अन्योक्तिमुक्तामाला (शम्भुरचिता)

अन्योक्तिमुक्तामाला
श्रीशम्भुः
१९३२

महाकविश्रीशंभुविरचिता
अन्योक्तिमुक्तालता ।

मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा
मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः ।
प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्गीगुरु-
र्बन्धूकप्रियबान्धवो धवलितश्यामाधवो माधवः ॥ १ ॥

हेलाक्रान्तहरिन्ति कुन्तलवधूवेणीहरिन्ति स्फुटं
भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः ।
पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-
रोंकारं कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः ॥ २ ॥

सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे
संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः ।
यो जातः स्मरकेलिलोलकमलासोल्लासदोःकन्दली-
लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः ॥ ३ ॥

पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणा
पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः ।
देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसां
भर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः ॥ ४ ॥

उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुड्मलै-
र्नीलाम्भोजकुलैस्तथा विचकिलैः क्रान्तं च कान्तं च यत् ।
तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा
मध्ये मुग्ध कुसुम्भमुम्भसि भवेन्नैवैष युक्तः क्रमः ॥ ५ ॥

यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्ध्रुवं
यत्रास्ते मदनस्य लुप्तरमणीमग्नक्रमो विक्रमः ।
पक्वं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल-
भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नादृतम् ॥ ६ ॥

केनात्र कर्कशकरीरवनान्तराले
बाले बलाद्बकुलकन्दलि रोपितासि ।
यत्राप्नुयुर्मधुलिहस्तव कोमलानि
नो कुड्मलानि न दलानि न कन्दलानि ॥ ७ ॥

धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो
येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी ।
तेषां पुण्ड्रककाण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां
किं मुग्धाः करभा मुधैव विरसा विन्दन्ति निन्दन्ति च ॥ ८ ॥

मद्गुमाद्यति यत्र यत्र भजते भङ्गिं बको यत्र स
क्रौञ्चः किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः ।
आस्ते बालमरालसालसलसद्दिक्कुञ्जरं पार्वती-
कर्णोत्तंसितकाञ्चनाञ्जमुकुलं यन्मानसं ते सरः ॥ ९॥

श्रीसंकेतनिकेत केतक कुरु त्वं कुड्मलाडम्बरं
हे नीप स्मरदीप दीपय तनौ टङ्कं नवैरङ्कुरैः ।

स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे
नीरोद्गारगभीरधीररसितप्रारम्भमम्भोधरः ॥ १० ॥

गुर्वीमुर्वीतिलक तिलक स्वीकुरु स्वामभिख्यां
रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथाः ।
भङ्गीमङ्गीकुरु रतिपतेर्भल्लि हे चूतवल्लि
प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः ॥ ११ ॥

अद्रिद्रोण्यां निवस दिवसं जातलीलानुषङ्गै-
रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः ।
दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदग्रे
प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः ॥ १२ ॥

कान्तिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य य-
च्चञ्चच्चञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः ।
तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना
तेनेदं रमणीकपोलफलके लावण्यमालोकितम् ॥ १३ ॥

आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः
खेलन्हेलोन्मदमधुकरीमानसे मानसे यः ।
भेकोद्रेकप्रणयिनि वलद्बालजम्बालजाले
स स्यादुत्कः परिमितजले पल्वले किं मरालः ॥ १४ ॥

द्यां च क्ष्मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ
मेनाकोऽपि न कोऽपि यत्र दयितं यः सद्म पद्मापतेः ।
लोलद्बालकुलीरकम्पकलया देवस्य तस्याम्भसां
भर्तुः कस्य कदा कियान्क्व नु ननु क्षोभो दृशोर्गोचरः ॥ १५ ॥

गर्वं खर्वं कुरु कररुहोदञ्चनं मुञ्च कण्ठे
कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु ।
शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी-
मुर्वी वोढुं मदजलसरित्संगतो दिङ्मतङ्गः ॥ १६ ॥

चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका-
न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु ।
एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः
प्रक्रान्तः प्रमदामदावहन्न्मन्दानिलो माधवः ॥ १७ ॥

उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः
सानन्दं पिचुमन्दकन्दलदलास्वादेषु का वा क्षतिः ।
एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं
तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः ॥ १८ ॥

शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः
पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः ।
एवं का गणना तवाद्य हि रतावद्योतखद्योत हे
दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः ॥ १९ ॥

अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते
तद्रोलम्ब विडम्बनाय नलिनीं किं यासि कोऽयं क्रमः ।
एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते
गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः ॥ २० ॥

आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो
लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः ।
देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते
निःशङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः ॥ २१ ॥

कुन्दे कन्दलितादरः सरसिजे संजातकौतूहल:
कह्लारे कलितस्पृहः किमपरं यः केतके कौतुकी ।
निर्माता किममर्त्यराजतरुणीलीलावतंसश्रियो
योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः ॥ २२ ॥

शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः
कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः ।

येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले दोर्मूले कुचमण्डले च कुरुते रङ्गं कुरङ्गीदृशाम् ॥ २३ ॥

शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे- त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः । तत्किं मीलितमम्बुजैर्विदलितं किं दन्तिदन्ताङ्कुरै- र्भङ्गः किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः ॥ २४ ॥

झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः । एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः ॥ २५ ॥

येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः । तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति- र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्सयो न स्मयः ॥ २६ ॥

अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा- त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः। सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि- स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः ॥ २७ ॥

रोहत्सौरभविभ्रमाणि कमलासद्मानि पद्माकरे पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु का वा नुतिः । तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः ॥ २८ ॥

किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता
वन्द्योऽयं विभुरम्भसां समभवद्रत्नं यतः कौस्तुभः ।
चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे
यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः ॥ २९ ॥

नानन्दं मुचुकुन्दकुड्मलकुले नो केतके कौतुकं
नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते ।
चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां सरन्मालतीं
किं त्वारते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः ॥ ३० ॥

अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः
प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः ।
तत्ते कालं कतिपयमयं भाति खद्योतपोतं
द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः ॥ ३१ ॥

पुष्पोत्करेषु च फलेषु च सावलेप-
स्त्वं कन्दलेषु च दलेषु च सावहेलः ।
किं मुग्ध दग्धमकरोः सुरभेरगार-
मङ्गारकार सहकारमकारणेन ॥ ३२ ॥

याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे
मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः ।
तन्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका
चङ्गं तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम् ॥ ३३ ॥

लीनः क्ष्माधरकंदरासु रचयन्क्वापि स्थितिं भङ्गुरै-
रडैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः ।
प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं
गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम् ॥ ३४ ॥

एताः केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता
मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च ।
किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-
लीलालिङ्गनयोग्यमुग्रगरलग्रामः फणिग्रामणीः ॥ ३५ ॥

सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां
नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम् ।
वारंवारमुदारवारणरणव्यापारपारंगमो
दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः ॥ ३६ ॥

यत्केलिमन्थरमरालमरालबाल-
शेवालकोमलमलं विमलं मृणालैः ।
तत्पश्य शुष्यति सरः प्रसरत्तुषार-
रुद्धं विरुद्धविधिरेव विधिः किमन्यत् ॥ ३७ ॥

त्त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो
रोलम्बाकुलकम्प्रकुड्मलकुलक्लान्तो न कः केतकः ।
दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै-
र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः ॥ ३८ ॥

रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः
क्ऌप्तो बालैर्बहुलमुकुलैः केलिकर्णावतंसः ।
तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः
स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः ॥ ३९ ॥

वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-
मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम् ।
देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः
पश्योदेति समुद्र मुद्रिततमस्तोमस्तमीवल्लभः ॥ १० ॥

यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार-
स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः ।
तत्ते पाथः पवनजनितोत्तालकल्लोलजालं
ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन ॥ ११ ॥

निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः
संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः ।
किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते
किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः ॥ ४२ ॥

नासीरद्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनै-
र्निःस्यन्दैः सह वालवालवलये युक्तो निषेकक्रमः ।
आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः
संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः ॥ ४३ ॥

केलिं कल्पय कोलेबाल लवलीवल्लीदलान्याहर-
न्नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम् ।
म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चितः पञ्चतां
युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः ॥ ४४ ॥

कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुद्रितं
यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः ।
तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-
भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि कोऽयं क्रमः ॥ ४५ ॥

खेलद्बालमृगाङ्कमौलिरमणीदोःकन्दलान्दोलिते ।
पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः ।
हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्बकालम्बिनि
भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः ॥ ४६ ॥

अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-
र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः ।
एषा वैकटिक स्फुटैव पुरतः सा पामराणां पुरी
यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः ॥ ४७ ॥

यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां
धत्ते धैर्यधुरां जगत्त्रयजयस्मेरः स येन स्मरः ।
तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं
नाघ्रातं न निरूपितं न कलितं नोदञ्चितं नोम्भितम् ॥ ४८ ॥

यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः
को वैरिञ्चविमानहंस भवतस्तस्मिन्निवासग्रहः ।
यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्बिन्दुनि
स्वच्छन्दं तव सिद्धसिन्धुसलिले तत्रोचिताः केलयः ॥ ४९ ॥

वापीं दूरे किरति कुरुते नो मृणालीषु लीलां
नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम् ।
किं तु क्लान्तिं वहति नलिनीनाललग्नाग्रकण्ठः
क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः ॥ ५० ॥

शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-
रस्फोटि स्फटिकामल: करटिनां यस्मिन्नवाप्तोदये ।
तं दृष्ट्वैव कुंरङ्गकेतनमहो मुग्धः स दुग्धाम्बुधिः
किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोःकन्दलः ॥ ५१ ॥

तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो
यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात् ।
युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्त्रान्ङ्कुरे
त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम् ॥ ५२ ॥

कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति
प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत् ।
तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं
कंदर्पकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥ ५३ ॥

कंदर्पैककृपाणवल्लरि वने कस्मादकस्मादियं
हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः ।
सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः
कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः ॥ ५४ ॥

लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः
कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः ।
सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो
हन्त स्वान्तं मृगमदरसे पामरा नार्पयन्ति ॥ ५५ ॥

ऊढापि द्युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो
मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते ।
तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकषं
मुग्धे जाड्यनिधिं मुधा जलनिधिं यातासि चित्राः स्त्रियः ॥ ५६ ॥

नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं
कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः ।
पाने मज्जनकर्मनर्मणि तथा बाह्यैरलं वारिधे
कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः ॥ ५७ ॥

कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां
यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः ।
अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः
पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ॥ ५८ ॥

एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये
मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।

यस्मिन्गौरीपृथुकुचतटीकुङ्कुमस्थासकाङ्के
येन स्थाणोरुरसि रहितो हारवल्लीविलासः ॥ ५९ ॥

यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरद्रुमै-
रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति ।
तसिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः
सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः ॥ ६० ॥

द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः
क्रीडाताण्डवडम्बरः शिखिकुलैः केकारवव्याकुलैः ।
उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि
प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः ॥ ६१ ॥

चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं
सङ्गं दूरीकुरु कुरबके केतके मा निषीद ।
लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-
र्यत्ते दैवात्परिसरगतः पारिजातः स जातः ॥ ६२ ॥

पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-
च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः ।
माद्यन्मेदुरर्दुरं बककुलैरप्याकुलं सेव्यते
तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः ॥ ६३ ॥

ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः
पाथोधाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः ।
यन्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त-
त्पश्य स्वादु च हारदामशुचि च क्षारायते ते पयः ॥ ६४ ॥

ये तावन्ति पयःपृषन्ति जलदादत्यन्तमुत्कण्ठिता
याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते वर्हिणः ।

यः शूलाङ्कशिरःशशाङ्ककलिकापीयूषवर्षेऽप्यहो
नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः ॥ ६५ ॥

मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं
मल्लीलीलां सरसिजरसं केतकीकौतुकं च ।
जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां
कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः ॥ ६६ ॥

उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि
व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे ।
यासि क्वापि मरालबालक बकक्रौञ्चाविले पल्वले
सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः ॥ ६७ ॥

अङ्गाट्टङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं
सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम् ।
उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं
जाने तामनुकर्तुमाननगतां भङ्गी कुरङ्गीदृशः ॥ ६८ ॥

आनीतैरिषुकार कारणमिह श्लाघ्यैः किमेभिः शरैः
प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि ।
दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं
धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ६९ ॥

यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो
यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः ।
तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर
त्वं मेनाक जवाज्जले जलनिधेर्मज्जन्न किं लजितः ॥ ७० ॥

त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-
न्कह्लारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम् ।

शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-
स्तैर्मल्लीमुकुलैरमीलि दहनक्लान्ते वनान्ते यतः ॥ ७१ ॥

कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं
निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः ।
सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा
पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः ॥ ७२ ॥

येन प्राप्तः सुरभितककुप्कंदरः कोऽप्युदारो
मन्दारोऽपि भ्रमररमणीदत्तरागः परागः ।
स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-
दस्सिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत् ॥ ७३ ॥

यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि
न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः ।
एतत्किं तु कथं सहेमहि महद्दुःखं यदत्रामुना
निःशङ्कं कलितः शशाङ्ककलिकापीयूषपानोत्सवः ॥ ७४ ॥

दृष्टाश्चम्पकसंपदो विचकिलश्रेणी गता गोचरं
प्राप्तं केतकधाम कैरववनं दृष्टं विमृष्टं च तत् ।
सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा
साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः ॥ ७५॥

बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः
कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्त्राङ्कुरः ।
तत्किंचिन्नयनाञ्जनं रतिपतिह्लादप्रदा सा गति-
स्तन्मुग्धं हसितं सदामृतरसं मुञ्चन्कुतः पञ्चमः ॥ ७६ ॥

मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं
मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः ।
स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः
कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः ॥ ७७ ॥

हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं
वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः ।
किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः
सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः ॥ ७८ ॥

लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते
निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह ।
कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली
छाया सैव स एव सौरभभरस्ता एव पुष्पश्रियः ॥ ७९ ॥

कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा
झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे ।
दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ
हेलैव प्लवगप्रभोः कृतजगत्पारिप्लवो विप्लवः ॥ ८० ॥

मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे
चूडामूले सितकरकले कल्पितोऽयं निवासः ।
यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं
तत्रोन्मीलद्वकुलकलिकाकोमलं तान्तिमेति ॥ ८१ ॥

वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं
दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम् ।
तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-
प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः ॥ ८२ ॥

कैलासः क्वचिदुद्वहन्नपि पुरारातिं यदप्यायता-
मूर्वीमेष बिभर्ति सागरसरिद्गुर्वी गिरिग्रामणीः ।
लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे
चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः ।। ८३ ॥

लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां
केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः ।

मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां
विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः ॥ ८४ ॥

हंस भ्राम्यदनेकमेकशबले पङ्काविले पल्वले
युक्तास्ते किमसारवारिणि रणत्क्रौञ्चाकुले केलयः ।
तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं
वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः ॥ ८५ ॥

कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी
तं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः ।
एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां
यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः ॥ ८६ ॥

लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं
यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः ।
तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-
र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः ॥ ८७ ॥

यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं
यस्य स्यात्कुचकुड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम् ।
नेदं तस्य जनैकनन्दन सहे हे चन्दन क्वापि ते
मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः ॥ ८८ ॥

बालैः पञ्चशरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः
शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्ककारः स्मरः ।
सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके
तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः ॥ ८९ ।।

मुग्धा वृथा कुमुदिनीरमणे चकोराः
को राग एष जडिमाग्लपिता मतिर्वः ।

एतन्न पश्यथ मुखं मदिरेक्षणानां
यस्मिन्स किंकरति कैरविणीकुटुम्बः ॥ ९० ॥

न कुन्दं सामोदं जनयति मुदं नैव कुमुदं
न सारं कह्लारं कुसुमतिलकं नैव तिलकम् ।
उदात्तं निर्धूतं न च कमलमावर्जकमलं
तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम् ॥ ९१ ॥

निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः
शेवालैर्बिसकन्दलैरविरलैर्बालैर्मृणालीदलैः ।
हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं
लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः ॥ ९२ ॥

वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां
खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः ।
व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-
दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः ॥ ९३ ॥

कंचित्कालं नय गिरिगुहागह्वरे रे मुधैव
क्रीडन्हालाहलरसलसद्दर्प मा सर्प सर्प ।
माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले
येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥ ९४ ॥

चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे
कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु यत्कौतुकम् ।

किं कुर्मस्तदमुत्र पामरपुरे सैरंध्रि दूरेऽस्तु ते
वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम् ॥ ९५ ॥

यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-
माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः ।
तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं
नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः ॥ ९६ ॥

माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं
मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव ।
तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर
स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम् ॥ ९७ ॥

अम्भोजैर्गलितं तटैर्विघटितं हंसैर्द्रुतं विद्रुतं
वापीभिर्विरतं पुरैव पतितैरद्याविलैस्त्वज्जलैः ।
हा घिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे
प्रारब्धोऽयमतानवैरभिनवैर्वारिप्लवैर्विप्लवः ॥ ९८ ॥

तापातङ्कं कलय विलयं याहि हे दुर्निवारं
वारं वारं विगलितगतिर्नेह दाहं सहेथाः ।
दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो
नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः ॥ ९९ ॥

यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां
तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः ।
साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया
पौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः ॥ १०० ॥

लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरं
किं च क्रौञ्चवचःप्रपञ्चविरसं दैवादिदं ते सरः ।
तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-
लीलाचङ्क्रमणक्रमानुकरणोद्युक्ता च युक्ता गतिः ॥ १०१ ॥

उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका
नास्मिन्कोमलकुड्मला विचकिला नोद्दीपकाश्चम्पकाः ।
तत्किं मुग्ध मुधैव दग्धसिकतागर्भः सदर्भो मरो
र्मार्गः पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः ॥ १०२ ॥

वार्ता यत्र न शेखरेषु न तथा धम्मिल्लमाल्यप्रथा
कर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः ।
तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते
स्वात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः ॥ १०३ ॥

एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-
रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः ।
केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि
द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥ १०४ ॥

साश्चर्याः सरसाश्च सन्ति सरितः पाथःपतिप्रेयसि
क्षोणी विभ्रमवैजयन्ति तदपि त्यां ताम्रपर्णि स्तुमः ।
स्वच्छे निर्जितनारिकेलसलिलस्वादिम्नि यद्वारिणि
प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः ॥ १०५ ॥

इयं यदि रदच्छदच्छविरपाटला पाटला
नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम् ।
किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः
कव न भ्रमरयोषितां गलदहंकृतिहुंकृतिः ॥ १०६ ॥

उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी
हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे
पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ १०७ ॥

या लक्ष्मीः सरकार्मुके स्फुरति या बाले प्रवाले रुचि-
र्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिते विभ्रमः ।

या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टुं तदेकत्र चे-
च्चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रवः ॥ १०८ ॥

इति महाकविश्रीशंभुमिश्रकृतान्योक्तिमुक्तालता समाप्ता ।