अलङ्कारमणिहारः (भागः १)/असमालंकारसरः (४)

अथासमालंकारसरः.


 उपमायास्सर्वथैव निषेधोऽसम उच्यते ॥ २४ ॥

 सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः । अयं चानन्वये व्यङ्ग्योपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न भजते पृथगलंकारव्यपदेश्यताम् । वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथग्व्यपदेशभाग्भवति ॥

 यथा--

 सब्रह्मचारि किंचिन्न ब्रह्मापीक्षितुं तव पटीयान् । यस्य तव निस्समत्वं निस्संदिग्धं श्रुतिर्ब्रवीति हरे ॥ १५३ ॥

 यथा वा--

 ऐश्वर्यवीर्यधैर्यस्थैर्यौदार्यादिमैर्गुणैर्भगवन् । कस्त्वत्तुलनाकलनायोग्यस्संभाव्यतां कदा क्व नु वा ॥  नासीन्नास्ति च भवतो नाथ समं वस्तु वेधसस्सर्गे । अग्रेऽपि यथापूर्वं स्रष्टाऽयं किं तदाऽपि तल्लभ्यम् ॥ १५५ ॥

 तद्वस्तु नैव ससृजे न सृज्यते स्रक्ष्यतेऽपि विश्वसृजा । यत्र भवतः प्ररोहेदुपमालवलेशगन्धोपि ॥ १५६ ॥

 यथा वा--

 अस्ति समानं शौरेर्वस्त्विति मूर्खो ब्रवीति चेद्ब्रूताम् । यत्र क्व वा समानं लभेत किमसावटन्नपि जगन्ति ॥ १५७ ॥

 सोऽसौ मूर्खः जगन्ति सर्वाण्यटन्नपि यत्र क्व वा मानं भगवत्समानवस्तुसत्तायां प्रमाणं लभेत किं न लभेतैवेत्यर्थः । यद्वा मानं पूजां लभेत किं, भगवत इतरसाधर्म्यं वक्तुः क्वापि पूज्यता न स्यादेवेति भावः । पक्षे असौ मूर्खः समानं भगवतस्सदृशं वस्तु यत्र क्व वा न लभेतैवेत्यर्थः । अत्र श्लेषचमत्कारः पूर्वोदाहरणेभ्यो विशेषः ॥

 यथा वा--

 त्वं सद्वितीय एव हि सृजसि जगत्पासि संहरिष्यसि च । तदपि श्रुतिरब्जेक्षण वदति त्वामद्वितीयमेव बत ॥ १५८ ॥  सद्वितीयः द्वितीयवस्तुना सहितः चिदचिद्विशिष्ट एवेत्यर्थः । द्वितीयया सहधर्मिण्या श्रिया सहित एवेत्यप्यर्थः । श्रीविशिष्टस्यैव जगज्जन्मादिकारणत्वात्सद्वितीय एव सृजसीत्याद्युक्तिः । तदपि तथाऽपि श्रुतिः ‘एकमेवाद्वितीयम्' इति श्रुतिः अद्वितीयं द्वितीयवस्तुरहितं असदृशमिति तु वास्तवार्थः ॥

 यथ वा--

 असदृश इति निगदंस्त्वां जनोऽभिनन्द्येत सदृशमाहेति । सदृगस्ति तवेति वदन्न सदृगिति जनैर्विनिन्द्यते चित्रम् ॥ १५९ ॥

 हे भगवन्! त्वां असदृश इति वदन् जनः सदृशमाह अनुरूपं युक्तमाहेति जनैरभिनन्द्यते । तवासदृशत्वस्य वस्तुसतो यथावदुक्तत्वादिति भावः । तव सदृक् सदृशः अस्तीति वदन् जनः न सदृक् सदृशो न योग्यो न अननुरूपार्थकथनादिति भावः । दृशा सह वर्तत इति सदृक् न अन्ध एव ज्ञानहीन एवेत्यर्थः । यद्यस्य दृष्टिरेवाभविष्यत्तर्हि तव सदृगस्तीति नावदिष्यदेवेति भावः । इति जनैर्विनिन्द्यते, चित्रं असदृशं वक्तुस्सदृशवक्तृत्वेन सदृशं वक्तुरसदृक्त्वेन च कथनमाश्चर्यावहमिति भावः । अनयोरुदाहरणयोश्श्लेषमूलकविरोधसंकीर्णत्वं पूर्वेभ्यो वैलक्षण्यं बोध्यम् ॥

 एवम्--

 न किमपि कौस्तुभतेजस्सममभवद्भवति वाऽथ भविता वा । यत्र किल मित्रशशधरकृशानुतारास्स्फुलिङ्गकाकाराः ॥ १६० ॥  नासीदस्ति भविष्यति विधातृसर्गे क्व वाऽपि मादृक्षः । त्वयि सति शुभगुणविपणौ योऽन्यं पिपणायिषामि कृपणमनाः ॥ १६१ ॥

 इत्यादावपि काव्यलिङ्गादिसंकीर्णता द्रष्टव्या । सर्वेष्वेतेषूदाहरणेषु सर्वथैवोपमाननिषेधादसमालंकारः, क्वाचित्कस्सदृशप्रतिषेध उपमानलुप्ताया विषयः । अस्य त्वात्यन्तिकसदृशप्रतिपेध इति नोपमानलुप्तोपमया चारितार्थ्ययम् । सर्वात्मनैवोपमानप्रतिषेधेन सादृश्यस्याप्रतिष्ठानान्नात्रोपमागन्धोपि ।

 नन्वसमालंकारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथगलंकारता कथमिति चेत्--सत्यं, दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारोपपत्तौ कथंनाम पृथगलंकारत्वमिति तुल्यम् । न च दीपकादावुपमाव्यङ्ग्यत्वेऽपि गुणीभावात् प्रकृते तु स्वसादृश्यस्य स्वस्मिन्नतितमां तिरस्कारेणासमालंकारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम् । यथा हि दीपकसमासोक्त्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलंकारत्वं न हीयते एवमनन्वये प्रधानव्यङ्ग्यसत्त्वेऽपि न किंचिद्विरुद्धम् । अनन्वयशरीरस्य सादृश्यमात्रस्य वाच्यत्वेन वाच्यालङ्कारव्यपदेशोऽपि मुख्य एव । दीपकाद्यलङ्कारकाव्ये गुणीभूतस्य व्यङ्ग्यस्य सत्त्वादस्तुनाम गुणीभूतव्यङ्ग्यत्वम् । ध्वनित्वं पुनर्न क्वाप्यलङ्कृतिकाव्ये दृष्टमिति चेत् पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात्, इति वदन्ति ॥

 प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते ॥

 अयमसमालंकारो व्यज्यमानोऽपि सम्भवति । यथा- सर्वज्ञोपि गिरीशस्तव सदृशं वस्तु किमपि निजिगदिषुः। श्रीश तदप्रतिपत्तेरद्यापि स्थाणुतां न विजहाति ॥ १६२ ॥

 अत्र यस्त्वां तुष्टूषुस्सर्वज्ञो गिरीशोऽप्येतावन्तं समयं त्वत्तुल्यवस्त्वप्रतिभानात् स्थाणुरेवासीत् सोऽग्रेऽप्येवमेव स्यात् । अन्यथाभावे मानाभावादिति सर्वथैव त्वत्सदृशं वस्तु नैवास्तीति गम्यते । एवंच व्यज्यमानोऽप्यत्रासमालंकारः प्रधानीभूतभगवत्स्तुत्युत्कर्षोपस्कारकतयाऽलंकार एव ॥

 मुख्यतया ध्वन्यमानो यथा--

 दर्वीकराद्रिशेखर सर्वं पदमर्थवत्त्वया व्यरचि । तुल्याभिधायि तु पदं कालत्रितयेऽपि नार्थवदहो ते ॥

त्वया सर्वं पदं सुप्तिङन्तात्मकं इन्द्रादिस्थानं च अर्थवत् अभिधेयवत् विभववच्च व्यरचि । तं तव तुल्याभिधायि सदृशार्थाभिधायि पदं तु कालत्रितयेऽपि नार्थवत् न धनवत् नाभिधेयवच्च कस्मादित्याश्चर्यम् ॥

 यथा वा--

 गगनलिखितेषु पन्नगनगवरधौरेय चित्रपुरूषेषु । स गणयितव्यः पुरुषोऽनुगुणो यस्त्वदुपमालवस्यापि ॥ १६४ ॥

 अनयोरुदाहरणयोरसमत्वं प्राधान्येन व्यज्यते । अयं क्वचिदुपमानस्य निषेधात्, क्वचिच्च साक्षादुपमाया एव । तत्राद्य उपदर्शितः ॥  द्वितीयो यथा--

 अन्तर्बहिरपि कमलाकान्त समन्तात्त्वयैव परिपूर्णम् । जगदिदमखिलं भवतो जगदीश तुला पदं क्व निदधीत ॥ १६५ ॥

 हे जगदीश! भवतस्तुला उपमा कर्त्री क्व पदं निदधीत । सर्वस्य जगतस्त्वयैवान्तर्बहिश्च परिपूर्णत्वात्त्वदुपमायाः पदन्यासस्यापि नावकाश इति भावः ॥

इत्यसमालंकारसरश्चतुर्थः.