← अध्यायः ५ अर्थशास्त्रम्
अध्यायः ६
कौटिलीय:
अध्यायः ७ →

 एक-स्त्री-पुत्राणां ज्येष्ठ-अंशः ब्राह्मणानां अजाः । क्षत्रियाणां अश्वाः । वैश्यानां गावः । शूद्राणां अवयः ।। ०३.६.०१ ।।

 काण-लङ्गास्तेषां मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ।। ०३.६.०२ ।।

 चतुष्पद-अभावे रत्न-वर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत् ।। ०३.६.०३ ।।

 प्रतिमुक्त-स्वधा-पाशो हि भवति ।। ०३.६.०४ ।।

 इत्यौशनसो विभागः ।। ०३.६.०५ ।।

 पितुः परिवापाद्यानं आभरणं च ज्येष्ठ-अंशः । शयन-आसनं भुक्त-कांस्यं च मध्यम-अंशः । कृष्णं धान्य-आयसं गृह-परिवापो गो-शकटं च कनिष्ठ-अंशः ।। ०३.६.०६ ।।

 शेष-द्रव्याणां एक-द्रव्यस्य वा समो विभागः ।। ०३.६.०७ ।।

 अदायादा भगिन्यः । मातुः परिवापाद्भुक्त-कांस्य-आभरण-भागिन्यः ।। ०३.६.०८ ।।

 मानुष-हीनो ज्येष्ठस्तृतीयं अंशं ज्येष्ठ-अंशाल्लभेत । चतुर्थं अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यो वा ।। ०३.६.०९ ।।

 काम-आचारः सर्वं जीयेत ।। ०३.६.१० ।।

 तेन मध्यम-कनिष्ठौ व्याख्यातौ ।। ०३.६.११ ।।

 तयोर्मानुष-उपेतो ज्येष्ठ-अंशादर्धं लभेत ।। ०३.६.१२ ।।

 नाना-स्त्री-पुत्राणां तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्व-जन्मना ज्येष्ठ-भावः ।। ०३.६.१३ ।।

 सूत-मागध-व्रात्य-रथ-काराणां ऐश्वर्यतो विभागः ।। ०३.६.१४ ।।

 शेषास्तं उपजीवेयुः ।। ०३.६.१५ ।।

 अनीश्वराः सम-विभागाः ।। ०३.६.१६ ।।

 चातुर्वर्ण्य-पुत्राणां ब्राह्मणी-पुत्रश्चतुरोअंशान्हरेत् । क्षत्रिया-पुत्र-स्त्रीनंशान् । वैश्या-पुत्रो द्वावंशौ । एकं शूद्रा-पुत्रः ।। ०३.६.१७ ।।

 तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोर्व्याख्यातः ।। ०३.६.१८ ।।

 ब्राह्मणस्यानन्तरा-पुत्रस्तुल्य-अंशः ।। ०३.६.१९ ।।

 क्षत्रिय-वैश्ययोरर्ध-अंशः तुल्य-अंशो वा मानुष-उपेतः ।। ०३.६.२० ।।

 तुल्य-अतुल्ययोरेक-पुत्रः सर्वं हरेत् । बन्धूंश्च बिभृयात् ।। ०३.६.२१ ।।

 ब्राह्मणानां तु पारशवस्तृतीयं अंशं लभेत । द्वावंशौ सपिण्डः कुल्यो वाआसन्नः । स्वधा-दान-हेतोः ।। ०३.६.२२ ।।

 तद्-अभावे पितुराचार्योअन्तेवासी वा ।। ०३.६.२३ ।।

 क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतं । ।। ०३.६.२४अ ब ।।

 मातृ-बन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनं ।। ०३.६.२४च्द् ।।