अमृतबिन्दु


ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

         ॐ शान्तिः शान्तिः शान्तिः ।
         हरिः ॐ ॥

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ 1॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय पिष्यासक्तं मुक्तंये निर्विषयं स्मृतम् ॥ 2॥

यतो निर्विष्यस्यास्य मनसो मुक्तिरिष्यते । अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥ 3॥

निरस्तनिषयासङ्गं संनिरुद्धं मनो हृदि । यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् ॥ 4॥

तावदेव निरोद्धव्यं यावद्धृति गतं क्षयम् । एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः ॥ 5॥

नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥ 6॥

स्वरेण संधयेद्योगमस्वरं भावयेत्परम् । अस्वरेणानुभावेन नाभावो भाव इष्यते ॥ 7॥

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तदब्रह्मामिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ 8॥

निर्विकल्पमनन्तं च हेतुद्याष्टान्तवर्जितम् । अप्रमेयमनादिं च यज्ञात्वा मुच्यते बुधः ॥ 9॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ 10॥

एक एवाऽऽत्मा मन्थव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ 11॥

एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृष्यते जलचन्द्रवत् ॥ 12॥

घटसंवृतमाकाशं नीयमानो घटे यथा । घटो नीयेत नाऽकाशः तद्धाज्जीवो नभोपमः ॥ 13॥

घटवद्विविधाकारं भिद्यमानं पुनः पुनः । तद्भेदे न च जानाति स जानाति च नित्यशः ॥ 14॥

शब्दमायावृतो नैव तमसा याति पुष्करे । भिन्नो तमसि चैकत्वमेक एवानुपश्यति ॥ 15॥

शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् । तद्विद्वानक्षरं ध्यायेच्द्यदीच्छेछान्तिमात्मनः ॥ 16॥

द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् । शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति ॥ 17॥

ग्रन्थमभ्यस्य मेधावी ज्ञानवीज्ञानतत्परः । पलालमिव धान्यार्यी त्यजेद्ग्रन्थमशेषतः ॥ 18॥

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पष्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ 19॥

धृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् । सततं मनसि मन्थयितव्यं मनु मन्थानभूतेन ॥ 20॥

ज्ञाननेत्रं समाधाय चोद्धरेद्वह्गिवत्परम् । निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ 21॥

सर्वभूताधिवासं यद्भूतेषु च वसत्यपि । सर्वानुग्राहकत्वेन तद्स्म्यहं वासुदेवः ॥ 22॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

  ॐ शान्तिः शान्तिः शान्तिः ।
      

॥ इत्यथर्ववेदेऽमृत्बिन्दूपनिषत्समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=अमृत-बिन्दु_उपनिषद्&oldid=37615" इत्यस्माद् पुनः प्राप्तिः