मराठी(मूलम्)
|
संस्कृतम्
|
८
संतांचे संगती मनोमार्गगति ।
आकळावा श्रीपति येणे पंथे॥१
रामकृष्ण वाचा भाव हा जीवाचा।
आत्मा जो शिवाचा रामजप॥२
एकतत्वीं नाम साधिती साधन।
द्वैताचे बंधन न बाधिजे॥३
नामामृत गोडी वैष्णवा लाधली।
योगियां साधली जीवनकळा॥४
सत्वर उच्चार प्रह्लादी बिंबला।
उद्धवा लाधला कृष्णदाता॥५
ज्ञानदेव म्हणे नाम हे सुलभ।
सर्वत्र दुर्लभ विरळा जाणे॥६
|
८
सम्प्राप्यते चित्तलय: साधूनां सङ्गतौ तत:।
श्रीपति: सम्प्रापणीय एतेनैव पथा ध्रुवम्॥१
रामकृष्णेतिवचनं जीवभाव इति स्मृत:।
शिवस्यात्मेति विख्यातो रामनामजपो ह्ययम्॥२
एकतत्त्वात्मकहरौ नाम साधनमुच्यते।
साधयन्ति च ये तत् तान् द्वैतबन्धो न बाधते॥३
नामामृतरसास्वादे वैष्णवानां परा रुचि:।
दीर्घजीवनविद्या या साधिता सा तु योगिभि:॥४
नामोच्चारस्य दृढता प्रह्लादे बाल्य एव च।
उद्धवस्योपदेशं तु श्रीकृष्णोऽकुरुत स्वयम्॥५
ज्ञानदेवो वक्ति नाम साधनं सुलभं स्मृतम्।
जानाति कश्चिदेवं यत् कठिनं साधनान्तरम् ॥६
|
हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्