अनुत्तरप्रकाशिका
[[लेखकः :|]]


आद्यनाथ अनुत्तरप्रकाशपञ्चाशिका


ओं नमोऽनुत्तरप्रकाशशङ्कराय

अकृत्रिमाहमामर्श- प्रकाशैकघनः शिवः ।
शक्त्या विमर्शवपुषा स्वात्मनोऽनन्यरूपया ॥ १ ॥

शिवादिक्षितिपर्यन्तं विश्वं वपुरुदञ्चयन् ।
पञ्चकृत्यमहानाट्य- रसिकः क्रीडति प्रभुः ॥ २ ॥

पृथगर्थमर्थवत्ता विश्वविश्वशरीरयोः ।
न विश्वविश्ववपुषोर्भिन्नता कापि तात्त्विकी ॥ ३ ॥

भेदे सत्तास्फुरत्ताभ्यां भिन्नं किं तु जगद्भवेत् ।
सत्तास्फुरत्तासंबन्धात्सत्ताभानं च तन्न चेत् ॥ ४ ॥

असतः किं सतस्ताभ्यां संबन्धः सोऽयमिष्यते ।
स्वरूपलाभसुलभः संबन्धो न ह्यवस्तुनः ॥ ५ ॥

न लब्धरूपसंबन्धे ताभ्यां किं चिदुपेक्ष्यते ।
उपेक्षायामवस्थानं न स्यादेतस्य किं चन ॥ ६ ॥

स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी ।
विनाशानभुपगमे जडतापि निवर्तते ॥ ७ ॥

ततो गत्यन्तराभावाच्चिदेव परिशिष्यते ।
सतश्चिदैक्यं प्रकृतं कदा चिन्न निवर्तते ॥ ८ ॥

प्रकाशेऽनन्यतो भावः स्वातन्त्र्योल्लासकेवलः ।
परिछिन्नात्मिका शक्तिः शम्भोर्विश्वातिशायिनः ॥ ९ ॥

यत्प्रकाशात्मकं सर्वं तमःकेवलतां गतम् ।
यच्च किं चिज्जगदेतत्प्रकाशादतिरिच्यते ॥ १० ॥

विमृश्यसरणीं प्राप्तमित्येषा तात्त्विकी मतिः ।
अवभासैकतानानां मतिरेकात्र साक्षिणी ॥ ११ ॥

किं प्रमाणाइर्वराकैस्तैश्चिदानुप्राणितात्मभिः ।
न हि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते ॥ १२ ॥

शक्तिपातपवित्रेऽस्मिन् धीतत्त्वे च परीक्ष्यताम् ।
आदर्शविमलाभोगे न तु सर्वं प्रकाशते ॥ १३ ॥

इत्थं चिदात्मकं सर्वं षट्त्रिंशद्भेदतत्त्वतः ।
आदौ शुद्धात्मकं तत्त्वं पञ्चधातमसः परम् ॥ १४ ॥

शिवः शक्तिश्च सादाख्यमीशो विद्येति भिद्यते ।
अक्षादिशान्तवर्णात्मा- निरमायि शिवेन तु ॥ १५ ॥

कलाविद्यारागकाल- नियतिर्बन्ध उच्यते ।
मायापूर्वो वकारादि- क्षकारान्ताक्षरात्मकः ॥ १६ ॥

पुमाञ्शक्तिर्मनो बुद्धिरहंकारादिपञ्चकम् ।
श्रोत्रादिपञ्चकं तादि टादि वागादिपञ्चकम् ॥ १७ ॥

तन्मात्रपञ्चकं चादि कादि व्योमादिपञ्चकम् ।
सिसृक्षोः प्रथमस्पन्दः शिवतत्त्वं विभोः स्मृतम् ॥ १८ ॥

इच्छैव सापरिम्लाना शक्तितत्त्वमुदञ्चयन् ।
स्वेच्छयासूचितं विश्वमाच्छाद्याहन्तया स्थितम् ॥ १९ ॥

स एव तत्त्वं सादाख्यं सर्वानुग्रहणोद्यतम् ।
स एवेश्वरतत्त्वं स्यात्पश्यन् विश्वमिदन्तया ॥ २० ॥

इदन्ताहन्तयोरैक्यमिति विद्या निगद्यते ।
स्वाङ्गकल्पेषु भावेषु मायातत्त्वं विभेदधीः ॥ २१ ॥

मायागृहीतसंकोचः शिवः पुंतत्त्वमुच्यते ।
अयमेव हि संसारी जीवो भोक्तैव दृश्यते ॥ २२ ॥

ज्ञत्वकर्तृत्वपूर्णत्व- नित्यत्वान्यस्य शक्तयः ।
तत्संकोचात्संकुचितः कलाद्यात्मतया मतः ॥ २३ ॥

मायात्मकं कला नाम किंचित्कर्तृत्वकारणम् ।
कालः परिच्छेदकरो नियतिश्चेदमेव मे ॥ २४ ॥

कर्तव्यं नान्यदित्येषा व्यवस्था यन्त्रणाकृइतिः ।
प्रकृतिर्गुणसाम्यं स्यादहंकारादिजन्मभूः ॥ २५ ॥

अहं ममेदमित्येतद्बुद्धिहेतुरहंकृतिः ।
बुद्धिरध्यवसायस्य कारणं निश्चयात्मनः ॥ २६ ॥

संकल्पस्य विकल्पस्य बीजं मन उदीर्यते ।
वचनादेश्च शब्दादेर्वागादिश्रवणादिकम् ॥ २७ ॥

कारणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम् ।
आकाशाद्यवकाशादि- कारणं भूतपञ्चकम् ॥ २८ ॥

परापराशक्तिमये शुद्धे विद्यादिपञ्चकम् ।
तदन्यदपराशक्तिरित्येतत्तत्त्वमीरितम् ॥ २९ ॥

इयं देवी परा शक्तिः शुद्धाशुद्धाध्वगर्भिणी ।
पृथिव्यादीनि तत्त्वानि यदालीनानि कारणे ॥ ३० ॥

तदा कारणमात्राणि बहिरुद्वमते विभुः ।
अनुत्तरेच्छे उन्मेषे आनन्देशनमूनता(?) ॥ ३१ ॥

क्रियेच्छाज्ञानशक्तीनां सत्ता षट् * ।
इच्छेशनान्तरारूढा स्फुटास्फुटजगन्मयी ॥ ३२ ॥

  • चोम्म् अनुत्तरेत्यादित्रिपद्येष्वर्थासंगत्या पाठाशुद्धिः प्रतिभाति


चत्वारः परतो वर्णाः षण्डात्मानः प्रचोदिताः ।
अनुत्तरानन्दशाक्तिस्त्रिकोणाद्वृत्तियोगतः ॥ ३३ ॥

तथैवोनेषयोगेन क्रियाशक्तेः स्फुटं वपुः ।
उक्तं त्रिशक्तिसंघट्टात्त्रिशूलं द्वैतघस्मरम् ॥ ३४ ॥

परस्परविरोधे तु कार्येषु प्रविरोहति ।
न कथंचिदुपादेयमासां रूपमिदं भवेत् ॥ ३५ ॥

बिन्दुर्वेद्यस्य संस्कारो विमर्शः सर्ग इत्यसौ ।
कलाषोडशकाकारा शक्तिर्विजयते परा ॥ ३६ ॥

तिथयः प्रतिपत्पूर्वाः पञ्चदशेति मायया ।
सूर्याचन्द्रमसौ स्वान्तश्- चरन्तौ स्थितिहेतवे ॥ ३७ ॥

यथाविमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः ।
द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता ॥ ३८ ॥

नित्यप्रवृत्तशृङ्गाट- वपुर्विश्वस्य जन्मभूः ।
हृदयं बीजमेतस्यां सारं यत्तत्परं महः ॥ ३९ ॥

वटबीजे यथा वृक्षस्तथात्र निहितं जगत् ।
विचार्यमाणे नैवेदं कारणादतिरिच्यते ॥ ४० ॥

मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे ।
इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः ॥ ४१ ॥

इदं सर्वं सदेवासीदग्रे इति विनिश्चयात् ।
सत्तावाचिनि बीजेऽस्मिन् भाति माया त्विदं जगत् ॥ ४२ ॥

विलुप्तप्रत्ययाकारमेतत्स परिशिष्यते ।
ततो ज्ञानक्रियासार- विद्येश्वरसदाशिवाः ॥ ४३ ॥

शक्तित्रिशूले लीयन्ते चतुर्दशकलात्मनि ।
ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः [परम्] ॥ ४४ ॥

इत्थं परस्यां संवित्तौ सर्वं संकुचितं क्रमात् ।
अथवा मनसातीते यत्र क्वापि निरञ्जने ॥ ४५ ॥

षट्त्रिंशत्तत्त्वलहरी- कलहातीतगोचरे ।
विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते ॥ ४६ ॥

कृतश्चैन्मथिते धाम्नि दीप्ते केनापि हेतुना ।
सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते ॥ ४७ ॥

पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम् ।
संकोचयत्परामर्शात्सामान्यस्पन्दकेवलम् ॥ ४८ ॥

अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् ॥ ४९ ॥

इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः प्रसरति महाशक्त्युल्लेखविचित्रमहापटी ।
जयति बहुशः स्पन्दाकारा परा चिदनुत्तरा विमृशत जनाः किं नो स्वभावविजृम्भितम् ॥ ५० ॥

इति श्रीमदाद्यनाथविरचिता अनुत्तरप्रकाशपञ्चाशिका समाप्ता

सेयं काश्मीरभूपाल- संश्रितेन प्रकाशिता ।
सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पिता ॥ *१ ॥


"https://sa.wikisource.org/w/index.php?title=अनुत्तरप्रकाशिका&oldid=207459" इत्यस्माद् पुनः प्राप्तिः