अन्योक्तिमुक्तावली
काव्यमाला ८८.
हंसविजयगणिसमुच्चिता
अन्योक्तिमुक्तावली ।
जयपुरमहाराजाश्रितेन महामहोपाध्यायपण्डितश्रीदुर्गाप्रसाद-
तनयेन पण्डितकेदारनाथेन, मुम्बापुरवासिना पणशी-
करोपाह्वलक्ष्मणतनुजनुपा वासुदेवशर्मणा च
संशोधिता ।
सा च
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीता ।
१९०७
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते-
रेवाधिकारः ।)
मूल्यमेको रूप्यकः ।
विषयानुक्रमः।
|
|
|
|
|
|
अन्योक्तिमुक्तावल्याः शुद्धिपत्रम् ।
|
|
काव्यमाला ।
श्रीहंसविजयगणिसमुच्चिता
अन्योक्तिमुक्तावली ।
प्रथमः परिच्छेदः ।
- [१]ॐ नमः शाश्वतानन्दसिद्धिसंतानदायिने ।
- श्रीशङ्खेश्वरसत्पार्श्वतीर्थाधीशायतायिने ॥ १ ॥
- यस्योत्तमाङ्गके सप्त फणा रेजुः फणाभृतः ।
- किमु मन्ये सप्ततत्त्वपादपानां नवाङ्कुराः ॥ २ ॥
जयश्रियं यच्छतु पार्श्वदेवः सदेव निर्मापितपादसेवः ।
फणामिषाद्येन विदीर्णवादिस्मया नयाः सप्त धृताः स्वमौलौ ॥ ३ ॥
स्फुटाः स्फटाः सप्त विभान्ति यस्य रुचिप्रपञ्चोपचिताः सुमौलौ ।
जित्वेव सप्तापि [२]कुलाचलान्किं धैर्येण पर्युन्नमिताः पताकाः ॥ ४ ॥
यत्पार्श्वदेवः समभीप्सितानि प्रदानतो भूवलयेऽत्र कामम् ।
वृन्दारकक्षोणिरुहामुपैति सवर्णतां स प्रभुरस्तु सिद्ध्यैः ॥ ५ ॥
यः पार्श्वशंभुर्जयसौख्यलक्ष्मीसमर्पणे देवगणेः समत्वम् ।
धत्ते जगज्जन्तुगणैर्निकामं जेगीयमानप्रबलप्रभावः ॥ ६ ॥
- श्रेयः श्रियं वितनुतां त्रिशलातनूजः
- शिश्राय यं जिनवरं प्रणयान्मृगारिः ।
- प्राणिप्रवासनसमुत्थसमग्रपाप-
- व्यापापनोदकृतये किमु लक्ष्मलक्ष्यात् ॥ ७ ॥
- श्रेयः श्रियं वितनुतां त्रिशलातनूजः
शिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम् ।
स्तम्बेरमारातिरवाप्तवान्किं मृगेन्द्रतां यत्पदपर्युपास्तेः ॥ ८ ॥
श्रीवर्धमानः स्तात्सिद्ध्यै वर्धमानसुखप्रदः ।
सिद्धार्थसार्थसिद्धार्थवंशे मुक्तामणिप्रभः ॥ ९ ॥
चि[३]दानन्दद्रुकन्दाय सर्वातिशयशालिने ।
नमः सर्वज्ञसङ्घाय तमःस्तोमांशुमालिने ॥ १० ॥
भाषा सुभाषां मे दद्याद्भूरिभूषणभासुरा ।
सिन्दूरपूरन्यत्कारकारिहारिकराम्बुजा ॥ ११ ॥
श्रीइन्द्रभूतिं वसुभूतिभूतं पृथ्वीसुतं भूमिपतिप्रपूज्यम् ।
श्रीगौतमाख्यं गणधारिमुख्यं वन्दे लसल्लब्धिसुलक्ष्मिगेहम् ॥ १२ ॥
शत्रुंजयादिसत्तीर्थकरमोचनकारकम् ।
प्रतिवत्सरषण्मासजीवामारिप्रवर्तकम् ॥ १३ ॥
श्रीवर्धमानसर्वज्ञसमानमहिमाम्बुधिम् ।
श्रीहीरविजयाह्वानसूरीन्द्रं समुपास्महे ॥ १४ ॥ (युग्मम्)
श्रीमत्सुसाधुश्रीवन्तनन्दनं जननन्दनम् ।
तपागणपयोजन्मपयो जन्म सुहृत्त्विषम् ॥ १५ ॥
सूरि[४]श्रीविजयानन्दगुरुं गुरुगुणैर्गुरुम् ।
सौभाग्यभाग्यवैराग्यपरभागनिधिं स्तुवे ॥ १६ ॥ (युग्मम्)
श्रीसोमसोमविजयाभिधवाचकनायकम् ।
रङ्गद्वैराग्यसद्रङ्गरञ्जिताङ्गमुपास्महे ॥ १७ ॥
ते सज्जनाः किल भवन्तु मम प्रसन्ना
ये प्रीणयन्ति [५]जगतीजनतामनांसि ।
- शश्वत्परोपकृतिकर्मपरा वचोभि-
- र्वारांभरैर्घनघटा इव काननानि ॥ १८ ॥
- कर्णेजपा अपि सदा कुटिलस्वभावा
- दुष्टाशया निरभिसंधितवैरिभूताः ।
- सौहार्दहृष्टहृदया मयि सन्तु येषां ॥ १९ ॥
- जिह्वापटुर्विनिमयेषु गुणा गुणानाम्
- किं वानया पिशुनया च न यापि मे स्या-
- न्मां स्वीकरोति यदि साधुजनो गुणज्ञः ।
- पूर्णेन्दुना कुवलयं प्रतिबोधितं स-
- त्संमीलितं भवति किं तमसो वितानैः ॥ २० ॥
- श्रीमत्तपागणनभोङ्गणभासनैक-
- भास्वत्प्रभाभरसुभासुरभव्यभानोः ।
- संदृभ्यते विजयराजगुरोर्नियोगा-
- न्मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥ २१ ॥
शास्त्राम्बुराशेरधिगम्य रम्यश्रीमद्गुरोरानननीरजाच्च ।
अन्योक्तिमुक्ता जनरञ्जनाय मुक्तावलीयं क्रियतेऽभिरामा ॥ २२ ॥
यद्यस्ति व्याख्यानसमाजमध्ये स्थातुं च वक्तुं हृदयं प्रकामम् ।
निधाय कण्ठे विशत प्रबुद्धा मुक्तावलीं मौक्तिकमालिकावत् ॥ २३ ॥
दोषैरदुष्टां सुगुणैर्गरिष्ठां सद्वृत्तमुक्ताफलजालजुष्टाम् ।
परिस्फुरच्चारुविचित्रवर्णां विशञ्चितां चित्रकरीं कवीनाम् ॥ २४ ॥
- (युग्मम्)
- अथ मूलद्वारवृत्तानि ।
- अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
- अन्योक्तिसूक्तमुक्तालीं समुद्धृत्य श्रुताम्बुधेः ॥ २५ ॥
- देवाः पूर्वपरिच्छेदे द्विधा पञ्चेन्द्रियाः पुनः ।
- स्थलाम्बुसंभवाः सर्वे तिर्यञ्चश्च द्वितीयके ॥ २६ ॥
खगात्पञ्चाक्षतिर्यञ्चः परिच्छेदे तृतीयके ।
त्रिधा तुर्यपरिच्छेदे ज्ञेया च विकलेन्द्रियाः ॥ २७ ॥
पृथिवीकायिका जीवाः परिच्छेदे च पञ्चमे ।
जलाग्निवायवः षष्ठपरिच्छेदे बुधैर्मताः ॥ २८ ॥
सर्वे वनस्पतिकायाः समाख्याताश्च सप्तमे ।
अष्टमे मरुस्थल्युक्तिः संकीर्णोक्तिस्तथा स्मृता ॥ २९ ॥
अथ प्रतिद्वारवृत्तानि ।
तत्रादिमपरिच्छेदे सुबोधार्थं विशेषतः ।
वक्ष्यन्ते प्रतिद्वाराणि प्रोद्यन्मोदप्रदानि च ॥ ३० ॥
सूर्यस्यान्योक्तयः पूर्वं सामान्येन्दुसदुक्तयः ।
वलक्षपक्षप्रतिपच्चञ्चच्चन्द्रमसूक्तयः ॥ ३१ ॥
द्वितीया द्विजराजोक्ती राकारात्रिकरोक्तयः ।
शनेरन्योक्तिराख्याता ग्रहान्योक्तिस्ततः परम् ॥ ३२ ॥
ईश्वरान्योक्तयस्तद्वदिन्दिरान्योक्तयः पुनः ।
सामान्यनीरदान्योक्तिरकारजलदोक्तयः ॥ ३३ ॥
प्रकाशाम्भोधरान्योक्तिरगस्त्युक्तिर्ध्रुवोक्तयः ।
कल्पद्रुमोक्तयो ज्ञेया पारिजातोक्तयोऽपराः ॥ ३४ ॥
अथ देवाधिकारपद्धतौ प्रथमं सूर्यान्योक्तयः ।
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३५ ॥
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयाग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ३६ ॥
[६]खद्योतो द्योतते तावद्यावन्नोदयते शशिः ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ३७॥
- करान्प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
- न केवलमनेनात्मा दिवसोऽपि लघुकृतः ॥ ३८ ॥
- यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य ।
- नित्यं प्रसारितकरः करोति सूर्योऽपि परितापम् ॥ ३९ ॥
- उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
- संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ४० ॥
- निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।
- तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ४१ ॥
एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।
सौरभ्यं विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमामनन्ति ॥ ४२ ॥
- देवो हरिर्वहतु वक्षसि कौस्तुभं तं
- मन्ये न काचन पुनर्द्युमणेः प्रतिष्ठा ।
- यत्पादसंगतितरङ्गितसौरभाणि
- धत्ते स एव शिरसा सरसीरुहाणि ॥ ४३ ॥
- देवो हरिर्वहतु वक्षसि कौस्तुभं तं
यो भृङ्गानां क्लिश्यतां पद्मकोशकारागारे मोक्षमर्कश्चकार ।
तन्मालिन्यादेव नोपेक्षतेऽसौ प्रायः साधुः सर्वलोकोपकारी ॥ ४४ ॥
- अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।
- मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ४५ ॥
- उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
- नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
- रचयतितरां स्वैराचारप्रवर्तनकर्तनं
- बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ४६ ॥
- आगत्य संप्रति वियोगविसंस्थुलाङ्गी-
- मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
- एतां प्रसादयति पश्य शनैः प्रभाते
- तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ ४७ ॥
- धिष्ण्या निरेकि मुनिजोदयगर्जितानि
- दोषाबलेन शशलाञ्छनलालितानि ।
- प्रातः स एव समुदेष्यति चण्डभानु-
- र्यस्योदयेन रजनिर्न विधुर्न यूयम् ॥ ४८ ॥
- उद्यन्त्वमूनि सुबहूनि महामहांसि
- चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
- सूर्यादृते न तदुदेति न चास्तमेति
- येनोदितेन दिनमस्तमिते च रात्रिः ॥ ४९॥
- उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जग-
- च्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।
तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो
- यद्बध्नाति दृशं शशाङ्कशकलालोके प्रदीपेऽथवा ॥ ५० ॥
पातः पूष्णो भवति महते नोपतापाय यस्मा-
- त्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।
एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभि-
- स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥ ५१ ॥
- गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरह-
- व्यथाश्चन्द्रो नेष्यत्यनुचितमतो नास्ति किमपि ।
- इदं चेतस्तापं जनयतितरामत्र यदमी
- प्रदीपाः संजातास्तिमिरहतिबद्धोद्भुरशिखाः ॥ ५२ ॥
- यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यत-
- स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि ।
- खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं
- घूकैरुत्थितमाः किमत्र करवै किं केन नो चेष्टितम् ॥ ५३ ॥
ध्वान्तं ध्वस्तं समस्तं विरहविगमनं चक्रवाकेषु चक्रे
- संकोचं मोचितं द्राग्वरकमलवनं धाम लुप्तं ग्रहाणाम् ।
संप्राप्तोऽर्थो जनेभास्तदनु च निखिला येन भुक्ता दिनश्रीः
संप्रत्यस्तंगतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥ ५४ ॥
पूर्वाह्णे प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः
कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा ।
मध्याह्ने सरितां जलं प्रविसृतैरापीय दीप्तैः करैः
सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥ ५५॥
येनोदितेन कमलानि विकासितानि
तेजांसि येन निखिलानि निराकृतानि ।
येनान्धकारनिकरप्रसरो निरुद्धः
सोऽप्यस्तमाप हतदैववशाद्दिनेशः ॥ ५६ ॥
ताटङ्कं किमु पद्यरागरचितं प्राचीकुरङ्गीदृशः
शच्याः कीडनकन्दुकः सुरसरित्प्रोत्फुल्लरक्तोत्पलम् ।
रागः कोकयुगस्य किं दिनमहीपालस्य सिंहासनं
ध्वान्तानेकपकुम्भपाटनपटुः कण्ठीरवः किं रविः ॥ ५७ ॥
दक्षिणां सुतवधूं गतो रविः कालतो गतरुचिस्ततोऽभवत् ।
तत्प्रमार्ष्टुमिव पातकं महन्मन्दमेति शिवसन्निधिं दिशम् ॥ ५८ ॥
न्याय्यं यत्तमसः समूलहननं भास्वंस्त्वया तन्यते
नैतच्चारुतरं स्वजातिसकलज्योतींषि मुष्णासि यत् ।
युक्तं वाखिललोकमस्तकपदं व्याधातुमिच्छोर्यतः
किं तेजः किमु पूर्णताक उदयः स्वल्पे परे जीवति ॥ ५९ ॥
(इति सूर्यान्योक्तयः ।)
अथ सामान्यचन्द्रान्योक्तयः ।
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।
कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६० ॥
देवाद्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः ।
तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ ६१ ॥
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् ।
परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ६२ ॥
हरमुकुटे सुरतटिनीनिकटस्थितिलोभतो द्विजेन्द्रेण ।
अपि गरलं फणिफूत्कृतिरीक्षणतीक्ष्णाशुशुक्षणिः क्षान्तः ॥ ६३ ॥
शिरसा धार्यमाणोऽपि सोमः सोमेन शंभुना ।
तथापि कृशतां धत्ते कष्टं खलु पराश्रयः ॥ ६४ ॥
व्यज्यमानकलङ्कस्य वृद्धौ वृद्धौ कलानिधेः ।
आशास्महे वयं पूर्वां सर्वश्लाघ्यां कृशां दशाम् ॥ ६५ ॥
यद्यपि शिरोऽधिरोहति रौद्रः क्रोधेन सिंहिकासूनुः ।
त्यजति न शरणायातं सागरसूनुर्मृगं तदपि ॥ ६६ ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरतः ।
उपैति मित्राद्यच्चन्द्रो युक्तं तन्मलिनात्मनः ॥ ६७ ॥
परविषयाक्रमणकलाकलाधरस्यैव विषयमायाति ।
रजनिपतिर्भजति दिनं दिवसपतिर्भजति नो रजनीम् ॥ ६८ ॥
विरम तिमिर साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् ।
कलयसि न पुरो महोमहोर्मिद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ ६९ ॥
रुचिमानुडुपरिवारवृतो यो राजेव रराज ।
एको विरुचिर्दिवसवशात्स भ्रमति द्विजराजः ॥ ७० ॥
नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः ।
त्यजसि न मृगमात्रमेकमिन्दो विरमति येन कलङ्ककिंवदन्ती ॥ ७१ ॥
अये विधातस्तव कीदृशी रुचिर्यदीप्तिमन्तं कलुषीकरोषि ।
किमागतं तेन करे तवायं कृतः कलङ्काकुलितः कलावान् ॥ ७२ ॥
प्रकुर्वता संगतिमिन्दुनामुना किं किं न लब्धं परमेश्वरेण ।
कलङ्कहानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चैः ॥ ७३ ||
दोषाकरोऽपि कुटिलोऽपि कलङ्कितोsपि
मित्रावसनसमये विहितोदयोऽपि ।
चन्द्रस्तथापि हरवल्लभतामुपैति
नैवाश्रितेषु गुणदोषविचारचिन्ता ॥ ७४ ॥
यदपि जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके ।
तदपि तात पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ७५ ॥
उडुगणपरिवारो नायकोऽप्यौषधीना-
ममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः
परसदननिविष्टः को न धत्ते लघुत्वम् ॥ ७६ ॥
इन्दुर्यद्युदयाद्रिमूर्ध्निं न भवत्यद्यापि तन्मा स्म भू-
न्नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः ।
अध्यक्ष्णोर्मुद मुगिरन्ति कुमुदैरामोदयन्ते दिशः
संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तुं प्रकाशिष्यते ॥ ७७ ॥
अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
गोद्यन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-
त्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ७८ ॥
प्रथममरुणच्छा यस्तावत्ततः कनकप्रभ-
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ ७९ ॥
यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा-
मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता ।
अयं कः संबन्धो [७]यदनुहरते तस्य कुमुदं
विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥ ८० ॥
पीतः पीतपयोधिनाभिमथितः पृथ्वीभृतां स्वामिना
बद्धश्चावनिनन्दिनीप्रणयिना कल्लोलिनीवल्लभः ।
नेन्दुः प्राप तथापि पानमथनाबन्धव्यथां तद्गतः
सत्यं स्यादसुखक्षणेऽपि हि सुखी नूनं कलावान्पुमान् ॥ ८१ ॥
नक्षत्राणि बहूनि सन्ति परितः पूर्णोदयान्यम्बरे
किं तैः शान्तिमुपैति दीर्घतिमिरं किं वाब्धिरुज्जृम्भते ।
किं स्यादार्तचकोरपारणमिदं भ्रातः सुधादीधिते
त्रैलोक्यप्रकटप्रतापशमनः श्लाघ्यस्तवैवोदयः ॥ ८२ ॥
क्षीणश्चन्द्रो विशति तरणेर्मण्डलं मासि मासि
लब्ध्या कांचित्पुनरपि कलां दूरदूरानुवर्ती ।
संपूर्णश्चेत्कथमपि तदा स्पर्धयोदेति भानो-
र्नो दौर्जन्याद्विरमति जडो नापि दैन्याव्द्यरंसीत् ॥ ८३ ॥
येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते
युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः ।
क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मना-
गस्त्वेवं जलधामता तु भवतो यव्द्योम्नि विस्फूर्जसे ॥ ८४ ॥
उत्पत्तिः पयसांनिधेर्वपुरपि ख्यातं सुधामन्दिरं
स्पर्धन्ते बिसबालतालसरला हारावलीमंशवः ।
कान्ताकैरविणी तव प्रियसखः शृङ्गारसारः स्मरो
हंहो चन्द्र किमत्र तापजननं तापाय यन्मे भवान् ॥ ८५ ॥
यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि य-
द्विश्वस्योदरदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः ।
भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया
राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ८६ ॥
लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः
स्थित्यर्थं परमेश्वरोऽभ्युपगतस्तेनापि मूर्ध्ना धृतः ।
वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत
प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ ८७ ॥
पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरो-
र्येनाक्रान्तं क्षपिततमसा मध्यमं धाम विष्णोः ।
सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-
र्दूरारोहो भवति महतामप्यवभ्रंशहेतुः ॥ ८८ ॥
पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
प्लुष्टं भानुकरैरिदं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति ।
सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो
धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ८९ ॥
धवलयति समग्रं चन्द्रमा जीवलोकं
किमिति तिजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवतु विदितमेतत्प्रायशः सज्जनानां
परहितनिरतानामादरो नात्मकार्ये ॥ ९० ॥
न चन्द्रमाः प्रत्युपकारलिप्सया करोति भाभिः कुमुदावबोधनम् ।
स्वभाव एवोन्नतचेतसामयं परोपकारव्यसनं हि जीवितम् ॥ ९१ ॥
दिनकरतापव्यापप्रपन्नमूर्छानि कुमुदगहनानि ।
उत्तस्थुरमृतदीधितिकान्तिकलासेकतस्त्वरितम् ॥ ९२ ॥
निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निःफलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ९३ ॥
उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः
शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।
यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ९४ ॥
अथ शुक्लप्रतिपच्चन्द्रस्य ।
त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं
ग्रहकिसलयं संध्यानारीनितम्बनखक्षतम् ।
तिमिरभिदुरं व्योम्नः शृङ्गं मनोभवकन्दुकं
प्रतिपदि नवस्येन्दोर्बिम्बं सुखोदयमस्तु वः ॥ ९५ ॥
अथ द्वितीयाचन्द्रस्य ।
ॐकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुर-
स्तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।
शृङ्गारार्गलकुञ्चिका विरहिणीमर्मच्छिदा कर्तरी
संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ॥ ९६ ॥
अथ पूर्णिमाशशधराम्योक्तयः ।
प्राचीभागे सरागे धरणिविरहिणीक्रान्तमुद्रे समुद्रे
निद्रालौ नीरजालौ कृतमुदि कुमुदे निर्विकारे चकोरे ।
आकाशे सावकाशे तमसि शममिते कोकलोके सशोके
कन्दर्पेऽनल्पदर्पे विकिरति किरणाञ्शर्वरीसार्वभौमः ॥ ९७ ॥
निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्क |
सुचिरं हन्त न सहते हतविधिरिह सुस्थिरं कमपि ॥ ९८ ॥
सोलकलासंपुण्णो गद्यं मा वहसि पुन्निमाचन्दो ।
दीसेसि बीयदिवसे सारिच्छो वलयखण्डस्स ॥ ९९ ॥
अथ शनेः ।
[८]न म्लापितान्यखिलधामवतां मुखानि
नास्तं तमो न च कृता भुवनोपकाराः ।
सूर्यात्मजोऽहमिति केन गुणेन लोका-
न्प्रत्याययिष्यसि शने शपथैर्विना त्वम् ॥ १०० ॥
अथ ग्रहगणस्य ।
ददृशेऽपि भास्कररुचाहि न यः स तमीं तमोभिरभिगम्य तताम् ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ १०१ ॥
अथेश्वरान्योक्तयः ।
तावत्सप्तसमुद्रमुद्रितमहीभूभृद्भिर भ्रंकषै-
स्तावद्भिः परिवारिता पृथुतरैर्द्वीपैः समन्तादियम् ।
यस्य स्फारफणामणौ निलयिनी तिर्यक्कलङ्काकृतिः
शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः ॥ १०२ ॥
त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां
व्यालैः कङ्कणभूषणानि तनुषे हानिर्न हेम्नामपि ।
मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयी-
दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ १०३ ॥
बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने
कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।
धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं
स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोऽस्ति तद्ग्राहकः ॥१०४॥
छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि
क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।
सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः
कं सेवे करवाणि किंतु जगती शून्या त्वमेवेश्वरः ॥ १०५ ॥
अथ लक्ष्म्यन्योक्तयः ।
तापापहे सहृदये रुचिरे प्रबुद्धे
मित्रानुरागनिरते धृतसद्गुणौघे ।
स्वाङ्गप्रदानपरिपूरितषट्पदौघे
युक्तं तवेह कमले कमले स्थितिर्यत् ॥ १०६ ॥
रत्नाकरस्तव पिता स्थितिरम्बुजेषु
भ्राता सुधामयतनुः पतिरादिदेवः ।
केनापरेण कमले बत शिक्षितानि
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ १०७ ॥
वारां राशिरसौ प्रसूय भवतीं रत्नाकरत्वं गतो
लक्ष्मि त्वत्पतितासवाप्य सुरजिज्जातस्त्रिलोकीपतिः ।
कन्दर्पो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभू-
त्सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्त्वस्थितिः ॥ १०८ ॥
लक्ष्मि त्वत्करुणाकटाक्षनिबिडां प्रीतिं विनाब्जालये
नोद्वाहो न च मङ्गलानि भविता भूवन्विभूनामपि ।
पश्यैतद्धरिरेष यादवगणास्तत्पुत्रपौत्राण्यहो
दारैः संयुजिरे हरो न तनयं ब्रह्मापि न स्वां सुताम् ॥ १०९ ॥
लक्ष्मि क्षमस्व वचनीयमिदं दुरुक्त-
मन्धा भवन्ति पुरुषास्त्वदुपाश्रयेण ।
नो चेत्कथं कथय पन्नगभोगतल्पे
नारायणः स्वपिति पङ्कजपत्रनेत्रः ॥ ११० ॥
हरेः प्रदत्तापि निजेन पित्रा श्यामाङ्गकत्वादपि तं विहाय ।
वव्रे रमा यज्जनमादरेण प्रायो हि रम्यं नरमिच्छति स्त्रीः ॥ १११ ॥
स्त्रैणभूषणमणेः कमलाया यद्वदन्ति चपलेत्यपवादम् ।
दूषणं जलनिधेर्जनिकर्तुर्यत्पुराणपुरुषाय ददौ ताम् ॥ ११२ ॥
लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः ।
बिभ्यती धीवरेभ्यो या जलेष्वेव निमज्जति ॥ ११३ ॥
हरिभामिनि सिन्धुसंभवे कमले देवि तवैष कः प्रचारः ।
अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विलज्जसि ॥ ११४ ॥
चञ्चलत्वकलङ्कं ये श्रियो दधति दुर्धियः ।
ते मूढाः स्वं न जानन्ति निर्विवेकमपुण्यकम् ॥ ११५ ॥
पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरो
नाहं मत्सरिणी न चापि चपला मूर्खस्य नैवार्थिनी ।
मूर्खेभ्यो द्रविणं ददामि विपुलं तत्कारणं श्रूयतां
विद्वान्सर्वजनस्य पूजिततनुर्मूर्खस्य कान्या गतिः ॥ ११६ ॥
हे लक्ष्मि क्षणिके स्वभावचपले धिङ्मूढपापाधमे
न त्वं धीरविशेषमिच्छसि किल प्रायेण दुश्चारिणि ।
ये ये पण्डितसत्यशौचनिरता ये चापि धर्मे रता-
स्तेभ्यो लज्जसि निर्घृणा गतभिये नीचो जनो वल्लभः ॥११७॥
भो लोका मम दूषणं कथमिदं संचारितं भूतले
नोत्सेका क्षणिकातिनिर्घृणतरा लक्ष्मीरतिस्वैरिणी ।
नैवाहं कुलटा न चापि चपला नैवं गुणद्वेषिणी
पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्यार्जनम् ॥ ११८ ॥
गुणिनां गुणमालोक्य निजवन्धनशङ्कया ।
राजंल्लक्ष्मीः कुरङ्गीव दूरं दूरं पलायते ॥ ११९ ॥
तावन्माता पिता चैव तावत्सर्वेऽपि बान्धवाः ।
तावद्भार्या सदा हृष्टा यावलक्ष्मीः स्थिरा गृहे ॥ १२० ॥
सर्वासामपि नारीणां मध्ये श्रीः सुभगा खलु ।
स्पृहयन्ति महान्तोऽपि यां स्वेच्छाचारिणीमपि ॥ १२१ ॥
श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १२२ ॥
तावद्गुणगणकलितस्तावन्निजगोत्रमण्डनं परमम् ।
यावत्करिकर्णचला कमला न त्यजति सत्पुरुषम् ॥ १२३ ॥
पद्मं पद्मा परित्यज्य स्वावासमपि या व्रजेत् ।
दिनान्ते सा कथं नाम परस्थानेषु सुस्थिरा ॥ १२४ ॥
या स्वसद्मनि पद्मेऽपि संध्यावधि विजृम्भते ।
इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम् ॥ १२५॥
धर्मः सनातनो यस्य दर्शनप्रतिभूरभूत् ।
परित्यजति किं नाम तेषां मन्दिरमिन्दिरा ॥ १२६ ॥
मत्वात्मनो बन्धनिबन्धनानि पुण्यानि पुंसां कमला किलासौ ।
तद्ध्वंसनायेव धनेश्वराणां दत्ते मतिं दुर्बलपीडनाय ॥ १२७ ॥
निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते
चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् ।
चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय-
त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥१२८॥
नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-
र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः ।
आमूलं च गुणग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ १२९ ॥
उत्पादिता खलु स्वयं यदि तत्तनूजा
तातेन वा यदि तदा भगिनी खलु श्रीः ।
यद्यन्यसंजगवती च तदा परस्त्री
तत्त्यागबद्धमनसः सुधियस्ततोऽमी ॥ १३० ॥
लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी
संसर्गादिव कण्टकाकुलपदा न क्वापि धत्तेऽन्धताम् ।
चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा
धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ॥१३१॥
काचिद्बालकवन्महीतलगता मूलच्छिदाकारणं
द्रव्येणार्जनपुष्पितापि विफली काचिच्च जातिप्रभा ।
काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता
सर्वाङ्गे सुभगा रसाललतिकावत्पुण्यबीजाङ्किता ॥ १३२ ॥
लक्ष्मीरात्मगृहोद्भवेति तनया पात्रेण दातुः स्वयं
लोकाद्वारिनिधेरिवात्र रुदतः सा गृह्यते जिष्णुना ।
चेत्पाणिग्रहणं विधाप्यत इयं त्यागेन मृत्वा यशः
पुण्यैः क्वापि गतापि वत्सलतया व्यावर्तते तत्पुनः ॥ १३३॥
आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां
मूकत्वं मितभाषितां विदधते मौग्ध्यं भवेदार्जवम् ।
पात्रापात्रविचारसारविरहो गच्छत्युदारात्मतां
मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥१३४॥
समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः
स्वसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः ।
मुरारातेर्योषित्सरसिरुहकिञ्जल्कनिलया
तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥१३५॥
चक्षुःश्रुतिवाग्धरणं लक्ष्मीः कुरुते जनस्य को दोषः ।
गरलसहोअरजाया अच्छरियं जं न मारेइ ॥ १३६ ॥
जुत्तं किवणेण खहुं खणिऊण लङ्घिआ लच्छी ।
कन्हस्स वि अद्धङ्गी सा कीस परङ्गणे भमइ ॥ १३७ ॥
अथ सामान्यमेघान्योक्तयः ।
एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य ।
विश्वं सशैलकाननमाननमालोकते यस्य ॥ १३८ ॥
संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः ।
जलद त्वयि विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ १३९ ॥
क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन ।
ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४० ॥
अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
लम्बिपयोधरभारा प्रावृडियं वृद्धवनितेव ॥ १४१ ॥
कृतकृत्यंमन्यः स्यादरघट्टः क्षेत्रमात्रसेकेऽपि ।
अम्भोधरस्य तु धरां विधुरामुद्धर्तुमधिकारः ॥ १४२ ॥
जलधर जलभरपटलैरुपहर संतोषमुद्धतं जगतः ।
नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १४३ ॥
प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः ।
शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १४४ ॥
[९]यस्याम्बुकणमादाय प्राप्तोऽसि परमोन्नतिम् ।
तस्योपरि पयोराशे गर्जन्मेघ न लज्जसे ॥ १४५ ॥
चातकः स्वानुमानेन जलं प्रार्थयतेऽम्बुदात् ।
स स्वौदार्यतया नित्यं प्लावयत्यम्बुदो महीम् ॥ १४६ ॥
धाराधर धरामेनां धाराभिरभिवर्षसि ।
खगचञ्चुपुटीद्रोणीपूरणे कः परिश्रमः ॥ १४७ ॥
जलधर तदयुक्तं किल जलपटलं यद्ददासि रसितयुतम् ।
उन्नतिभृतां सतां तनुमनसोऽध्वासौ यतस्त्याज्यः ॥ १४८ ॥
गर्ज त्वं यदि गर्जसि जलधर मा गर्ज गर्ज गम्भीरम् ।
निर्दय पथिकवधूजनहृदयस्फोटेन किं लभसि ॥ १४९ ॥
जलधर एवं महत्सु महानिति महतां स्तुतिविषयः ।
यस्तर्पयति समस्तजगत्कतिपयदिवसाभ्युदयः ॥ १५० ॥
यदि यदि सन्ति कथं न सरिद्वापीकूपसरांसि ।
चातक एष पुनः स्पृहयत्यम्बुदभवदम्भांसि ॥ १५९ ॥
श्यामतां वहतु वातु कठोरं वक्तु चार्कविभवं हरतां वा ।
तद्ददौ किमपि वारिधरस्तु प्रीणितानि बत येन जगन्ति ॥ १५२ ॥
जले कजं तिष्ठति चातकः स्थले केकी वने दर्दुरकस्तडागे ।
चत्वारि मित्राणि मुदं वितेनिरे गर्जारवं कुर्वति वारिवाहे ॥ १५३ ॥
यत्त्वद्गजितमूर्जितं यदपि ते प्रोद्दामसौदामिनी-
दानाडम्बरमम्बरे विरचितं यद्दूरमभ्युन्नतम् ।
तेषां पर्यवसानमेतदधुना जातं यदम्भोधर
द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ताः पयोबिन्दवः ॥ १५४ ॥
तृषार्ते पाथोद प्रलपति पुरश्चातकशिशौ
यदेतन्नैष्ठुर्यं तदिह गदितुं मां त्वरयति ।
वियद्वा स्वाधीना किमुत जडता वा परिणता
मरुद्वा नो वास्यत्यथ घन शरद्वा न भविता ॥ १५५ ॥
मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते
मच्छायामिति वा यदन्यविषयं विद्वेष्टि वारीति वा ।
सद्यो वर्ष वराकचातककृते नो चेदयं याचिता
याच्ञाया यदुपेक्षणं च जलद व्रीडाकरं त्वादृशाम् ॥ १५६ ॥
सुखयसि तृषोत्ताम्यत्तालूस्खलद्ध्वनिविह्वलं
कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् ।
जलधर यदा कालात्कोऽपि प्रचण्डसमीरणः
प्रवहति तदा नायं न त्वं न ते जलविन्दवः ॥ १५७ ॥
एतान्यहानि किल चातकशावकेन
नीतानि कण्ठकुहरस्थितजीवितेन ।
तस्यार्थिनो जलद पूरय वाञ्छितानि
मा भूत्त्वदेकशरणस्य बत प्रमादः ॥ १५८ ॥
हे मेघ मानमहितस्य तृषातुरस्य
त्यक्तत्वदन्यशरणस्य च चातकस्य ।
अम्भःकणान्कतिचिदप्यधुना विमुञ्च
नो चेद्भविष्यसि जलाञ्जलिदानयोग्यः ॥ १५९ ॥
जलधर घवोऽष्टाभिर्मासैरुपार्जितजीवनो
यदुपनतवान्विश्वान्याश्वासयन्नमृतद्र्वैः ।
तदियमुदयद्वल्लीपुष्पाकुरच्छलतो दधौ
क्षितिशशिमुखी साहंकारं विभूषणविभ्रमम् ॥ १६० ॥
[१०] तावन्नीतिपरा नराधिपतयस्तावत्प्रजा सुस्थिता
तावन्मित्रकलत्रपुत्रपितरस्तावन्मुनीनां तपः ।
तावन्नीतिसुकीर्तिरीतिविमला तावच्च देवार्चनं
यावत्त्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥ १६१ ॥
शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च
श्रीखण्डेषु विभीतकेषु च तथा पूर्णेषु रिक्तेषु च ।
स्निग्धेन ध्वनिनाखिलेऽपि जगतीचक्रे समं वर्षतो
वन्दे वारिदसार्वभौम भवतो विश्वोपकारिव्रतम् ॥ १६२ ॥
नीहाराकरसारसागरसरित्कासारनीरश्रियं
त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता ।
तस्यैतत्फलितं समुन्नतशिलासंताडनं मस्तके
गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ १६३ ॥
क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः
स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
दुःपूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो
जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ १६४ ॥
अन्योऽपि चन्दनतरोर्महनीयमूर्तेः
सेकार्थमुत्सहति तद्गुणबद्धतृष्णः ।
शाखोटकस्य पुनरस्य महाशयोऽय-
मम्भोद एव शरणं यदि निर्गुणस्य ॥ १६५ ॥
अये वेलाहेलाकुलितकुलशैले जलनिधो
कुतो वारामोघं बत जलद मोघं वितरसि ।
समन्तादुत्तालज्वलदनल[११]कालाकवलित-
क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ १६६ ॥
दूरं नीरं तदपि विरसं जङ्गमा नो लताद्या-
स्तस्मिन्दातर्यपि जलनिधौ को लभेताम्बुबिन्दुम् ।
दानाध्यक्षे त्वयि जलधर क्वापि कुत्रापि शैलाः
शालावन्तोऽमृतनिभजलैस्तर्पिताः सर्व एते ॥ १६७ ॥
मार्गो भूरि मरुर्जलं स्थलभुवि स्वप्नेऽपि नो लभ्यते
तीव्रो वाति समीरणः क्वचिदपि च्छायाभृतो न द्रुमाः ।
अङ्गारप्रकरान्किरन्निव रविर्ग्रीप्मे तपत्यम्बरे
तद्भोः पान्थहिताय पूरय धरां पाथोद पाथोभरैः ॥ १६८ ॥
सक्षारो जलधिः सरांसि वितरन्त्यभ्यागतेभ्यो मितं
गृह्यन्ते सरितश्चिरेण परितोऽप्याधाय बन्धं बलात् ।
ग्राह्यं कूपकतः कथंचन किमप्यारोप्य कण्ठे पदं
तत्त्वां त्यागिनमेकमेव भगवन्पर्जन्य गन्यामहे ॥ १६९ ॥
क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां
प्रताप्योर्वी कृत्स्नां तरुगहनगुच्छोप्य सकलन् ।
क्व संप्रत्युष्णांशुर्गत इति तदन्वेषणपरा-
स्तडिद्दीपालोका दिशि दिशि xलन्तीय जलदाः ॥ १७० ॥
अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे
यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः ।
अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु-
र्यदेप ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥ १७१ ॥
भरिऊण जलञ्जलया जस्स पसाएण उन्नयं पत्ता ।
तस्सेव पुणो उवरिं गज्जन्ता किं न लज्जन्ति ॥ १७२ ॥
भग्गो सूरपयावो छन्नं गयणं धरावि तप्पवि या ।
भुअणं भरन्त जलहर तुह छज्जसि गज्जियं गुहिरम् ॥ १७३ ॥
अन्नेहिं वि कूवजलेहिं निच्चं सद्यन्ति मामवल्लीओ ।
जलहर जलसिञ्चन्ताणं का वि इयरामहच्छाया ॥ १७४ ॥
सांप्रतमकालजलदस्य ।
आसन्यावन्ति याच्ञासु चातकाश्रूणि तेऽम्बुद ।
तावन्तोऽपि त्वया मेघ न मुक्ता जलबिन्दवः ॥ १७५ ॥
त्वमेव चातकाधार इति केषां न गोचरः ।
धिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्ष्यसे ॥ १७६ ॥
अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः ।
तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ १७७ ॥
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।
अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १७८ ॥
आश्वास्य पर्वतकुलं तपनोष्मतप्तं
दुर्दाववह्निविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा
सि यज्जलद सैव तवोत्तमश्रीः ॥ १७९ ॥
कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा
मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः ।
शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां
कस्मै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ १८० ॥
एतेषु हा तरुणमारुतधूयमान-
दावानलैः कवलितेषु महीरुहेषु ।
अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ १८१ ॥
हृद्या नद्यः कमलसरसी राजहंसावतंसाः
पुण्यश्रोता हिमजलभुवस्त्वत्कृते येन मुक्ताः ।
संप्राप्तेऽस्मिञ्जलद दहनोच्चण्डदाहे निदाघे
पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा ॥ १८२ ॥
एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः ।
धिङ्मुधाम्बुधर रुद्धसद्गतीर्वर्धिताः किमिति तेऽद्रिवाहिनीः॥ १८३॥
वितर वारिद वारि [१२]तृषातुरे चिरपिपासितचातकपो [१३]तके ।
मरुति संचरति क्षणमन्यथा क्व च भवान्क्व पयः क च चातकः ॥ १८४॥
मुञ्च मुञ्च सलिलं कृपानिधे नाथ नास्ति समयो विलम्बने ।
अद्य चातककुटुम्बके मृते वारि वारिधर किं करिष्यसि॥ १८५ ॥
नभसि निरवलम्बे [१४]सीदता दीर्घकालं
त्वदभिमुखनिषण्णोत्तानचञ्चूपुटेन ।
जलधर जलधारा दूरतस्तावदात्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ १८६ ॥
विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो
जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः ।
उपकृतिकृते प्रह्वं चेतः कुरुष्व यदग्रतो
भ्रमति पवने क्व त्वं क्वायं क्व ते जलसंचयः ॥ १८७ ॥
भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
[१५]पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं
यत्राकण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १८८ ॥
अथ प्रकाशवर्षान्योक्तयः ।
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् ।
अये पश्यावस्थामकरुण समीरव्यतिकर-
ज्वलद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ १८९ ॥
शोषं गते सरसि शैवलमञ्जरीणा-
मन्तस्तिमिर्लुठति तापविसंस्थुलाङ्गः ।
अत्रान्तरे यदि न वारिद वारिवृन्दै -
राप्लावयेस्तदनु किं मृतमण्डनेन ॥ १९० ॥
कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय
स्फारैर्भापय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।
अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-
स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ १९१ ॥
भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं
दूरावग्रहपृष्टनिष्ट तदलं वृष्ट्या तवातः परम् ।
निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रैः परं
नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ १९२ ॥
नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि नूनं पयोद कुत्रापि ।
तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ १९३ ॥
अथागस्त्यन्योक्तयः ।
कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्याः पुनः
क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्गता वह्नयः ।
भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं
निद्रालुः श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥ १९४ ॥
अखर्वखर्वगर्तासु विच्छिन्नो यस्य वारिधिः ।
स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ १९५ ॥
अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।
ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ १९६ ॥
अथ ध्रुवस्य ।
यदि तारकततिरपरिमिता यदि सविता यदि सोमः ।
ध्रुव भवदवलम्बेन पुनर्विचरति सकलं व्योम ॥ १९७ ॥
अथ कल्पवृक्षान्योक्तयः ।
कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः ।
को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ॥ १९८ ॥
स्वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा
मुक्ताभिः स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः ।
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
धिरजातिं Xनसंकथासु यदयं कल्पद्रुमोऽपि द्रुमः ॥ १९९ ॥
अथ पारिजातस्य ।
परिमलसुरभितनभसो बहवः कनकाद्रिपरिसरे तरवः |
पतदपि सुराणां चेतसि निवसितमिह पारिजातेन ॥ २०० ॥
इति श्रीमत्तपागच्छाधिराज-श्रीगौतमगणधरोपनगुणगमाज-सकलभट्टारकवृन्दवृन्दारक-वृन्दारकराज-परमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणि- समुच्चितायामन्योक्तिमुक्तावल्यां देवान्योक्तिनिरूपकः प्रथमः परिच्छेदः ॥
द्वितीयः परिच्छेदः ।
श्रेयः श्रियां विलसनोल्लसदालयस्य
यस्येशितुः शिरसि भान्ति फणात्फणीनाम् ।
किं मङ्गिनीसमुदयः कृपया धृतोऽयं
संसारसागरपतज्जनतावनाय ॥ १ ॥
श्रेयः श्रियामाश्रयमङ्घ्रिपद्मं यदीयमङ्कच्छलतो मृगारिः।
समाश्रितो वक्तुमिदं मदीयं पशुत्वमश्लाघ्यमपाकरोतु ॥ २ ॥
स्तोप्ये [१६]श्रीविजयानन्दस्वगुरुं गरिमाम्बुधिम् ।
सर्ववर्यवराचार्यमौलिमौलिमणिप्रभम् ॥ ३ ॥
अथ प्रतिद्वारवृत्तानि ।
द्वितीयपरिच्छेदेऽथ प्रतिद्वाराणि प्रस्फुटम् ।
[१७]कोमलामलवृत्तानि निगद्यन्ते यथाक्रमम् ॥ ४ ॥
सिंहस्यान्योक्तयो ज्ञेया गजस्यान्योक्तयस्तथा ।
मृगान्योक्तिः शशान्योक्तिः फेरूक्तिः करभोक्तयः ॥ ५ ॥
वृषभान्योक्तयस्तद्वद्भषणान्योक्तयस्ततः ।
सर्पान्योक्तिस्तथैवोक्ता शेषनागोक्तयः पुनः ॥ ६॥
अथोच्येते जलधरप्रतिद्वारद्वयं क्रमात् ।
मत्स्यस्यान्योक्तयो मुख्या मण्डूकान्योक्तयो मताः ॥ ७ ॥
अथ स्थलचराधिकारपद्धतौ पूर्वं सिंहान्योक्तयः ।
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ८ ॥
मृगेन्द्रं वा मृगारिं वा सिं[१८]हं व्याहरतां जनाः ।
तस्य द्वयमपि व्रीडा क्रीडादलितदन्तिनः ॥ ९॥
मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।
मृगारिरिति नाम्नैव लघुतामेति केसरी ॥ १० ॥
एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ११ ॥
मृगैर्नष्टं शशैर्लीनं वराहैर्वलितं रुषा ।
हयानां हेषितं श्रुत्वा सिंहैः पूर्ववदासितम् ॥ १२ ॥
अन्वेषयति मदान्धद्विरदमदाम्बुसिक्तमवनितलम् ।
परिणतगर्भभरात सिंहवधूः शल्लकीविपिने ॥ १३ ॥
अयि भामिनि गर्भादलं समागमैर्न मया हि नागेन्द्रेण ।
मद्गन्धाद्बहिरेष्यति तूर्णमपूर्णः कुमारस्ते ॥ १४ ॥
धीरध्वनिभिरलं ते नीरद मयि मासिको गर्भः ।
उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ १५ ॥
तावद्गर्जन्ति मातङ्गा वने मदभरालसाः ।
लीलोल्लालितलाङ्गूलो यावन्नायाति केसरी ॥ १६ ॥
अन्तर्बलान्यहममुष्य मृगाधिपस्य
वाचा निगद्य कथमद्य लघुं करोमि ।
जानन्ति किं न करजक्षतकुम्भिकुम्भा-
दामुक्तमौक्तिकमयानि दिगन्तराणि ॥ १७ ॥
घण्टास्वनो नुदतु वा मदवारिधाराः
कामं श्रवन्तु बहुधा गजराजयूथे ।
दृष्टे मयि प्रचलते यदि पादमेकं
वन्ध्या भवेद्विजननी मम सिंहसुनोः ॥ १८ ॥
नाभ्यासो नभसः क्रमे कररुहैर्नक्रोऽयमालम्बितं
घण्टालत्वमभून्न भूधरगुहां पर्यङ्कभूलङ्घने ।
पीनस्तन्यमनादराद्गलितया दृष्ट्वैव सिंहीशिशो-
र्द्राग्दानाद्रवनिम्नगाः करटिनां गण्डेषु गण्डूषिता ॥ १९ ॥
हरिरलसविलोचनः सहेलं वलमवलोक्य पुनर्जगाम निद्राम् ।
अधिगतपतिविक्रमास्तभीतिर्न तु वनितास्य विलोकयांचकार ॥ २० ॥
वालाया नवसंगमे निपुणतां प्रेक्ष्यान्यथाशङ्किनो
भर्तुश्चित्तमवेक्ष्य पङ्कजमुखी तत्पार्धकुड्ड्येऽलिखत् ।
एकं भद्रमतङ्गजं तदुपरि क्रोधात्पतन्तं शिशुं
सिंहीगर्भविनिःसृतार्धवपुषं दृष्ट्वा स हृष्टोऽभवत् ॥ २१ ॥
एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते
क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्रुरुर्धावति ।
निः[१९]शङ्कैः करिपोतकैगिरितटयोत्पाट्यते लीलया
हंहो सिंह विना त्वया हि विपिने कीदृग्दशा वर्तते ॥ २२ ॥
कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेच्छूकरः
कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २३ ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितवित्तस्य स्वयमेव मृगेन्द्रता ॥ २४ ॥
एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ २५ ॥
नास्योच्छ्रायवती तनुर्न दशनौ दीर्घौ न दीर्घः करः
सत्यं वारण नैष केसरिशिशुस्वाडम्बरैः स्पर्धते ।
तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा
तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ २६ ॥
अद्यापि न स्फुरति केसरभारलक्ष्मी-
र्न प्रेङ्खति ध्वनितमद्रिगुहान्तरेषु ।
मत्तास्तथापि करिणो हरिणाधिपस्य
पश्यन्ति भीतमनसः पदवीं वनेषु ॥ २७ ॥
कोलः केलिमलंकरोतु करिणः क्रीडन्तु कान्तासखाः
कासारे वनकासराः सरभसं मज्जन्त्विह खेच्छया ।
अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽभिरूपां गतिं
कान्तारान्तरसंचरिष्णुरधुना पञ्चाननो वर्तते ॥ २८ ॥
मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः
सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के ।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः
सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्द्गर्जितं गर्जितम् ॥ २९ ॥
यथेष्टं चेष्टध्वं मदमलिनगण्डाः करटिन-
स्तटान्यद्रेर्मन्दं निकषत विषाणैश्च महिषाः ।
सरागं सारङ्गाः सह सहचरीभिर्विचरत
प्रचारः सिंहानामिह हि विधिना हन्त विहतः ॥ ३० ॥
विश्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः ।
इत्थं न किंचिदपि साधु मृगाधिपस्य तेजस्तु तत्स्फुरति यस्य जगद्वराकम्३१
सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः
शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् ।
विस्फूर्जद्विकटाटवीगजघटाकुम्भैकसंचूर्णन-
व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥ ३२ ॥
क्षुत्क्षामोऽपि जरान्वितोऽपि शिथिलप्राणोऽपि कष्टां दशा-
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्तिं मानमहतामग्रेसरः केसरी ॥ ३३ ॥
शैलशिखानिकुञ्जशयितस्य हरेः श्रवणे
जीर्णतृणं करेण विदधाति कपिश्चपलः ।
क्षुद्रवधापवादपरिहारमतेः सहत-
स्तस्य गतं वलं किमधुना द्विपयूथभिदः ॥ ३४ ॥
येनानर्गलकालकेलिदलितप्रत्ययकादम्बिनी-
धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम् ।
सोऽयं शृङ्गनिपातभग्नचरणः स्फारस्फुरत्फेरवी-
फेत्कारैः कुपितोऽपि धृप्यति मुहुः पाणी मृगग्रामणीः ॥ ३५ ॥
अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने ।
मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥ ३६ ॥
जीर्णोऽपि क्रमहीनोऽपि कृशोऽपि यदि केसरी ।
तथापि यूथनाथस्य शङ्कातङ्काय कल्पते ॥ ३७॥
खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् ।
प्राप्नोति नखभङ्गं वा मूषको वा फलं भवेत् ॥ ३८ ॥
सिंहः करोति विक्रममलिकुलझङ्कारभूषिते करिणि ।
न पुनर्नखमुखविलिखितभूतलकुहरस्थिते नकुले ॥ ३९ ॥
गम्यते यदि मृगेन्द्रमन्दिरं प्राप्यते हि गजदन्तमौक्तिकम् ।
जम्बुकालयगतेऽपि लभ्यते वत्सपुच्छखुरचर्मखण्डकम् ॥ ४० ॥
अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं
मा काक व्याकुलो भूस्तरुशिरसि शवक्रव्यलेशानशानः ।
धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्र-
द्ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ॥ ४१ ॥
ग्रामाणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः
फेत्कारध्वनिमुद्भिरन्ति बहवः संभूय गोमायवः ।
सोऽन्यः कोऽपि घनाघनध्वनिघनः पारीन्द्रगुञ्जारवः
शुष्यद्गण्डमलोलपुच्छमचलत्कर्णं गजैर्यः श्रुतः ॥ ४२ ॥
रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह-
न्वन्यानामवलम्बनं वनमिदं भङ्क्तुं यदुत्कण्ठसे ।
दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधर-
प्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥ ४३ ॥
यस्यावन्ध्यरुषः प्रतापवसतेनदेन धैर्यद्रुहः
शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् ।
दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना
कर्षत्येव करेण केसरसटाभारं जरत्कुञ्जरः ॥ ४४ ॥
यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं
नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् ।
तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थली-
भृङ्गः केसरिवीर संप्रति पुनः कुनैष विश्राम्यतु ॥ ४५ ॥
निद्रामुद्रितलोचनो मृगपतिर्यावहां सेवते
तावत्खैरममी चरन्तु हरिणाः स्वच्छन्दसंचारिणः ।
उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो
नादे श्रोतृपथं गते हतधियः सन्त्येव दीर्घा दिशः ॥ ४६ ॥
यद्यपि च दैवयोगात्सिंहः पतितोऽपि दुस्तरे कूपे ।
तदपि हि वाञ्छति सततं करिकुम्भविदारणं मनसि ॥ ४७ ॥
यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः ।
तदपि न कुप्यति सिंहोऽप्यसदृशपुरुषेषु कः कोपः ॥ ४८ ॥
सदा मन्दमदस्यन्दिमातङ्गपिशिताशनः ।
असंपन्नेप्सिताहारस्तृणान्यत्ति न केसरी ॥ ४९ ॥
हेलानिद्दलियगयन्दकुम्भपयडीपथावपसरस्स
|
सीहस्य मिएण समं न विग्गहो नेव संधानम् ॥ ५० ॥
जो करिवराण कुम्भे पायन्दाऊण मुत्तिए दलइ ।
सो सीहो विहिवसओ जम्बुपयघट्टणं सहइ ॥ ५१ ॥
अथ गजान्योक्तयः ।
आकृप्यन्ते करिणः पङ्कनिमग्ना महाद्विपैरेव ।
प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥ ५२ ॥
सन्त एव सत्तां नित्यमापत्तरणहेतवः ।
गजानां पङ्कमग्नानां गजा एव धुरंधराः ॥ ५३ ॥
नीवारप्रसवान्ननुष्टिकवलैर्यो वर्धितः शैशवे
पीतं येन सरोजपत्रपुटके होमावशेषं पयः ।
तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं
सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ५४ ॥
कर्णे चामरचारुकम्बुकलिका कण्ठे मणीनां गणः
सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी ।
लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूपाविधि-
स्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ५५ ॥
वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं
दृष्ट्वा कश्चित्प्रतिगजमिव त्वद्विषां मन्दिरेषु ।
हत्वा कोपाद्गलितदशनस्तं पुनर्वीक्षमाणो
मन्दं मन्दं स्टशति करिणीशङ्कया भोजराज ॥ ५६ ॥
नीता कुम्भस्थलकठिनता कामिनीनामुरोजैः
स्तेयं कृत्वा धृतमणिगणैः कञ्चुकैरावृतैश्च ।
इत्याख्यातुं नरवरगृहद्वारि कुम्भीन्द्रडिम्भाः
शुण्डादण्डैर्वपुषि बहलां धूलिमुद्धूलयन्ति ॥ ५७ ॥
आधोरणाङ्कुशभयाद्गजकुम्भयुग्मं
जातं पयोधरयुगं हृदयेऽङ्गनानाम् ।
भिन्नं तथापि नखराङ्कुशघातवेगै-
स्तेनान्यथा भवति याक्षरभालमाला ॥ ५८ ॥
अन्तःसमुत्थविरहानलतीव्रताप-
संतापिताङ्गकरिपुंगव मुञ्च शोकम् ।
धात्रा स्वहस्तलिखितानि ललाटपट्टे
को वाक्षराणि परिमार्जयितुं समर्थः ॥ ५९ ॥
चिन्तामिमां वहसि किं गजयूथनाथ
योगीव योगविनिमीलितनेत्रयुग्मः ।
पिण्डं गृहाण पिब वारि यथोपनीतं
दैवाद्भवन्ति विपदः खलु संपदो वा ॥ ६० ॥
केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि
गाहस्व शैलतटनिर्झरिणीपयांसि ।
भावानुरक्तकरिणीकरलालिताङ्ग
मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ६१ ॥
पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरा-
स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः ।
धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मथ्नतः
कूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ ६२ ॥
रेवावारिणि वारणेन विपुले राजीवराजीरजः-
पुञ्जापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे ।
धौतं येन मृगारिरक्तमसकृद्दन्तान्तराले स्थितं
कौपं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ ६३ ॥
तापो नापगतस्तृषा न च कृशा धौता न धूलिस्तनो-
र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
प्रारब्धो मधुपैरकरणमयं झङ्कारकोलाहलः ॥ ३४ ॥
नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः
सिंहेनापि न लङ्घिता किमपरं यस्योद्धुरा पद्धतिः ।
कष्टं सोऽपि कदर्ध्यते करिवरः स्फारावैः फेरवै-
रापातालगभीरपङ्कपटलीमग्नोऽद्य भग्नोद्यमः ॥ ६५ ॥
पङ्कमग्नकरिणा न विपङ्क्तिः पश्यतां विधिवलं प्रतिकूलम् ।
यत्स शुद्धधरणीधरसाहसा शुकराजप्रभ एव वियत्सा ॥ ६६ ॥
निमग्नः पङ्केऽस्मिन्ननुभव करीन्द्राधिप दशा-
मभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।
वराहे गोमायौ मृगपरिषदि श्वापदकुले
करिष्यन्कार्पण्यं किमुत महिमानं गमयसि ॥ ६७ ॥
सुदुःस्थितः स्थूलमरुस्थलीषु दीनां दशां दैववशात्प्रपन्नः ।
पुरातनाहारविहारनामान्करी करीरेऽपि करं करोति ॥ ६८ ॥
यूथान्यग्रेतनानि प्रचुरबलभृतो बद्धवैरा मृगेन्द्रा
मूलादाकृष्यमाणाः सपदि तटरुहो भूरुहा निःसरन्ति ।
तं दृष्ट्वा गृह्यमाणं हतविधिमनिशं भिल्लपल्ल्यामधीशं
हस्तालम्बाय केषां कलयति वदनं पङ्कमग्नः करीन्द्रः ॥ ६९ ॥
भो भोः करीन्द्र दिवसानि कियन्ति ताव-
दस्मिन्मरौ समतिवाहय कुत्रचित्त्वम् ।
रेवाजलैर्निजकरेणुकरप्रमुक्तै-
र्भूयः शमं गमयितासि निदाघदाहम् ॥ ७० ॥
रेवापयः किसलयानि च सल्लकीनां
वन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा ।
किं ताम्यसि द्विप गतोऽसि वशं करिण्याः
स्नेहो हि कारणमनर्थपरम्परायाः ॥ ७१ ॥
दन्ते न्यन्तकरः प्रलम्वितशिराः संमील्य नेत्रद्वयं
किं त्वं वारण खिद्यसे वनितया को नाम नो वञ्चितः ।
भूत्वा शान्तमना गृहाण कवलं स्नेहोऽधुना त्यज्यतां
यन्मत्तास्त्वविवेकिनो विषयिणस्ते प्राप्नुवन्त्यापदम् ॥ ७२ ॥
न चरसि गजराजः पल्लवान्सल्लकीनां
न पिबसि गिरिकुण्डे नैर्झरं वारि हारि ।
विततदशनकोटौ दत्तहस्तावलम्बो
वहति विरहखिन्नः प्राणभारं करीन्द्रः ॥ ७३ ॥
न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले
न पङ्के वाह्लादं व्रजति बिसभङ्गार्धशबले ।
न चैवं प्रेमार्द्रामपि विषहते नान्यकरिणीं
स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७४ ॥
पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।
प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ७५ ॥
घासग्रासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः
पाशग्रन्थिव्रणानामविरलमधुना देहि पङ्कानुलेपम् ।
दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तिदृष्टा
रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥ ७६ ॥
दानार्थिनो मधुकरा यदि कर्णतालै-
र्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।
तस्यैव गण्डयुगमण्डनहानिरेषा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ७७ ॥
करटिकरटे भ्रस्यहानप्रवाहपिपासया
परिसरसरङ्गश्रेणी करोति यदा रवम् ।
वदति शिरसः कम्पैर्नास्मान्निवारय वारण
वितर वितरामानं दानं चलाः किल संपदः ॥ ७८ ॥
आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मये-
त्यन्तःसंभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि ।
मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर-
स्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम् ॥ ७९ ॥
गले पाशस्तीत्रश्चरणयुगले गाढनिगडो
दृढः स्कन्धे बन्धः शिरसि सृणिपातः खरतरः ।
नरः स्कन्धारूढो बत मरणयोग्येऽपि विषये
न जानीमोऽत्यर्थं द्विरद वद कस्मात्तव मदः ॥ ८० ॥
कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा ।
सोऽपि न पचसा लिप्तो लाघवमात्मा परं नीतः ॥ ८१ ॥
कौपं वारि विलोक्य' वारणपते किं विस्मितेनास्यते
प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात् ।
उन्मज्जच्छफरीपुलिन्दललनापीनस्तनास्फालन-
स्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ॥ ८२ ॥
नो मन्ये दृढबन्धनात्क्षतमिदं नै[२०]वाङ्कुशोद्धातनं
स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।
चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने
सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्याश्रयम् ॥ ८३ ॥
नदीकूलान्भित्त्वा प्रतिविपिनमुत्पाट्य च तरू-
न्मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् ।
जरां प्राप्यानार्थी तरुणजनविद्वेषजननीं
स एवायं नागः सहति कलमेभ्यः परिभवम् ॥ ८४ ॥
करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
मृृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥ ८५ ॥
मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां
ये मार्गेणानुयाताः क्षणमपि हरिणा: क्षुच्छ्रमग्लानदेहाः |
तेऽवश्यं भूतलस्थैस्तरुणतरुलतापल्लवैर्यान्ति तृप्तिं
प्रायस्तुङ्गानुगानां भवति न विफलो वाञ्छितार्थाभिलाषः ॥ ८६ ॥
भद्रात्मनो दुरधिरोहतनोर्विशाल-
वंशोन्नतेः कृतशिलीमुखसंग्रहस्य ।
यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ ८७ ॥
अकस्मादुन्मत्तः प्रहरसि किमुच्चक्षितिरुहा-
न्द्रुतं हस्ताघातैर्दलयसि किमुत्फुल्लनलिनम् ।
वयं जानीमस्ते करिवर बलोद्धारमसमं
सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ ८८ ॥
पत्युर्यत्पतितावशेषकबलग्रासेन वृत्तिः कृता
पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः ।
प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं
यद्बन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम् ॥ ८९ ॥
यदि मत्तोऽसि मतङ्गज किममीभिरसारसरलतरुदलनैः ।
हरिमनुसर खरनखरं व्यपनयति स करटकण्डूतिम् ॥ ९ ॥
मृगा निजक्षुद्रतया सुशीतले निरस्ततीव्रातपदुःखसंकथाः ।
हता महत्त्वे ननु सन्ति दन्तिनो गवेषयन्तः स्वसमं महीरुहम् ॥ ९१ ॥
मीलितेक्षणमिदं विगाहसे वारणेन्द्र गहनं न वीक्षसे ।
अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ ९२ ॥
स्वच्छन्दं दलय द्रुमान्कमलिनीरामूलमुन्मूलय
क्रीडालोलकपोलमण्डलचलद्भृङ्गान्मदैर्मोदय ।
दन्ताघातनितान्तकम्पितगिरेः शृङ्गाणि वा पाटय
त्वं तावत्करिराज केसरियुवा यावन्न जागर्ति सः ॥ ९३ ॥
इहानेके सत्यं वृषमहिषमेषाः सुतुरगा
गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः ।
गजानामास्थानं मदसलिलजम्बालितभुवां
तदेको विन्ध्याद्रेर्विपिनमथवा भूपसदनम् ॥ ९४ ॥
लाङ्गृxचालनमवश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते राजपुंगवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ९५ ॥
निदाघे दाघार्तः प्रचुरतरतृष्णातुरमंनाः
सरः पूर्णं दृष्ट्वा त्वरितमुपयातः करिवरः ।
तथा पङ्के मनस्तटनिकटवर्ती ननु यथा
न नीरं नो, तीरं द्वयमपि विनष्टं विधिवशात् ॥ ९६ ॥
यदि नाम सर्षपकणं शक्नोति करिः करेण नादातुम् ।
इयतैव तस्य ननु किं पराक्रमग्लानिरिह जाता ॥ ९७ ॥
यदि काको गजेन्द्रस्य विष्ठां कुर्वीत मूर्धनि ।
कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९८ ॥
जइ मण्डलेण भसिउं हत्थि दट्ठूण रायमग्नस्मि ।
ता किं गयस्स जुत्तं सुणएण समं कलिं काउम् ॥ ९९ ॥
सूरो सि परदलभञ्जणो सि गरुओ सि भद्दजाओ सि ।
दाणेण विणा कुञ्जर न सोहए दन्तनिकरडी ॥ १०० ॥
अथ हरिणान्योक्तयः ।
.......................................।
......................................॥ १॥
दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ २ ॥
कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।
क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ ३ ॥
इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम् ॥ ४ ॥
नैतास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्झरा-
स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवन्नातप-
स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम्
स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं-
स्तृषार्तः सारङ्गो विरमति न खिन्नेऽपि मनसि ।
अजानानस्तत्त्वं न स मृगयतेऽन्यत्र सरसी-
मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ६॥
अयि कुरङ्ग कुरङ्गमविक्रमैस्त्यज वनं जवनं गमनं कुरु ।
इह वने हि वनेचरनायकाः सुरभिलोहितलोहितसायकाः ॥ ७ ॥
छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां
पर्यन्ताग्निशिखाकलापजटिलान्नि[२१]र्गत्य दूरं वनात् ।
व्याधानां शरगोचरा[२२]दतिजवादुत्प्लुत्य धावन्मृगैः
कूपान्तःपतितः [२३]करोतु विमुखे किं वा विधौ पौरुषम् ॥ ८ ॥
असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां
श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।
गणयति न तन्मायातोयं हतः सलिलाशया
भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥ ९॥
द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।
विदधति हठाद्व्याधानां ते मनागपि नार्द्रतां
कठिनमनसामेषामेते विलोकितविभ्रमाः ॥ १० ॥५॥
प्रियायां स्वैरायामतिकठिनगर्भालसतया
किराते चाकर्णीकृतधनुषि धावत्यनुपदम् ।
प्रियाप्रेमप्राणप्रतिभयवशाज्जातविवशो
मृगः पश्चादालोकयति च मुहुर्याति च मुहुः ॥ ११ ॥
रज्ज्वा दिशः प्रवितताः सलिलं विषेण
पाशैर्मही हुतभुजाद्वलिता वनान्ताः ।
व्याधाः पदान्यनुसरन्ति गृहीतचापाः
कं देशमाश्रयति यूथपतिर्मृगाणाम् ॥ १२ ॥
त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली
विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
बालापत्यवियोगदुःखविधुरा मुक्तार्धमार्गे मृगी
मार्गान्तःपदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥ १३ ॥
अन्यास्ता मलयाद्रिकाननभुवः खच्छस्रवन्निर्झरा-
स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवद्भ्रान्तय-
स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ १४ ॥
अयि कुरङ्ग तपोबनविभ्रमादुपगतोऽसि किरातपुरीमिमाम् ।
इह न पश्यसि दारय मारय ग्रस पिचेति शुकानपि जल्पतः ॥ १५ ॥
किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः
पर्ण वापि वनान्तरे प्रचलिते ये पान्ति भीतिं गताः ।
एकेनैव करीन्द्रदर्पदलनव्यापारबद्धस्पृहा
सिंही दीर्घपराक्रमेण मनसा पुत्रेण गर्वायते ॥ १६ ॥
किमेतदविशङ्कितः शिशुकुरङ्गलोलक्रमं
परिक्रमितुमीहसे विरमते विशून्यं वनम् ।
स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणित-
च्छटापटलपाटलोत्कटसटाभरः केसरी ॥ १७ ॥
अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति -
र्द्वारे वेत्रलतावितानगहने कष्टप्रवेशक्रमः ।
हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ १८ ॥
सारङ्गो न लतागृहेषु रमते नो पांशुले भूतले
नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।
तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
शैलेन्द्रोदरकन्दरासु गतभीः शृङ्गावशेषः स्थितः ॥ १९ ॥
वसन्त्यरण्येषु चरन्ति दूर्वां पिबन्ति तोयान्यपरिग्रहाणि ।
तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥ २० ॥
आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया
पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् ।
यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-
स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ २१ ॥
स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता
भङ्गप्रस्नुतदुग्धबिन्दुमधुरा शालेर्नवा मञ्जरी ।
निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथ-
स्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ २२ ॥
सेयं स्थली नवतृणाङ्कुरजालमेत-
त्सेयं मृगीति हृदि जातमदः कुरङ्गः ।
नैवं तु वेत्ति यदिहान्तरितो लताभि-
रायाति सज्जितकठोरशरः किरातः ॥ २३ ॥
रोमन्थमारचय मन्थरमेत्य निद्रां
मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।
दूरे स पामरजनो मुनयः किलैते
निष्कारणं हरिणपोत बिभेषि कस्मात् ॥ २४ ॥
अथ शशस्य ।
सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः ।
जग्रास साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ २५ ॥
अथ जम्बुकस्य ।
परिहीने सिंहेन वने फेत्कुरु रे फेरण्ड ।
तद्गन्धेऽपि यदि क्वेदं क्व भवानुन्मुखतुण्ड ॥ २६ ॥
अथ करभान्योक्तयः ।
वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।
करभस्याशुगत्यैद छादिता दोषसंहतिः ॥ २७ ॥
[२४]कुमुदशबलैः फुल्लाम्भोजैः सरोमिरलंकृतां
मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् ।
स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २८ ॥
यस्मिन्नुच्चैर्विषमगहनान्तर्गता स्वादुवल्ली
स्वेच्छं भुक्ता सरलितगलेनात्मचेतोनुलग्ना ।
तत्तारुण्यं करभ गलितं कुत्रचित्प्राग्विलासो
यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ २९ ॥
करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया
व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः ।
चलकिसलयैः सोऽपीदानीं प्ररूढनवाङ्कुरः
करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ३० ॥
सरलितगलनाली कन्धरां धत्स्व धैर्या-
त्करभ लघुशमीनां ग्रासमेकं गृहाण ।
सरसमधुरपत्रास्ताः कुतः पीलुजात्यो
हरिततरुकरीरे रे मरौ याः प्ररूढाः ॥ ३१ ॥
न भवति मिथुनानां प्रेमलावण्ययोगा-
ज्जनयति सुखमन्तः कस्यचित्कोऽपि दृष्टः ।
पतति झटिति दृष्टिर्मुग्धदासेरकाणां
जरठभुरठवल्लीपिञ्जरासु स्थलीषु ॥ ३२ ॥
रूक्षं वपुर्न च विलोचनहारि रूपं
न श्रोत्रयोः सुखदमारटितं कदाचित् ।
इत्थं न साधु तव किंचिदिदं तु साधु
तुच्छे रतिः करभ कण्टकिनि द्रुमे यत् ॥ ३३ ॥
बक्रग्रीवमुदीक्षसे किमपरं बाप्पाम्बुपूर्णेक्षणः
कः खेदः करभाधुना तृणलवैः संतर्पयैतद्वपुः ।
कान्तान्तःस्फुरदोष्ठसंपुटभुवो ये लीलयान्दोलिता
मुक्तास्ते नवनीलकन्दलदलश्यामाः शमीपल्लवाः ॥ ३४ ॥
आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे ।
दत्वा पीलुशमीकरीरकवलान्खेनाञ्चलेनादरा-
दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥ ३५ ॥
चर करभ यथेष्टं सन्ति शष्पाण्यरण्ये
बहुकुसुमसमृद्धाः पीलवश्च स्थलीषु ।
यदि गणयसि वाक्यं बन्धुवर्गस्य दूरा-
त्परिहर करवीरं मृत्युरेवैष सद्यः ॥ ३६ ॥
चिन्तां मुञ्च गृहाण पल्लवमिमं लक्षस्य शालस्य वा
गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब ।
जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो
रम्याः पीलुशमीकरीरबदरीकूजत्कपोताकुलाः ॥ ३७ ॥
यस्यासीन्नवपीलुपत्रबदरग्रासोऽपि संतुष्टये
दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।
सोऽयं संप्रति याति कालकरभः क्षीणोधमः क्षामतां
सत्ये नूनसमेत दैवहतकेनास्वादितं तन्मधु ॥ ३८ ॥
पीलूनां फलवतापायमधुरं रोमन्थवित्वा मरौ
शाखाग्रं यदखादि चारु करीवक्त्रार्पितं प्रेमतः ।
तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा फूत्कृतं
प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा ॥ ३९ ॥
दुष्प्रापमम्बु पवनः परुषोऽतितापी
छायाभृतो न तरवः फलभारनम्राः ।
इत्थं सखे करभ वच्मि भवन्तमुच्चैः
का संगतिः खलु मरौ रमणीयतायाः ॥ ४० ॥
अस्याननस्य भवतः खलु कोटिरेषा
कण्टारिका यदि भवेदविशीर्णपर्णा ।
योग्याः कथं करभकल्पतरोर्लताया-
स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ४१ ॥
दासेरको रसत्येष युक्तं भारेऽधिरोहति ।
उत्तार्यमाणेऽपि पुनर्यत्तत्र किसु कुर्महे ॥ ४२ ॥
करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।
कुरु परिचितैः पीलोः पत्रैर्धृतिं मरुगोचरै-
र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ४३ ॥
करभ किमिदं दीर्घश्वासैर्दुनोषि शरीरकं
विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् ।
चर किसलयं पीलोः स्वच्छो विमुञ्च मधुस्पृहां
पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ ४४ ॥
अथ वृषभान्योक्तयः ।
नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ ।
देवागारबलीवर्दस्तथाप्यश्नाति भोजनम् ॥ ४५ ॥
गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते ।
असंजातकिणस्कन्धः सुखं स्वपिति गौर्गली ॥ ४६ ॥
गुरुशकटधुरंधरस्तृणाशी समविषमेषु चला गलापकर्षी ।
जगदुपकरणं पवित्रयोनिर्नरपशुना कथमुपनीयते गवेन्द्रः ॥ ४७ ॥
अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके ।'
गुरुभरोद्धरणोद्धुरकंधरं स्मरति सारथिरद्य धुरंधरम् ॥ ४८ ॥
मार्गे कर्दमदुर्गमे जलभृते गर्ताशतैराकुले
खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि ।
शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी-
मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ ४९ ॥
दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्वुरः
कुक्षिश्चन्द्रकितो वपुः कुसुमितं सत्त्वच्युतं चेष्टितम् ।
अस्मिन्दुष्टवृषे वृषामितगुणग्रामानभिज्ञात्मनो
ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति ॥ ५० ॥
गुरुर्नायं भारः क्वचिदपि न पन्थाः स्थपुटितो
न ते कुण्ठा शक्तिर्वहनमपि तेऽङ्गे न विकलम् ।
इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना
धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ५१ ॥
न ध्वानं कुरुषे न यासि विकटं नोचैर्वहस्याननं
दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे ।
किं तु त्वं वसुधातलैकधवल स्कन्धाधिरूढे भरे
ती[२५]राण्यद्य तटीविटङ्कविषमाण्युल्लङ्घयन्वीक्ष्यसे ॥ ५२ ॥
यथा भग्नः पन्था तपनन्नावगहनो
गलीनां नाङ्गानि स्पृशति च यथा सारथिरथम् ।
यथा चैते हताः स्ववलितनुवो यान्ति वृषभा
स्तथा दूरीभूतः न खलु धवलो नूनमधुना ॥ ५३ ॥
ऊढा येन महापुरा सविषमा सर्गे सदैकाकिना
सोढो येन कदाचिदेव न नये गोष्ठेन शण्ढध्वनिः ।
आसीनत्य गवाङ्गणैकतिलकस्तस्यैव संप्रत्यहो
धिक्कटं धवलस्स जातजरसो गोः पण्यनुद्धोप्यते ॥ १४ ॥
अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्नोन्नते
ऊढा येन वृषेण धूर्बलवता यूना द्वितीयेन या ।
तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो
रप्याभड्डलकैः समेत्य बहुभिर्नाकृप्यतेऽन्यैर्वृषैः ॥ ५५ ॥
यस्यादौ व्रजमण्डनस्य वहतो गुर्वी धुरं धैर्यतो
धौरेयैः [२६] प्रगुणैः कृतो न युगपत्स्कन्धः समस्तैरपि ।
तस्यैव श्लथकम्बलस्य धवलस्योत्थापने सांप्रतं
द्रङ्गैऽत्रैव जरावशार्दिततनोर्गैः पुण्यमुद्धोप्यते ॥ ५६ ॥
एतानि बालधवल प्रविहाय कामं
गोष्ठाङ्गणे तरलतर्णकचेष्टितानि ।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो
नेतव्यतामुपगतोऽस्ति तवैप भारः ॥ ५७ ॥
न लिखसि खुरैः क्षोणीपृष्ठं न नर्दसि सादरं
प्रकृतिपुरुषं प्राप्याप्यग्रे न कुप्यसि [२७]गोवरम् ।
वहति च धुरं धुर्यो धैर्यादनुद्धतकन्धरो
जगति गुणिनः कार्यौदार्यात्परानतिशेरते ॥ ५८ ॥
अथ भषणान्योक्तयः ।
आबद्धकृत्रिमसटाविकटांस[२८]वृत्ति-
रारोपितो मृगपतेः पदवीं यदि श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य
नादं करिष्यति कथं हरिणाधिपस्य ॥ ५९ ॥
स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ६० ॥
पिब पयः प्रसर क्षितिपान्तिकं कलय कांचन काञ्चनशृङ्खलाम् ।
इदमवद्यतमं तु यदीहसे भषण संप्रति केसरिणस्तुलाम् ॥ ६१ ॥
अथ सर्पान्योक्तयः ।
यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव ।
आशीविषः स दैवाड्डोम्बकरण्डस्थितिं सहते ॥ ६२ ॥
दुश्चरितैरेव निजैर्भवति दुरात्मा हि शङ्कितो नित्यम् ।
दर्शनपथमापनं पन्नगकुलमाकुलीभवति ॥ ६३ ॥
अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु ।
विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ६४ ॥
रे रे सर्प विमुञ्च दर्पमसमं किं स्फारफूत्कारतो
विश्वं भापयसे क्वचित्कुरु बिले स्थानं चिरं नन्दतु ।
नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्व्याधूतपृथ्वीधर-
स्तार्क्ष्यो भक्षयितुं समेति झगिति त्वामद्य विद्वेषवान् ॥ ६५ ॥
मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्नोपचितैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
अन्यत्रातृजुवर्त्मता द्विरसना वक्रे विषं वीक्षणं
सर्वामङ्गलसूचकं कथय भी भोगिन्सखे किं न्विदम् ॥ ६६ ॥
भेकेन क्वणता सरोपपरुषं यत्कृष्णसर्पानने
दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः |
यच्चाधोनुखनक्षिणी पिदधता नायेन तूष्णीं स्थितं
तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि विस्फूर्जितम् ॥ ६७ ॥
अथ शेषनागस्य ।
इलातलभराक्रान्तग्रीवां मा शेष वक्त्रय ।
त्वयि दुःखिनि चैकस्मिञ्जीवलोकः सदा सुखी ॥ ६८ ॥
युक्तोऽसि भुवनभारे मा वक्रां वितनु कन्धरां शेष ।
त्वय्येकस्मिन्दुःखिनि सुखितानि भवन्ति भुवनानि ॥ ६९ ॥
......................................................
.........................................................॥ ७० ॥
अथ जलचराधिकारपद्धतौ प्रथमं मत्स्यस्यान्योक्तयः ।
शफर संहर चञ्चलतामियं चिरमगाधजलप्रणयी भव ।
इह हि कूजितमञ्जुलजालके वसति तत्र बकोटकुटुम्बकम् ॥ ७१॥
कैवर्तकर्कशकरग्रहणच्युतोऽपि
जाले पुनर्निपतितः शफरो वराकः ।
जालात्पुनर्विगलितो गलितो बकेन
वामे विधौ क्व नु सुखं व्यसनागमेषु ॥ ७२ ॥
अथ दर्दुरान्योक्तयः ।
किं नाम दर्दुर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव ।
एतानि केलिरसितानि सितच्छदाना-
माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥ ७३ ॥
हंहो शालूरवीराः कथमिति कुरुत प्रावृषेण्याम्बुवाह-
व्यूहादासाद्य सद्योऽप्यभिनवविभवं गर्वकोलाहलानि ।
स्मर्तव्यः सोऽपि कालः कमलकुलरिपुश्चण्डमार्तण्डधामा
नामापि श्रोत्रपात्रं न भवति भुवने यत्र युष्मद्विधानाम् ॥ ७४ ॥
रे रे भेक गलद्विवेककटुकं किं रारटीष्युत्कटो
मत्वैव क्वचनापि कूपकुहरे त्वं तिष्ठ निर्जीववत् ।
सर्पोऽयं स्वमुखप्रसृत्वरविषज्वालाकरालो महा-
ञ्जिह्वालस्तव कालवत्कवलनाकाङ्क्षी यदाजग्मिवान् ॥ ७५ ॥
एतस्मिन्सरसि प्रसन्नपयसि प्राणत्रुटत्तालुना
किं कोलाहलडम्बरेण खलु रे मण्डूक मूकीभव |
उन्मीलन्नयनावलीदलचललक्ष्मीरणन्नूपुर-
व्याहारप्रतिवादिनः प्रतिदिनं प्रेषन्ति हंसस्वनाः ॥ ७६ ॥
रे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्भो विशालं
किं मद्धाम्नोऽपि बाढं नहि नहि सुमहत्पाप मा ब्रूहि मिथ्या ।
इत्थं कूपोदरस्थः शपति तटगतं दर्दुरो राजहंसं
नीचः स्वल्पेन गर्वी भवति हि विषमो नापरो येन दृष्टः॥७७॥
तावद्गर्जति मण्डूकः कूपमाश्रित्य निर्भयः ।
यावत्करिकराकारं कृष्णसर्पं न पश्यति ॥ ७८ ॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराज्यपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिस-
मुच्चितायामन्योक्तिमुक्तावल्यां स्थलचरजलचरान्योक्तिनिरूपको द्वितीयः परिच्छेदः ॥ २ ॥
तृतीयः परिच्छेदः ।
ज्ञाने पदार्थाः प्रतिबिम्ब्य यस्यानेके निवासं दधिरे विबाधम् ।
स्फटामिषात्सप्तनयारिपुत्वं त्यक्त्वा च तस्थुः स सुखाय पार्श्वः ॥ १ ॥
[२९]विज्ञातनिःशेषपदार्थसार्थं [३०]प्रबर्हवर्हिर्मुखनाथपूज्यम् ।
सुवर्णवर्णै [३१] जिनवर्द्धमानं[३२] गिरामवीशं स्मृतिमानदोऽहम् ॥ २ ॥
अथ चित्रप्रक्रमः ।
तत्रादौ सप्तदशचित्र्यर्थिताष्टादशारचक्रवन्धचित्रेण परमगुरुभट्टारक- श्रीविजयानन्दसूरीश्वराणां स्तुतिमाह-
दक्षलक्षक्षमः सुश्रीर्जयाय यतिपुंगव ।
वल्गुभाभारवन्नित्यं भव क्षिप्तभश्रम ॥ ३ ॥
दयावन्भगवन्भाविलोककोकखगोपम ।
महासौख्यं सतां, दद्याः पुण्यविष्टरवारिद ॥ ४ ॥
दमवंस्त्वं गतव्याज जनानां सकलामद ।
दतुल्य मकान्तारे तारं यच्छ शिवं दमम् ॥ ५ ॥
इतोऽष्टादशारचक्रबन्धचित्रस्यावचूरिः ।
दक्षेति । हे चतिश्रेष्ठ, हे मनोहरप्रभासमूहवन्, हे निरस्तसंसारायास, त्वं मम जयाय भव । कथम् । नित्यम् । कीदृशस्त्वम् । दक्षाणां लक्षाणि दक्षलक्षाणि तेषु क्षमः समर्थः अतिचातुर्यवत्त्वात्, यद्वा दक्षलक्षवत्क्षमा यस्य, अथवा दक्षलक्षैः क्षमो युक्तः दक्षलक्षक्षमः । 'परिपाट्यां क्षमं शक्ते हिते युक्ते क्षमावति' इति हैमानेकार्थकोशः । पुनः कीदृशस्त्वम् । सु शोभना श्रीः शोभा लक्ष्मीर्वा यस्य सः ॥ ३ ॥ कलशः ॥ १ ॥ हे कृपावन्, हे ज्ञानवन्, भावस्तुरीयो धर्मः स विद्यते येषां ते भाविनस्ते च ते लोकाश्च त एव चक्रवाकास्तेषु सूर्यस्येव उपमा यस्य तत्संबुद्धिः, त्वं साधूनां महन्च तत्सौख्यं च महासौख्यं दद्याः । कीदृशस्त्वम् । पुण्यमेव विष्टरो वृक्षस्तस्मिन् वारि ददातीति दारिदो नेघः । ‘वृक्षासनयोर्विष्टरः' इति निपातितः ॥ ४ ॥ धनुः ॥ २ ॥ हे गुरो, त्वं जनानां निरुपद्रवं दमं उपशमं यच्छ देहि । कथम् । तारं यथा भवति तथा । हे दमवन्,
दनुजार्यर्च्य मा देयाः प्राणिनाममलासम ।
मतिप्रष्ठ गतायास त्वया धीररतिप्रद ॥ ६ ॥
दन्ततर्जितसत्सूनचक्रवाल स्य तत्त्वद ।
दक्षमुख्य दरं कामं घनं मम प्रियंवद ॥ ७ ॥
दयोदयदयोन्माददवदाहनवाम्बुद ।
दम्भदस्यो सदाशर्मकण्टकस्वाङ्ग शंकर ॥ ८ ॥ (युग्मम् )
दत्स्व वितरणं शंसूर्वतीश स्मरशंकर ।
रसास्पृशां गुरो तीव्र सूरे सिद्धेर्निरन्तरम् ॥ ९ ॥
इदं संबोधनं सहेतुकम् । 'स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः' इत्युक्तत्वात् । हे निः-कपट । मायारहित इत्यर्थः । कलया सह वर्तत इति सकलः तत्संबुद्धिः, हे मदरहित, हे दवसदृश, दाहकत्वात् । कस्मिन् रोगवने ॥ ५ ॥ शक्तिः ॥ ३ ॥ दैत्यानामरयो देवास्तैरर्च्यस्तत्संबुद्धिः, हे अमल कर्ममलरहित, मल्या प्रष्ठः प्रधानस्तत्संबुद्धिः, हे गत-प्रयास, हे धीररतिप्रद वीर्बुद्धिस्तया राजन्त इति धीरा मेधाविनस्तेषां रतिः सुखं प्रकर्षेण ददातीति तत्संबुद्धिः; यद्वा हे धीर बुद्धया विराजमान, हे रतिप्रद हे सुखप्रद, त्वया प्राणिनां मा लक्ष्मीर्दैया । हे असम न समस्तुल्यो जगति कोऽपि यस्य, यद्वा मया लक्ष्म्या सहवर्तमानः समः न समोऽसमः । निःपरिग्रह इत्यर्थः । तत्संबुद्धिः ॥ ६ ॥ वज्रम्॥ ४ ॥ दन्तैस्तर्जितं सत् शोभनं सूनानां प्रसूनानां चक्रवालं समूहो येन तत्संबुद्धिः, हेतत्त्वदायक, दक्षेषु मुख्यो दक्षमुख्यः तत्संबुद्धि:, हे मधुरभाषक, त्वं काममत्यर्थ मम भयं स्य । 'षोऽन्तकर्मणि' इति धातोः स्फोटय ॥ ७ ॥ दयाया उदयो दयोदयः तं दयते ददातीति दयोदयदयस्तत्संबुद्धिः । उन्मादो मोहोदयाच्चित्तविप्लवः स एव दवदाहो वनवह्निस्तत्र नवाम्बुदो यः स तत्संबुद्धिः, दम्भः कपटं तस्य दस्युर्देष्टा तत्संबुद्धिः । 'दस्युः सपत्नो सहनो विपक्षः' इति हैमः । सदा निरन्तरं शर्मणः कण्टको रोमाञ्चः स्वस्याङ्गे यस्य तत्संबुद्धिः । शं सुखं करोतीति शंकरस्तत्संबुद्धिः ॥ ८॥ द्वाभ्यां खड्गम् ॥५॥ हे व्रतिनामीश, हे स्मरशंकर स्मरे शंकर ईश इव, हे तीव्र तीव्रतपःकरणात्, यद्वा तपस्युत्कट । 'तीव्रं कटूष्णात्यर्थेषु' इति हैमानेकार्थकोशः । हे सूरे सूरिपदधारक, हे गुरो गृणाति हिताहितमुपदिशतीति गुरुस्तत्संबोधनं, त्वं नित्यं सिद्धेर्वितरणं दानं दत्व । केषाम् । रसां पृथ्वीं स्पृशन्ति ते रसास्पृशस्तेषां पुंसां शं सुखं तस्य सूरुत्प
दक रद्रुवने भूरि कल्याणं वह सुन्दर ।
रणरोगादिनिर्मुक्त द्रव गङ्गाम्बुनिर्मल ॥ १० ॥
दन्तावलग सद्वंशेश्वर भट्टमरं किल ।
रयान्मम प्रदेहि त्वं शमवान्वारिजक्रम ॥ ११ ॥
दर्भाग्रप्रतिभं देवं मनसा ततसानम ।
महप्रदगुणागारं वरदासं सदारवम् ॥ १२ ॥
दम्भोलिर्गदशैलेऽकं छिन्धि रध्य घनारव ।
वर्यश्रीवन्तसंजात तमोद मम सन्नत ॥ १३ ॥
त्तित्थानं तत्संबुद्धिः ॥९॥ सुसलम् ॥६॥ हे दक, कस्मिन् । रद्रुवने रं ध्यानमर्थाच्छुभध्यानं तदेव द्रुर्द्रुनस्तस्य वनं तस्मिन् । 'रं क्लीबे रुधिरे मूर्ध्नि ध्याने(व्यो)योमाण्डकुक्षिषु' इत्येकाक्षरा- नेकार्थनामकोशे । हे सुन्दर सुन्दराकृते, हे रणरोगविनिर्मुक्त रणाश्च रोगाश्च तैर्विनिर्मुक्त, हे द्रव द्रः स्वर्णं तस्येव उपमा यस्य । 'द्रः कामरूपिणि स्वर्णे' 'वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम्' इति द्वैमानेकार्थकोशे । हे गङ्गाम्बुनिर्मल गङ्गाम्बुवन्निर्मल निरतिचारचारित्राचरणात् । त्वं भूरि कल्याणं वह प्रापय ॥१०॥ अर्धभ्रमः ॥७॥ किलेति सत्ये । हे दन्तावलग हे गजगतं, दन्तावल इव गच्छतीति तत्संबुद्धिः । 'दन्तावलः करटिकुञ्जरकुम्भिपीलवः' इति हैमः । हे सवंश सञ्छोभनो वंशोऽन्वयो यस्य तत्संबुद्धिः, हे ईश्वर हे ऐश्वर्यवन् ज्ञानाद्यर्धि-समृद्धत्वात्, यद्वा सञ्छोभनश्वासौ वंशः प्राच्यवंशश्च तस्येश्वरस्तत्संबुद्धिः, हे वारिजक्रम चारिजे कमले इव क्रमौ यस्य, यद्वा वारिजं क्रमयोर्यस्य तत्संबोधनं, त्वं शीघ्रं मम भद्रभरं कल्याणसमूहं प्रदेहि । कीदृशस्त्वम् । शमवान् शमगुणयुक्तः ॥ ११ ॥ शरः ॥ ८ ॥ दर्भाग्रेति । हे ततस तता विस्तीर्णा सा लक्ष्मीर्यस्य । 'ता सा श्रीः कमलेन्दिरा' इति हैमः । तत्संवृद्धिः ईदृग् हे जन, त्वं देवं दीव्यति ज्ञानश्रिया दीप्यत इति देवः, यद्वा दीव्यते विश्वमनेनेति देवस्तं अर्थात् गणनाथं मनसा कृत्वा आनमेति संबन्धः कीदृशं देवम् । कुशाग्रीयमतिम् । पुनः कीदृशम् । महानुत्सवान्प्रददति ते महप्रदाः एवंविधाश्च ते गुणाच तेषामगारं गृहम् । पुनः कीदृशम् । वरः प्रधानो दासः प्रभावो यस्य, यद्वा वराः प्रधाना दासाः सेवका यस्य तम् । 'नवनीते प्रभावेऽग्नौ दासो धीवरमृत्ययोः' इति हैमानेका थंकोशः । पुनः कीदृशम् । सञ्छोभन आरवो ध्वनिर्यस्य तम् ॥ १२ ॥ रथपदम्
॥ ९ ॥ हे वर्यश्रीवन्तसंजात वर्यवासौ श्रीवन्तश्च तस्मात्संजातस्तत्संवोधनं, त्वं मम
दमीश त्वां सुधीराहमानमामि ननाजित ।
तत्त्ववित् तततावेश्म सारमाननगेऽच्युत ॥ १४ ॥
दं तन्यास्त्वं तमःकंसकंसशत्रो सुरैर्नतः ।
तनुप्रभाजितस्वर्ण मुनिप्रभुर्मतो भुवि ॥१५ ॥
दक्षमानम मेधाविदकजातलसद्रविम् ।
विनतं वासवैः स्फारं विमलं सूरिसिन्धुरम् ॥ १६ ॥
अकं दुःखं पापं वा । 'अकं दुःखाघयोः' इति हैमानेकार्थकोशः । छिन्धि जहीहि । कीदृशस्त्वम् । गदो रोग एव शैलः पर्वतः तस्मिन् दम्भोलिर्वज्रमिव, हे घनारव घनवन्मेघवदारवो ध्वनिर्यस्य तत्संबोधनम् । हे तमोद तमांस्यज्ञानानि यति खण्डयतीति, यद्वा न ददातीत्यदः तमसः अदस्तमोदस्तत्संबोधनम्, सद्भिर्नतः
सन्नतस्तत्संबोधनं हे सन्नत ॥ १३ ॥ भल्लः ॥ १० ॥ हे मुनीश, अहं त्वां आनमामीति संबन्धः । हे सुधीर सु शोभना धीर्येषां ते सुधियस्तैः राजत इति सुधीरः, यद्वा सुशोभना धीराः पण्डिता यस्य तत्संबोधनम्, हे नन, अजित, न जितः अजितः । द्वौ नकारौ प्रकृत्यर्थं सूचयतः । अपि तु अजित इत्यर्थः । अष्टकर्मभिरिति गम्यम् । हे तत्त्ववित् तत्त्वानि वेत्तीति तत्संबुद्धिः, हे तततावेश्म तता विस्तीर्णा चासौ ता लक्ष्मीश्च तस्यां वेश्म गृहं तत्संबोधनं, हे अच्युत हे अपतित । 'पतितं गलितं च्युतम्’ इति हैमः । कस्मिन् । स्मरमाननगे स्मरयुक्तो मानः स्मरमानः, यद्वा स्मरस्य मानोऽहंकारः स एव नगस्तस्मिन् ॥ १४ ॥ श्रीकरी ॥ ११ ॥ हे गुरो, त्वं दं दानं पुण्यं वा । 'दं दानं शरणं कर्म भव्यं न्यूनम किल्बिषम्' इत्यनेकार्थकोशः । तन्या इति योगः । कीदृशस्त्वं सुरैर्देवैर्नतः प्रणतः । पुनः कीदृशः । मुनीनां प्रभुः स्वामी । पुनः कीदृशः। मतो मान्यः । कस्याम् । भुवि पृथिव्याम् । हे तमःकंसकंसशत्रो तमोऽज्ञानमेव कंसः तस्मिन्कंसशत्रुर्विष्णुरिव तत्संबोधनम्, हे तनुप्रभाजितस्वर्ण तनर्देहस्य प्रभया जितं स्वर्ण येन तत्संबुद्धिः ॥ १५ ॥ हलम् ॥ १२ ॥ हे जन, त्वं सूरिसिन्धुरं सूरिषु सिन्धुरो गज इव तं आनम । कीदृशम् । दक्षम् । पुनः कीदृशम् । मेधाविन एव दकजातानि पद्मानि तेषु बोधकत्वाल्लसद्रविं स्फूर्जत्सूर्यम् । पुनः कीदृशम् । वासवैरिन्द्रैर्विनतम् । पुनः कीदृशम् । स्फारं मनोहरम् । पुनः कीदृशम् । विमलं पापमलरहितम् ॥ १६ ॥
दद साधोऽजरासाजरामाभी रहितोऽमल ।
रम तो हितकृत्सार रसास्पृकूहृदयेऽपर ॥ १७ ॥
दह पापं विशां ध्येय नित्यं मुनुक्षुराड्वर ।
ललन्कंकलरम्भाद दभारं शंकर सक ॥ १८ ॥
ददं भन्दवदं सकृद्गुरुं भजत सामकम् ।
कल्पकल्पं कर्मकषं कजकम्रकरं कमम् ॥ १९ ॥
छत्रम् ॥ १३ ॥ हे साधो, त्वं रसास्पृशां नृणां हृदयं रसास्पृग्वृदयं तस्मिन् रम इति संबन्धः । हे दद ददातीति ददस्तत्संवोधनम् । हे अजर न विद्यते जरा यस्य तत्संवोधनम् । हे अमाज न विद्यते माजः कन्दर्पो यस्य तत्संबोधनम् । कीदृशस्त्वम् । रामाभिः स्त्रीभिः रहितः, यद्वा त्वं कीदृशः । जरामाजरामाभीरहितः जरा च माजश्च रामाश्च ताभिः । परवल्लिङ्गम् । हे अमल न विद्यते मलः कर्मरूपो यस्य तत्संबोधनम् । पुनः कीदृशस्त्वम् । तः सुवेषः । 'तः सुवेषो मता नारी' इत्येकाक्षरानेकार्थनासकोशे । पुनः कीदृशस्त्वम् । हितं करोतीति हितकृत्, हे सार हे श्रेष्ठ, हे अपर न विद्यते पराः शत्रवो रागद्वेषादयो यस्य तत्संबोधनम् ॥ १७ ॥ शङ्खः ॥ १४ ॥ हे मुमुक्षुराड्वर मुमुक्षुराज्ञां मध्ये वर श्रेष्ठ, हे ध्येय ध्यातुमर्ह, त्वं विशां पापं दह । कथम् । नित्यम् । हे ललन्कंकलरम्भाद ललतीति ललन् तच्च तत्कं च ललन्कं तदेव कलरम्भा मनोज्ञकदली तां ददातीति तत्संवोधनम् । अरं अत्यर्थे दम दं दानं तेन भातीति दद्भत्तत्संवोधनं हे शंकर, हे सक सह केन सुखेन वर्तत इति सकस्तत्संवो-धनम् ॥ १८ ॥ त्रिशूलम् ॥ १५ ॥ सो जनाः, यूयं सकृदपि अपीति गम्यम् ।आस्तामनेकवारं एकवारमपि ममेदं मामकं गुरुं हिताहितोपदेशकं भजत सेवत । कीदृशम् । ददातीति ददस्तम् । 'ददातिदधात्योर्विभाषा' इति शस्तम् । पुनः कीदृशम् ।
मन्दं कल्याणं वदतीति भन्दवदस्तम् । 'भन्दं कल्याणे सौख्ये च' इति हैमानेकार्थकोशः । पुनः कीदृशम् । कल्पकल्पं कल्पो देवभूरुहस्तत्सदृशः कल्पकल्पस्तम् । 'ईषदपरिसमाप्तौ कल्पव्देश्यदेशीयरः' । पुनः कीदृशम् | कर्माणि कषति हिनस्तीति कर्मकषस्तम् । पुनः कीदृशम् । कजकम्रकरं कजं पद्मं तद्वत्कम्रौ कमनीयौ करौ इस्तौ यस्य तम् । पुनः कीदृशम् । कमं कं सुखं मयते प्रतिददातीति । 'मेङ् प्रणिदाने' इति वचनात् । यद्वा कस्य
दद्यान्मे ततविज्ञातशास्त्रः शातं तमःशमः ।
मर्त्यस्तुतस्तपागच्छाधीशः सततवैभवः ॥ २० ॥
एभिः सप्तदशमिब्धित्रैः स्वगुरुनामगर्मितं कर्तृनामगर्मितं चाष्टादशारं चक्रं संपद्यते । स्थापना च प्राक्प्रदर्शिता ।
सूरीशविजयानन्दपादपद्मं सुखप्रदम् ।
अभितोभूय सद्भक्त्या नम्रकम्रनरेश्वरम् ॥ २१ ॥
अथ प्रतिद्वारवृत्तानि ॥ ३ ॥
तृतीयेऽथ परिच्छेदे प्रतिद्वारक्रमो मया ।
क्रियते कोविदवृन्दहृदयानन्ददायकः ॥ २२ ॥
हंसान्योक्तिः शुकान्योक्तिर्बक्रोक्तिः खञ्जनोक्तयः ।
कोकिलान्योक्तयस्तद्वत्काकस्यान्योक्तयः पुनः ॥ २३ ॥
कुक्कुटान्योक्तयो ज्ञेया मयूरान्योक्तयस्ततः ।
चक्रवाकोक्तिरपरा चातकोक्तिः स्मृता बुधैः ॥ २४ ॥
चकोरोक्तिः सारसोक्तिष्टिट्टिभोक्तिः प्रभासुरा ।
तथा मयूरपिच्छोक्तिर्ज्ञेया कोविदकुञ्जरैः ॥ २५ ॥
अथ खचराधिकारपद्धतौ प्रथमं हंसान्योक्तयः ॥ १ ॥
अम्भोजिनीवननिवासविलासमेव
हंसस्य इन्त्यतितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधिप्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २६ ॥
सुखस्य मा लक्ष्मीर्यस्य तम् ॥ १९ ॥ चामरम् ॥ १६ ॥ दद्यादिति । मर्त्यस्तुतो नरैर्नुत: शातं दद्यात् । कस्य मे मम । किंभूतः । ततानि विस्तीर्णानि विज्ञातानि शास्त्राणि येन सः । पुनः किंभूतः । तमोऽज्ञानं शमयतीति तमःशमः। पुनः कीदृशः । तपागच्छ- स्याधीशस्तपागच्छाधीशः । पुनः किदृशः । सततं निरन्तरं वैभवः समृद्धिर्यस्य ॥ २० ॥ श्रीकरी ॥ १७ ॥ इत्यष्टादशारचक्रबन्धचित्रस्यावचूरिः ॥
कंसारिचरणोद्भुतसिन्धुकल्लोलालितम् ।
मन्ये हंस सनो नीरे कुल्याया रमते न ते ॥ २७ ॥
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ २८ ॥
यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् ।
अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥ २९ ॥
अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् ।
रमते न मरालस्य मानसं मानसं विना ॥ ३० ॥
भृङ्गाङ्गनाजनमनोहरहारिगीत-
राजीवरेणुकणकर्णपिशङ्गतोयाम् ।
रम्यां हिमाचलनदीं प्रविहाय हंस
हे हे हताश वद कां दिशमुत्सुकोऽसि ॥ ३१ ॥
[३३]स्थित्वा क्षणं वि[३४]ततपक्षतिरन्तरिक्षे
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्नमन्युपरिघर्घरनिःस्वनेन
हंसेन साश्रु परिवृत्य गतं नलीनम् ॥ ३२ ॥
सरसि बहुशस्ताराच्छाया दशन्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ३३ ॥
वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्वलो
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।
कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेऽप्यक्षमः
सोऽयं संप्रति हंसको मरुगतः कोष्णं पयो याचते ॥ ३४ ॥
तरौ तीरोद्भुते क्वचिदपि दलाच्छादितवपुः
पतद्धारासारां गमय विषमां प्रावृषमिमाम् ।
निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने
स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ३५ ॥
रे राजहंस किमिति त्वमिहागतोऽसि
योऽसौ बकः स इह हंस इति प्रतीतः ।
तद्गम्यतामनुपदेन पुनः स्वभूमौ
यावद्वदन्ति बक एष न मूढलोकाः ॥ ३६ ॥
दुष्टं बकोटनिकरोऽपि मरालबुद्ध्या
मानप्रदे जनपदेऽत्र समागतोऽसि ।
तन्मौनमेव कुरु हे कलहंस नो चे-
त्त्वं वक्ष्यसे बक इतीह विमूढलोकैः ॥ ३७ ॥
यो दिव्याम्बुजवृन्दमत्तमधुपप्रोद्गीतिरम्यं सर-
स्त्यक्त्वा मानसमल्पवारिणि रतिं बध्नाति केदारके ।
तस्यालीकसुखाशया परिभवक्षोदीकृतस्याधुना
हंसस्योपरि टिट्टिभो यदि रतिं धत्तेऽत्र को विस्मयः ॥ ३८ ॥
अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका-
वित्यक्तान्बलितन्दुलान्कवलयन्दृष्टोऽसि हृष्टैर्मुखैः ।
एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभि-
र्व्यधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नो सूत्र्यते ॥ ३९ ॥
हे हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं
हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रसध्वम् ।
यावन्नार्च्छच्चिरं यो हरगलगरलव्यालजालालिनील-
प्रोन्मीलन्मेघमालामलिनसकलदिङ्मण्डलोऽभ्येति कालः ॥ ४० ॥
स्मरसि सरसि वीचीमम्बुदोलायितानां
तदनु बिसलताग्रं त्वन्मुखाद्यन्मदाप्तम् ।
इति मनसि निविष्टामान्दपन्नेव हंसीं
त्यजति विरहखेदाज्जीवितं राजहंसः ॥ ११ ॥
यः संतापमपाकरोति जगतां यश्चोपकारक्षगः
सर्वेषाममृतान्मकेन वपुषा प्रीणाति नेत्राणि यः ।
तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता
वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरपि ॥ ४२ ॥
गतं तद्गाम्भीर्यं नटनपि चितं जलिकशनैः
सखे हंसोत्तिष्ठ त्वरितमनुनोऽन्यत्र गरमः ।
न यावत्पकान्भःकन्दुपितनुर्भूरि बिरट-
न्वकोटो वाचाटश्चरणयुगलं मूर्ध्निं कुरुते ॥ १३ ॥
आकारः कमनीयताकुलगृहं लीलालसा सा गतिः
संपर्कः कमलालयैः कलनया लोकोत्तरं कृजितम् |
यत्येयं गुणसंपत्ति महती तस्यातिभव्यस्य ते
संरब्धत्वनसङ्गमन्द्रकलहं नाहं सहे हंस हे ॥ १४ ॥
नद्यो नीचनरा दुरापपयसः कूपाः पयोराशयः
क्षारा दुष्टवकोटकङ्कटतटोंद्दशान्तटाकादयः ।
भ्रान्त्वा भूतलमाकलव्य सकलानम्भोनिवेशानिति
त्वां भो मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥ ४५ ॥
हंस त्वं शरदिन्दुधामधवलः पक्षद्वयप्रोन्नतो
धात्रीमण्डलमण्डनस्थिरपदः श्लाघ्यं न किंवा तव ।
एकत्वं गतयस्तदङ्ग कुरुपे भेदं च दुग्धाम्भसो
नूनं सर्वगुणान्वितस्य भवतस्ते नैव युक्तं मनाक् ॥ ४६ ॥
क्रुद्धोलूकनखप्रपातबिगलत्पक्षा ह्यपि स्वाश्रयं
ये नोज्झन्ति पुरीषदुष्टवपुपस्ते केऽपि चान्ये द्विजाः ।
येऽपि स्वर्गतरङ्गिणीकमलिनीलेशेन संवर्धिता
गाङ्गं नीरमपि त्यजन्ति कलुपं ते राजहंसा वयम् ॥ ४७ ॥
पक्षौ तावदतीन्द्रधामधवलौ धन्या गतेश्चारुता
नादः सादरसुन्दराश्रुतिसुखः स्थानं सरो मानसम् ।
नीरक्षीरविवेचनं च सहजं श्लाघ्यो गुणानां गणः
शेवालाङ्कुरपत्रभोजनमिदं नाहं सहे हंस हे ॥ ४८ ॥
हंहो हंस महामते बलिभुजां मध्ये स्थितिं मा कृथा
लोकस्त्वां सितकाकमेव मनुते मीमांसते नो गतिम् ।
नो जानाति विमिश्रदुग्धपयसां दुग्धग्रहे नैपुणं
घूकैः संप्रहरस्यते तव शिरस्त्वं धाम तूर्णं व्रज ॥ ४९ ॥
तटमनुतटं पद्मे पद्मे निवेशितमानसं
प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासिनम् ।
नयनसलिलैरुष्णैः कोष्णाः कृता जलवीचयो
जलदमलिनां हंसेनाशां विलोक्य गमिष्यता ॥ ५० ॥
पीतं येन पुरा पुरन्दरपुरस्त्रीवारिकेलिक्षल-
न्मन्दाराङ्कुरकर्णपूरसुरभि खर्गापगायाः पयः ।
पातुं पल्वलवारि पामरवधूपादार्पणप्रोच्छल-
त्पङ्कातङ्कितभेकभिन्नमघृणो हंसः किमाकाङ्क्षति ॥ ५१ ॥
सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रौञ्च चञ्चुप्रभिन्न-
प्रोन्निद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः ।
किंतु खच्छाशयत्वं जगति न सुलभं तेन गत्वापि दूरे
बद्धोत्कण्ठोऽनुरागादनुसरति सरो मानसं राजहंसः ॥ ५२ ॥
ये वर्धिताः कनकपङ्कजरेणुमध्ये
मन्दाकिनीविमलनीरतरङ्गभङ्गैः ।
ते सांप्रतं विधिवशात्खलु राजहंसाः
शेवालजालजटिलं जलसाश्रयन्ति ॥ ५३ ॥
मैवं मंस्थाः स्थितिपदमहं मत्त एवाम्बुलाभो
मय्यायत्तं जठरभरणं मत्कृता सत्क्रिया वा ।
स्थास्यन्त्येते परिभवनपि प्राप्य हे पद्मसद्म-
न्नैक्स्यार्ये कमलसरसो निर्मिता राजहंसाः ॥ ५४ ॥
यत्रापि तत्रापि गता भवन्ति हंसा महीमण्डलमण्डनाय ।
हानिस्तु तेषां हि सरोवराणां येषां नरालैः सह विप्रयोगः ॥ ५५ ॥
गाङ्गमम्बु सितमम्वु यानुनं कज्जलायमुभये निमज्जतः ।
चीयते न च न चापचीयते राजहंस तत्र शुद्धपक्षता ॥ ५६ ॥
हंसोऽसि तुमं सरमण्डणोऽसि धवलोऽसि धवल किं भणिमो ।
खलवायसाणमज्झे मूढ तुमं कत्थ पडिओसि ॥ ५७ ॥
कारणवसेण सुन्दरि हंसा सेवन्ति गामवाहुलिया ।
गमयन्ति केवि दीहा पुणोवि जो जत्थ सो तत्थ ॥ ५८ ॥
हंसो मसाणमज्झे काओजो वसइ पङ्कजवणम्मि |
तहविहु हंसो हंसो काओ काओ वियाणीओ ॥ ५९ ॥
सव्वेसु तुमं पावेसि सरोवरं रायहंस नहुचुज्जम् ।
माणससरसारिच्छं कहवि भमन्तो ण पावेसि ॥ ६० ॥
माणसविणा सुहाई जहय ण लव्भन्ति रायहंसेहिम् ।
तह तस्सवि तेहिविणा तीरुच्छङ्गा ण सोहन्ति ॥ ६१ ॥
परिसेसिअ हंसउलं पि माणसं माणसं ण संदेहो ।
अन्नत्यविजत्थ गया हंसा विवया ण भणन्ति ॥ ६२ ॥
अथ शुकान्योक्तयः ।
किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।
वाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ ६३ ॥
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।
अदातरि समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ ६४ ॥
शुक यत्तव पठनव्यसनं न गुणः स गुणाभासः ।
समजनि येन तवामरणं शरणं पञ्जरवासः ॥ ६५ ॥
धिक्तव शुक पठनव्यसनं जातं पञ्जरवासः ।
वरमन्ये द्विजराजगणस्तिष्ठति यः सुविलासः ॥ ६६ ॥
अये कीरश्रेणीपरिवृढ वृथा वासरशतं
किमर्थं व्यर्थं त्वं क्षपयसि पलाशे रभसतः ।
यदा पुष्पारम्भे मुखमलिनि किं किंशुकतरो-
स्तदैवं विज्ञातं फलपरिचयो दुर्लभ इति ॥ ६७ ॥
उच्चैरेकतरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
पक्कं शालिवनं विहाय जडधीस्तां नालिकेरीं गतः ।
तत्रारुह्य बुभुक्षितेन मनसारम्भः कृतो भेदने
ह्यायासो ननु केवलं विगलितो चञ्चुर्गता कूर्चताम् ॥ ६८ ॥
इदमकटु कपाटं जर्जरः पञ्जरोऽयं
विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा ।
शुक मुकुलितजिह्वं स्थीयतां किं वचोभि-
स्तव वचनविनोदेऽनादरः पामराणाम् ॥ ६९ ॥
सत्साङ्गत्यमवाप्य यः पुरवने नानारसास्वादव-
त्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने ।
दैवेनास्फुटवाक्प्रपञ्चविहितश्रोत्रस्य तस्याटवीं
प्राप्तस्यात्मसभाप्रगल्भकविषु स्यान्मौनमेवोचितम् ॥ ७० ।।
भ्रातः कीर कठोरचञ्चुकषणक्रोधायितैः कूजितैः
किं माधुर्यनिषिक्तसूक्तिविशदः कण्ठावटुः शोष्यते ।
श्रीमद्राघवनामधेयमनिशं त्वं ब्रूहि मुक्तिप्रदं
सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते ॥ ७९ ॥
अमुष्मिन्नुद्याने विहग खल एष प्रतिफलं
विलोलः काकोलः क्वणति किल यावत्पटुतरम् ।
सखे तावत्कीर द्रढय हृदि वाचंयमकलां
न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ७२ ॥
इयं पल्ली भिल्लैरचितसमारम्भरसिकैः
समन्तादाविष्टा विषमविषबाणप्रणयिभिः ।
तरोरस्य स्कन्धे गमय समयं कीर निभृतं
न वाणी कल्याणी तदिह तव मुद्रैव शरणम् ॥ ७३ ॥
अथ वकान्योक्तयः ।
नालेनैव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् ।
जनयति कुमुदभ्रान्तिं वृद्धवको वालमत्स्यानाम् ॥ ७४ ॥
एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य ।
साधु कृतान्त न कश्चिदपि त्वां वञ्चयितुं सुशठोऽपि समर्थः ॥ ७५ ॥
कलयतु हंस विलासगतिं स बकः सरसि वराकः ।
नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ॥ ७६ ॥
वकेऽपि हंसेऽपि च वासभूमिरेकैव शुक्लो गुण एक एव ।
पृथग्विधातुं पयसी तु हंसे चातुर्यमास्ते न वके वराके ॥ ७७ ॥
बकोट व्रूमस्त्वां लघुनि सरसि कापि शफरै-
स्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचितः ।
इतश्वेतश्चाभ्रंलिहलहरिहेलातरलित-
क्षितिध्रग्रावौकग्रहिलतिमि(ने)तः पतिरपाम् ॥ ७८ ॥
न कोकिलानामिव मञ्जु कूजितं न लब्धलास्यानि गतानि हंसवत् ।
न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति वके वकव्रतम् ॥ ७९ ॥
जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्कुरै-
र्न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिर्न वाचः कलाः ।
जीवन्सत्ववधेन बाह्यधवलोद्भ्राम्यत्सगर्वं पुन-
र्मिथ्यैवोन्नतकन्धरः शठबको हंसैः सह स्पर्धते ॥ ८० ॥
कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसा-
त्किं तत्रास्ति सुवर्णपङ्कजवनं तोयं सुधासंनिभम् ।
मुक्तास्फोटविभिन्नभूमिपटलं वैडूर्यरोहः क्वचि-
च्छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥८१
उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः
सदा मीनं मुङ्क्ते वसति सकलस्थाणुशिरसि ।
बके चन्द्रः सर्वो गुणसमुदयः किंचिदधिका
गुणाः स्थाने मान्या नरवर नतु स्थानरहिताः ॥ ८२ ॥
रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्विव्रतं
ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् ।
एवं यत्किल मानसस्य पदवीं काङ्क्षस्ययुक्तं हि त-
न्नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥ ८३ ॥
सिक्खेसि गयं सिक्खेसि वक्किमा धवलिमं समुव्वहसि ।
कह सिक्खसि बगराया पयनीरजुयंजुयाकरणम् ॥ ८४ ॥
अथ खञ्जनान्योक्तिः ।
आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता
बन्धौ निर्ममता वने रसिकता वाचालता माधवे
त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात्पुनर्दाम्भिकं
वन्दन्ते बत खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम्
॥ ८५ ॥
अथ कोकिलान्योक्तयः ।
काकैः सह विवृद्धस्य कोकिलस्य कला गिरः |
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ८६ ॥
समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।
श्वभ्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ८७ ॥
सहकारे चिरं स्थित्वा सलीलं बालकोकिल ।
तं हित्वाद्य करीरेषु विचरन्न विलज्जसे ॥ ८८ ॥
कलकण्ठ यथा शोभा सहकारे भवद्गिरः ।
खदिरे वा पलाशे वा किं तथा स्याद्विचारय ॥ ८९ ॥
पक्कं चूतफलं भुक्त्वा गर्वान्नायाति कोकिलः ।
पीत्वा कर्दमपानीयं भेको भकभकायते ॥ ९० ॥
साधु साधुकृतं मौनं कोकिले प्रावृषि त्वया ।
दर्दुरा यत्र भाषन्ते कथं तव सुभाषितम् ॥ ९१ ॥
न विना मधुमासेन अ(ह्य)न्तरं पिककाकयोः ।
वसन्ते च पुनः प्राप्ते काकः काकः पिकः पिकः ॥ ९२ ॥
रसालशिखरासीनाः सन्तु सन्तु पतत्रिणः ।
तन्मञ्जरीरसास्वादबिन्दुरेकः कुहूमुखः ॥ ९३ ॥
गुणिनं गुणयति गुणवानितरस्तत्र वराकः ।
सहकाराङ्कुररसिकः कोकिल एव न काकः ॥ ९४ ॥
रे रे कोकिल मा भज मौनं किंचिदुदञ्चय पञ्चमरागम् ।
नो चेत्त्वामिह को जानीते काककदम्बकपिहिते चूते ॥ ९५ ॥
अस्यां सखे बधिरलोकनिवासभूमौ
किं कूजितेन खलु कोकिल कोमलेन ।
एते हि दै[३५]ववशतस्तदभिन्नवर्णं
त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ९६ ॥
कोकिल कलप्रलापैरलमलमालोकसे रसाले किम् ।
शरनिकरभरितशरधिः शबरः सरतीह परिसरे सधनुः ॥ ९७ ॥
तवैतद्वाचि माधुर्यं जातं कोकिल कृत्रिमम् ।
यैः पोषितोऽसि तानेव जातपक्षो जहासि यत् ॥ ९८ ॥
मूकीभूय तमेव कोकिल मधु बन्धुं प्रतीक्षस्व हे
हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् ।
यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लस-
त्पांसूत्तम्भभृतो निदाघदिवसाः संतापसंदायिनः ॥ ९९ ॥
येनानन्दमये वसन्तसमये सौरभ्यहेलामिल-
द्भृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः ।
आः कालस्य वशेन कोकिलयुवा सोऽप्यद्य सर्वा दिशः
खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुर्धावति ॥ १०० ॥
कचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः
क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः ।
क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना
कथंकारं तारं रसति चकितः कोकिलयुवा ॥ १०१ ॥
उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि
कां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले ।
सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटवः
क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ १०२ ॥
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
व्यग्राणि ग्रथयन्ति मन्मथकथां चित्तानि चैत्रोत्सवे ।
रे रे काक वराक साकममुना पुंस्कोकिलस्याधुना
स्पर्धाबन्धमुपेयुषस्तव नु किं लज्जापि नोजागरा ॥ १०३ ॥
हे कोकिल क्षपय कालमलालसत्वं
वाचंयमत्वमवलम्ब्य कियद्दिनानि ।
श्रीखण्डशैलसुहृदः प्रसरन्ति याव-
त्ते वायवः सहचराः सहकारलक्ष्म्याः ॥ १०४ ॥
मा कलकण्ठ कलध्वनिमिह मिहि[३६]रमहीरुहस्य मूर्ध्नि कृथाः ।
[३७]मूलमिमं कथयिष्यति जडो जनस्तव गिरां सुतराम् ॥ १०५ ॥
रे बालकोकिल करीरमरुस्थलीषु
किं दुर्विदग्धमधुरध्वनिमातनोषि ।
अन्यः स कोऽपि सहकारतरुप्रदेशो
राजन्ति यत्र तव विभ्रमभाषितानि ॥ १०६ ॥
रे कीर कैतवसुगीरिति संकलय्य
मामत्र संरससि सज्जनरञ्जनाय
बालोऽपि यत्र कलकण्ठसुकण्ठपीठ-
संलोठिकोमलकुहूरुतपूर्णकर्णः ॥ १०७ ॥
परभृतशिशो मौनं तावद्विधेहि नभस्थलो-
त्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।
ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण-
ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाइतिजर्जरः ॥ १०८ ॥
मालिन्यं भुवनातिशायि रुचिरं नो किंचिदप्याकृतौ (ता)-
(व)अन्यैः पोषणमात्मनो विसदृशैस्तत्रापि काकैः किल ।
भ्रातः कोकिल सर्वमेतदमृतस्रोतस्विनीसोदरे
माधुर्ये भवतो गिरां समधिके निर्नाम निर्मजति ॥ १०९ ॥
चूतोऽयं नवमञ्जरीपरिकरो वाचो ममास्याश्रया-
ल्लप्स्यन्ते किल संप्रति प्रणयिनां मत्वेति यावत्स्थितः ।
तावत्कोटरगर्भसुस्थितवता घूकेन धूत्कुर्वता
क्षुप्तः काकधिया स कोकिलयुवा धिङ्म्लानतामाकृतेः ॥ ११० ॥
दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।
दैवाद्यावदसौ रसालविटपिच्छायामनासादय-
न्निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥ १११ ॥
भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्थ्यो गुण-
स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे ।
प्रोद्दामद्रुमसंकटे कटुरटत्काकावलीसंकुलः
कालोऽयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥ ११२ ॥
अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् ।
अपि पिकदयिते कथं मतिस्ते घटयति निष्फलपिप्पलेऽवलेपम् ॥ ११३ ॥
येनोषितं रुचिरपल्लवमञ्जरीभिः
श्रीखण्डचम्पकरसालवने सदैव ।
दैवात्स कोकिलयुवा विचचार निम्बे
तत्रापि रुष्टबलिपुष्टकुलैर्निनादः ॥ ११४ ॥
तावन्मौनेन नीयन्ते कोकिलैरिव वासराः ।
यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ ११५ ॥
अथ काकान्योक्तयः ।
तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः ।
केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ११६ ॥
आमरणादपि विरुतं कुर्वाणा: स्पर्धया सह मयूरैः ।
किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥ ११७ ॥
उषितः कोकिलयापि समं तदपि वराकः काकः ।
लभतेऽद्यापि न सुस्वरतां गुरुरिह कर्मविपाकः ॥ ११८ ॥
कर्णारुन्तुदमन्तरेण रणितं त्वां कोकिलं मन्महे
माकन्दं मकरन्दसुन्दरमिदं गाहस्व काक स्वयम् ।
भव्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां
नेपालक्षितिपालभालति[३८]लके पङ्कं न शङ्केत कः ॥ ११९ ॥
गात्रं ते मलिनं तथा श्रवणयोरुद्वेषकृत्क्रेङ्कितं
भक्ष्यं सर्वमपि स्वभावचटुलं दुश्चेष्टितं ते सदा ।
एतैर्वायससङ्गतोऽस्य विनयैर्दोषिकमूलैः परं
यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव वन्द्यो भवान् ॥ १२० ॥
पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां
दधिभृतघटीं गर्वोन्नद्धः समुद्धतकंधरः ।
निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो
यदि न कुरुते काणः काकः कदा नु करिष्यति ॥१२१॥
रूक्षस्यामधुरम्य चातिमलिनच्छायस्य दृष्टस्य च
क्षुद्रस्य क्षतिकारिणोऽतिचपलस्याह्लादविच्छेदिनः ।
येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी
प्रीतिस्तत्सदृशं विधेर्विलसितं निष्पन्नमेतच्चिरात् ॥ १२२ ॥
प्रत्यङ्गणं प्रतितरुं प्रतिवापितीरं
काकाश्चलन्ति चलचञ्ञ्जुपुटा रटन्तः ।
नो यान्ति तृप्तिमथ मण्डितपुण्डरीक-
खण्डे ब्रसन्नहह तृप्यति राजहंसः ॥ १२३ ॥
कृष्णं वपुर्वहतु चुम्बतु सत्फलानि
रम्येषु संचरतु चूतवनान्तरेषु ।
पुंस्कोकिलस्य चरितानि करोतु कामं
काकः कलध्वनिविधौ ननु काक एव ॥ १२४ ॥
किं कीरकोकिलमयूरमरालवंशे
कोऽप्यत्र नास्ति धरणीतलरम्यहर्म्यः ।
येनाधुना कनकपञ्जरमध्यवर्ती
काकः करोति कुरुतानि कुचेष्टितानि ॥ १२५ ॥
आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं
वक्त्रं विडि्वकृतं कृतान्तसमयालम्बीदमालोकितम् ।
क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते
तत्केनास्तु वराक काक कनकागारे तवावेशनम् ॥ १२६ ॥
किं केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वरः
किं वा हंस इवाङ्गनागतिगुरुः किं कीरवत्पाठकः ।
किंवा हन्त शकुन्तपोतपिकवत्कर्णामृतस्यन्दनं
काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२७ ॥
अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं
वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः ।[३९]
मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनं[४०]
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२८॥
कोटिं जीव पिबामृतं ब्रज सखे शाखान्तरं वायस
आयाते दयिते मनोरथशतैर्दास्यामि दध्योदनम् ।
एतज्जल्पति यावदध्वगवधूस्तावत्पतिः प्राङ्गणे
त्रुट्यत्कञ्जुकजालकत्रुटत्रुटत्सर्वाङ्गमुज्जृम्भितम् ॥ १२९ ।।
रेरे काक वराक साकममुना पुंस्कोकिलेन ध्वनिः (नेः)
स्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा ।
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ॥ १३० ॥
नो चारू चरणौ न चापि रुचिरा चञ्चुर्न रुच्यं वचो
नो लीलाललिता गतिर्न च शुचिः पक्षग्रहोऽयं तव ।
क्रूराक्राङ्कितदुर्भगां गिरमिह स्थाने वृथैवोद्गिर-
न्मूर्ख ध्वाङ्क्ष न लज्जसे विसदृशं पाण्डित्यमुन्नाटयन् ॥ १३१ ॥
अनुचितफलाभिलाषी विधिनैव निवार्यते ह्यधमपुरुषः ।
द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ १३२ ॥
जो जाणइ जस्स गुणे लोएसो तस्स आयरं कुणइ ।
पक्वेदरकारामे काओ निम्बोआणि चुणई ॥ १३३ ॥
अथ कुक्कुटान्योक्तयः ।
भो लोकाः सुकृतोद्यता भवत तं लब्ध्वा भवं मानुषं
मोहान्धाः प्रसरत्प्रमादवशतो माहार्यमाहार्यथाः ।
इत्थं सर्वजनप्रबोधमधुरो यामेर्धयामे सदा
कृत्वोर्ध्वं निजकंधरं प्रतिदिनं कोकूयते कुक्कुटः ॥ १३४ ॥
रमियाण पन्थियाणय पामर चोराण कुक्कडो कहइ ।
रेर महवहहवाहह फलायह पलयं गयार यणी ॥ १३५ ॥
अथ मयूरान्योक्तयः ।
मयूर तव माधुर्यं स्वरेनैवपलभ्यते ।
उरगग्रासनिस्त्रिंसकर्मणा दारुणो भवान् ॥ १३६ ॥
एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः
काकोलूककपोतकोकिलकूलैरेकोऽपि पार्श्वस्थितः ।
केकी कूजति चेत्तदा विघटितव्यलावलीबन्धनः
सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १३७ ॥
केका कर्णामृतं ते कुसुमितकबरीकान्तिहाराः कलापाः
कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसङ्घैः ।
विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः
कैः पुण्यैः प्राप्यमेतत्सकलमपि सखे चित्तवृत्तं मयूर ॥ १३८॥
वेगज्वलविटपपुञ्जमहारवोऽयं
गर्जिर्न तीव्रतरहेतिरियं न शम्पा ।
दावाग्निधूमनिवहोऽयमये न मेघः
किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥ १३९ ॥
अयं नीलग्रीव क्व कथय सखे तेऽद्य मुनयः
परं तोषं येषां तव रवविलासो वितनुते ।
अमी दूरात्क्रूराः क्वणितमिदमाकर्ण्य सहसा
त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः ॥ १४० ॥
हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिलाः
सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरःस्थैरपि ।
एकेनापि तटस्थितेन नदता श्रीखण्डनिस्तर्जना-
व्द्यालानां च शिखण्डिता ननु महापाण्डित्यमुद्दण्डितम् ॥१४१॥
किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा ।
रम्यं वा गगनेन किं विहरणं किंतूग्रकाकावली-
पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ १४२ ॥
यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् ।
यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ १४३ ॥
पीऊण पाणियं सखरम्भि पिट्ठिं नदिन्तिसि हिडिम्भा ।
होही जाण कलावो पयइच्चिय साहएताण ॥ १४४ ॥
अथ चक्रवाकान्योक्तयः ।
कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा
व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् ।
इति विहगसमूहान्नित्यमेवास्ति पृच्छन्
रजनिविरहभीतश्चक्रवाको वराकः ॥ १४५ ॥
अस्तं गतोऽयमरविन्दवनैकबन्धु-
र्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् ।
हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ १४६ ॥
मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् ।
चक्राङ्गेन वियोगिना बिसलता नास्वादिता नोज्झिता
चक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १४७ ॥
वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या
चन्द्रालोको विकचकुमुदामोदहृद्यः समीरः ।
यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्ना
तत्रोपायः क इह भवतु प्राणसंधारणाय ॥ १४८ ॥
कवलितमिह नालं कन्दलं चेह दृष्ट-
मिह हि कुमुदकोशे पीतमम्भः सुशीतम् ।
इति विरटति रात्रौ पर्यटन्ती तटान्ते
सहचरपरिमुक्ता चक्रवाकी वराकी ॥ १४९ ॥
शतगुणपरिपाट्या पर्यटन्नन्तराले
कुमुदकुवलयानां मध्यरात्रेऽपि खिन्नः ।
उपनदि दयितायाः क्वापि शब्दं निशम्य
भ्रमति पुलिनपृष्ठे च [४१]क्रवाको बराकः ॥ १५० ॥
दिनान्ते चक्रवाकेन प्रियाविरहमीरुणा ।
तथा निःश्वसितं तेन यथा नसतं पुनः ॥ १५१ ॥
एकेनार्कं प्रकटितरुपा पाटलेनास्तसंस्थं
पश्यन्त्यक्ष्णाश्रुजललुलितेनापरेण स्वकान्तम् ।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी
द्वौ संकीर्णो रचयति रसौ नर्तकीव प्रगल्भा १५२ ॥
उत्कूजति श्वसति मुह्यति याति तीरं
तीरात्तरुं तरुतलात्पुनरेति वापीम् ।
वाप्यां न तिष्ठति न चात्ति मृणालखण्डं
चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ १५३ ॥
अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥ १५४ ॥
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सह्यमसह्यम् ॥ १५५ ॥
चक्रः पप्रच्छ पान्थं कथय मम सखे अस्ति स क्वापि देशो
वस्तुं नो यत्र रात्रिः प्रचरति विहगायेति स प्रत्युवाच ।
नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना
सूर्ये ह्यन्तर्हितेऽस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ १५६ ॥
अथ चातकान्योक्तयः ।
सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ १५७ ॥
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ १५८ ॥
एक एव खगो मानी चिरं जीवतु चातकः ।
म्रियते वा पिपासातो याचते वा पुरंदरम् ॥ १५९ ॥
भ्रातश्चातक कथय सखे कीदृक् पापमकारि ।
नवजलदादपि चञ्चपुटे यत्ते पतति न वारि ॥ १६० ॥
गर्जितबधिरीकृतककुभा किमपि कृतं न धनेन ।
कियती चातकचञ्जुपुटी सापि भृता न जलेन ॥ १६१ ॥
दीनोन्नतचलपक्षतया बह्वपि लब्धमवस्तु ।
चातक यत्संभावनया किमपि यदस्ति तदस्तु ॥ १६२ ॥
चातकस्य मुखचञ्चसंपुटे नो पतन्ति यदि वारिबिन्दवः ।
सागरीकृतमहीतलस्य किं दोष एव जलदस्य दीयते ॥ १६३ ॥
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता-
मम्भोदागमने वसन्ति बहवः सर्वेऽपि नैतादृशाः ।
केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १६४
अये वापीहंसा निजवसतिसंकोचपिशुनं
कुरुध्वं मा चेतो वियति डयतो वीक्ष्य विहगान् ।
अमी सारङ्गास्ते [४२]जलदजलपानव्यसनिनो
निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ १६५ ॥
स्फटिकविमलं पीत्वा तोयं घनोदरनिःसृतं
पिबति न पयो मासानष्टौ बतापि न चातकः ।
मनसि जलदं स्मृत्वा स्मृत्वा तृषापि न [बाध्यति[४३]]
गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ॥ १६६ ॥
किमत्र हे चातक दीर्घकण्ठं प्रसार्य वक्त्रं करुणं विरौषि ।
रात्रौ दिवा वर्षति वारिदोऽत्र तथापि पत्रत्रितयं पलाशे ॥ १६७ ॥
विरम चातक दैन्यमपास्यतां वत चटूनि कियन्ति करिष्यसि ।
विधिविनिर्मितमम्बुकणद्वयं किमधिकं कलयापि करिष्यसि ॥ १६८ ॥
बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्जृम्भितं
कन्दैः कन्दलितं जनैः प्रमुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानीमहे
येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोविन्दवः ॥ १६९ ॥
दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि सदा नैवाश्रयः कारणम् ।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोविन्दवः ॥ १७० ॥
रक्ताब्जपुञ्जरजसारुणितान्विमुच्य
स्वस्थान्सुधारससमानपि वारिराशीन् ।
यश्चातकः पिबति वारिधरोदविन्दू-
न्मन्ये तदानतिभयाच्छिरसोऽभिमानी ॥ १७१ ॥
कूपे पानमधोमुखं भवति मे नद्यो वराक्यः स्त्रियः
सामान्यैर्बकटिट्टिभैः सह सरस्येवं समालोकयन् ।
नादत्ते तृषितोऽपि हीनसलिलं क्रूरैर्वृतं जन्तुभि-
र्मानादुन्नतकंधरः सुरपतिं तच्चातको याचते ॥ १७२ ॥
हा धिक्परव्यसनदुर्ललिताशयेन
केनापि रे सरल चातक वञ्चितोऽसि ।
येनाम्वुवाहमपि याचसि याचितस्य
यस्यास्य याचितुरिवातिमलीमसत्वम् ॥ १७३ ॥
किं नाम दुष्कृतमिदं भवतश्चकास्ति
येनात्र दैन्यपिशुनं बत याचितोऽपि ।
एते हि[४४] कामनिभृतोन्नतयोऽपि तृप्त्यै
मुञ्चन्ति चातक पयो न पयोमुचस्ते ॥ १७४ ॥
योऽयं वारिधरो धराधरशिरस्यभ्युन्नतः केवलं
गर्जत्येव गभीरधीरनिनदैर्नायं सखे वारिदः ।
तत्ते चातक पातकस्य कतमस्यैतत्फलं पठ्यते
येनासौ न ददाति याति न भवच्चेतोऽपि निर्विघ्नताम् ॥ १७५ ॥
अन्येऽपि सन्ति बत तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
कोऽप्याग्रहो गुरुरयं हतचातकस्य
पौरंदरींं समभिवाञ्छति वारिधाराम् ॥ १७६ ॥
अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये
भ्रातश्चातक किं वृथात्र रणितैः खिन्नोऽसि विश्राम्यताम् ।
मेघः शारद एष काशधवलः पानीयरिक्तोदरो
गर्जत्येव हि केवलं भृशमपां नो बिन्दुमप्युज्झति ॥ १७७ ॥
यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो
यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः ।
सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता
जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १७८ ॥
धिग्वारिदं परिहृतान्यजलाशयस्य
यश्चातकस्य कुरुते न तृषः प्रशान्तिम् ।
धिक् चातकं तमपि योऽर्थितयास्तलज्ज-
स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ १७९ ॥
अनुसर सरस्तीरं वैरं किमत्र महात्मना
कतिपयपयः पानं मानिन्समाचर चातक ।
प्रलयपवनैरस्तं नीतः पुरातनवारिदो
यदयमदयं कीलाजालं विमुञ्चति नूतनः ॥ १८० ॥
विश्वोपजीवोऽपि पिबत्यपो न पद्माकरे यद्यपि चातकोऽयम् ।
स्वार्थक्षयस्तस्य तृषातुरस्य लघुत्वमत्रास्ति न किंचिदस्य ॥ १८१ ॥
अथ चकोरस्य ।
चुलुकयसि चन्द्रदीधितिमविरलमश्नासि नूनमङ्गारान् ।
अधिकतरमुष्णमुनयो किमिति चकोरोऽवधारयति ॥ १८२ ॥
अथ सारसस्य
आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभि-
र्भूयोऽपि प्रविजृम्भमाणनलिनं पश्यामि तोयाशयम् ।
इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः
शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १८३ ॥
अथ टिट्टिभस्य ।
स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते ।
उत्क्षिप्य टिट्टिभः पादौ शेते भङ्गभयाद्भुवः ॥ १८४ ॥
बक चटु तपसे त्वं शाखिनि क्वापि सान्द्रे
श्रय झटिति तटिन्याष्टिट्टिभ त्वं तटानि ।
इह सरसि सरोजच्छन्नगम्भीरदेशे
ललितगतिरिदानीं रंस्यते राजहंसः ॥ १८५ ॥
अथ मयूरपिच्छस्य ।
व्यजनैरातपत्रैश्च भूत्वा पिच्छैः कलापिनाम् ।
स्थानभ्रष्टैरपि कृतं परेषां तापवारणम् ॥ १८६ ॥
अस्मान्विचित्रवपुषश्चिरपृष्ठलग्ना-
न्कस्माद्विमुञ्चसि सखे यदिवा विमुञ्च ।
हा हन्त केकिवर हानिरियं तवैव
गोपालमौलिषु पुनर्भविता स्थितिर्नः ॥ १८७ ॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक-वृन्दारकराजपरमगुरुभट्टारक श्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां स्थलचरजलचरान्योक्तिनिरूपकस्तृतीयः परिच्छेदः ॥ ३ ॥
चतुर्थः परिच्छेदः ।
सिद्धिश्रिया किं निहिताः कटाक्षा मनोवशीकर्तुमिहाश्वसेनेः ।
त एव भान्ति स्वकशीर्षदेशस्थितस्फटानां कपटेन मन्ये ॥ १ ॥
श्रेयः श्रियं दिशतु सद्गुणराजराजी-
राजीवजैत्रनयनः सुररत्नकल्पः ।
कल्पद्रुमः किल जनाभिमतार्थसिद्धौ
सिद्धौषधः स्मरगदे जिनवर्धमानः ॥ २ ॥
अथ समवसरणबन्धचित्रम् ।
सकललोकचकोरनिशाकर रजतकाय हरिध्वज शंकर ।
रमण संयमिनां भवतारक कविकुलस्रुतमुक्तिपुरे वस ॥ ३ ॥
निखिलनाकिनिकायविनिर्मितं ततमहामणिहेमहिमांशुभिः ।
भिदुरवद्यमहीभृति रातु शं समवयुक् सरणं तव मुत्खनि ॥ ४ ॥
सुजन भो सुतरां चरमप्रभुं भुवनवर्तिजनार्तिनिवारकम् ।
कलनिनादमभीष्टसुखप्रदं दमिवरं धर चेतसि सद्वसुम् ॥ ५ ॥
शुद्धप्राग्वाटवंशाभ्रप्रभासनदिवाकरः ।
दद्यादानन्दमानन्दसद्गुरुः सततोदयः ॥ ६ ॥
अथ प्रतिद्वारवृत्तानि ।
वर्यतुर्यपरिच्छेदे प्रतिद्वारस्य पद्धतिः ।
सम्यग्बुद्धिप्रबोधाय तन्यते मयकाधुना ॥ ७ ॥
शङ्खान्योक्तिर्मत्कुणोक्तिः खद्योतान्योक्तयस्ततः ।
भ्रमरान्योक्तयो ज्ञेया वाग्विलासविशारदैः ॥ ८ ॥
अथ विकलेन्द्रियाधिकारपद्धतावादौ शङ्खान्योक्तयः ।
उच्चैरुच्चर रुचिरं झिल्लीवर्त्मसु तरुं समारुह्य ।
दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ ९ ॥
कीटगृहं कुटिलोऽन्तः कठिनः क्षाराम्बुसंभवः शून्यः ।
शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लभते ॥ १० ॥
अन्तः कुटिलतां विभ्रच्छङ्खः स खलु निष्ठुरः ।
हुंकरोति यदाध्मातस्तदेव बहु गण्यताम् ॥ ११ ॥
विमलतां वचनस्यगोचरे जनयिता तव शङ्ख महोदधिः ।
मुदमलं तनुते च तव ध्वनिः किमु ततो विधृता हृदि वक्रता ॥ १२ ॥
जन्मस्थानमपांनिधिः शुचितया ख्यातिस्तवैवोज्ज्वला
माङ्गल्ये च जगत्प्रबोधजनको नादस्तवैवाग्रणीः ।
किंवा ते कमलापतिः प्रणयिता ब्रूमस्तवैवंविधे
माहात्म्ये सति शङ्ख सङ्गतमिदं कौटिल्यमन्तः कुतः ॥ १३ ॥
तातः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः
सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि ।
धिक्कर्माणि स एवं कम्बुरधुना पाखण्डिकान्ताकरे
विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्ष्येण कुक्षिंभरिः ॥ १४ ॥
सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधे-
र्गोविन्दाननचुम्बि सुन्दरतरं पुर्णेन्दुबिम्बाद्वपुः
श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि य-
त्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनापि लज्जामहे ॥ १५ ॥
शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचीघटाघट्टिताः
पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।
एकः कोऽपि च पाञ्चजन्य उदभूदाश्चर्यधामा सतां
यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ १६ ॥
अम्भोघेरेव जाताः कवि जगति न ते हन्त सन्तीह शङ्खा
यान्संगृह्य भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय ।
एकः श्रीपाञ्चजन्यो हरिहरकमलक्रोडहंसायमानो
यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ॥ १७ ॥
पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी ।
शङ्खः प्रतिगृहं रौति कर्म तस्यैव कारणम् ॥ १८ ॥
सो सद्दो धवलत्तणं च रयणादारंमि उप्पत्ती ।
सङ्खस्स तुज्झकुटिलत्तणेण सव्वंपि पब्भट्टम् ॥ १९ ॥
अथ मत्कुणस्य ।
मन्ये मत्कुणशङ्कया जलनिधौ गत्वा हरिः सुप्तवां-
स्तन्नाभ्यम्बुरुहे प्रजापतिरभूल्लक्ष्मीश्च तद्वक्षसि ।
कैलासाचलमाश्रितः पशुपतिर्गौरी तदुत्सङ्गगा
नक्षत्रग्रहमण्डलं च सकलं येषां भयाद्भ्राम्यति ॥ २० ॥
शशिदिनकरौ व्योम्नि स्वर्गे शचीहृदयेश्वरो
धनपतिरसौ कैलासाद्रौ हरिर्मकराकरे ।
शतधृतिरयं नाभौ शम्भुः श्मशानभुवं गतो
भुजगरमणोऽधो मन्येऽहं द्रुतं किल मत्कुणात् ॥ २१ ॥
अथ खद्योतान्योक्तयः ।
जर्जरतृणाग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् ।
कीटत्वमात्मतत्वात्खद्योतः ख्यापयन्भवति ॥ २२ ॥
इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः
स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।
अन्धं समग्रमपि कीटमणे भविष्य-
त्युन्मेषमेष्यति भवानपि पूरमेतत् ॥ २३ ॥
अदृष्टिव्यापारं गतवति दिनानामधिपतौ
यशःशेषीभूते शशिनि गतधान्नि ग्रहगणे ।
तथान्धं संजातं जगदुपनते मेघसमये
यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥ २४ ॥
घनसन्तमसमलीमस दशदिशि निशि यद्विराजसि तदन्यत् ।
कीटमणे दिनमधुना तरणिकरान्तरितशीतकरम् ॥ २५ ॥
अथ भ्रमरान्योक्तयः ।
मधुकर तव करनिकरैः किं किं क्रान्तं न कुसुमानाम् ।
तद्वत्सरसिजमुकुले लब्धं किंचित्तदन्यतत्सत्किम् ॥ २६ ॥
गौरीं चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।
शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २७ ॥
कृत्वापि कोशपानं भृङ्गयुवा पुरत एव कमलिन्याः ।
अभिलषति वकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ २८ ॥
सुरतरुकुसुमे मधु मधुरं यन्मधूपेन निपीतम् ।
सत्प्रयतोऽपि करीरतरौ लभतां कथमविगीतम् ॥ २९ ॥
भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता गरीयसी केवलमीश्वरेच्छा ॥ ३० ॥
भ्रमर भ्रमता दिगन्तराणि क्वचिदासादितमीक्षितं श्रुतं वा ।
वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ३१ ॥
अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः ।
भ्रमति मधुकरोऽयमन्तराले श्रयति स पङ्कजिनीं कुमुद्वतीं वा ॥ ३२ ॥
द्विजपतिदयितां तां व्यक्तपुष्पां प्रदोषे-
ऽप्यहह कुमुदिनीं किं भृङ्ग भुङ्क्षे स्वधार्ष्ट्यात् ।
मलिन मधुप मन्ये त्वय्यदः सर्वमर्हं
विहितमविहितं वा चिन्तयेत्को हि लोलः ॥ ३३ ॥
नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं
वासन्तीं वसते न चन्दनवनीमालम्वते न क्वचित् ।
जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां
ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव वीतभ्रमः ॥ ३४ ॥
केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।
दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ३५ ॥
अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
मुग्धामनाप्तरजसं कलिकामकाले
बालां कदर्थयसि किं नवमल्लिकायाः ॥ २६ ॥
विकटनितस्वायाः ।
बाला तन्वी मृदुतरतनुस्त्यज्यतामत्र शङ्कां
दृष्टा किं न भ्रमर चरता मञ्जरी भज्यमाना ।
तस्मादेषा रहसि भवता निर्दयं पीडनीया
मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ ३७ ॥
मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् ।
वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ ३८ ॥
फुल्लेषु यः कमलिनीकमलोदरेषु
चूतेषु यो विलसितः कलिकान्तरस्थः ।
पश्याथ तस्य मधुपस्य शरव्यपाये
कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ३९ ॥
स्वामोदवासितसमग्र दिगन्तराला
रक्ता मनोहरशिखा सुकुमारमूर्तिः ।
सेव्या सरोजकलिका तु सदैव जाता
नीतस्तदैव विधिना मधुपोऽन्यदेशम् ॥ ४० ॥
धिक्कापि प्रलयानलैर्विटपिनो निर्दह्य भस्मीकृताः
किंवा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् ।
किंवा हन्त कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरै-
र्येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ ४१ ॥
यत्प्रोन्मत्तमतङ्गजाङ्गविगलद्दानाम्बुलोभभ्रम-
द्भृङ्गाली किल कूजतीति विदुषां चित्ते विधत्ते धियम् ।
कर्णाभ्यर्णमुपेत्य किं ननु वदत्येषा शिरःकम्पनै-
र्मास्मान्वारय नाग देहि विततं दानं चलाः संपदः ॥ ४२ ॥
सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।
सत्यं विस्तृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-
वन्तःशुन्यकरो निपेव्यत इति भ्रातः क एप ग्रहः ॥ ४३ ॥
अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि ।
गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ ४४ ॥
दानार्थिनो मधुकरा यदि कर्णताला-
दूरीकृताः करिवरेण नदान्धवुद्ध्या ।
तस्यैव गण्डयुगमण्डनहानिरेपा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ४५ ॥
प्रतिवेशी हंसजनः क्रीडाभवनानि पुण्डरीकाणि ।
हृद्यं मधु जलममलं मधुकर तत्रैव यदि रमसि ॥ ४६ ॥
मातङ्गेन मदावलिप्तमतिना यत्कर्णतालानिलै-
र्दानार्थं समुपागता मधुलिहो दूरं समुत्सारिताः ।
तस्यैवाननमण्डनक्षतिरमी भृङ्गाः पुनः सर्वतो
जीविष्यन्ति वनान्तरेषु विलसत्पुष्पासवैः साधुभिः ॥ ४७ ॥
यद्यप्याभ्रतरोरमुष्य तरुणीकर्णावतंसोचिता-
माजिघ्रन्नवमञ्जरीं मधुप हे जातोऽसि पूर्णोत्सवः ।
वि(स्म)र्तुं भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं
यस्यास्वाद्य मधूनि धूनितशिरो मञ्जु त्वयोद्भुजितम् ॥ ४८ ॥
मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितजनद्वेषी लोको नवं नवमीहते ॥ ४९ ॥
यस्याः सङ्गमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् ।
भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ ५० ॥
यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु ।
केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥
मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु ।
घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ५२ ॥
अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे ।
इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५३ ॥
दग्धा सा बकुलावली कवलितास्त्वेते रसालद्रुमाः
प्लुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।
भ्रातर्भृङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं
किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायते ॥ ५४ ॥
दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
नो जिघ्रत्यपि पाटलापरिमलं चूते न धत्ते रतिम् ।
मन्दारेऽपि न सादरो विचकिलामोदेऽपि संतप्यते
तन्मन्ये क्वचिदङ्ग भृङ्ग तरुणेनास्वादिता मालती ॥ ५५ ॥
अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः ।
न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ ५६ ॥
ये वर्धिताः करिकपोलमदेन भृङ्गाः
प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः ।
ते सांप्रतं प्रतिदिनं गमयन्ति कालं
निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ५७ ॥
अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे ।
विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ५८ ॥
अपि दलन्मुकुले बकुले यया पदमदायि कदापि न [४५]तृष्णया ।
अहह सा सहसा विमुखे विधौ मधुकरी बदरीमनुवर्तते ॥ ५९ ॥
पादेनापहता येन जातीलुब्धेन मल्लिका ।
अहो दैवादलेस्तस्य बदर्यपि सुदुर्लभा ॥ ६० ॥
अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः ।
[४६]विधिनिदेशविदेशनृपागतः कुटजपुप्परसं बहु मन्यते ॥ ६१ ॥
येनामोदिनि पङ्कजन्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोऽयं भृङ्गयुवा करीरविटपे वध्नाति तुष्टिं कुतः ॥ ६२ ॥
इह सरसि सहर्षं मञ्जु गुञ्जाभिरामं
मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
अनुपममकरन्दामोददप्रमोदा
त्यजति [तव] (वत) न निद्रां मालती यावदेषा ॥ ६३ ॥
एनाममन्दमकरन्दविनिद्रविन्दु-
संदोहदोहदपदं नलिनीं विमुच्य ।
हे मुग्ध षट्पद निरर्थकरागभाजि
जातं मनस्तव जपाकुसुमे किमत्र ॥ ६४ ॥
निराचष्टे यष्टिं कुरबकतरोरब्जसरसा-
मसद्भावं ब्रूते वदति बकुलानामकुशलम् ।
वनान्ते चूतानामभवनमिहाख्याति वसति-
मसौ झिञ्झीझाटे झटिति घटमानो मधुकरः ॥ ६५ ॥
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
रसाले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नो सङ्गं रचयति न चूते विचरति
स्मरँल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ६६ ॥
अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये
वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहती-
र्येनानेकपगण्डमण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ ६७ ॥
मा गा विषादमलिपोतक केतकीना-
मन्तर्विगूढमनवाप्य मधुप्रकर्षम् ।
लाभः स एव भवतो यदि कण्टकानां
श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ६८ ॥
श्रियो वासोऽम्भोजे त्रिदिवसरिदम्भोजकुहरे
हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ ।
स दैवादुन्मीलत्तपनकरतापव्यतिकर-
व्यथाकम्प्रः संप्रत्यतरुमरुभूमौ विचरति ॥ ६९ ॥
आयाति याति पुनरेति पुनः प्रयाति
पद्माङ्कुराणि विचिनोति धुनोति पक्षौ ।
उन्मत्तवद्रमति कूजति रारटीति
कान्तावियोगविधुरः किल चञ्चरीकः ॥ ७० ॥
अयं नीलस्निग्धो य इह विहरत्यम्बुजवने
विकोशे व्यागुञ्जन्मधुप इति तं जल्पति जनः ।
अहं शङ्के पङ्केरुहकुहरवासे व्यसनिनीं
श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥ ७१ ॥
गन्धाढ्यां नवमालतीं मधुकरस्त्यक्त्वा गतो यूथिकां
तां त्यक्त्वाशु गतश्च चम्पकतरुं पश्चात्सरोजं गतः ।
रुद्धस्तत्र निशाकरेण सहसा क्रन्दत्यसौ [४७]मूढ हा
संतोषेण विना विवेकिमन (सा ते) [सःसं] प्राप्नुवन्त्यापदम् ॥ ७२ ॥
गन्धाढ्यासौ जगति विदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या रसिकमधुपः पुष्पमध्ये पपात |
अन्धीभूतः कुसुमरजसा कण्टकैश्छिन्नपक्षः
स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ७३ ॥
मालतीमुकुले भाति गुञ्जन्मन्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥ ७४ ॥
श्यामतया स्थूलतया दूरतया गन्धलोलुपैर्भ्रमरैः ।
धावितमिभराजधिया दृष्टश्चेदग्रतो महिषः ॥ ७५ ॥
चिन्तयति न चूतलतां याति न जातिं न केतकीं क्रमते ।
कमललतालग्नमना मधुपयुवा केवलं क्वणति ॥ ७६ ॥
साहीणेसु न रच्चसि दुल्लहलम्भेसु वहसि अणुरायम् ।
हरिणाहि कमलकं खिर रे भसल सुदुक्करं जियसि ॥ ७७ ॥
ढुण्ढुण्णन्तो मरीहिसि कण्टयकलियाइं केयइ वणाइम् ।
मालड्कुसुमसरिच्छं भमर भमन्तो न पाविहिसि ॥ ७८ ॥
वसिऊण सग्गलोए गन्धं लहिऊण पारिजायस्स ।
रे भसल किं न लज्जसि सेवन्तो निम्बकुसुमाइम् ॥ ७९ ॥
गयगन्धं वलियरसं भूमीपडियं च केतकीकुसुमम् ।
तहविहु पुव्वसनेहो भमरो आलिङ्गनं देई ॥ ८० ॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां विकलेन्द्रियजीवान्योक्तिनिरूपकश्चतुर्थः परिच्छेदः ॥ ४ ॥
पञ्चमः परिच्छेदः ।
श्रीमच्छङ्खपुरस्फारभूमिमौलिमणीयते ।
नमःपार्श्वेजिनेशाय विश्वकल्पद्रुमाय ते ॥ १ ॥
तव पार्श्वेशपादाब्जसपर्यातत्परा नराः ।
सुखश्रीसर्वसंपद्भिर्विलसन्त्यद्भुतोदयाः ॥ २ ॥
वाचंयमेश शं देहि देहिनां त्रिदशैर्नतः ।
तनुच्छविजितस्वर्णाचल वीर गभीरक ॥ ३ ॥
धनुर्बन्धचित्रम् ।
भद्रं मम महावीर शीघ्रं दद कुरु प्रभो ।
कल्याणक्कमलागार क्षमारससमायुतः ॥ ४ ॥
शरबन्धचित्रम् ।
वयं स्मरामस्त्रिशलातनूजं सिद्धार्थसंतानकुलप्रदीपम् ।
न हावभावैर्मरुदङ्गनाभिर्मनो यदीयं विशदं प्रभिन्नम् ॥ ५ ॥
[४८]श्रीदातारं विश्वाधारं बुद्ध्यासारं नित्योदारम् ।
चञ्चद्बेरं वन्दे वीरं भूभृद्वीरं क्षेमागारम् ॥ ६ ॥
अष्टदलकमलबन्धचित्रमिदम् ।
श्रीविजयानन्दगुरुं विजयानन्दमन्दिरम् ।
भूरि भूरिशिरोरत्नं महोदयमभिष्टुमः ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
प्रतिद्वारक्रमं चञ्चत्सच्चमत्कारकारकम् ।
विरच्यते पञ्चमेऽथ परिच्छेदे पटीयसि ॥ ८ ॥
सामान्यभूधरान्योक्तिर्मन्दरोक्तिस्ततः परम् ।
हिमाद्र्यन्योक्ति[मै]नाकान्योक्तिपूर्वाचलोक्तयः ॥ ९ ॥
ततो विन्ध्याचलान्योक्तिर्मलयाद्रेः सदुक्तयः ।
रोहणोर्वीधरान्योक्ती रत्नस्यान्योक्तयस्तथा ॥ १० ॥
मञ्जुमुक्ताफलान्योक्तिः सुवर्णोक्तिस्ततः परम् ।
पित्तलोक्तिः समाख्याता धूल्युक्तिरपरा मता ॥ ११ ॥
अथ पृथ्वीकायपद्धतौ पूर्वं सामान्यपर्वतस्य ।
नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः
शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङ्मुखेषु क्षिपन्तः ।
येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-
माकाशे विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौघः ॥ १२
अथ मेरोः ।
धिक्कनकं तव कनकगिरे यस्य न जगदुपभोगः ।
वरमन्ये गिरयो येषां तृणकाष्ठाद्युपभोगः ॥ १३ ॥
ये संतोषसुखप्रवुद्धमनसस्तेषां न भिन्ना मुदो
येप्यन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता ।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १४ ॥
मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधेः ।
त्वया किंवा लब्धं कथय मथितो मन्दरगिरे
शरण्यः शैलानां यदयम[४९]दयं रत्ननिलयः ॥ १५ ॥
अथ हिमालयस्य ।
विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् ।
ईश्वरश्वशुरताप्रभावतस्तद्ध्रुवं जगति जृम्भते यशः ॥ १६ ॥
अथ मैनाकस्य ।
शक्रादरक्षि यदि पक्षयुगं तथापि
[मै]नाक सन्ति तव नेह गतागतानि ।
निःसत्त्वता च निरपत्रपता च किंतु
पाथोनिधौ निपतता भवतार्जिता च ॥ १७ ॥
अथ पूर्वाचलस्य ।
इक्कुच्चिय उदयगिरी जयन्तु चूडामणी भुवणमज्झे ।
जोसीसे काऊणं मित्तं उदयं करावेइ ॥ १८ ॥
अथ विन्ध्यभूधरस्य ।
आचक्ष्महे बत किमद्यतनीमवस्थां
तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
यत्रैव सप्त मुनयस्तपसा निषेदुः
सोऽयं विलासवसतिः पिशिताशनानाम् ॥ १९ ॥
अथ मलयाचलस्य ।
वन्दामहे मलयमेव यदाश्रयेण
शाखोटनिम्बकुटजा अपि च[५०]न्दनन्ते ।
किं तेन हेमगिरिणा रजताद्रिणा वा
यस्याश्रिताश्च तरवस्तरवस्त एव ॥ २० ॥
त्वं सेवितः किल फलाय तदस्तु दूरे
व्यालान्निवारय निपीडयतो बलान्नः
एतत्तवाप्यभिमतं यदि तन्नमस्ते
यामोऽन्यतो मलय हे नतु चन्दनाः स्मः ॥ २१ ॥
इक्कस्स मलयगिरिणो दिज्जइ रेहागिरीणमझ्झम्मि |
जत्थ विय कडुय निम्बा रुरका सिरिचन्दणं होन्ति ॥ २२ ॥
अथ रोहणाचलस्य ।
रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ २३ ॥
रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।
हंहो रोहण किं तु याचकचमूनिःशङ्कटङ्कक्षति-
क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान् ॥ २४ ॥
अथ रत्नान्योक्तयः ।
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ २५ ॥
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।
करोति तत्र किं नाम नारीनखविलेखनम् ॥ २६ ॥
सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् ।
उद्गारे तु विशेषोऽस्ति तयोरमृतवहिजः ॥ २७ ॥
स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् ।
धत्ते खच्छतया छायां यतो मलवतामपि ॥ २८ ॥
सुधाकरकरस्पर्शाद्बहिद्रवसि सर्वतः ।
चन्द्रकान्तमणे तेऽन्तर्मृदुत्वं लोकविश्रुतम् ॥ २९ ॥
वपुःपरीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति ।
तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः ॥ ३० ॥
काचो मणिर्मणिः काचो येषां ते बहवो जनाः ।
विरलास्ते पुनर्येषां काचः काचो मणिर्मणिः ॥ ३१ ॥
मणिर्लुठति पादाग्रे काचः शिरसि धार्यते ।
परीक्षककरप्राप्तः काचः काचो मणिर्मणिः ॥ ३२ ॥
त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि ।
काचमणेरपि मूल्यं लभसे यत्नादपि श्रेयः ॥ ३३ ॥
नार्ध्यन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति लोकाः ।
आमीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैः प्रवदन्ति गोपाः ॥ ३४ ॥
भ्रष्टं तृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा |
विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ ३५ ॥
कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयंता ॥ ३६ ॥
विरम रत्न मुधा तरलायसे तव न कश्चिदिहास्ति परीक्षकः ।
विधिवशेन परिच्युतमाकरात्त्वमपि काचमणीकृतमीश्वरैः ॥ ३७ ॥
एकस्मिन्दिवसे मया विचरता प्राप्तः कथंचिन्मणि-
र्मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः ।
सोऽयं दैववशादभूदतितरां काचोपमः सांप्रतं
किं कुर्मः कमुपास्महे क्व स सुहृद्यस्यैतदावेद्यते ॥ ३८ ॥
आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं
क्षिप्तं यत नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा-
दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥
यामस्ते शिवमस्तु रोहणगिरे मत्तः स्थितिप्रच्युता
वर्तिष्यन्त इमे कथं कथमपि स्वप्नेऽपि मैवं कृथाः ।
भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः
किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ४० ॥
उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः
साकाङ्क्षं लुठितो न च स्तनतटे लीलावतीनां क्वचित् ।
कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद्विशीर्णोऽभव-
त्खेलद्व्यालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ४१ ॥
पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्रपाश्चात्यसङ्घै-
रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि मणिक्यमेकम् ।
यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्यः
प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ४२ ॥
ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःखण्डकं
ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम् ।
नो जाने किमभावतः किमथ वा दैवादहो श्रूयते
नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ४३ ॥
पथि परिहृतं कैश्चिद्दृष्ट्वा न जातु परीक्षितं
विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् ।
गवलगलनामन्यैः कृत्वा प्रघृष्टमपण्डितै-
र्मरकतमहो मार्गावस्थं कथं न बिडम्बितम् ॥ ४४ ॥
वणिगधिपते किंचिद्ब्रूमस्त्रपामिह मा कृथाः
कथय निभृतं केयं नीतिः पुरे तव संप्रति ।
मरकतमणिः काचो वायं भवेदिति संशये
लवणवणिजां यद्व्यापारः परीक्षितुमर्पितः ॥ ४५ ॥
केनासीनः सुखमकरुणे नाकरादुद्धृतस्त्वं
विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे ।
यस्मिन्वित्तव्ययभरमहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ४६ ॥
न श्वेतांशुवदन्धकारदलनादुद्योतिता रोदसी
नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः ।
नो चिन्तामणिरत्नवत्रिभुवने छिन्ना विपच्चार्थिनां
भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनार्जितम् ॥ ४७ ॥
सिन्धुस्तरङ्गैरुपलाल्य फेनान् रत्नानि पङ्कैर्मलिनीकरोति ।
तथापि तान्येव महीपतीनां किरीटकोटीषु पदं लभन्ते ॥ ४८ ॥
सन्त्यन्ये झषकेतनस्य मणयः किं नोल्लसत्कान्तयः
किंवा तेऽपि जनेन भूषणपदं न्यस्ता न शोभाभृतः ।
अन्यः कोऽपि तथापि कौस्तुभमणिः स्फीतः स्फुरद्दीधिति-
र्यः पूषेव नभः समुञ्ज्वलयति स्फारं मुरारेरुरः ॥ ४९ ॥
इक्केण कोत्थुहेण विणा विरयणाय रच्चिय समुद्दो ।
कोत्थुह रयणंपि उरे जस्स वियं सोविहु महग्घो ॥ ५० ॥
यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः
पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।
तत्तस्यैव परिक्षयो जलनिधेर्द्वीपान्तरालम्बिनो
रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ५१ ॥
आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तै-
र्विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटम् ।
संविष्टं शठगाढमूढवदने घूत्कारदूरीकृतं
किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोद(दि)ति ॥५२॥
अये मुक्तारत्न प्रचल बहिरुद्योतय गृहा-
नपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान्
किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे,
महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ ५३ ॥
अथ सुवर्णस्य ।
हा हेम किं न तत्रैव विलीनो दहनोदरे ।
पाषाणशकलाधीनो यद्गुणग्रामनिर्णयः ॥ ५४ ॥
अग्निदाहे न मे दुःखं न दुखं ग्रावघर्षणे ।
एकमेव महद्दुःखं गुञ्जया सह तोलनम् ॥ ५५ ॥
अथ पित्तलस्य ।
रे रङ्ग हेमकलया तुलितोऽसि नूनं
मानं जहीहि किमु पश्यसि नो विशेषम् ।
स्वर्णं हि रत्नखचितं नृपशेखरेषु
त्वं पाप पामरवधूचरणेषु लीनः ॥ ५६ ॥
धूलिर्मूलपदार्थसार्थजननी स्तम्भाधवष्टम्भदा
लेखाश्लेषकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया ।
अग्रे [५१]गंन्धमधोः शिशोः सुखकृतिः कालत्रयेऽपि स्थिरा
तस्माद्धूलिसमं न चास्ति किमपि क्षेप्या मुखे पापिनाम् ॥ ५७॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकल भट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां पृथ्वीकायिकान्योक्तिनिरूपकः पञ्चमः परिच्छेदः ॥ ५ ॥
षष्ठः परिच्छेदः ।
विलोकयन्ति ये स्वांमिंस्त्वदीयं वदनाम्बुजम् ।
ते भवन्ति भवत्तुल्या विभूत्या पार्श्वतीर्थप ॥ १ ॥
यस्य दृष्टिसुधावृष्टिसिक्तः सर्पो बभूव च ।
नागराजो नागकुले स पार्श्वः श्रेयसेऽस्तु वः ॥ २ ॥
स्वस्तिकबन्धचित्रम् ।
भद्राय मम वामेय भव त्वममलद्युतिः ।
भवकाननमातङ्ग भविलोककजांशुमान् ॥ ३ ॥
सिद्धयेऽस्तु महावीर महावीरजगद्विभुः ।
यो विजित्य रणे रागाद्यरीन्वव्रे जयश्रियम् ॥ ४ ॥
बीजपूराकृतिचित्रम् ।
देव त्वं संपदं धीर देयाः कल्याणसागर ।
देवेन्द्रार्चितपत्सार देशनो ज्ञातजादर ॥ ५ ॥
रीत्यन्तरेण मुरजबन्ध्यचित्रम् ।
नित्यनम्र सुपर्वेश सुखाय शुभदायकः ।
वर्धमानबरोदार रदादार सतां भव ॥ ६ ॥
श्रीमत्तपागच्छस्वच्छसुरशैलसुरद्रुमम् ।
विजयानन्दसूरीशं स्वगुरुं प्रणिदध्महे[५२] ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
अथाभिव्यक्तये ब्रूमः प्रतिद्वारान्यथाक्रमम् ।
स्पष्टं षष्ठपरिच्छेदे दक्षलक्षमुदां प्रदे ॥ ८ ॥
आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।
क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ॥ ९ ॥
स्फारकासारसाधूक्तिः पद्मपद्माकरोक्तयः ।
कूपकोक्तिः पावकोक्तिः कज्जलध्वजपद्धतिः ॥ १० ॥
तथा दावानलान्योक्तिर्धूमान्योक्तिर्जनप्रिया ।
पवनान्योक्तयो ज्ञेया लब्धवर्णगणैर्मुदा ॥ ११ ॥
अथ कायाधिकारपद्धतौ प्रथमं जलान्योक्तयः ।
शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां व्रजन्त्यशुचयः सङ्गेन यस्यापरे ।
किं वातः परमस्ति ते स्तुतिपदं त्वं जीवनं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १२ ॥
अब्जं त्वज्जमथाब्जभूस्तत इदं [५३]ब्रह्माण्डमन्त्राभव-
द्विश्वं स्थावरजङ्गमं तदखिलं त्वन्मूलमित्थं पयः ।
धिक् त्वां चौर इव प्रयासि शनकैर्निःसृत्य जालान्तरे
बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ १३ ॥
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वातौ सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणाः संसर्गतो यान्ति ते ॥ १४ ॥
स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं
पुत्रालिङ्गनवत्तथा च मधुरं बालस्य संजल्पवत् ।
एलोशीरलवङ्गचन्दनरसं कर्पूरपारीमिल-
त्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥ १५ ॥
अथ समुद्रान्योक्तयः ।
नावज्ञया न वैदग्ध्यादुदधेर्महिमैव सः ।
यत्तीरपङ्कमग्नानि महारत्नानि शेरते ॥ १६ ॥
रत्नैरापूरितस्यापि मदलेशोऽस्ति नाम्बुधेः ।
मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ १७ ॥
अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम् ।
दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥
अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।
तव वल्लभा वराक्यो वहन्ति वर्षासु सलिलानि ॥ १९ ॥
हेलोल्लालितकल्लोल धिक् ते सागर गर्जितम् ।
यस्य तीरे तृषक्रान्तः पान्थः पृच्छति कृषिकाम् ॥ २० ॥
निषेव्य सरितां पत्युस्तटीं पक्षिगणा अपि ।
यत्पिबन्ति सरस्तोयं सैव लज्जा महोदधेः ॥ २१ ॥
अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।
लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२ ॥
अन्तः किंचित्किंचिन्मुक्तानामह्ह् विभ्रमं वहसि ।
दूराद्दर्शयसि पुनः क्षारोद्गारं जडाधीशः ॥ २३ ॥
अस्ति जलं जलराशौ क्षारं तत्किं विधीयते येन ।
लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ २४ ॥
मथितो लङ्घितो बद्धः पीतो यद्यपि सागरः ।
गर्जत्युच्चैस्तदप्येष जडात्मानो हि निस्रपाः ॥ २५ ॥
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुपितसर्वस्वः ।
तदपि पुरंदरभीतक्ष्माधररक्षासु दीक्षितो जलधिः ॥ २६ ॥
यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
तथापि जानुदघ्नोऽयमिति चेतसि मा कृथाः ॥ २७ ॥
स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिरेषा
प्राप्तं मया सकलमेतदतः पयोधे-
र्यद्वारुणैर्जलचरैर्न विदारितोऽस्मि ॥ २८ ॥
आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन [५४]महार्णवेन ।
क्षारीकृतं च वडवावदने हुतं च
पातालकुक्षिविवरे[५५] विनिवेशितं च ॥ २९ ॥
चपलतरतरङ्गैर्दूरमुत्सारितोऽपि
प्रथयति तव कीर्तिं दक्षिणावर्तशङ्खः ।
इति कलय पयोधे पद्मनाभार्घयोग्य-
स्तव निकटनिषण्णैः क्षुल्लकैः श्लाध्यता का ॥ ३० ॥
बद्धस्त्वं ननु राघवेण जलधे मुष्टोऽसि देवासुरै
श्रीमद्रामशराग्निभीतमनसा त्यक्ता त्वया मेदिनी ।
आपीतस्त्वमगस्तिना निमिषतः कृत्वाथ मुक्तो भवान्
लोके गर्जसि यत्पुनस्त्वमधुना निर्लज्ज तुभ्यं नमः ॥ ३१ ॥
किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि संतिष्ठता
वृद्धौ येन विवर्धते व्रजति च क्षीणे क्षयं सागरः ।
आ ज्ञातं पर कार्यनिश्चितधियां कोऽपि स्वभावः सतां
स्वैरङ्गैरपि येन यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥ ३२ ॥
किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं
वाच्यः किं महिमापि यस्य हि किल[५६] द्वीपं महीति श्रुतिः ।
त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः
शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ३३ ॥
एतस्माजलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः
पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारिकां
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥ ३४ ॥
दूरान्मार्गे ग्लपितवपुषो मारुतोत्तंसिताम्भः-
कल्लोलालीबहुलिततृणे धाविताः पान्थसार्थाः ।
व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवाञ्छा-
स्तस्याम्भोधेर्विपुलपयसः कार्यतः किं न शुष्कम् ॥ ३५ ॥
अव्धेरर्णःस्थगितभुवनाभोगपातालकुक्षेः
पोतोपायादिह हि बहवो लङ्घनेऽपि क्रमन्ते ।
आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं
को नाम स्यादवरकुहरालोकनेऽप्यस्य शक्तः ॥ ३६ ॥
ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकताः प्रवाललतिका शैवालमम्भः सुधा ।
तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरो
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ३७ ॥
एतस्मादमृतं सुरैः शतमखेनोचैःश्रवाः सद्गुणः
कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।
इत्यादिप्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता
अस्माभिर्न च दृष्टमत्र जलधौ मृष्टं पयोऽपि क्वचित् ॥ ३८ ॥
संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः
सत्यं वारिनिधे तथापि तदिदं चित्ते विधत्ते व्यथाम् ।
स्वच्छन्देन तिमिङ्गिला निजकुलग्रासं पुनः कुर्वते
यत्ते वारयितुं निजेऽपि विषये न स्वामिता विद्यते ॥ ३९ ॥
तृषं धरायाः शमयत्यशेषां यः सोऽम्बुदो गर्जति गर्जतूच्चैः ।
यस्त्वेककस्यापि न हंसि तृष्णां स किं वृथा गर्जसि निस्त्रपाब्धे ॥४०॥
कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा
क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि ।
एतत्ते यदि घोरनक्रनिलयं स्वादुं विधास्यद्विधिः
किं कर्तासि तदा न वच्मि तरलैस्तैरेव दुश्चेष्टितैः ॥ ४१ ॥
यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् ।
धिक् सर्वं तत्तव जलनिधे यद्विमुच्याश्रुधारा-
स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोऽसि ॥ ४२ ॥
अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिनिकरमापास्यति [५७]मुनिः ॥ ४३ ॥
इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनः शिखरिपत्त्रिणः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकै-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ४४ ॥
द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजस्विना-
मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।
कांश्चिद्द्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्संनिधेः
पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ४५ ॥
अये वारांराशे कुलिशकरकोपप्रतिभया-
दयं पक्षप्रेम्णा गिरिपरिवृढस्त्वामुपगतः ।
त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ ४६ ॥
किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति-
त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीनपोताकृतिः ।
मेनाकोऽपि गभीरनीरविलसत्पाठीनपृष्ठोल्लस-
च्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४७ ॥
रत्नानि रत्नाकर मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि ।
हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाञ्जि ॥ ४८ ॥
कल्लोलवेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकराकर मावसंस्थाः ।
किं [५८]कौस्तुभेन विहितो भवतो न नाम
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४९ ॥
अस्तंगते निजरिपावपि कुम्भयोनौ
संकोचमाप जलधिर्न तु माद्यति स्म ।
गम्भीरतागुणचमत्कृतविष्टपानां
शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥ ५० ॥
स्वच्छन्दं मन्दराद्रिर्भ्रमयतु मरुतस्ते च मुष्णन्तु सारं
दुर्वारं वारिदाली पिबतु दहतु वा वह्निरौर्वः [५९]सगर्वः ।
यादःसंदर्भगर्भैः पृथुतरगगनोत्सङ्गरङ्गैस्तरङ्गै-
र्निर्मर्यादं समुद्र त्वयि चलति पुनर्विश्वमेतत्कुतस्त्यम् ॥ ५१ ॥
कृष्णाय प्रतिपादयन्त्रकमलां शीतद्युतिं शंभवे
पीयूषं दिविषद्गणाय दिविषन्नाथाय दन्तीश्वरम् ।
धिग्धिक्प्रत्युपकारकातरधियः सर्वानिमानम्बुधे
यैस्त्रातोऽसि न कुम्भसंभवमुनेर्गण्डूषभावं भजन् ॥ ५२ ॥
पातालं वसतिः परिच्छदपदं शेषादयः पन्नगा
जामाता जगदीश्वरो मधुरिपुः पत्नी नभोनिम्नगा ।
कन्यैका कमला धनानि मणयः पुत्रौ शशाङ्कमृतौ (ते)
निःसामान्यमहो महार्णव तव श्लाघ्या कुटुम्बस्थितिः ॥ ५३ ॥
गम्भीरस्य महाशयस्य सहजस्वच्छस्य सेव्यस्य ते
सर्वं साध्विदकूप(?) किंतु तदपि स्तोकं किमप्युच्यते ।
पात्रं दूरमधःकरोति गुणवद्यः सोऽपि तृष्णाक्लमः
प्रौढः प्रोन्मथने भवानपि पटुर्यत्तेन लज्जामहे ॥ ५४ ॥
हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
भारस्योद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ ५५ ॥
स्थानं कल्पतरोः सुधाजनिखनिश्चिन्तामणेः कोशभूः
शय्यागारमजस्य मातृसदनं लक्ष्म्याः प्रपाम्भोमुचाम् ।
और्वस्यावरणं गिरेश्च शरणं दुर्गं महद्वारणं
भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥
लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो
मर्यादाभिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।
किं त्वेकस्य गृहागतस्य वडवावह्नेः सदा तृष्णया
क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमम् ॥ ५७ ॥
मार्गासन्नतरावरं विवरिकापर्यन्तशीतद्रुमा
यस्यां पान्थजनाः पिबन्ति सलिलं सोत्कण्ठमुत्कण्ठिताः ।
अम्भोधे किमु तैरसंख्यमणिभिः किं वा पयोभिर्घनै-
र्यस्यारात्तटमागतैः पथि जनैस्तृष्णातुरैर्गम्यते ॥ ५८ ॥
लच्छी धूया जामा उयोहरी तह घरन्निया गङ्गा ।
अमयमयंकाइ सुआ अहो कुडम्बं महो अहिणो ॥ ५९ ॥
आकुट्टिऊण नीरं रेवारयणायरम्मि संपत्ता ।
नहु गच्छइ मरुदेसे सव्वं भरिया भरिज्जन्ति ॥ ६० ॥
रयणायस्स न हुया तुच्छि मानिग्गएहिं रयणेहिम् ।
तहविह चन्दसरिच्छा विरला रयणायरे रयणा ॥ ६१ ॥
रयणाय रतीरठ्ठियाण पुरिसाण जं च दारिद्दम् ।
सारयणायरलज्जा नहु लज्जा इयर पुरिसाणम् ॥ ६२ ॥
सोसन्न गओ गओ रसायलं किं न फुट्टोऽसि ।
आसन्नसण्ठियाणं अन्नं न जलं पियन्ताणम् ॥ ६३ ॥
खणिओसि केण इत्थं केणविभरिओसि इत्तिय जलस्स ।
हा हालाहल सायर हा पुढवि निरत्थयं रुद्धा ॥ ६४ ॥
जह जह सरिया उज्जल भरेण तह तह किलम्मए उदधी ।
महिलाहिन्तो रिद्धी ईहन्ति कहं महापुरिसा ॥ ६५ ॥
महितो सरेहिं पीओ अगत्थिणा वाडवेण संतत्तो ।
दहरहसुएण बद्धो रयणनिही तहवि गम्भीरो ॥ ६६ ॥
अन्नो कोऽवि सहावो समुद्दगम्भीरयाइ भावस्स ।
अमयं विसंहुआसो समयं विय जेण धरियाइम् ॥ ६७ ॥
जह गम्भीरो जह रयण निव्भरो जहय निम्मलच्छाओ ।
ता किं विहिणा सो सर सवाणओ जलनिहीनकओ ॥ ६८ ॥
खलजणसहसंगेणं पडन्ति सुहणाण मत्थए णत्था ।
दहवयणकयविरोहे रयणनिहीवन्धणं पत्तो ॥ ६९ ॥
रयणेहिं निरन्तर पूरियस्स रयणायरस्स नहु गव्वम् ।
करिणो मुत्ताहलसंभएवि मयभिम्भला दिट्टी ॥ ७० ॥
अथ क्षीरसमुद्रस्य ।
माणिक्याकर पारिजातजनक श्रीकान्तलीलागृहं
पीयूषाङ्कनिवास वासवनदीवैदग्ध्यदीक्षागुरो ।
धिक्क्षीराम्बुनिधे [६०]तदेवमखिलं रूपं यदभ्यागतो
दिग्वासा क्षुधितश्चराचरगुरुर्देवो त्रिपं पायितः ॥ ७१ ॥
अथ सामान्यनद्यन्योक्तयः ।
कतिपयदिवसस्थायी[६१] पूरो दूरोन्नतोऽपि भविता ते ।
तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ७२ ॥
शरदि रविरश्मितप्ता विभ्राणाः शोषमतिशयग्लपिताः ।
ज्वरिता इव लक्ष्यन्ते लङ्घनयोग्या महासरितः ॥ ७३ ॥
कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविभ्रान्तिम् ।
वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घ्यासि ॥ ७४ ॥
आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् ।
नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः॥ ७५ ॥
मलयस्य महागिरेरपत्यं तदनु भ्रातृमती पटीरवृक्षैः ।
अपि सैव महोदधेः कलत्रं तटिनी मौक्तिकसूः किमत्र चित्रम् ॥ ७६ ॥
आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् ।
अन्तर्ग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विप
भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदं विप्लवान् ॥ ७७ ॥
छायां प्रकुर्वन्ति नमन्ति पुष्प[ष्पैः] फलं प्रयच्छन्ति तटद्रुमा ये ।
उन्मूल्य तानेव नदी प्रयाति तरङ्गिणां क्व प्रतिपन्नमस्ति ॥ ७८ ॥
अथ गङ्गायाः ।
यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति ।
तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ७९ ॥
स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्वाय वः ।
भिद्यादुद्यदुदारदर्दुरदरीदैर्घ्यादरिद्रद्रुम-
द्रोहोद्रेकमदोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ८० ॥
अथ तटाकान्योक्तयः ।
उद्दामाम्बुदनादनृत्यशिखिनां केकातिरेकाकुले
सुप्रापं सलिलं मरुष्वपि तदा निस्तर्षवर्षाग,
भीष्मग्रीष्मऋतौ परस्परदरादालोक्यमानं दिशो
दीनं मीनकुलं न पालयसि रे कासार कासारताम् ॥ ८१ ॥
हंसैलब्धप्रशंसैस्तरलितकमलप्रस्तरङ्गैस्तरङ्गै-
र्नीररैन्तर्गभीरैर्बकनिकरकृतत्रासलीनैश्च मीनैः ।
पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतै-
र्भाति प्रक्रीडनाभिस्तव सचिवचलच्चक्रवाकस्तटाकः ॥ ८२ ॥
किं तेन संभृतवतापि सरोवरेण
लोकोपकाररहितेन वनस्थितेन ।
ग्राम्या वरं तनुतरापि तडागिका सा
या पूरयत्यनुदिनं जनतामनांसि ॥ ८३ ॥
अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।
इदमपि [च] [६२]सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ८४ ॥
एतस्मिन्मरुमण्डले परिचरत्कल्लोलकोलाहल-
क्रीडत्कुङ्कुमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।
केनेदं विकसत्कुशेशयकुटीकोणक्कणत्षट्पद-
श्रेणीप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ ८५ ॥
माद्यद्दिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता
व्योम्नः सीम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः ।
कष्टं भाग्यविपर्ययेणं सरसः कल्पान्तरस्थायिन-
स्तस्याप्येकबकप्रचारकलुषं जातं यदन्तर्जलम् ॥ ८६ ॥
स्तोकाम्भःपरिवर्तिताङ्कशफरग्रसार्थिनः सर्वतो
लप्स्यन्ते बकटिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् ।
सद्यः शोषमुपागतेऽद्य सरसि श्रीसद्मपद्माकरे
तस्मिन्पङ्कजिनीविलासरुचयो हंसाः क्व यास्यन्त्यगी ॥ ८७ ॥
रे पद्माकर यावदस्ति भवतो मध्यं पयःपूरितं
तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय ।
पश्चात्त्वं समटद्बकोटचटुलत्रोणीपुटव्याहति-
त्रुट्यत्कर्कटकर्परव्यतिकरैर्निन्दास्पदं यास्यसि ॥ ८८ ॥
अथ पद्मसरसः ।
क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां
मद्गुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्टिभः ।
भेकाः सन्तु बका वसन्तु चरतु खच्छन्दमाटिस्तटे
हंहो पद्मसरः कुतः कतिपयैर्हंसैर्विना श्रीस्तव ॥ ८९ ॥
अथ कूपान्योक्तयः ।
अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् ।
सुस्वादु सलिलं यत्र पीयते पथिकैः पथि ॥ ९० ॥
कूपप्रभवानां परमुचितमपां पट्टबन्धनं मन्ये ।
या शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥ ९९ ॥
सगुणैः सेवितोपान्तो विनीतैः प्राप्तदर्शनः ।
नीचोऽपि कूपः सत्पात्रैर्जीवनार्थं समाश्रितः ॥ ९२ ॥
चित्रं न तद्यदयम्बुधिरम्बुदौघ-
सिन्धुप्रवाहपरिपूरतया महीयान् ।
त्वं त्वर्थिनामुपकरोषि यदल्पकूप
निष्पीड्य कुक्षियुगलं हि महत्त्वमेतत् ॥ ९३ ॥
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे
परमुपकृतं शेषं वक्तुं चिरं न वयं क्षमाः ।
भवतु सुकृतैरध्वन्यानामशेषजलो भवा-
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ९४ ॥
भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि-
क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि ।
येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप
क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ९५ ॥
भूयःप्रयासपरिलभ्यकियज्जलस्य
रे कूप कोऽपि किमुपैति वदोपकण्ठम् ।
कूर्मः किमत्र कुचरित्रजनाभिरामे
ग्रामे न चास्ति तटिनी न सरो न वापी ॥ ९६ ॥
अथ तेजःकायाधिकारपद्धतौ प्रथममग्नेः ।
त्रयस्त्रिंशत्कोटित्रिदशमुखवन्द्योऽसि जगतां
किमेवं दह्यन्ते चपलपवनप्रेरकतया ।
फलाढ्याः सर्वेषामुपक्कृतिकृतस्तेऽपि तरवो
यदेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥
रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गेयकं
ताम्बूलेन समागमं दृषदहो तूलं च कूलं दृशोः ।
कर्पूरेण सहाधिवासमसमं काष्ठानि कुम्भीभव-
न्पङ्कः शीर्षमवाप्य यद्विजयते सा पावकी साधना ॥ ९८ ॥
अथ प्रदीपान्योक्तयः ।
दैवादस्तं गते सूर्ये त्वं चेल्लोकैः पुरस्कृतः ।
मा दीप मलिनोद्गारैः सद्गेहानि कलङ्कय ॥ ९९ ॥
दीपो वातभयान्नीतः कामिन्या वसनान्तरे ।
निरीक्ष्य कुचसौन्दर्यमकरः कम्पते शिरः ॥ १०० ॥
तावद्दीपय दीपममुं यावद्रजनिविरामः ।
भानुश्चेदुदयाभिमुखस्तत्किं तव गुणधाम ॥ १०१ ॥
अथ दावानलान्योक्तयः ।
यस्या महत्त्वभाजो भवन्ति गुणिनो मिता धनुर्दण्डाः ।
दहतस्तां वंशालीं को वनवह्ने विशेषस्ते ॥ १०२ ॥
हे दावानल शैलाग्रवासिनः साधु शाखिनः ।
मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ १०३ ॥
दुर्दैवप्रभव प्रभञ्जन जवादुद्भूतभूमीरुहा-
नेतान्सत्वगुणाश्रयानकरुणं प्लुष्यन्किमुन्माद्यसि ।
ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि
द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ १०४ ॥
अभ्युन्नतेऽपि जलदे जगदेकसार
साधारणप्रणयहारिणि हा यदेते ।
उल्लासलास्यललितं तरवो न यान्ति
हे दावपावक स तावक एव दोषः ॥ १०५ ॥
विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशामही तापिता ।
भस्मीकृत्य सुपुष्पपल्लवफलैर्नग्रान्महापादपा-
नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ १०६ ॥
अथ धूम्रस्य ।
कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं
लोकं रोदयते भनक्ति जनतागोष्ठीं क्षणेनापि यः ।
मार्गेऽप्यङ्गुलिलग्न एव [६३]भवतः स्वाभाविनः श्रेयसे
हा स्वाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ १०७ ॥
धूमः पयोधरपदं कथमप्यवाप्य
वर्षाम्बुभिः शमयति ज्वलनस्य तेजः।
दैवादवाप्य ननु नीचजनः प्रतिष्ठां
प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ १०८ ॥
अथ वायुकायाधिकारपद्धतौ वायोरन्योक्तयः ।
क्षणादसारं सारं वा वस्तु सूक्ष्मः(क्ष्मं) परीक्ष्यते ।
निश्चिनोति मरुत्तूर्णं तूलोच्चयशिलोच्चयौ ॥ १०९ ॥
वरतरुविघटनपटवः कटवश्चञ्चन्ति वायवो बहवः ।
तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ ११० ॥
अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ १११ ॥
तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः ।
समुच्छ्रितान्येव तरून्प्रबाधते महान्महत्स्वेव करोति विक्रियाम्॥११२॥
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
त्पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांशवः ॥ ११३ ॥
परमो मरुत्सखाग्नेस्तेजोवृद्धिं तनोति तज्जातु ।
दीपं हरति तदस्य ज्ञातं प्रतिपन्ननिर्वहणम् ॥ ११४ ॥
प्राणास्त्वमेव जगतः पवनस्त्वमेव
विश्वं पुनासि परितो परितो विहृत्य ।
एकं पुनः सकलभूषण दूषणं ते
वह्नेः सखा भवसि यद्भवनं दिधक्षोः ॥ ११५ ॥
शाखाभिर्हरिता दिशः कलयिता श्रीसंविभागोत्सवं
तारोल्लम्बकुटुम्बके प्रथयिता पान्थातिथेयीमसौ ।
इत्थं नाथमनोरथप्रथिमभिः सार्धं प्रवृद्धे पुरा
हा दुर्वात किमाततान तदिदं बाले रसाले भवान् ॥ ११६ ॥
कोऽयं भ्रान्तिप्रकारस्तव पवनपदं लोकपादाहतीनां
तेजस्विव्रातसेव्ये नभसि नयसि यत्पांशुपूरं प्रतिष्ठाम् ।
अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि कलुषतादोषपोषस्तवेह ॥ ११७ ॥
हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां
शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल दावानलः ।
येनादायि पलायमानहरिणं भस्मीभवद्भूरुहं
शुष्यन्निर्झरमुत्पतत्खगकुलं वेल्लद्भुजङ्गं वनम् ॥ ११८ ॥
अहह चण्डसमीरण दारुणं किमिदमाचरितं चरितं त्वया ।
यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितम् ॥ ११९॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डित- हंसविजयगणिसमुच्चित्तायामन्योक्तिमुक्तावल्यां जलाग्निसमीरा- न्योक्तिनिरूपकः षष्टः परिच्छेदः ॥ ६ ॥
सप्तमः परिच्छेदः ।
परज्योतिःस्वरूपाय पराय परमात्मने ।
नमः श्रीपार्श्वनाथाय श्रेयःश्रेणीविधायिने ॥ १ ॥
कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव ।
मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥ २ ॥
भजध्वमेनं भो भव्याः श्रीकामाय जिनेश्वरम् ।
रम्यदं तं सुखागारं मनोभवभवप्रभम् ॥ ३ ॥
भववारांनिधौ कुम्भभवं बोधितसत्सभम् ।
भगवन्तं जराजन्मरोगहं चित्तजं हरम् ॥ ४ ॥
द्वाभ्यां खड्गबन्धचित्रम् ।
श्रमणप्रकरैर्वन्द्य सद्यस्तव पदौ मम ।
महानन्दपदं दत्तां त्रैशलेययशोधर ॥ ५ ॥
हलबन्धचित्रम् ।
धन्यास्त एव देवार्थं ये त्रिसंध्यं पदद्वयम् ।
आराधयन्ति विधिवज्जन्मभाजोऽनिशं तव ॥ ६॥
सज्ज्ञानमञ्जुमाणिक्यवररोहणभूधरम् ।
वन्दामहे विश्ववन्द्यं साधुश्रीवन्तनन्दनम् ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
सांप्रतं सुखबोधाय परिच्छेदे च सप्तमे ।
चित्रानुप्रासयमकगुणालंकारभासुरे ॥ ८ ॥
विचक्षणजनश्रेणीहर्षोत्कर्षकृते मया ।
सरलानुक्रमणिका प्रतिद्वारस्य प्रोच्यते ॥ ९ ॥(युग्मम्)
सामान्यपादपान्योक्तिरशोकतरुपद्धतिः ।
चन्दनोक्तिश्चम्पकोक्तिर्माकन्दोक्तिर्मनोरमा ॥ १० ॥
काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा(?)।
पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥ ११ ॥
मालत्युक्तिर्वालकोक्तिः केतक्युक्तिर्बुधैर्मता ।
पनसोक्तिः कदल्युक्तिर्द्राक्षोक्तिर्दाडिमोक्तयः ॥ १२ ॥
नारिकेल्युक्तयश्चापि तालवृक्षोक्तयस्ततः ।
भूर्जद्रुमोक्तयो ज्ञेयाश्वत्थ(?)वृक्षोक्तयस्तथा ॥ १३ ॥
न्यग्रोधान्योक्तयस्तद्वन्मधूकान्योक्तयः पुनः ।
इक्ष्वन्योक्तिश्च पीलूक्तिर्बदर्यन्योक्तयोऽपि च ॥ १४ ॥
शाल्मल्यन्योक्तयश्चैवं निम्बभूमीरुहोक्तयः ।
खदिरान्योक्तयः ख्याता वंशजात्युक्तयस्तथा ॥ १५ ॥
किंशुकान्योक्तयस्तद्वत्पलाशकुसुमोक्तयः ।
बब्बूलान्योक्तयो ज्ञेयाः शाखोटान्योक्तयः स्फुटाः ॥ १६ ॥
चिञ्चिण्युक्तिः करीरोक्तिः कण्टकोक्तिस्ततः परम् ।
कन्थेर्युक्तिश्च बिल्वोक्तिरर्कक्षोणीरुहोक्तयः ॥ १७ ॥
जवासोक्तिर्यवस्योक्तिः शाल्युक्तिश्च तिलोक्तयः ।
ततो विशिष्टमञ्जिष्ठान्योक्तयो विजयोक्तयः ॥ १८ ॥
दक्षलक्षप्रियतमा तमाकूक्तिः प्रकीर्तिता ।
लशुनोक्तिर्बादरोक्तिः फेनिलान्योक्तयः पराः ॥ १९ ॥
कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।
धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ २० ॥
नागवल्लीदलान्योक्तिस्तुम्बिवल्युक्तयः पुनः ।
कारेल्यन्योक्तयो ज्ञेयाः कोहलिन्युक्तयो वराः ॥ २१ ॥
अथ वनस्पतिकायाधिकारपद्धतौ प्रथमं सामान्यवृक्षान्योक्तयः ॥
छायामन्यस्य कुर्वन्ति खयं तिष्ठन्ति चातपे ।
फलन्ति च परार्थे च नात्महेतोर्महाद्रुमाः ॥ २२ ॥
वर्त्मनि वर्त्मनि तरवः पथि पथिकजनैरुपास्यते छाया ।
स च नैव चिरं विटपी यं गृहमाप्तोऽध्वगः स्मरति ॥ २३ ॥
शाखाशतचितवृतयः सन्ति कियन्तो न कानने तरवः ।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥ २४ ॥
कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।
यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥
कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः ।
कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥
शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः ।
स एव विरलः शाखी यत्र विश्रमते करी ॥ २७ ॥
वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः ।
स पुण्यशाखी क्वचिदेक एवं यस्याश्रयं वाञ्छति वारणेन्द्रः ॥२८॥
एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्बं
केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुञ्जे ।
कोऽसौ धन्यः कथय सुकृती पादपोऽभ्रंलिहश्री-
र्यस्य च्छायां श्रयति सहसा आतपार्तः करीन्द्रः ॥ २९ ॥
भीष्मग्रीष्मस्वरांशुतापमसमं वर्षाम्बुतापक्लमं
भेदच्छेदमुखं कदर्थनमलं मर्त्यादिभिर्निर्मितम् ।
सर्वग्रासिवानलप्रसृमरज्यालोत्करालिङ्गनं
हंहो वृक्ष सहस्व जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥
किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया
छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।
हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ ३१ ॥
आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः
पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत-
स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदान्ये द्रुमाः ॥ ३२ ॥
कुर्वन्षट्पदमण्डलस्य कुसुमामोदप्रदानोन्मुखं
संप्रीणन्प्रसभं मनोहरफलस्वादार्पणादध्वगान् ।
छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां
सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥
छायासुप्तमृगः शकुन्तनिवहैर्विष्ठाविलिप्तच्छदः
कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।
विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एकस्तरु-
र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोऽन्ये द्रुमाः ॥ ३४ ॥
गतास्ते विस्तीर्णस्तवकभरसौरभ्यलहरी-
परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः ।
इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-
दमी वल्मीकाद्या भुजगकुललीलावसतयः ॥ ३५ ॥
हंहो पान्थ किमाकुलः श्रमवशादत्युन्नतं धावसि
प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता ।
मूलं सिंहसमाकुलं तु शिखरं प्रोद्दण्डतुण्डाः खगा
मध्ये कोटरभाजि भीषणफणाः फूत्कुर्वते पन्नगाः ॥ ३६ ॥
शाखाभिर्विततीभविष्यति दलैस्तेजांसि तिग्मद्युते-
रन्तर्धास्यति यास्यतीह मधुपश्रेणी रसं कौसुमम् ।
अध्वन्यान्सुखिनः करिष्यति फलैर्यत्रेयमाशाभव-
त्सोऽयं मार्गतरुर्हहा विधिवशाद्दग्धो दवार्चिष्मता ॥ ३७ ॥
तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः ।
मार्गस्थस्तरुरेकः कियतां संतापमपनयति ॥ ३८ ॥
मार्गं विहाय गिरिकन्दरगह्वरेषु
वृक्षाः फलन्ति यदि नाम फलन्तु किं तैः ।
शाखाग्रजानि कुसुमानि फलानि मार्गे
गृह्णन्ति यस्य पथिकास्तरुरेष धन्यः ॥ ३९ ॥
आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहा
मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् ।
यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं
यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ४० ॥
प्रत्यग्रैः पुष्पनिचयैस्तरुर्यैरेव शोभितः ।
जहासि जीर्णांस्तानेव किं वा चित्रं कुजन्मनः ॥ ४१ ॥
रोलम्बैर्न विलम्बितं विघटितं धूमाकुलैः कोकिलै-
र्मायूरैश्चलितं पुरैव नभसा कीरैरधीरैर्गतम् ।
एकेनापि सपल्लवेन तरुणा दावानलोपप्लवः
सोढः कोऽपि विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥ ४२ ॥
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
धन्या महीरुहो येभ्यो विमुखा यान्ति नार्थिनः ॥ ४३ ॥
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ४४ ॥
भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजैः पल्लवै-
स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।
विश्रान्ताः सुचिरं परं सुमनसः सन्तः किमत्रोच्यते
त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम् ॥ ४५ ॥
जातो मार्गे सुरभिकुसुमः सत्फलो निम्नशाखः
स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः ।
नैवात्मार्थं वहति महतीं पादपेन्द्रः श्रियं ता-
मापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ४६ ॥
मूलं योगिभिरुद्धृतं निवसितं वासोर्थिभिर्वल्कलं
भूषार्थी च जनश्चिनोति कुसुमं भुङ्क्ते क्षुधार्तः फलम् ।
छायामातपिनो विशन्ति विचिता निद्रालुभिः पल्लवाः
कल्पात्स्वस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ॥ ४७ ॥
भ्राम्यद्भृङ्गभरावनम्रकुसुमश्च्योतन्मदोद्गन्धिषु
छायावत्सु तलेषु पान्थनिचया विश्रस्य गेहेष्विव ।
निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलै-
स्ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ४८ ॥
भुक्तानि यैस्तव फलानि पचेलिमानि
क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् ।
ते पक्षिणो जलरयेण विकृष्यमाणं
पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ४९ ॥
विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः
खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः ।
दशां दीनां नीते सरसि विषमग्रीष्मदिवसैः
कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ ५० ॥
शाखोटशाल्मलिपलाशकरीरकाद्याः
शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः
युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मीं
सौरभ्यसंभवविधिस्तु हरेरधीनः ॥ ५१ ॥
पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति
स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति ।
[६४]पर्यालोच्य महातरो तव घनच्छायां वयं संश्रिता-
स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ ५२ ॥
हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविर्भवम् ।
हन्त सहन्ते यावत्तावद्रुम कुरु परोपकृतिम् ॥ ५३ ॥
ये पूर्वं परिपालिताः फलभरच्छायादिभिः प्राणिनो
विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते सांप्रतम् ।
एताः संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ ५४ ॥
वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
जातोऽसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः ।
नानादेशसमागतैश्च पथिकैराक्रान्तमन्यैः खगै-
स्तं लब्धावसरोऽपि वृक्ष शकुनैर्दूरे स्थितो वीक्ष्यते ॥ ५५ ॥
केचित्कण्टकिनः कटुत्वकलिताः केचिद्द्विजिह्वाश्रयाः
स्तब्धाः केचन केऽपि सत्तमदलाः केचित्सदा निष्फलाः ।
अत्यन्तं फलिनोऽपि नीरसफला वृक्षा इव स्वामिनो
जाताः संप्रति कुत्र यान्तु पथिकाश्छायाफलाकाङ्क्षिणः ॥५६॥
संकेतं मधुपावलीविरचितैर्झाङ्कारसारारवैः
शस्यं लास्यविधिं समीरलहरीप्रेङ्खोलितैः पल्लवैः ।
वादित्रं खलु कोकिलाकलरुतैः संपादयन्सेवकी-
भूयोसावृतुराजमागतमहो किं सेवते दुष्कृती ॥ ५७ ॥
माकुप्पमग्गपायव मग्गच्छालूरणेण अणवरयम् ।
उमगत्थे फलिए(?) मग्गत्थानेव गिह्णन्ति ॥ ५८ ॥
पइमुक्काह विवरतरु फिट्टइ पत्तत्तणं न पत्ताहम् ।
तुह पुण च्छाया जइ होइ तारिसी तेहिं पत्तेहिम् ॥ ५९ ॥
अथ वृक्षविशेषणपद्धतौ किङ्केल्लिभूमीरुहान्योक्तयः ।
किं ते नम्रतया किमुन्नततया किं वा घनच्छायया
किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।
यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥६०॥
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ६१ ॥
मृदूनां स्वादूनां लघुरपि फलानां न विभव-
स्तवाशोक स्तोकः स्तवकमहिमा सोऽप्यसुरभिः ।
यदेतन्नो तन्वीकरचरणलावण्यसुभगं
प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः ॥ ६२ ॥
अथ चन्दनान्योक्तयः ।
सन्त्येव मिलिताकाशा महीयांसो महीरुहः ।
तथापि जगतश्चित्तनन्दनश्चन्दनद्रुमः ॥ ६३ ॥
के के तमालफलसालरसालसाल-
हिन्तालतालकृतमालगणा न सन्ति ।
एकेन तेन वनमण्डनचन्दनेन
संवासितं वनमिदं मलयाचलस्य ॥ ६४ ॥
कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणा-
मत्यानन्दं जनयतु फलैः कोऽपि लोकांश्चिनोतु ।
धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ६५ ॥
अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे
मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः ।
सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः
सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥६६॥
केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
केऽप्यन्ये फलहारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।
धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् ॥ ६७ ॥
भ्रातश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा
गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः ।
दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा
नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥
एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरभं
ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते ।
माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदरा-
दुद्भ्राम्यद्द्विपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ॥
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥
धिक्चेष्टितानि परशो परिशोचनीयं
बालप्रवालमलयादिरुहद्रुहस्ते ।
निर्भिद्यमानहृदयोऽपि महाप्रभावः
स त्वन्मुखं पुनरभीः सुरभीकरोति ॥ ७९ ॥
वासः शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह
प्रेङ्खत्क्षारपयोधिवीचिभिरभूदुद्भूतिसेकक्रिया ।
जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां
कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ॥ ७२ ॥
आमोदैस्तैर्दिशि दिशि गतैर्दूरमाकृष्यमाणां
साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्म ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ॥
मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः ।
नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वभरैः समन्तात् ॥ ७४ ॥
भ्रष्टं जन्मभुवस्ततोऽम्बुधिपयःपूरेण दूरीकृतं
लग्नं तीरवने वनेचरशतैर्नीतं ततः खण्डितम् ।
विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं
वन्दन्ते कटरे(?)विपत्स्वपि गुणैः को नाम नो पूज्यते ॥७५॥
श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने
येषां गन्धगुणः सदापि वसति प्रायेण पुष्पश्रिया ।
प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदातात्मना
योऽयं गन्धगुणस्त्वया प्रकटितः क्वासाविह प्राप्यते ॥ ७६ ॥
मलओस चन्दणुचिय नइ मुह हीरन्त चन्दणदुमोहो ।
पव्भट्टं पिहु मलयाउ चन्दणं जायइ महग्धम् ॥ ७७ ॥
अथ चम्पकान्योक्तयः ।
साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि ।
लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः ॥ ७८ ॥
कोपं चम्पक मुञ्च याचकजनैरायाचितस्त्वं सखे
माम्लासीः परितो विलोकय तरून्कस्तेऽधिरूढस्तुलाम् ।
कोपश्चेन्निहितस्तवास्ति हृदये धात्रे तदा कुप्यता-
मित्थं येन सुवर्णवर्णकुसुमामोदाद्वितीयः कृतः ॥ ७९ ॥
सौभाग्यं कुसुमावलीषु विपुलं सौन्दर्यमर्यादया
पुष्पं चम्पक निर्मितं च विधिना स्वर्णातिवर्णाकृति ।
गन्धोऽप्येणमदाभिमानविजयी काठिन्यमन्तर्गतं
ज्ञात्वा दोषपराङ्मुखो मधुकरः सङ्गं न धत्ते त्वया ॥ ८० ॥
रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः ।
कामिनस्तु जगृहुस्तदशेषं ग्राहका हि गुणिनां कति न स्युः ॥८१॥
यन्नादृतस्त्वमलिना मलिनाशयेन
किं तेन चम्पक विषादमुरीकरोषि ।
विश्वाभिरामनवनीरदनीलवेषाः
केशाः कुशेशयदृशां कुशलीभवन्तु ॥ ८२ ॥
सुवर्णवर्णेन वृणीष्व गौरवं सौरभ्यभारेण जगद्वशीकुरु ।
इति क्षतिर्गन्धफलि स्फुटं तव प्राप्ता न यस्मान्मधुपेन संगतिः ॥ ८३ ॥
अन्तःप्रतप्तमरुसैकतदह्यमान-
मूलस्य चम्पकतरोः क्व विकाशचिन्ता ।
प्रायो भवत्यनुचितस्थितदेशभाजां
श्रेयः स्वजीवपरिपालनमात्रमेव ॥ ८४ ॥
केनापि चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकवाटिकायाम् ।
यत्र प्ररूढनवशाखविवृद्धिलोभा-
द्गोभग्नवाटघटनोचितपल्लवोऽसि ॥ ८५ ॥
उद्यानपाल कलशाम्बुनिषेचनाना-
मेतस्य चम्पकतरोरयमेव कालः ।
तस्मिंश्च[६५] घर्मनिहतेऽपि घनाम्बुनाथ
संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥
एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी
संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।
धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदय-
न्नामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे ॥ ८७ ॥
अथ सहकारान्योक्तयः ।
गाता कोकिल एव ज्ञाता पुनरेव सहकारः ।
यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ॥ ८८ ॥
यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः ।
तदपि स एव रसालः कोकिलहृदये सदा वसति ॥ ८९ ॥
मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् ।
मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥
मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः ।
यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ॥
समयवशेन यदद्य फलं जातं तव सहकार ।
भ्रातस्तद्भवतार्तजने कर्तव्यो न नकारः ॥ ९२ ॥
सौरभ्यगर्भमकरन्दकरम्बितानि
पङ्केरुहाण्यपि विहाय समागतस्त्वाम् ।
संसारसार सहकार तथा विधेयं
येनोपहासविषयो न भवेद्द्विरेफः ॥ ९३ ॥
उत्फुल्लरम्य सहकार रसालबन्धो
कूजत्पिकावलिनिवास तथा विधेहि ।
गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो
नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ९४ ॥
येऽमी ते मुकुलोद्गमादेनुदिनं त्वामाश्रिताः षट्पदा-
स्ते भ्राम्यन्ति फलाद्वहिर्बहिरहो दृष्ट्वा न संभाषते ।
ये कीटास्तव दृक्पथं न च गतास्त्वेतत्फलाभ्यन्तरे
धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान् ॥ ९५ ॥
न तादृक्कर्बूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव भवति यादृक्परिमलः ।
परं त्वेको दोषस्त्वयि खलु रसालेऽधिकगुणे
पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ९६ ॥
यदपि किल वसन्ते वीरुधः शाखिनो वा
फलकुसुमसमृद्ध्या शोभमाना भवन्ति ।
तदपि युवजनानां प्रीतये कोकिलोऽसा-
वभिनवकलिकालीभारशाली रसालः ॥ ९७ ॥
उत्तंसकौतुकरसेन विलासिनीनां
लूनानि यस्य नखरैरपि पल्लवानि ।
उद्यानमण्डनतरो सहकार स त्व-
मङ्गारकारकरगोचरतां गतोऽसि ॥ ९८ ॥
कति पल्लविता न पुष्पिता वा
तरवः सन्ति न संततं वसन्ते
जगतीविजयाय पुष्पकेतोः
सहकारी सहकार एक एव ॥ ९९ ॥
यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाङ्कुरो
दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः
सोत्कर्ष फलितो भृशं च नमितः कोऽप्येष चूतद्रुमः ॥१०० ॥
एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः
प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम् ।
यं वीक्ष्य स्मितवक्रमुद्गतमहासंतोषमुल्लासित-
स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थवजाः ॥ १०१ ॥
सा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि
ग्राह्यः काञ्चनभूभृदप्सु दधिरे रत्नानि रत्नाकराः ।
हा दैवेति वचो विना न ददते वज्राणि वज्राकरा-
स्तेनाहं सहकार सारफलदं त्वामर्थितुं संगतः ॥ १०२ ॥
छाया फलानि मुकुलानि च यस्य विश्व-
माह्लादयन्ति सहकारमहीरुहस्य ।
आमृष्य तस्य शिखया नवपल्लवानि
मथ्नासि रे दवहुताश हताश कष्टम् ॥ १०३ ॥
कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता
रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् ।
सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते
लोके येन रसालसालनिकरांस्त्यक्त्वा गुणान्स्तौमि ते ॥ १०४ ॥
यावत्फलोदयमुखः सहकार जात-
स्तावच्च कण्टककुलैः परिवेष्टितोऽसि ।
छायापि ते न सुलभा फलमस्तु दूरे
त्वं निष्फलो वरमहो सुखसेवनीयः ॥ १०५ ॥
रे माकन्द मरन्दसुन्दरमिदं त्वन्मञ्जरीजृम्भितं
मत्वा त्वामयमेति मुद्रितमुखः काकः कुरूपाग्रणीः ।
मान्यस्तद्भवता नचैकपिकवद्वर्णस्य सावर्ण्यतो
नो वर्णाकृतिसाम्यसङ्गिनि जने मुह्यन्ति मेधाविनः ॥ १०६ ॥
कन्दे सुन्दरता दले सरलता वर्णेऽपि संपूर्णता
स्कन्धे वन्धुरता फले सरसता कस्यापरस्येदृशी ।
एकस्त्वं सहकार खिन्नपथिकाधारः स्थितः सत्पथे
दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ॥ १०७ ॥
जातो मार्गपरिश्रमव्यपगमस्तापः प्रशान्तिं गतः
संपन्नं नच मञ्जरीपरिमलैर्घ्राणस्य संतर्पणम् ।
प्राप्ता तृप्तिरनश्वरैः फलभरैस्त्वत्तस्तदापृच्छ्यते
गच्छामः सहकार सज्जन भज त्वं कल्पवृक्षश्रियम् ॥ १०८ ॥
छायामायासनाशे प्रगुणयसि नृणामुत्सवेषु च्छदानि
प्रीतौ पुष्पंधयानां मधुपिकनिकरस्त्वागते कारकाणि ।
घर्मक्लान्तार्थिसार्थक्लमशमनविधौ पाकपिङ्गं फलौघं
तत्त्वं विश्वोपकारार्पितविभवकृतानन्द माकन्दनन्द ॥ १०९ ॥
दृष्टे सति प्रविलसत्सहकारवृक्षे
किं किंशुकेष्वभिरुचिं कुरुते मिलिन्दः ।
आस्वादिते सति सरोरुहनीरपूरे
लीलालवालजलमिच्छति किं मरालः ॥ ११० ॥
वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र को निषेद्धा ।
परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १११ ॥
अर्काः केचन केचिदक्षतरवः केचिद्वयःक्ष्माभृतो
निम्बाः केचन केचिदत्र विपिने वक्राः करीरद्रुमाः ।
माकन्दो मकरन्दतुन्दिलमिलद्भृङ्गालिशृङ्गारितः
सैकोऽप्यस्ति न मित्र यत्र तनुते शब्दायते कोकिलः ॥ ११२॥
केचित्पल्लवलीलया परिमलैरन्ये फलैः केचन
च्छायाभिर्घनशीतलाभिरपरे केऽपि द्विरेफखरैः ।
प्रत्येकं मुदमुद्धरन्ति तरवः सर्वैरमीभिः पुनः
पान्थानां गुणवक्रमिन्द्रियगणे दत्तं रसाल त्वया ॥ ११३ ॥
मूर्तिर्नेत्ररसायनं यदि कुतश्छायेयमच्छेतरा
चक्रे सापि ततः कुतः फलभरः पीयूषगुञ्जागृहम् ।
एवं सर्वगुणाद्भुतं यदि भवानाम्रद्रुमं निर्ममे
तत्तत्र प्रगुणीकृतः कथमसौ दुर्दैवदावानलः ॥ ११४ ॥
विच्छायतां व्रजसि किं सहकार शाखि-
न्यत्फाल्गुनेन सहसापहृता मम श्रीः ।
प्राप्ते वसन्तसमये तव सा विभूति-
र्भूयो भविष्यति तरामचिरादवश्यम् ॥ ११५ ॥
अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि ।
सहकार मायिविटपिन्युक्तं लोकैर्बहिर्नीतः ॥ ११६ ॥
अथागुरोरन्योक्तयः ।
अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि ॥ ११७ ॥
यः परप्रीतिमाधातुं भस्मतामपि गच्छति ।
विवेकमानिनः पश्य धात्रा सोऽप्यगुरुः कृतः ॥ ११८ ॥
आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः
पाथोद प्रशमं नयागुरुतरोरेतस्य दाघज्वरम् ।
ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसंपदो
दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ ११९ ॥
अथ मल्लिकायाः ।
नच गन्धवहेन चुम्बिता नच पीता मधुपेन मल्लिका ।
पिहितैव कठोरशाखया परिणामस्य जगाम गोचरम् ॥ १२० ॥
अथ पाटलायाः ।
पाटलया वनमध्ये कुसमितया मोहितस्था भ्रमरः ।
सैवेयमिति यथाभूततीतिरखान्यपुष्पेपु । १२१ ॥
अथ पङ्कजान्योक्तयः ।
सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।
तत्र सौरभमानेतं चतुरश्चतुराननः ॥ १२२ ॥
दोषाकरे समुदिते मित्रे चास्तमुपागते ।
संकुच्य कमलेनेव स्थातव्यं दिनमिच्छता ॥ १२३ ॥
पङ्कज जलेषु वासः प्रीतिर्मधुपेषु कण्टकैः सङ्गः ।
यद्यपि तदपि तवैेतच्चित्रं मित्रोदये हर्षः ॥ १२४ ॥
कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः |
अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥ १२५ ॥
वरमश्रीकता लोके नासमानसमानता ।
इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम् ॥ १२६ ॥
दूरादेत्य तवान्तरे चिरतरं यश्चञ्चरीकः स्थित-
स्त्वं सौरभ्यभरेण भावितरतिस्त्वय्येव सक्तश्चयः ।
सोऽयं त्वत्परितो भ्रमत्यनुदिनं मुक्तान्यकार्यः कज
त्वं यन्नो भजसे विकासमपि तदयुक्तं गुणाढ्यस्य ते ॥ १२७ ॥
कज भज विकासमभितस्त्यज संकोचं भ्रमत्ययं भ्रमरः ।
यद्यपि न भवति कार्यं तथापि तुष्टस्तनोत्ययं कीर्तिम् ॥ १२८ ॥
कोशं विकासय कुशेशय संश्रितालिं
प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते ।
दोषागमे निबिडराजकरप्रतापे
दुस्थे समेष्यति पुनस्तव कः समीपे ॥ १२९ ॥
नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-
र्दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान्प्रश्रयः ।
आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ १३० ॥
यन्माता विष्णुनाभिः समजनि तनयो यस्य देवः स्वयंभू-
र्लक्ष्मीर्यत्संश्रया भूर्यदपि करतले भारती संबभार ।
भानुर्यस्यास्ति मित्रं तदपि सरसिजं क्षीणमिन्दोर्मयूखै-
स्त्रातुं नैवोत्सहन्ते गतसुकृतफलप्रान्तकाले सहायाः ॥ १३१ ॥
प्रसारितकरे मित्रे जगदुद्योतकारिणि ।
किं न तैरेव लज्जा ते कुर्वतः पाणिसंवृतिम् ॥ १३२ ॥
लक्ष्मीसंपर्कजातोऽयं दोषः पद्मस्य निश्चितम् ।
यदेष गुणसंदोहधाम्नि चन्द्रे पराङ्मुखः ॥ १३३ ॥
उदितवति द्विजराजे कस्य म हृदये मुदः पदं दधति ॥
संकुचसि कमल यदयं हरहर वामो विधिर्भवतः ॥ १२४ ॥
अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य माभूवन्भङ्गुरा गुणाः ॥ १३५ ॥
एते च गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।
यल्लक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ १३६ ॥
कामं भवन्तु मधुलम्पटषद्पदौघ-
संघट्टघुर्घुरघनध्वनयोऽजखण्डाः ।
गायन्नतिश्रुतिसुखं विधिरेव यत्र
भृङ्गः स कोऽपि धरणीधरनाभिपद्मः ॥ १३७॥
अथ नलिन्योक्तयः ।
रे पद्मिनीदल तवात्र मया चरित्रं
दृष्टं विचित्रमिव यद्विदितं ब्रुवे तत्।
यैरेव शुद्धसलिलैः परिपालितस्त्वं
तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात् ॥ १३८ ॥
रे पद्मिनी जलरुहस्तव युक्तमेत-
त्सङ्गं करोषि मलिनैर्मधुपैः समं यत् ।
प्रायो विशुद्धकुलजा अपि लब्धवर्णा
नार्यो भवन्ति खलु नीचजनानुरक्ताः ॥ १३९ ॥
ख्याता वयं समधुपा मधुकोशवत्य-
श्चन्द्रः प्रसारितकरो द्विजराज एषः ।
अस्मत्समागमकृतेऽस्य पुनर्द्वितीयो
माभूत्कलङ्क इति संकुचिता नलिन्यः ॥ १४० ॥
रे भ्रमर भ्रमरहितं कथय कथं यासि कुमुदिनीमेनाम् ।
उदितेऽपि जगच्चक्षुषि पश्यैषा स्मितमुखी नासीत् ॥ १४१ ॥
रवेरस्तं तेजः समुदयति खद्योतपटली
मरालाली मूका कलकलमुल्का विदधते ।
इदं दृष्टं कष्टं चिरमसहमाना कमलिनी
मिलद्भृङ्गव्याजात्कवलयति हालाहलमिव॥ १४२ ॥
अस्तं गते दिवानाथे नलिनी मधुपच्छलात् ।
गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ १४२ ॥
अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते ।
कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ १४४ ॥
अथ मालत्यन्योक्तयः ।
किं मालतीकुुसुम ताम्यसि निष्ठुरेण
केनापि यत्किल विलूनमितो लताग्रात् ।
लोकोत्तरेण विलसद्गुणगौरवेण
को नामुना शिरसि नाम करिष्यति त्वाम् ॥ १४५ ॥
म्रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं
नचान्येभ्यो रूपे भवति कुसुमेभ्योऽधिकतरम् ।
प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण-
प्रवीणैरामोदैर्भवति जगतां मौलिनिलयम् ॥ १४६ ॥
मा मालति म्लायसि यद्यवद्यतुम्बीपप्रसूने भ्रमरं समीक्ष्य ।
प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षट्पदः सार्धपशुः कथं न ॥१४७॥
भवति हृदयहारी कोऽपि कस्यापि हेतु-
र्न खलु गुणविशेषः प्रेमबन्धः प्रयोगे ।
किसलयितवनान्ते कोकिलालापरम्ये
विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ १४८ ॥
कुसुमस्तवकैर्नम्राः सन्त्येव परितो रताः ।
तथापि भ्रमरभ्रान्तिं हरत्येकैव मालती ॥ १४९ ॥
`
अथ वालकस्य
मुत्तूण पत्तनियरं जडाण निय परिमलं समप्पन्तो ।
सहसुम्मूलणटुक्खं वालय बालोऽसि किं भणिमो ॥ १५० ॥
अथ केतक्यन्योक्तयः ।
केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।
दोषाः किंनाम कुर्वन्ति गुणापहृतचेतसाम् ॥ १५१ ॥
रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः
सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् ।
जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नेसर्गिकं
प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ १५२ ॥
पत्राणि कण्टकशतैः परिवेष्टितानि
वार्तापि नास्ति मधुनो रजसोऽन्धकारः।
आमोदमात्ररसिकेन मधुव्रतेन
नालोकितानि तव केतकि दूषणामि ॥ १५३ ॥
एतासु केतकिलतासु विकासिनीषु
सौभाग्यमद्भुततरं भवती बिभर्ती।
यत्कण्टकैर्व्यथितमात्मवपुर्न जानं-
स्त्वामेव सेवितुमुपक्रमते द्विरेफः ॥ १५४
धन्यासि केतकिरलते तव किंचिदूनं
नूनं न चास्ति कनकाम्बुजगर्भगौरि ।
यत्सेवितानि शुभसौरभलोभलुब्धै-
र्मत्तालिभिर्विगणितोत्कटकण्टकैस्त्वम् ॥ १५५ ॥
उत्कटकण्टककोटीघर्षणघृष्टानि हृदि न चिन्तयति ।
असदृशरसविवशमतिर्विशत्यलिः केतकीकुसुमम् ॥ १५६ ॥
अथ पनसस्य ।
गरीयान्सौरभ्ये रसपरिचयेनार्चति सुधा
मुधा मृद्वीकापि प्रथिमनि निमग्न फलभरः ।
परार्थे कोशश्रीरिति पुलकितः कण्टकमिषा-
दहो ते चारित्रं पनस मनसः कस्य न मुदे ॥ १५७ ॥
अथ कदल्याः ।
लाटीतरोरमुपकारि फलं विदित्वा
लज्जावशादुचित एव विनाशयोगः ।
एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
प्राणान्निजाञ्झटिति यत्कदली जहाति ॥ १५८ ॥
लहुओविहु सेविज्जइ जो गुरुपत्तेर्हि होइ परिवरिओ ।
पत्तविसेसे कदली अमियसमाणं फलं देइ ॥ १५९ ॥
अथ द्राक्षायाः ।
यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् ।
असमञ्जसं तु दृष्ट्वा तथापि परिदह्यते चेतः ॥ १६० ॥
दासेरकस्य दासीयं बदरी यदि रोचते ।
एतावतैव किं द्राक्षा न साक्षादमृतप्रदा ॥ १६९ ॥
अथ दाडिमस्य
आपुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।
यावन्नैति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाभिवन्द्यो भवान् ॥ १६२॥
अथ नालिकेर्यन्योक्तयः ।
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नालिकेरा नराणाम् ।
ददति जलमनल्पास्वादमाजीवितान्तं
नहि कृतमुपकारं साधवो विस्मरन्ति ॥ १६३ ॥
श्लाध्यैव नालिकेर्या गुरुतामुष्या यतः फलं विपुलम् ।
जलपरिपूरितमध्यं क्षुत्तृष्णाप्रशमनं कुरुते ॥ १६४ ॥
नालेरीइसरिच्छा इह लोए हुन्ति केइ सप्पुरिसा ।
निय वारिरक्खणट्ठा तिविहावाडी कया जेण ॥ १६५ ॥
अथ तालस्य ।
अये ताल व्रीडां व्रज गुरुतया भाति न भवा-
न्न वा कापि च्छाया कठिनपरिवारं तव वपुः ।
इयं वन्या धन्या सरसकदलीसुन्दरदला
परात्मानं न त्वं सुखयसि फलेनामृतभुवा ॥ १६६ ॥
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-
द्दूरादुन्नतिसंशयव्यसनिनः पान्थस्य मुग्धात्मनः ।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १६७ ॥
अथ भूर्जस्य ।
दौर्जन्यमात्मनि परं प्रथितं विधात्रा
भूर्जद्रुमस्य विफलत्वसमर्पणेन ।
किं वर्मभिर्निशितशस्त्रशतावकृत्तै-
राशां न पूरयति सोऽर्थिपरम्पराणाम् ॥ १६८ ॥
कुर्वन्तु नाम जनतोपकृतिं प्रसून-
च्छायाफलैरविकलैः सुलभैर्द्रुमास्ते ।
सोढास्तु कर्तनरुजः पररक्षणार्थ-
मेकेन भूर्जतरुणा करुणापरेण ॥ १६९ ॥
अथाश्वत्थस्य ।
वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः।
वर्धितो नरकाद्रक्षेत्स्पृष्टोऽनिष्टानि हन्ति यः ॥ १७० ॥
अथ न्यग्रोधान्योक्तयः ।
विस्तीर्णो दीर्घशाखश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् ।
जल्पोऽप्येष त्रपाकृत्पलघुपरिकरा क्वापि कूष्माण्डवल्ली
पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलर्द्धिं किमन्यत् ॥ १७१ ॥
न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
बीजान्यङ्कुरगोचराणि कतिचिस्सिद्ध्यन्ति तस्मिन्नपि ।
एकस्तेष्वपि कश्चदङ्कुरवरो बध्नाति तामुन्नतिं
[६६]यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ १७२॥
रुद्ध्वा स्वपल्लवैर्व्योम मूलैस्तु वडवामुखम् ।
रे न्यग्रोध फलं हीनं ददानः किं न लज्जसे ॥ १५७३ ॥
महातरुर्वा भवति समूले वा विनश्यति ।
नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ १७४ ॥
आयासं रुद्धं पल्लवेहिं मूलेहिं तहय पायालम् ।
तुच्छ फलं वड बीयं पुन्नं गरुयं न ववसाओ॥ १७५ ॥
वडविडवि किं न लज्जसि गिरुओ तुच्छं फलं समप्पन्तो ।
कोहलिया दुच्छलिया गिरुअं गिरुअं फलं देइ ॥ १७६ ॥
अथ मधूकस्य ।
तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे
तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैर्दलैः ।
आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना
स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ १७७ ॥
यदास्ति पात्रं न तदास्ति वित्तं यदास्ति वित्तं न तदास्ति पात्रम् ।
इत्थं हि चिन्तापतितो मधूको मन्येऽश्रुपातै रुदनं करोति॥ १७८ ॥
मूलादेव यदस्य विस्तृतिभरच्छायाप्यनन्यादृशी
ते यस्य प्रसवाः खमञ्जुलरसैरानन्दयन्ति प्रजाः ।
स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै-
र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ १७९ ॥
अहलो पत्तावरिओ फलकाले मूढ पत्ताइं ।
इणिकारणि रे विडबि महूय तुह एरिसं नाम ॥ १८० ॥
अथेक्षोरन्योक्तयः
कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि
किंचासि पञ्चशरकार्मुकमद्वितीयम् ।
इक्षो तवास्ति सकलं परमेकमूनं
यत्सेवितो वहसि नीरसतां क्रमेण ॥ १८१ ॥
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः
न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १८२ ॥
मुखे यद्वैरस्यं वपुरपि पुनर्ग्रन्थिनिचितं
न संतप्तः कोऽपि क्षणमपि भजेन्मूलमभितः ।
फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत-
स्तदिक्षो नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८३ ॥
अथ पीलोः ।
धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ
क्षुत्क्षुण्णेन जनेन हि प्रतिदिनं येषां फलं भुज्यते ।
किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै-
र्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १८४ ॥
अथ वदर्याः ।
परिमलगुणेन केतकि कण्टककूटानि वहसि तद्युक्तम् ।
गुणरहितवदरि यत्त्वं वहसि परं तानि तत्किंनु ॥ १८५ ॥
अथ शाल्मल्यन्योक्तयः ।
हंसाः पद्मवनाशया मधुलिहः सौरभ्यगन्धाशया
पान्थाः स्वादुफलाशया बलिभुजो गृध्राश्च मांसाशया ।
दूरादुन्नतपुपष्परागनिकरैनिंःसार निथ्योन्नते
रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८६ ॥
कायः कण्टकभूषितो न च नवच्छायाकृतः पल्लवाः
पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।
किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे
तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सीमद्रुमः ॥१८७॥
विशालं शाल्मल्यां नयनसुभगं वीक्ष्य कुसुमं
शुकानां श्रेणीभिः फलमपि भवेदस्य सदृशम् ।
इति ध्यात्वोपास्तं फलमपि तु दैवात्परिणतं
निदाने [६७]वृङ्कोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १८८ ॥
निर्गन्धं कुसुमं फलं कटुतरं छायापि ते कर्बुरा
बाह्यं कण्टकखर्परैः परिवृतं निःसारमन्तर्वपुः।
वृद्धिर्गृध्रपरिग्रहाय किमहो वक्तव्यमस्मात्परं
हंहो शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥१८९]॥
छायान्वितोऽपि सरलोऽप्यतिविस्तृतोऽपि
कान्तप्रसूनविभवोऽप्यतिसुन्दरोऽपि ।
यत्त्वं फलेऽर्थिषु विसंवदसे प्रकाम-
मस्पृश्यतां भजसि शाल्मलिवृक्ष तस्मात् ॥ १९० ॥
अथ निम्बान्योक्तयः ।
दुग्धेन सिक्तो निम्बोऽयमालवालं कृतं गुडैः।
तथापि जातिवैचित्र्यात्कटुकत्वं न मुञ्चति ॥ १९१ ॥
शर्करासर्पिःसंयुक्तं निम्बबीजं प्रतिष्ठितम् ।
क्षीरघटसहस्रेण निम्बः किं मधुरायते ॥ १९२ ॥
निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।
यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ १९३ ॥
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलसोद्धुरः।
तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं
स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १९४ ॥
जइ फलभरेण नमिओ निम्बो घणछायकुसुमगन्धाढ्ढो ।
तो वायसाणजुग्गो नहु जुग्गो इयर पष्षीणम् ॥ १९५ ॥
जन्मन्तरंमि वसिओ निम्बतरू इक्खुवाडमब्भम्मि ।
ता किं होइ गुलिओ संसग्गी जइ गुणा हन्ति ॥ १९६ ॥
अथ खदिरान्योक्तयः ।
चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कृतः ।
रक्षितं वद किमात्मसौष्ठवं वर्धिताः खदिर कण्टकास्त्वया ॥१९७]
[६८]पदं तदिह नास्ति यन्न खदिरैः खरैरावृतं
न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः ।
न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-
स्तदुज्झत वृथा स्थितिं वत सहध्वमध्वश्रमम् ॥ १९८ ॥
अथ वंशस्य।
गाढग्रन्थिविसंस्थुलेऽपि कलयन्काठिन्यमप्यन्वहं
छायामात्रविवर्जितोऽपि निशितैरप्यङ्कितः कण्टकैः ।
मिथ्यारूढजनप्रसिद्धिवचनैर्मुक्ताफलश्रद्धया
धिङ्मूढेन मयैष वंशविटपी शून्याशयः सेवितः ॥ १९९ ॥
अथ वेतसस्य ।
सर्वेषामपि वृक्षाणां वेत्त्येको वेतसद्रुमः।
नम्रीभूयावति प्राणान्नदीपूररिपूदये ॥ २०० ॥
अथ किंशुकान्योक्तयः ।
किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।
बाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ २०१ ॥
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।
अदातरि समृद्धेऽपि किं कुवेन्त्युपजीविनः ॥ २०२ ॥
रक्तेन वा विरक्तेन किं पाशेन पक्षिणाम् ।
यस्य पुष्पे न सौभाग्यंं फले न मधुरो रसः ॥ २०३ ॥
त्यज कुसुमित किंशुकाभिमानं निजशिरसि भ्रमरोपवेशनेन ।
विकचकुसुममालतीवियोगाद्दहनधिया कुरुते त्वयि प्रवेशम् ॥ २०४ ॥
किंशुक किं शुकमुखवत्कुसुमानि-मघौ विकाशयस्यनिसम् ।
यस्यां जनोऽनुरागी सा गीरेतैः कदापि चोच्चार्या ॥ २०५ ॥
तइयच्चिय परिचत्ता तुज्झ पलासा पलससउणेहिम् ।
कुसुमग्गमे वजन्ति हयासकसिणी कयं वयणम् ॥ २०६ ॥
अथ पलाशपुष्परसस्य ।
मा गर्वमुद्वह विमूढ पलाशपुष्प
यत्षट्पदः श्रयति मामतिगन्धलुब्धः ।
रे मारुतीविरहतो ज्वलदग्निकल्पं
त्वां मृत्युकारणमवेत्य समाश्रितोसौ ॥ २०७ ॥
अथ बब्बूलान्योक्तयः ।
तुच्छं पत्रफलं कषायविरसं छायापि ते कर्बुरा
शाखा कण्टककोटिभिः परिवृता मत्कोटकोटिस्थलम् ।
अन्यस्यापि तरोः फलानि ददतः कृत्वा वृतिं तिष्ठसि
रे बब्बूलतरो सुसङ्गरहितः किं वर्ण्यते तेऽधुना ॥ २०८ ॥
[६९]आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पागम-
श्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम् ।
बब्बूलद्रुम साधुसङ्गरदितस्त्वं तावदास्तामहो
अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥ २०९ ॥
स्वयमफलवान्भेदं छेदं स्थितेश्च विकर्षणं
कुहरपतनं बब्बूलोऽयं विषह्य वृतीभवन् ।
खल इव फलान्यन्यस्यापि प्रभूततराण्यहो
न दिशति सतां भोक्तुं द्युम्नान्वितः पटुकण्टकैः ॥ २१०॥
कण्टिल्लो सकलाओ तुच्छफलो लहुअ पत्तपरिवारो ।
बाउलफलं अदिन्तो अन्नाणवि अट्टुओ होसि ॥ २११ ॥
अच्छउता सरसफलं दायव्वं पन्थियाणसउणाणम् ।
इयरतरुवारणत्थं बब्बूलो पिच्छ कण्टइओ ॥ २१२ ॥
अथ शाखोटस्य ।
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं भाषसे ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ २१३ ॥
अथ चिञ्चिण्याः ।
गुरुओवि न सेविज्जइ जो लहुपत्तेहिं होइ परिवरिओ ।
पत्तविसेसे चिञ्चिणि वङ्कं चुङ्कं फलं देइ ॥ २१४ ॥
अथ करीरान्योक्तयः ।
फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् ।
इतरे तरवो मन्ये करीर तव किंकराः ॥ २१५ ॥
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः ।
येन वृद्धिं समासाद्य न कृतः पात्रसंग्रहः ॥ २१६ ॥
यद्यपि वसति करीरतरुर्मरुदचलस्य सदेशम् ।
तदपि न याति स जातिगुणादमरद्रुमगुणलेशम् ॥ २१७ ॥
पत्त्रं न चित्रमपि निस्त्रप पान्थखेद-
छेदक्षमं विषसमं तव मुग्ध दुग्धम् ।
धूर्तप्रपञ्चितमहातरुकीर्तनेन
रे निष्फलस्त्वमसि कण्टकितः करीर ॥ २१८ ॥
हंहो मरुस्थलमहीरुह तावकीनं
संभावयामि महिमानममानमेव ।
अङ्गीकृतः स भवता यदयं करीरः
क्रूरोऽपि कल्पतरुगौरवमभ्युपैति ॥ २१९ ॥
वरं करीरो मरूमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थम् ।
किं कल्पवृक्षैः कनकाचलस्थैः परोपकारव्रतलम्भदुःस्थैः ॥२२०॥
अपरतरुनिकरमुक्तं मरुमण्डकमावसत्यसावेकः ।
फलकुसुमैरुपकुर्वन्नररि(?) करीरः कथं धीरः ॥ २२१ ॥
अथ कण्टकस्य ।
रे कण्टकैर्निशितदुर्धरकोटिभागै-
र्मार्गं निपत्य किमुपार्जितमेभिरत्र ।
विद्धानि साधुजनपादतलानि ताव-
दन्यन्निजस्य वदनस्य कृतश्च भङ्गः ॥ २२२ ॥
अथ कन्थेर्या ।
नारङ्गिकुसुमकण्टो के इय कुसुमस्स कण्टओ जुत्तो ।
रसरहिय गन्धवज्जिय कन्थेरियकण्टओ कीस ॥ २२३॥
अथ बिल्वस्य ।
आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्षमारुहा-
मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।
किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले
यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ २२४॥
अथार्कस्य ।
अर्काः किं फकसंचयेन भवतां किं वः प्रसूनैर्नवैः `
किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा ।
येषामेकतमो वभूव स पुनर्नैवास्ति कश्चित्कुले
छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २२५ ॥
अश्व यवासस्य ।
परवित्तव्ययं दृष्ट्वा खिद्यन्ते ह्यधमा जनाः ।
वर्षा वर्षति पर्जन्यो यवासोऽपि प्रणश्यति ॥ २२६ ॥
अथ यवस्य ।
वीवाहादौ प्ररोहस्तव यव शिवकृन्मङ्गलं स्वस्तिकाद्यैः
स भूतः पितॄणां दहनमुखगतो देवतानामभीष्टः ।
पाणौ त्वक्ष्मरेखा धनविभवकृते वैभवं किं स्तुमस्ते
हस्ते बद्धः प्रशस्तः कथित इह जनैः शीतलोऽश्वप्रियश्च ॥२२७॥
अथ शालेः ।
शाखासंततिसंनिरुद्धमनसो भूयांस एवावनौ
विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम् ।
किंतु द्वित्रिदलैरलंकृततनोः शालेः स्तुमस्तुङ्गतां
दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः॥२२८॥
स्नेहं विमुच्य सहसा खलतां भजन्ते
ये गाढपीडनवशान्न वयं तिलास्ते ।
अम्मानवेहि कलमानलमाहतानां
येषां प्रचण्डमुसलैरवदाततैव ॥ २२९ ॥
अथ तिलस्य ।
होहित्ति खलो मुणिऊण कारणं जन्त एहिं दिवसेहिम् ।
फलिओवि तेहिं मुक्को तिलविडवो सव्वपत्तेहिम् ॥ २३० ॥
खलसङ्गे परिचत्ते पिच्छहतिल्लेण जं फलं पत्तम् ।
मयणाहिसुरहिवासिय पहुसीसं पामियं तेण ॥ २३१ ॥
अथ मञ्जिष्ठायाः ।
देशत्यागं वह्नितापं कुट्टनं न मुहुर्मुहुः ।
रागातिरेकान्मञ्जिष्ठाप्यश्नुते किं पुनः पुमान् ॥ २३२ ॥
रागो हि दोषपोषाय चेतनारहितेष्वपि ।
मञ्जिष्ठा कुट्टनस्थानभ्रंशतापसहा भृशम् ॥ २३३ ॥
अथ विजयायाः ।
विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो ।
अत्थय कोइ समत्थो मुं सत्थिं पल्लए बत्थो ॥ २३४ ॥
अथ तमाकोः ।
भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा-
त्कस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः ।
चातुर्वर्ण्यं विधिविरचितं भिन्नभिन्नैकभूत-
मेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥
अथ लशुनस्य ।
कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः ।
क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डुः ॥२३६॥
अथ कर्पासान्योक्तयः ।
नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः ।
येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥
श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि ।
मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥ २३८ ॥
निष्पेषोत्थमहाव्यथा परतरं प्राप्तं तुलारोहणं
ग्राम्यस्त्रीनखलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा ।
मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः
कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ २३९ ॥
अथारिष्टस्य ।
निक्षे(क्षि)प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा-
स्तेषामप्युपकुर्वतांशुकमलप्रक्षालनादुच्चकैः ।
उत्कीर्णैरपि तन्तुभिर्निगदि(लि)तैरप्यस्थिभिः प्राणिनां
चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४० ॥
अथ कण्टकारिकायाः ।
उचितं नाम नारि[७०]ङ्ग्यां(?)केतक्यामपि कण्टकाः ।
रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ २४१ ॥
अथ शणस्य ।
भूर्जः परोपकृतये निजकवचविकर्तनं सहते ।
परवन्धनाय च शणः प्रेक्षध्वमिहान्तरं कीदृक् ॥ २४२ ॥
अथ धत्तूरान्योक्तयः ।
छाया कापि न पल्लवेषु सुमनःस्तोमेषु नो सौरभो-
द्गारः कोऽपि फलेषु कापि महती वार्ता न तां ब्रूमहे ।
धत्ते त्वां शिरसा तथापि हि हरस्त्यक्त्वा पुनः केतकीं
तन्नूनं कनकद्रुमात्र भवता नाम्ना जगद्वञ्चितम् ॥ २४३ ॥
धत्तूर धूर्त तरुणेन्दुनिवासभूमौ
भाले पिशाचपतिना खलु निर्मितोऽसि ।
किं कैरवाणि विकसन्ति तमः प्रयाति
चन्द्रोत्पलो द्रवति वार्धिरुपैति वृद्धिम् ॥ २४४ ॥
महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी
विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् ।
तनोति त्वत्सेवां न तु कनकवृक्ष त्वदपरः
परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥ २४५ ॥
अथ तृणान्योक्तयः ।
जीमूतोन्मुक्तमुक्ताफलकणतुलितस्थूलसूक्ष्मोदबिन्दु-
श्रेणीपातैः प्रभूतैर्वियत इतइतो जातसेकातिरेका ।
किं च प्राचीमभीष्मोष्मकतपनमहादाहसंदोहरिक्ता
सूते यद्भूतधात्री तदिदमपि तृणं किं न वर्ण्यं सकर्णैः ॥२४६॥
वेश्मानि च्छादयद्यज्जलधरसमये शीतकाले निदाघे
पानीयस्फीतशीतातपनिविडतमोपद्रवान्संपिनष्टि ।
पावित्र्यं च प्रवीणा विदधति वदने येन सु(भु)क्तिक्रियान्ते
तेनाकिंचित्करत्वे नरसुपभिमते वीरणेनानभिज्ञाः ॥ २४७ ॥
अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुषारै-
र्गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे ।
सङ्ग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे
बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥ २४८॥
यस्यैवाहारयोगाज्जगति सुरभयोऽजान्विता वा महिष्यः
सर्वाः संप्राप्तभूयो वपुरुपचितिका आज्यदध्नो निदानम् ।
क्षीरं लोकाय दद्युः सकलरसमहायोनिभूतं तृणं त-
ज्जाने जानन्त एते धिगखिक्कवयो नीरसं वर्णयन्ति ॥ २४९॥
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि-
र्धन्योऽसौ नितरामुलूपविटपी नद्यास्तटेऽवस्थितः ।
एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशा-
न्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि च ॥ २५० ॥
रूढस्य सिन्धुतटमुपगतस्य तृणस्यापि जन्म कल्याणम् ।
यत्सलिलमज्जदाकुलजनहस्तालम्बनं भवति ॥ २५१ ॥
अथ ताम्बूलान्योक्तिः ।
वल्लीनां कति न स्फुरन्ति परितः पात्राणि किं तैरिह
स्निग्ध्यैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् ।
तानेव स्तुमहे महाजनसुखश्रीकारिजन्मव्रता-
न्यान्सूते नवरागनागरसुखांस्ताम्बूलवल्लीछदान् ॥ २५२ ॥
अथ तुम्व्यन्योक्तयः ।
एके भेजुर्यतिकरगतास्तुम्बिकाः पात्रलीलां
गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः ।
एके केचित्सुगुणग्रथिता दुस्तरं तारयन्ति
केषामन्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ २५३ ॥
सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लिप्रसूता-
स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति ।
शब्दायन्ते सरसमपराः शुष्ककाष्ठे निषण्णा-
स्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं संपिबन्ति ॥ २५४ ॥
पिच्छसहीतुम्बणिया भूयंमुत्तूण निम्बमारुहिया ।
एयाए न हुहुत्तं सरिसा सरिसेहिं रच्चन्ति ॥ २५५ ॥
अथ कारेल्याः ।
रे कारेल्लि हयासे चडिया निम्बम्मि पायवे पउरे ।
अहवा तज्झ न दोसो सरिसा सरिसेहिं रच्चन्ति ॥ २५६ ॥
अथ कोहलिन्याः ।
पत्तावरिओ बहुसहसाहिओ पिच्छिऊण मारुहसु ।
कोहलिणि किं न याणसि परण्डो तुह भरं सहइ ॥ २५७ ॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टा रकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिरिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां वनस्पतिकायिकान्योक्तिनिरूपकः सप्तमः परिच्छेदः ॥
अष्टमः परिच्छेदः ।
जय श्रीसौख्यसंतानसर्वसम्पत्तिदायिने ।
नमोऽस्तु भुजगाधीशध्वजाय परमेष्ठिने ॥ १ ॥
विदिताखिलसद्वस्तुसारसंसारतारक ।
करुणाकर मां पार्श्च सोम्यदृष्ट्या विलोकय ॥ २ ॥
श्रीसंयुक्तं गुणागारं विश्वव्यापियशोभरम् ।
जनानां जयदातारं [७१]याकरं व्रतिनां वरम् ॥ ३ ॥
नमाम्यहं महावीरं दयावन्तं जिनेश्वरम् ।
सूरवत्तेजसां पूरं रिक्तं पापैः शिवंकरम् ॥ ४ ॥
सेवितं साधुनिःस्फारं वर्यातिशयभासुरम् ।
कल्याणाचलवद्धीरं हंसगत्या मनोहरम् ॥ ५ ॥
सर्वधर्मोपदेष्टारं विशिष्टज्ञानमन्दिरम्
जराभीरुविजेतारं यत्याचारैकतत्परम् ॥ ६ ॥
स्वगुरुनामगर्भितं कर्तृनामगर्भितं च षोडशदलकमलबन्धचित्रम् ।
श्रीगौतमगणाधीशसमानमहिमालयम् ।
विजयानन्दसूरीन्द्रं शंकरं समुपास्महे ॥ ७ ॥
अथ प्रतिद्धारवृत्तानि ।
अथाष्टमपरिच्छेदे प्रतिद्वारस्य पाटिकाम् ।
प्राज्ञप्रीतिप्रदे(दां) [७२]वच्मि हृद्यपद्यपदैः स्फुटम् ॥ ८ ॥
तत्रान्योक्तिषु विज्ञेया बुद्धिबोधविवृद्धये ।
मरुस्थलीभवान्योक्तिः संकीर्णान्योक्तयः पुनः ॥ ९ ॥
अथ मरुस्थलान्योक्तयः ।
मरौ नास्त्यैव सलिलं कृच्छ्राद्यद्यपि लभ्यते ।
तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १० ॥
पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं
भूयो भूयः कुरु कुरु सखे मज्जनानि(?)नितान्तम् ।
एषा शेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः
सिन्धुर्दूरीभवति भवतो मारवः पान्थ पन्थाः । ११ ॥
भो भो किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति-
स्तत्तादृक् तृषितस्य ते खलमतिः सोऽयं जलं गूहते ।
आस्थानोपगतामकालसुलभां तृष्णां प्रतिक्रुध्महे(?)
त्रैलोक्यप्रथितप्रभावमहिमा मार्गे ह्यसौ मारवः ॥ १२॥
सत्पादपान्विपुलपल्लवपुष्पपुञ्ज-
संपत्परीतवपुपः फलभारनम्रान् ।
व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु-
शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥
गतमतिजवाद्भ्रान्तं सर्वं समुत्कपिता च भू-
श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम् ।
किमिव न कृतं पान्थेनेत्थं तथापि शठो महः
प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् । १४ ॥
किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे
पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।
स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थलां
शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥
अथ संक्तीर्णान्योक्तयः ।
दामोदरमुदराहितयभुवनं यो वहति लीलया गरुडः ।
कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥
यः पीयूषसहोदरैः स्नपयति ज्योत्स्नजलैः सर्वतो
यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।
भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-
निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥
जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् ।
घटचेटीविटः किंस्विज्जानात्यमरकामिनीम् ॥ १८ ॥
किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना ।
आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी-
र्मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः॥१९॥
कथयत इव नेत्रे कर्णमूलं प्रयाते
सुमुखि तव कुचाभ्यां वर्त्य पश्यावनीं[७३]नीं वा ।
स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं
तव तनुतरमध्यं भज्यते नौ न दोषः ॥ २० ॥
यथा यथा स्यात्स्तनयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् ।
अहो सहन्ते बत नो परोदयं निसर्गतोन्तर्मलिना ह्यसाधवः॥२१॥
बाले तव कुचावेतौ नियतौ चक्रवर्तिनौ ।
आसमुद्रकरग्राही देवो यस्य करप्रदः ॥ २२ ॥
निगदितुं विधिनापि न शक्यते सुभटता कुचयोः कुटिलभ्रुवाम् ।
सुरतसंगतया प्रियपीडितौ बत नतिं न गतौ च्युतकञ्चुकौ ॥ २३ ॥
अणुरायरयणभरिंयं कञ्चणकलसावि तरुणिथणजुअलम् ।
ता किं मुहम्मि कालं मसि मुद्दामयणरायस्स ॥ २४ ॥
अङ्गानि मे दहतु कान्तवियोगवह्निः
संरक्ष्यतां प्रियतमो हृदयस्थितो मे ।
इत्याशया शशिमुखी गलदश्रुवारि-
धाराभिरुष्णमभिसिञ्चति हृत्प्रदेशम् ॥ २५ ॥
उपरिनाभिसरःपरिताडिता पटकुटीव मनोभवभूपतेः ।
विजयिनस्त्रिपुरारिविजी(जिगी)षया तव विराजति भामिनि कञ्चुकी ॥ २६ ॥
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-
कपोले व्यासङ्गं कुचकलशमस्याः कलयति ।
ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं
स्वभावस्वच्छानां विपदपि विलासं वितरति ॥ २७ ॥
धनिनि जने चटु पटुतां जल्पतु रसना रसाशने लुब्धा ।
त्वमशनपाननिरस्तमस्तकचरणे कथं लुठसि ॥ २८ ॥
एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी-
हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् ।
तेऽमी संप्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन-
क्षुण्णाः क्षोणितले पतन्ति परितः कृप्तापराधा इव ॥ २९ ॥
पटु रटति पलितदूतो मस्तकमासाद्य सकललोकस्य ।
प्रभवति जरा च मरणं कुरु धर्म विरम पापेभ्यः ॥ ३० ॥
पलितानि शशाङ्करोचिषां किमु कानीति वितर्कयामहे ।
यदमूनि वितेनिरे तरां नारि(?)लोचनपद्ममुद्रणाम् ॥ ३१ ॥
यदमी दशन्ति दशना रसना तत्स्वादनुखमवाप्नोति ।
प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ॥ ३२ ॥
संवर्धितो मधुरमिष्टरसैकयुक्तया
कान्ताधरामृतरसैर्न तु वञ्चितोऽसि ।
संत्यज्य गात्रनिलयं रदन त्वमेको
मन्ये निदाघभयतः प्रथमं प्रयातः ॥ ३३ ॥
हे जिह्वे कटुकस्नेहे मधुरं किं न भाषसे ।
मधुरं वद कल्याणि लोको हि मधुरप्रियः ॥ ३४ ॥
द्वात्रिंशद्दशनद्वेषिमध्ये तिष्ठसि नित्यशः ।
तदिदं शिक्षिता केन जिह्वे संचारकौशलम् ॥ ३५ ॥
निजकर्मकरणदक्षा सह वसति दुरात्मनापि निरपायम् ।
किं न कुशलेन रसना दशनानामन्तरे [७४]विशति ॥ ३६ ॥
जीहे जाण पमाणं जिमियव्वे तहयजं पियग्वेय ।
अइ जिमिय जं पियाणं परिणामो दारुणो होइ ॥ ३७ ॥
स्रुग्दाम मूर्धनि निधेहि गवेधुकानां
गुञ्जामयीमुरसि धारय हारयष्टिम् ।
बाले कलावति चिरं पतितासि पल्लौ
तल्लौहमन्यदपि भृषणमेषणीयम् ॥ ३८ ॥
यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
करेणानीतः सन्वससि सह हारेण गुणिना ।
मुहुः कुर्वन्गीतं कुचकलशपीठोपरि लुठ-
न्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ३९ ॥
यत्पूर्वं पवनाग्निशस्त्रसलिलैश्चीर्णे तपो दुष्करं
तस्यैतत्फकमीदृशं परिणतं यज्जातरूपं वपुः ।
मुग्धापाण्डुकपोरनुम्बनसुखं सङ्गश्च रत्नावलेः ।
प्राप्तं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥ ४० ॥
पुच्छे कः पुरुषः स मोगचतुरो दुस्तस्तपोऽङ्गीकृत-
मुग्रं तापकृतं सकर्णचटनं नानाविधं मेनका ।
सभ्रूरुत्तडितं सयोषिति प्रियाश्चुम्बन्ति गल्लस्थले
कामिन्याधरपानयन्ति मनसा तेनापि डोलायते ॥ ४१ ॥ (?)
स्पृशति शीतकरो जघनस्थलीमुचितमेव तदस्य कलङ्किनः ।
गुणवतस्तव हार न युज्यते परकलत्रकुचद्वयपीडनम् ॥ ४२॥
पतितानां संसर्गं त्यजन्ति दूरेण निर्मला गुणिनः ।
इति कथयन्रजनीनां हारः परिहरति कुचयुगलम् ॥ ४३ ॥
सद्वृत्त सद्गुण महर्घ महार्हकान्ते
कान्ताघनस्तनतटोचितचारुमूर्ते ।
आः पामरीकठिनकण्ठविलग्नभग्न
हा हार हारितमहो भवता गुणित्वम् ॥ ४४ ॥
असद्वृत्तो नायं न च खलु गुणैरेष रहितः
प्रिये मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणामुं बाले तव पततु कण्ठं पुनरसा-
वुपायो नैवान्यस्तव हृदयतापोपशमने ॥ ४५ ॥
नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं
शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् ।
रत्यभ्यासं विदधत इति प्राणनाथस्य कर्णो-
पान्ते गत्वा निभृतनिभृतं नूपुरं शंसतीव ॥ ४६ ॥
श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचित्तदात्याहितं
सिन्धावन्धुकुटुन्वदर्दुरकुलं हर्षादिदं ध्यायति ।
गाम्भीर्याद्यदि तेन विभ्यति नवा त्रस्यन्ति भेकीशिशो-
रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥ ४७ ॥
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्यं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ४८ ॥
हंसः प्रयाति शानकैर्यदि जातु तस्य
नैसर्गिकी गतिरियं हि न तत्र चित्रम् ।
गत्या तया जिगमिपुर्बक एष मूढ-
श्वेतो दुनोति सकलस्य जनय नूनम् ॥ ४९ ॥
कल्याणं नः किमधिकमितो जीवनार्थं पथस्त्वं
छित्त्वा वृक्षानहह् दहसि भ्रातरङ्गारकार ।
नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना-
मध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥ ५० ॥
भ्रातर्ग्राम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया
गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते ।
किंत्वेकं रुचिरं चिरादभिनवं वासस्तथा तन्यतां
यन्नोज्झन्ति कुचस्थलं क्षणमणि क्षोणीभुजां वल्लभाः ॥ ५१ ॥
रे लाङ्गलिक निपद्याक्रोडे लोहं पुरा यदद्राक्षीः ।
स्पर्शविशेषात्तदखिलमजनिष्ट सुहेम नृपयोग्यम् ॥ ५२ ॥
नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी ।
जनप्रतारणायैव दारुणैकेन निर्मिता ॥ ५३॥
दुर्गा नदी शिथिलबन्धविसर्पिणी नौ-
रभ्युन्नता जलमुचो विपमः समीरः ।
आरूढवान्निजकुटुम्बयुतोऽध्वनीन-
स्तत्कर्णधार कुरु यत्सदृशं कुलस्य ॥ ५४ ॥
वंशः प्रंशुरसौ घुणक्षतमयो जीर्णा वरत्रा इमाः
कीलाः कुण्ठतया विशन्ति न महीमाहन्यमाना अपि ।
आरोहव्यवसायसाहसमिदं शैलूष संत्यञ्यतां
दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ ५५ ॥
मौलिः स्वर्णकिरीटकान्तिरूचिरः केयूरभव्यौ भुजौ
तद्भृत्या; किल कञ्जुकिप्रभृतयो देवेति विज्ञाप्यसे ।
इत्थं कल्पनया कुशीलवनृपाहंकारदार्ढ्यं वृथा
नृत्यान्ते भवतो भविष्यति मषीमात्रावशेषं वपुः ॥ ५६
अमी तिलास्तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः ।
द्वेषोऽभविष्यद्दमीषु तीव्रस्तदा न जाने किमिवाकरिष्यः ॥ ५७ ।
वक्रां नेष तनूविवर्तनगतिं गृह्णाति साचिस्मित-
स्मैरैर्दृग्वलनैरमुष्य न मनाक् चेतः परावर्तते ।
हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्रीयतां
वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ५८ ॥
अमरसिरोवरि ठाणं माणं लहिऊण झय वडाडोव ।
नियवंस मुवरिच्छाया न कया तह कीस धडहडसी ॥ ५९ ॥
भ्रातः काञ्चनलेपगोपितवहिस्ताम्राकृतिः सर्वतो
मा भैषीः कलश स्थिरो भव चिरं देवालयस्योपरि ।
ताम्रत्वं गतमेव काञ्चनमययी कीर्तिः स्थिरा तेऽधुना
नान्तस्त्वचारणाप्रणयिनो लोका बहिर्बुद्धयः ॥ ६० ॥
न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ ।
कस्तत्र भवतः पान्थ कूपेऽम्बुग्रहणादरः ॥ ६१ ॥
तम एव हि जानाति नीतिं नान्यतरो जनः ।
दीपशत्रूदये जाते तलमाधिलयं तिष्ठति ॥ ६२ ॥
रक्षापात्रगतं स्नेहं प्रदीपश्रीविवर्धनम् ।
भविष्यति विना तेन भस्मत्वं भवतो गुणाः ॥ ६२ ॥
तिग्मांशोः किरणैरतीव सहितो गाढप्रतापो महा-
नङ्गरैरपि भर्जनं च तलनं तैले कटाहस्थिते ।
हंहो पर्पट सांप्रतं परजनस्यार्थे सहे यत्त्वया
दंष्ट्रान्तःपतितेन गाढरटितं धिग्लज्जितास्तद्वयम् ॥ ६४ ॥
को हि तुरामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतं मथितं केवलमुद्गिरति यत्स्नेहम् ॥ ६५ ॥
दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः ।
यज्जीवनदानैस्त्वं तर्षामर्पं नृणां हंसि ॥ ६६ ॥
कुद्दालेन विदारणं किमपरं कष्टं स्वरारोहणं
यत्पापिष्ठकुलालपादहननं चक्रभ्रमस्तादृशः ।
दाघो मे दहनस्य पीड्यति तनुं सर्वं सहामो वयं
ग्राम्यस्त्रीकरताडनं विधिपरं पर्यन्तदुःखायते ॥ ६७ ॥
गुणयुक्तोऽप्यधो याति रिक्तकुम्भ इव स्फुटम् ।
पूर्णो गुणविदहीनोऽपि जनैः शिरसि धार्यते ॥ ६८ ॥
सद्वृत्तोऽपि सुपूर्णोऽपि विदग्धो रागवानपि ।
गृहीतुं शक्यते केन पार्थिवः कर्णदुर्बलः ॥ ६९ ॥
यत्सद्गुणोऽपि सरलोऽपि तटस्थितोऽपि
वंशोद्गतोऽपि विदधाति नृशंसकर्म ।
वक्रात्मनो बडिश्दण्ड तदेतदस्य
जानामि संगतिफलं तव कण्टकस्य ॥ ७० ॥
कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः
कारागरैर्निभिडनिगडैर्लङ्घनं चुम्बनं च ।
एवं ज्ञत्वा विरम सुमते मा कुरु त्वं नियोगं
कर्णोपान्ते मलिनवदना लेखिनी पूत्करोति ॥ ७१ ॥
निगणोऽपि वरं वो रक्षायै मुनिदण्डवत् ।
सगुणोऽप्यर्धवंशः स्याज्ञीवघाताय केवलम् ॥ ७२ ॥
शुद्धवंशजकोदण्डसरलस्त्वमभूः पुरा ।
इदानीं गुणसंयोगात्केयं तु तव वक्रता ॥ ७३ ॥
कोटिद्वयस्य लाभेऽपि नतं सद्वंशजं धनुः ।
शरस्त्ववंशजः स्तब्धो लक्ष्याप्तेरपि शङ्कया ॥ ७४ ॥
या पाणिग्रहलालिता गुणवती साध्वी च सल्लक्षणा
गौरी स्पर्शसुखावहातिसरला तन्वी सुवंशोद्भवा ।
सा केनापि हृता तया विरहितो गन्तुं न शक्तः क्षणं
किं भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ ७५ ॥
जगति विदितमेतत्काष्टमेवासि मन्ये
तदपि हि किल सत्यं यद्वने वर्धितासि ।
नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्
मुशल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ७६ ॥
घनसारो नद्धश्च तथा न वदति तदपि मृदङ्गः ।
करतलहननमुपेत्य यदि प्रणदति तदपि सरङ्गः ॥ ७७ ॥(?)
अनिल निखिलविश्चं प्राणिति त्वत्प्रयुक्तं
सपदि च विनिमीलत्याकुलं त्वद्वियोगात् ।
वपुरपि परमेशस्योचितं नोचितं ते
सुरभिमसुरभिं वा यत्त्वमङ्गीकरोषि ॥ ७८ ॥
जातिसावदुदारभूरुहभवो वर्णः शशाङ्कोज्ज्वलः
सोरभ्यातिशयः स कोऽपि भणितुं यो नैव वाचां पतिः ।
आस्वादोऽपि मनोहरस्तव सखे कर्पूर किं वर्ण्यते
केयं कुप्रकृतिः स्थिरीभवसि यन्निर्लक्षणाङ्गारतः ॥ ७९ ॥
अपि त्यक्तासि कस्तूरि पामरैः पङ्कशंङ्कया ।
अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ८० ॥
जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो
दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति ।
यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
को जानीते परिमलगुणः कोऽपि कस्तूरिकायाः ॥ ८१ ॥
कस्तूरीति किमङ्गसांपरिमलद्रव्यं किमप्यामरं
पेया किं नहि कीदृशी मृगदृशां शृङ्गारलीलास्पदम् ।
धार्या कुत्र कुचस्थलीपु कुचयोः स्थौल्यं तनो हीयते
क्लिष्टः क्लिश्यति पक्कणैश्च बहुशः कस्तूरिकाविक्रयी ॥ ८२ ॥
कर्पूर रे परिमलस्तव मर्दितस्य ।
श्रीग्वण्ड रे परिमलन्नव घर्षितस्य ।
रे काकतुण्ड तव वह्निगतस्य गन्धः
कस्तूरिका त्वयमथाधितगन्धदृष्टा ॥ ८३ ॥
जनिस्थानं सिन्धुः सकलजलजस्यास्पदमहो
सुधालक्ष्मीचन्द्रत्रिदशपतिवैद्यप्रभृतयः ।
अमी सोदर्याम्ने त्रिनयनगले वास वसुधा
तथापि त्वं हालाहल निजगुणान्मुञ्चसि न किम् ॥ ८४ ॥
नद्याश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशेषपदप्रतिष्ठा ।
प्राङ्गणस्य हृदये वृषलक्ष्मणोऽथ
कण्ठे पुनर्वससि वाचि ततः खलानाम् ॥ ८५ ॥
कौस्तुभमुरसि मुरारेः शिरसि शशी द्योतते पुरां जयिनः ।
तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य ॥ ८६ ॥
तुल्यं भूभृति जन्म तुल्युमुभयोर्मूल्यं च तुल्यं वपु-
स्तुल्यं दार्ढ्यमुदग्रटङ्कदलनं तुल्यं च पाषाणयोः ।
एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं
तद्द्वारे विहिता परस्य तु पदाघातास्पदं देहली ॥ ८७ ॥
तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं
घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुर्तं।
खगानां के मेघाः क इह विहगा वा जलमुचा-
मयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ ८८ ॥
भ्रातः पञ्चरलावक मा कुरु संतोषमन्यनिधनेन ।
प्रातस्तथैव धातुर्वामत्वं किं न जानासि ॥ ८९ ॥
मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति यत् ।
कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९० ॥
ग्रासाद्गलितसिक्थस्य करिणः किं गतं भवेत् ।
पिपीलिकस्तु तेनैव सकुटुम्बोऽपि जीवति ॥ ९१ ॥
बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः ।
अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः ॥ ९२ ॥
ऊर्णां नैष [७५] दधाति नैष विषयो दोहस्य वाहस्य वा
तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि ।
हा कष्टं कथमस्य पृष्ठ[७६]शिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ९३ ॥
उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं
यदृच्छादापन्नद्विपपिशितलेशाः कवलिताः ।
गृहागर्ते शून्ये सुचिरमुषितं जम्बुक सखे
किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम् ॥ ९४ ॥
यस्यां स केसरियुवा पदमाबबन्ध
गन्धद्विपेन्द्ररुधिरारुणिताङ्गणायाम् ।
तामद्य पर्वतदरीं धुतधूम्रलोमा
गोमायुरेष वपुषा मलिनीकरोति ॥ ९५ ॥
निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कसेरुस्थलीं
जम्बालाविलमम्बु कर्तुमितरान्सूते वराही सुतान् !
दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामिदं (यं)
यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥९६॥
शतपदी शितपादशतैः क्षमा यदि न गोष्पदमप्यतिवर्तितुम् ।
किमियता द्विपदस्य हनूमतो जलनिधेः क्रमणे विवदामहे ॥ ९७॥
वृक्षान्दोलनमद्य ते क्व नु गतं धर्मस्थयूथस्य वा
यूकान्वेषणरोपसौख्यबहुलाश्चेष्टा सुखोत्थाः क्व ताः ।
क्वारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका
भीतः संप्रति कौशिकाद्गलचलव्यालः कपे नृत्यसि ॥ ९८ ॥
स्पर्धन्तां खुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा
ग्राम्या वा वनवासिनो मदजलप्रखिन्नगण्डस्थलाः ।
आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमला-
स्वादस्निग्धकपोलपालिरघमः कोलोऽपि संस्पर्धते ॥ ९९ ॥
आकर्ण्य गर्जितरवं घनगर्जितुल्यं
सिंहस्य यान्ति वनमन्यदिभा भयार्ताः ।
तत्रैव पौरुषनिधिः स्वकुलेन सार्धं
दर्पोद्धुरो वसति वीतभयो वराहः ॥ १०० ॥
इति श्रीमत्तपागच्छधिराजश्रीगोतमगणधरोपमगुणसमाजसकलभट्टारकवृन्द- वृन्दारकवृन्दारकपरमगुरुभट्टारकश्री१९श्रीविजयानन्दसूरिदिष्यभुजि- ष्यपण्डितहंसविजयगणिसमुच्चित्तायामन्योक्तिसुक्तावल्यां मरु- स्थलान्योक्तिसंकीर्णान्योक्तिनिरूपकोऽष्टमः परिच्छेदः ॥
अथ ग्रन्थप्रशस्तिः ।
आसीज्जगद्गुरुरिति प्रथितावदातः
श्रीहीरहीरविजयाह्वयसूरिशक्रः ।
योऽकब्बरक्षितिपतेर्हृदयालवाले-
ऽध्यारोपयत्खलु कृपाव्रततिं व्रतीशः ॥ १ ॥
तत्पट्टमन्दरमहीधरनिर्झरद्रुः
सूरीश्वरो विजयसेनगुरुर्बभूव ।
निःशेषवाङ्मयमहोदधिपारदृश्वा
सौभाग्यभाग्यपरभागनिवाससद्म ॥ २ ॥
तत्पट्टदेवकुञ्चरकुम्भस्थलभूषणैकमघवानः ।
समभूवन्क्षितितिलकाः सूरिश्रीविजयतिलकाह्वाः॥ २ ॥
तत्पट्टाम्बरभासनभासुरतरतरुणतरणिसंकाशाः ।
अभवञ्जगदानन्दा विजयानन्दाः परमगुरवः ॥ 9 ॥
निखिलजिनराजभाषितप्रबचनकलधौतकषपट्टाः ।
प्रशमसुधारससिन्धौ शारदवरविशदहिमकिरणाः ॥ ५ ॥
श्रीमत्सुधर्मजम्बूवजाज्रादिकहीरविजयसूरीशान् ।
ये स्मारयन्ति सुतरां गुणैः स्वकीयैः क्षितिख्यातैः ॥ ६ ॥
तेषां पट्टे संप्रति विजयन्ते विजयराजसूरीशाः ।
प्रतिबोधितभव्यजनाः सुधामुधाकारिवरवचसः ॥ ७ ॥
लब्ध्या श्रीगुरुगौतमगणधरतुल्यप्रधानमहिमानः ।
धिषणानिर्जितधिषणा जनताहितकल्पतरुकल्पाः ॥ ८ ॥
तेषां सूरिवराणां राज्ये प्राज्ये च विजयिनि प्रष्ठे ।
श्रीविजयमानसूरियुवराजविराजमानविजयगणे ॥ ९ ॥
किंच
श्रीविजयानन्दगुरोः क्रमकजहंसेन हंसविजयेन ।
अन्योक्तिमञ्चुमुक्तावली विदृब्धा परममोदात् ॥ १० ॥
सुललितसुवृत्तमुक्ता मुक्ताफलमालिकेव गुणयुक्ता ।
चतुरचयचारुचञ्चच्छुचिचित्रविचित्रचित्रकरी ॥ ११ ॥
एषा कृता विक्रमराजराज्यात्तर्कत्रिशैलेन्दु१७३६मिते च वर्षै।
मुक्तावली बाहुलदिव्यमासि दीपालिकापर्वदिने प्रशस्ते ॥ १२॥
श्रीमत्स्वकीयगुरुपादकजप्रसादा-
न्मुक्तावली विरचिता कविकर्णदीप्रा ।
अस्तोकलोकपरिभूषितभूमिभागे
माणिक्यहेममणिमौक्तिकतोरणौघे ॥ १३ ॥
चञ्चच्चिरत्नवररत्नदुवर्णरूप्य-
वैडूर्यवज्ररुचिरे कमलानिवासे ।
उच्चैर्मनोज्ञजिनमन्दिरराजमाने
श्रीस्तम्भतीर्थवरमन्दिर इभ्यपूर्णे ॥ १४ ॥
श्रीविजयानन्दगुरुपटरक्षोणीधरेन्द्रसिंहस्य ।
श्रीविजयराजसूरेरादेशाद्विरचिता चेयम् ॥ १५ ॥
संविदितलक्षणादिकनिखिलग्रन्थार्थसार्थपरमार्थैः |
श्रीदानविजयवाचकप्रष्ठैः प्रविलोकिता चैषा ॥ १६ ॥
प्राचीनामलवृत्तमौक्तिकगणैश्चेतश्चमत्कारिभि-
रेषानुक्रमलेखनेन मयका मुक्तावली निर्मिता ।
स्वस्थानं विनिवेशयन्गुरुलघुस्थित्या गुणे मौक्तिका-
न्मालाकार इति प्रसिद्धिमतुलां नाप्नोति किं मानवः ॥ १७॥
गुरुगुरुचरणसुवाङ्मयभक्तिप्राग्भारभरितनिजमनसा ।
प्रथमादर्शे लिखिता प्रतिरेषा धीरविजयेन ॥ १८ ॥
यत्किंचिदस्यां लिखितं विहीनं मयाहि मात्रादिभिरर्थितो वा ।
विशारदैस्तत्परिशोधनीयं ग्रन्थान्तराणि प्रविलोक्य सम्यक् ॥ १९ ॥
कियदेतिकया च मया सज्जनजनरञ्जनाय जनितेयम् ।
सा दद्यादभ्युदयं सर्वाभीष्टार्थसिद्धिं च ॥ २० ॥
यावन्नन्दति मेरुर्यावज्जिनराजशासनं जगति ।
तावन्नन्दतु निपुणैरनवरतं वाच्यमानासौ ॥ २१ ॥
इत्यन्योक्तियुक्तावलीग्रन्थप्रशरितः ।
समाप्ता चेयमन्योक्तियुक्तावली ।
श्रीः।
अन्योक्तिमुक्तावलीश्लोकानां वर्णक्रमेणानुक्रमणिका।
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
ग्रन्थस्यास्य संग्रहीनुरवस्थितिसमयादि ग्रन्थान्ते ग्रन्थप्रशास्तौ द्रष्टव्यम् ।
- ↑ ओमिति अवतीत्यौणादिके मप्रत्यये 'ज्वरत्वर-' इत्युठि गुणे स्वरादित्वादव्ययत्वे च सिद्धिः तस्मै परब्रह्मस्वरूपायेत्यर्थः. अत्र धुरि मातृकायामिव ॐ नम इति पठितमन्त्रसिद्धमन्त्रोपन्यासः प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिरिति
- ↑ 'महेन्द्रो मलयः सह्यो हिमवान्पारिमात्रिकः । गन्धमादन उदयश्च सप्तैते कुलपर्वताः ॥.
- ↑ चिद्रूप आनन्दश्चिदानन्दः, चिदानन्द एव द्रुर्द्रुमश्चिदानन्दद्रुः तस्य कन्दो
मूलविशेषः यद्वा कं पानीयं ददातीति कंदो मेघः, चिदानन्दद्रौ कन्दश्चिदानन्दद्रुकन्दः,
तस्मै. 'कन्दोऽब्दे सूरणे सस्यभेदे' इति हैमानेकार्थकोशः. - ↑ अयं श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते.
- ↑ 'जगती विष्टपे भूम्याम्' इति विश्वः.
- ↑ 'खद्योतो द्योतते तावत्तावद्गर्जति चन्द्रमाः । उदिते तु सहस्रांशौ न खद्योतो न
चन्द्रमाः ॥' इत्यपि पाठान्तरम्. - ↑ १. 'यदनुकुरुते' इति वा पाठः.
- ↑ 'न म्लानितानि' इति वा पाठः.
- ↑ 'यदम्बुकणमादाय प्राप्तोऽसि जलदोन्नतिम् । तस्योपर्यम्बुधे गर्जन्मलिनस्योचिती न ते ॥' इति पाठान्तरम्.
- ↑ 'नीत्या तावदमी नराधिपतयः पान्ति प्रजाः पुत्रवत्तावन्नीतिविदः स्वकर्मनिरतास्तावदृषीणां तपः । तावन्मित्रकलत्रपुत्रपितरः स्नेहे स्थिताः संततं यावत्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥' इति पाठान्तरम्.
- ↑ 'कीलाकवलन' इति वा पाठः.
- ↑ 'दवार्दिते' इति वा पाठः.
- ↑ 'याचके' इति वा पाठः.
- ↑ गमनं कुर्वता.
- ↑ मकरैः.
- ↑ अयं श्रीशब्दः पूज्यत्वसूचकःश्
- ↑ कोमलान्यकठोराणि मुखोच्चार्याण्यमलानि व्यर्थाक्षररहितानि वृत्तानि पद्यानि येषु तानि कोमलामलवृत्तानि.
- ↑ 'हरिम्' इति वा पाठः.
- ↑ 'निःशङ्कः करिपोतकस्तरुलतानुन्मोटते लीलया' इति वा पाठः.
- ↑ 'नैवाड्कुशोद्धट्टनम्' इति वा पाठः.
- ↑ 'निःसृत्य' इति वा पाठः
- ↑ 'दतिरयादुत्प्लुत्य धावन्' इति वा पाठः
- ↑ 'क-रोति विमुखे' इति वा पाठः
- ↑ 'विमलसलिलैः' इति वा पाठः.
- ↑ 'तीराण्युचतटी' इति वा पाठः
- ↑ 'प्रगुणीकृतो' इति वा पाठः.
- ↑ 'गोऽन्तरं' इति वा पाठः.
- ↑ 'भित्तिः' इति वा पाठः.
- ↑ विज्ञातो निःशेषेण पदार्थानां सार्थः समूहो येन स तम्; एतेन ज्ञानातिशयः.
- ↑ बहिंरग्निर्मुखं येषां ते वहिर्मुखा देवाः प्रबर्हाः प्रकृष्टाश्च ते बहिर्मुखाश्च प्रवर्हवहिर्मुखाः तेषां नाथाः स्वामिनश्चतुःषष्टीन्द्राः प्रबर्हबर्हिर्मुखनाथाः तैः पूज्यम्. एतेन पूजातिशयः
- ↑ जयति रागद्वेषाद्यरीन्वशीकरोतीति जिनः जिनश्चासौ वर्धमानश्च तम्. एतेनापायागमातिशयः
- ↑ गिरामधीशमित्यत्र वचनातिशयः ।अस्मिन्पद्ये चत्वारोऽतिशयाः सूचयांचक्रिरे.
- ↑ 'स्थित्वा चिरं नभसि निश्चलतारकेण' इति वा पाठः
- ↑ 'विततपक्षतिनान्तरिक्षे' इत्यपि पाठः.
- ↑ 'दैवहतकाः' इति पाठः.
- ↑ अर्कवृक्षस्य.
- ↑ मूर्खो लोकस्तव प्रधानकारणमिममर्के कथयिष्यति.
- ↑ 'पतिते पङ्के' इति कुवलयानन्दे विकस्वरालंकारोदाहरणभूतेऽस्मिन् पद्ये स्थितः पाठः.
- ↑ 'स्थिताः' इत्यपरपाठः.
- ↑ २. 'वारिदः' इति पाठान्तरम्.
- ↑ 'चक्रवञ्चक्रवाकः' इति वा पाठः.
- ↑ 'भुवनमहनीयव्रतभृतो' इति पाठः.
- ↑ 'बाधते' इति स्यात्.
- ↑ ‘एतेऽभिकामविवृतोन्नतयोऽपि तृप्त्यै' इति पाठः.
- ↑ 'हेलया' इति पाठान्तरम्.
- ↑ 'विधिवशात्परदेश' इति पाठान्तरम्.
- ↑ 'मूढधीः सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः' इति पाठः
- ↑ अनुष्टुब्जातौ विद्युन्मालाछन्दः.
- ↑ मददादिति प्रतिभाति.
- ↑ चन्दनन्ति चन्दनानि वा समुचितम्.
- ↑ कस्तूरिकानाम गन्धधूलिः, षण्डनाम मधुधूलिः, तेन गन्धमधोरग्रे स्थिता । प्राधान्यख्यापनार्थमेतत्कथनमिति.
- ↑ प्रणिधानविषयीकर्महे आयाम इत्यर्थः
- ↑ ब्रह्माण्डमण्डात्पुनर्विश्वं' इति पाठ,
- ↑ 'दुरर्णवेन' इति पाठः.
- ↑ 'कुहरे' इति पाठः.
- ↑ 'नय' इत्यपि पाठः,
- ↑ 'बटुः' इति पाठः
- ↑ एकेनेति शेषः.
- ↑ 'सवर्गः' इति वा.
- ↑ 'तवेदम्' इति स्यात्.
- ↑ 'यास्यति जलभरकालस्तव च समृद्धिर्लघीयसी भविता' इति वा पाठः
- ↑ १.'इदमति सुलभं चाम्भो' इत्यपि पाठः.
- ↑ १. 'लग्न एव जनकस्याभ्येति' इत्यपि पाठः
- ↑ १. ‘यावत्तत्क्षणमाश्रयन्ति’ गुणिनः क्लान्तिच्छिदे पादपं तावत्कोटरनिर्गतैरहिगणैर्दूरं समुत्सारितः' इति पाठान्तरम्.
- ↑ १. ‘अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इत्यपि पाठः.
- ↑ यामध्वन्यजनः-इत्यपि वा पाठः,
- ↑ 'तूलोऽन्तः' इत्यपि पाठः
- ↑ १.'परम्' इति पुस्तकान्तरे
- ↑ १. 'गात्रं कण्टकसंकटं प्रविरलच्छायाभृतः पल्लवा निर्गन्धः कुसुमोत्करस्तव 'फलं न क्षुद्विनाशाक्षमम् । बब्बूलद्रुम मूलमेति न जनस्ते तावदास्तामहो अन्येषामपि शाखिनां फल्वताम्' इत्यपि पाठान्तरम्.
- ↑ 'नारङ्गे' इति भवेत्.
- ↑ यां लक्ष्मीं करोतीति तम्.
- ↑ वचिधातुना वर्तमानाविभक्तेरुत्तमपुरुषैकवचनारूढेनाहमिति कर्तृपदं सूचितम्.
- ↑ . 'पश्यावरुद्धम्' इत्युचितं प्रतिभाति.
- ↑ 'व सति' इत्युचितं प्रतिभाति ।
- ↑ १ ददातीत्यपि पाठः
- ↑ विषये इत्यपि पाठः