अनेकार्थसङ्ग्रहः/परिशिष्टकाण्डः


परिशिष्टकाण्डः
परिशिष्टः काण्डः
एकस्वराव्ययानि

अथाऽव्ययानि वक्ष्यानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् ।
अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम् ॥ १ ॥

आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि ।
आं स्याद्वाक्येऽवस्मरणे स्यादा वेधस्यनव्ययम् ॥ २ ॥

आ स्यादवधृतिस्मृत्योराः सन्तापप्रकोपयोः ।
इ स्यात्खेदे प्रकोपोक्तौ कामदेवे त्वनव्ययम् ॥ ३ ॥

ई दुःखभावने क्रोध ईर्लक्ष्म्यां तु च नाव्ययम् ।
उ सम्बुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् ॥ ४ ॥

उत् प्राधान्ये प्रकाशे च प्रबल्यास्वस्थ्यक्तिषु ।
विभागे बन्धने मोक्षे भावे लाभोर्ध्वकर्म्मणोः ॥ ५ ॥

उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यूं प्रश्वे रोषवाचि च ।
ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम् ॥ ६ ॥

ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् ।
ॠ वाक्यकुत्सयोर्दैत्यजनन्यामप्यनव्ययम् ॥ ७ ॥

लृ कुत्सायां विस्मये च लॄशब्दोऽपि तदर्थकः ।
देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ ॥ ८ ॥

एऐशब्दौ तु हेहैव स्मृत्यामन्त्रणहूतिषु ।
क्रमाच्चतुर्भुजे शम्भावेऐशब्दावनव्ययौ ॥ ९ ॥

ओमित्यनुमतौ प्रोक्तं प्रणवे चाप्युपक्रमे ।
ओऔशब्दौ तु होहौव सम्बुद्ध्याह्वानयोर्मतौ ॥ १० ॥

विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ ।
कु पापीयसि निन्दायामीषदर्थे निवारणे ॥ ११ ॥

कं सुखे वारिशिरसोः किं प्रश्रे कुत्सनेऽपि च ।
चाऽन्योन्यार्थसमाहारान्वाचयेषु समुच्चये ॥ १२ ॥

हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः ।
पादपूरणेऽवधृतौ तु विशेषेऽवधारणे ॥ १३ ॥

समुच्चये पादपूर्तौ धिक् निर्भर्त्सनिन्दयोः ।
नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि ॥ १४ ॥

संनिधानोपरमयोः संशयाश्रयराशिषु ।
मोक्षेऽन्तर्भावेऽधोभावे बन्धने कौशलेऽपि च ॥ १५ ॥

नु प्रश्नेऽनुनयेऽतीतार्थे विकल्पवितर्कयोः ।
नञीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः ॥ १६ ॥

व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ।
निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः ॥ १७ ॥

प्राक् पूर्वस्मिन् प्रभाते दिग्देशकालेष्वनन्तरे ।
अतीतेऽग्रेऽप्यथ प्र स्याद्गताद्यर्थप्रर्षयोः ॥ १८ ॥

वा समुच्चय एवार्थ उपमानविकल्पयोः ।
वितर्के पादपूर्तौ च विश्रम्भातीतयोरपि ॥ १९ ॥

वि श्रेष्ठेऽतीते नानार्थे पक्षिवाचि त्वनव्ययम् ।
वै पादपूरणे हैतौ सम्बुद्ध्यनुनयेऽपि च ॥ २० ॥

शं कल्याणे सुखेऽथ स्वित्परिप्रश्नवितर्कयोः ।
सं सङ्गार्थे प्रकृष्टार्थे शोभनार्थसमार्थयोः ॥ २१ ॥

सु पूजायां भृशार्थानुमतिकृच्छ्रसमृद्धिषु ।
स्माऽतीते पादपूर्तौ ह सम्बुद्धौ पादपूरणे ॥ २२ ॥

हा शुग्दुःखविषादेषु हि हेताववधारणे ।
विशेषे पादपूर्तौ च ही विस्मयविषादयोः ॥ २३ ॥

दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च ।
हुं वितर्के परिप्रश्ने हुं लज्जायां निवारणे ॥ २४ ॥

भयादौ भर्त्सने कोपेऽप्यनिच्छायां च कुत्सने ।

इत्येकस्वराव्ययानि ।
द्विस्वराऽव्ययानि

मनागल्पे च मन्दे चाऽङ्ग सम्बोधनहर्षयोः ॥ २५ ॥

पुनरर्थे चाऽथ किञ्च साकल्यारम्भयोर्मतम् ।
तिर्यक् तिरोऽर्थे वक्रे च विहगादौ त्वनव्ययम् ॥ २६ ॥

हिरुक् मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे ।
स्तुतावसम्प्रति क्षेपेऽप्यस्तु पीडानिषेधयोः ॥ २७ ॥

असूयायामनुज्ञायामाराद् दूरसमीपयोः ।
इति स्वरूपे सांनिध्ये विवक्षानियमेऽपि च ॥ २८ ॥

हेतौ प्रकारप्रत्यक्षप्रकाशेष्ववधारणे ।
एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥ २९ ॥

समुच्चये विकल्पे च तावद्यावदिवाऽवधौ ।
कार्त्स्न्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥ ३० ॥

प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि ।
पश्चात्प्रतीच्यां चरमे बताऽऽमन्त्रणखेदयोः ॥ ३१ ॥

धृत्याश्चर्यानुकम्पासु यद्वत् प्रश्नवितर्कयोः ।
शश्वत् सह पुनर्नित्ये सकृत्सहैकवारयोः ॥ ३२ ॥

स्वस्त्याशीःक्षेमपुण्यादौ साक्षात् प्रत्यक्षतुल्ययोः ।
हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ ३३ ॥

निश्चये च प्रमोदे चाप्यथो अथ समुच्चये ।
मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥ ३४ ॥

अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि ।
तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये ॥ ३५ ॥

यथा निदर्शने द्वौ तूद्देशे निर्देशसाम्ययोः ।
हेतूपपत्तौ च वृथा त्वपिधौ स्यादनर्थके ॥ ३६ ॥

अनु लक्षणवीप्सेत्थम्भूतभागेषु संनिधौ ।
सादृश्यायामहीनेषु पश्चादर्थसहर्थयोः ॥ ३७ ॥

नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे ।
वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपि ॥ ३८ ॥

नाना विनोभयानेकार्थेषु स्थाने तु कारणे ।
युक्ते साम्येऽप्यवस्तेयेऽप कृष्टे वर्जने मुदि ॥ ३९ ॥

विपर्यये वियोगे च निर्देशे विकृतावपि ।
अपि संभावनाशङ्कागर्हणासु समुच्चये ॥ ४० ॥

प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च ।
उपाऽऽसन्नेऽधिके हीने सादृश्यप्रतियत्नयोः ॥ ४१ ॥

उद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः ।
दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥ ४२ ॥

अभि वीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः ।
स्यादमा संनिधानार्थे सहार्थेऽलं निरर्थके ॥ ४३ ॥

अलङ्करणसामर्थ्यपर्याप्तिषु च वारणे ।
एवं प्रकारोमपयोरङ्गीकारेऽवधारणे ॥ ४४ ॥

कथं प्रश्ने प्रकारार्थे सम्भ्रमे सम्भवेऽपि च ।
कामं प्रकामेऽनुमतावसूयानुगमेऽपि च ॥ ४५ ॥

किमु संभावनायां च मर्शे जोषं सुखे स्तुतौ ।
मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः ॥ ४६ ॥

सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि ।
नूनं तर्के निश्चिते च प्राध्वं नर्मानुकूलयोः ॥ ४७ ॥

भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्धे जुगुप्सिते ।
अयि प्रश्नानुनययोरये क्रोधविषादयोः ॥ ४८ ॥

सम्भ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः ।
ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतावपि ॥ ४९ ॥

पराभिमुख्ये प्राधान्ये विमोक्षप्रतिलोम्ययोः ।
गतिहर्षणहिंसासु भृशार्थे विक्रमेऽपि च ॥ ५० ॥

परि व्याधानुपरमे वर्जने लक्षणादिषु ।
आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥ ५१ ॥

भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि च ।
पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः ॥ ५२ ॥

पुनरप्रथमे भेदे किल सम्भाव्यवार्तयोः ।
हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ ५३ ॥

जिज्ञासायामनुनये वाक्यालङ्करणेऽपि च ।
अवाऽऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ॥ ५४ ॥

एवौपम्ये परिभव ईषदर्थेऽवधारणे ।
उषा रात्रौ तदन्ते च दोषा निशि निशामुखे ॥ ५५ ॥

मङ्क्षु शीघ्रे भृषे तत्त्वे ऽतो हेतोरपदेशवत् ।
निर्देशे पञ्चम्यर्थे चेतो यतश्च विभागवत् ॥ ५६ ॥

पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे ।
पञ्चम्यर्थे परिप्रश्ने तिरोऽन्तर्धौ तिरश्चि च ॥ ५७ ॥

नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाशयोः ।
पुरोऽग्रे प्रथमे च स्यात् मिथोऽन्योन्यं रहस्यपि ॥ ५८ ॥

शनैः शनैश्चरे स्वैरे सहस्साहसतेजसोः ।
अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ ५९ ॥

अह क्षेपे नियोगे चाप्याहो प्रश्नविचारयोः ।
सह सम्बन्धसादृश्ययौगपद्यसमृद्धिषु ॥ ६० ॥

साकल्ये विद्यमाने च हीही विस्मयहास्ययोः ।

इति द्विस्वराव्ययानि ।
त्रिस्वराव्ययानि

ननुच प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि ॥ ६१ ॥

अपष्ठु चारौ निर्दोषे किमुत प्रश्नवादयोः ।
विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः ॥ ६२ ॥

पूर्वस्यां च पुरार्थे चाऽभीक्ष्णं शीघ्रप्रकर्षयोः ।
पौनःपुन्ये सन्तते चाऽवश्यं निश्चयनित्ययोः ॥ ६३ ॥

इदानीं साम्प्रतं वाक्यालङ्कारे तद्दिनं पुनः ।
दिनमध्ये प्रतिदिने साम्प्रतं तूचितेऽधुना ॥ ६४ ॥

समयानिकषे चान्तर्निकटे चान्तरा पुनः ।
विनार्थे संनिधौ मध्येऽभितोऽभिमुखकात्र्स्नयोः ॥ ६५ ॥

सभीपोभयतःशीघ्रेष्वग्रतः प्रथमाग्रयोः ।
अन्ततोऽवयवोत्प्रेक्षापञ्चम्यर्थषु शासने ॥ ६६ ॥

पुरतोऽग्राद्ययोः पूर्वेद्युः पूर्वाह्णप्रभातयोः ।
अहहेत्यद्भुते खेदे-

इति त्रिस्वराव्ययानि ।
चतुःस्वराव्ययानि

अन्तरेणाऽन्तर्विनार्थयोः ॥ ६७ ॥

अहोबताऽनुकम्पायां खेदामन्त्रणयोरपि ।

इति चतुःस्वराव्ययानि ।
पञ्चस्वराव्ययानि

अनपयति प्रभाते क्षणंक्षणं क्षणार्थके ॥ ६८ ॥

इति पञ्चस्वराव्ययानि ।
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे एकादिपञ्चास्वराव्ययाऽभिधः परिशिष्टः काण्डः ।
समाप्तश्चाऽयं ग्रन्थः ।