मराठी(मूलम्) संस्कृतम्
१३

समाधि हरीची समसुखेविण।
न साधेल जाण द्वैतबुद्धि॥१

बुद्धीचे वैभव अन्य नाही दुजे।
एका केशवराजे सकळसिद्धि॥२

ऋद्धि सिद्धि निधि अवघीच उपाधि।
जंव त्या परमानंदी मन नाही॥३

ज्ञानदेवा रम्य रमले समाधान।
हरीचे चिंतन सर्वकाळ॥४

१३

हरौ समाधिर्न विना ब्रह्मात्मसमतासुखम्।
न समाधिर्द्वैतबुद्ध्या सिद्ध्यतीत्यवधार्यताम्॥१

न समाधिं विना बुद्धेर्वैभवं विद्यतेऽपरम्।
एकेन केशवेनैव लभ्यन्ते सर्वसिद्धय:॥२

ऋद्धि: सिद्धिर्निधिर्वापि तावद् व्यर्था उपाधय:।
यावत्तस्मिन्परानन्दे श्रीहरौ नास्ति मानसम्॥३

ज्ञानदेवो भाषते यत् सर्वदा हरिचिन्तनात्।
रमणीयं समाधानं यत्तदासादितं मया॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१३&oldid=37593" इत्यस्माद् प्रतिप्राप्तम्