जक्ख पी.डी.एफ. पृ.१३८०)

-यक्ष-पुं० । 'यक्ष' पूजायाम्, यक्ष्यते । यक्ष- कर्मणि-घञ् । वाच० । व्यन्तरविशेषे, रा० । सू० प्रप । जी० । औ- । स० । क्राथ । जल- । अनु- ।

अष्टभेदव्यन्तराणां मध्ये तृतीयभेदे यक्षाः । प्रव० १९४ द्वार ।
ते च त्रयोदशविधाः। तद्यथा-पूर्णभद्राः, माणिभद्राः, श्वेतभद्राः, हरितभद्राः, सुमनोभद्रा, व्यतिपातिक- भद्राः, सुभद्राः, सर्वतोभद्राः, मनुष्ययक्षाः, वनाधिपतयो, वनाहा- राः, रूपयक्षाः,यक्षोत्तमाः । प्रका० १ पद । जिनानां यक्षा- सन्ति । प्रव० १७ द्वार ।
 

जिणजक्ख- (पी.डी.एफ. पृ. १४९१)

जिनयक्ष-पुं० । तीर्थकृतां भक्तिदक्षे गोमुखादिके यक्षे, प्र. ।।.
जक्खा गोमुह महजक्ख तिमुह ईसर सुतुंबुरू कुसुमो ।
मायंगो विजयाजिय, वंन्नो मणुओ सुरकुमारो ।। ३ ७५।।
छम्मुह पयाल किंनर, गरुडो गंधव्व तह य जक्खिंदो ।
कूबर वरुणो निमी, गोमेहो वामण मयंगो ।। ३७६। ।

यक्षा भक्तिदक्षास्तीर्थकृतामिमे । यथा-
प्रथमजिनस्य(ऋषभस्य) गोमुखो यक्षः सुवर्णवर्णो गजवाहनश्चतुर्भुजो वरदाक्षमालिकायुक्तदक्षिणपाणिद्वयो मातुलिङ्गपाशकान्वितवामपाणिद्वयश्च ।१ ।
अजितनाथस्य महायक्षाभिधो यक्षः चतुर्मुखः श्यामवर्णः करीन्द्रवाहनोऽष्टपाणिर्वरदमुखरक्षिसूत्रपाशकान्वितदक्षिणपाणिचतुष्टयो बीजपूरकाभयाङ्कुशशक्तियुक्तवामपाणिचतुष्कश्च ।२।
श्रीसंभवजिनस्य त्रिमुखो नाम यक्षः त्रिवदनः त्रिनेत्रः श्यामवर्णः मयूरवाहनः षड्भुजो नकुलगदाऽभययुक्तदक्षिणकरकमलत्रयो मातुलिङ्गःच्छागाक्षसूत्रवामपाणिपद्मत्रयश्च ।। ३ ।।
श्रीअभिनन्दनस्य ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तद्क्षिणकरकमलद्वयो नकुलाङ्कुशान्वितवामपाणिद्वयश्च ।४।
श्रीसुमतेस्तुम्बुरुर्यक्षः श्वेतवर्णो गरुडवाहनश्चतुर्भुजो वरदशक्तियुक्तदक्षिणपाणिद्वयो गदानागपाशयुक्तवामपाणिद्वयश्च ।५ ।
श्रीपद्मप्रभस्य कुसुमो यक्षो नीलवर्णः कुरङ्गवाहनश्चतुर्भुजः फलाभययुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ।। ६ ।।
सुपार्श्वस्य मातङ्गो यक्षो नीलवर्णोगजवाहनश्चतुर्भुजो बिल्वपाशयुक्तदक्षिणपाणिद्वयो नकुलाङ्कुशयुक्तवामपाणिद्वयश्च।।७।।
श्रीचन्द्रप्रभस्य विजयो यक्षो हरितवर्णः त्रिलोचनो हंसवाहनो द्विभुजः कृतदक्षिण- हस्तचक्रो वामहस्तधृतमुद्गरश्च ।। ८ ।।
श्रीसुविधिजिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिद्वयो नकुलकुन्तकलितवामपाणिद्वयश्च ।। ९ ।।
श्रीशीतलस्य ब्रह्मा यक्षश्चतुर्मुखस्त्रिनेत्रः सितवर्णः पद्मासनोऽष्टभुजो मातुलिङ्गमुद्गरपाशकाभययुक्तदक्षिणपाणिचतुष्टयो नकुलगदाऽङ्कुशाक्षसूत्रयुक्तवामपाणिचतुष्टयश्च ।। १० ।।
श्रीश्रेयांशस्य मनुजो यक्षः (मतान्तरेण-ईश्वरः) धवलवर्णः त्रिनेत्रो वृषवाहनश्चतुर्भुजो मातुलिङ्गगदायुक्तदक्षिणपाणिद्वयो नकुलकाक्षसूत्रयुक्तवामपाणिद्वयश्च ।। ११ ।।
श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनः चतुर्भुजो बीजपूरक- बाणान्वितदक्षिणकरद्वयो नकुलकधनुर्युक्तवामपाणिद्वयश्च ।१२।
श्रीविमलस्य षण्मुखो यक्षः श्वेतवर्णः शिखिवाहनो द्वादशभुजः फलचक्रबाणखड्गपाशाक्षसूत्रयुक्तदक्षिणपाणिषट्कः नकु- लचक्रधनुःफलकाङ्कुशाभययुक्तवामपाणिषट्कश्च।।१३।।
श्री अनन्तस्य पातालो यक्षस्त्रिमुखो रक्तवर्णो मकरवाहनः षड्भुजः पद्मखड्गपाशयुक्तदक्षिणपाणित्रयो नकुलफलकाक्षसूत्रयुक्तवामपाणित्रयश्च । १४ ।।
श्रीधर्मस्य किंनरो यक्षस्त्रिमुखो रक्तवर्णः कूर्मवाहनः षड्भुजो बीजपूरकगदाऽभययुक्तदक्षिणपाणित्रयो नकुलपद्माक्षमालायुक्तवामपाणित्रयश्च ।। १५ ।।
श्रीशान्तिनाथस्य गरुडो यक्षो वराहवाहनः क्रोडवदनः श्यामरुचिश्चतुर्भुजो बीजपूरकपद्मान्वितदक्षिणकरद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ।। १६ ।।
श्रीकुन्थोर्गन्धर्वयक्षः श्या- मवर्णो हंसवाहनश्चतुर्भुजो वरदपाशकान्वितदक्षिणपाणि- द्वयो मातुलिङ्गाङ्कुशाधिष्ठितवामकरद्वयश्च ।। १७ ।।
श्रीअरजिनस्य यक्षेन्द्रो यक्षः षण्मुखस्त्रिनेत्रः श्यामवर्णः शङ्खशिखिवाहनो द्वादशभुजो बीजपूरकबाणखड्गमुद्गरपाशकाभययुक्तदक्षिणकरषट्को नकुलधनुःफलकशूलाङ्कुशाक्षसूत्रयुक्त वामपाणिषट्कश्च ।।१८ ।।
श्रीमल्लिजिनस्य कूवरो यक्षश्चतुर्मुख इन्द्रायुधवर्णो गजवाहनोऽष्टभुजो वरदपरशुशूलाभययुक्तदक्षिणपाणिचतुष्टयो बीजपूरकशक्तिमुद्गराक्षसूत्रयुतवामपाणि- चतुष्टयश्च (अन्ये कूवरस्थाने कुबेरमाहुः) ।। १९ ।।
श्रीमुनिसुव्रतस्य वरुणो यक्षश्चतुर्मुखस्त्रिनेत्रः सितवर्णो वृषभवाहनो जटामुकुटभूषितोऽष्टभुजो बीजपूरकगदाबाणशक्तियुक्तदक्षिणकरकमलचतुष्को नकुलपद्मधनुःपरशुयुतवामपाणिचतुष्टयश्च।। । २० ।
श्रीनेमिजिनस्य भ्रकुटिर्यक्षश्चतुर्मुखस्त्रिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरकशक्तिमुद्गराभययुक्तदक्षिणकरचतुष्टयो नकुलपरशुवज्राक्षसूत्रयुक्तवामकरचतुष्टयश्च ।।२१।।
श्रीनेमिजिनस्य गोमेधो यक्षः त्रिमुखः श्यामकान्तिः पुरुषवाहनः षड्भुजो मातुलिङपरशुचक्रान्वितदक्षिणकरत्रयो नकुलशूलशक्तियुक्तवामपाणित्रयश्च ।।२२।।
श्रीपार्श्वजिनस्य वामनो यक्षो(मतान्तरेण पार्श्वनामा)गजमुखः उरगफणामणिमत- शिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो बीजपूरकोरगयुक्तदक्षिणपाणिद्वयो नकुलभुजगयुक्तवामपाणियुगश्च ।।२३ ।।
श्रीवीरजिनस्य मतङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुतदक्षिणभुजो वामकरधृतबीजपूरकश्चेति ।।२४।।
प्रव० २६ द्वार ।

"https://sa.wikisource.org/w/index.php?title=अभिधानराजेन्द्रः&oldid=304555" इत्यस्माद् प्रतिप्राप्तम्