानकालाज्ञाने तु जन्मकालात् प्रश्नकालाद्वा मिथुनजन्मादियोगा अवगन्तव्याः ।
तथा च वराहः ।
'.........जन्मन्याधाने प्रश्नकाले च ।
आथर्वणाद्भुते ।
अथ योगविसदृशश्चतुर्थोऽनुजः स्यात् स कुमारोऽनायुष्यः पुमान् स्त्री वा तत्र कारयेद्रोहिरण्यामुत्तरासु जन्मनक्षत्रे वा 'योऽस्मिन् यस्त्वाम्'-इति ऋचाऽऽश्वत्थीः समिधोऽभ्यादध्यादहतेन वसनेन कुमारं समातापितृकं प्रच्छाद्यालभ्य व्रीहीयवानां स्थालीपाकं जुहुयात् ।'कामस्तत्कालोऽश्वः प्राणाय नमःसहस्रबाहुर्जीवास्तु यथा द्यौश्च । 'कयानश्चित्र आभुवटू'-इति तिस्रः । एताभिरेव स्थालीपाकशेषचरुं कुमारं मातापितरौ च प्राशयेत्-इति ।
नारदः ।
कृष्णा गौः कपिलो वत्सः कपिला कृष्ण एव च ।
उभये विप्रवर्याय दातव्ये तत्क्षणात् पुनः ॥
ततो होमं प्रकुर्वीत शान्त्यर्थं तु तिलेन वै ।
नमस्ते रुद्र-मन्त्रेण दक्षिणां तु प्रदापयेत् ॥
यथावित्तानुसारेण ततः शान्तिर्भवेद्द्विज ।
स्नानं कृत्वा शुचिर्भूत्वा जपित्वा मन्त्रमेव च ॥
येन मन्त्रेण होतव्यं तन्मन्त्रं च तथा जपेत् ।
शतावर्त्तेन मन्त्रेण पत्रं वा श्रीफलस्य तु ॥
जुहुयात् सशिवार्थं तु एवं रक्षा कृता भवेत् ।
अष्टोत्तरशतं चैव गायत्र्या जप उत्तमः ॥
आत्मशुद्धिं ततः कृत्वा सर्वहोमं समाचरेत् ।
ससुवर्णेन हस्तेन शुद्धात्मा शंसितव्रतः ॥
परं च तारयेत् शुद्धमात्मानं च विधानचित् ।
शान्तिकं च जपेद्विप्र इदं विष्णुर्विचक्रमे ।
सहस्रशीर्षा-मन्त्रेण जपेत् पौष्टिकशान्तये ।
शान्त्यर्थं च समुत्पाद्या एता औषधयः क्रमात् ॥
श्यामाकं च शमी चैव वल्मीकस्य च मृत्तिका ।
श्वेतशर्षपसंयुक्ता दूर्वामुस्तादयो द्विज ॥
अश्वत्थत्वक्समायुक्तं वटवैकङ्कतं तथा ।
श्यामालतां सुवर्णं च प्रियङ्गु चार्कमेव च ॥
कुम्भं चोदकसंपूर्णं सर्वैरेतैः समन्वितम् ।
ऐशान्यां दिशि शान्त्यर्थं स्थापयेत् सुसमाहितः ॥
चतुर्थी चाष्टमी चैव द्वादशी च चतुर्दशी ।
एता वै तिथयः पुण्याः स्मृता अद्भुतशान्तये ॥
नारदः ।
भानौ सिंहगते चैव यस्य गौः संप्रसूयते ।
मरणं तस्य निर्दिष्टं षड्भिर्मासैर्न संशयः ॥
ततः शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
प्रसूतां तत्क्षणादेव तां विप्राय प्रदापयेत् ॥
ततो होमं प्रकुर्वीत् घृताक्तान् राजशर्षपान् ।
आहुतीनां घृताक्तानामयुतं जुहुयात् ततः ॥
सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् ।
वस्त्रयुग्मं यवं नैव ससुवर्णं प्रदापयेत् ॥
इष्टदैवतमन्त्रेण ततः शान्तिर्भवेद्द्विज ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे प्रसवाद्भुतावर्त्तः ।
अथ सर्वशाकुनाद्भुतावर्त्तः ।
तत्राह वराहः ।
अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् ।
यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ॥
न केवलं गच्छतां तिष्ठतां च ।
अत एवाह वसन्तराजः ।
शुभाशुभज्ञानविनिर्णयाय हेतुर्नृणां यः शकुन स उक्तः ।
गतिस्वरालोकनभावचेष्टासंकीर्णनाम्ना द्विपदादिकानाम् ॥
ज्योतिःपराशरः ।
कौशिक उवाच । भगवन् सर्वविरुतेङ्गितज्ञानमिति यदुक्तं
पुरस्तात् कथमज्ञातानामिङ्गितैर्विरुतैर्वा ज्ञानमिति तमाह भगवान्
पराशरः । न हि खलु सौम्यकालविहितं चराचरस्य भूतग्रामस्य भावाभावमिति यदुक्तमग्रे तदेव भगवान् परमात्माऽक्षरश्च सर्वगोऽती-
तभूरीश्वरश्च तत्प्रचोदितं जीवाजीवमित्यलं सूचकं च निमित्तमाचक्षते मुनयः ।
वराहः ।
द्वन्द्वरोगार्दितत्रस्तकलहामिषकाङ्क्षिणः ।
आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्व चित् ॥
वसन्तराजः ।
नीडेषु सक्तो रतमांसलुब्धो भीतः प्रमत्तः क्षुधितो रुगार्त्तः ।
तथा च बालो वनमन्तरेण ग्राह्यो न नद्यन्तरिस्तथा यः ॥
मयूरचित्रे तु ।
वन्दिनो रोगिणोऽथार्त्ता भीता युद्धामिषैषिणः ।
सीमानदीव्यपेताश्च सर्वैराश्चैव निष्फलाः ॥
वटकणिकायां वराहः ।
द्वन्द्वार्त्तरोगार्दितभीतमत्तवैरार्त्तयुद्धामिषकाङ्क्षिणश्च ।
सीमान्तनद्यन्तरिताश्च सर्वे न चिन्तनीयाः सदसत्फलेषु ॥
पराशरस्तु ।
मत्तवित्रस्तव्याधितव्यङ्गकलहामिषासक्तविद्रुतानि प्रमाणानि
न प्रमाणीकुर्यात् ।
वराहः ।
रोदिताश्वाजबालेयकुरङ्गोष्ट्रमृगाः शशः ।
निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलाः ॥
न तु भाद्रपदे ग्राह्या सूकराश्च वृकादयः ।
शरद्यजाविकाः क्रौञ्चाः श्रावणे हस्तिचातकौ ॥
व्याघ्रर्क्षवानरद्दीपिमहिषाः सविलेशयाः ।
हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानषाः ॥
अश्वोष्ट्रमार्जारखरा रजन्यां शशो मृगो वा शिशिरे व्यलीकाः ।
हेमन्तकाले महिषर्क्षसिंहा विलेशयद्वीपिशिशुप्लवङ्गाः ॥
स्यातां वृथा काकपिकौ वसन्ते वृथा वराहश्च वृका नभस्ये ।
स्युः श्रावणे वारणचातकाद्या अजाविगोक्रौञ्चनिभा घनान्ते ॥
पराशरस्तु ।
अथ शकुनेषु कोकिलमयूरजीवञ्जीवकप्रियपुत्रराजपुत्रगोदापुशतपुत्रदात्यूहमदनसारिकावर्षाभूकोयष्टिकमहापुष्परवशकदण्डिमाणवकवायसकुक्कुटचकोरक्रौञ्चसारङ्गप्लवगचित्रकापीतपुष्परथोष्ट्ररथादीनां वसन्तग्रीष्मौ मदकालः । शतपत्रोत्क्रोशमृगराजमयूरकोकिलबकबलाकाप्लवगप्रीणनचातकसारङ्गानां वर्षाः । चकोरकादम्बमदनसारिकाकीरपुष्परथचातकहंसचक्रवाकसारसकुरकक्रौञ्चकारण्डभ्रंमराणां शरत् । श्येनकुररक्रौञ्चसारसादीनां हेमन्तशिशिरौ । एवमादयः शकुनामदकालश्च । मृगात्मनां पुरुषस्त्रीनामकशिवाशशजम्बूकसृमरचमरसूकरवानरमार्जार नकुलगजगवयवृषमशकमहिषमूषकसिंहव्याघ्रकूर्मबलाकादीनां प्रायसः सर्वेषां वसन्तो मदकालः । विशेषतश्च नरव्याघ्रादीनां प्रावृट् । वृषभेरण्डमहिषगवयसृमरचमराणां शरत् । गोगवयवृषादीनां हेमन्तशिशिरौ ।
वराहः ।
न ग्राम्यो वन्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः ।
दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ॥
शुभशकुने च गृह्यत इत्यर्थः ।
यदाह वसन्तराजः ।
ग्राम्यो बहिर्ग्रमगतश्च वाऽथो दिवाचरो निश्यदिवाचरोऽह्नि ।
वृथाऽथ वा स्वस्थितिकालहीनश्चरन् भ्रमन् भूपतिदेशभीत्यै ॥
तथा च वराहः ।
क्षणतिथ्युडुवातार्कैर्दैवदीप्तो यथोत्तरम् ।
क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥
दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः ।
मांसामेध्याशनौ रौद्रौ विमिश्रोऽन्नाशनः स्मृतः ॥
अशोभनो मुहूर्त्तादौ जातः क्षणदीप्तः । वातः प्रतिलोमो वातदीप्त इत्युत्पलेन व्याख्यातम्[३९३] । दग्धज्वलिनधूमितदिग्भवस्त्रविधो रविदीप्तः ।
पराशरः ।
अङ्गारिण्यर्कनिर्मुक्ता दीप्ता यस्यां दिवाकरः ।
प्रधूमितैष्यसूर्यादिशान्ताः पञ्चेतरा दिशः ॥
वसन्तराजस्तु ।
दिग्धा दिगुक्ता दिननाथमुक्ता विवस्वदीप्ता भवति प्रदीप्ता ।
सा धूमितायां सविता प्रयातः शेषा दिशस्ताः किल पञ्च शान्ताः ॥
दग्धा दिगैशी ज्वलिता दिगैन्द्री धूमान्विता वाऽनलदिक् प्रभाते ।
प्रत्यह्नि चैव प्रहराष्टकेषु भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥
अर्धे दिनस्य प्रहरेऽवशिष्टे यावन्निशायाः प्रहरार्धमाद्यम् ।
स्यात् पश्चिमा सा रविणा च गूढा गम्योषिते धूमितभस्मवत्यौ ॥
ईदृशं त्रिषुवतोर्द्वयोर्भवेद्दक्षिणायनदिने तु शाङ्करी ।
पावकी ज्वलति चोत्तरायणे भस्मधूमसहिते तु पार्श्वयोः ॥
अन्यत्र संक्रान्तिचतुष्टयात् तु भोगः स्वबुद्ध्या ककुभां विभाव्यः ।
चलो रविः सन्ततमेव याति यस्या दिशः सौम्ययमाधिवासे ॥
प्रत्येकमेवं सततं सुमेरोर्यद्दक्षिणाभ्यागमनेन सर्पन् ।
दिवारजन्योः प्रहराष्टकेन भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥
दक्षिणायनदिने तु शाङ्करी पावकी ज्वलति चोत्तरायणे ।
इति च स्थूलतरमुक्तम् ।
वस्तुतस्तु-औदयिकविषुवस्थानाद्दक्षिणोत्तरयोः सार्धद्वाविंशतितमक्रान्त्वंशभोगदिनादारभ्य चतुर्विंशत्यंशपरिमितं दक्षिणोत्तरपरमक्रान्तिद्वयपूरकं सार्धांशभोगदिनपर्यन्तं विपरीतायने नान्ये । पुनः सार्धक्रान्त्यंशप्रतिलोमभोगदिनपर्यन्तं क्रमेणाग्नेयीशान्यौ ज्वलतः । यत्नः षष्ट्यधिकांशशतत्रयपरिमितस्य भचक्रास्याष्टमो भागः पञ्चचत्वारिंशदंशा दिक्परिमाणमिति । एवं पञ्चविधो दैघदीप्तः । स्वदक्षिणगतिचेष्टितैर्गति चेष्टदीप्तौ । शुष्कवृक्षादिगतः स्थानदीप्तः । इङ्गिताकारैरवगम्य क्रूरान्तःकरण आश्रयदीप्त: । दुःश्रुतिरुतः स्वरदीप्तः । इति पञ्चविधः क्रियादीप्तोऽपि । उक्तविपरीतोऽपि दशविधः शान्तो भवति ।
वसन्तराजस्तु ।
आभस्मिता याः ककुभः समस्ताः धिष्ण्यादिदोषै रहितश्च कालः ।
अवामचेष्टागतिरप्यवामाभावः प्रसन्नो मधुरो विरावः ॥
स्थानं मनोहारि तदेव दैवं सप्तप्रकारं कथयन्ति शान्तम् ।
सप्तप्रकारं पुनरेतदेव वहन्ति दीप्तं विपरीतभावात् ॥
एषां च मध्यात् ककुभादिकानां जातेषु शान्तेष्वधिकाधिकेषु ।
शुभं नराणामधिकाधिकं स्यात् तद्वत् प्रदीप्तेष्वशुभं प्रदीप्तम् ॥
पराशरः ।
दग्धवक्रान्तराच्छिन्नशुष्ककण्टकिवृक्षगाः ।
अश्मनिम्बकपालाशसिकताकेशभस्मसु ॥
श्मशानाङ्गारवल्मीकविषमोखरसानुषु ।
जीर्णशीर्णाशुचिभ्रष्टदेशस्था दीसंज्ञिताः ॥
मनोज्ञस्निग्धहरितक्षीरिपुष्पतरुस्थिताः ।
समप्रशस्तभूमिष्ठाः शान्ताः स्युर्मृगपक्षिणः ॥
भिन्नभैरवदीनार्त्तपरुषक्षामजर्जराः ।
स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूजिताः ॥
वसन्तराजस्तु ।
आर्त्तभीतरवजर्जरदीप्ता भिन्नकण्ठलघुभैरवरूक्षाः ।
निन्दनीयनिनदाः शुभशब्दाः शान्तपूर्णमुदिताः प्रकृतास्तु ॥
पराशरस्तु ।
तिथिवातार्कभस्थानचेष्टादीप्ता यथाक्रमम् ।
धनसैन्यबलाङ्गेषु कर्मणां स्युर्भयङ्कराः ।
जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् ।
उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः ॥
चितिकेशकपालेषु मृत्युबन्धवधप्रदाः ।
कण्टकीकाष्ठभस्मस्थाः कलहाय सुदुःसहाः ॥
अप्रसिद्धतया चापि निःसारास्थिव्यवस्थिताः ।
कुर्वन्ति शकुना दीप्ताः शान्ता जाप्यफलास्तु ते ॥
कलहस्वरदीप्तेषु स्थानदीप्तेषु विग्रहः ।
उच्चमादौ ध्वनिं कृत्वा नीचं पश्चाच्च मोघकृत् ॥
वसन्तराजस्तु ।
भवेदनल्पः प्रथमं ततोऽल्पस्वरोऽनुकूलोऽपि नरस्य यस्य ।
मुष्यन्ति नूनं पथि तस्करास्तं यत्नेन तस्माच्छकुनाः परीक्ष्याः ॥
तिथ्या समीरेण तथा सवित्रा नक्षत्रचेष्टास्थितिभिश्च दीप्ताः ।
धनस्य सैन्यस्य बलायोश्च कर्मेष्टयोश्च क्रमतो भयाय ॥
पराशरः ।
अङ्गारिण्यामतिक्रान्तं दीप्तायां प्रत्युपस्थितम् ।
प्रधूमितायामागामिशान्तं शान्तासु निर्दिशेत् ॥
मुक्तप्राप्तैष्यसूर्यासु फलं दिक्षु तथाविधम् ।
अङ्गारदीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः ॥
तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यमादिशेत् ।
परिशेषदिशोर्वाच्यं यथासन्नं शुभाशुभम् ।
वसन्तराजः ।
सन्ध्याद्वये शस्त्रभयं प्रदीप्ता वाताद्भयं मेघनिनादीप्ता ।
उपक्रमे वारिधनागमस्य दीप्ता जनान् संजनयन्ति भीतिम् ॥
जाते प्रदीप्ते शकुने नराणां स्याद्भस्मितायां दिशि वित्तहानिः ।
आलिङ्गतायां दिशि जीवनाशः सन्तापशोकौ दिशि धूमितायाम् ॥
पराशरः ।
दीप्तासु पूर्वतो युवराजभयाय । आग्नेय्यामग्निभयाय दक्षिणस्यां सार्थस्य[३९४] निवेशघाताय । नैर्ऋत्यां चौरभयाय । पश्चिमतः सर्वे पर्वतघाताय । वायव्यां वातोद्द्वमाय । ऐशान्यां मित्रविरीधो विपर्यः शान्तासु ।
ऐन्द्र्यां दीप्तानुबन्धी च शकुनो व्याहरेद्यदि ।
मृगो वा नृपतौ पीडां कुर्याद्वा नृपसत्कृते ।
तस्यामेवं तु शान्तायां शान्तं स्याच्च रुतं यदि ।
तयोरेव तदा विद्याद्धनलाभं प्रियागमम् ॥
आग्नेयेऽग्निभयं दीप्ते देहपीडां च निर्दिशेत् ।
शान्ते स्याद्दर्शनं तत्र शिल्पिनामग्निजोविनाम् ॥
देहपीडां भयं नाशं याम्ये दीप्ते विनिर्दिशेत् ।
शान्ते मन्त्रिनृमुख्याणां विकल्पस्य च दर्शनम् ॥
नैर्ऋते कलहो दीप्ते दहनश्रवणं स्मृतम् ।
हृतागमनमानन्दं शान्ते तस्मिन् विनिर्दिशेत् ॥
शूद्रेण कलहं दीप्ते भयं न जलजीविनाम् ।
कर्षकोदधिपुष्पं च शान्ते दृश्येत वारुणे ॥
वायव्ये तस्करव्याधिबालशाकुनिकागमम् ।
दीप्ते शान्तेऽथ धनिनां वधबन्धकजीविनाम् ॥
सौम्ये दीप्ते मृगे विन्द्यात् प्रधानद्विजसत्तम ।
शान्ते शिवमनाबासिब्राह्मणस्य च दर्शनम् ॥
ऐशाने शकुने दीप्ते सुहृत्कलहमादिशेत् ।
निवृत्ते मधुरे शान्ते सुहृद्भिः सह सङ्गमम् ॥
वसन्तराजः ।
जातोदयो दीप्तककुब्विभागे प्रशान्तदिक्स्थेन कृतानुनादः ।
अनर्थशङ्कां शकुनो विधाय निःशंसयं निष्फलतां प्रयाति ॥
प्रशान्तदिग्जो विहितानुनादो यदा भवेद्दीप्तदिगुत्थितेन ।
श्रेयस्तदानीं शकुनः प्रदर्य प्रयाति वैकल्यमवश्यमेव ॥
वराहः ।
वधघातभयानि स्युः पादोरोमस्तकान्तिगैः ।
शष्पापः पिशितान्नादैर्दोषा वर्षक्षतग्रहाः ॥
वामसव्यरुतो मध्यः प्राह स्वपरयोर्भयम् ।
मरणं कथयन्त्येते सर्वे समविराविणः ॥
विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः ।
स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥
ऐन्द्र्यानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः ।
कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ॥
शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे ।
परतश्चापि मातङ्गगोपधर्मसमाश्रयाः ॥
नैर्ऋतीवारुणीमध्ये प्रमदासूतितस्कराः ।
शौण्डिकः शाकुनी हिंस्रो वायव्यापश्चिमान्तरे ॥
विषघातकगोस्वामिकुहकज्ञास्ततः परम ।
धनवानीक्षणीकश्च मालाकारस्ततः परम् ॥
वैष्णवश्वरकश्चैव वाजिनां रक्षणे रतः ।
द्वात्रिंशदेवं भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥
राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
गजाध्यक्षश्च पूर्वाद्याः क्षितिपाद्याश्चतुर्दिशम् ।
गच्छतस्तिष्ठतश्चापि दिशि यस्यां व्यवस्थितः ।
विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः ॥
शुभाशुभहेतुः समागमः ।
वसन्तराजः ।
एवंप्रकाराः शकुना जनानां शान्ताः पुनर्याप्यफला भवन्ति ।
तं भक्षयन्तोऽशनमिष्टसिद्धिं कुर्वन्त्यसिद्धिं मुनिरुक्तिरेषा ।
तृणं फलं खादति यः स सौम्यो रौद्रः पुरीषामिषभक्षको यः ।
प्रशान्तदीप्तं विदधाति कार्यमन्नाशनोऽस्मादुभयप्रकारः ॥
प्रसादभूभृत्सुरमन्दिराणि स्तम्बेरमास्तम्भतुरङ्गशालाः ।
अशून्यगेहे भगवाँश्च पूज्यः क्षीरद्रुमाट्टालकतोरणानि ॥
एवंप्रकाराणि मनोहराणि स्थानानि तुङ्गानि शुभावहानि ।
नीचेषु मध्ये शुभदानिदानीं देशप्रदेशान् प्रदिपादयामः ॥
शुचिः सतोया विशदा मनोज्ञा सगोमया शस्यवती च भूमिः ।
छाया तथा शाद्वलमेवमाद्या भवन्ति नीचे शुभदाः प्रदेशाः ॥
करण्डशुलाचितशृङ्गयूपाः शरः खरः शैरिभशूकरोष्ट्राः ।
वल्मीकशुष्कोत्पटितद्रुमाद्या नीचेषु देशेषु भवन्ति शस्ताः ॥
अङ्गारभस्मोपलरज्जुपङ्कगर्त्तागुहा: कोशतुषास्थिविष्टाः ।
घृणाकरा: कर्पटकोटराद्या न नीचदेशाः शुभदा भवन्ति ॥
वराहः ।
शीघ्रमासन्ननीचस्थैश्चिरादुन्नतदूरगैः ।
स्थानवृद्ध्युपघाताच्च तद्वद्ब्रूयात् फलं बुधैः ॥
वसन्तराजश्च ।
समीपभूतैरचिरेण सिद्धिश्चिरेण दूरे शकुनैः प्रयातैः ।
स्वस्थानसंस्थैर्बलिभिः स्वकाले जातैः फलं सम्यगसम्यगन्यैः ॥
पराशरः ।
नक्तंदियाचारिस्थलान्तरिक्षचराणामुत्तरोत्तरा बलवन्तः । तेषां स्वदेशकाले फलसामग्री ।
वराहः ।
स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः ।
क्लीबस्त्रीपुरुषाश्चैषां बलिनः स्युर्यथोत्तरम् ॥
वसन्तराजस्तु ।
नपुंसकस्त्रीपुरुषा विहङ्गा यथोत्तरं स्युर्बलिनः समस्ताः ।
तेषां च भेदत्रयलक्षणाय श्लोकाविमौ शाकुनिकाः पठन्ति ॥
पीनोन्नतविकृष्टांसाः पृथग्ग्रीवा सुवक्षसः ।
स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः ॥
तनुग्रीवाः कृशस्कन्धाः सूक्ष्माल्पपदविक्रमाः ।
प्रसक्ता मृदुभाषिण्यः स्त्रियोऽतोऽन्यन्नपुंसकम् ॥
वराहः ।
कुकुटेभपिरिल्यश्च शिखिवञ्जुलच्छिकराः ।
बलिनः सिंहनादाश्च कूटपूरी च पूर्वतः ॥
वसन्तराजः ।
कूटपूरकमयूरपिरिल्यः सिंहनादगजवञ्जुलकाश्च ।
छिक्कर: सकुकरा कुररीमान् पूर्ववतोऽधिकबलान् कथयन्ति ॥
वराहः ।
क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः ।
कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥
वसन्तराजश्च ।
हारीतकाकर्क्षकपोतकाकोलूकास्तथा पिङ्गलकाशृगालौ ।
क्रूरारवाक्रोशनरोदनानि भवन्ति नित्यं बलवन्त्यवाच्याम् ॥
वराहः ।
गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः ।
विडालोत्सववादित्रगीतहासाश्च वारुणाः ॥
वसन्तराजश्च ।
उत्क्रोशगोक्रौञ्चविडालहंसाः कपिञ्जला लोमशिका शशश्च ।
वादित्रनृत्योत्सवगीतहासा बलं प्रतीच्यां भृशमुद्वहन्ति ॥
वराहः ।
शतपत्रकुरुङ्गाखुमृगैकशफकोकिलाः ।
चाषशल्यकपुण्याहघण्टाशङ्खरवा उदक् ॥
वसन्तराजश्च ।
सरोजकाकैकशफास्तथाऽखुमृगस्तथा कोकिलशल्यकौ च ।
पुण्याहघण्टारवशङ्खशब्दा दिश्युत्तरस्यां बलमुद्वहन्ति ॥
वराहः ।
श्रेष्टे हयसिते प्राच्यां शवमांसे च दक्षिणे ।
कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः ॥
जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ ।
पश्चादाशवषण्ढौ च खलासनहलान्युदक् ॥
शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका ।
शूकरी परपुष्टा च पुन्नामानश्च वामतः ॥
वसन्तराजः ।
श्यामा शिवा पिङ्गलिकाऽन्यपुष्टा पल्ली रला शूकरिका तथैव ।
छुच्छुन्दरी वाऽपि शुभाय वामा पुन्नामधेयाः शकुनाश्च सर्वे ॥
वराहः ।
स्त्रीसंज्ञा भासभषककपिश्रीकर्णछिक्कराः ।
शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥
वसन्तराजश्च ।
श्रीकण्ठछिक्काः सरुरुप्लवङ्गाः श्रीकर्णभासौ भषको मयूरः ।
श्येनः समः पिप्पिकया प्रशस्ताः स्त्रीनामधेया अपि दक्षिणेन ॥
वराहः ।
क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।
सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥
वसन्तराजश्च ।
आक्ष्वेडितस्फोटितगीतवाद्यपुण्याहशङ्खाध्ययनाम्बुकुम्भाः ।
वामेन पुंवत् कथयन्ति भद्रं स्त्रीवच्छुभा दक्षिणतः परेषाम् ॥
वराहः ।
ओजाः प्रदक्षिणाः शस्ता मृगाः सनकुलाण्डजाः ।
चाषः सनकुलो वामो भृगुराहापराह्णतः ॥
"मयूरोलकशूकर्यो दक्षिणा निशि पूजिताः ।
वामाः शिखिबिडालाखुदुर्दुरव्याघ्रसारसाः”[३९५] ॥
छिक्करः कटपूरी च पिरिल्यो चाह्नि दक्षिणाः ।
अपसव्यं सदा शस्ता दंष्ट्रिणः सविलेशयाः ॥
अपसव्यास्तु शकुनाः दीप्ता भयनिवेदिनः ।
आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः ॥
वसन्तराजः ।
खञ्जनाजनकुलाः शिखिचाषौ कीर्तनेक्षणरुतैर्ददतीष्टम् ।
चातकाहिशशंशूकरगोधाः कीर्त्तनेन न तु दृष्टिरुताभ्याम् ॥
अच्छभल्लुकपिदर्शनशब्दौ सिद्धिदौ न परिकीर्त्तनदृष्टौ ।
वटकणिकायां वराहश्च ।
रुतकीर्त्तनदृष्टेषु भारद्वाजाजवर्हिणः ।
धन्यौ नकुलचाषौ च सरटः पापदोऽग्रतः ॥
[३९६] चातकाहिशशक्रोडगोधानां कीर्त्तनं शुभम् ।
रुतसंदर्शने नेष्टे प्रतीपं वानरर्क्षयोः ॥
नेष्टावलोकनगमागमयुद्धकर्मवेश्मप्रवेशमनुजाधिपदर्शनेषु ।
यानप्रतीपविधिना शुभदा भवन्ति केचिज्जगुर्गमनवन्नृपदर्शने च ॥
बृहत्संहितायाम् ।
कर्मसंगमयुद्धेषु प्रवेशे नष्टमार्गणे ।
यानव्यत्यस्तगा ग्राह्या विशेषश्चात्र वक्ष्यते ॥
दिवा प्रस्थानवग्राह्याः कुरङ्गरुरुवानराः ।
अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥
पश्चिमे शर्वरीभागे नष्टकोलूकपिङ्गलाः ।
सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम् ॥
नृपसंदर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत् ।
गिर्यरण्यप्रवेशेषु नदीनां चावगाहने ॥
जवजातिवलस्थानहर्षसत्त्वस्वरान्विताः ।
स्वभूमावनुलोमाश्च तदूनाः स्युर्विवर्जिताः ॥
दिग्देशचेष्टास्वरवासरर्क्षमुहूर्त्तहोराकरणोदयांशान् ।
चरस्थिरोन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेत तज्ज्ञः ॥
वसन्तराजश्च ।
जातिस्वरस्थानबलप्रमोदैर्जवेन सत्त्वेन तथाऽऽनुकूल्यात् ।
दिक्कालतिथ्यादिकहंसचारैर्बलाबलं प्राणभृतां परीक्ष्यम् ॥
तुल्येऽपि जाते शकुने जनानामालोक्यते यत्र फलस्य भेदः ।
स प्राणसंचारकृतो विशेषस्तत्प्राणगत्या शकुनो गवेष्यः ॥
भवेद्धि नाड्यां परिपूरितायां सर्वेऽपि वामः शकुनः प्रशस्तः ।
स्यात् पिङ्गलायां परिपूरितायां सर्वोऽपि सव्यः शकुनः प्रशस्तः ॥
पञ्चषाणि शकुनानि देहिनामुत्तरोत्तरकृतोदयानि चेत् ।
पूर्वपूर्वमभिवाध्य निश्चितं नुर्ददाति शकुनोऽन्तिमः फलम् ॥
वराहः ।
यथोऽऽत्मानं नृपं सैन्ये पुरा चोद्दिश्य देवताम् ।
सार्थिप्रधानं साम्यस्य जातिविद्यावयोऽधिकम् ॥
वसन्तराजश्च ।
सार्थप्रधानं शिबिरे नरेशं स्वमात्मकार्ये नगरे न देवम् ।
विद्यावयोजात्यधिकाँश्च साम्ये निर्दिश्य पश्येच्छकुनान्यभिज्ञः ॥
वेत्ति वाऽथ यमयं न हि वेत्ति मन्यनं तमवमन्यतेऽथ वा ।
पत्र वा नर उपेक्षते स्वयं नेदृशेषु शकुनो विशिष्यते ॥
वटकणिकायां वराहः ।
रुपहतमनोजवृक्षसंस्थः शुचिरुचिरावनिशस्यसंस्थितः ।
तिथिदिवसर्क्षलग्नकालेष्वशुभफलोऽपि शुभप्रदः प्रदिष्टः ॥
इति श्रीमहाराजाधिराजमिनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे सर्वशाकुनाद्भुतावर्त्तः ।
तत्र पराशरः ।
वृषतरुरुमृगचमरहरिणसिंहव्याघ्रादीनामारण्यानां स्वयमनुप्रवेशः पुरविनाशाय ।
व्याघ्रान् सिंहान् सहरिणाँश्चमरान् पृषतान् रुरून् ।
दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत् पुरम् ॥
औशनसे तु ।
रुरवश्च वराहाश्च[३९७] पृषता हरिणास्तथा ।
येषु ग्रामेषु दृश्यन्ते तानरण्यात् विनिर्दिशेत् ॥
प्रधानाश्चात्र बध्यन्ते पक्षे सप्तदशे तथा ।
तस्मिन् जनपदे चैवमहदुत्पद्यते भयम् ॥
तथा ।
देवदूता न हन्तव्या आरण्या ग्राममागताः ।
तेषां बन्धे भवेद्बन्धो मोक्षे मोक्षो वधे वधः ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
"प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ।
अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः
स्थलजा वा जलं यान्ति घोरं वा शान्तिनिर्भयाः ।
राजद्वारे पुरद्वारे शिवा चाप्यशिवप्रदा ॥
दिवा रात्रिचरा वाऽपि रात्रावपि दिवाचराः”[३९८]।
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
मृगपक्षिण आरण्या विशन्ति निर्भयाः पुरम्
त्यक्त्वा वा नगरं ग्राम्या व्रजन्ति निर्भया वनम् ।
दिवारात्रिचरा वाऽपि पुरे ग्रामे न शब्दिताः ।
रात्रौ पुरविनाशाय दिवा राजवधाय च ॥
दिवारात्रिचरा वेति चरन्तीन्ति सम्बन्धः ।
तथा च वराहः ।
पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् ।
नक्तं वा दिवसचरा क्षपाचरा वा चरन्त्यहनि ॥
भयदा इति सम्बन्धः ।
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
ग्रामस्य मध्ये धावन्तो मृगा यदि महद्भयम् ।
वृद्धगर्गस्तु ।
बालान् दन्तैर्यदाऽऽगृह्य ग्राममध्ये च धावति ।
यतो मृगः पलायीत ततो मोक्षं विजानते ॥
अस्थिकाष्ठमलातं वा चैलकेशास्थिभाजनम् ।
श्मशानादाहरेद्ग्रामे मृत्यवे वा भयाय वा ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
“ग्राम्यास्त्यजन्ति च ग्रामं शून्यतां तस्य निर्दिशेत्”[३९९]।
वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।
मृगपक्षिणौ वा नगरं त्यजन्ति सर्वशो यदि ।
ब्राह्मणाः श्रवणा वाऽपि शून्यं भवति तत् पुरम् ॥
वसन्तराजः ।
xरण्यसत्वा मिलिता रुदन्तो ग्रामोपकण्ठे भयदा भवन्ति ।
xx पुनस्तैः परिवेष्ट्यमानो विवेष्ट्यते वैरिजनेन नूनम् ॥
xx भियेऽरण्यचरानुनादा रोधाय ते ग्रामचरानुशब्दाः ।
xxx रानुस्वनेन भीतिं वदन्ति वन्दिग्रहणप्रवृत्ताम् ॥
ग्रामे पुरे वा यदि वन्यसत्त्वा रात्रौ प्रविष्टा दिवसे च दृष्टाः ।
तदा तदाशु ज्वरतामुपैति स्युर्मृत्यवे तत्र मृतप्रसूताः ॥
गृहागता गेहपतेर्भयाय पुरस्य रोधाय तु गोपुरस्थाः ।
स्युर्वन्यसत्त्वाः शकुनानि चैषामुद्भावनीयान्यपराणि चैव ॥
वृद्धगर्गस्तु ।
धावन्तो यत्र वाशन्ति सूर्यप्रतिमुखा मृगाः ।
शीघ्रं तत्र पलायीत दृष्ट्वा तत्र भयं भवेत् ॥
अवतीर्य नदीकूलं जलनिम्नसरांसि च ।
मृगा नदन्ति वर्षासु तद्भयोत्पातलक्षणम् ॥
अरण्ये भैरवं घोरं नन्दित्वा प्रविशेत् पुरम् ।
गोचतुष्पदपीडा स्याच्छस्त्रोत्पातं विनिर्दिशेत् ॥
रात्रिं दिवं संप्रदीप्ता दिक्षु सर्वासु सर्वशः ।
व्याहरन्ति मृगा घोरं विद्रवाय भयाय वा ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
अशिवं चापि वाशन्ति सन्ध्ययोर्मृगपक्षिणः ।
श्येना गृध्रा बलाका वा चार्कमण्डलचारिणः ॥
वाशन्ते भैरवं यत्र तदप्याशु विनश्यति ।
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
“दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ।
वाशन्ति विस्वरं यत्र तत्राप्येतत् फलं भवेत्”[४००]
वराहसंहितायां च ।
सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा
दीप्तायां दिश्यथ वा क्रोशन्तः संहता भयदाः
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
“प्रदोषे कुक्कुटो वाशेद्धेमन्ते चैव कोकिलः” [४०१]।
वसेत् पुरे वा ग्रामे वा तदप्याशु विनश्यति ॥
वराहसंहितायाम् ।
कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापः ।
श्येनाः प्ररुदन्त इव द्वारे वाशन्ति जम्बुका दीप्ताः ॥
प्रतिलोममण्डलचराः श्येनायाश्चाम्बरे भयदाः ।
तत्रैव सन्ध्याप्रकरणे ।
भैवरमुच्चैर्वाशन् मृगोऽसक्क्रुग्रामघातमाचष्टे ।
रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥
अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते ।
मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।
पूर्वायामथ सन्ध्यायामप्रशान्तस्वरो मृगः ।
ग्रामघातं समाख्याति ग्रामेणापरिवारितः ॥
वराहः ।
पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् ।
औशनसे तु ।
गावोऽश्वाः कुञ्जराश्चैव खरोष्ट्रा वानरोरगाः |
नकुलाः पक्षिणो व्याडा ये चाप्येवंविधाः पुनः ॥
सत्वान्येतानि जल्पन्ते येषु देशेषु मानुषाः ।
तेषु देशेषु राजा तु षष्ठे मासि विनश्यति ॥
xxxx ।
xकश्येनगृध्रोलूकादिभिरभीक्ष्णं निषेवणं नोडीकरणं xx ।
बार्हस्पत्ये च ।
प्रासादध्वजशालासु द्वारप्राकारतोरणे ।
गृध्रवायसकङ्गानां नीडं दृष्ट्वा पुरं त्यजेत् ॥
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
"मूषिकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत्"। [४०२]
पराशरः ।
शुकशलभमूषकविडालपन्नगानामभिपतनं शस्यदुर्भिक्षाय ।
बार्हस्पत्ये तु ।
काकमूषिकमार्जाराः सपतङ्गाः सहोरगाः ।
अतीव बहुशो दृष्ट्वा दुर्भिक्षाय भयाय च ॥
पराशरः ।
अथैन्द्र्यादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयगोगजवधमादिशेत् कटाहादिगृहवत् -इति ।
वराहः ।
सर्वे दुर्भिक्षकर्त्तारः स्वज्ञातिपिशिताशनाः ।
सर्पमूषिकमार्जारा: पृथुरोमविवर्जिताः ॥
अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
"मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ।।
गावश्च देया विधिवद्विजानां सकाञ्चना वस्त्रयुगोत्तरीय
एवं कृते शान्तिमुप्रैति पापं मृगैद्विजैर्वा विनिवेदितं ।[४०३]
वराहस्तु ।
मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ॥
सुदेव इति चैकेन देया गावश्च दक्षिणाः ।
जपेच्छाकुनसूक्तं वा मनोर्वेदशिरांसि च ॥
बार्हस्पत्ये तु ।
पुरोहितोऽत्र कुर्वीत कापोतीं शान्तिमुत्तमाम् ।
देवाः कपोता इति च तत्र मध्ये समर्पयेत् ॥
आवापे व्यतिषङ्गे वा उपरिष्टाच्च हूयते ।
कामिकीं दक्षिणां दद्याद्गुरुर्वा येन् तुष्यति ॥
मयूरचित्रे तु ।
सन्ध्याकाले यदा प्राप्ते रुदन्ति मृगपक्षिणः ।
वित्रस्यन्ति प्रधावन्ति तत्र विद्यान्महद्भयम् ॥
शान्तिः साधारणी तत्र कर्त्तव्या गर्गभाषिता ।
तत्रैव ।
प्रस्वरं चेच्छिवा रौति श्वगोवाजिगजास्तथा ।
नर्दन्ति स्त्री गवी चापि भयं भवति भूपतेः ॥
शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ।
तत्रैव ।
प्राकारे नगरद्वारे राजद्वारे चतुष्पथे ।
भृङ्गाश्च वायसा यत्र निवसन्ति व्रजन्ति च ॥
दह्यते तत् पुरं क्षिप्रं परैश्चापि विलुप्यते ।
xxx ।
काककोकिलकङ्कानां गृध्रकौशिकयोस्तथा ।
आरण्यानां च निलयाः प्राकारद्वारवेश्मसु ॥
मरकं कलहं चैव राजामात्यवधं वदेत् ।
xxरदी शान्तिरत्रोक्ता पूर्वोपद्रवनाशिनी ॥
xअश्वत्थसमिधो विद्वान् घृताक्ताञ्जुहुयाच्छतम् ।
अष्टोत्तरं मरुन्मन्त्रैर्निवेद्यास्ताः सशोणिताः ॥
ब्राह्मणान् भोजयेद्दध्ना हुत्वा ते भूरिदक्षिणाः ।
आग्नेयी वाऽपि कर्त्तव्या याऽनग्निज्वलनोदिता ॥
वृद्धगर्गः ।
वियोनिषु यदाऽऽयान्ति मिश्रीभावगता अपि ।
खरोष्ट्रहयमातङ्गा मनुष्याश्च भयाय तत् ॥
औशनसे तु ।
देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् ।
अजः शुनीमजां श्वा वा संसर्गं यत्र गच्छति ।
अभ्यन्तरेण तत्राब्दाद्राष्ट्रे मरणमादिशेत् ॥
वराहसंहितायाम् ।
परयोनावभिगमनं भवति तिरश्चामसाधुधेनूनाम् ।
उक्षाणो वाऽन्योन्यं पिबति श्वा वा सुरभिपात्रम् ॥
मासत्रयेण विद्यात् तस्मिन् निःसंशयं परागमनम्।
तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥
त्यागो विवासनं दानं तत् तस्याशु शुभं भवेत् ।
तर्पयेद्ब्राह्मणांश्चात्र जपहोमाँश्च कारयेत् ॥
स्थालीपाकेन धातारं पशुना न पुरोहितः ।
प्रजापत्येन मन्त्रेण जपेद्वह्वन्नदक्षिणाम् ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे नानामृगविहगाद्भुतावर्त्तः ।
अथ गजाद्भुतावर्त्तः ।
तत्र पराशरः ।
दन्तिनां श्रीपुष्टिकरमदप्रादुर्भावः प्रहर्षो विजयाय ।
प्रवेशनं वारिणि वारणस्य प्रायेण नाशाय भवेन्नृपस्य ।
ग्राहं गृहीत्वोत्तरणं द्विपस्य तोयात् स्थलं वृद्धिकरं नृभर्त्तुः ॥
विष्णुधर्मेत्तरे ।
ग्राहं गृहीत्वा द्विरदः सग्राहः सलिलाशयात् ।
उत्तरन् विजयाय स्यादग्राहो भयवर्धनः ॥
राजपुत्रः ।
देशे त्वदंशमशके ह्यव्रणो यत्र वारणः ।
हस्तेन बीजति मुहुस्तत्पराभवलक्षणम् ॥
विष्णुधर्मेत्तरे ।
ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ।
राजपुत्रः ।
हस्तिन्या भक्ष्यमाच्छिद्य स्वयं भक्षयते यदा ।
वारणस्तेन जानीयान्निमित्तेन पराभवम् ॥
पराशरः ।
हस्तिनां हस्तेन स्कन्धविलेखनमाहारेषु प्रद्वेषः । प्रकम्पनमुत्तमाङ्गानां पादैः पादप्रघर्षणं वेपथुर्मुखाक्षिमुण्डेभ्यो वा स्रक्प्रवर्त्तनं निशि भैरवो निनादो विभिन्नकांसस्य बृंहणं वित्रस्तपरिधावनं मदप्रणाशः पांशुकलुषग्रासाभिषङ्गप्रकीर्णताऽप्रकीर्णानां प्रधावनमशुप्रवर्धनं प्रवेपनं प्रदत्तकवलप्रतिग्रहः शिरोऽवध्वननमार्त्तानुनादो बहिर्दन्तशकलावपतनं विषाणभङ्गः पराजयाय ।
अयोध्याकाण्डे दशरथमरणनिमित्तम् ।
“तत्यजुः कवलं नागाः........."[४०४]।
सुन्दरकाण्डे रावणवधनिमित्तम् ।
“कवलाँश्चाप्यपास्यन्ति विनदाश्चापि च कुञ्जराः "।
शल्यपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"अश्रूणि मुमुचुर्नागा वेपथुश्चाभवद्भृशम्"[४०५] ।
अथ बृंहितफलम् । तत्र बृहस्पतिः ।
सेनामध्ये तु यदा बृंहति शार्दूलबद्गजो दृष्टः ।
भवति स्वसैन्यविजयस्तदा तु सङ्ख्ये नरेन्द्रस्य ॥
कलहं सनादमधुरं किञ्चिच्चोत्क्षिप्तपुष्करस्तु यदा ।
बृंहति वारणनाथस्तदा जयं नरपतिर्लभते ॥
दशनविवर्त्तितहस्तस्तुरङ्गगम्भीरशङ्खनादसमम् ।
बृंहति यदा तु हस्ती तत्रापि जयो भवेद्भर्त्तुः ॥
मुखविवरकपोलगतं करं यदाऽपहृत्य गजो दृष्टः ।
मधुरं गजहसितं तत् जयप्रदं भवति भूपानाम् ॥
त्रीन् वारान् क्रौञ्चरवं हंसरवं बृंहितं यदा कुरुते ।
एतदपि नागहसितं जयप्रदं भवति भूपानाम् ॥
गर्जति कण्ठेन यदा घनो यथा वारणः प्रहृष्टमनाः ।
मुखरन्ध्रनिविष्टकरस्तदा जयो जायते भर्त्तुः ॥
उदरागृहीतसलिलं सशीत्करं बृंहितं यदा कुरुते ।
भवति तदा नरनाथस्य शत्रुनाशः सुखेनैव ॥
स्पृशति कराग्रेण यदा चरणतलं भ्रमरबृंहितं कुर्वन् ।
स्मम्भे चालभ्य मुखं गमनं राज्ञस्तदा भवति ॥
शुष्कतृणंकाष्ठकण्टकवल्मीकास्थिस्मशानदुष्टासु ।
पाषाणाङ्गाराशुचिभूमिषु पादस्थिता करिणः ॥
बृंहन्ति हीनलक्षणमसक्रुद्भर्तुस्तदा जयो नास्ति ।
जयदाश्च शाद्वलानि दिवाकरस्योद्देशस्थिता नित्यम् ॥
शङ्काचालितनयनो वराहवद्घुरघुरं बृंहन् ।
यदि नागो भवति भयं तदा रणे नरपतेर्नूनम् ॥
भूतलविस्तृतहस्तो नदति यदा घरणिकम्पनादसमम् ।
नरपतिराष्ट्रविनाशो भवति तदा शत्रुसैन्यकृतः ॥
जयते विजये विद्विट् शान्तः पुरराष्ट्रपीडनं च तथा ।
मदमुदितकरभरवसदृशनिःस्वनं यदि करी कुरुते ॥
बलिभुग्निःस्वनसदृशं यदि बृंहति विनमिताननो हस्ती ।
म्रियते तदाऽस्य याता मासस्यान्ते चतुर्थस्य ॥
भूमौ चलितनिवेशतशिथिलकरो बृंहते तदा करुणम् ।
मीलितलोचनयुगलो भर्त्तृविनाशं तदा कुरुते ॥
सततं दूषितहृदयो रोगाणामागमं रिपुभयं च ।
खरपारावतरुतसमबृंहितमुखरं करी कुरुते ॥
कुक्कुटनादं बृंहति असकृत् सन्ध्याद्वये यदा हस्ती ।
हस्तिपसहितस्तु तदा स एव पञ्चत्वमुपयाति
आघ्राताननविवरा बृंहन्ति यदा सुदुःसहं करिणः ।
सहसाऽभिघातजनितं तदा भयं भवति भूपानाम् ॥
चीत्कारं यदि कुरुते परुषं संग्रामकम्पितो हस्ती ।
धरणीतलन्यस्तकरस्तदा भयं जायते भर्त्तुः ॥
यातारं सैन्यपतिं क्रुद्धो भीत इव स्वनं कुरुते ।
वेगपरिवर्त्ततमुखः स नाशयेद्वारणः सङ्ख्यम् ॥
अशनिस्फूर्जितसदृशं द्विरदो यदि बृंहते रणारम्भे ।
धरणीतलगतवदनस्तदा जयो नास्ति भूपस्य ॥
निःश्वसितदीनवदनो जम्बुकनादानुकारिकृतशब्दः ।
यो नागो रणसमये न तस्व भर्त्ता जयं लभते ॥
यः किङ्किणीकलकलसदृशं नादं करोति कुपितोऽपि ।
त्याज्योऽसौ नरपतिना सेनासन्तापकृद्भवति ॥
कृष्टतरुरुहो नादं बृंहति पर्यश्रुलोचनो हस्ती ।
पीलुपतियातृनाशं स्वदेहनाशं तदा कुरुते ॥
वामान्दोलितचरणो यदा करी बृंहते सनिःश्वासम् ।
आलानगतः कुरुते तदा वधो यातृपीलुपयोः ॥
एवं कुर्वीत यदा प्रकृतिस्था बृंहितानि मातङ्गाः ।
औत्पातिकानि राज्ञस्तान्येव भवन्ति नान्यानि ॥
रुतकालोचितयवसान्नपानशयनादिभिः सुखिनः ।
विचरन्तो बृहन्ते उत्पातकृतं रुतं तु विज्ञेयम् ॥
शान्तिं तदुपशमार्थं द्विजभोजनपूर्विकां तदा कुर्यात् ।
पायसमधुप्रधानं विप्रेभ्यो भोजनं देयम् ॥
सहदेवी मञ्जिष्ठा लाक्षा विजया शतावरी पाठा ।
पुत्रञ्जीवारिष्टकसहिता मुस्ता हरिद्रा च ॥
द्रव्याण्येतानि सुचूर्णितानि सारस्वते जले कृत्वा ।
स्नपयेत् कुम्भशतेन हि मतङ्गजं भद्रके दिवसे ॥
स्नपितस्य ततः शीघ्रं प्रदक्षिणीकृतपिनाकिभवनस्य ।
औत्पातिकः प्रणश्यति दोषो नागस्य नरनाथ ॥
अथ मदफलम् । तत्र राजपुत्रः ।
अप्राप्ते मदकाले च यदा माद्यति वारणः ।
उपस्थितं विजानीयादुपसर्गं बलस्य तु ॥
न विद्यते मदः काले भवेच्चेवारणस्य च ।
उत्पातं तं विजानीयान्मदलिङ्गेन शास्त्रवित् ॥
धर्महीना वयोहीना धातुहीनाश्च वारणाः ।
अप्राप्तमदकालत्वादत्यर्थं निन्दिताः पुनः ॥
अतिस्थूलाः कृशाश्चापि श्रान्ताश्च व्याधितास्तथा ।
यत्र च्छिक्काः प्रभिद्यन्ते कटाभ्यां कोशतस्तथा ॥
शिरोभिस्यन्दतो रोगान्मूत्राभिस्यन्दतोऽपि वा ।
अथ चेद्युगपन्माद्येत् कटाभ्यां कोशतस्तथा ॥
विवर्णं गन्धहीनं च तदपि व्याधिलक्षणम् ।
मदं मन्दगुणैर्युक्तं यदा स्रवति पोतकः ॥
वर्णस्थं गन्धयुक्तं च हर्षेण च समन्वितम् ।
मण्डले तु तदा तस्मिन् महदौत्पातिकं भवेत् ॥
गजग्रामेऽथ वाऽरण्ये मातङ्गो यत्र माद्यति ।
यूथस्य नाशं जानीयाद्दाहं नागवनस्य च ॥
मृगाणां पक्षिणां चैव ये चान्ये तत्र संश्रिताः ।
एतेनैवोपसर्गेण प्राप्नुवन्ति विनाशनम् ॥
वर्षे तु प्रथमे नागो ह्युपसर्गात् प्रभिद्यते ।
मदः सुरभिगन्धो वा दुर्गन्धो वाऽपि जायते ॥
तस्य राष्ट्रस्य नाशाय प्रादुर्भावो मदस्य हि ।
संदृष्टो नयतत्त्वज्ञैस्तस्मिन्नुत्पातदर्शने ॥
वर्षे द्वितीये मातङ्गः प्रभिन्नो यदि दृश्यते ।
ब्राह्मणास्तत्र पीड्यन्ते[४०६] शस्यहानिश्च जायते ॥
नानाविधाश्च रोगाः स्युस्तत्पुरे तु सदा वदेत् ।
त्रिवर्षस्तु यदा मत्तो मातङ्गो यदि दृश्यते ॥
क्षत्रियाणां तथा विद्याद्व्यसनं प्रत्युपस्थितम् ।
प्रभेदो वारणस्याथ चतुर्वर्षस्य निन्दितः ॥
अमात्यास्तत्र हन्यन्ते म्रियन्ते च पुरोहिताः ।
पञ्चवर्षस्य नागस्य प्रभेदो निन्दितो भृशम् ॥
निर्दिशेच्छास्त्रवित् तत्र परपक्षभयं महत् ।
षड्वर्षस्याथ नागस्य मदकालो न विद्यते ॥
यदि माद्यति चेन्नागः स एव म्रियते ध्रुवम् ।
देशे तु यस्मिन् दृश्येत सप्तवर्षो मदान्वितः ॥
व्याधिना मरणं तत्र भूमिपालस्य निर्दिशेत् ।
महादोषप्रयुक्तं च अष्टवर्षप्रभेदनम् ॥
कोशो मन्त्री सहायश्च परं चैव विनश्यति ।
निन्दितं तु मदं विद्यान्नववर्षस्य हस्तिनः ॥
अत्यर्थं स्याद्भयं घोरं शस्त्रसम्मर्द एव च ।
सुमहाँस्तु भवेद्वेषो दशवर्षप्रभेदने ॥
सद्यस्तु मरणं विद्यान्नृपतेः प्रत्युपस्थितम् ।
द्वितीयायां दशायां तु वारणो यदि माद्यति ॥
पञ्चवर्षाण्यनावृष्टिं तस्मिन् देशे विनिर्दिशेत् ।
दिवा वा यदि वा रात्रौ प्रभिन्नो दृश्यते यदा ॥
निःश्रेयस्तस्य प्रस्थानं तत्क्षणे चैव हस्तिना ।
कारयेत् तत्र शान्तिं च ब्राह्मणाँश्चापि तर्पयेत् ॥
उत्पातप्रतिघातार्थमिमं विधिमुपाचरेत् ।
प्रतिघातस्त निर्दिष्टः प्रायश्चित्तस्य कारणात् ॥
त्रीण्यहानि पशून् राष्ट्रे तस्मिन् कर्म न कारयेत् ।
अशुभानां फलं कृत्स्नं राजे राष्ट्रस्य निर्दिशेत् ॥
अथ करिणीमदफलम् । तत्र राजपुत्रः ।
स्त्रीपुंसयोर्यथाऽन्यत्वं सर्वप्राणिषु दृश्यते ।
एवमेव निसर्गात् तु धेनूनामप्रभेदनम् ॥
अतोऽन्यथा यत्र भवेदुत्पात इति तं विदुः ।
कश्चित् कदा चिद्दृश्येत स गन्धो हस्तिनीष्वपि ॥
मदः स चापि मन्तव्यो वक्ष्यते तत्परं फलम् ।
स्रावः कश्चित् प्रवर्त्तेत कटाभ्यां नैव कोशतः ॥
शिरोऽभिस्यन्दरोगस्तु निर्गन्धो न मदः स्मृतः ।
स्रावः कोशाद्भवेद्यस्तु कटाभ्यां न प्रवर्त्तते ॥
मूत्राभिक्षरणे चैव तद्गन्धो न मदो भवेत् ।
उभयत्रापि निर्गन्धं यदा स्रवति हस्तिनी ॥
तद्धि वैकारिकं दानं विद्यायाधिसमुद्भवम् ।
मदं यदा तु विसृजेत् वमतिं पूतिमेव च ॥
औत्पातिकं तदा विद्याद्रूपैरेतैर्महीपते ।
विष्णुधर्मोत्तरे तु ।
प्रसूता नागवनिता मत्ता चान्त्याय भूपतेः ।
पोलुxxxx ।
यत्र राष्ट्रे पुरे वाऽपि हस्तिनीं प्रविधावति ।
तद्धि राष्ट्रं सराजं च सपुरं च विनश्यति ॥
राजपुत्रस्तु ।
पुरे राष्ट्र वने वाऽपि हस्तिनी यत्र माद्यति ।
राजा च नश्यते तत्र कुलं चैव विनश्यति ॥
पुरं वा तत्र भवति राष्ट्रं वा तद्विनश्यति ।
यूथं वा तत्र भवति यूथपो वा विनश्यति ॥
दशभ्योऽनन्तरं सा चेत् प्रभिन्ना म्रियते यदि ।
तदा नान्यद्भवेत् पापं माद्यत्यात्मवधाय सा ॥
मत्ता विधूय यन्तारं नर्दन्ती यत्र धावति ।
सराष्ट्रं शिबिरं तत्र परचक्रेण पीड्यते ॥
मत्ता मूत्रपुरीषाणि यदा संप्राश्य तिष्ठति ।
तदा पुरे च राष्ट्रे च भवेद्धोरं महद्भयम् ॥
मत्ता लोलुप्यमाना चेच्छुष्कास्या क्षुधिता तथा ॥
धेनुका मद्यमाना च निर्हर्षा न प्रधावति ।
भवेत् तत्र च दुर्भिक्षं देशे दुर्वृष्टिरेव वा ॥
परचक्रमयाद्भङ्गः श्रेष्ठाङ्गपतनं तथा ।
मत्तया भक्ष्यते युद्धे हस्तिन्या यदि वारणः ॥
महद्भयं तत्र भवेद्देशस्य नगरस्य च ।
संघ्रायाभिपतेन्नागं मत्ता यत्र च धेनुका ॥
बलकोपो भवेत् तत्र मन्त्रिणां वध एव वा ।
लेण्डान् मूत्रं च मुञ्चन्ती निर्गच्छेद्यत्र धेनुका ॥
तदा विनाशं जानीयाद्धान्यस्य च धनस्य च ।
अस्मिन्नौत्पातिके शान्तिमिमां कुर्यान्नराधिपः ॥
उपोष्य समाहामात्रः सामात्यः सपुरोहितः ।
ततोऽस्याः शोणितैरेव धेनुकां तां प्रवर्धयेत् ॥
हस्तिवत्कल्पितां तां तु विषाणाभ्यां च योजिताम् ।
नीराजयित्वा तां रात्रौ धेनुकां कृतकौतुकाम् ॥
अथैनां हस्तिवन्नीत्वा शत्रुपक्षे विमोक्षयेत् ।
करोति पीडां तत्रापि शत्रोर्वनगताऽपि वा ॥
इत्येवमेनां कुर्वीत शत्रोर्वननिवासिनीम् ।
तां विसृज्य बलिं होमानुपहाराँश्च कारयेत् ॥
अन्यैश्च पेशलैर्विप्रान् दक्षिणाभिश्च तर्पयेत् ।
अथ वा पूर्ववत् कृत्वा शान्तिं तप्तकटद्वयाम् ॥
सुवर्णेन सुतप्तेन वनमेव प्रधावयेत् ।
अथ गजदन्तभङ्गफलम् । तत्र बृहद्यात्रायां वराहः ।
दक्षिणे शुभमतीव शोभनं पापमेव च विरुद्धमन्यतः ।
याप्यता भवति तद्विपर्यये विस्तरोऽथ मनिभिः प्रकीर्त्तितः ॥
मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः ।
स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम् ॥
सौम्यलग्नतिथिभादिभिः फलं वर्धते शुभमतोऽन्यथा भवेत् ।
क्षीरमिष्टफलपुष्पपादपेष्वापगातटविघट्टनेन वा ॥
वाममध्यरदभङ्गखण्डनं शत्रुनाशकृदतोऽन्यथा परम् ।
विष्णुधर्मोत्तरे ।
शुभे काले शुभे देशे निम्नगायाश्च रोधसि ।
शुभे द्रुमे वा भवति भूभर्त्तुर्विजयावहः ॥
दन्तभङ्ग इति सम्बन्धः ।
राजपुत्रः ।
गजस्याभिघ्नतो द्रव्यं स्थावरं जङ्गमं तथा ।
दन्तव्यथा यदा च स्याद्दन्तैरभिहतस्य वा ॥
व्याधिना वाऽभिभतस्य जरया पीडितस्य वा ।
दैवपीडा निमित्ताद्वा गजदन्तव्यथा भवेत् ॥
इत्येषां दन्तभङ्गानामुत्पत्तिः समुदाहृता ।
अत ऊर्ध्वं समासेन भङ्गयोनिः प्रवक्ष्यते ॥
सकलापगमो भङ्गः शौषिर्यं दन्तुराननम् ।
चलनं जर्जरत्वं च पाटनं च तथा भवेत् ॥
इति सप्तविधा योनिर्भङ्गानां समुदाहृता ।
मूलमध्याप्रभङ्गानां वक्ष्यते कालसंग्रहः ॥
मूले त्रैमासिको ज्ञेयो मध्ये षाण्मासिको भवेत् ।
ऊर्ध्वं संवत्सरादग्रे भङ्गानां कालसंग्रहः ॥
समं च विषमं चैव भङ्गसंस्थानमिष्यते ।
छेदतुल्यं समं विद्यादतुल्यं विषमं भवेत् ॥
अतः परं प्रवक्ष्यामि फलयोगं शुभेतरम् ।
उपरिष्टात् तथा चान्तः समो भङ्गश्च शोभनः ॥
यश्च पुण्ये भवेद्देशे पुण्यभङ्गो महाफलः ।
निपतेयुर्यदा दन्ताच्छुल्बान्याजौ तु दन्तिनः ॥
शुभं फलं तदा विद्यान्नृपतेः समुस्थितम् ।
विषाणाभ्यन्तरे शुल्बमुपरिष्टात् तथैव च ॥
पतेद्यातुश्च वृद्ध्यर्थं नृपतेश्चार्थसिद्धये ।
उद्योगे पतिते शुल्बे दन्ताभ्यन्तरतो जयः ॥
उत्तरे सैन्यवृद्धिः स्यात् सुहृद्भिश्च समागमः ।
दन्तस्याभ्यन्तराद्भ्रष्टं गजबाहुल्यमादिशेत् ॥
तत्रोपरिष्टाच्छकलं हन्ति शत्रूँश्चिरोत्थितान् ।
विषाणाभ्यन्तरे भागे बाहुपर्यपि चोत्थितान् ॥
संशत्यसंशयं राज्ञः कोशवृद्धिमुपस्थिताम् ।
आर्द्रकूलाभिघातेन विषाणं यदि भज्यते ॥
सुवृद्धिं निर्दिशेद्विद्वाँस्तस्मिन्नुत्पातदर्शने ।
दन्ताग्रं पतितं भूमौ जले वा यदि दृश्यते ॥
अथ यातुर्विजानीयादर्थलाभमुपस्थितम् ।
यदि भद्रेण पापस्य दम्तो भवति दन्तिनः ॥
ततः क्षेमं सुवृष्टिं न सुभिक्षं चैव निर्दिशेत् ।
प्रभिन्नेनाप्रभिन्नस्य विषाणं यदि भज्यते ॥
सुभिक्षं न सुवृष्टिं च तस्मिन् विद्यान्निर्दशनम् ।
क्रीडितः सलिले दन्तो यदि नागस्य भज्यते ॥
तत्र चेत् पतितो दृष्टः सुवृष्टिमभिनिर्दिशेत् ।
प्रदक्षिणावर्त्तनिभो दन्तभङ्गो यदा भवेत् ॥
भूपतेः पुत्रलाभाय तन्निमित्तं ततो भवेत् ।
दन्तिनो मध्यभागाच्च करिण्याः शोणितं स्रवेत् ॥
पुत्रलाभाय नृपतेः तदपि स्यान्निदर्शनम् ।
पुष्पिते फलिते वाऽपि सक्षीरे च महीरुहे ॥
यदि दन्तो भवेद्भग्नः सोऽर्थलाभकरः स्मृतः ।
विषाणाभ्यन्तराद्भङ्गो नृपस्त्रीलाभमादिशेत् ॥
उपरिष्टाद्गुरुस्त्रीणां धनधान्यप्रदो भवेत् ।
भास्करोदयवेलायां विषाणं यदि भज्यते ॥
पुत्रलाभाय नृपतेस्तन्निमित्तं तदा भवेत् ।
ज्येष्ठायां वरुणे चैव मूले चेद्भङ्गमाप्नुयात् ॥
विशाखयोः पुनर्वस्वो रोहिण्यामुत्तरेषु च ।
शुभे देशे शुभा भङ्गाः शुभा ज्ञेया महाफलाः ॥
स्वात्यश्वयुग्धनिष्ठासु रेवत्यां तिष्यहस्तयोः ।
चित्रायां चैव नक्षत्रे सौम्यश्रवणयोस्तथा ॥
ये भवन्ति शुभा भङ्गाः शुभा ज्ञेया महाफलाः ।
मुहूर्त्तेष्वथ देशेषु ये भङ्गाः शुभलक्षणाः ॥
तेषु मन्दफला दृष्टा यथाशास्त्रविनिश्चयम् ।
पापकेभ्यस्तिथिभ्यश्च नक्षत्रेभ्यस्तथैव च ॥
तिथयो ये च शिष्टाः स्युर्भङ्गास्तेषु शुभावहाः ।
बृहद्यात्रायां वराहः ।
दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् ।
वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान् ॥
आदिशेदुभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम्[४०७] ।
विष्णुधर्मोत्तरे तु ।
दन्तभङ्गोऽशुभे देशे द्रुमे वा भयवर्धनः ।
क्रूरेष्वशुभलग्नेषु तथा रागविशेषतः ॥
पराशरस्तु ।
बहिर्दन्तशकलावपतनं पराजयाय । मूलात् पार्थिवस्य । मध्यतः कुमाराणाम् । अग्रतो नायकस्य । सेनापतेरुभयतः । बहुधा च राज्ञः सेनायां हस्त्यश्वानां वधाय ।
राजपुत्रस्तु ।
मूले यथाफलो भङ्गो मध्ये मध्यफलः स्मृतः ।
अग्रे त्वल्पफलो ज्ञेयः शुभो वा यदि चेतरः ॥
उभौ भङ्गौ विजानीयान्मध्यमाविति निश्चितौ ।
शुभदेशे शुभो भङ्गः सदा बहुफलो भवेत् ॥
पापदेशे च यः पापः स पापतर उच्यते ।
युग्मशुल्बप्रपतनं निन्दितं सततं भवेत् ॥
विषाणात् पतिते शुल्बे श्रेष्ठे मध्येतरेऽपि वा ।
यथासङ्ख्यं फलं विद्यादशुभं शुभमेव च ॥
विषाणं दक्षिणं भग्नं पतितं वाऽपि हस्तिनः ।
पदं स्याद्व्यथितं वाऽपि तत्फलं नृपतेर्भवेत् ॥
विषाणमध्ये यत् प्रोक्तं फलं योक्तुर्विधीयते ।
ततः कोषे सुतेऽमात्ये राष्ट्रे द्रव्ये पुरोधसि ॥
वाहने चाथ सैन्ये च वैधे धातरि वा पुनः ।
एषामन्यतरस्मिँश्च विद्यात् फलमुपस्थितम् ॥
एवं छेदेषु पुष्पेषु विक्रियासु विनिर्दिशेत् ।
शुल्बं बहिर्धरंन्यसेन्न म्लानं च समावहेत् ॥
यदि कुं दारयेद्युद्धे विषाणं सकलं पतेत् ।
बहिस्तदनयं कुर्यादधस्ताद्वित्तनाशनम् ॥
अतिद्रुतं शुल्बमूलं विषाणं यदि भ्रंशते ।
विद्यात् तेनाभिघातेन दुर्वृष्टिं शास्त्रकोविदः ॥
यस्यापि भिद्यतः स्तम्भान्नवो दन्तश्च भ्रंशते ।
भवेत् सरुधिरो भङ्गस्तस्य यात्रा विनश्यति ॥
तेनार्थनाशं जानीयाद्यातुस्तस्मिन् विनिर्दिशेत् ।
यस्य दन्तस्त्रिधा भग्नोऽन्त्ये मध्ये च तथोद्गमे ॥
भर्त्ता तस्य द्विपेन्द्रस्य ससत्त्वो युधि हन्यते ।
यदा भवति भद्रस्य विषाणं पापलक्षणम् ॥
तदा प्रकोपं जानीयाद्विषयस्य बलस्य वा ।
यदा मत्तेन मत्तस्य दन्तो भ्रंश्येत दन्तिनः ॥
तदा विद्यादनावृष्टिं दुर्भिक्षं चैव शास्त्रवित् ।
गजस्य पतितो दन्तो भग्नो वा सकरीरकः ॥
दक्षिणे यदि वा वामे भवेन्नृपवधाय सः ।
मत्तस्य यदि मत्तेन दन्तो भिद्येत दन्तिनः ॥
महदग्निभयं तत्र पुरे राज्ये विनिर्दिशेत् ।
यदा ग्राम्येण वन्यस्य विषाणं परिभ्रंश्यते ॥
तदा पीडां विजानीयाद्धस्तिनां वनवासिनाम् ।
भिनत्ति दन्तमारण्यो हस्तिनो नागरस्य चेत् ॥
ग्राम्याणां हस्तिनां विद्याद्विनाशं समुपस्थितम् ।
अथ चेत् क्रीडमानस्य विषाणं भ्रंश्यते जले ॥
पतितं यदि दृश्येत दुर्वृत्तं तन्निर्दिशनम् ।
विषाणं भज्यते मूले हस्तिनो यदि हस्तिना ॥
अर्थहानिं ततो विद्यात् पार्थिस्य विचक्षणः ।
यदाऽऽयतविषाणेन बहुधा विप्रशीर्यते ॥
तदा राष्ट्रं समुदितं सहामात्यैर्विनश्यति ।
मूले सरुधिरं भग्नं विषाणं जर्जरीकृतम् ॥
यदा नागस्य नृपतेस्तदा राजा विनश्यति ।
यस्य नागस्य दन्ताग्रे शौवीर्यमुपलभ्यते ॥
वर्षस्याभ्यन्तरे चैव योद्धुर्भार्या विनश्यति ।
तिक्तं वा यदि वा शुष्कं कटुकं कण्टकिद्रुमम् ॥
हस्तिनो भिद्यतो विद्याद्दन्तभङ्गस्य शोभनम् ।
भूतलस्पृष्टहस्तो हि भज्यते यद्यपक्रमे[४०८] ॥
तस्य नागस्य महतो मासस्यान्ते वधो भवेत् ।
मूले हन्यान्महामात्रं पार्थिवं सकरीरकः ॥
मध्यभागे गजाध्यक्षं दन्तभङ्गस्तु हस्तिनः ।
अथाग्रदन्तो भज्येत पतितश्चेन्न दृश्यते ॥
पुरोहितस्य मरणं सपुत्रस्य विनिर्दिशेत् ।
विषाणं भिद्यते यस्य मध्ये नागस्य मध्यतः ॥
व्याधिना पीड्यते देहं तस्य यातुरसंशयम् ।
अकस्माद्यस्य नागस्य मध्येदन्तं व्यथा भवेत् ॥
व्याधिना तस्य ये रोगा महामात्रः प्रपीड्यते ।
दक्षिणे चोपवाह्यस्य दन्तेन रुधिरे च्युते ।
वर्षस्याभ्यन्तरे राज्यं विनाशनमभिनिर्दिशेत् ।
यदि दन्तद्वयं युद्धे भज्यते सकरीरकम् ॥
अन्तःसंक्षरणे चास्मिन् सपुत्रो म्रियते नृपः ।
पतितोऽध्वनि नागस्य विषाणे सकरीरके ॥
राज्ञः शस्त्रभयं विद्याद्राष्ट्रविभ्रंशमेव च ।
तृणे काष्ठे तु पतिते राष्ट्राद्भ्रंशेत पार्थिवः ॥
भूमौ तु पतिते रोगं मरणं न विनिर्दिशेत् ।
सलिले पूर्वमुद्दिष्टं फलमाहुर्विचक्षणाः ॥
बाह्यभागाश्रितो भङ्गो नृपतिस्त्रीवियोगकृत् ।
तस्यैव भागतः स्त्रीणामधस्तान्मरणावहः ॥
यदा हि पूर्वसन्ध्यायां वैश्यानामनयो ध्रुवम् ।
अथ चेद्भज्यते रात्रौ विषाणं यदि हस्तिनः ॥
शूद्रान् म्लेच्छाँश्च दस्यूँश्च भयं स्पृशति दारुणम् ।
यदा विषाणं भज्येत व्रजत्यस्तं दिवाकरे ॥
तदा विद्यान्नरपतेर्वित्तनाशमुपस्थितम् ।
कृत्तिकास्वशुभी भङ्गः पापदेशे यदा भवेत् ॥
तदा प्रकुरुते राज्ञो वित्तनाशमुपस्थितम् ।
ज्येष्ठायां वारुणे मूले गर्हितः पापदेशजः ॥
दन्तभङ्गो भवेन्नित्यं नृपतेर्भूमिनाशनम् ।
आर्द्रायां त्रिषु पूर्वेषु भरणीषु मघासु च ॥
अहिदेवेषु ये भङ्गाः पापाः स्युः पापदेशजाः ।
ते भवन्ति शुभा राज्ञः प्रोच्यन्ते क्षिप्रमेव च ॥
एतेष्वेव च ये भङ्गा दारुणा इतरेषु च ।
नक्षत्रेषु यथोक्तेषु शुभाश्च शुभदेशजाः ॥
ते मन्दफलपाकाः स्युरिति शास्त्रविनिश्चयः ।
त्रिषूत्तरेषु रोहिण्यां पुनर्वसुविशाखयोः ॥
पापाः स्युः पापदेशस्था भङ्गाः पापमहाफलाः ।
चित्राश्वयुग्धनिष्ठासु रेवस्यां पुष्यहस्तयोः ॥
मृगशीर्षे तथा खातौ नक्षत्रे श्रवणेऽपि च ।
ये भवन्त्यशुभा भङ्गाः पापदेशसमाश्रिताः ॥
ते वैरिणि च पच्यन्ते भवन्त्यल्पफलास्तथा ।
यः पापः पापदेशस्थो नक्षत्रैः सग्रहो भवेत् ॥
विषाणभङ्गो नागस्य स च मन्दफलो भवेत् ।
पक्षच्छिद्राणि सर्वाणि निन्दाद्यास्तिथयस्तथा ॥
पापकाः पापदेशस्थास्ते विज्ञेया महाफलाः ।
तिथिष्वेतेषु चैव स्युर्निन्दितेषु दिनेषु च ॥
ये भवन्ति शुभा भङ्गास्ते वैस्वल्पफलाः स्मृताः ।
दन्तेषु सुप्रशस्तेषु पापकाः पापदेशजाः ॥
गजानां दन्तभङ्गाः स्युस्ते ह्यल्पफलदाः स्मृताः ।
बले मुहूर्त्ते सावित्रे मैत्रे चाभिजिते तथा ॥
विजये चाशुभा भङ्गास्तेऽपि हीनफलाः स्मृताः ।
शेषेषु तु मुहूर्त्तेषु ये भङ्गाः पापदेशजाः ॥
महाफलाश्च विज्ञेयास्ते पापाश्च न संशयः ।
अथ दन्तवृद्धिफलम् । तत्र राजपुत्रः ।
मूलायामेषु यो दन्तोऽनाहाद्वर्धेत दन्तिनः ।
यातुर्गजस्य राज्ञस्य तदा वृद्धिमथादिशेत् ॥
मध्ये वर्धेतानाहेन महामात्रविवृद्धये ।
वृद्धेऽग्रदन्ते सैन्यानां वृद्धिर्गजपदस्य च ॥
सर्वथा वर्धते दन्तो यदि नागस्य मूलतः ।
ससुतस्य सराष्ट्रस्य नृपस्यायुर्विवर्धयेत् ॥
लक्ष्यते स्निग्धकालाभं विषाणं तु सुवृष्टये ।
उन्नते दक्षिणे दन्ते राजा वर्धेत सर्वतः ॥
उन्नते वामदन्ते तु यातुर्वृद्धिमथादिशेत् ।
उन्नते दक्षिणे दन्ते भवेद्राज्ञोऽर्थवृद्धये ॥
वामदन्ते फले प्रोक्तः सर्वत्र च विधीयते ।
दन्तयोरुभयोरेव फलमुक्तं विशेषतः ॥
अथ दन्तकालिमादिकलम् । तत्र राजपुत्रः ।
मूले चाग्रे तु दन्तस्तु परिम्लानो यदा भवेत् ।
उत्पातं निर्दिशेत् तस्मिन् राष्ट्रपीडामुपस्थिताम् ॥
आमात्याँश्च कुमाराँश्च मध्ये म्लाने भयं स्पृशेत् ।
सर्वम्लानगतो दन्तो दक्षिणो वाम एव च ॥
विनाशमादिशेद्राज्ञः सराष्ट्रस्य तदाऽचिरात् ।
दक्षिणस्त्वथ वामो वा दन्तो हि यदि म्लायते ॥
दक्षिणे पीड्यते राजा वामे याता विनश्यति ।
अनयोरुभयोरेव नाशं राज्ञः समादिशेत् ॥
विषाणस्त्रवणे तस्माद्वनं प्रस्थापयेन्नृपम् ।
एवमौत्पातिके तस्मिन् कृता शस्ता प्रतिक्रिया ।
प्रज्वलेत् सहसा दन्तो दिवा वा यदि वा निशि ।
अत्र स्वराज्यान्नृपतिः कान्तरे वसतेऽचिरम् ॥
धूमायमाने दन्ते तु अग्निसंभ्रममादिशेत् ।
दन्ताग्रे हस्तिनो यस्य विषं मधु च दृश्यते ॥
विद्यान्नृपतिनाशाय बलस्य व्यसनाय च ।
अधस्तावनते दन्ते दक्षिणस्य स्वभावतः ॥
कुलविच्छेदनं राज्ञः यातुर्दारार्थनाशनम् ।
वामे त्ववनते दन्ते यातुरेवाभिनिर्दिशेत् ॥
नाशं सपुत्रदारस्य सर्वस्वहरणं तथा ।
निर्णये दक्षिणे दन्तो राज्ञोऽर्थानामसिद्धये ॥
अथ दन्तच्छेदे शुभलक्षणानि । तत्र वराहसंहितायाम् ।
शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः ।
राजपुत्रः ।
अत्र धान्यसमो गन्धो हरितालसमोऽपि वा ।
सुभिक्षं धान्यवृद्धिं न सुवृष्टिश्च तदा भवेत् ॥
चन्दनागुरुधूपानां तुल्यो गन्धो भवेद्यदि ।
विजयं राष्ट्रवृद्धिं च भूमिलाभं च निर्दिशेत् ॥
माल्यगन्धेन जानीयादर्थसिद्धिमुपस्थिताम् ।
कुसुमोत्पलपXनां सुगन्धेषु शुभं वदेत् ॥
करीषसमगन्धेषु गवां वृद्धिमथादिशेत् ।
अनुरक्तेषु गन्धेषु शुभेषु शुभमादिशेत् ॥
वराहसंहितायाम् ।
श्रीवृक्षवर्धमानच्छत्रध्वजचामरानुरूपेषु ।
छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ॥
प्रहरणसदृशे सुजयो नन्द्यावर्ते प्रनष्टदेशाप्तिः ।
लोष्टे तु लब्धपूर्वस्य भवति देशस्य संप्राप्तिः ॥
स्त्रीरूपे धननाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः
कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन ॥
राजपुत्रस्तु ।
नावमश्वरथं नागं वृषभं पूर्णमम्बुजम् ।
दृष्ट्वा छेदेषु रूपाणि निर्दिशेद्वा धनागमम् ॥
मणिमुक्ताप्रवालानां रत्नानां स्वस्तिकस्य च ।
भूषणनामनारोग्यं यात्रासिद्धिं च निर्दिशेत् ॥
प्राशासिशक्तिश्रीवृक्षवर्धमानस्य दर्शने ।
संग्रामे विजयं तस्य राष्ट्रवृद्धिं तदाऽऽदिशेत् ॥
स्नेहयुक्तं तथा श्वेतं विशुद्धं यत् प्रकाशितम् ।
ज्ञेयं दन्तेषु तच्छेदे नृपतेर्विजयावहम् ॥
छेदे यदाऽम्बु दृश्येत तुरङ्गस्तत एव च ।
अचिराद्वसुधालाभं नृपतेरादिशेत् तदा ॥
पुत्रजन्मादिशिद्धिः स्याद्दधिभृङ्गारदर्शने ।
लाङ्गलच्छत्रचक्राणां दर्शने व्यजनस्य च ॥
चक्रस्याप्रतिघातस्य शत्रूणां व्यसनं भवेत् ।
स्त्रीलाभं शयने विद्याद्विनाऽऽयासं मनःसुखम् ॥
यज्ञभाण्डस्य कुम्भस्य च्छेदे रूपस्य दर्शने ।
यज्ञस्य महतो वाऽपि निधिलाभं तदाऽऽदिशेत् ॥
चक्रमण्डूकशङ्खानां नलिनस्योत्पलस्य च ।
प्रतिरूपाणि च्छेदेषु दृष्ट्वा दृष्टिमथादिशेत् ॥
स्वस्तिकान्तं मुखं दृष्ट्वा वाजिलाभं तदाऽऽदिशेत् ।
तमेवोर्ध्वमुखं दृष्ट्वा राजा शीघ्रमथारुहेत् ॥
आरूढश्चाभिषेक्तव्यस्तदा स्यात् स प्रतापवान् ।
छेदेषु यदि दृश्येते संहितौ मत्स्यकच्छपौ ॥
मद्यमांसस्य निष्पत्तिराचष्टव्या तदा बुधैः ।
दृश्यते यदि मत्स्योऽत्र कच्छपश्चेन्न दृश्यते ॥
सुवृष्टिं न च दुर्भिक्षं विपरीतेऽन्यथा भवेत् ।
छेदेन दृष्ट्वा प्रमदां राजा राज्ञीमवाप्नुयात् ॥
ग्रथितामिव च्छेदेषु पश्येत् सुमनसः स्रजम् ।
तदाऽऽदिशेद्राष्ट्रवृद्धिं राज्ञः स्त्रीलाभमेव च ॥
अथाशुभलक्षणानि । वराहसंहितायाम् ।
कृकलाशकपिभुजङ्गैदुर्भिक्षव्याधयो रिपुवशित्वम् ।
गृध्रोलूकंध्वाङ्क्षश्येनाकारेषु जनमरकः ॥
पाशेऽथ वा कबन्धे नृपमृत्युः.......इति ।
राजपुत्रस्तु ।
यच्छदे विस्फुलिङ्गो वा धूमो वा विप्लवोऽपि वा ।
दृश्यते कल्पमानस्य नृपतेरादिशेत् तदा ॥
सुवर्णं राष्ट्रनाशाय दाहव्याधिभयं तथा ।
कल्पमानेषु दन्तेषु शीर्यते यत्र मेदिनी ॥
अस्मिन्नौत्पातिके राज्ञः शत्रुभ्यो भयमादिशेत् ।
छेदेषु यदि दृश्येरन् वानरा यदि वा मृगाः ॥
तदाऽऽदिशेद्राष्ट्रनाशं व्याधिना च जनक्षयम् ।
सूर्यस्य दर्शनाच्छेदे जनमारीं विनिर्दिशेत् ॥
अशुभेषु शुभं विद्याच्छुभे शुभफलं भवेत् ।
दन्तपुष्पफलम् । तत्र पराशरः ।
शुक्लपीतमाञ्जिष्ठलोहितनीलवर्णानां दन्तानां भङ्गे तु पुष्पाणां प्रादुर्भावो विजयाय ।
राजपुत्रः ।
लक्ष्यते सर्ववर्णेषु यत् स्निग्धं स्पृष्टमेव च ।
विद्यात् तु पूजितं पुष्पमन्यत् तु परिवर्जितम् ॥
अथ चेत् पतिते भागे पुष्पं स्निग्धं सितं भवेत् ।
भूमिलाभं तथा राज्ञः सद्य इत्यभिनिर्दिशेत् ॥
प्राकारमणिसोपानं पुष्पं दन्ते गजस्य तु ।
राष्ट्रलाभं तु विपुलं तदा विद्यान्महीपते ॥
महानीलमणिप्रख्यमिन्द्रनीलसमप्रभम् ।
दन्ते चेद्दृश्यते पुष्पं सुवृष्टिमभिनिर्दिशेत् ॥
पीतं शुक्लं प्रकाशेत स्निग्धं सूर्योदये यदि ।
कनकस्य तदा लाभमादिशेत् तु महीपते ॥
पुष्पं दन्ते प्रकाशेत यदि चेत् स्निग्धकालकम् ।
अधितिष्ठेन्नृपः शत्रून् हस्त्यश्वं लभते बहु ॥
स्वेदान्तमुपलभ्येत यत् पुष्पं स्निग्धकालकम् ।
वर्धते विषमस्तेन भूमिपालस्य सर्वतः ॥
पुष्पं यच्छ्वेतपर्यन्तं रक्तं दृश्येत सुप्रभम् ।
नचिराद्द्विषदार्त्तानां राज्ञः प्रथममादिशेत् ॥
अङ्गराजेन्द्रधनुषो यत् पुष्पं दृश्यते समम् ।
वज्राणि मणिच्छत्राणि रथसूर्यसमानि च ।
पुष्पाणि यत्र दृश्यन्ते तदा राज्ञः शुभं वदेत् ॥
पुष्पं दन्ते प्रकाशेत बालव्यजनसंनिभम् ।
तदर्थं च विजानीयाद्वर्धमानं शुभावहम् ॥
स्वस्तिकस्याथ मत्स्यस्य नन्द्यावर्त्तध्वजस्य च ।
तुल्यरूपाणि धान्यानि नित्यमेवाभिनिर्दिशेत् ॥
वाजिवारणतुल्येन पुष्पेण वृषभेण च ।
वाहनस्य तदा वृद्धिं भूमिपस्य विनिर्दिशेत्[४०९] ॥
प्रासादशैलसंकाशं पुष्पं दन्ते गजस्य तु ।
दृष्ट्वा तदाऽऽदिशेद्राज्ञो भूमिलाभमुपस्थितम् ॥
स्निग्धपीतेषु पुष्पेषु दृश्यमानेष्वथादिशेत् ।
सुवर्णलाभं रत्नानां विविधानामथागमम् ॥
श्वेतपुष्पे पुत्रलाभं रुक्मलाभं च पीतके ।
महिष्यास्त्वादिशेद्राज्ञो हस्तिन्या यदि दन्तयोः ॥
अथाशुभपुष्पदन्तलक्षणम् ।
भागे प्रशस्ते यत् पुष्पं श्वेतं च परुषं भवेत् ।
तदादिशेद्भूतनाशं नृपतेरचिरादिति ॥
कनकं परुषं पुष्पं विशुभ्रं चैव यद्भवेत् ।
निर्दिशेच्छास्त्रवित् तेन महद्भयमुपागतम् ॥
धूम्रवर्णेषु पुष्पेषु दृश्यमानेषु दन्तयोः ।
राष्ट्रं सनगरं दह्येन्न च वर्षति वासवः ॥
रथस्याश्वस्य नागस्य असमग्रस्य दन्तयोः ।
आदिशेत् तुल्यरूपेषु नृपतेर्वाहनक्षयम् ॥
कृष्णसर्पवराहाणां रासभानां समं तथा ।
देशानामनयं विद्याद्दृष्ट्वा पुष्पमुपस्थितम् ॥
पतन्ति वा यदा कृष्णा व्यालाश्च रुधिराशनाः ।
एतेषां तुल्यरूपेषु विद्यादनयमागतम् ॥
निर्दिशेत् कृष्णपुष्पाणां दर्शनं पुष्पवित् तथा ।
दूतानां परराष्ट्रेभ्यस्त्वागमं पृथिवीपते ॥
पुष्पाणि बहुवर्णानि दृश्येरन् सुबहून्यपि
निर्दिशेन्नृपतेस्तैस्तु क्षिप्रं मरणमागतम् ॥
अथ श्यामानि पुष्पाणि प्रदृश्येरन् विशेषतः ।
रोगाश्च दारुणा राष्ट्रे भवन्तीति न संशयः ॥
श्यामप्रायाणि पुष्पाणि बहुवर्णानि हस्तिनः ।
बहूनि यदि दृश्येरन् जनमारीं निवेदयेत् ॥
पुष्पाणि लोहितान्येव दृश्यन्ते सर्वतो यदा ।
उत्पातदर्शने तस्मिन् राजा शस्त्रेण हन्यते ॥
दृश्यमानेषु पुष्पेषु रूक्षपीतेषु हस्तिनः ।
निर्दिशेच्च नरेन्द्रस्य व्याधिपीडामुपस्थिताम् ॥
रक्तं पुष्पं प्रकाशेत हस्तिन्या यदि दन्तयोः ।
हस्तिन्या यदि दन्तेषु श्यामं पुष्पं प्रकाशते ॥
पुत्रव्यसनमाप्नोति नरेन्द्रमहिषी तदा ।
अथ दन्तस्त्राबफलम् । तत्र पराशरः ।
सुरभिर्मनोज्ञो नागदन्तस्रावो विजयाय ।
राजपुत्रस्तु ।
कल्पमाणाद्विषाणाच्चेत् पतेयुर्वारिविन्दवः ।
पृथिवीजयहेतुत्वे नृपतेरभिषेचनम् ॥
यदि चेत् कल्पमानेषु शोणितं संप्रदृश्यते ।
गृहीत्वा शोणितं सद्यः कुर्यात् पञ्चाङ्गुलं मुखे ॥
छित्त्वा तस्य विषाणे तु वनमेव प्रवेशयेत् ।
कुर्याच्छान्तिं यथोक्तां च तथैव द्विभोजनम् ॥
वराहस्तु ।
"...........जनविपत् स्रुते रक्ते ।
कृष्णे श्यामे रूक्षे दुर्गन्धे वाऽशुभं भवति ॥
पराशरः ।
दुर्गन्धवहलपूयशोणितस्रावो विषाणाभ्यां भयाय ।
पीलुकाचार्यः ।
जरया वातरोगार्त्तः प्रायोऽज्ञाने प्रवर्त्तते ।
न दोषादभिघाताद्वा यदा दन्तोऽनिमित्ततः ॥
प्रच्युतो लक्ष्यते सद्यः पूयं शोणितमेव च ।
कुणपं विस्रगन्धं वा दुर्गन्धं वा यदा भवेत् ॥
तमौत्पातिकमेवाहुराचार्याः Xस्त्रकाविदाः ।
दक्षिणे त्वथ दन्ते तु प्रथमं दृश्यते यदा ।
तदा व्याधिकरो राज्ञः सेव्ययोक्तुर्भयावहः ।
स्रवणं पतनं वाऽपि दन्तस्य सहसा यदि ॥
देवोत्पातकृतं त्वेतदसाध्यमिति कीर्त्त्यते ।
स नागः शिवमिच्छद्भिः स्वदेशस्य नृपस्य च ॥
स्वराष्ट्रात् परराष्ट्रे च प्रस्थाप्यः सुविचक्षणैः ।
वराहसंहितायाम् ।
गलनम्लानफलानि च दन्तस्य समानि भङ्गेन ।
अथ दन्तराजीफलम् । तत्र राजपुत्रः ।
शरशक्तिधनुश्चक्रशूलपट्टिशलक्षणाः ।
दन्ताग्रराजयो यस्य स नृपं वोटुमर्हति ॥
विषाणानुगता राजी हस्तिन्यभ्यन्तरा भवेत् ।
राज्ञो बलं वर्धयते सर्वभूतहिताय सा ॥
अनुगच्छेद्यदा राजी दन्तस्योपरि या भवेत् ।
तदा नृपस्य जायेत कन्या पूजितलक्षणा ।
बहिः पार्श्वादधस्ताद्वा दृष्ट्वा राजीमथादिशेत् ।
महीपतेः शत्रुवृद्धिममात्यानां च संक्षयम् ॥
तिरश्चीना यदा राजी दन्तमेकं परिक्षिपेत् ।
ध्रुवं तदा राष्ट्रनाशो विज्ञेयः पृथिवीपते ॥
राजी यदा तु दन्ते स्यात् समा दीर्घा समाहिता ।
तदा देशे ह्यनावृष्टिं त्रीणि वर्षाणि निश्चयात् ॥
अथ पतनफलम् । तत्र राजपुत्रः ।
उदक्शिराः श्वेतलोमा शुक्लो यदि हरिष्यते ।
वृद्धो दक्षिणपक्षेण वृद्धिं तत्रापि निर्दिशेत् ॥
मात्राणि हस्तं बालं च विप्रसार्य हरिः पतेत् ।
सव्वेतरेण पक्षेण प्राक्शिरा म्रियते यदि ॥
अस्मिन् पक्षे प्रपतने पार्थिवस्यादिशेज्जयम् ।
सुवृष्टिं च सुभिक्षं च शत्रूणां च पराभवम् ॥
उद्भ्रम्य पूर्वपक्षेण दक्षिणेन पतेद्यदि ।
अवाक्शिरा गजो भूत्वा राष्ट्रवृद्धिं तदाऽऽदिशेत् ॥
अथ वा स्निग्धमेघाभः स्नात्वा पीत्वा च वारणः ।
जलावगाहे म्रियते सुवृष्टिं तत्र निर्दिशेत् ॥
पश्चार्धेन विभागेन निषीदति यदि द्विपः ।
सुभिक्षं तेन नागानामादिशेद्ग्रामवासिनाम् ॥
अनाहे म्रियते नित्यं सुभिक्षमभिनिर्दिशेत् ।
स्तम्भे निवारितो नागः स्तम्भे चैव निषीदति ॥
तत्रैव त्यजति प्राणान् विजयं तेन निर्दिशेत् ।
शालां प्रदक्षिणीकृत्य कुञ्जरो म्रियते यदि ॥
तदा समर्घतां वृष्टिं प्राप्नुयात् स नराधिपः ।
हस्त्यागारस्य च स्थाने द्वारस्याभिमुखस्य चेत् ॥
अन्यैश्च वाहनैश्चैव पार्थिवैः स तु वर्धते ।
पूर्वतः स्तम्भमाश्लिष्य स्वस्थाने यस्तु सीदति ॥
वसुधाभिमुखो हस्ती भूलाभं तेन निर्दिशेत् ।
तत्रैव शिरसा पूर्वं भूमिगं वा म्रियेत चेत् ॥
नृपस्य वर्धते सैन्यं धनं चैवास्य मन्त्रिणा ।
नागयानमथागम्य वारणो म्रियते यदि ॥
करेणादाय सलिलं स्रवत्यक्षावुभावपि ।
दिशः सर्वाश्च वीक्ष्याथ तोयं पिबति चेद्गजः ॥
पीत्वा चोपरि मातङ्गः क्षिपेत् दक्षिणपश्चिमम् ।
सुवृष्टिं तस्य देशस्य वर्षाणि त्रीणि निर्दिशेत् ॥
यदा महादन्तकरः समैः श्वेतैर्नखैः पुनः ।
वर्ष्मणा चारुसर्वाङ्गः श्वेतरोमा हरिर्गजः ॥
रोगेण पीड्यधमानस्तु पूर्वादिं यद्दिशं व्रजेत् ।
विजिगीषुर्दिशं तां तु प्रार्थमानोऽभिवर्धते ॥
एवमेव हि विज्ञेयं ये स्युर्जनपदे गताः ।
वर्णास्त्रयोऽत्र वर्धन्ते शूद्रपक्षो विनश्यति ॥
कृष्णपक्षे प्रतिहते वामपक्षेण चेत् पतेत् ।
कृष्णेऽत्र वर्धते वर्णत्रयाणां तु महद्भयम् ॥
शुक्ले दक्षिणपक्षेण काले वामेन वारणः ।
म्रियते तत्र वक्ष्यामि फलावाप्तिं शुभाशुभाम् ॥
विष्णुधर्मोत्तरे ।
कृष्णपक्षे मृतो नागो वह्निपृष्ठगतस्तथा ।
दारुणासु च वेलासु दक्षिणायनमूर्धनि ॥
नैमित्तिकं भवतीति सम्बन्धः । राजपुत्रस्तु ।
वामेन चेत् पतेच्छुक्ले कृष्णे दक्षिणपक्षतः ।
हस्ती यदा तदा ब्रूयात् पतनं वा फलं ध्रुवम् ॥
कालो महाशरीरश्च निपतेद्यदि पावके
शिरो दक्षिणतः कृत्वा वामेन बहुला गजाः ॥
गात्रापरं करं बालमुपसंगृह्य भीतवत् ।
एतैर्निमित्तैर्नागस्य विद्याद्राज्ञः पराभवम् ॥
दन्तो नागस्य भ्रंशेत वामे निपततो भुवि ।
तेनोत्पातेन नृपतेर्विद्याद्धोरं बलक्षयम् ॥
शिरसा चेन्निपतितो दक्षिणो भ्रंशते यदि ।
उत्पातदर्शने तस्मिन् मन्त्रिव्यसनमादिशेत् ॥
विषाणं यदि भ्रंशेत मुखेन पततो भुवि ।
निर्मित्तात् तस्य नागस्य विद्यात् पार्थिवनाशनम् ॥
स्वयं निषण्णो मातङ्गः प्राङ्मुखः प्रम्रियेत चेत् ।
दस्यूनां बहुले पक्षे प्रकोपमभिनिर्दिशेत् ॥
म्रियते प्रतिसंरुध्य बाले यत्रापरं करम् ।
शिरो दक्षिणतः कृत्वा कालपक्षे यदा गज़ः ॥
पुनर्वामेन निपतेत् तेनोत्पातेन निर्दिशेत् ।
प्रकोपं विषयाणां च तथा राज्ञोऽर्थनाशनम् ॥
वेगेनालनमाच्छाद्य स्थानानिष्क्रम्य वारणः ।
उद्भ्राम्य वामेनालोक्य निपतेद्दक्षिणाशिरः ॥
स हि सव्येन पक्षेण धरण्यां यदि वारणः ।
अनेनोत्पातजातेन विद्याद्राष्ट्रस्य विद्रवम् ॥
यदा निर्गम्य नागस्तु धरण्यभिमुखः पतेत् ।
वारणोऽनावृतस्थाने तदा विद्यान्महद्भयम् ॥
दन्ती स्थानाचच निर्गम्य शालाभिन्नमुखो यदि ।
निपतेत् तेन नागानां ग्रामाणामादिशेद्भयम् ॥
स्नात्वा यदि च निर्वाणो न पीत्वा च जलं गजः ।
वामपक्षेण निपतेद्दुर्वृष्टिं तेन निर्दिशेत् ॥
यदाऽभिसारितो नागो म्रियमाणः पतेद्भुवि ।
तदा तु दुर्भिक्षभयं हस्तिनामभिनिर्दिशेत् ॥
दिवा मार्गे त्वभिमुखो मुखेन यदि चेत् पतेत् ।
तस्मिन् गजानां दुर्भिक्षं ब्रूयादुत्पातदर्शने ॥
अवाक्शिराश्चोर्ध्वपादो जीमूताभो मतङ्गजः ।
यदाऽग्नौ निपतेत् काले तदा राजा विनश्यति ॥
हरितः श्यामवर्णो वा पादैरूर्ध्वैरवाक्शिरः ।
वैश्वानरे यदि पतेद्भर्ता तस्य विपद्यते ॥
अपसव्यमथागम्य करिणी म्रियते यदि ।
अर्थसिद्धिं तदा विद्याद्योक्तुस्तेन सुदारुणम् ॥
आलाने तु यदा स्थित्वा वामपक्षेण चेत् पतेत् ।
अनर्थं तु विजानीयाद्राज्ञस्तत्र विनिर्दिशेत् ।
म्रियते यदि मातङ्गः स्थित्वाऽऽलाने निकारितः ।
यातुस्तु व्यसनं घोरं तेनोत्पातेन निर्दिशेत् ॥
अथालानमविच्छिद्य यदि पश्चात् पतेद्गजः ।
निर्दिशेत् तेन नागस्य व्यसनं परिकर्मणा ॥
तथैवालानमाच्छिद्य शालायां म्रियते यदि ।
मुखेन भूमिमालम्ब्य तदपि स्यादसिद्धये ॥
अयनं गर्जितं चैव नागानां निर्दिशेत् तदा ।
शिरो दक्षिणतः कृत्वा पूर्वपक्षात् पतेद्यदि ॥
शालास्थो व्यसनं तत्र निर्दिशेन्मब्रिसैन्ययोः ।
भूमौ निपत्य दन्ताभ्यां यत्र विद्ध्वा म्रियेत चेत् ॥
महद्भयं तत्र भवेत् पार्थिवस्य गजस्य च ।
अरालो मृदुकर्मा च महाशीर्षो महामदः ॥
वेगेन गत्वा म्रियते वक्त्रं कृत्वा च सर्वतः ।
अभावं शूद्रपक्षस्य तेनोत्पातेन निर्दिशेत् ॥
समाहितं पूर्वतश्च यस्य दक्षिणचारिणः ।
मद्याभो दक्षिणो दन्तः स्वे च भागे प्रतिष्ठितः ॥
भ्रमन् दक्षिणपक्षेण शुक्लपक्षेण चेत् पतेत् ।
अभावं ब्राह्मणानां च विद्यान्नाशं तथैव च ॥
श्यामा पादै: शुभश्चैव श्यामास्या शुभमस्तका ।
रक्ताक्षी सूक्ष्मकेशी च सुविभक्तमृदुस्तनी ॥
वामपक्षेण निपतेद्विस्तीर्य दक्षिणाशिरः ।
नृपस्यान्तःपुरस्त्रीणां विनाशमभिनिर्दिशेत् ॥
अत्र शान्तिर्विष्णुधर्मोत्तरे ।
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ।
गजानां मरके प्राप्ते तथा व्याधौ च दारुणे ॥
दन्तच्छेदाशुभोत्पत्तौ तथा राजद्विपे मृते ।
दन्तभङ्गे तथा जाते वामपक्षमृते गजे ॥
कृष्णपक्षे मृते नागे वह्निपृष्ठमृते तथा ।
दारुणासु च वेलासु दक्षिणापरमूर्धनि ॥
हस्तिन्यां वा मदे जाते प्रकृतेश्च विपर्यये ।
पूर्वोत्तरे तु दिग्भागे नगरान्मुखभेऽशुभे ॥
आसन्नतोयजस्निग्धद्रुमे वीतवनस्पतौ ।
प्रागुदक्प्रवणेनात्र स्थण्डिलं परिकल्पयेत् ॥
कमलं विन्यसेत् तत्र कर्णिकाद्योतकेसरम् ।
शीर्षं च विन्यसेत् तत्र केसरेषु तु विन्यसेत् ॥
ब्रह्माणं भास्करं पृथ्वीं तथा स्कन्दं च भार्गव ।
दलेषु तत्र दिक्पालान् विन्यसेत् सह कुञ्जरैः ॥
पत्रान्तरेषु चास्त्राणि यथावदनुपूर्वशः ।
वज्रं तु विन्यसेद्विद्वान् शक्रपत्रादनन्तरम् ॥
ततश्चक्रं ततो दण्डं तोमरं तदनन्तरम् ।
ततो वै दिव्यसेनाङ्गं तोमरं सशरं धनुः ॥
ततो गदां महाभाग ततः शूलं च विन्यसेत् ।
तदा तस्यान्तरदलं वृत्तया रेखया भजेत् ॥
आदित्यैः सह नासत्यौ ततः पूर्वेण विन्यसेत् ।
वसुरग्निदिशो भागे वायव्ये मरुतस्तथा ॥
विश्वेदेवास्तथा रक्षो रक्षोदिशि च विन्यसेत् ।
कृत्वैवं देवतान्यासं वृत्तया रेखया भजेत् ॥
बाह्येन विन्यसेत् तेषु शूलाकारानृषिद्विजान् ।
पूर्वेण वाऽथ याम्येन तथा देवीं सरस्वतीम् ॥
नदीं पश्चिमतः शैलाँस्तथोदग्भृगुसत्तम ।
महाभूतानि देवेषु कोशहस्तगतानि तु ॥
पद्मं चक्रं गदां शङ्खमैशान्यादिषु विन्यसेत् ।
सप्तहस्तेषु दण्डेषु पताकाश्च तथा न्यसेत् ॥
सितरक्तासिताः पीतां यथावदनुपूर्वशः ।
दिक्षु तोरणविन्यासं तोरणानां वनेषु च ॥
क्षीरवृक्षद्रुमदलैः कुसुमैः सफलैर्भवेत् ।
तोरणस्य प्रमाणं च यद्दृष्टं परिकीर्त्तितम् ॥
उच्छ्राये च तथाऽऽयामे ज्ञेयं दामसमं द्वयम् ।
तार्क्ष्यं तालं च मकरं मत्स्यं चैवानुपूर्वशः ।
तोरणोपरि मध्ये तु दानवान् विनिवेशयेत् ।
- ↑ १ शके १०९० तमे संवत् १२२५ तमे विक्रमाब्दे सन् १९०९ तम-इसवी-ख्रीस्ताब्दे गौड़देशे लक्ष्मणापुर्यो लक्ष्मणसेनदेवः स्वराज्यमलञ्चकारेति मिथिला-प्रसिद्धकवि विद्यापतिठक्कुर-रचित-पुरुषपरीक्षा नीतिग्र-
- ↑ १ एतदर्थम् ग्रन्थे बृहस्पति-इति पदं रक्षितम् ।
- ↑ १ एतदर्थमस्मिन् ग्रन्थेऽश्व-इति पदं रक्षितम् ।
- ↑ १ एतदर्थमस्मिन् ग्रन्थे 'वृक्ष'-इति पदं रक्षितम् ।
- ↑ १ एतदर्थम्स्मिन् ग्रन्थे मङ्गल-इति पदम् रक्षितम् ।
- ↑ एतदर्थमस्मिन् ग्रन्थे सूर्य-इति पदं रक्षितम् ।
- ↑ सर्वपुस्तकेषु विकलोऽयं श्लोकः पूर्वापरार्थसङ्गत्या कोष्टान्तर्गतपदसंरक्षणेनालङ्कृतः । एवमन्यत्रापि बहुत्र स्थलेषु लेखकव्यामोहिताः पाठा यथामति शोधिता अपि विषय निष्णांतैः सर्वथाऽऽलोच्य सर्वजनाह्लादकान् प्राचीनलिखितपुस्तकवर्णानुसारांस्तानन्यथाऽपि परिशोध्य कृपयाऽवश्यं विज्ञाप्याः ।
- ↑ विष्णुगुप्त इति ।
- ↑ मात्स्ये २२९ अ, श्लो. ।
- ↑ २२९ अ. ६-९ श्लो.।
- ↑ २२९ म, ९, १० श्लो, । तत्र दिव्यमित्यादि पद्यार्थे नोपलभ्यते ।
- ↑ पुष्य इति ग. घ. ।
- ↑ पुष्य इति ग. घ. ।
- ↑ उड्रा इति अ ।
- ↑ काश्मीराः इति ख. ।
- ↑ विटका इति अ. । किराताद्रिसंस्था इति ख.।
- ↑ "स्वकृतो व्याहरन् नित्यं जननाशं करोति च” ।
स्वकृतः स्वसुतकृतोऽमात्यकृतो वा । इति ख. । - ↑ वर्षणोत्पातकरः इति ख्र. ।
- ↑ श्यामे- इति अ.
- ↑ त्यूर्ध्वम् इति अ.
- ↑ *२८ सर्गे २८ श्लो.।
- ↑ १५५ अ. ३लो. ।
- ↑ 'ध्वाङ्क्षकृबन्धप्रहणरूपाः पाया: शशाङ्केऽपि' । इति अ. अधिकः ।
- ↑ रजोवृतम् इति अ. ।
- ↑ *परिज्ञेयम् इति अ ।
- ↑ +२ अध्याये १३ श्लो. ।
- ↑ ८८ अयं श्लोको मुद्रितमहाभारतोक्तस्थाने नोपलभ्यते ।
- ↑ *स्वशृङ्गविदकीलानाम् इति क. । श्वशृगालार्बुदकीलानाम् इति ख. ।
- ↑ ४६ अ. १० श्लो, हरिवंशे ।
- ↑ कृष्णरक्त इति ख. ।
- ↑ र्ध्वजाभो इति ख. ।
- ↑ १७ अध्याये ३ श्लो..।
- ↑ १७ अध्याये ३ श्लो. ।
- ↑ द्विजानाम् इति ख. ।
- ↑ भरुकच्छब्ध इति अ ।
- ↑ कच्छाद्या इति ख ।
- ↑ वस्त्राणाम् इति अ. ।
- ↑ २ अ: २३ श्लो. ।
- ↑ ४६ अ. ९ श्लो. । तत्र 'गतो दिवि दिवाकरः' इत्युपलभ्यते ।
- ↑ रसनाक्षकरः इति अ.।
- ↑ वसुवृद्धिम् इति ख ।
- ↑ नतम् इति ख.।
- ↑ ब्रह्मक्षत्र-इति सर्वसम्मतः पाठः ।
- ↑ पाण्ड्यो देशविशेषः । तद्देशभवनरेश इति ।
- ↑ क्षेमवृद्धि - इति अ. ।
- ↑ सौख्यैः इति ख. । साल्वैः इति अ. ।
- ↑ निष्फला इति ख ।
- ↑ सत्ते युक्तान् इति अ. ।
- ↑ वरत्राजि - इति अ. । वरराजि - इति ख. ।
- ↑ अन्तर्गिरिजान् सपश्चि- इति अ. ।
- ↑ सिंहपुरकान् इति अ.
- ↑ वन्यान् इति अ. । मान्यान् इति ख. ।
- ↑ शकानन्त्यजाँच इति ख ।
- ↑ पूर्वे सलिलघाती स्यादिति क्वचित् पाठः ।
- ↑ प्रमुदितसमस्तभूता इति अ. ।
- ↑ ब्रह्मसिद्धान्ते चन्द्रग्रहणाधिकारस्य १२ श्लो. । तत्र ग्रासे स कृष्णातात्र' इति ।
- ↑ व्यावर्त्तका इति ख. ।
- ↑ ग्रस्तम् इति अ । न तत्र सूर्यचन्द्रयोः कश्चिद्विशेषोऽर्थोऽभिहितः ।
- ↑ ये च दण्डभृता जनाः इति छ ।
- ↑ प्रत्यन्तम्लेच्छविनात् प्रत्यन्तम्लेच्छ विनाश: इति अ ।
- ↑ २३ अ. ३१ श्लो. ।
- ↑ तमोग्रस्तो यदोदेति इति च ।
- ↑ विवर्णसन्ध्याधिगतोऽपि इति च।
- ↑ पूर्वोत्तरेपरो भेदः इति अ.।
- ↑ क्षुधाशस्त्रभयम् इति वराहसम्मतः पाठः ।
- ↑ अयं लोको वराहसंहितायां नोपलभ्यते । 'मुक्त सप्ताहान्तः' इत्यादिश्लोकटीकायां भट्टोत्पलेन स च समाससंहितायाः प्रमाणत्वेनाभिरक्षितः । एतदर्थं द्रष्टव्या अ. ६२ पृ. ९ पं. ।
- ↑ वाल्मीकीये २३ सर्गे ११-१२ श्लो. ।
"कबन्धः परिधाभासो दृश्यते भास्करान्तिके ।
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः” ॥ इत्युपलभ्यते । - ↑ २ अ. १९ श्लो. ।
- ↑ ग्रस्तावेकमासो त्रयोदशीम् इति महाभारते उपलभ्यते ।
- ↑ ३ अ. ३२ श्लो. ।
- ↑ ३ अ. २८ श्लो. ।
- ↑ ८० अ. २९ श्लो.।
- ↑ मागधानपि इति च।
- ↑ वर्णपट्टेऽथ वा पट्टे इति च. ।
- ↑ गणकाय इति च. ।
- ↑ अयं श्लोको भट्टोत्पलेन वराहसंहिताटोकायां सूर्यसिद्धान्तस्य प्रमाणत्वेनाभिहितः । द्रष्टव्या अ, १२१ पृ. १७ पं ।
- ↑ ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ३९-४४ श्लो.
- ↑ ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ३९-४४ श्लो. ।
- ↑ ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ४४ श्लो .।
- ↑ नाधुनिकसूर्यसिद्धान्तेऽस्योपलब्धिः ।
- ↑ ब्राह्मस्फुटसिद्धान्ते गोलाध्याये ४७-४८ श्लो. ।
- ↑ कलसप्रभः इति अ ।
- ↑ याम्यादिपितृपर्यन्तम् इति अ.।
- ↑ विदेहान्ध्राश्मकास्तथा इति अ. ।
- ↑ ३ अ. १८ श्लो, ।
- ↑ तत्र शङ्खः इति छ. ।
- ↑ २३ अ, २५ श्लो. ।
- ↑ ११६ अ. ६६ श्लो. ।
- ↑ तथोदाराध कृत्रिमाः इति अ. ।
- ↑ आरक्षक इति अ.।
- ↑ धातुसंक्षयकृत् इति अ .।
- ↑ त्रिभं भाद्रपदे ज्ञेयं फाल्गुने श्रावणे इति अ. ।
- ↑ प्रभूतजलशस्यर्द्धिजल-इति अ. ।
- ↑ व्याधिकरः इति अ. ।
- ↑ जलवृष्टिकृदित्यर्थः ।
- ↑ मरुतो पितरः इति अ ।
- ↑ वर्षाणि फलान्यथैषाम् इति अ ।
- ↑ निष्पन्नशालोक्षुयवादिशस्याम् इति अ. ।
- ↑ त्रिष्वाद्यवर्षेषु इति अ. ।
- ↑ नतम् इति अ. ।
- ↑ शोकहृत् इति भट्टोत्पलसम्मतः पाठः ।
- ↑ पराभवश्च इति अ, ।
- ↑ मण्डकुमुदशशाङ्कच्छवि इति अ.-
- ↑ प्रस्थलास्तथा इति अ.। पृष्ठलम्वतम् इति छ. ।
- ↑ कुञ्जरा इति अ
- ↑ चित्राण्डाजाश्च कोशेयं पत्रोर्णे काशिकौशलम् इति अ. ।
- ↑ जातीफलमामलकम् इति अ ।
- ↑ घट इति अ..।
- ↑ पट्ट इति अ ।
- ↑ गन्धपत्रचोचानि इति अ । तत्र चोचं मलिनपत्रं नारिकेलं च इति भट्टोत्पलः ।
- ↑ इत: प्रभृतीनि सर्वाणि शुक्रनक्षत्रचारफलबोधकानि काश्यपवचनानि अ. पुस्तकेऽन्यथा दृश्यन्ते । द्रष्टव्यम् अ. पृ. २२३।
- ↑ शूलिक इति अ. ।
- ↑ २३ अ. २६ श्लो. ।
- ↑ मृतदाहनं च इति छ. ।
- ↑ सरस्वती पश्चिमाशा प्रभासं कुरुजाङ्गलम् । इति अ. ।
- ↑ ४६ अ, १२ श्लो. ।
- ↑ कन्यकाश्चोपताप्यन्ते अ. ।
- ↑ २ अ. ३२ श्लो. ।
- ↑ रौद्रस्थे पारततर इति अ. ।
- ↑ शुलिक इति अ. ।
- ↑ आलोचन्ते इति पूर्वसम्बन्धः ।
- ↑ पीडयन्तीति शेषः ।
- ↑ ११६ अ, ६४ श्लो. ।
- ↑ नैतानि वराहवचनानि अ. पुस्तके उपलभ्यन्ते प्रायो वटकणिकायां भवेयुः ।
- ↑ संकुलाः कृष्णरश्मयः इति छ. ।
- ↑ द्रष्टव्या -२५२ पृ. ७ प. ।
- ↑ कर्पूर- इति अ. ।
- ↑ पुण्ड्राणामभयप्रदा इति अ ।
- ↑ विचूलिनः इति अ. ।
- ↑ काक - इति अ. ।
- ↑ मयूखानुत्सृजन्तीव इति अ. ।
- ↑ दमः इति छ. ।
- ↑ संप्लवे युगे इति अ. ।
- ↑ भिक्षुकतुल्य - इति अ. ।
- ↑ शुक्ला इति अ. ।
- ↑ च पुष्करारण्यम् इति अ.।
- ↑ मनाक् इति अ. ।
- ↑ सुभिक्ष - इति अ ।
- ↑ वर्णैः इति अ ।
- ↑ बाङ्गम् इति अ ।
- ↑ ३.अ, १३ श्लो. ।
- ↑ २३ अ. २७ श्लो. । केतोरुत्पातविशेषस्य केतुना पुच्छेन भरण्यादीनि त्रयोदश उत्तराभाद्रपदपर्यन्तं नक्षत्राणि यदि भिन्नानि तदा निशाकरं चन्द्रं नानुयान्ति चन्द्रकृतं फलं न भवतीति टीकाकारसम्मतोऽर्थः ।
- ↑ भौमवत्यः इति अ. ।
- ↑ ब्रह्मस्पुटसिद्धान्ते नोपलभ्यतेऽयं श्लोकः ।
- ↑ प्रागुदयतोऽप्यविवराट्टजून् नयति तत्र संयुक्ताः । इति अ. ।
- ↑ ३ अ, २६ श्लो. ।
- ↑ वटकणिकाबृहत्संहितयोरिति ।
- ↑ २ अ, ३१ श्लो. ।
- ↑ ३ अ, १७ श्लो. ।
- ↑ सत्यभृतः इति अ.।
- ↑ कोशश्च इति अ. ।
- ↑ ३ अ. २६ श्लो. ।
- ↑ समर्थममयोपभोग्यं च इति अ. ।
- ↑ इत्यादीन्येतद्विषयकाणि वचनानि अ.पुस्तके समाससंहितायाः प्रमाणत्वेनाभिहितानि ।
- ↑ अववंशुष्कद्रमशुष्कस्य-इति अ. ।
- ↑ बहुबर्षधारः इति अ. । ।
- ↑ स्त्रीसुख-इति अ.
- ↑ नगराकराद्या इति अ.
- ↑ गतशस्य इति अ ।
- ↑ शप्यशीर्णः इति अ ।
- ↑ भूयसाम्यकरः इति अ ।
- ↑ स्वाध्यायतीर्थाध्वरभीर्द्विजौघः इति अ ।
- ↑ निराधिरुह्यध्यम इति अ ।
- ↑ मायेन्द्र-इति अ ।
- ↑ विदां च वृद्धिः इति अ ।
- ↑ अध्यक्षरस्वभिनिविष्ट-इति अ ।
- ↑ पुरन्दरगुरोरब्धे बहुशस्यप्रद शिवः । इति अ ।
- ↑ स्फोतानुपानैः-इति अ ।
- ↑ स्वकर्म इति अ ।
- ↑ संवेणुत्रोषम् च इति ।
- ↑ कलियातसमागणे इत्यत्र कल्पयातसमागणे इति पाठेन भवितव्यम् । ब्रह्मगुप्तेनेपि कल्पाभिप्रायेणैवार्कादिवर्षेश्वर आनीतः ।
- ↑ मेत्रशब्देनात्र सप्तदशग्रहणम् ।
- ↑ द्रष्टव्यौ ब्राह्मस्फुटसिद्धान्ते मध्यगत्युत्तराध्यायस्य ४३ - ४४ श्लो. ।
- ↑ इदा दिकः शीतमयूखशाली । प्रजापतिश्चाप्य इति अ. ।
- ↑ घटकार इति अ. ।
- ↑ मन्त्राभि-इति अ ।
- ↑ मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥
- ↑ ऋक्षाणीत्यत्र ऋक्षा इत्यार्षः ।
- ↑ पाण्डुगुडाश्वत्थ - इति अ. ।
- ↑ र्ध्वकण्ठाश्च इति अ. ।
- ↑ हेमकुड्य-इतिः अ ।
- ↑ कङ्कटकङ्कणवनवासि इति अ. ।
- ↑ वैदिक- इति अ ।
- ↑ कोल्ल इति ।
- ↑ चञ्चूकाः इति अ. ।
- ↑ तारक्षितिजृङ्ग इति अ. ।
- ↑ तालमल्लहलउहलातर्वार्दलीनवीलन-इति अ ।
- ↑ कुञ्च -इति अ
- ↑ नीन्ध्राः इति अ ।
- ↑ भल्ला: पटोलजटासुरकुनटखसघोषकुचिकाख्याः इति अ ।
- ↑ एकचरणानुविद्धाः इति अ ।
- ↑ तङ्गणकिरातकीरा इति अ. ।
- ↑ काश्मीरत्रिगर्त्त - इति अ. ।
- ↑ “इदं श्लोकत्रयं बृहत्संहितायामप्युपलभ्यते तदर्थ द्रष्टव्यम्" अ. पुस्तकस्य पृ. ३०४ ।
- ↑ उत्पेतुःश्च विना रात्रिं ताराः खद्योतसप्रभाः- इति वाल्मीकोये उक्तस्थले उपलभ्यते ।
- ↑ कन्यायां मुद्गनीवारकुलत्थाः सकला ययाः इति अ. ।
- ↑ अलिनीक्षुरसम् इति अ. ।
- ↑ रूपाणि इति अ. ।
- ↑ बज्राणि इति अ. ।
- ↑ १ अ. ५२ लो.
- ↑ ११२ अ. १० श्लो. ।
- ↑ २३ अ. ३ श्लो ।
- ↑ ४६ अ. १० श्लो. हरिवंशे । परिविष्यते इत्यत्र परितप्यते इति पाठः ।
- ↑ लंग्नास्तमयस्थयोस्तद्वत्, लग्नास्तनभःस्थयोस्तद्वत् इति च अ. ।
- ↑ कश्चिद्विन्ध्यवासी आचार्य इत्यनुमीयतेऽतोऽग्रेऽतद्वचपि नस्योपलब्धेः ।
- ↑ नेदम् अ. पुस्तके उपलभ्यते ।
- ↑ नक्तमिति च ।रक्तमिति घ. ।
- ↑ नेदं पद्यम् अ. पुस्तके उपलभ्यते ।
- ↑ इदं पद्यम्-अ. पुस्तके नोपलभ्यते प्रायो घटकणिकायां स्यात् ।
- ↑ अ. पुस्तकेऽन्यथा पाठदर्शनाद्वटकणिकाया इदं पद्यमित्यनुमीयते ।
- ↑ वातप्रकोपाद्रजसानिरुद्धा इति कचित् पाठः ।
- ↑ २३ अ २८ श्लो.।
- ↑ २ अ. ३० श्लो. ।
- ↑ ११२-अ. ४ श्लो. ।
- ↑ १०६ अ २३ श्लो. तत्र प्रवृद्धयेत्यत्र वसुन्धरेति पाठः ।
- ↑ शवला बा इति वा पा ।
- ↑ तद्यसमम् इति भ. ।
- ↑ एतेन ३०३ पृ. उक्तरक्ष्मिदण्डाजद्भुतावर्त्ते का चित् त्रुटिस्तदर्थमशुद्धिपत्रमयलोक्यम् ।
- ↑ त्वासु इति क. ।
- ↑ भविष्यपर्वणि ४६ अ. ८ श्लो. ।
- ↑ १६३ अ. ५० श्लो. ।
- ↑ मत्स्यपुराणे १७२ अ. १९ श्लो.
- ↑ नेदं पद्यं वाल्मीकीये यथेाक्तस्थाने उपलभ्यते ।
- ↑ नेदं पद्यं वाल्मीकीये उने उपलभ्यते ।
- ↑ मत्स्यपुराणे १७२ म. १८ श्लो. ।
- ↑ ५६अ, ८ श्लो. ।
- ↑ नेदं पद्यमुक्तस्थले उपलभ्यते।
- ↑ मत्स्यपुराणे १६३ अ, ४८ श्लो. ।
- ↑ भविष्यपर्वणि हिरण्यकशिपुबधनिमित्तम् ४६ अ. २६ श्लो. ।
- ↑ नेदं पद्यार्थ वाल्मीकीये यथोक्तस्थाने उपलभ्यते ।
- ↑ ३ अ. ११ श्लो. ।
- ↑ नभसि-इह नभे इत्यार्थः ।
- ↑ ५८ अ. ५०-५१ श्लो. ।
- ↑ वाल्मीकीये ८१ सगै १७-१९ तत्रान्यथा क्वचित् पाठः ।
- ↑ ७ अ, ३८-३९ श्लो. ।
- ↑ अ. ३५-३७ श्लो ।
- ↑ उक्तस्थले नोपलभ्यते ।
- ↑ ८० अ. २९ श्लो. ।
- ↑ ३० अ. ३५ लो ।
- ↑ १ अ ३ श्लो. ।
- ↑ ११२ अ. ९१ श्लो. ।
- ↑ १९२ अ. १८ श्लो. तत्र 'निश्चरन्त्युत' इति पाठः ।
- ↑ ११६ अ. २१ श्लो. ।
- ↑ ७७ अ. १६ श्लो. ।
- ↑ ११ अ. १५ श्लो. । तत्र
'सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः ।
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्' एवमुपलभ्यते । - ↑ १० अ. ३८ श्लो. ।
- ↑ १६३ अ. ४२ श्लो. ।
- ↑ विप्रक्षत्रिय-इति अ. ।
- ↑ भृग्वङ्गिरोविदम् ।इति त पु. पा. ।
- ↑ घृतमक्षतमेव इति क. ।
- ↑ ३ अ. ११ श्लो. ।
- ↑ भीष्मपर्वणि ३ अ.३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।
- ↑ १ अ. २ श्लो. ।
- ↑ नेदमुक्तस्थले श्रीमद्भागवते उपलभ्यते ।
- ↑ २ अ. ४ श्लो. ।
- ↑ नेदं पद्यद्वयं वाल्मीकीये उक्तस्थले उपलभ्यते ।
- ↑ १५५ अ. २ श्लो. ।
- ↑ ९ सर्गे ३२ श्लो.।
- ↑ नेदं श्रीमद्भागवते उतस्थले उपलभ्यते ।
- ↑ नेदं श्रीमद्भागवते उतस्थले उपलभ्यते ।
- ↑ ८४ अ. १० श्लो.। १५१ अ. ९ श्लो. ।
- ↑ मात्स्ये ७२ अ, १३-१४ श्लो. ।
- ↑ भूरिवृष्टिकरा इति अ ।
- ↑ बृहत्संहितायामपीदमुपलभ्यते । तदर्थं द्रष्टव्यम् अ.पु.४३४ पृ.।
- ↑ ११६ अ. ६५ श्लो. ।
- ↑ २ अ, २१ श्लो. । तत्र भानुमन्तमवारयन् इति पाठः।
- ↑ ११२ अ. ९ श्लो ।
- ↑ ७७ अ, ३ श्लो. ।
- ↑ गर्भविपाकः स नक्षत्रे इति अ. ।
- ↑ इदं श्लोकद्वयं बृहत्संहितायामप्युपलभ्यते ।
- ↑ एते श्लोका फलकम्:Gapबृहत्संहितायामप्युपलभ्यन्ते ।
- ↑ अत्र बृहत्संहितायां भट्टोत्पलेनान्यथा समाससंहिताया वचनान्युक्तानि तदर्थं
द्रष्टव्यम् अ=पुस्तके ३७६ पु । - ↑ असुकराः- २५ ।
- ↑ ८४.अ. ५ श्लो ।
- ↑ वाल्मीकीयेऽन्यथा पाठः । तदर्थं द्रष्टव्य उक्तकाण्डस्य २३ सर्गः ।
- ↑ ११६ अ. ६० श्लो.। तत्र 'सर्वतः परमं ततः' इति पाठः ।
- ↑ नोकस्थले उपलभ्यते ।
- ↑ ३० अ, ३७ श्लो. ।
- ↑ हरिवंशे भविष्यपर्वणि ४६ अ, १६ श्लो.।मत्स्यपुराणे १६३ अ. ४४ श्लो. ।
- ↑ २३ अ, ३२ श्लो ।
- ↑ वाल्मीकीयेऽन्यथा पाठः । द्रष्टव्या ५७ सर्गे ३४-३७ श्लोकाः ।
- ↑ वाल्मीकीये ६ सर्गे ५४ श्लो.।
- ↑ वाल्मीकीये ९ सर्गे ३१ श्लो. ।
- ↑ १५६ अ २८ श्लो ।
- ↑ ७७ अ. ११ श्लो. ।
- ↑ ५८ अ. ५१-५२ श्लो. ।
- ↑ नेदं पद्यार्धमुक्तस्थले उपलभ्यते ।
- ↑ वाल्मीकीये ५१ सर्गे ३२ श्लो.।
- ↑ ५८ अ ५६-५७ श्लो. ।
- ↑ बृहदन्ता-इति अ ।
- ↑ जलजसष्टबाश्च इति अ.।
- ↑ हृष्टलोकं प्रशान्तम् इति अ ।
- ↑ इतः प्रभृतिषु सप्तसु स्थानेषु पराशर इत्यत्र पराशरतन्त्रं बोध्यम् । तदर्थं द्रष्टव्यम् अ. पुस्तके ४५३ पृ. ।
- ↑ यौधेयकयवनपथ्यवद्गोमान् इति छ,ज, ।
- ↑ २३ अ, ३० श्लो ।
- ↑ ७७ अ, ४ श्लो, ।
- ↑ ५८अ, ४९ श्लो. ।
- ↑ ५६ अ. १० लो । तत्र 'चतम्पे च' इति पाठः ।
- ↑ नोक्तस्थले उपलभ्यते ।
- ↑ ११ अ. १४ लो । तत्र 'मही चापि सपर्वता' - इति पाठः।
- ↑ ६४ अ. ४१-४२ श्लो। तत्र 'चचालाथ मनिहदा' इति पाठः ।अविलाअभवन्नित्यत्र अविला भवन्नित्याः ।
- ↑ ५ सृष्टिखण्डे ३८ अ. १६४ श्लो, तत्र 'न चुक्षुभे तथाऽर्णवः'-इति ।
- ↑ नोक्तस्थले उपलभ्यते ।
- ↑ नोक्तस्थले उपलभ्यते ।
- ↑ ७ सर्गे ३२ श्लो. ।
- ↑ ५६ अ १४ श्लो. ।
- ↑ ९ x ३२ श्लो.।
- ↑ xx उपलभ्यते ।
- ↑ xx उपलभ्यते ।
- ↑ ५८ अ.५१ श्लो.। अत्र 'वहा अभवन्नित्यत्र 'बद्वाऽभवन्'इत्यार्थः ।
- ↑ भविष्यपर्वणि ४६ अ. २१ श्लो । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ, १३९ श्लो. तत्र 'नद्यश्च प्रतिकूलानि इति ।
- ↑ ८४ अ, ७ श्लो, ।
- ↑ ५८ अ, ५८ श्लो ।
- ↑ ३ अ, ३४ श्लो, तत्र नर्दन्तीत्यत्र कूर्दन्तीति पाठः ।
- ↑ विलक्षणमिदं नाम । अस्यास्मिन् ग्रन्थे बहुत्र प्रमाणम् ।
- ↑ नेदम् अ, पुस्तके उपलभ्यते ।
- ↑ बृहत्संहितायामप्युपलभ्यन्ते इमे श्लोकाः । तदर्थं द्रष्टव्यम् अ.५०९ पृ. ।
- ↑ योगयात्राया इदं वचनम् । तदर्थं द्रष्टव्यम् । अ. ५०९ पृ. ।
- ↑ चर्मविपाटनतुल्यनिदानो जर्जरदर्दुररूक्षुरवो वा इति अ. ।
- ↑ २३ अ ३२ श्लो. ।
- ↑ भविष्यपर्वणि ४६ अ. १८-१९ श्लो.।
- ↑ मत्स्यपुराणे १६३ अ, ४५-४६लो ।पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १३७-१३८श्लो, ।
- ↑ नोक्तस्थले उपलभ्यते ।
- ↑ २ अ. २६ श्लो ।
- ↑ नो कस्थले उपलभ्यते ।
- ↑ १८८ अ. ११-१२ श्लो.।
- ↑ ११२ अ. ११ श्लो. । तत्र कुरुराजस्य देवता इत्यत्र 'कुरुराजेन्द्रदेवताः' इति ।
- ↑ एतदर्थे मत्संगृहीतो वर्णबीकोशो द्रष्टव्यः ।
- ↑ उक्तस्थले नोपलभ्यते ।
- ↑ "हरिवंशे भविष्यपर्वणि ४६ अ, १७ श्लो. तत्र 'सर्वा याः प्राहुर्दैत्यनाशनम्' इति । मत्स्यपुराणे १६३ अ. ४४ श्लो, । तत्र ये चाहुर्दैत्यनाशनम्' इति । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १३५-१३६ श्लो. । तत्र 'या आहुर्दैत्यनाशिकाः'-इति ।
- ↑ ३ अ. १लो. ।
- ↑ "वाल्मीकीये उक्तकाण्डे २३ सर्गे 'तस्मिन् क्षणे
बभूवुश्च विना पुष्पफलैर्द्रमाः'-इति १४ श्लो. । - ↑ ३ अ, १० श्लो, ।
- ↑ ११६ अ. ६७ श्लो. ।
- ↑ मत्स्यपुराणे १६३ अ. ४९ श्लो. । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १४०-१४१ श्लो, ।
- ↑ आर्षः प्रयोगः ।
- ↑ आर्षः प्रयोगः ।
- ↑ ४६ अ. २६-१८ श्लो. ।
- ↑ ३ अ, १९ श्लो, । तत्र 'पृथिवी शस्यमालिनी' इति ।
- ↑ मुख्यशालासु इति क्वचित् पाठः ।
- ↑ द्रष्टव्याऽस्यैव ग्रन्थस्य ३५५ पृ.१७ पं. ।
- ↑ १०२ अ. ७-८ श्लो.।
- ↑ २ अ,२७ श्लो. ।
- ↑ २ अ, ३३ श्लो. ।
- ↑ आसनविशेषः । 'मुनीनामासनं वृषी' इति कोषप्रामाण्यात् ।
- ↑ 'श्रोत्रपीडा' इति अ ।
- ↑ 'स्थानवन्धेऽन्नपानप्राप्तिम्' इति अ ।
- ↑ तथा च गर्गः ।
वस्त्रमुत्तरलोमं तु प्राग्देशं नवधा भजेत् ।
त्रिधा दशान्तपाशान्ते त्रिधा मध्यं पृथक् पृथक् ॥
चतुर्षु कोणेषु सुराः पाशान्ते मध्यमे नराः ।
दशान्ते च नरा भूयो मध्यभागे निशाचराः ॥
राक्षसान् विनिवृत्त्यैवं शय्यादिष्वप्ययं विधिः ।
इति अ, पुस्तकेऽधिक उपलभ्यते ।
नवधा विभक्तवस्त्राकारः ।
देवाः । राक्षसाः । देवाः
नराः । राक्षसाः । नराः
देवाः । राक्षसाः । देवाः ॥ - ↑ त्रीणि वर्षाणि निर्दिशेदिति क्व चित् पाठः ।
- ↑ १५३ अ. १७५ श्लो. ।
- ↑ ३ अ. २१ श्लो. ।
- ↑ ३२ अ. ३४२ श्लो. ।
- ↑ वाल्मीकीये २४ सर्गे ५-६ श्लो. । तत्रायं पाठः ।
- ↑ ११२ अ १९ श्लो.।
- ↑ नोक्तस्थले उपलभ्यते ।
- ↑ २ अ. ५ श्लो. ।
- ↑ द्रष्टव्याऽस्यैव ग्रन्थस्य ११ पृ.२ पं ।
- ↑ नोक्तस्थलेऽस्योपलब्धिः।
- ↑ वाल्मीकीये उक्तकाण्डे ६ सर्गे ५५-५६ श्लो. । तत्र 'संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम्' इति पाठः ।
- ↑ २ अ.२ श्लो.।
- ↑ ३ अ, ३ श्लो. ।
- ↑ २ अ. १५ श्लो. ।
- ↑ § १३४ अ. १२ श्लो. ।
- ↑ उक्तस्थले नोपलभ्यते ।
- ↑ ५६ अ. १४ श्लो. ।
- ↑ ५८ अ. ५२-५३ श्लो. ।
- ↑ द्विजसुरगुरुराजानामित्यनेन भवितव्यम् ।
- ↑ २७ सर्गे ६ श्लो. ।
- ↑ वाल्मीकीये २७ सर्गे एतान्येतद्भिनान्यपि वचनानि
उपलभ्यन्ते । तत्र बहुत्रपाठभेदोऽप्यस्ति । - ↑ नैतानि पद्यानि वाल्मीकीये उक्तस्थले उपलभ्यन्ते ।
- ↑ वाल्मीकीये उक्तकाण्डे २७ सर्गे: २१-२७ श्लो.। तत्राधिकः पाठो भिन्नश्चोपलभ्यते ।
- ↑ वाल्माकीये २७ सर्ग श्लो. । तत्र बहुत्र पाठभेदोऽधिकश्च ।
- ↑ नोक्तस्थले उपलभ्यते ।
- ↑ ३ अ. १ श्लो ।
- ↑ द्रष्टव्याऽस्यैव ग्रन्थस्य ३३ पृ. ९ पं ।
- ↑ ऊर्ध्वगे इति अ. पु. पा.।
- ↑ बहुत्र 'आदित्यपुराणे' इत्युपलभ्यते ।
- ↑ पङ्कमत्स्य-इति क्व चित् पाठः ।
- ↑ शान्तिपर्वणि ३१७ अ, १०, ११ श्लो. ।
- ↑ श्रीमद्भागवते १० स्कन्धे पूर्वार्धे ४० अ, २६ श्लो. ।
- ↑ 'तां खण्डितां स्वां प्रकृतिं परां तु'-इति ग, पुस्तके पाठः ।
- ↑ शान्तिपर्वणि ३१७ अ. १३ श्लो. ।
- ↑ यास्यतीति ।
- ↑ द्रष्टव्याऽस्यैव ग्रन्थका ५०६ पृ ३पं ।
- ↑ मत्स्यपुराणे २३५ अ, १-३ श्लो. ।
- ↑ ३ अ, २ श्लो. ।
- ↑ ३ अ. ४-५ श्लो.
- ↑ २ अ. ९ श्लो.।
- ↑ ३ अ.६ श्लो. ।
- ↑ ३ अ, ३-४ श्लो. ।
- ↑ ३ अ. ७ श्लो ।
- ↑ मत्स्यपुराणे २३५ अ. ४ श्लो. ।
- ↑ द्रष्टव्या अ. पु, १०१३ पृ.१२ पं.।
- ↑ 'सार्थो वणिक्समूहे स्यात्'-इति कोषः ।
- ↑ नेदम् भ. पु. उपसम्पते ।
- ↑ जातकाहि-इति अ.पु. उपलभ्यते ।
- ↑ 'शरभाश्चैव गोधाश्च' इति क्वचित् पाठः ।
- ↑ मत्स्यपुराणे २३७ अ, १-३ श्लो. ।
- ↑ मत्स्यपुराणे २३७ अ, ३ श्लो ।
- ↑ मत्स्यपुराणे २३७ अ, ४ श्लो. ।
- ↑ पुराणे चापि २३७ अ. ५ श्लो. उपलभ्यते ।
- ↑ मत्स्यपुराणे २३७ अ. ९ श्लो
- ↑ मत्स्यपुराणे २३७ अ. १३-१४ श्लो. ।
- ↑ नोक्तस्थले उपलभ्यते ।
- ↑ २३ अ, २४ श्लो, । तत्र 'वेपथुं चास्पृशन् भृशम्' ।
- ↑ 'शस्य हास्यति काश्यपी' इति ग. पु. पा.।
- ↑ इत्यादिकानि बहूनि वचनानि बृहत्संहितायामप्युपलभ्यन्ते द्रष्टव्यम् अ. पु. १०९३पृ.
- ↑ अपक्रमे प्रलायने इति ।
- ↑ मांसविद्रुमसंकाशम्-इति क्व चित् पाठः ।