अलङ्कारमणिहारः (भागः १)/स्मृत्यलंकारसरः (१०)

               




   

अथ स्मृत्यलंकारसरः.


या सादृश्यपरिज्ञानोद्बुद्धसंस्कारतस्स्मृतिः।
प्रयोज्या सा स्मृतिर्नामालंकृतिः कथ्यते बुधैः ॥

 सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्या स्मृतिः स्मृतिर्नामालंकारः । अयमेव स्मरणं स्मृतिमानित्यपि व्यवह्रियते ।

 यथा--

  सुरुचिरमौक्तिकमणिसरविसृमरमसृणतरशुचिरुचिनिमग्ने । कमलेक्षणहृदि कौस्तुभकमले दुग्धाब्धिनिवसतिं स्मरतः ॥ २७३ ॥ कौस्तुभश्च कमला च कौस्तुभकमले मौक्तिकसरशुचिरुचिनिमग्ने सत्यौ दुग्धाब्धिनिवसतिं स्मरत इति योजना ॥

 यथा वा--

 अभयं दातुं सरभसमिभवरशिरसि स्वहस्तमाधातुः । चेतः फणिगिरिनेतुर्यातं कमलाकुचद्वयं स्फीतम् ॥ २७४ ॥

 अत्राद्ये स्मृतिर्वाच्या, द्वितीये तु लक्ष्येति विशेषः ॥

 यथा वा--

 लक्ष्मीकटाक्षलहरीं वीक्ष्य शरत्फुल्लमल्लिका रात्रीः । तास्स्मरति फणिगिरीन्दू रासविलासं च तासु गोपीनाम् ॥ २७५ ॥

 शरत्फुल्लमल्लिकाः ताः रात्रीरित्येतैः पदैः ‘भगवानपि ता रात्रीश्शरदोत्फुल्लमल्लिकाः' इति श्रीभागवतीयपद्यं प्रत्यभिज्ञाप्यते । अत्र शरद्रात्रिरासविलासयोस्स्मरणं यद्यपि न तत्सादृश्यदर्शनोद्बुद्धसंस्कारप्रयोज्यं, तथाऽपि लक्ष्मीकटाक्षगतलहरीसादृश्योद्बुद्धयमुनाविषयकसंस्कारजन्यतत्स्मरणाधीनत्वाद्भवत्येव यत्किंचित्सादृश्यदर्शनोद्बुद्धसंस्कारप्रयोज्यम् । न हि सादृश्ये स्मर्यमाणसंबन्धित्वं विवक्षितम् । एवं वाच्ययोश्शरद्रात्रिरासविलासस्मरणयोः एतत्कारणतयाऽऽक्षिप्तस्य यमुनास्मरणस्य चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम् । केचित्तु सदृशज्ञानोद्बुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकार इत्याहुः, तेषां शरद्रात्रिरासादिस्मृतिरनलंकार एव ॥

 अधिभुजगराजशैलं यं घननीलं विलोलवनमालम् । निरवर्णयमतिवेलं तमेव देवं स्मरामि शुभलीलम् ॥ २७६ ॥

 अत्र स्मृतिः चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकारपदवीमवगाहते । व्यङ्ग्यत्वविरहाच्च न भावपदवीम् ॥

 एवं--

 कलिरिपुगुरुवरकरुणासुरतटिनीधूतमोहमालिन्यः । शेषाद्रिपतेर्नित्यं शेषित्वं शेषतां च मेऽस्मार्षम् ॥ २७७ ॥

 कलिरिपुगुरुवराः श्रीमत्परकालयतीन्द्रमहादेशिकाः । शेषित्वं स्वामित्वं शेषतां परगतातिशयाधानेच्छया उपादेयत्वस्वरूपतां च अस्मार्षम् ॥

स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा ।
आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर ॥

इत्युक्तरीत्या स्मृतवानित्यर्थः । इहापि स्मृतिर्नालंकारो नापि भावः । व्यङ्ग्यस्यैव व्यभिचारिणो भावत्वात् ॥

 यथा--

 गम्भीरिमा शिशिरिमा गरिमा परमाद्भुतो मधुरिमा च । तत्तादृगहिवरगिरेरुत्तंसादन्यतः क्व वा दृष्टः ॥ २७८ ॥

 अयं ह्यालंकारिकाणां संप्रदायः--यत्सादृश्यमूलकत्वे स्मृतिर्निदर्शनादिवदलंकारः, तद्विरहे व्यङ्ग्यतायां भावः । तयोरभावे तु वस्तुमात्रमिति । यस्तु ‘सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इति स्मरणालंकारलक्षणं तन्न चतुरश्रम्, सदृशस्मरणादुद्बुद्धेन संस्कारेण जनिते स्मरणे अव्याप्तेः ॥

 यथा--

 भ्रमर चिरं जीव त्वं स्मारयता त्वदवलम्बमम्बुरुहम् । येन त्वया तदुपमे विलोचने स्मारिते वृषगिरीन्दोः ॥ २७९ ॥

 अत्र भ्रमरदर्शनादेकसंबन्धिज्ञानाजनितेनापरसंबन्धिनोऽम्बुरुहस्य भगवन्नयनसदृशस्य स्मरणेन जनितं भगवन्नयनस्मरणं भगवद्विषयकरतिभावाङ्गतयाऽलंकारः । यदि तु सदृशानुभवादित्येतदपहाय सदृशज्ञानादिति लक्षणे निवेश्येत तदा भवत्यस्यापि संग्रह इति दिक् ॥

 अत्रेदमवधेयम्-सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयोरुपमायामिवात्रापि व्यवस्था । तथाहि--उपमायां तावत्क्वचिद्धर्मो नियमेन प्रतीयमानस्साक्षान्नोपादेय एव । यथा--'शंखवत्पाण्डुरच्छविः' इत्यत्र पाण्डुरत्वम् । ‘शङ्खवत्पाण्डुरोऽयम्’ इत्यादौ तु नानाविधेषु धर्मेष्वेकेनैव धर्मेण सादृश्यमित्यस्य दुर्विज्ञानत्वात् सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वविवक्षितस्य साधारणधर्मस्योपमाप्रयोजकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिर्धर्मो वाच्यतां नीयते । यथा वा--'अरविन्दमिव सुन्दरं मुखं' इत्यादौ सुन्दरत्वादिः । न नीयते च धर्मः क्वचिद्वाच्यतां वक्तुरन्यधर्मानुपस्थितेः प्रसिद्धः प्राबल्यात् । यथा—-'अरविन्दमिव मुखम्' इत्यादौ सुन्दरत्वादिरेव । अप्रसिद्धस्तु धर्मोऽवश्यं साक्षादुपादेय एव । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः । यथा--'घना इव महसारा जना यस्यां प्रतिष्ठिताः' इत्यादौ श्लिष्टश्शब्दात्मकः । तथाच कश्चित्साधारणो धर्मस्साक्षादनुपादेय एव, कश्चिदुपादेयोऽनुपादेयश्च, काश्चिदुपादेय एवेति सहृदयसम्मतस्समयः । एवमेवोपमाजीवातुकेऽस्मिन् स्मृत्यलंकारेऽपीति । तत्रानुगामिनि धर्मे ‘विलोचने स्मारिते वृषगिरीन्दोः' इत्यनुपदोदाहृते पद्ये निवेदितमेव स्मरणम् । तत्राम्बुरुहभगवद्विलोचनयोर्विपुलत्वविमलत्वसुन्दरत्वादिरनुपात्तस्समानोऽनुगामी धर्मः ॥

 बिम्बप्रतिबिम्बभावापन्ने त्विदमुदाहरणम्--

 शारदनीरदनिबिडितवृषगिरिशिखरावलोकनेन हरिः । शुचिकञ्चुकमस्मार्षीत्पद्मावत्याः पयोधरद्वंन्द्वम् ॥ २८० ॥

 अत्र बिम्बप्रतिबिम्बभावापन्ने समानधर्मे स्मृतिः ॥

 उपचरिते यथा--

 मधुरतरं तव चरितं मधुमथनाहं यदा निशमयामि । अध्येमि तदा चेतोमध्ये मधुविधुसुधामधुरसानाम् ॥ २८१ ॥

 मधुरसा द्राक्षा ‘मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च' इत्यमरः । अध्येमि स्मरामि 'इक् स्मरणे' इत्यस्माद्धातोरधिपूर्वाल्लट् ‘अधीगर्थ’ इति षष्ठी । चेतोमध्ये हृदयान्तरे ॥  यथा वा--

 निबिरीससौकुमार्यं शिरीषकुसुमं निरीक्षमाणस्य । स्मृतिसृतिमधिरोहति मम सरीसृपगिरीशसहचरीहृदयम् ॥ २८२ ॥

 अत्र मधुरतरत्वादिर्धर्म उपचरितः । इयांस्तु विशेषः--यदेकत्रानुभूयमाने भगवच्चरिते स्मर्यमाणस्य मधुप्रभृतेस्सादृश्यस्य सिद्धिः । अपरत्र स्मर्यमाणे भगवद्दयिताहृदयेऽनुभूयमानस्य शिरीषकुसुमस्य सादृश्यसिद्धिरिति, उभयाश्रयत्वात्सादृश्यस्य ॥

 श्लेषात्मके यथा--

 विनिशाम्यते यदा तव विभासिनीहारभारमाश्लिष्टा । हृदयस्थली तदाऽच्युतहृदयं मे विशति हैमनसमृद्धिः ॥ २८३ ॥

 विभासिनी हारभासा रमया च समाश्लिष्टा । पक्षे-- विभासी चासौ नीहारभारः हिमातिशयः तं आश्लिष्टा । कर्तरि क्तः । हेमन्तस्येयं हैमनी सा चासौ समृद्धिः हेमन्तसंबंन्धिलक्ष्मीरित्यर्थः । हेमन्तशब्दात् ‘सर्वत्राण् च तलोपश्च’ इत्यणि तलोपः । ‘टिढ्ढ' इति ङीप्, पुंवद्भावश्च ॥

 यथा वा--

 मृद्वीकामितफलदा यदाऽक्षिपदवीं गता हरेः प्रमदा । उद्यानवनी हृद्या हृद्यारूढा तदा न कस्य भवेत् ॥ २८४ ॥  अत्राद्ये विभासिनीत्यादिशब्दः श्रीनिवासहृदयस्थलीहैमनसमृद्ध्योः साधारणो धर्मः । द्वितीये मृद्वीकामितफलदेतिशब्दो हरिप्रियोद्यानवन्योः । मृद्वी दयामृदुला कामितफलदा । पक्षे--मृद्वीकानां द्राक्षाणां अमितानि फलानि ददाति तथोक्ता । एवमन्येऽपि भेदास्सुधीभिरुन्नेयाः ॥

अथास्य ध्वनिः


यथा--

 अयमेव मे सविद्युन्नियमेन घनो मनोविनोदी स्यात् । स्वयमेव यदि वृषाद्रौ न रमेत रमासखं परं ब्रह्म ॥ २८५ ॥

 अत्र सविद्युता घनेन सलक्ष्मीकस्य भगवतः स्मरणमलंकार्यान्तराभावादनुपसर्जनम् । लक्ष्मीविद्युल्लक्षणस्य बिम्बप्रतिबिम्बभावापन्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यताविरहाद्व्यङ्ग्यं च ॥

 यथा वा--

 मणिसारमयि मसारं व्यपसारय सारसाक्षि रभसात्त्वम् । मम गोकुलमौळिमणिर्मानसमतिवेलमेव लोलयति ॥ २८६ ॥

 अयि सारसाक्षि! मणिसारं रत्नश्रेष्ठं मसारं इन्द्रनीलं 'मसार इन्द्रनीले स्यात्' इति शब्दार्णवे 'मसारगल्वर्कमुखः' इति श्रीरामायणे प्रयोगश्च । रभसात् व्यपसारयेति योजना । अस्मिन्भगवता नन्दनन्दनेन विश्लिष्टायाः कस्याश्चिन्नायिकायास्सखीं प्रत्युक्तिरूपे पद्येऽपि नीलमणिज्ञानाधीनतत्सदृशनन्दनन्दनस्मृतिः प्राधान्येन ध्वन्यते ॥

इत्यलंकारमणिहारे स्मृतिसरो दशमः.