← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 राजा राज्यं इति प्रकृति-संक्षेपः ।। ०८.२.०१ ।।

 राज्ञोअभ्यन्तरो बाह्यो वा कोप इति ।। ०८.२.०२ ।।

 अहि-भयादभ्यन्तरः कोपो बाह्य-कोपात्पापीयान् । अन्तर्-अमात्य-कोपश्चान्तः-कोपात् ।। ०८.२.०३ ।।

 तस्मात्कोश-दण्ड-शक्तिं आत्म-संस्थां कुर्वीत ।। ०८.२.०४ ।।

 "द्वैराज्य-वैराज्ययोर्द्वैराज्यं अन्योन्य-पक्ष-द्वेष-अनुरागाभ्यां परस्पर-संघर्षेण वा विनश्यति । वैराज्यं तु प्रकृति-चित्त-ग्रहण-अपेक्षि यथा-स्थितं अन्यैर्भुज्यते" इत्याचार्याः ।। ०८.२.०५ ।।

 नैति कौटिल्यः ।। ०८.२.०६ ।।

 पिता-पुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्य-योग-क्षेमं अमात्य-अवग्रहं वर्तयति ।। ०८.२.०७ ।।

 वैराज्यं तु जीवतः परस्यऽच्छिद्य "नएतन्मम" इति मन्यमानः कर्शयति । अपवाहयति । पण्यं वा करोति । विरक्तं वा परित्यज्यापगच्छतिइति ।। ०८.२.०८ ।।

 अन्धश्चलित-शास्त्रो वा राजाइति "अशास्त्र-चक्षुरन्धो यत्-किंचन-कारी दृढ-अभिनिवेशी पर-प्रणेयो वा राज्यं अन्यायेनौपहन्ति । चलित-शास्त्रस्तु यत्र शास्त्राच्चलित-मतिर्भवति शक्य-अनुनयो भवति" इत्याचार्याः ।। ०८.२.०९ ।।

 नैति कौटिल्यः ।। ०८.२.१० ।।

 अन्धो राजा शक्यते सहाय-सम्पदा यत्र तत्र वा पर्यवस्थापयितुं ।। ०८.२.११ ।।

 चलित-शास्त्रस्तु शास्त्रादन्यथा-अभिनिविष्ट-बुद्धिरन्यायेन राज्यं आत्मानं चौपहन्तिइति ।। ०८.२.१२ ।।

 व्याधितो नवो वा राजाइति "व्याधितो राजा राज्य-उपघातं अमात्य-मूलं प्राण-आबाधं वा राज्य-मूलं अवाप्नोति । नवस्तु राजा स्व-धर्म-अनुग्रह-परिहार-दान-मान-कर्मभिः प्रकृति-रञ्जन-उपकारैश्चरति" इत्याचार्याः ।। ०८.२.१३ ।।

 नैति कौटिल्यः ।। ०८.२.१४ ।।

 व्याधितो राजा यथा-प्रवृत्तं राज-प्रणिधिं अनुवर्तयति ।। ०८.२.१५ ।।

 नवस्तु राजा बल-आवर्जितं "ममैदं राज्यम्" इति यथा-इष्टं अनवग्रहश्चरति ।। ०८.२.१६ ।।

 सामुत्थायिकैरवगृहीतो वा राज्य-उपघातं मर्षयति ।। ०८.२.१७ ।।

 प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवतिइति ।। ०८.२.१८ ।।

 व्याधिते विशेषः पाप-रोग्य-पाप-रोगी च ।। ०८.२.१९ ।।

 नवेअप्यभिजातोअनभिजात इति ।। ०८.२.२० ।।

 दुर्बलोअभिजातो बलवाननभिजातो राजाइति "दुर्बलस्याभिजातस्यौपजापं दौर्बल्य-अपेक्षाः प्रकृतयः कृच्छ्रेणौपगच्छन्ति । बलवतश्चानभिजातस्य बल-अपेक्षाः सुखेन" इत्याचार्याः ।। ०८.२.२१ ।।

 नैति कौटिल्यः ।। ०८.२.२२ ।।

 दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति । जात्यं ऐश्वर्य-प्रकृतिरनुवर्तत इति ।। ०८.२.२३ ।।

 बलवतश्चानभिजातस्यौपजापं विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०८.२.२४ ।।

 प्रयास-वधात्सस्य-वधो मुष्टि-वधात्पापीयान् । निराजीवत्वादवृष्टिरतिवृष्टितः ।। ०८.२.२५ ।।

 द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बल-अबलं । ।। ०८.२.२६अ ब ।।

 पारम्पर्य-क्रमेणौक्तं याने स्थाने च कारणं ।। ०८.२.२६च्द् ।।