अद्वैत मकरन्द
कटाक्षकिरणाचान्त
नमन्मोहाब्धये नमः ।
अनन्तानन्दकृष्णाय
जगन्मङ्गलमूर्तये ॥१॥
अहमस्मि सदा भामि
कदाचिन्नाहमप्रियः ।
ब्रह्मैवाहमतः सिद्धं
सच्चिदानन्दलक्षणम् ॥२॥
मय्येवोदेति चिद्व्योम्नि
जगद्गन्धर्वपत्तनम् ।
अतोऽहं न कथं ब्रह्म
सर्वज्ञं सर्वकारणम् ॥३॥
न स्वतः प्रत्यभिज्ञानान्
निरंशत्वान्न चान्यतः ।
न चाश्रयविनाशान्मे
विनाशः स्यादनाश्रयात् ॥४॥
न शोषप्लोषविक्लेद
च्छेदाश्चिन्नभसो मम ।
सत्यैरप्यनिलाग्न्यम्भः
शस्त्रैः किमुत कल्पितैः ॥५॥
अभारुपस्य विश्वस्य
भानं भासंनिधेर्विना ।
कदाचिन्नावकल्पेत
भा चाहं तेन सर्वगः ॥६॥
न हि भानादृते सत्वं
नर्ते भानं चितोऽचितः ।
चित्सम्भेदोऽपि नाध्यासात्
ऋते तेनाहमद्वयः ॥७॥
न देहो नेन्द्रियं चाहं
न प्राणो न मनो न धीः ।
ममतापरीरब्धत्वात्
अक्रीडत्वादिदं धियः ॥८॥
साक्षी सर्वान्वितः प्रेयान्
अहं नाहं कदाचन ।
परिणामपरिच्छेद
परितापैरूपप्लवात् ॥९॥
सुप्तेऽहमि न दृश्यन्ते
दुःखदोषप्रवृत्तयः ।
अतस्तस्यैव संसारो
न मे संसर्तृसाक्षिणः ॥१०॥
सुप्तः सुप्तिं न जानाति
नासुप्ते स्वप्नजागरौ ।
जाग्रत्स्वप्नसुषुप्तीनां
साक्ष्यतोऽहमतदृशः ॥११॥
विज्ञानविरतिः सुप्तिस्
तज्जन्म स्वप्नजागरौ ।
तत्साक्षिणः कथं मे स्युर्
नित्यज्ञानस्य ते त्रयः ॥१२॥
षड् विकारवतां वेत्ता
निर्विकारोऽहमन्यथा ।
तद्विकारानुसन्धानं
सर्वथा नावकल्पते ॥१३॥
तेन तेन हि रूपेण
जायते लीयते मुर्हुः ।
विकारि वस्तु तस्यैषाम्
अनुसन्धातृता कुतः ॥१४॥
न च स्वजन्म नाशं वा
द्रष्टुर्हति कश्चन ।
तौ हि प्रागुत्तराभाव
चरमप्रथमक्षणौ ॥१५॥
न प्रकाशेऽहमित्युक्तिर्
यत्प्रकाशनिबन्धना ।
स्वप्रकाशं तमात्मानम्
अप्रकाशः कथं स्पृशेत् ॥१६॥
तथाप्याभाति कोऽप्येष
विचाराभावजीवनः ।
अवश्यायश्चिदाकाशे
विचारार्कोदयावधिः ॥१७॥
आत्माज्ञानमहानिद्रा
जृम्भितेऽस्मिन्जगन्मये ।
दीर्घस्वप्ने स्फुरन्त्येते
स्वर्गमोक्षादिविभ्रमाः ॥१८॥
जडाजडविभागऽयम्
अजडे मयि कल्पितः ।
भित्तिभागे समे चित्र
चराचरविभागवत् ॥१९॥
चेत्योपरागरुपा मे
साक्षितापि न तात्विकी ।
उपलक्षणमेवेयं
निस्तरङ्गचिदम्बुधेः ॥२०॥
अमृताब्धेर्न मे जीर्णिर्
मृषा डिण्डीरजन्मभिः ।
स्फटिकार्द्रेर्न मे रागः
स्वाप्नसंध्याभ्रविभ्रमैः ॥२१॥
स्वरूपमेव मे सत्वं
न तु धर्मो नभस्त्ववत् ।
मदन्यस्य सतोऽभावान्
न हि सा जातिरिष्यते ॥२२॥
स्वरूपमेव मे ज्ञानं
न गुणः स गुणो यदि ।
अनात्मत्वमसत्वं वा
ज्ञेयाज्ञेयत्वयोः पतेत् ॥२३॥
अहमेव सुखं नान्यद्
अन्यच्चेन्नैव तत् सुखम् ।
अमदर्थं न हि प्रेयो
मदर्थं न स्वतः प्रियम् ॥२४॥
न हि नानास्वरूपं स्याद्
एकं वस्तु कदाचन ।
तस्मादखण्ड एवास्मि
विजहज्जागतीं भिदाम् ॥२५॥
परोक्षतापरिच्छेद
शाबल्यापोहनिर्मलम् ।
तदसीति गिरा लक्ष्यम्
अहमेकरसं महः ॥२६॥
उपशान्तजगज्जीव
शिष्याचार्येश्वरभ्रमम् ।
स्वतः सिद्धमनाद्यन्तं
परिपूर्णमहं महः ॥२७॥
लक्ष्मीधरकवेः सुक्ति
शरदम्भोजसम्भृतः ।
अद्वैतमकरन्दोऽयं
विद्वद्भृङ्गैर्निपीयताम् ॥२८॥