एकस्वरकाण्डः

को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले ।
कं शीर्षेऽप्सु सुखे खं स्वसंविदि व्योमनीन्द्रिये ॥ ५ ॥

शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि ।
स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥ ६ ॥

त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकार्त्स्नयोः ।
रुक् शोभाकिरणेच्छासु वाग्भारत्यां वचस्यपि ॥ ७ ॥

जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ।
ज्ञः स्याद्विचक्षणे पद्मासने चान्द्रमसायनौ ॥ ८ ॥

सद्विद्यमाने सत्ये प्रशस्तार्चितसाधुषु ।
भः शुक्रे भमुडौ भांशौ भूस्तु भूमिरिव क्षितौ ॥ ९ ॥

स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् ।
किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि ॥ १० ॥

क्ष्मामौर्व्योर्द्युर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि ।
रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ॥ ११ ॥

द्रूः कामरूपिणि स्वर्णे धूर्यानमुखभारयोः ।
पूः शरीरे च नगरे श्रीर्लक्ष्म्यां सरलद्रुमे ॥ १२ ॥

वेषोपकरणे वेषरचनायां मतौ गिरि ।
शोभात्रिवर्गसंपत्त्योः स्रूः स्रवे निर्झरेऽपि च ॥ १३ ॥

वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् ।
द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने ॥ १४ ॥

दृग्दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः ।
तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥ १५ ॥

त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि ।
भाः प्रभावे मयूखे च मास्तु मासे निशाकरे ॥ १६ ॥

इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रह एकस्वरकाण्डः प्रथमः ॥ १ ॥