अमरकोशः/तृतीयकाण्डम्
← द्वितीयकाण्डम् | अमरकोशः तृतीयकाण्डम् अमरसिंहः |
विशेष्यनिघ्नवर्गः ।
विशेष्य निघ्नैः संकीर्णैर्नानार्थैरव्ययैरपि ।। ३.०.१ ।।
लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ।। ३.०.२ ।।
।। परिभाषा । ।।
स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः ।। ३.०.३ ।।
गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ।। ३.०.४ ।।
विशेष्यनिघ्नवर्गः ।। ३.१.५ ।।
क्षेमङ्करोऽरिष्टतातिश्शिवतातिश्शिवङ्करः ।। ३.१.६ ।।
सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः ।। ३.१.७ ।।
हृदयालुः सुहृदयो महोत्साहो महोद्यमः ।। ३.१.८ ।।
प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।। ३.१.९ ।।
वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ।। ३.१.१० ।।
पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ।। ३.१.११ ।।
दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ।। ३.१.१२ ।।
स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे ।। ३.१.१३ ।।
जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ।। ३.१.१४ ।।
परीक्षकः कारणिको वरदस्तु समर्द्धकः ।। ३.१.१५ ।।
हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ।। ३.१.१६ ।।
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ।। ३.१.१७ ।।
दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ।। ३.१.१८ ।।
तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः ।। ३.१.१९ ।।
प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः ।। ३.१.२० ।।
गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ।। ३.१.२१ ।।
इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ।। ३.१.२२ ।।
अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।। ३.१.२३ ।।
अधिकर्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ।। ३.१.२४ ।।
स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ।। ३.१.२५ ।।
वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः ।। ३.१.२६ ।।
निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा ।। ३.१.२७ ।।
अवाचि मूकोऽथ मनोजवसः पितृसंनिभः ।। ३.१.२८ ।।
सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः ।। ३.१.२९ ।।
लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः ।। ३.१.३० ।।
स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः ।। ३.१.३१ ।।
स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ।। ३.१.३२ ।।
परतन्त्रः पराधीनः परवान्नाथवानपि ।। ३.१.३३ ।।
अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ।। ३.१.३४ ।।
खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः ।। ३.१.३५ ।।
जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ।। ३.१.३६ ।।
कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः ।। ३.१.३७ ।।
स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ।। ३.१.३८ ।।
भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः ।। ३.१.३९ ।।
अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः ।। ३.१.४० ।।
बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ।। ३.१.४१ ।।
परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः ।। ३.१.४२ ।।
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ।। ३.१.४३ ।।
उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके ।। ३.१.४४ ।।
सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः ।। ३.१.४५ ।।
लुब्धोऽभिलापुकस्तृष्णक्समौ लोलुपलोलुभौ ।। ३.१.४६ ।।
सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः ।। ३.१.४७ ।।
मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ।। ३.१.४८ ।।
कम्रः कामयिताभीकः कमनः कामनोऽभिकः ।। ३.१.४९ ।।
विधेयो विनयग्राही वचनेस्थित आश्रवः ।। ३.१.५० ।।
वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः ।। ३.१.५१ ।।
धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते ।। ३.१.५२ ।।
स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते ।। ३.१.५३ ।।
अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः ।। ३.१.५४ ।।
आशंसुराशंसितरि गृहयालुर्ग्रहीतरि ।। ३.१.५५ ।।
श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ।। ३.१.५६ ।।
लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके ।। ३.१.५७ ।।
शरारुर्घातुको हिंस्रः स्याद्वर्द्धिष्णुस्तु वर्द्धनः ।। ३.१.५८ ।।
उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः ।। ३.१.५९ ।।
भूष्णुर्श्वविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ।। ३.१.६० ।।
निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः ।। ३.१.६१ ।।
ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ।। ३.१.६२ ।।
विसृत्वरो विसृमरः प्रसारी च विसारिणि ।। ३.१.६३ ।।
सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ।। ३.१.६४ ।।
क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ।। ३.१.६५ ।।
जागरूको जागरिता घूर्णितः प्रचलायितः ।। ३.१.६६ ।।
स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ ।। ३.१.६७ ।।
पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः ।। ३.१.६८ ।।
देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति ।। ३.१.६९ ।।
यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति ।। ३.१.७० ।।
वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ ।। ३.१.७१ ।।
वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ।। ३.१.७२ ।।
स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।। ३.१.७३ ।।
दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे ।। ३.१.७४ ।।
लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः ।। ३.१.७५ ।।
समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ।। ३.१.७६ ।।
रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ।। ३.१.७७ ।।
जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ।। ३.१.७८ ।।
तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे ।। ३.१.७९ ।।
निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ।। ३.१.८० ।।
आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ ।। ३.१.८१ ।।
प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ।। ३.१.८२ ।।
निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः ।। ३.१.८३ ।।
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ।। ३.१.८४ ।।
अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ ।। ३.१.८५ ।।
आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः ।। ३.१.८६ ।।
आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे ।। ३.१.८७ ।।
व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ ।। ३.१.८८ ।।
विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः ।। ३.१.८९ ।।
कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते ।। ३.१.९० ।।
द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ ।। ३.१.९१ ।।
विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ।। ३.१.९२ ।।
शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ ।। ३.१.९३ ।।
दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः ।। ३.१.९४ ।।
कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः ।। ३.१.९५ ।।
नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ।। ३.१.९६ ।।
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः ।। ३.१.९७ ।।
कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ।। ३.१.९८ ।।
निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः ।। ३.१.९९ ।।
वनीयको याचनको मार्गणो याचकार्थिनौ ।। ३.१.१०० ।।
अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः ।। ३.१.१०१ ।।
दिव्योपपादुका देवा नृगवाद्या जरायुजाः ।। ३.१.१०२ ।।
स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः । ।। ३.१.१०३ ।।
।। इति प्राणिवर्गः अत्र मूलश्लोकाः ५० । । ।।
उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ।। ३.१.१०४ ।।
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।। ३.१.१०५ ।।
कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ।। ३.१.१०६ ।।
रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम् ।। ३.१.१०७ ।।
तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ।। ३.१.१०८ ।।
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ।। ३.१.१०९ ।।
निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः ।। ३.१.११० ।।
कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ।। ३.१.१११ ।।
मलीमसं तु मलिनं कच्चरं मलदूषितम् ।। ३.१.११२ ।।
पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ।। ३.१.११३ ।।
निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ।। ३.१.११४ ।।
असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ।। ३.१.११५ ।।
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।। ३.१.११६ ।।
मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ।। ३.१.११७ ।।
परार्ध्याग्रप्राग्रहरप्राग्रयाग्रयाग्रीयमग्रियम् ।। ३.१.११८ ।।
श्रेयान्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ।। ३.१.११९ ।।
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।। ३.१.१२० ।।
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ।। ३.१.१२१ ।।
अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने ।। ३.१.१२२ ।।
विशंकटं पृथु बृहद्विशालं पृथुलं महत् ।। ३.१.१२३ ।।
वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे ।। ३.१.१२४ ।।
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ।। ३.१.१२५ ।।
स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।। ३.१.१२६ ।।
अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ।। ३.१.१२७ ।।
प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ।। ३.१.१२८ ।।
पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च ।। ३.१.१२९ ।।
परः शताद्यास्ते येषां परा संख्या शतादिकात् ।। ३.१.१३० ।।
गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ।। ३.१.१३१ ।।
विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ।। ३.१.१३२ ।।
समग्रं सकलं पूर्णमखण्डं स्यादनूनके ।। ३.१.१३३ ।।
घनं निरन्तरं सान्द्रं पेलवं विरलं तनु ।। ३.१.१३४ ।।
समीपे निकटासन्नसंनिकृष्टसनीडवत् ।। ३.१.१३५ ।।
सदेशाभ्याशसविधसमर्यादसवेशवत् ।। ३.१.१३६ ।।
उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ।। ३.१.१३७ ।।
संसक्ते त्वव्यवहितमपदान्तरमित्यपि ।। ३.१.१३८ ।।
नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ।। ३.१.१३९ ।।
दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ।। ३.१.१४० ।।
वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् ।। ३.१.१४१ ।।
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।। ३.१.१४२ ।।
न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानतम् ।। ३.१.१४३ ।।
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ।। ३.१.१४४ ।।
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ।। ३.१.१४५ ।।
ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ ।। ३.१.१४६ ।।
शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ।। ३.१.१४७ ।।
स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ।। ३.१.१४८ ।।
कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः ।। ३.१.१४९ ।।
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ।। ३.१.१५० ।।
चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ।। ३.१.१५१ ।।
चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ।। ३.१.१५२ ।।
अतिरिक्तः समधिको धृढसन्धिस्तु संहतः ।। ३.१.१५३ ।।
खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम् ।। ३.१.१५४ ।।
जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ।। ३.१.१५५ ।।
पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः ।। ३.१.१५६ ।।
प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ।। ३.१.१५७ ।।
नूत्नश्च सुकुमारं तु कोमलं मृदुलं मृदु ।। ३.१.१५८ ।।
अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ।। ३.१.१५९ ।।
प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् ।। ३.१.१६० ।।
एकतानोऽनन्यवृत्तिरैकाग्रैकायनावपि ।। ३.१.१६१ ।।
अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः ।। ३.१.१६२ ।।
पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ।। ३.१.१६३ ।।
अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः ।। ३.१.१६४ ।।
मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ।। ३.१.१६५ ।।
साधारणं तु सामान्यमेकाकी त्वेक एककः ।। ३.१.१६६ ।।
भिन्नार्थका अन्यतर एकं त्वोऽन्येतरावपि ।। ३.१.१६७ ।।
उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् ।। ३.१.१६८ ।।
अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम् ।। ३.१.१६९ ।।
प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च ।। ३.१.१७० ।।
वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम् ।। ३.१.१७१ ।।
सङ्कटं ना तु संबाधः कलिलं गहनं समे ।। ३.१.१७२ ।।
संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम् ।। ३.१.१७३ ।।
ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् ।। ३.१.१७४ ।।
अन्तर्गतं विस्मृतं स्यात्प्रऽप्तप्रणिहिते समे ।। ३.१.१७५ ।।
वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते ।। ३.१.१७६ ।।
नुत्तनुन्नास्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः ।। ३.१.१७७ ।।
परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम् ।। ३.१.१७८ ।।
प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ।। ३.१.१७९ ।।
निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ।। ३.१.१८० ।।
द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते ।। ३.१.१८१ ।।
घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे ।। ३.१.१८२ ।।
वेष्टितम् स्याद्वलयितं संवीतं रुद्धमावृतम् ।। ३.१.१८३ ।।
रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते ।। ३.१.१८४ ।।
स्याद्विनाशोन्मुखं पक्वम् ह्रीणह्रीतौ तु लज्जिते ।। ३.१.१८५ ।।
वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः ।। ३.१.१८६ ।।
प्राप्यं गम्यं समासाद्यम् स्यन्नं रीणं स्नुतं स्रुतम् ।। ३.१.१८७ ।।
संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः ।। ३.१.१८८ ।।
विविधः स्याद्बहुविधो नानारूपः पृथग्विधः ।। ३.१.१८९ ।।
अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः ।। ३.१.१९० ।।
अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ।। ३.१.१९१ ।।
बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् ।। ३.१.१९२ ।।
निष्पक्वे क्वथितं पाके क्षीराज्य हविषां शृतम् ।। ३.१.१९३ ।।
निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले ।। ३.१.१९४ ।।
पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ।। ३.१.१९५ ।।
पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते ।। ३.१.१९६ ।।
दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ।। ३.१.१९७ ।।
ज्ञप्तस्तु ङ्यपिते छन्नश्छादिते पूजितेऽञ्चितः ।। ३.१.१९८ ।।
पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ।। ३.१.१९९ ।।
प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते ।। ३.१.२०० ।।
वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ।। ३.१.२०१ ।।
निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ ।। ३.१.२०२ ।।
सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ।। ३.१.२०३ ।।
ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते ।। ३.१.२०४ ।।
स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ।। ३.१.२०५ ।।
वरिवसिते वरिवस्यितमुपासितं चोपचरितं च ।। ३.१.२०६ ।।
संतापितसंतप्तौ धूपित धूपायितौ च दूनश्च ।। ३.१.२०७ ।।
हृष्टो मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः ।। ३.१.२०८ ।।
छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ।। ३.१.२०९ ।।
स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ।। ३.१.२१० ।।
लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ।। ३.१.२११ ।।
अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ।। ३.१.२१२ ।।
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च ।। ३.१.२१३ ।।
त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ।। ३.१.२१४ ।।
अवगणितमवमतावज्ञाते अवमानितं च परिभूते ।। ३.१.२१५ ।।
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ।। ३.१.२१६ ।।
उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् ।। ३.१.२१७ ।।
बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते ।। ३.१.२१८ ।।
उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ।। ३.१.२१९ ।।
संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ।। ३.१.२२० ।।
ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ।। ३.१.२२१ ।।
अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ।। ३.१.२२२ ।।
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ।। ३.१.२२३ ।।
अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ।। ३.१.२२४ ।।
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ।। ३.१.२२५ ।।
क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः ।। ३.१.२२६ ।।
साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ।। ३.१.२२७ ।।
बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ।। ३.१.२२८ ।।
संकीर्णवर्गः
प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् ।। ३.२.२२९ ।।
।। । अथ संकीर्णवर्गः ।।
कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ।। ३.२.२३० ।।
साकल्यासंगवचने पारायणपरायणे ।। ३.२.२३१ ।।
यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ।। ३.२.२३२ ।।
शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।। ३.२.२३३ ।।
अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ।। ३.२.२३४ ।।
वशक्रिया संवननं मूलकर्म तु कार्मणम् ।। ३.२.२३५ ।।
विधूननं विधुवनं तर्पणं प्रीणनावनम् ।। ३.२.२३६ ।।
पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ।। ३.२.२३७ ।।
सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ।। ३.२.२३८ ।।
आक्रोशनमभीषङ्गः संवेदो वेदना न ना ।। ३.२.२३९ ।।
संमूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना ।। ३.२.२४० ।।
वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने ।। ३.२.२४१ ।।
आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ।। ३.२.२४२ ।।
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः कणे ।। ३.२.२४३ ।।
व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ ।। ३.२.२४४ ।।
ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ ।। ३.२.२४५ ।।
स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे ।। ३.२.२४६ ।।
एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा ।। ३.२.२४७ ।।
प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे ।। ३.२.२४८ ।।
उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये ।। ३.२.२४९ ।।
क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ।। ३.२.२५० ।।
उन्नाय उन्नये श्रायः श्रयणे जयने जयः ।। ३.२.२५१ ।।
निगादो निगदे मादो मद उद्वेग उद्भ्रमे ।। ३.२.२५२ ।।
विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः ।। ३.२.२५३ ।।
निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः ।। ३.२.२५४ ।।
मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ ।। ३.२.२५५ ।।
बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि ।। ३.२.२५६ ।।
निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ।। ३.२.२५७ ।।
परिणामो विकारे द्वे समे विकृतिविक्रिये ।। ३.२.२५८ ।।
अपहारस्त्वपचयः समाहारः समुच्चयः ।। ३.२.२५९ ।।
प्रत्याहार उपादानं विहारस्तु परिक्रमः ।। ३.२.२६० ।।
अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम् ।। ३.२.२६१ ।।
अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ।। ३.२.२६२ ।।
प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः ।। ३.२.२६३ ।।
वियामो वियमो यामो यमः संयामसंयमौ ।। ३.२.२६४ ।।
हिम्साकर्माभिचारः स्याज्जागर्या जांगरा द्वयोः ।। ३.२.२६५ ।।
विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ।। ३.२.२६६ ।।
निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया ।। ३.२.२६७ ।।
विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ।। ३.२.२६८ ।।
संक्षेपणं समसनं पर्यवस्था विरोधनम् ।। ३.२.२६९ ।।
परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ।। ३.२.२७० ।।
विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ।। ३.२.२७१ ।।
संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ।। ३.२.२७२ ।।
संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ।। ३.२.२७३ ।।
नीवाकस्तु प्रयामः स्यात्संनिधिः संनिकर्षणम् ।। ३.२.२७४ ।।
लवोऽभिलाषो लवने निष्पावः पवने पवः ।। ३.२.२७५ ।।
प्रस्तावः स्यादपसरस्त्रसरः सूत्रवेष्टनम् ।। ३.२.२७६ ।।
प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ।। ३.२.२७७ ।।
धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः ।। ३.२.२७८ ।।
प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ।। ३.२.२७९ ।।
स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा ।। ३.२.२८० ।।
प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम् ।। ३.२.२८१ ।।
उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ।। ३.२.२८२ ।।
विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् ।। ३.२.२८३ ।।
विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः ।। ३.२.२८४ ।।
निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने ।। ३.२.२८५ ।।
आदीनवास्रवौ क्लेशे मेलके संगसंगमौ ।। ३.२.२८६ ।।
संवीक्षनं विचयनं मार्गणं मृगणा मृगः ।। ३.२.२८७ ।।
परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ।। ३.२.२८८ ।।
निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ।। ३.२.२८९ ।।
प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ।। ३.२.२९० ।।
उपशायो विशायश्च पर्यायशयनार्थकौ ।। ३.२.२९१ ।।
अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ।। ३.२.२९२ ।।
स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये ।। ३.२.२९३ ।।
पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ।। ३.२.२९४ ।।
प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् ।। ३.२.२९५ ।।
स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ।। ३.२.२९६ ।।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ।। ३.२.२९७ ।।
स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ।। ३.२.२९८ ।।
आविधो विध्यते येन तत्र विष्वक्समे निघः ।। ३.२.२९९ ।।
उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ।। ३.२.३०० ।।
निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु ।। ३.२.३०१ ।।
आरत्यवरतिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः ।। ३.२.३०२ ।।
निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि ।। ३.२.३०३ ।।
जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ।। ३.२.३०४ ।।
उदजस्तु पशु प्रेरणमकरणिरित्यादयः शापे ।। ३.२.३०५ ।।
गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ।। ३.२.३०६ ।।
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ।। ३.२.३०७ ।।
माणवानां तु माणव्यं सहायानां सहायता ।। ३.२.३०८ ।।
हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ।। ३.२.३०९ ।।
द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् ।। ३.२.३१० ।।
खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् ।। ३.२.३११ ।।
ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ।। ३.२.३१२ ।।
अपि साहस्रकारीषवार्मणाथर्वणादिकं । ।। ३.२.३१३ ।।
नानार्थवर्गः
नानार्थाः केऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः ।। ३.३.३१४ ।।
।। । अथ नानार्थवर्गः ।।
भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ।। ३.३.३१५ ।।
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ।। ३.३.३१६ ।।
पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ।। ३.३.३१७ ।।
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ।। ३.३.३१८ ।।
आलोकौ दर्शनद्योतौ भेरीपटकमानकौ ।। ३.३.३१९ ।।
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः ।। ३.३.३२० ।।
तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः ।। ३.३.३२१ ।।
मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः ।। ३.३.३२२ ।।
स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ।। ३.३.३२३ ।।
उलूके करिणः पुच्छमूलोपान्ते च पेचकः ।। ३.३.३२४ ।।
कमण्डलौ च करकः सुगते च विनायकः ।। ३.३.३२५ ।।
किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः ।। ३.३.३२६ ।।
प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ।। ३.३.३२७ ।।
स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च ।। ३.३.३२८ ।।
ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ।। ३.३.३२९ ।।
सिते च खदिरे सोमवल्कः स्यादथ सिह्वके ।। ३.३.३३० ।।
तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च ।। ३.३.३३१ ।।
महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः ।। ३.३.३३२ ।।
रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ।। ३.३.३३३ ।।
जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः ।। ३.३.३३४ ।।
व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः ।। ३.३.३३५ ।।
शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् ।। ३.३.३३६ ।।
पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ।। ३.३.३३७ ।।
शीलान्वयावनूके द्वे शल्के शकलवल्कले ।। ३.३.३३८ ।।
साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ।। ३.३.३३९ ।।
दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः ।। ३.३.३४० ।।
दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ।। ३.३.३४१ ।।
धेनुका तु करेण्वां च मेघजाले च कालिका ।। ३.३.३४२ ।।
कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ।। ३.३.३४३ ।।
करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे ।। ३.३.३४४ ।।
वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ।। ३.३.३४५ ।।
स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः ।। ३.३.३४६ ।।
ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश् ।। ३.३.३४७ ।।
च यः ।। ३.३.३४८ ।।
भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ।। ३.३.३४९ ।।
सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः ।। ३.३.३५० ।।
पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः ।। ३.३.३५१ ।।
पर्यङ्कः स्यात्परिकरे स्याद्व्याग्रेऽपि च लुब्धकः ।। ३.३.३५२ ।।
पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः ।। ३.३.३५३ ।।
खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः ।। ३.३.३५४ ।।
पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च ।। ३.३.३५५ ।।
स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः ।। ३.३.३५६ ।।
करिण्यां चापि गणिका दारकौ बालभेदकौ ।। ३.३.३५७ ।।
अन्धेऽप्यनेडमूकः स्यात्टङ्कौ दर्पाश्मदारणौ ।। ३.३.३५८ ।।
मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजकं रसदर्वके ।। ३.३.३५९ ।।
इति कान्ताः ।। ३.३.३६० ।।
मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ ।। ३.३.३६१ ।।
शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम् ।। ३.३.३६२ ।।
धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ ।। ३.३.३६३ ।।
इति खान्ताः ।। ३.३.३६४ ।।
आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ।। ३.३.३६५ ।।
पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः ।। ३.३.३६६ ।।
पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ।। ३.३.३६७ ।।
परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ।। ३.३.३६८ ।।
गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ।। ३.३.३६९ ।।
सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ।। ३.३.३७० ।।
योगः संनहनोपायध्यानसंगतियुक्तिषु ।। ३.३.३७१ ।।
भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ।। ३.३.३७२ ।।
चातके हरिणे पुंसि सारङ्गः शवले त्रिषु ।। ३.३.३७३ ।।
कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे ।। ३.३.३७४ ।।
यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ।। ३.३.३७५ ।।
स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले ।। ३.३.३७६ ।।
लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्न शेफसोः ।। ३.३.३७७ ।।
शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः ।। ३.३.३७८ ।।
भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ।। ३.३.३७९ ।।
इति गान्ताः ।। ३.३.३८० ।।
परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये ।। ३.३.३८१ ।।
मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम् ।। ३.३.३८२ ।।
त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः ।। ३.३.३८३ ।।
इति घान्ताः ।। ३.३.३८४ ।।
विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ।। ३.३.३८५ ।।
मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु ।। ३.३.३८६ ।।
अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ।। ३.३.३८७ ।।
इति चान्ताः ।। ३.३.३८८ ।।
प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबक हारयोः ।। ३.३.३८९ ।।
परिधानाञ्चले कच्छो जलप्रान्ते त्रि लिङ्गकः ।। ३.३.३९० ।।
इति क्षेपकच्छान्ताः ।। ३.३.३९१ ।।
केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः ।। ३.३.३९२ ।।
अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ।। ३.३.३९३ ।।
धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् ।। ३.३.३९४ ।।
वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ।। ३.३.३९५ ।।
समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्संततौ जने ।। ३.३.३९६ ।।
अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ।। ३.३.३९७ ।।
इति जान्ताः ।। ३.३.३९८ ।।
पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः ।। ३.३.३९९ ।।
संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना ।। ३.३.४०० ।।
दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान्सोमजोऽपि च ।। ३.३.४०१ ।।
इति ञान्ताः ।। ३.३.४०२ ।।
काकेभगण्डौ करटौ गजगण्डकटी कटौ ।। ३.३.४०३ ।।
शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ।। ३.३.४०४ ।।
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः ।। ३.३.४०५ ।।
रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ।। ३.३.४०६ ।।
रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ।। ३.३.४०७ ।।
मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ।। ३.३.४०८ ।।
अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ।। ३.३.४०९ ।।
सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ।। ३.३.४१० ।।
अत्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा ।। ३.३.४११ ।।
व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ।। ३.३.४१२ ।।
इष्टिर्योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु (ऽबहूनिऽ? ।। ३.३.४१३ ।।
कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ।। ३.३.४१४ ।।
पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च ।। ३.३.४१५ ।।
पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ ।। ३.३.४१६ ।।
घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले ।। ३.३.४१७ ।।
इति टान्ताः ।। ३.३.४१८ ।।
पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ।। ३.३.४१९ ।।
निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ।। ३.३.४२० ।।
त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ।। ३.३.४२१ ।।
इति ठान्ताः ।। ३.३.४२२ ।।
दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः ।। ३.३.४२३ ।।
सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः ।। ३.३.४२४ ।।
क्ष्वेडवंशशलाकापि नाडी कालेऽपि षट्क्षणे ।। ३.३.४२५ ।।
काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ।। ३.३.४२६ ।।
स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने ।। ३.३.४२७ ।।
इति डान्ताः ।। ३.३.४२८ ।।
भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ।। ३.३.४२९ ।।
संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे ।। ३.३.४३० ।।
गण्डौ कपोलविस्फोटौ मुण्डकस्त्रिषु मुण्डिते ।। ३.३.४३१ ।।
इक्षुभेदेऽपि खण्डोऽस्त्री शिखण्डो बर्हचूडयोः ।। ३.३.४३२ ।।
शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ।। ३.३.४३३ ।।
इति ढान्ताः ।। ३.३.४३४ ।।
भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ।। ३.३.४३५ ।।
कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः ।। ३.३.४३६ ।।
पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ।। ३.३.४३७ ।।
मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः ।। ३.३.४३८ ।।
निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ।। ३.३.४३९ ।।
वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे ।। ३.३.४४० ।।
अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ।। ३.३.४४१ ।।
स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः ।। ३.३.४४२ ।।
ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ।। ३.३.४४३ ।।
ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ।। ३.३.४४४ ।।
हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ।। ३.३.४४५ ।।
त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः ।। ३.३.४४६ ।।
त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ।। ३.३.४४७ ।।
वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी ।। ३.३.४४८ ।।
करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ।। ३.३.४४९ ।।
शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च ।। ३.३.४५० ।।
विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ।। ३.३.४५१ ।।
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।। ३.३.४५२ ।।
करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ।। ३.३.४५३ ।।
प्राण्युत्पादे संसरणमसंबाधचमूगतौ ।। ३.३.४५४ ।।
घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये ।। ३.३.४५५ ।।
अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः ।। ३.३.४५६ ।।
प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ।। ३.३.४५७ ।।
संकीर्णौ निचिताशुद्धा विरिणं शून्यमूषरम् ।। ३.३.४५८ ।।
सेतौ च चरणो वेणी नदीभेदे कचोच्चये ।। ३.३.४५९ ।।
इति णान्ताः ।। ३.३.४६० ।।
देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ ।। ३.३.४६१ ।।
पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ।। ३.३.४६२ ।।
अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ।। ३.३.४६३ ।।
हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ।। ३.३.४६४ ।।
यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ।। ३.३.४६५ ।।
यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ।। ३.३.४६६ ।।
ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ।। ३.३.४६७ ।।
स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे ।। ३.३.४६८ ।।
मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च ।। ३.३.४६९ ।।
विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ ।। ३.३.४७० ।।
व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ।। ३.३.४७१ ।।
क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।। ३.३.४७२ ।।
वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ।। ३.३.४७३ ।।
आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः ।। ३.३.४७४ ।।
कृतान्तो यम सिद्धान्त दैवाकुशलकर्मसु ।। ३.३.४७५ ।।
श्लेष्मादि रस रक्तादि महा भूतानि तद्गुणाः ।। ३.३.४७६ ।।
इन्द्रियाण्यश्म विकृतिः शब्दयोनिश्च धातवः ।। ३.३.४७७ ।।
कक्षान्तरेऽपि शुद्धान्तो भूपस्यासर्व गोचरे ।। ३.३.४७८ ।।
कासू सामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः । । ।। ३.३.४७९ ।।
विस्तार वल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः ।। ३.३.४८० ।।
क्षयार्चयोरपचितिः सातिर्दानावसानयोः । । ।। ३.३.४८१ ।।
आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः ।। ३.३.४८२ ।।
प्रचार स्यन्दयो रीतिरीतिर्डिम्ब प्रवासयोः ।। ३.३.४८३ ।।
उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे ।। ३.३.४८४ ।।
वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ।। ३.३.४८५ ।।
नदी नगर्योर्नागानां भोगवत्यथ संगरे ।। ३.३.४८६ ।।
संगे सभायां समितिः क्षयवासावपि क्षिती ।। ३.३.४८७ ।।
रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ।। ३.३.४८८ ।।
जगती जगति छन्दोविशेषोऽपि क्षितावपि ।। ३.३.४८९ ।।
पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः ।। ३.३.४९० ।।
पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ।। ३.३.४९१ ।।
प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ।। ३.३.४९२ ।।
सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ।। ३.३.४९३ ।।
वनिता जनितात्यर्थानुरागायां च योषिति ।। ३.३.४९४ ।।
गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ।। ३.३.४९५ ।।
बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि ।। ३.३.४९६ ।।
वासिता स्त्री करिण्योश्च वार्ता वृत्तौ जनश्रुतौ ।। ३.३.४९७ ।।
वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते ।। ३.३.४९८ ।।
कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ।। ३.३.४९९ ।।
श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् ।। ३.३.५०० ।।
अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ।। ३.३.५०१ ।।
युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु ।। ३.३.५०२ ।।
वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ।। ३.३.५०३ ।।
महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु ।। ३.३.५०४ ।।
श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ।। ३.३.५०५ ।।
त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च ।। ३.३.५०६ ।।
अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ।। ३.३.५०७ ।।
युक्तेऽति संस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् ।। ३.३.५०८ ।।
कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ।। ३.३.५०९ ।।
ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे ।। ३.३.५१० ।।
विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ।। ३.३.५११ ।।
द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ ।। ३.३.५१२ ।।
सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ।। ३.३.५१३ ।।
पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते ।। ३.३.५१४ ।।
निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ।। ३.३.५१५ ।।
जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ।। ३.३.५१६ ।।
वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ।। ३.३.५१७ ।।
समूहोत्पन्नयोर्जातमहिजिच्छ्रीपतीन्द्रयोः ।। ३.३.५१८ ।।
सौप्तिकेऽपि प्रपातोऽथावपातावतटावटौ ।। ३.३.५१९ ।।
समित्सङ्गे रणेऽपि स्त्री व्यवस्थायामपि स्थितिः ।। ३.३.५२० ।।
अर्थोऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु ।। ३.३.५२१ ।।
निपानागमयोस्तीर्थमृषि जुष्टे जले गुरौ ।। ३.३.५२२ ।।
समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च ।। ३.३.५२३ ।।
दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि ।। ३.३.५२४ ।।
आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः ।। ३.३.५२५ ।।
शास्त्र द्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ ।। ३.३.५२६ ।।
इति थान्ताः ।। ३.३.५२७ ।।
अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ ।। ३.३.५२८ ।।
अपवादौ तु निन्दाज्ञे दायादौ सुत बान्धवौ ।। ३.३.५२९ ।।
पादा रश्म्यङ्घ्रि तुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ।। ३.३.५३० ।।
निर्वादो जनवादेऽपि शादो जम्बाल शष्पयोः ।। ३.३.५३१ ।।
आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ।। ३.३.५३२ ।।
स्यात्प्रसादोऽनुरगेऽपि सूदः स्याद्व्यञ्जनेऽपि च ।। ३.३.५३३ ।।
गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः ।। ३.३.५३४ ।।
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् ।। ३.३.५३५ ।।
स्त्री संविज्ज्ञान संभाषा क्रियाकाराजि नामसु ।। ३.३.५३६ ।।
धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् ।। ३.३.५३७ ।।
पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु ।। ३.३.५३८ ।।
गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् ।। ३.३.५३९ ।।
त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ ।। ३.३.५४० ।।
मूढाल्पापटु निर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ ।। ३.३.५४१ ।।
प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ।। ३.३.५४२ ।।
इति दान्ताः ।। ३.३.५४३ ।।
व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः ।। ३.३.५४४ ।।
पर्याहारश्च मार्गश्,ह्च विवधौ वीवधौ च तौ ।। ३.३.५४५ ।।
परिधिर्यज्ञिय तरोः शाखायामुपसूर्यके ।। ३.३.५४६ ।।
बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः ।। ३.३.५४७ ।।
स्युः समर्थन नीवाक नियमाश्च समाधयः ।। ३.३.५४८ ।।
दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादि विनश्वरे ।। ३.३.५४९ ।।
मुख्यानुयायिनि शिशौ प्रकृत्यानुवर्तने ।। ३.३.५५० ।।
विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः ।। ३.३.५५१ ।।
विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे ।। ३.३.५५२ ।।
बुध वृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ।। ३.३.५५३ ।।
देशे नद विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ।। ३.३.५५४ ।।
विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु ।। ३.३.५५५ ।।
वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही ।। ३.३.५५६ ।।
सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा ।। ३.३.५५७ ।।
मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि ।। ३.३.५५८ ।।
अतस्त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ ।। ३.३.५५९ ।।
ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः ।। ३.३.५६० ।।
अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ ।। ३.३.५६१ ।।
लेशेऽपि गन्धः संबाधो गुह्यसंकुलयोरपि ।। ३.३.५६२ ।।
बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः ।। ३.३.५६३ ।।
।। । इति धान्ताः ।।
सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ ।। ३.३.५६४ ।।
भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ ।। ३.३.५६५ ।।
ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ।। ३.३.५६६ ।।
तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ ।। ३.३.५६७ ।।
प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ।। ३.३.५६८ ।।
द्वौ सारथि हयारोहौ वाजिनोऽश्वेषु पक्षिणः ।। ३.३.५६९ ।।
कुलेऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः ।। ३.३.५७० ।।
वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ।। ३.३.५७१ ।।
केशेऽपि वृजिनो विश्वकर्मार्क सुरशिल्पिनोः ।। ३.३.५७२ ।।
आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ।। ३.३.५७३ ।।
शक्रो घातुक मत्तेभो वर्षुकाब्दो घनाघनः ।। ३.३.५७४ ।।
अभिमानोऽर्थादि दर्पे ज्ञाने प्रणय हिंसयोः ।। ३.३.५७५ ।।
घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ।। ३.३.५७६ ।।
इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ।। ३.३.५७७ ।।
वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी ।। ३.३.५७८ ।।
ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ।। ३.३.५७९ ।।
त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च ।। ३.३.५८० ।।
क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके ।। ३.३.५८१ ।।
मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे ।। ३.३.५८२ ।।
वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ।। ३.३.५८३ ।।
उत्साहने च हिंसायां सूचने चापि गन्धनम् ।। ३.३.५८४ ।।
आतञ्चनं प्रतीवाप जवनाप्यायनार्थकम् ।। ३.३.५८५ ।।
व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि ।। ३.३.५८६ ।।
स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम् ।। ३.३.५८७ ।।
स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ।। ३.३.५८८ ।।
अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ।। ३.३.५८९ ।।
व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ।। ३.३.५९० ।।
उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च ।। ३.३.५९१ ।।
मारणे मृतसंस्कारे गतौ द्रव्येऽर्थ दापने ।। ३.३.५९२ ।।
निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ।। ३.३.५९३ ।।
निर्यातनं वैर शुद्धौ दाने न्यासार्पणेऽपि च ।। ३.३.५९४ ।।
व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ।। ३.३.५९५ ।।
पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि ।। ३.३.५९६ ।।
तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ।। ३.३.५९७ ।।
अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते ।। ३.३.५९८ ।।
प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ।। ३.३.५९९ ।।
प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः ।। ३.३.६०० ।।
क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ।। ३.३.६०१ ।।
गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे ।। ३.३.६०२ ।।
संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ।। ३.३.६०३ ।।
आच्छादने संविधानमपवारणमित्युभे ।। ३.३.६०४ ।।
आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ।। ३.३.६०५ ।।
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ।। ३.३.६०६ ।।
रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ।। ३.३.६०७ ।।
तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे ।। ३.३.६०८ ।।
समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ।। ३.३.६०९ ।।
हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ ।। ३.३.६१० ।।
अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ।। ३.३.६११ ।।
।। । इति नान्ताः ।।
कलापो भूषणे बर्हे तूणीरे संहतावपि ।। ३.३.६१२ ।।
परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ।। ३.३.६१३ ।।
गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी ।। ३.३.६१४ ।।
बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ।। ३.३.६१५ ।।
तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् ।। ३.३.६१६ ।।
प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ।। ३.३.६१७ ।।
भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी ।। ३.३.६१८ ।।
कुतपो मृगरोमोत्थपटे चाह्नो.ष्टमेंऽशके ।। ३.३.६१९ ।।
।। । इति पान्ताः ।।
शिफा शिखायां सरिति मांसिकायां च मातरि ।। ३.३.६२० ।।
शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च ।। ३.३.६२१ ।।
गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः ।। ३.३.६२२ ।।
रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ।। ३.३.६२३ ।।
।। । इति फान्ताः ।।
अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने ।। ३.३.६२४ ।।
कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ।। ३.३.६२५ ।।
पूर्वोऽन्यलिङ्गः प्रागाह पुमूबहुत्वेऽपि पूर्वजान् ।। ३.३.६२६ ।।
चित्रपुङ्खेऽपि कादम्बो नितम्बोऽद्रितटे कटौ ।। ३.३.६२७ ।।
दर्वी फणापि बिम्बोऽस्त्री मण्डलेऽपि च ।। ३.३.६२८ ।।
।। । इति बान्ताः ।।
कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ।। ३.३.६२९ ।।
स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ ।। ३.३.६३० ।।
कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च ।। ३.३.६३१ ।।
स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ।। ३.३.६३२ ।।
स्यान्महारजते क्लीबं कुसुम्भं करके पुमान् ।। ३.३.६३३ ।।
क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ।। ३.३.६३४ ।।
सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ।। ३.३.६३५ ।।
।। । इति भान्ताः ।।
किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ ।। ३.३.६३६ ।।
इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ ।। ३.३.६३७ ।।
धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ।। ३.३.६३८ ।।
उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ।। ३.३.६३९ ।।
वणिक्पथः पुरं वेदो निगमा नागरो वणिक् ।। ३.३.६४० ।।
नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ।। ३.३.६४१ ।।
शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः ।। ३.३.६४२ ।।
स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्वास्तु कुतिलेऽलसे ।। ३.३.६४३ ।।
उष्णेऽपि घर्मश्चेष्टालङ्कारे भ्रान्तौ च विभ्रमः ।। ३.३.६४४ ।।
गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः ।। ३.३.६४५ ।।
क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ।। ३.३.६४६ ।।
त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा ।। ३.३.६४७ ।।
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ।। ३.३.६४८ ।।
सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु ।। ३.३.६४९ ।।
वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ।। ३.३.६५० ।।
जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ।। ३.३.६५१ ।।
।। । इति गान्ताः ।।
तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ।। ३.३.६५२ ।।
श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ।। ३.३.६५३ ।।
पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः ।। ३.३.६५४ ।।
तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ।। ३.३.६५५ ।।
प्रत्ययोऽधीन शपथज्ञानविश्वासहेतुषु ।। ३.३.६५६ ।।
रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ।। ३.३.६५७ ।।
स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते ।। ३.३.६५८ ।।
समयाः शपथाचारकालसिद्धान्तसंविदः ।। ३.३.६५९ ।।
व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ।। ३.३.६६० ।।
अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ।। ३.३.६६१ ।।
युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च ।। ३.३.६६२ ।।
पस्चादवस्थायि बलं समवायश्च सन्नयौ ।। ३.३.६६३ ।।
संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी ।। ३.३.६६४ ।।
विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः ।। ३.३.६६५ ।।
विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ।। ३.३.६६६ ।।
निर्यासेऽपि कषायो स्त्री सभायां च प्रतिश्रयः ।। ३.३.६६७ ।।
प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि ।। ३.३.६६८ ।।
रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ।। ३.३.६६९ ।।
वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ।। ३.३.६७० ।।
धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् ।। ३.३.६७१ ।।
कशेरु हेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च ।। ३.३.६७२ ।।
वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः ।। ३.३.६७३ ।।
आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ।। ३.३.६७४ ।।
उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ।। ३.३.६७५ ।।
छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ।। ३.३.६७६ ।।
कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ।। ३.३.६७७ ।।
कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ।। ३.३.६७८ ।।
जन्यः स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च ।। ३.३.६७९ ।।
गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ।। ३.३.६८० ।।
आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि ।। ३.३.६८१ ।।
रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि ।। ३.३.६८२ ।।
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ।। ३.३.६८३ ।।
।। । इति यान्ताः ।।
निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ ।। ३.३.६८४ ।।
गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ ।। ३.३.६८५ ।।
प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ।। ३.३.६८६ ।।
किंशारू धान्यशूकेषु मरू धन्वधराधरौ ।। ३.३.६८७ ।।
अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ।। ३.३.६८८ ।।
ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ।। ३.३.६८९ ।।
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि ।। ३.३.६९० ।।
अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ ।। ३.३.६९१ ।।
स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः ।। ३.३.६९२ ।।
मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ।। ३.३.६९३ ।।
कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः ।। ३.३.६९४ ।।
वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि ।। ३.३.६९५ ।।
मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः ।। ३.३.६९६ ।।
आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ।। ३.३.६९७ ।।
अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ।। ३.३.६९८ ।।
स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे ।। ३.३.६९९ ।।
विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ।। ३.३.७०० ।।
द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे ।। ३.३.७०१ ।।
विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु ।। ३.३.७०२ ।।
सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ।। ३.३.७०३ ।।
दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ।। ३.३.७०४ ।।
महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ।। ३.३.७०५ ।।
मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ।। ३.३.७०६ ।।
देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये ।। ३.३.७०७ ।।
वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ।। ३.३.७०८ ।।
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ।। ३.३.७०९ ।।
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।। ३.३.७१० ।।
शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ।। ३.३.७११ ।।
शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ ।। ३.३.७१२ ।।
इरा भूवाक्सुराप्सुस्यात्तन्द्री निद्राप्रमीलयोः ।। ३.३.७१३ ।।
धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ।। ३.३.७१४ ।।
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ।। ३.३.७१५ ।।
त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे ।। ३.३.७१६ ।।
अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ।। ३.३.७१७ ।।
आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः ।। ३.३.७१८ ।।
योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ।। ३.३.७१९ ।।
निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ।। ३.३.७२० ।।
स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः ।। ३.३.७२१ ।।
मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च ।। ३.३.७२२ ।।
सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ।। ३.३.७२३ ।।
अजिरं विषये कायेऽप्यंबरं व्योम्नि वाससि ।। ३.३.७२४ ।।
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ।। ३.३.७२५ ।।
स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् ।। ३.३.७२६ ।।
गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे ।। ३.३.७२७ ।।
पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ।। ३.३.७२८ ।।
मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ।। ३.३.७२९ ।।
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ।। ३.३.७३० ।।
तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ।। ३.३.७३१ ।।
औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने ।। ३.३.७३२ ।।
पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ।। ३.३.७३३ ।।
व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः ।। ३.३.७३४ ।।
अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ।। ३.३.७३५ ।।
छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ।। ३.३.७३६ ।।
मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् ।। ३.३.७३७ ।।
शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ।। ३.३.७३८ ।।
गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ।। ३.३.७३९ ।।
जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ।। ३.३.७४० ।।
अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ।। ३.३.७४१ ।।
उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ।। ३.३.७४२ ।।
एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ।। ३.३.७४३ ।।
स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ ।। ३.३.७४४ ।।
उदारौ दातृमहतोरितरस्त्वन्यनीचयोः ।। ३.३.७४५ ।।
मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः ।। ३.३.७४६ ।।
आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा ।। ३.३.७४७ ।।
धाराम्बुपाते चोत्कर्षेऽस्त्रौ कटाहे तु कर्परः ।। ३.३.७४८ ।।
बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः ।। ३.३.७४९ ।।
चरुः स्थाल्यां हविः पक्तावधीरः कातरे चले ।। ३.३.७५० ।।
।। । इति रान्ताः ।।
चूडा किरीटं केशाश्च संयता मौलयस्त्रयः ।। ३.३.७५१ ।।
द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ।। ३.३.७५२ ।।
कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः ।। ३.३.७५३ ।।
स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः ।। ३.३.७५४ ।।
करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ।। ३.३.७५५ ।।
स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः ।। ३.३.७५६ ।।
वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ।। ३.३.७५७ ।।
भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ।। ३.३.७५८ ।।
मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् ।। ३.३.७५९ ।।
शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु ।। ३.३.७६० ।।
कला शिल्पे कालभेदे चाली सख्यावली अपि ।। ३.३.७६१ ।।
अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ।। ३.३.७६२ ।।
बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु ।। ३.३.७६३ ।।
लीला विलासक्रिययोरुपला शर्करापि च ।। ३.३.७६४ ।।
शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः ।। ३.३.७६५ ।।
जालं समूह आनायगवाक्षक्षारकेष्वपि ।। ३.३.७६६ ।।
शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ।। ३.३.७६७ ।।
छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ।। ३.३.७६८ ।।
अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् ।। ३.३.७६९ ।।
और्वानलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु ।। ३.३.७७० ।।
कुकूलम् शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ।। ३.३.७७१ ।।
निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ।। ३.३.७७२ ।।
पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ।। ३.३.७७३ ।।
प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ।। ३.३.७७४ ।।
करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः ।। ३.३.७७५ ।।
मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ।। ३.३.७७६ ।।
कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः ।। ३.३.७७७ ।।
स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः ।। ३.३.७७८ ।।
हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् ।। ३.३.७७९ ।।
तूलिश्चित्रोपकरणशलाकातूलशय्ययोः ।। ३.३.७८० ।।
तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि ।। ३.३.७८१ ।।
।। । इति लान्ताः ।।
दवदावौ वनारण्यवह्नी जन्महरौ भवौ ।। ३.३.७८२ ।।
मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः ।। ३.३.७८३ ।।
अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ।। ३.३.७८४ ।।
भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ।। ३.३.७८५ ।।
स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ।। ३.३.७८६ ।।
अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ।। ३.३.७८७ ।।
उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः ।। ३.३.७८८ ।।
अनुभावः प्रभावे च सतां च मतिनिश्चये ।। ३.३.७८९ ।।
स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ।। ३.३.७९० ।।
शूद्रायां विप्रतनये शस्त्रे पारशवो मतः ।। ३.३.७९१ ।।
ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु ।। ३.३.७९२ ।।
स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने ।। ३.३.७९३ ।।
स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ।। ३.३.७९४ ।।
शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः ।। ३.३.७९५ ।।
द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ।। ३.३.७९६ ।।
क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे ।। ३.३.७९७ ।।
।। । इति वान्ताः ।।
द्वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ ।। ३.३.७९८ ।।
द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ ।। ३.३.७९९ ।।
रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ।। ३.३.८०० ।।
कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ।। ३.३.८०१ ।।
पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च ।। ३.३.८०२ ।।
दशावस्थानेकविधाप्याशा तृष्णापि चायता ।। ३.३.८०३ ।।
वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु ।। ३.३.८०४ ।।
स्यात्कर्कशः साहसिकः कठोरामसृणावपि ।। ३.३.८०५ ।।
प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ।। ३.३.८०६ ।।
नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे ।। ३.३.८०७ ।।
नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येऽंशवः कराः ।। ३.३.८०८ ।।
आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः ।। ३.३.८०९ ।।
।। । इति शान्ताः ।।
सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ।। ३.३.८१० ।।
काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ ।। ३.३.८११ ।।
अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ।। ३.३.८१२ ।।
पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः ।। ३.३.८१३ ।।
शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ।। ३.३.८१४ ।।
कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः ।। ३.३.८१५ ।।
द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ।। ३.३.८१६ ।।
ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे ।। ३.३.८१७ ।।
कर्षूर्वार्त्ता करीषाग्निः कर्षः कुल्याभिधायिनी ।। ३.३.८१८ ।।
पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च ।। ३.३.८१९ ।।
उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ।। ३.३.८२० ।।
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् ।। ३.३.८२१ ।।
प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ।। ३.३.८२२ ।।
त्विट्शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः ।। ३.३.८२३ ।।
प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ।। ३.३.८२४ ।।
व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ ।। ३.३.८२५ ।।
कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा ।। ३.३.८२६ ।।
दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे ।। ३.३.८२७ ।।
शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे ।। ३.३.८२८ ।।
।। । इति षान्ताः ।।
रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू ।। ३.३.८२९ ।।
वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ।। ३.३.८३० ।।
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ।। ३.३.८३१ ।।
पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे ।। ३.३.८३२ ।।
देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ।। ३.३.८३३ ।।
विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ।। ३.३.८३४ ।।
लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ।। ३.३.८३५ ।।
प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ।। ३.३.८३६ ।।
ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु ।। ३.३.८३७ ।।
पापापराधयोरागः खगबाल्यादिनोर्वयः ।। ३.३.८३८ ।।
तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः ।। ३.३.८३९ ।।
रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ।। ३.३.८४० ।।
छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ।। ३.३.८४१ ।।
सहो बलं सहा मार्गो नभः खं श्रावणो नभाः ।। ३.३.८४२ ।।
ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोऽंबु च ।। ३.३.८४३ ।।
ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ।। ३.३.८४४ ।।
तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु ।। ३.३.८४५ ।।
विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी ।। ३.३.८४६ ।।
वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः ।। ३.३.८४७ ।।
वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ।। ३.३.८४८ ।।
।। । इति सान्ताः ।।
दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः ।। ३.३.८४९ ।।
द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ।। ३.३.८५० ।।
तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ।। ३.३.८५१ ।।
पत्नीपरिजनादानमूलशापाः परिग्रहाः ।। ३.३.८५२ ।।
दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः ।। ३.३.८५३ ।।
व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः ।। ३.३.८५४ ।।
परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे ।। ३.३.८५५ ।।
।। । इति हान्ताः ।।
==नानार्थाव्ययवर्गः ।।==
आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ।। ३.४.८५६ ।।
आप्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः ।। ३.४.८५७ ।।
पापकुत्सेषदर्थे कु धिङ्निर्भर्त्सननिन्दयोः ।। ३.४.८५८ ।।
चान्वाचयसमाहारेतरेतरसमुच्चये ।। ३.४.८५९ ।।
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ।। ३.४.८६० ।।
स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे ।। ३.४.८६१ ।।
सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः ।। ३.४.८६२ ।।
प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ।। ३.४.८६३ ।।
पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ।। ३.४.८६४ ।।
खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ।। ३.४.८६५ ।।
हन्त हर्षेनुकम्पायां वाक्यारम्भविषादयोः ।। ३.४.८६६ ।।
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।। ३.४.८६७ ।।
इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ।। ३.४.८६८ ।।
प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि ।। ३.४.८६९ ।।
यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ।। ३.४.८७० ।।
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ।। ३.४.८७१ ।।
वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः ।। ३.४.८७२ ।।
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ।। ३.४.८७३ ।।
प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ।। ३.४.८७४ ।।
गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ।। ३.४.८७५ ।।
उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ।। ३.४.८७६ ।।
अमा सह समीपे च कं वारिणि च मूर्धनि ।। ३.४.८७७ ।।
इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ।। ३.४.८७८ ।।
तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने ।। ३.४.८७९ ।।
नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ।। ३.४.८८० ।।
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।। ३.४.८८१ ।।
हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ।। ३.४.८८२ ।।
पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ।। ३.४.८८३ ।।
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ।। ३.४.८८४ ।।
ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् ।। ३.४.८८५ ।।
स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल ।। ३.४.८८६ ।।
निषेधवाक्यालङ्कारजिज्ञासानुनये खलु ।। ३.४.८८७ ।।
समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः ।। ३.४.८८८ ।।
नामप्राकाश्ययोः प्रदुर्मिथोऽन्योन्यं रहस्यपि ।। ३.४.८८९ ।।
तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ।। ३.४.८९० ।।
अहहेत्यद्भुते खेदे हि हेताववधारणे ।। ३.४.८९१ ।।
।। । इति नानार्थवर्गः ३, अत्र मूलश्लोकाः २५६ । । ।।
।। क्षे.श्लो. २४ । । ।।
==।। अव्ययवर्गः । ।।==
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ।। ३.५.८९२ ।।
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ।। ३.५.८९३ ।।
स्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते ।। ३.५.८९४ ।।
बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ।। ३.५.८९५ ।।
पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने ।। ३.५.८९६ ।।
यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ।। ३.५.८९७ ।।
कदाचिज्जातु सार्धं तु साकं सत्रा समं सह ।। ३.५.८९८ ।।
आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ।। ३.५.८९९ ।।
आहो उताहो किमुत विकल्पे किं किमूत च ।। ३.५.९०० ।।
तु हि च स्म ह वै पादपूरणे पूजने स्वति ।। ३.५.९०१ ।।
दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति ।। ३.५.९०२ ।।
तिर्यगर्थे साचि तिरोऽप्यथ संबोधनार्थकाः ।। ३.५.९०३ ।।
स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् ।। ३.५.९०४ ।।
अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ।। ३.५.९०५ ।।
स्वाहा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा ।। ३.५.९०६ ।।
किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ।। ३.५.९०७ ।।
व वा यथा तथेवैवं साम्येऽहो हीति विस्मये ।। ३.५.९०८ ।।
मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ।। ३.५.९०९ ।।
दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा ।। ३.५.९१० ।।
अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ।। ३.५.९११ ।।
युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते ।। ३.५.९१२ ।।
अभावे नह्य नो नापि मा स्म मालं च वारणे ।। ३.५.९१३ ।।
पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् ।। ३.५.९१४ ।।
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ।। ३.५.९१५ ।।
समन्ततस्तु परितः सर्वतो विष्वगित्यपि ।। ३.५.९१६ ।।
अकामानुमतौ काममसूयोपगमेस्तु च ।। ३.५.९१७ ।।
ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने ।। ३.५.९१८ ।।
निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम् ।। ३.५.९१९ ।।
मृषा मिथ्या च वितथे यथार्थं तु यथातथम् ।। ३.५.९२० ।।
स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ।। ३.५.९२१ ।।
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ।। ३.५.९२२ ।।
संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ।। ३.५.९२३ ।।
अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः ।। ३.५.९२४ ।।
सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ।। ३.५.९२५ ।।
अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि ।। ३.५.९२६ ।।
हुं तर्के स्यादुषा रात्रेरवसानेनमो नतौ ।। ३.५.९२७ ।।
पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने ।। ३.५.९२८ ।।
सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ।। ३.५.९२९ ।।
अमानुगुण्ये स्मरणे हुं फड्विघ्ननिराकृतौ ।। ३.५.९३० ।।
अङ्गीकृतौ स्यादर्थे हूं हीनसंबोधते त्वरे ।। ३.५.९३१ ।।
परुत्परार्थैषमोऽब्दे पूर्वे पूर्वतरे यति ।। ३.५.९३२ ।।
अद्यऽत्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ।। ३.५.९३३ ।।
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ।। ३.५.९३४ ।।
उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि ।। ३.५.९३५ ।।
ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि ।। ३.५.९३६ ।।
तदा तदानीं युगपदेकदा सर्वदा सदा ।। ३.५.९३७ ।।
एतर्हि संप्रतीऽदानीमधुना साम्प्रतं तथा ।। ३.५.९३८ ।।
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ।। ३.५.९३९ ।।
।। % इत्यव्ययवर्गः ४, अत्र मूलश्लोकाः २३ ।।
==।। लिङ्गादिसंग्रहवर्गः । ।।==
।। । अथ लिङ्गादिसंग्रहवर्गः ५ ।।
सलिङ्गशास्त्रैः सन्नादि कृत्तद्धित समासजैः ।। ३.६.९४० ।।
अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ।। ३.६.९४१ ।।
लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः ।। ३.६.९४२ ।।
स्त्रियामीदूद्विरामैकाच्सयोनिप्राणिनाम च ।। ३.६.९४३ ।।
नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् ।। ३.६.९४४ ।।
अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः ।। ३.६.९४५ ।।
तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् ।। ३.६.९४६ ।।
स्त्रीभावादावनि क्तिण् ण्वुल्णच्ण्वुच्क्यब्युजिञ्ङ्नि शाः ।। ३.६.९४७ ।।
उणादिषु निरूरीश्च ङ्याषूडन्तं चलं स्थिरम् ।। ३.६.९४८ ।।
तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक् ।। ३.६.९४९ ।।
घञो ञः सा क्रियास्यां चेद्दाण्डपाता हि फाल्गुनी ।। ३.६.९५० ।।
श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक् ।। ३.६.९५१ ।।
स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि ।। ३.६.९५२ ।।
लङ्का शेफालिका टीका धातकीपञ्चिकाढकी ।। ३.६.९५३ ।।
सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका ।। ३.६.९५४ ।।
तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः ।। ३.६.९५५ ।।
पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत् ।। ३.६.९५६ ।।
सातिः कन्था तथासन्दी नाभी राजसभापि च ।। ३.६.९५७ ।।
झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला ।। ३.६.९५८ ।।
लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ।। ३.६.९५९ ।।
।। । इति स्त्रीलिङ्ग संग्रहः ।।
पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः ।। ३.६.९६० ।।
स्वर्गयागाद्रिमेघाब्धि द्रु कालासिशरारयः ।। ३.६.९६१ ।।
करगण्डोष्ठदोर्दन्तकन्ठकेशनखस्तनाः ।। ३.६.९६२ ।।
अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः ।। ३.६.९६३ ।।
श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः ।। ३.६.९६४ ।।
कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ।। ३.६.९६५ ।।
कषणभमरोपान्ता यद्यदन्ता अमी अथ ।। ३.६.९६६ ।।
पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ।। ३.६.९६७ ।।
नाम्न्यकर्तरि भावे च घञ् जब्नङ्ण घाथुचः ।। ३.६.९६८ ।।
ल्युः कर्तरीमनिच्भावे को घोः किः प्रादितोन्यतः ।। ३.६.९६९ ।।
द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते ।। ३.६.९७० ।।
कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वको.पि च ।। ३.६.९७१ ।।
वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः ।। ३.६.९७२ ।।
पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः ।। ३.६.९७३ ।।
कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् ।। ३.६.९७४ ।।
गडुः करण्डो लगुडो करण्डश्च किणो घुणः ।। ३.६.९७५ ।।
दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः ।। ३.६.९७६ ।।
कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ ।। ३.६.९७७ ।।
आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ।। ३.६.९७८ ।।
पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ।। ३.६.९७९ ।।
वेतालभल्लमल्लाश्च पुराडाशोऽपि पट्टिशः ।। ३.६.९८० ।।
कुल्माषो रभसश्चैव सकटाहः पतद्रहः ।। ३.६.९८१ ।।
।। । इति पुंलिङ्गशेषसंग्रहः ।।
द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् ।। ३.६.९८२ ।।
शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ।। ३.६.९८३ ।।
फलहेमशुल्बलोहसुखदुह्खशुभाशुभम् ।। ३.६.९८४ ।।
जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ।। ३.६.९८५ ।।
कोट्याः शतादिसंख्यान्या वा लक्षा नियुतं च तत् ।। ३.६.९८६ ।।
द्वयष्कमसिसुसन्नन्तं यदनान्तमकर्तरि ।। ३.६.९८७ ।।
त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् ।। ३.६.९८८ ।।
पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ।। ३.६.९८९ ।।
द्वन्द्वैक्त्वाव्ययीभावौ पथः संख्याव्ययात्परः ।। ३.६.९९० ।।
शड्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ।। ३.६.९९१ ।।
शालार्थापि परा राजामनुष्यार्थादराजकात् ।। ३.६.९९२ ।।
दासीसभं नृपसभं रक्षस्सभमिमा दिशः ।। ३.६.९९३ ।।
उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने ।। ३.६.९९४ ।।
कोपज्ञकोपक्रमादि कन्थोशीनरनामसु ।। ३.६.९९५ ।।
भावे न णकचिद्भ्योऽन्ये समूहे भावकर्मणोः ।। ३.६.९९६ ।।
अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ।। ३.६.९९७ ।।
क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके ।। ३.६.९९८ ।।
चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ।। ३.६.९९९ ।।
राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ।। ३.६.१००० ।।
माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम् ।। ३.६.१००१ ।।
लोकायतं हरितालं विदलस्थालबाह्लिकम् ।। ३.६.१००२ ।।
।। । इति नपुंसकशेषसंग्रहः ।।
पुन्नपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ।। ३.६.१००३ ।।
मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः ।। ३.६.१००४ ।।
पातकोद्योगचरकतमालामलका नडः ।। ३.६.१००५ ।।
कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् ।। ३.६.१००६ ।।
संगमं शतमानार्मशम्बलाव्ययताण्डवम् ।। ३.६.१००७ ।।
कवियं कन्दकार्पासं पारावारं युगन्धरम् ।। ३.६.१००८ ।।
यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ।। ३.६.१००९ ।।
अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् ।। ३.६.१०१० ।।
तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ।। ३.६.१०११ ।।
।। । इति पुन्नपुंसकशेषसंग्रहः ।।
स्त्रीपुंसयोरपत्यान्ता द्विचतुष्षट्पदोरगाः ।। ३.६.१०१२ ।।
जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ।। ३.६.१०१३ ।।
ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः ।। ३.६.१०१४ ।।
मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ।। ३.६.१०१५ ।।
।। । इति स्त्रीपुंसशेषसंग्रहः ।।
स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ् क्वचिच्च वुञ् ।। ३.६.१०१६ ।।
औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः ।। ३.६.१०१७ ।।
षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः ।। ३.६.१०१८ ।।
स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् ।। ३.६.१०१९ ।।
आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् ।। ३.६.१०२० ।।
त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ।। ३.६.१०२१ ।।
।। । इति स्त्रीनपुंसकशेषसंग्रहः ।।
त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ ।। ३.६.१०२२ ।।
।। इति त्रिलिङ्गशेषसंग्रहः ।।
परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ।। ३.६.१०२३ ।।
अर्थान्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः ।। ३.६.१०२४ ।।
तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः ।। ३.६.१०२५ ।।
बहुर्व्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् ।। ३.६.१०२६ ।।
गुणद्रव्यक्रियायोगोपाधयः परगामिनः ।। ३.६.१०२७ ।।
कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि ।। ३.६.१०२८ ।।
अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ।। ३.६.१०२९ ।।
षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम् ।। ३.६.१०३० ।।
परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ।। ३.६.१०३१ ।।
।। इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।।
।। सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ।।