अलङ्कारमणिहारः (भागः ४)/लक्षणश्लोकाः

               




   

श्रीः

अलङ्कारमणिहार लक्षणश्लोकाः.


जयतु श्रीवृषाद्रिस्थं जगत्त्रितयरक्षणम् ।
वदान्यं परमं ब्रह्म वक्षोलऽङ्कारलक्षणम् ॥

(१) उपमा.

उद्भूता भाति साम्यश्रीरुभयोर्यत्र सोपमा ।
वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा ॥
पूर्णा लुप्तेत्यलङ्कारतत्त्वज्ञैस्सा द्विधोदिता ।
उपमानं चोपमेयं धर्मो वाचकमित्यदः ॥
चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता ।
वर्ण्योपमानयोर्द्धर्मोपमावाचकयोरपि ॥
एकद्वित्र्यनुपादाने भवेल्लुप्तोपमाऽष्टधा ।
वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा ॥
वर्ण्यवाचकयोर्लोपे तत्तल्लुप्ताः खलूपमाः ।
उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता ॥
प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदैः ।
धर्मोपमानलुप्ताऽन्या लोपे धर्मोपमानयोः ॥
अष्टमी धर्मोपमानवाचकानां विलोपने ।
एवं कुवलयानन्दप्रकारेणोपमोदिता ॥


प्राचां मते विभागोऽस्या उपमायाः प्रपञ्च्यते ।
पूर्णा लुप्तेति भेदेन द्विविधा सा तयोः पुनः ॥
श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा ।
तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक् ॥
यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् ।
उपादाने भवेच्छ्रौतीत्याहुश्शास्त्रविचक्षणाः ॥
ये धर्मिव्यवधानेन सादृश्यप्रतिपादकाः ।
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगतः ॥
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा ।
एकरूपा त्रिलुप्तेति लुप्ता सामान्यतोऽष्टधा ॥
धर्मस्याथोपमानस्य वाचकस्य विलोपने ।
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा ॥
धर्मवाचकयोर्लोपे तथा धर्मोपमानयोः ।
वर्ण्यवाचकयोस्तद्वद्वाचकावर्ण्ययोरपि ॥
त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपतः ।
क्रमेण धर्मलुप्तादेर्विभागोऽथ प्रदर्श्यते ॥
पूर्णावद्धर्मलुप्ताऽपि श्रौर्त्यार्थीति द्विधा भवेत् ।
तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः ॥
लुप्तोपमाना द्विविधा वाक्यगा च समासगा ।
वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्यङि ॥
कर्मकर्त्रोर्णमुलि च णिनौ क्विपि च तद्धिते ।
एवं नवप्रकारैषा ज्ञेया वाचकलोपिनी ॥
धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयोः ॥
धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते ॥


क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता ।
क्वचित्समास एव स्याद्वाचकावर्ण्यलोपिनी ॥
या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा ।
एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः ॥
एकस्यैवोपमेयस्य यद्यनेकोपमानता ।
तदा मालोपमामेतामाहुः केचिद्विचक्षणाः ॥
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम् ।
उपमानत्वमेषोक्ता कविभी रशनोपमा ॥

(२) उपमेयोपमा

उपमेयोपमा सा स्यादुपमानोपमेययोः ।
पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते ॥

(३) अनन्वयः.

अनन्वयो यदेकस्यैवोपमानोपमेयता ॥

(४) असमः

उपमायास्सर्वथैव निषेधोऽसम उच्यते ।
प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते ॥

(५) उदाहरणम्.

सामान्योक्तसुबोधाय तदेकांशनिरूपणात् ।
उक्ते तयोरवयवावयवित्व उदाहृतिः ॥

(६) प्रतीपम्.

प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता ।
अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः ॥


लाभाद्वर्ण्योपमेयस्य स्यादन्यानादरश्च तत् ।
उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि तत् ॥
उपमानस्य कैमर्थ्यं प्रतीपं पञ्चमं विदुः ।

(७) रूपकं.

यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम् ।
रूपकं तद्द्विधाऽभेदताद्रूप्यावसितं विदुः ॥
आरोपे सत्यभेदस्याभेदरूपकमुच्यते ।
ताद्रूप्यरूपकं तत्स्यात्ताद्रूप्यस्य स चेद्भवेत् ॥
तद्द्वयं च त्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः ।
पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम् ॥
वर्ण्यायां चेदवस्थायामधिकाभेदरूपकम् ।
न्यूनता प्रागवस्थातश्चेन्न्यूनाभेदरूपकम् ॥
आधिक्यन्यूनताभावेऽनुभयाभेदरूपकम् ।
ताद्रूप्यरूपकेऽप्येवं त्रैविध्यं सद्भिरूह्यताम् ॥
प्राचां मते विभागोऽपि रूपकस्य निरूप्यते ।
त्रिधा साङ्गं निरङ्गं च परम्परितमित्यदः ॥
समस्तवस्तुविषयमेकदेशविवर्ति च ।
इति सावयवं चापि द्विविधं तत्र रूपकम् ॥
यत्परस्परसापेक्षनिष्पत्तीनां निबध्यते ।
रूपकाणां तु संघातो भवेत्सावयवं हि तत् ॥
निरूपणेऽवयविनोऽवयवानां च शब्दतः ।
समस्तवस्तुविषयं भवेत्सावयवं हि तत् ॥
आरोप्यमाणं शाब्दं चेत्क्वचिदार्थं च कुत्रचित् ।
एकदेशविवर्त्याख्यमिदं सावयवं विदुः ॥


निरङ्गं तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम् ।
तद्द्विधा केवलं मालारूपं चेति सतां मतम् ॥
एकं विषयि यद्यन्यविषय्यन्वितमुच्यते ।
कार्यकारणभावेन स्यात्परम्परितं तदा ॥
श्लिष्टाश्लिष्टविभेदन तत्परम्परितं द्विधा ।
केवलं मालिका चेति तद्द्वयं द्विविधं भवेत् ॥
एवमष्टविधं प्राचां मते रूपकमिष्यते ।

(८) परिणामः

विषयी स्वात्मना यत्र प्रकृतानुपयोगतः ।
विषयात्मत्वमभ्येति परिणामस्स ईरितः ॥

(९) उल्लेखः

ग्रहीतृभिरनैकैर्यदेकस्यानेकधा ग्रहः ।
रुच्यादिकारणवशात् तमुल्लेखं प्रचक्षते ॥
एकस्य विषयादीनामनेकत्वनिबन्धम् ।
नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोऽपि संमतः ॥

(१०) स्मृतिः

या सादृश्यपरिज्ञानोद्बुद्धसंस्कारतस्स्मृतिः ।
प्रयोज्या सा स्मृतिर्नामालङ्कृतिः कथ्यते बुधैः ॥

(११) भ्रान्तिः.

चमत्कृतिमती भ्रान्तिर्यस्मिन् सादृश्यहेतुका ।
अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति ॥

(१२) सन्देहः.

सम्भावनानिश्चयान्यतरभिन्ना मनोरमा ।
सादृश्यहेतुका बुद्धिःसन्देहालङ्कृतिर्मता ॥


(१३) अपह्नुतिः.

आहार्याभेदबुद्धेश्चेन्निषेधोऽङ्ग्यङ्गमेव वा ॥
एतां सामान्यतः प्राहुरपह्नुतिमलङ्कृतिम् ॥
अन्यारोपफलो यस्स्यात्प्रकृते धर्मनिह्नवः ।
अलङ्कृतिरियं शुद्धापह्नुतिर्नाम गद्यते ॥
स एवापह्नवो युक्तिपूर्वश्चेद्धेत्वपह्नुतिः ।
पर्यस्तापह्नुतिर्यत्र क्वचित्तद्धर्मनिह्नवः ॥
वर्णनीये तदारोपफलको वर्ण्यते यदि ।
भ्रान्तेर्निवारणेऽन्यस्य शङ्कायां भ्रान्त्यपह्नुतिः ॥
अन्यस्य शङ्कया छेकापह्णुतिस्तथ्यनिह्नुतौ ।
छलच्छद्मनिभाद्यैश्च वपुरात्मादिकैः पदैः ।
निह्नुतिश्चेदभिव्यङ्ग्या कैतवापह्नुतिर्हि सा ॥

(१४) उत्प्रेक्षा.

यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम् ।
सोत्प्रेक्षोक्ता त्रिधैषा स्याद्वस्तुहेतुफलात्मना ॥
उक्तानुक्तास्पदत्वेन वस्तूत्प्रेक्षा द्विधा मता ।
हेतूत्प्रेक्षाफलोत्प्रेक्षे सिद्धासिद्धास्पदत्वतः ॥

(१५) अतिशयोक्तिः.

निगीर्य विषयं यत्र विषय्येवाध्यवस्यते ।
रूपकातिशयोक्तिं तामलङ्कारविदो विदुः ॥
उक्ता सापह्नवा सैव यद्यपह्नुतिगर्भिता ।
भेदकातिशयोक्तिर्यत्प्रस्तुतस्यान्यतोच्यते ॥
असंबन्धेऽपि संबन्धो वर्ण्योत्कृष्ट्यै यदीर्यते ।
संबन्धातिशयोक्तिं तामलङ्कारविदो जगुः ॥


योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरुदीर्यते ।
हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका ॥
हेतुप्रसक्तिमात्रेण कार्यं चेद्विनिबध्यते ।
चपलातिशयोक्तिस्सा निपुणैर्विनिगद्यते ॥
हेतोः कार्यस्य च स्याच्चेत्पौर्वापर्यविपर्ययः ।
अत्यन्तातिशयोक्तिं तामाहुः काव्यविचक्षणाः ॥

(१६) तुल्ययोगिता

वर्ण्यानामेव वाऽन्येषामेव वा धर्म एककः ।
अन्वितो वर्ण्यते यत्र तत्र स्यात्तुल्ययोगिता ॥
हितेऽहिते च यद्वृत्तेस्तौल्यं सा त्वपरा मता ।
यदुत्कृष्टगुणैस्साम्यवचनं साऽपरा मता ॥

(१७) दीपकम्

तद्दीपकं स्याद्यद्वर्ण्यावर्ण्ययोरेकधर्मता ॥

(१८) आवृत्तिदीपकम्.

समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्थयोः ।
आवृत्तिदीपकं प्राहुस्त्रिविधं बुधसत्तमाः ॥

(१९) प्रतिवस्तूपमा

सादृश्यावसिते वाक्यद्वये चेद्धर्म एककः ।
द्विरुपात्तो भवेत्सा तु प्रतिवस्तूपमोच्यते ॥

(२०) दृष्टान्तः

बिम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं द्वयोः ।
वाक्यार्थयोश्चेदौपम्यमार्थं दृष्टान्त ईर्यते ॥


(२१) निदर्शना

उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्त्यते ।
औपम्यपर्यवसितो भवेत्सेयं निदर्शना ॥
पदार्थपूर्वा साऽन्या स्यादुपमानोपमेययोः ।
यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते ॥
सदसद्बोधनं स्याच्चेत्क्रिययाऽन्या निदर्शना ॥

(२२) व्यतिरेकः

उक्तः कश्चिद्विशेषश्चेदुपदुपमानोपमेययोः ।
तमाहुर्व्यतिरेकाख्यमलंकारं विचक्षणाः ॥
उपमेयस्योपमानाद्यदा गुणविशेषतः ।
उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः ॥

(२३) सहोक्तिः

गुणप्रधानताभाजोरर्थयोरुभयोर्यदा ।
वर्ण्यस्सहार्थसंबन्धस्सहोक्तिं तां तदा विदुः ॥

(२४) विनोक्तिः

किंचिद्विना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा ।
निबध्यते यदि तदा सा विनोक्तिरलंकृतिः ॥

(२५) समासोक्तिः

साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि ।
समासोक्तिमिमां प्राहुः प्राञ्चोऽलंकारवेदिनः ॥

(२६) परिकरः

साभिप्राये परिकरोऽलंकारस्स्याद्विशेषणे ।


(२७) परिकराङ्कुरः

विशेष्यं यदि साकूतं भवेत्परिकराङ्कुंरः. ॥

(२८) श्लेषः

वर्ण्यावर्ण्योभयालम्बी श्लेषोऽनेकार्थसंश्रयः ।
आद्योऽष्टधा वर्णपदलिङ्गभाषाविभक्तिभिः ॥
प्रकृतिप्रत्ययाभ्यां च वचनैश्श्लेष ईरितः ।
विभक्त्यादिवशाद्यत्र नानावर्णैकरूपता ॥
श्रूयते स हि विद्वद्भिर्वर्णश्लेष इतीर्यते ।
पदश्लेषस्स यश्श्लेषः पदभेदनिबन्धनः ॥
लिङ्गश्लेषस्स विज्ञेयो हृस्वदीर्घसमासतः ।
स्त्रीपुंनपुंसकानां चेच्छब्दानां तुल्यरूपता ॥
भाषाश्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत् ।
सुपां तिङां च श्लेषश्चेद्विभक्तिश्लेष ईरितः ॥
अश्लिष्टमत्ययकृता प्रकृत्योश्चेत्सरूपता ।
स एष प्रकृतिश्लेषो द्विधा सुप्तिङपेक्षया ॥
प्रकृतिप्रत्ययौघस्यानेकस्य प्रत्ययैर्यदि ।
श्लिष्टैस्सरूपता सोऽयं प्रत्ययश्लेष उच्यते ॥
स भवेद्वचनश्लेषश्श्लिष्यन्ति वचनानि चेत् ॥

(२९) अप्रस्तुतप्रशंसा

स्यात्प्रस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम् ।
अप्रस्तुतप्रशंसाख्या सैषाऽलंकृतिरुच्यते ॥
कार्ये हेतौ तथा व्याप्ये व्यापके प्रस्तुतेऽन्यगीः ।
समे समस्य चेत्येवं सैषा भवति पञ्चधा ॥


(३०) प्रस्तुताङ्कुरः

प्रस्तुतस्य प्रस्तुतेन व्यञ्जने प्रस्तुताङ्कुरः ॥

(३१) पर्यायोक्तम्

पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम् ।
व्याजेन रमणीयेन यदि स्वस्य परस्य वा ॥
साध्यतेऽभीप्सितं तच्च पर्यायोक्तं विदुर्बुधाः ॥

(३२) व्याजस्तुतिः

स्तुत्याऽभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि ।
तत्र व्याजस्तुतिं नाम प्राज्ञाः प्राहुरलंकृतिम् ॥
स्तुत्या निन्दा निन्दया वा स्तुतिर्भिन्नैकगोचरा ।
व्यङ्ग्या विभिन्नविषया स्तुत्या व्याजस्तुतिस्स्तुतिः ॥

(३३) व्याजनिन्दा

व्याजनिन्दा तु निन्दाया निन्दया व्यङ्ग्यता यदि ॥

(३४) आक्षेपः

स आक्षेपो भवेत्स्वोक्तिनिषेधो यो विमर्शतः ।
निषेधो यो बाधितस्सन् विशेषं कंचिदाक्षिपेत् ॥
वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगुः ।
निषेधाभासवद्विध्याभासोऽप्याक्षेप इष्यते ॥

(३५) विरोधः

स विरोधोऽविरोधेऽपि विरोधाभासता यदि ।
जात्यादीनां स्वस्वपरसंबन्धाद्दशधा भवेत् ॥


(३६) विभावना

कारणव्यतिरेकेऽपि कार्योत्पत्तिर्विभावना ।
कारणानामसामग्र्ये कार्यजन्म च सा मता ॥
तृतीया प्रतिबन्धेऽपि कार्योत्पत्तिर्विभावना ।
विभावना चतुर्थी स्यात्कार्योत्पत्तिरकारणात् ॥
कार्योत्पत्तिर्विरुद्धाच्चेत्पञ्चमी सा विभावना ।
कारणस्योद्भवः कार्याद्यदि षष्ठी विभावना ॥

(३७) विशेषोक्तिः

विशेषोक्तिः पुष्कलेऽपि हेतौ कार्यं न चेद्भवेत् ॥

(३८) असंभवः

असंभाव्यत्वकथनमर्थासिद्धेरसंभवः ॥

(३९) असंगतिः

भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः ।
वर्ण्यते तमलंकारं प्राज्ञाः प्राद्दुरसंगतिम् ॥
कार्यमन्यत्र यत्तस्य ततोन्यत्र क्रियापि सा ।
कर्तुमन्यत्प्रवृत्तस्य तद्विरुद्धक्रिया च सा ॥

(४०) विषमम्

अनानुरूप्यभाजोर्यद्धटनं विषमं हि तत् ।
विलक्षणस्य कार्यस्योत्पत्तिं च विषमं विदुः ।
इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम् ॥

(४१) समम्

यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः ।
समं तदपि कार्यस्य सारूप्यं कारणेन यत् ॥


यत्किञ्चिदिष्टसिद्ध्यर्थं य उद्योगो वितन्यते ।
अनिष्टेन विना तस्य सिद्धिश्च सममुच्यते ॥

(४२) विचित्रम्

इष्टैषिणेष्टसिद्ध्यै तद्विपरीतं क्रियेत चेत् ।
प्रयत्नस्तामिमां प्राहुर्विचित्रालंकृतिं बुधाः ॥

(४३) अधिकम्

आधेयाधिक्यकथनमाधारान्महतोऽधिकम् ।
आधाराधिक्यकथनमाधेयाद्विपुलाच्च तत् ॥

(४४) अल्पम्

आधारसौक्ष्म्यमाधेयात्सूक्ष्मादल्पं तदुच्यते ।
सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्भवेत् ॥

(४५) अन्योन्यम्

विशेषाधानमन्योन्यमन्योन्यालंकृतिं विदुः ।

(४६) विशेषः

विशेषस्स्याद्विनाऽऽधारादाधेयं वर्ण्यते यदि ॥
यत्रैकमेव युगपदनेकाधारसंश्रयम् ।
आधेयं वर्ण्यते सोपि विशेषः परिकीर्तितः ॥
किंचित्कार्यारम्भमात्रादन्यत्कार्यं सुदुष्करम् ।
कृतं निबध्यते यत्र विशेषस्सोपि संमतः ॥

(४७) व्याघातः

तत्कार्यसाधनं वस्तु तद्विरुद्धस्य साधनम् ।
क्रियते चेत्तदा ख्यातो व्याघातोऽसावलंकृतिः ॥
पराभिमतकार्यस्य विरुद्धा केनचित् क्रिया ।


सौकर्यतो निबद्धा चेद्व्याघातस्सोपि कथ्यते ॥
यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता ।
अर्थेषु पङ्क्तिबद्धेषु व्यत्ययो वाऽपि शृङ्खला ॥

(४८) कारणमाला

पूर्वपूर्वैर्वस्तुभिस्स्यादुत्तरोत्तरकारणैः ।
गुम्भः कारणमालैषा वैपरीत्येऽपि चेष्यते ॥

(४९) एकावळी

उत्तरस्योत्तरस्य स्यात्पूर्वं पूर्वं विशेषणम् ।
विशेष्यं वा यदा प्राहुरिमामेकावळीं तदा ॥

(५०) मालादीपकम्

मालादीपकमेतत्स्याद्दीपकैकावळीयुतेः ।

(५१) सारः

सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः ।

(५२) यथासंख्यम्.

उद्देशक्रमतोऽर्थानां संबन्धो यत्र कथ्यते ।
प्राञ्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥

(५३) पर्यायः

आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः ।
वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलंकृतिः ॥
क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः ॥

(५४) परिवृत्तिः

निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः ।


(५५) परिसंख्या

एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् ।
परिसंख्येति तत् प्राहुरलंकाराध्वयायिनः ॥

(५६) विकल्पः

विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेद्विरुद्धयोः ।

(५७) समुच्चयः

यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः ।

(५८) कारकदीपकम्

क्रमिकाणां क्रियाणां चेदेककारकगामिनाम् ।
गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥

(५९) समाधिः

कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित् ।
सौकर्यं वर्ण्यते यत्र समाधिस्तत्र गीयते ॥

(६०) प्रत्यनीकम्

बलिनि प्रतिपक्षे वा तत्पक्षे वा तिरस्कृतिः ।
तत्प्रतिद्वन्द्विसाह्यं वा प्रत्यनीकमितीर्यते ॥

(६१) काव्यार्थापत्तिः

दण्डापूपिकया यत्रार्थान्तरापतनं भवेत् ।
काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥
अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत् ।
आपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते ॥


(६२) काव्यलिङ्गम्

यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् ।
समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते ॥

(६३) अर्थान्तरन्यासः

समर्थनं विशेषस्य सामान्येनास्य तेन वा ।
आहुरर्थान्तरन्यासं साधर्म्येणेतरेण वा ॥

(६४) विकस्वरः

सामान्येन विशेषस्य क्रियते यत्समर्थनम् ।
पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥

(६५) प्रौढोक्तिः

यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् ।
प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः ॥

(६६) सम्भावना

सम्भावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥

(६७) मिथ्याध्यवसितिः

मिथ्यार्थोऽन्यः कल्प्यते चेत्किञ्चिन्मिथ्यात्वसिद्धये ।
मिथ्याध्यवसितिर्नाम सालंकृतिरुदाहृता ॥

(६८) ललितम्

धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना ।
तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम् ॥

(६९) प्रहर्षणम्

विना यत्नादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम् ।
अभीप्सितार्थादधिकलाभश्चापि प्रहर्षणम् ॥


उपायसिद्धये यत्ने क्रियमाणे यदृच्छया ।
साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥

(७०) विषादनम्

यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् ।

(७१) उल्लासः

यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः ।
आधानं वर्ण्यते प्राहुरुल्लासालंकृतिं तु ताम् ॥

(७२) अवज्ञा

न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् ।

(७३) अनुज्ञा

अनुज्ञा सा गुणौत्सुक्याद्दोषस्याभ्यर्थना यदि ।

(७४) तिरस्कृतिः

गुणस्य दोषसंबन्धाद्दोषश्चेत्सा तिरस्कृतिः ।

(७५) लेशः

गुणो दोषतया दोषो गुणत्वेनाथवा यदि ।
वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥

(७६) मुद्रा

प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम् ।

(७७) रत्नावळी

प्रसिद्धसहपाठानामर्थानां न्यसनं यदि ।
रत्नावळी सा विख्याता सक्रमाक्रमताभिदा ॥


(७८) तद्गुणः

स्वगुणस्य परित्यागात्तद्भणोऽन्यगुणग्रहः ।

(७९) पूर्वरूपम्

स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ॥
यत्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम् ।
पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥

(८०) अतद्गुणः

अतद्गुणं सङ्गतान्यगुणानङ्गीकृतिं विदुः ।

(८१) अनुगुणः

स्वसजातीयगुणवदन्यसान्निध्यतो यदि ।
उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥

(८२) मीलितम्

न दृश्यते भेद एव सादृश्याद्यदि मीलितम् ।
वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा ॥
पिधीयते वस्तुना चेन्मीलितं तदुदाहृतम् ॥

(८३) सामान्यम्

न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम् ।
गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत् ॥
ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम् ॥

(८४) उन्मीलितम्

स्फूर्तौ समानगुणयोर्भेदस्योन्मीलितं विदुः ।

(८५) विशेषकम्

द्वयोर्वैधर्म्यसंस्फूर्त्तौ तुल्ययोस्स्याद्विशेषकः ।


(८६) उत्तरम्

उन्नतिप्रश्नमथवा निबद्धप्रश्नमुत्तरत् ।
साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥
चित्रोत्तरमलंकारः प्रन्नाभिन्नोत्तरं भवेत् ।
यच्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते ॥

(८७) चित्रप्रश्नः

प्रश्नः प्रश्नान्तराभिन्नो यदि वान्यार्थगर्भितः ।
निबध्यते तं कतिचिच्चित्रप्रश्नाख्यमुचिरे ॥

(८८) सूक्ष्मम्

अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ।

(८९) पहितम्

परवृत्तज्ञसाकूतचेष्टितं पिहितं मतम् ॥

(९०) व्याजोक्तिः

हेत्वन्तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम् ।

(९१) गूढोक्तिः

गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥

(९२) विवृतोक्तिः

विवृतोक्तिश्श्लेषगूढं विवृतं कविना यदि ।

(९३) युक्तिः

युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम् ॥

(९४) लोकोक्तिः

लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि ।


(९५) छेकोक्तिः

स्याच्चेल्लोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते ॥

(९६) वक्रेक्तिः

अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते ।
श्लेषेण यदि काक्वा वा सा वक्रोक्तिरितीर्यते ॥

(९७) स्वभावोक्तिः

जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ।

(९८) भाविकम्

वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ॥
प्रत्यक्षे इव दृश्येते यत्र तद्भाविकं मतम् ।

(९९) उदात्तम्

तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत् ।
अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते ॥

(१००) अत्युक्तिः

अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।

(१०१) निरुक्तिः

सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥

(१०२) प्रतिषेधः

प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ॥

(१०३) विधिः

सा विध्यलकृतयत्र सिद्धमेव विधीयते ॥


(१०४) हेतुः

साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः ।
केचिद्धेतुमतो हेतोश्चैक्यं हेतुं बुधा जगुः ॥
इत्थं यथामति प्राचामर्वाचां च मतान्यलम् ।
प्रविचार्य शतं साग्रमलङ्कारा निरूपिताः ॥
रसभावतदाभासभावशन्तिनिबन्धनाः ।
रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥
अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः ।
अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः ॥
भावस्य चोदयस्सन्धिश्शबलत्वमिति त्रयः ।
एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥

(१०५) रसवान्

रसे रसाङ्गे भावाङ्गेऽप्येष्वाहू रसवद्बुधाः ।

(१०६) प्रेयः

यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते ॥

(१०७) ऊर्जस्वी

भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्नुते ।
यदा तदेयमूर्जस्विनामाऽलंकृतिरुच्यते ॥

(१०८) समाहितम्

समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः ।

(१०९) भावोदयः

भावोदयस्य भावाङ्गभावे भावोदयो मतः ॥


(११०) भावसन्धिः

भावाङ्गत्वे भावसन्धेर्भावसन्धिरलंकृतिः ।

(१११) भावशबलता

भावाङ्गे भाबशाबल्ये भावशाबल्यमुच्यते ॥
प्रत्यक्षादिप्रमाणानां स्याच्चमत्कारिता यदि ।
तदा प्रमाणालङ्कारानष्टौ प्राहुः परे बुधाः ॥

(११२) प्रत्यक्षम्

अर्थानामिन्द्रियाणां च सन्निकर्षेण यद्भवेत् ।
ज्ञानं तदाहुः प्रत्यक्षं चारु चेत्तदलंकृतिः ॥

(११३) अनुमानम्

अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम् ।

(११४) उपमानम्

संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः ।
सादृश्यज्ञानकरण उपमानं तदुच्यते ॥

(११५) शब्दप्रमाणम्

स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम् ।
श्रुतिस्मृतीतिहासादिरूपः शब्द इतीर्यते ॥

(११६) अर्थापत्तिः

अन्यथाऽनुपपत्त्या यत्किञ्चिदर्थस्य कल्प्यते ।
अर्थान्तरं तां कथयन्त्यर्थापत्तिं विचक्षणाः ॥

(११७) अनुपलब्धिः

यद्योग्यानुपलब्धेस्स्यादभावस्यावधारणम् ।
कृतिनोऽनुपलब्धिं तां रम्यां विदुरलंकृतिम् ॥


(११८) संभवः

सम्भवोऽधिकसद्भावान्न्यूनस्थित्यवधारणम् ।

(११९) ऐतिह्यम्

यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् ।
पारम्पर्यं प्रवादस्य तत्रैतिह्यमलंकृतिः ॥

(१२०) संसृष्टिः

अलंकृतीनां सर्वासां यथासंभवमेळने ।
लौकिकानामिवैतासां चारुताशियेक्षणात् ॥
नरसिंहप्रक्रियया भात्यलंकारता पृथक् ।
अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे ॥
तिलतण्डुलससंर्गरीत्या यत्रेतरेतरम् ।
संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते ॥
शब्दालंकारयोरर्थालंकृत्योश्च परस्परम् ।
उभयोरपि संसृष्टिरिति सा त्रिविधा मता ॥

(१२१) सङ्करः

यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी ।
संकीर्येरन् संकरोऽयमिति काव्यविदो विदुः ॥
सोऽयमङ्गाङ्गिभावेन समप्राधान्यतस्तथा ।
संदेहेन तथा चैकवाचकानुप्रवेशतः ॥
चतुर्धा सङ्करः प्रोक्तश्श्रीमदप्पयदीक्षितैः ।
एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥


अङ्गाङ्गिभावसङ्करः

अप्रधानालंक्रियया प्रधानालंक्रिया यदि ।
उज्जीव्येत तदाऽङ्गाङ्गिभावसंङ्कर इष्यते ॥

समप्राधान्यसंकरः

अन्यालंकारगर्भैवोन्नह्यते काऽप्यलंकृतिः ।
अन्यया तुल्यकालं चेत्समप्राधान्यसङ्करः ॥
ऐककालिकताभावेऽप्यलंकारद्वयं यदि ।
एकेनोन्नह्यते सोपि समप्राधान्यसंकरः ॥

संदेहसंकरः

साधकं बाधकं वाऽपि यत्रान्यतरसङ्ग्रहे ।
प्रमाणं नैव दृश्येत स्यात्स संदेहसंकरः ॥

एकवाचकानुप्रवेशसङ्करः

अभिन्नपदबोध्यास्स्युर्नानालंकृतयो यदि ।
तदैकवाचकानुप्रवेशसंकर इष्यते ॥
अर्थयोश्शब्दयोश्शब्दार्थयोर्वाऽप्येकवाचके ।
अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः ॥

(१२२) शब्दालङ्कारः

इत्थमर्थालंकृतयो यथामति निरूपिताः ।
निरूप्यन्तेऽथ दिङ्मात्रं शब्दालंकृतयः क्रमात् ॥
साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः ।
द्विधा भवेदयं छेकवृत्त्यनुप्रासभेदतः ॥


छेकानुप्रासः

छेकानुप्रासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत् ।
द्वयोर्द्वयोर्व्यञ्जनयोर्युग्मयोर्या निरन्तरा ।
आवृत्तिः क्रियते सोयं छेकानुप्रास ईर्यते ॥

वृत्त्यनुप्रासः

उल्लङ्घ्य सङ्ख्यानियमं पौनरुक्त्यं भवेद्यदि ।
एकद्वित्र्यादिवर्णानां वृत्त्यनुप्रासमूचिरे ॥

लाटानुप्रासः

तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता ।
सोऽयं शाब्दः काव्यविद्भिर्लाटानुप्रास ईर्यते ॥
वाक्यावृत्तौ पदवृत्तौ नामावृत्तौ च तत्त्रिधा ।
समासैक्ये तद्धितायां स्यात्समासासमासयोः ॥
नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः ।
पञ्चप्रकार एवं च लाटानुप्रास ईरितः ॥

यमकम्

अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा ।
क्रमादावर्तिता वर्णा यदि तद्यमकं भवेत् ॥
श्लोकार्धपादतद्भागावृत्त्या स्यात्तच्चतुर्विधम् ।
आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव ॥
द्विधा विभागे पादानां प्रथमाद्यादिमा यदि ।
द्वितीयाद्यादिभागेषु यम्यन्ते स्युर्भिदा दश ॥
प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः ।


भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥
एवं द्विधा विभागे तु भेदानां विंशतिर्भवेत् ।
त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात् ॥
एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम् ।
अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः ॥
एकैकपादे नियता नियतक्रमशालिनः ।
यम्यन्ते चेदादिमध्यान्तभागास्तद्भिदाश्शतम् ॥

पुनरुक्तवदाभासः

पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः ।
पुनरुक्तवदाभासस्स नामाख्यातगोचरः ॥
शब्दैकनिष्ठश्शब्दार्थद्वयस्थश्चेत्यसौ द्विधा ।
सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः ॥

अपशब्दवदाभासः

निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः ।
अपशब्दवदाभासस्सोलंकारो निगद्यते ॥

अव्ययाभासः

पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने ।
यथाऽव्ययवदाभासश्चित्रं तन्नाम तद्विदुः ॥

तिङन्तवदाभासः

यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः।
तत्तिङ्न्तवदाभासचित्रं चित्रज्ञसंमतम् ॥


गूढपादचित्रम्

अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत् ।
चित्रं तत् गूढपादाख्यं चतुर्थाद्यादिगूहनात् ॥

क्रियावञ्चनचित्रम्

क्रियादिकं विद्यमानमपि सन्दर्भकौशलात् ।
स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वञ्चनं विदुः ॥

सप्तविभक्तिवञ्चनचित्रम्

यत्रैकस्यैव शब्दश्य गुप्तास्सप्त विभक्तयः ।
तत्र सप्तविभक्तीनां वञ्चनं चित्रमुच्यते ॥

स्वरस्थानव्यञ्जनादिनियमचित्रम्.

स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः ।
प्रोक्तश्चतुःप्रभृत्येष दर्श्यते सुकरः परः ॥

अपुनरुक्तव्यञ्जनचित्रम्

व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते ।
चित्रमेतद्विजानीयात्तदनावृत्तवर्णकम् ॥

पद्मादिचित्राणि

पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम् ॥

षोडशदलपद्मम्

एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् ।
तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम् ॥


द्विचतुष्कम्

बहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत् ॥
कोणाष्टकयुतं तच्च द्विचतुष्कं विदुर्बुधाः ॥

गोमूत्रिका

तत्रायुग्माक्षरैश्श्लिष्टा यदि युग्माक्षरैस्तु वा ।
गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा ॥
एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः ।
गोमूत्रिकाख्यं चित्रं तदाहुश्चित्रविदो बुधाः ॥

गवाक्षबन्धः

उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः ।
तिर्यक्कोष्ठान्यपि तथा भवेयुर्मध्यतो नव ॥
उभयोरनयोः पार्श्वद्वये कोष्ठान्यनक्रमात् ।
सप्त पञ्च तथा त्रीणि निष्पद्येरन्यथा तथा ॥
तुल्यप्रमाणा विलिखेत्तिर्यगूर्ध्वं च रेखिकाः ।
मध्यवीथीशिरःकोष्ठादारभ्य विलिखेद्बुधः ॥
एकं त्रीन्पञ्च सप्ताथ नव सप्त च पञ्च च ।
त्रीनेकं चेति पद्यस्य वर्णांस्तिर्यगनुक्रमात् ॥
ऊर्ध्वमध्यमवीधीस्थवर्णैः प्रमिळितैः क्रमात् ।
स्वोद्देश्यकविकाव्यादिनाम्नामुद्धृतिरिष्यते ॥
गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः ॥

समाप्ता अलंकारमणिहारलक्षणश्लोकाः.