मराठी संस्कृतम्

चहूं वेदीं जाण षड्शास्त्री कारण।अठराही पुराणे हरीसी गाती॥१

मंथुनी नवनीता तैसे घे अनंता। वायां व्यर्थ कथा सांडी मार्ग॥२

एक हरी आत्मा जीव शिव सम।वायां तू दुर्गम न घाली मन॥३

ज्ञानदेवा पाठ हरि हा वैकुंठ।भरला घनदाट हरि दिसे॥४


ज्ञानाभिधश्चतुर्वेदे षट्शास्त्रे कारणाभिध:।अष्टादशपुराणेषु गीयते हरिरेव च॥१

जगतो मन्थनाद् ग्राह्यो श्रीहरिर्नवनीतवत्।त्यज व्यर्थां कथां व्यर्थं विमार्गगमनं त्यज॥२

हरिरात्मा चैक एव व्याप्तो जीवे शिवे सम:।दुर्गमेषु विमार्गेषु त्वं वृथा मा मन: कृथा:॥३

हरिर्वैकुण्ठरूपोऽयं ज्ञानदेवेन पठ्यते। ओतप्रोतश्च सर्वत्र श्रीहरि: सम्प्रदृश्यते॥४

हरिपाठ: ज्ञानेश्वरकृत:
"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०२&oldid=37582" इत्यस्माद् प्रतिप्राप्तम्