← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 राज्ञो राज-वल्लभानां चऽसन्नाः सत्त्रिणः पत्त्य्-अश्व-रथ-द्विप-मुख्यानां "राजा क्रुद्धः" इति सुहृद्-विश्वासेन मित्र-स्थानीयेषु कथयेयुः ।। १२.३.०१ ।।

 बहुली-भूते तीक्ष्णाः कृत-रात्रि-चार-प्रतीकारा गृहेषु "स्वामि-वचनेनऽगम्यताम्" इति ब्रूयुः ।। १२.३.०२ ।।

 तान्निर्गच्छत एवाभिहन्युः । "स्वामि-संदेशः" इति चऽसन्नान्ब्रूयुः ।। १२.३.०३ ।।

 ये चाप्रवासितास्तान्सत्त्रिणो ब्रूयुः "एतत्तद्यदस्माभिः कथितम् । जीवितु-कामेनापक्रान्तव्यम्" इति ।। १२.३.०४ ।।

 येभ्यश्च राजा याचितो न ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । मया प्रत्याख्याताः शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०५ ।।

 ततः पूर्ववदाचरेत् ।। १२.३.०६ ।।

 येभ्यश्च राजा याचितो ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । तेभ्यो मया सोअर्थो विश्वास-अर्थं दत्तः । शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०७ ।।

 ततः पूर्ववदाचरेत् ।। १२.३.०८ ।।

 ये चएनं याच्यं अर्थं न याचन्ते तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "याच्यं अर्थं असौ चासौ च मा न याचते । किं अन्यत्स्व-दोष-शङ्कितत्वात् । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०९ ।।

 ततः पूर्ववदाचरेत् ।। १२.३.१० ।।

 एतेन सर्वः कृत्य-पक्षो व्याख्यातः ।। १२.३.११ ।।

 प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत्"असौ चासौ च ते महा-मात्रः शत्रु-पुरुषैः सम्भाषते" इति ।। १२.३.१२ ।।

 प्रतिपन्ने दूष्यानस्य शासन-हरान्दर्शयेत्"एतत्तत्" इति ।। १२.३.१३ ।।

 सेना-मुख्य-प्रकृति-पुरुषान्वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेदपवाहयेद्वा ।। १२.३.१४ ।।

 योअस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणाउपजापयेत्"आत्म-सम्पन्नतरस्त्वं पुत्रः । तथाअप्यन्तर्-हितः । तत्-किं उपेक्षसे विक्रम्य गृहाण । पुरा त्वा युव-राजो विनाशयति" इति ।। १२.३.१५ ।।

 तत्-कुलीनं अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात्"अन्तर्-बलं प्रत्यन्त-स्कन्धं अन्तं वाअस्य प्रमृद्नीहि" इति ।। १२.३.१६ ।।

 आटविकानर्थ-मानाभ्यां उपगृह्य राज्यं अस्य घातयेत् ।। १२.३.१७ ।।

 पार्ष्णि-ग्राहं वाअस्य ब्रूयात्"एष खलु राजा मां उच्छिद्य त्वां उच्छेत्स्यति । पार्ष्णिं अस्य गृहाण । त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि" इति ।। १२.३.१८ ।।

 मित्राणि वाअस्य ब्रूयात्"अहं वः सेतुः । मयि विभिन्ने सर्वानेष वो राजा प्लावयिष्यति । सम्भूय वाअस्य यात्रां विहनाम" इति ।। १२.३.१९ ।।

 तत्-संहतानां असंहतानां च प्रेषयेत्"एष खलु राजा मां उत्पाट्य भवत्सु कर्म करिष्यति । बुध्यध्वम् । अहं वः श्रेयानभ्युपपत्तुम्" इति ।। १२.३.२० ।।

 मध्यमस्य प्रहिणुयादुदासीनस्य वा पुनः । ।। १२.३.२१अ ब ।।

 यथाआसन्नस्य मोक्ष-अर्थं सर्व-स्वेन तद्-अर्पणं ।। १२.३.२१च्द् ।।