अम्बाष्टकम्
शङ्कराचार्यः
१९३२

श्रीशंकराचार्यकृतम्
अम्बाष्टकम् ।
टिप्पणसहितम् ।

चेटीभवन्निखिलखेटी कदम्बतरुवाटीषु नाकिपटली-
कोटीरचारुतरकोटीमणीकिरणकोटीकरम्बितपदा ।
पाटीरगन्धिकुजशाटी कवित्वपरिपाटीमगाधिपसुता
घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ १ ॥

 अगाधिपो हिमाद्रिस्तत्सुता । ममेति शेषः । मम कवित्वस्य कवितायाः परिपाटीमतिपरिचितिमुदारः कवित्वादिगुणप्रसरकर्ता चासौ मुखवीटीरसस्तेन स्वमुखचर्वितताम्बूलरसेन तनुतां विस्तारयतु । कीदृश्यगाधिपसुता। कदम्बतरूणां वाटीषूद्यानेषु चेटीभवन्त्यो दासीभवन्त्यो निखिलाः सर्वाः खेट्यो गगनचारिण्यः सिद्धचारणविद्याधरादिस्त्रियो यस्याः सा । पुनः कीदृशी । नाकिनां देवानां पटली समूहस्तस्याः कोटीराणि मुकुटास्तेषां चारुतरा अतिसुन्दराश्च ताः कोटीमणयोऽग्रभागस्थितरत्नानि तासां किरणकोट्योऽसंख्याः किरणास्ताभिः करम्बिते व्यामिश्रे पदे यस्याः सा । पुनः कीदृशी । पाटीरस्य चन्दनस्येव गन्धो यस्या एतादृशी कुचशाटी कञ्चुकी यस्याः सा । कीदृशीं कवित्वपरिपाटीम् । घोटीनां [वडवानां] कुलं समूहस्तस्मादधिका धाटी घोरणी यस्यास्ताम् ॥

कूलातिगामिभयतूलावलिज्वलनकीला निजस्तुतिविधा-
कोलाहलक्षपितकालामरी कुशलकीलालपोषणनभाः ।
स्थूला कुचे जलदनीला कचे कलितलीला कदम्ब विपिने
शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥२॥

 अमरी देवी । शैलाधिराजस्य हिमाद्रेस्तनया पार्वती हृदि विभातु स्फुरतु । कीदृशी । कूलं सीमा । कूलमतीत्य गच्छन्तीति कूलातिगामीनि तानि च तानि भयानि तान्येव तूलावलयः कार्पासराशयस्तासां ज्वलने प्रदीपने कीलेवाग्निज्वालेव । पुनः कीदृशी । निजा चासौ स्तुतिस्तस्या विधा विधानं तस्या यः कोलाहलस्तेन क्षपितो दूरीकृतः कालो मृत्युलक्षणादिर्दुष्टसमयो यया सा । पुनः कीदृशी । कुशलमेव कीलालं जलं तेन पोषणं पालनं तद्विषये नभा मेघ इव । 'मेघश्रावणवृष्टिषु । नमः' इति रत्नकोषः । पुनः कीदृशी । कुचे स्थूला। पीनस्तनीत्यर्थः । कचे केशपाशे जलदनीला । नीलालकेत्यर्थः । कदम्बविपिने कलिता कृता लीला यया सा। पुनः कीदृशी । शूलायुधस्य शिवस्य प्रणतो शीलं यस्याः सा ॥

यत्राशयो लगति तत्रागजा वसतु कुत्रापि निस्तुलशुका
सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा ।
छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः
कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा ॥ ३ ॥

 अमरीभिः समं सहवर्तमाना वधूः शक्तिः । ब्राह्दिभिः सहिता शक्तिरित्यर्थः । एतादृश्यगजा पार्वती । ममेति शेषः । आशयश्चित्तवृत्तिर्यन्न् शब्दस्पर्शादौ लगति विष- ज्जति तत्र कुत्रापि वसतु । शब्दादिविषयचिन्तनावसरे खरूपाविर्भावं करोतीत्यर्थः । कीदृश्यगजा । निस्तुलोऽनुपमः शुको यस्याः सा । अर्थाद्धस्ते । पुनः कीदृशी । सुत्रामा इन्द्रः, कालो यमः, तौ मुखे प्रारम्भे येषां ते च ते सत्राशना यज्ञभुजो देवास्तेषां प्रकरः समूहस्तस्य सुत्राणं रक्षणं तत्करणशीलौ चरणौ यस्याः सा । पुनः कीदृशी । अनिला- द्वायोरप्यतिवेगवत्पत्रं सिंहरूपं वाहनं यस्याः सा । छनोपलक्षिता चासावनिलातिर- यपत्रा च । पुनः कीदृशी । अभिरामाश्च ते गुणाः सौन्दर्यादयश्च ते मित्राणि यस्याः सा। पुनः कीदृशी । कोः पृथिव्याखासं हन्तीति कुत्रासहा विष्णुस्तस्य मणिः कौस्तुभस्तद्व- देदीप्यमाना विचित्राकृतिराकारो यस्याः सा । स्फुरितानां कीादियुक्तानां पुत्रादीनां दाने निपुणा ॥

द्वैपायनप्रभृतिशापायुधत्रिदिवसोपानधूलिचरणा
पापापहस्वनुजापानुलीनजनतापापनोदनिपुणा ।

नीपालया सुरभिधूपालका दुरितकूपादुदञ्चयतु मां
रूपाधिका शिखरिभूपालवंशमणिदीपायिता भगवती ॥ ४ ॥

 शिखरिणः पर्वतास्तेषां भूपालोऽधिपतिस्तस्य वंशः संततिस्तत्र रत्नदीपवदाचरिता भगवती मां दुरितलक्षणात्कूपादुच्चयतु बहिर्निष्कासयतु । कीदृशी भगवती । द्वैपायन- प्रभृतयो व्यासाद्या ये शापायुधा मुनयस्तेषां त्रिदिवं स्वर्ग प्रति गन्तुं सोपानमिव धूलिर्य- योस्तादृशौ चरणौ यस्याः सा । पुनः कीदृशी । पापं हन्तीति तादृशश्चासौ स्वमनुः खकीयो मन्त्रस्तस्य जापे जपकर्मण्यनुलीनास्तत्परा ये जनास्तेषां तापापनोदे निपुणा । पुनः कीदृशी । नीपेषु कदम्बवनेष्वालयो यस्याः सा । सुरभिश्चासौ धूपत्तद्वासिता अलकाचूर्णकुन्तला यस्याः सा । 'सुरवधूपालिका' इति वा पाठः । पुनः कीदृशी । रूपेण सौन्दर्येणाधिका॥

यालीमिरात्मतनुताली सकृत्प्रियकपालीषु खेलति भय-
व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा ।
बालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका
सालीकरोतु मम काली मनः खपदनालीकसेवन विधौ ॥ ५॥

 सा काली मम मनः स्वपदनालीकयोरात्मीयचरणकमलयोः सेवनविधावलीकरोतु भ्रमरीकरोतु । सा का। यालीभिः सखीभिः सकृत् । सहेत्यर्थः । प्रियस्य शिवस्य कपा- लीषु कण्ठमालास्थकरोटिष्वात्मना स्वभावेन तनुः सूक्ष्मां ताली करेणास्फालनं यस्याः सा । एतादृशी सती खेलति क्रीडति । पुनः कीदृशी । भयमेव व्याली सर्पिणी तस्या नकुलीव नकुली । भयापहारिणीत्यर्थः । पुनः कीदृशी । असितचूलीभरा कृष्णकेश- पाशा । पुनः कीदृशी । चरणधूल्यां लसन्तो मुनिवरा यस्याः सा । या देवी बाली कर्णभूषणविशेष विभर्ति तादृशे श्रवणे तालीदलं ताटङ्कपत्रं वहृति दधाति । पुनः कीहशी। अलीके ललाटे शोभमानस्तिलको यस्याः सा ॥

न्यङ्काकरे वपुषि कङ्कादिरक्तपुषि कङ्कादिपक्षिविषये
त्वं कामनामयसि किं कारणं हृदय पङ्कारिमेहि गिरिजाम् ।
शङ्काशिलानिशितटङ्कायमानपदसंकाशमानसुमनो-
झंकारिभृङ्गतिमानुपेतशशिसंकाशिवक्त्रकमलाम् ॥ ६॥

 हे हृदय, त्वं वपुषि शरीरे कामनां लुब्धतामयसि गच्छसि । किं कारणम् । अत्र किं प्रयोजनमित्यर्थः ।पङ्कारिं पापनाशकर्त्रीं गिरिजां प्रत्येहि शरणं गच्छ । कीदृशे वपुषि । नियतमकन्तीति न्यङ्का कृम्यादयः । 'अति कुटिलायां गतौ । तेषामाकरे । कङ्कादि- पक्षिणां रक्तेन पुष्यते तस्मिन् । रक्तपदं मांसाद्युपलक्षणम् । पुनः कीदृशे । कङ्कादि- पक्षिणां विषये । 'पङ्कादिविभक्ष्यविषये' इति वा पाठः । कीदृशीं गिरिजाम् । शङ्का एव शिलास्तासां भेदकत्वेन टङ्कायमानं यत्पदं तस्मिन्संकाशमानाः सुमनसः पुष्पाणि तत्र झंकारिणी मृगततिर्यस्याः सा । पुनः कीदृशे । अङ्केनानुपेतो रहितो यश्चन्द्रस्तद्वत्सं- काशि वक्रकमलं यस्याः सा। निष्कलङ्कचन्द्रवद्रमणीयमुखाम्बुजेत्यर्थः । ताम् ॥

कुम्बावतीसमविडम्बा गलेन नवतुम्बाभवीणसविधा
शं बाहुलेयशशिबिम्बाभिराममुखसंबाधितस्तनभरा ।
अम्बा कुरङ्गमदजम्बालरोचिरिह लम्बालका दिशतु मे
बिम्बाधरा विनतशम्बायुधादिनिकुरम्बा कदम्बविपिने ॥ ७ ॥

 अम्बा शं म इह ददातु । कीदृश्यम्बा । कुम्बा कण्टका दिना भित्तिस्थाने कृतं सुग- हनमावरणम् । अरण्यवातिवात्सास्त्यस्य कुम्बावाञ्बरः । तस्य स्त्री कुम्बावती शबरी तया समस्तुल्यो विडम्बो यस्याः । शबर्यनुकारिणीत्यर्थः । पुनः कीदृशी । गलेन कला नवा चासौ तुम्बा तुम्बफलं तेनाभाति सा नवतुम्बामा सा चासौ वीणा च तया समाना विधाः स्वरप्रकारा यस्याः सा । वीणाखनतुल्यकण्ठरवेत्यर्थः । पुनः कीदृशी। कस्तूरीकर्दमशरीरकान्तिः । पुनः कीदृशी । लम्बालका दीर्घकेशा । बाहुलेयस्य कार्ति- केयस्य शशिबिम्बवदभिरामं मुखं तेन कृत्वा संबाधितः सुदृढमाकृष्टस्तनभरो यस्याः सा। बिम्बाधरा । पुनः कीदृशी । कदम्बविपिने शम्बायुध इन्द्र आदिर्येषां ते निकुरम्बा देवगणास्ते विनता यस्याः॥

इन्धानकीरमणिबन्धा भवे हृदयबन्धावतीवरसिका
संधावती भुवनसंधारणेऽप्यमृतसिन्धावुदारनिलया ।
गन्धानुभावमुहुरन्धालिवीतकचबन्धा समर्पयतु मे
शंधाम भानुमपि रुन्धानमाशु पदसंधानमप्यगसुता ॥ ८॥

 अगसुता पदसंधानं मय्यर्पयतु । कीदृश्यगसुता । इन्धन्ते प्रकाशन्ते, इध्यते प्रका- श्यते यैस्ते वा इन्धानाः। ते च कीरवर्णमणयो हरिन्मणयो गारुत्मताख्यास्तेषां बन्धो हाररचना यस्यां सा । यस्याः कण्ठ इत्यर्थः । पुनः कीदृशी । हृदयबन्धौ भवे शिवेऽतीव रसिका। भुवनसंधारणे लोकपालने संधावती प्रतिज्ञायुक्ता । पुनः कीदृशी । अमृतसि- न्धावुदारो महाभिलयो यस्याः सा । गन्धस्य अर्थादुपरिगुम्फितपुष्पाणाम् । अनुभा- घोऽनुभवस्तेन मुहुरन्धा मत्तास्ते च तेऽलिनो भ्रमरास्तैवीतो व्याप्तः कचबन्धो यस्याः सा। कीदृशं पदसंधानम् । शं सुखं तस्य धाम । 'शम्' इति सुखार्थेऽव्ययम् । पुनः कीदृशम् । भानुमपि रुन्धानम् । सूर्यादप्यधिकतेजस्वीत्यर्थः ॥

इति श्रीशंकराचार्यविरचितमम्बाष्टकं टिप्पणसहितं समाप्तम् ।

"https://sa.wikisource.org/w/index.php?title=अम्बाष्टकम्&oldid=287041" इत्यस्माद् प्रतिप्राप्तम्