← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:

 बल-व्यसनानि अमानितम् । विमानितम् । अभृतम् । व्याधितम् । नव-आगतम् । दूर-आयातम् । परिश्रान्तम् । परिक्षीणम् । प्रतिहतम् । हत-अग्र-वेगम् । अनृतु-प्राप्तम् । अभूमि-प्राप्तम् । आशा-निर्वेदि । परिसृप्तम् । कलत्र-गर्भि । अन्तः-शल्यम् । कुपित-मूलम् । भिन्न-गर्भम् । अपसृतम् । अतिक्षिप्तम् । उपनिविष्टम् । समाप्तम् । उपरुद्धम् । परिक्षिप्तम् । छिन्न-धान्य-पुरुष-वीवधम् । स्व-विक्षिप्तम् । मित्र-विक्षिप्तम् । दूष्य-युक्तम् । दुष्ट-पार्ष्णि-ग्राहम् । शून्य-मूलम् । अस्वामि-संहतम् । भिन्न-कूटम् । अन्धं इति ।। ०८.५.०१ ।।

 तेषां अमानित-विमानित-अनियतयोरमानितं कृत-अर्थ-मानं युध्येत । न विमानितं अन्तः-कोपं ।। ०८.५.०२ ।।

 अभृत-व्याधितयोरभृतं तदात्व-कृत-वेतनं युध्येत । न व्याधितं अकर्मण्यं ।। ०८.५.०३ ।।

 नव-आगत-दूर-आयातयोर्नव-आगतं अन्यत उपलब्ध-देशं अनव-मिश्रं युध्येत । न दूर-आयतं आयत-गत-परिक्लेशं ।। ०८.५.०४ ।।

 परिश्रान्त-परिक्षीणयोः परिश्रान्तं स्नान-भोजन-स्वप्न-लब्ध-विश्रामं युध्येत । न परिक्षीणं अन्यत्रऽहवे क्षीणयुग्य-पुरुषं ।। ०८.५.०५ ।।

 प्रतिहत-हत-अग्र-वेगयोः प्रतिहतं अग्र-पात-भग्नं प्रवीर-पुरुष-संहतं युध्येत । न हत-अग्र-वेगं अग्र-पात-हत-वीरं ।। ०८.५.०६ ।।

 अनृत्व्-अभूमि-प्राप्तयोरनृतु-प्राप्तं यथ-ऋतु-युग्य-शस्त्र-आवरणं युध्येत । नाभूमि-प्राप्तं अवरुद्ध-प्रसार-व्यायामं ।। ०८.५.०७ ।।

 आशा-निर्वेदि-परिसृप्तयोराशा-निर्वेदि लब्ध-अभिप्रायं युध्येत । न परिसृप्तं अपसृत-मुख्यं ।। ०८.५.०८ ।।

 कलत्र-गर्भ्य्-अन्तः-शल्ययोः कलत्र-गर्भि उन्मुच्य कलत्रं युध्येत । नान्तः-शल्यं अन्तर-मित्रं ।। ०८.५.०९ ।।

 कुपित-मूल-भिन्न-गर्भयोः कुपित-मूलं प्रशमित-कोपं साम-आदिभिर्युध्येत । न भिन्न-गर्भं अन्योन्यस्माद्भिन्नं ।। ०८.५.१० ।।

 अपसृत-अतिक्षिप्तयोरपसृतं एक-राज्य-अतिक्रान्तं मन्त्र-व्यायामाभ्यां सत्त्र-मित्र-अपाश्रयं युध्येत । नातिक्षिप्तं अनेक-राज्य-अतिक्रान्तं बह्व्-आबाधत्वात् ।। ०८.५.११ ।।

 उपनिविष्ट-समाप्तयोरुपनिविष्टं पृथग्-यान-स्थानं अतिसंधायारिं युध्येत । न समाप्तं अरिणाएक-स्थान-यानं ।। ०८.५.१२ ।।

 उपरुद्ध-परिक्षिप्तयोरुपरुद्धं अन्यतो निष्क्रम्यौपरोद्धारं प्रतियुध्येत । न परिक्षिप्तं सर्वतः प्रतिरुद्धं ।। ०८.५.१३ ।।

 छिन्न-धान्य-पुरुष-वीवधयोः छिन्न-धान्यं अन्यतो धान्यं आनीय जङ्गम-स्थावर-आहारं वा युध्येत । न छिन्न-पुरुष-वीवधं अनभिसारं ।। ०८.५.१४ ।।

 स्व-विक्षिप्त-मित्र-विक्षिप्तयोः स्व-विक्षिप्तं स्व-भूमौ विक्षिप्तं सैन्यं आपदि शक्यं आवाहयितुम् । न मित्र-विक्षिप्तं विप्रकृष्ट-देश-कालत्वात् ।। ०८.५.१५ ।।

 दूष्य-युक्त-दुष्ट-पार्ष्णि-ग्राहयोर्दूष्य-युक्तं आप्त-पुरुष-अधिष्ठितं असंहतं युध्येत । न दुष्ट-पार्ष्णि-ग्राहं पृष्ठ-अभिघात-त्रस्तं ।। ०८.५.१६ ।।

 शून्य-मूल-अस्वामि-संहतयोः शून्य-मूलं कृत-पौर-जानपद-आरक्षं सर्व-संदोहेन युध्येत । नास्वामि-संहतं राज-सेना-पति-हीनं ।। ०८.५.१७ ।।

 भिन्न-कूट-अन्धयोर्भिन्न-कूटं अन्य-अधिष्ठितं युध्येत । नान्धं अदेशिकं इति ।। ०८.५.१८ ।।

 दोष-शुद्धिर्बल-आवापः सत्त्र-स्थान-अतिसंहितं । ।। ०८.५.१९अ ब ।।

 संधिश्चौत्तर-पक्षस्य बल-व्यसन-साधनं ।। ०८.५.१९च्द् ।।

 रक्षेत्स्व-दण्डं व्यसने शत्रुभ्यो नित्यं उत्थितः । ।। ०८.५.२०अ ब ।।

 प्रहरेद्दण्ड-रन्ध्रेषु शत्रूणां नित्यं उत्थितः ।। ०८.५.२०च्द् ।।

 यतो निमित्तं व्यसनं प्रकृतीनां अवाप्नुयात् । ।। ०८.५.२१अ ब ।।

 प्रागेव प्रतिकुर्वीत तन्निमित्तं अतन्द्रितः । ।। ०८.५.२१च्द् ।।

 अभियातं स्वयं मित्रं सम्भूयान्य-वशेन वा ।। ०८.५.२२अ ब ।।

 परित्यक्तं अशक्त्या वा लोभेन प्रणयेन वा । ।। ०८.५.२२च्द् ।।

 विक्रीतं अभियुञ्जाने संग्रामे वाअपवर्तिना ।। ०८.५.२३अ ब ।।

 द्वैधी-भावेन वाअमित्रं यास्यता वाअन्यं अन्यतः । ।। ०८.५.२३च्द् ।।

 पृथग्वा सह-याने वा विश्वासेनातिसंहितं ।। ०८.५.२४अ ब ।।

 भय-अवमान-आलस्यैर्वा व्यसनान्न प्रमोक्षितं । ।। ०८.५.२४च्द् ।।

 अवरुद्धं स्व-भूमिभ्यः समीपाद्वा भयाद्गतं ।। ०८.५.२५अ ब ।।

 आच्छेदनाददानाद्वा दत्त्वा वाअप्यवमानितं । ।। ०८.५.२५च्द् ।।

 अत्याहारितं अर्थं वा स्वयं पर-मुखेन वा ।। ०८.५.२६अ ब ।।

 अतिभारे नियुक्तं वा भङ्क्त्वा परं उपस्थितं । ।। ०८.५.२६च्द् ।।

 उपेक्षितं अशक्त्या वा प्रार्थयित्वा विरोधितं ।। ०८.५.२७अ ब ।।

 कृच्छ्रेण साध्यते मित्रं सिद्धं चऽशु विरज्यति । ।। ०८.५.२७च्द् ।।

 कृत-प्रयासं मान्यं वा मोहान्मित्रं अमानितं । ।। ०८.५.२८अ ब ।।

 मानितं वा न सदृशं शक्तितो वा निवारितं ।। ०८.५.२८च्द् ।।

 मित्र-उपघात-त्रस्तं वा शङ्कितं वाअरि-संहितात् । ।। ०८.५.२९अ ब ।।

 दूष्यैर्वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति ।। ०८.५.२९च्द् ।।

 तस्मान्नौत्पादयेदेनान्दोषान्मित्र-उपघातकान् । ।। ०८.५.३०अ ब ।।

 उत्पन्नान्वा प्रशमयेद्गुणैर्दोष-उपघातिभिः ।। ०८.५.३०च्द् ।।