अलङ्कारमणिहारः (भागः ४)/पद्मादिचित्रालङ्काराः (१२६)

               




   

अथ पद्मादिचित्राणि.

 पद्माद्याकारमापन्ना वणाश्चित्रमुदाहृतम् ॥

 ननु कथमस्य शब्दालंकारता, पद्माद्याकारताया रेखोपरेखानिष्ठत्वादिति चेत्सत्यम् । वर्णानुमापकरेखानिष्ठानामेवाकाराणामनुमेयनिष्ठत्वाध्यवसायादौपचारिकीयं शब्दालंकारतावाचोयुक्तिरित्याहुः ॥


तत्र षोडशदलपद्मम्.

एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् ।
तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम् ॥

 एकाकारमेव वर्णमेकवर्णान्तरितं यदि निबध्यते कर्णिकायां श्लिष्टं एकवर्णं यस्य तत् षोडशदलपद्मं नाम चित्रं भवेत् ॥


 यथा--

 तारागौराकारा श्री रायो राति राद्धरास्स्मेरा । सा राजाराध्याऽऽरात्स्फाराऽहीराधराकराधारा ॥

 तारा तरका सेव गौराकृतिगौरवर्णा । राद्धः सिद्धः राः विभवो यस्यास्सा । स्मेरा स्मयमानमुखीत्यर्थः । राजभिराराध्या । स्फारः विशालः अहीराधरश्शेषभूभृत् स एवाकरः श्रेष्ठः आविर्भावस्थानभूतो वा आधारः अधिकरणं यस्यास्सा । ‘इरा भूवाक्सुराप्सु स्यात्’ इत्यमरः । 'आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते' इति मेदिनी । सा प्रसिद्धा श्रीः लक्ष्मीः आरात् क्षिप्रमिति यावत् । रायः धनानि राति ददाति ‘रा दाने' । अयमेव द्विचतुष्कबन्धो गोमूत्रिका च भवति । तल्लक्षणं तु--

बहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत् ।
कोणाष्टकयुतं तच्च द्विचतुष्कं विदुर्बुधाः ॥
तत्रायुग्माक्षरैः श्लिष्टा यदि युग्माक्षरैस्तु वा ।
गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा ॥

इति । एतदुक्तं भवति--दिङ्मुखकोणकं विदिङ्मुखकोणकं च द्वे चतुररचक्रे व्यतिकृते विलिख्य तस्य बहिरन्तश्च मण्डलरेखायुगं विलिख्य तत्प्रत्येकमष्टकोष्ठघटितं विधाय बहिर्मण्डले पूर्वार्धस्याश्लिष्टाक्षराणि अन्तर्मण्डले उत्तरार्धस्याश्लिष्टाक्षराणि विलिख्यार्धद्वयस्य श्लिष्टमक्षराष्टकं मण्डलद्वयमध्याष्टकोणेषु विलिखेत् । एवंच द्विचतुष्कोणविशिष्टत्वाद्द्विचतुष्कसंज्ञाऽस्य । इयं युग्माक्षरश्लिष्टानुलोमगोमूत्रिका । अत्र कोणस्पर्शपूर्वको मण्डलस्पर्शः । एवमयुग्माक्षरश्लिष्टत्वेऽपि गोमूत्रिका भविष्यति । तत्र कोणस्पर्शो मण्डलस्पर्शपूर्वक इति विशेषो बोध्यः ॥

गोमूत्रिकाबन्धः.

ता रा गौ रा का रा श्री रा यो रा ति रा द्ध रा स्स्मे रा
सा रा जा रा ध्या रा त्स्फा राऽ ही रा रा रा धा रा

षोडशदलपद्मबन्धः.

द्विचतुष्कबन्धः

प्रकारान्तरेण गोमूत्रिका.

ता गौ का श्री यो ति द्ध स्स्से
रा रा रा रा रा रा रा रा
सा जा ध्या त्स्फा ही धा

 यथावा--

 व्यालाद्रीलादोलालीलालोलाचलाचलाबाला ।

श्रीलाऽवेलाम्मे लातीलामालाङ्खिलाखिलाश्लीला ॥ २३६९ ॥

 व्यालाद्रेः शेषगिरेः इलायां धरायां दोलालीलायां आंदोलनविहारे लोला आसक्ता । अचला स्थिरहृदया अचलाबाला भूसुता । इदं विशेष्यम् । श्रीला श्रीमती । सिध्मादित्वान्मत्वर्थीयो लच् । लक्ष्मीवान् लक्ष्मणश्श्रीलः' इत्यमरः । खिलानि ध्वस्तानि अखिलानि अश्लीलानि अमङ्गलानि यया सा । अवेलां मर्यादातीतां इलामालां वाणीस्रजं मालिकासदृशीं वाचमित्यर्थः । मे लाति दत्ते । इति योजना ॥

 यथावा--

 धाम व्योमश्यामङ्कामङ्क्षेमक्रमक्षमन्नाम। प्रेमस्थेमश्रीमद्भूमक्ष्मामक्लमन्नमस्याम ॥ २३७० ॥

 व्योमेव श्यामं नीलं कामं पर्याप्तं यथा स्यात्तथा । क्षेमस्य कुशलस्य क्रमः परिपाटिः तस्य क्षमं अर्हं क्षेमकरमिति यावत् । प्रेम्णः स्थेमा स्थैर्यं तस्य श्रीः संपत् तदस्यास्तीति प्रेमस्थेमश्रीमत् । भूम्नः विभुत्वस्य क्ष्मां आवासभूमिं अक्लमं श्रमरहितं इदमुपलक्षणमखिलहेयगुणदवीयस्त्वस्य । धाम तेजः श्रीनिवासमिति भावः । नमस्याम प्रणमाम । नामेत्यभुपगमे विस्मये स्मरणे वा । यद्वा व्योमश्यामं धाम तेजः श्रीनिवासं अक्लमं भवक्लमाभावाय ‘निष्प्रत्यूहमुपास्महे’ इत्यादाविव अर्थाभावेऽव्ययीभावः ‘नाव्ययीभावादतोम्त्वपञ्चम्याः’ इति चतुर्थ्या अम् । कामं पर्याप्तं यथातथा नमस्याम पूजयामेति योजना । ‘नमोवरिवश्चित्रङः क्यच्’ इति नमश्शब्दात्पूजायां क्यच् । तदन्ताद्धातोलोडुत्तमैकवचनम् । ‘नाम कोपेऽभ्युपगमे विस्मये स्मरणेऽपिच' इति मेदिनी । क्षेमक्रमक्षमन्धामेति पाठेऽपि न चित्रभङ्गः । तदा-- क्षेमक्रमस्य क्षमं पर्याप्तं धाम स्थानं



क्षेमंकरस्थानभूतमित्यर्थः । अत्र श्यामं काममित्यादौ सर्वत्रानुस्वारस्य ‘वा पदान्तस्य' इति परसवर्णो बोध्यः । अन्यथा विवक्षितचित्रभ्रंशापत्तिः । यद्यपि ‘सबिन्दुकाबिन्दुकयोस्सविसर्गाविसर्गयोः' इति चित्रादावभेदकल्पनाऽभ्युपगता कविभिः । तथाऽपि यावद्बुद्धिबलोदयं तादृशक्लेशानाश्रयणमेव ज्याय इति । ध्येयम् । अस्मिन्पद्यद्वयेऽपि तारागौरेति प्रागुदाहृतपद्यवदेव पद्मादिबन्धा द्रष्टव्याः ॥


अथ गामूत्रिका

एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः ।
गोमूत्रिकाख्यं चित्रं तदाहुश्चित्रविदो बुधाः ॥

 अर्धयोः श्लोकस्य यथाक्रमं पूर्वोत्तरार्धयोः एकान्तरं एकाक्षरव्यवहितं यदेकरूपत्वं अभिन्नाकारत्वं तत् गच्छतो गोर्मूत्राकारकतया घटितत्वे गोमूत्रिकाख्यं चित्रमिति चित्रकाव्यविद आहुः । गोमूत्रमिव गोमूत्रिका । 'इवे प्रतिकृतौ’ इति कनि टापि ‘प्रत्ययस्थात्' इति इत्वम् ॥

 यथा--

 भोगीश्वरशैलक्षितिविलासलोलो ददातु नः कुशलम् । योगीश्वरजालस्तुतिकुलामलोऽसौ दधातु नो कुफलम् ॥ २३७१ ॥

 भोगीश्वरशैलक्षितौ विलासे लोलः श्रीनिवास इत्यर्थः । नः कुशलं ददातु योगीश्वरजालस्य स्तुतिकुलैः स्तोत्रनिवहैः अमलः प्रसन्न इत्यर्थः । असौ श्रीनिवासः कुफलं कुत्सितफलं नो दधातु

न पुष्णात्वित्यर्थः । इयं युग्माक्षरश्लिष्टगोमूत्रिका । उद्धारक्रमस्तु षोडशदलपद्मनिरूपणावसर एव प्रदर्शितः ॥

भो गी श्व शै क्षि ति वि ला लो लो दा तु नः कु लं
यो गी श्व जा स्तु ति कु ला लो सौ धा तु नो कु लं

 इदमेव पद्यं प्रागुपदर्शितरीत्या त्रिवीधिकगोमूत्रिकाकारोऽपि भवति । एवमुत्तरत्रापि ॥

 यथावा--

 फणिशैलशिरोधामा नवजलजविलोचनस्सदाऽपायात् । मणिलोलदुरोदामा भववलनविमोचनस्स मां पायात् ॥ २३७२ ॥

 मणिना तरळरत्नेन लोलत् चलत् उरोदाम वक्षोहारो यस्य तथोक्तः सः भगवान् मां सदा अपायात् पायादिति योजना । इयमपि युग्माक्षरश्लिष्टगोमूत्रिकैव । अत्रापि प्रागुपदर्शितरीत्या बन्धलेखनप्रकारः ॥

 यथावा--

 माधव दूरे वचसां चरितं तव पापहारि दलितभवम् । मामव शौरेऽनुचरं चलितं भवतापतोऽरिकलितभयम् ॥ २३७३ ॥

 भवतापतः संसारतापेन चलितं अनवस्थितचित्तं अरिभिः कामादिभिः कलितं भयं यस्य तं अरिषड्वर्गत्रस्तमित्यर्थः । अनुचरं तव किंकरं “कुरुष्व मामनुचरम्" इत्येतदनेन ज्ञाप्यते । मां अव रक्ष । इयमयुग्माक्षरश्लिष्टगोमूत्रिका ॥  उद्धारस्तु--

 

 यथावा--

 मनसिजसमानरूपे हृदयं लगतादशेषजगतीशे । महसि लसमानचापे सदये लघु तादृशेऽरिजयतीव्रे ॥ २३७४ ॥

 अरिजयविषये तीव्रे तीक्ष्णे मनसिजसमानरूपे आनयतीत्यानं जगदुज्जीवयितृ रूपं मनसिजसमं आनरूपं यस्य तस्मिन्निति विग्रहः । यद्वा मान्यत इति मानं 'अकर्तरि च कारके' इति कर्मणि घञ् तादृशं च तत् रूपं च तेन सह वर्तत इति समानरूपं । मनसिज इव समानरूपमिति विग्रहः तस्मिन् कन्दर्पतुल्यमाननीयरूप इत्यर्थः । न तु समानं रूपं यस्येति विग्रहः । तथा सति 'ज्योतिर्जनपद' इत्यादिना समानशब्दस्य सभावापत्तेः । यद्वा समानशब्दात्प्रशंसायां रूपप्प्रत्ययः प्रशस्तं समानं समानरूपमिति विग्रहः । मनसिजस्य प्रशस्ते समाने इत्यर्थः । तत्तुल्यसौन्दर्ये इति

भावः । लसमानं लसनशीलं चापं यस्य तस्मिन् । लसतेश्चानश् । 'लसमाननवांशुकः इति माघः । लघु क्षिप्रं हृदयं लगतादिति योजना । इदमपि पद्यं अयुग्माक्षरश्लिष्टगोमूत्रिकारूपम् ॥
 

 हारबन्धो यथा--

 श्रीलक्ष्मीलक्ष्मालङ्क्रियं घनाघनघनश्रियश्श्रयभयदम् । पूतध्यातञ्चेतश्शेषधराधरधरामणिङ्गुणिभणितम् ॥ २३७५ ॥

 श्रीः लक्ष्मीः लक्ष्म श्रीवत्सश्च अलङ्क्रिये अलंकारौ यस्य तम् । घनाघनघनश्रियः प्रावृषेण्यजलदसान्द्ररुचः भयदं तातोऽपि नीलमिति यावत्। पूतैः शुद्धान्तःकरणैः मुनिभिः ध्यातं उपासितम् । गुणी अनन्तकल्याणगुणाकर इति भणितं श्रुतिभिः प्रतिपादितं शेषधराधरधरायाः मणिं रत्नभूतं श्रीनिवासं हे चेतः हृदय श्रय आश्रयस्व ॥ उद्धारस्तु-

 कविनामाङ्कितगवाक्षबन्धो यथा--

 कृत्तोष्णाभविनिर्यद्रुचिमदविकसनमणिं कलये । विनतजनादरणकृतं फणिगिरितिलकं हरिं ध्येयम् ॥

 उष्णाभात् भानोः विनिर्यन्त्याः रुचेः प्रभायाः यो मदः तस्य विकसनं उन्मेषः तत् कृत्तं छिन्नं येन स तथोक्तः मणिः कौस्तुभो यस्य तं दिनमणिघृणिमदक्षपणनिपुणमणिवरोरस्कमित्यर्थः । विनतजनानां आदरणकृतं फणिगिरितिलकं हरिं ध्येयं कलये ध्यायामीत्यर्थः । लक्षणं तु--

उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः ।
तिर्यक्कोष्ठान्यपि तथा भवेयुर्मध्यतो नव ॥
उभयोरनयोः पार्श्वद्वये कोष्ठान्यनुक्रमात् ।
सप्त पञ्च तथा त्रीणि निष्पद्येरन्यथा तथा ॥
तुल्यप्रमाणा विलिखेत्तिर्यगूर्ध्वं च रेखिकाः ।
मध्यवीधीशिरःकोष्ठादारभ्य विलिखेद्बुधः ॥
एकं त्रीन्पञ्च सप्ताथ नव सप्त च पञ्च च ।
त्रीनेकं चेति पद्यस्य वर्णांस्तिर्यगनुक्रमात् ॥
ऊर्ध्वमध्यमवीधीस्थवर्णैः प्रमिळितैः क्रमात् ।
स्वोद्देश्यकविकाव्यादिनाम्नामुद्धृतिरिष्यते ॥
गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः ।

 अत्र ऊर्ध्वमध्यमविध्यां ‘कृष्णार्यकविकृतिरियम्’ इति कविनामादिकमुद्धृतम् । इममेव रथबन्ध इत्यप्याहुः ॥


 अमलं जगतां कारणमुदाररत्नावभासितोरस्कम् । महनीयं विनुमः फणिगिरिराजविहारि किन्नरोद्गेयम् ॥ २३७७ ॥

 अत्र ऊर्ध्वमध्यमवीध्यां 'अलंकारमणिहारोऽयम्' इति काव्यनामोद्धारः

इत्यलंकारमणिहारे शब्दालंकारसरो द्वाविंशोत्तरशततमः.