अर्थशास्त्रप्रकाशनस्य शततमं वर्षम्

अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


कौटिल्येन रचित: अर्थशास्त्रग्रन्थ: शतात् वर्षेभ्य: पूर्वं, तन्नाम 1909 तमे वर्षे, प्रकाशित: अभवत् ऐदम्प्राथम्येन । तावत्पर्यन्तम् अपि अर्थशास्त्रग्रन्थ: केनापि न दृष्ट: आसीत् । तावत्पर्यन्तम् अपि तस्य नामोल्लेखमात्रं भवति स्म, न तु प्रत्यक्षदर्शनम् !! एतस्य ग्रन्थस्य प्रथमप्रकाशक: अस्ति ‘रुद्रपत्तनं श्यामशास्त्री’ (1868 - 1944) । एतस्य ग्रन्थस्य प्राप्ति: अपि अभवत् आकस्मिकतया एव । 1891 तमे वर्षे मैसूरुसंस्थानस्य महाराज: विक्टोरियाराज्ञ्या: सुवर्णमहोत्सवम् आचरितुम् इच्छन् ‘विक्टोरिया जुबिलि इन्स्टिट्यूट्’नामकं भवनं निर्मापितवान् । तच्च भवनं युरोप-गाथिक्-कोरियन्-रोमेनियन्-शिल्पकलादिभि: उपेतं सत् रमणीयतया शोभते स्म । तस्य भवनस्य भित्तय: होय्सळकलाकृतिभि: विभूषिता: आसन्, याश्च कलाकृतय: भग्नेभ्य: होय्सळमन्दिरेभ्य: आनीता: आसन् । तस्य भवनस्य पुरत: काश्चन अपूर्वा: शिलालेखा: अपि प्रतिष्ठापिता: आसन् । तस्मात् तस्य भवनस्य पारम्परिकता विद्योतते स्म ।

तस्मिन् भवने सहस्राधिका: अपूर्वा: ताडग्रन्था: सङ्गृहीता:, ‘मैसूरु-प्राच्यग्रन्थालय:’ (मैसूरु ओरियण्टल् लैब्ररी) इति नाम कृतं च । इदानीं स: एव ‘प्राच्यविद्यासंशोधनालय:’ (ओ.आर्.ऐ.) इति नाम्ना निर्दिश्यमान: अस्ति । संशोधनालय: अयम् इदानीं मैसूरुविश्वविद्यालयस्य अधीन: अस्ति । एतेन एव संशोधनालयेन कौटिल्यस्य अर्थशास्त्रग्रन्थ: जगत: पुरत: ऐदम्प्राथम्येन उपस्थापित: । अद्य विक्टोरियाराज्ञी जनै: कदाचित् विस्मृता स्यात्, किन्तु अर्थशास्त्रग्रन्थस्य प्रकाशनेन एतस्य संशोधनालयस्य नाम चिरस्मरणीयं जातम् अस्ति समग्रे जगति ।

1900 तमे वर्षे रुद्रपत्तनीय: श्यामशास्त्रिवर्य: अस्मिन् संशोधनालये ग्रन्थपालत्वेन कार्यम् आरब्धवान् । रुद्रपत्तनं कावेरीनद्या: तीरे अस्ति । कर्णाटकसङ्गीतस्य आश्रयभूमि: तत् नगरम् । श्यामशास्त्री वेदवेदाङ्गादि-पारङ्गत: संस्कृत-प्राकृताङ्ग्ल-जर्मन्-प्रेञ्च-प्रभृतीनां बह्वीनां भाषाणाम् अभिज्ञ: च । ताडग्रन्थानाम् अध्ययने अपि तस्य विशेषपरिणति: आसीत् । नियुक्तिसमये स: आसीत् 32 वर्षदेशीय: । ग्रन्थपालपदे नियुक्तेन तेन प्रतिदिनं ताडग्रन्थान् परि-शीलयता ग्रन्थस्था: विषया: अवगन्तव्या: भवन्ति स्म । एतत् न सुकरं कार्यम् । जीर्णावस्थां गता: ते ताडग्रन्था: उन्नयनमात्रेण अपि खण्डिता: भवितुम् अर्हन्ति । अत: विशेषजागरूकतया एव ते स्प्रष्टव्या:, परिशीलनीया:, अध्येतव्या: च भवन्ति स्म । एकैकस्य ग्रन्थस्य एकैका लिपि: । लिपिवैविध्यात् विषयबाहुल्यात् च एतेषां परि-शीलनकार्यं मन्दगत्या एव प्रचलति स्म । दिनेषु गतेषु, मासेषु अतीतेषु, संवत्सरेषु प्रयातेषु अपि तस्य प्रयत्नस्य फलं तु उल्लेखार्हं न आसीत् । तथापि श्यामशास्त्री आशावान् आसीत् - एतेषु ताडग्रन्थेषु अपूर्व: ग्रन्थ: कोऽपि निहित: स्यात् इति । सहकारिषु उपहासं कुर्वत्सु अपि श्यामशास्त्री तु श्रद्धया परिश्रमपुरस्सरं स्वस्य कार्ये निरत: भवति स्म ।

1905 तमे वर्षे तेन कश्चन अपूर्व: ताडग्रन्थ: प्राप्त: । तस्य नाम आसीत् ‘अर्थशास्त्रम्’ इति । ‘चाणक्य:’ ‘विष्णुगुप्त:’ इत्यादिभि: नामभि: ख्यातेन कौटिल्येन विरचित: ग्रन्थ: स: । क्रिस्तात् पूर्वम् एव रचित: स: । एतं दृष्ट्वा केचन अभिप्रेतवन्त: यत् अयं मूल्यरहित: अनुकरणग्रन्थ: स्यात् कश्चन इति । अन्ये केचन तस्मिन् सारहीनताम् आरोपितवन्त: । किन्तु श्यामशास्त्रिणा तस्य प्रकाशनावसरे अध्ययनपुरस्सरं य: प्रस्ताव: लिखित: स: विमतिप्रदर्शकान् सर्वान् निर्वचनान् अकरोत्, प्राचीनसंस्कृतवाङ्मयस्य रत्नतुल्यत्वं तस्य ग्रन्थस्य प्रत्यपादयत् च ।

क्लीट: (लण्डनीय:), जोल्ली (जर्मनीय:), विण्टर्निट्स: (जर्मनीय:), थामस: (लण्डनीय:), पेल्लियोट: (फ्रान्सीय:), कीथ:, स्टेन् कोनोव: इत्यादय: बहव: विदेशीया: विद्वांस: श्यामशास्त्रिण: अमुं प्रयत्नं मुक्तकण्ठं प्राशंसन् । ‘अर्थशास्त्रक्षेत्रे नूतनस्य एव अध्यायस्य आरम्भ: जात: अस्ति’ इति अवदन् ते । आर्.के. मुखर्जि:, आशुतोषमुखर्जि:, बि.सि.लाव:, सि.आर्.रेड्डि: इत्यादय: अनेके भारतीया: मनीषिण: श्यामशास्त्रिण: परिश्रमविशेषं सामोदम् अभिनन्दितवन्त: । एतदवसरे विश्वविख्यात: कवीन्द्र: रवीन्द्रनाथठाकुर: स्वस्य हर्षप्रकर्षं प्राकटयत् । एवं दिनाभ्यन्तरे एव श्यामशास्त्रिण: नाम जगति एव विख्यातं जातम् । अचिरात् एव स च ग्रन्थ: फ्रेञ्च्जर्मन्प्रभृतिभि: बह्वीभि: भाषाभि: अनूदित: अभवत् अपि ।


श्यामशास्त्रिण: एतं विशिष्टं प्रयासं निमित्तीकृत्य वाशिङ्ग्टन्विश्वविद्यालय: (अमेरिकीय:) तस्मै ‘डाक्टरेट्’पदवीं प्रायच्छत् ( 1919) । ‘रायल् ऐशियाटिक् सोसैटी’ केम्प्बेल्सुवर्णपदकं फेलोशिप्गौरवं च प्रादात् । कलकत्ताविश्वविद्यालय: तस्मै ‘डाक्टरेट्’पदवीं प्रदाय (1921) तं न्यमन्त्रयत् यत् अर्थशास्त्रम् अधिकृत्य सरणिरूपेण भाषणानि करणीयानि इति । मैसूरुविश्वविद्यालय: तम् इतिहासप्राध्यापकत्वेन न्ययोजयत् । मैसूरुमहाराज: कृष्णराजवोडेयर: (चतुर्थ:) तस्मै ‘अर्थशास्त्रविशारद’बिरुदम् अयच्छत् । भारतसर्वकारेण महामहोपाध्यायपदवी प्रदत्ता (1930) । वाराणसेयया संस्कृतमण्डल्या ‘विद्यालङ्कार’‘पण्डितराज’बिरुदौ प्रदत्तौ (1935) । देशविदेशीया: बहव: प्राच्यसंस्थानादय: तस्य विद्वत्तां पुरस्कुर्वन्त: तदीयानि भाषणानि आयोजयन् ।

अग्रिमे काले शास्त्रिवर्येण गवेषणकार्ये अधिकं परिश्राम्यता बहव: विशिष्टांशा: विदुषां पुरत: उपस्थापिता: । तेन सम्पादिता: बहव: शिलालेखा: ताम्रलेखा: च मैसूरुराज्यस्य पुरातत्त्वशास्त्रविभागेन प्रकाशिता: । ग्रीक्नाटके ‘तुळु’भाषीया: शब्दा: सन्ति इत्यंश: अपि तेनैव गवेषित: ।

1927 तमे वर्षे कर्णाटकम् आगत: महात्म गान्धि: नन्दिपर्वते वासम् अकरोत् । तदवसरे तं द्रष्टुं गत: श्यामशास्त्री तस्मै आत्मना सम्पादितस्य अर्थशास्त्रस्य प्रतिकृतिं प्रादात् । तत: सम्भाषणावसरे स: गान्धिवर्यम् अवदत् - ‘‘मान्य ! प्राचीने काले पतञ्जलिहेमचन्द्रविद्यारण्यप्रभृतय: मार्गदर्शका: आसन् । किन्तु अद्य शासका: तादृशात् मार्गदर्शनात् वञ्चिता: सन्ति । भवता एव नैतिकदिशि देश: अग्रे नेतव्य:’’ इति । तदा गान्धिवर्य: मन्दहासपूर्वकम् अवदत् - ‘‘महतां मार्गदर्शनं स्यात् इति तु युक्तम् एव । किन्तु मम अभिप्राय: विषयेऽस्मिन् अन्य: एव अस्ति । जनानां मनस्सु आदौ परिवर्तनं भवेत् इति भावयामि अहम्’’ इति ।

श्यामशास्त्रिण: प्रसिद्धि: कियती आसीत् इत्येतत् निरूपयति अधोनिर्दिष्टा घटना । कदाचित् कृष्णराजवोडेयर: (चतुर्थ:) जर्मनीं गत: आसीत् । तत्र कस्मिंश्चित् सङ्घे तस्य भाषणं व्यवस्थापितम् आसीत् । तस्य परिचयं श्रावयन् व्यवस्थापक: तस्य मैसूरुमहाराजत्वं निरूपितवान् । भाषणस्य अन्ते कश्चन विद्वान् तत्समीपम् आगत्य तम् अपृच्छत् - ‘‘आर्य ! भवान् किं तस्यैव संस्थानस्य महाराज:, यत्र च अर्थशास्त्रस्य सम्पादनं कृतवान् श्यामशास्त्रिवर्य: निवसति ?’’ इति । सुदूरे स्थिते जर्मनीदेशे अपि श्यामशास्त्रिण: कीर्ते: प्रसारं दृष्ट्वा महाराज: महत् आश्चर्यं प्राप्नोत् । तत: प्रत्यागत: स: श्यामशास्त्रिणम् आहूय अवदत् - ‘‘श्यामशास्त्रिवर्य ! मैसूरुसंस्थाने अहं महाराज:, भवान् तु मम प्रजासु अन्यतम: । किन्तु जर्मनीदेशे मम अभिज्ञानं तु अस्ति भवन्नामग्रहणपुरस्सरम् एव । भवान् अस्ति विद्वल्लोकस्य चक्रवर्ती’’ इति ।

धार्मिकस्वभाववान् सरल: च श्यामशास्त्री तरुणसंशोधकानां विषये वात्सल्येन एव व्यवहरति स्म । तेन भारतस्य कीर्ति: सर्वत्र प्रसारिता । युरोपीया: विद्वांस: भावयन्ति स्म यत् प्राचीने भारते शासनव्यवस्थादय: ये दृश्यन्ते ते तु ग्रीक्त: स्वीकृता: इति । किन्तु श्यामशास्त्रिवर्य: अर्थशास्त्र-ग्रन्थस्य प्रकाशनात् प्रतिपादितवान् यत् कौटिल्येन प्रतिपादिता: एव शासन-व्यवस्थासम्बद्धा: बहव: अंशा: मोगलराजै: ब्रिटीशसर्वकारेण च आत्म-सात्कृता: आसन् इति । तादृशं विशिष्टं कार्यं शतात् वर्षेभ्य: पूर्वं कृतवन्तं तं मेधाविनं कृतज्ञतापूर्वकं स्मरेम खलु वयम् ? (विषय: जालपुटात् अन्येभ्य: मूलेभ्य: च सङ्गृहीत:)


व्यक्तिविवरणम्

सम्पाद्यताम्

1868 तमे जन्म प्राप्तवान् श्यामशास्त्री बाल्ये एव पितृवियोगं प्राप्नोत् । मात्रा पोषित: स: कल्लिकोटेवेङ्कटरामशास्त्रिण: सकाशात् प्राथमिकं संस्कृताध्ययनम् अकरोत् । षोडशे वयसि तेन मातृवियोग: अपि प्राप्त: । तत: मैसूरुनगरं गत: स: पूर्णय्यधर्मशालायां वसन् जयचामराजेन्द्रसंस्कृतमहाविद्यालये अध्ययनम् अनुवर्तितवान् । अध्ययनावसरे स: चर्चासत्रविद्वत्सभादिषु भागं वहति स्म अपि । कदाचित् ‘दिवान’पदस्थ: के. शेषाद्रि-अय्यङ्गार्य: सभायां तस्य प्रतिभां दृष्ट्वा सन्तुष्ट: सन् स्वगृहे एव तस्य वासव्यवस्थां अकल्पयत् ।

प्राच्यविद्यासंशोधनालये ग्रन्थपालत्वेन कार्यम् आरब्धवान् श्यामशास्त्री तस्यैव संशाधनालयस्य निदेशकत्वेन, मैसूरीयस्य पुरातत्त्वविभागस्य निदेशकत्वेन, बेङ्गलूरीयाया: चामराजेन्द्रसंस्कृतमहापाठशालाया: प्राचार्यत्वेन, मैसूरु-कलकत्ताविश्वविद्यालययो: इतिहासप्राध्यापकत्वेन, शोधप्रबन्धानां मौल्यमापकत्वेन, विद्वत्पत्रिकाणां सम्पादकत्वेन चापि कार्यम् अकरोत् । स: 550 प्राचीनान् ताडग्रन्थान् 800 शिलालेखतौम्रलेखादीन् च संशोध्य प्राकाशयत् । 77 तमे वयसि तेन स्वर्गस्थता अवाप्ता ।


'सम्भाषणसन्देशः' - अगस्ट् २००९
लेखकः - नागराजदीक्षितः