अलङ्कारमणिहारः (भागः ४)/प्रत्यक्षालङ्कारः (११२)

               




   


अथ प्रमाणालंकाराः (११२)


प्रत्यक्षादिप्रमाणानां स्याच्चमत्कारिता यदि ।
तदा प्रमाणालंकारानष्टौ प्राहुः परे बुधाः ॥

 तत्र प्रत्यक्षं यथा--

अर्थानामिन्द्रियाणां च संनिकर्षेण यद्भवेत् ।
ज्ञानं तदाहुः प्रत्यक्षं चारु चेत्तदलंकृतिः ॥

 इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं चारुतया वर्णितं चेत्प्रत्यक्षं नामालङ्कारः ॥

 यथा--

 त्वयि नाथ रुचिरवचने सुधाधरे सुन्दरेऽतिसुकुमारे । सर्वाणि सर्वगन्धे व्रजसुदृशामिन्द्रियाणि सुखितानि ॥ २०१९ ॥

 अत्र प्राथिमिकेन विशेषणेन श्रोत्रविषयस्य, द्वितीयेन रसनेन्द्रियविषयस्य, तृतीयेन चक्षुर्विषयस्य, तुरीयेण त्वगिन्द्रियविषयस्य, पञ्चमेन घ्राणेन्द्रियविषयस्य, सुखितानीत्यनेन सर्वेन्द्रियविषयानुभवजन्यसुखस्य च प्रतिपादनेन सर्वेन्द्रियजन्यप्रत्यक्षप्रतीतेश्चमत्कारितया प्रत्यक्षनामालङ्कारः ॥ अत्र 'सर्वगन्धस्सर्वरसः' इति श्रुतिरनुसन्धेया ॥

 यथावा--

 त्वत्तनुमतिदिव्यतमां त्वत्तीर्थं स्वादु तव सुर

भितुलसीम् । तव पदमतिमृदु चरितं चासेव्य कृतार्थ इन्द्रियगणो नः ॥ २०२० ॥

 अत्रासेवनकर्मभूतैः त्वत्तनुमित्यादिभिः चक्षूरसनघ्राणत्वक्श्रोत्ररूपेन्द्रियविषयाणां पञ्चानां रूपरसगन्धस्पर्शशब्दानां आसेव्येत्यनेन तदनुभवस्य च प्रतिपादनादयमपि पूर्ववत्प्रत्यक्षालङ्कारः ॥

 यथावा--

 इममधुनाऽऽलोकपथं समनैषं फणिधरेऽत्र मम नाथम् । गमितो यश्श्रुतिपदवीममितोज्ज्वलभाः पुरा श्रियः कमिता ॥ २०२१ ॥

 अत्र फणिधरे अधुना इमं मम नाथं आलोकपथं समनैषं अद्राक्षमित्यर्थः । पक्षे लोकपथं स्मृतिपदवीं समनैषमिति । लोकशब्दः स्मृतिवाची । ‘अतोऽस्मि लोके वेदे च' इत्यत्र अतोऽस्मि वेदे इत्यत्र लोके स्मृतावित्यर्थस्य भाषितत्वात् । अमितोज्ज्वलभाः यः श्रियः कमिता पुरा श्रुतिपदवीं श्रवणसरणिं वेदवर्तनीं गमितः यश्श्रावणप्रत्यक्षविषयतां पूर्वं प्रापितस्सोऽधुना चाक्षुषप्रत्यक्षगोचरीकृतोऽस्माभिरिति भावः । पक्षे श्रुतिषु यः श्रियःपतित्वेनामिततेजस्त्वेन प्रथितस्स एव मन्वादिस्मृतिष्वपि तथात्वेनोच्यत इत्यविदमिति भावः । अत्र भगवतश्श्रावणचाक्षुषप्रत्यक्षविषयतया वर्णनम् ॥

 यथावा--

 चिन्तामणिगिरिशिखरे किं तावदियं तटिल्लताऽम्बुधरे । संदिह्येत्थं स्थेम्ना मन्दं निरचैषमच्युते लक्ष्मीम् ॥ २०२२ ॥

 स्थेम्ना स्थैर्येण हेतुना अच्युते लक्ष्मीं निरचैषं नेयं जलधरे विद्युत् किंतु श्रीनिवासे श्रीरिति निरणैषमित्यर्थः । पूर्वत्र प्रत्यक्षमात्रं, इह तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति विशेषः ॥

इत्यलङ्कारमणिहारे प्रत्यक्षालंकारसरो

द्वादशोत्तरशततमः