अलङ्कारमणिहारः (भागः ४)/शब्दप्रमाणालङ्कारः (११५)
अथ शब्दप्रमाणसरः (११५)
स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम् ।
श्रुतिस्मृतीतिहासादिरूपश्शब्द इतीर्यते ॥
स्वोक्तार्थे श्रुत्यादीनां प्रमाणतयोपन्यासश्शब्दप्रमाणालंकारः । शब्दपदार्थमाह-- श्रुतीति । आदिशब्देन पुराणाभाणकलौकिकवाक्यादीनां संग्रहः ॥
तत्र श्रुतिरूपशब्दो यथा--
नावातरः फणिगिरौ नाथ यदि त्वां कथं नु पश्येम । विनुयाम वा श्रुतिर्यं दुर्ग्रहमवदन्न चक्षुषेत्यादिः ॥ २०४२ ॥
अत्र भगवतः परस्य ब्रह्मणः चक्षुरादीन्द्रियाग्राह्यत्वे 'न चक्षुषा गृह्यते नापि वाचा' इत्यादिश्रुतिः प्रमाणत्वेनोपन्यस्ता । आदिशब्देन ‘यत्तदद्रेश्यमग्राह्यम्’ इत्यादेर्ग्रहणम् ॥
यथावा--
वेत्सि मम भक्तिमवने शक्नोषि तथाऽप्युपेक्षसे कस्मात् । सर्वेश्वर श्रुतिस्त्वां सर्वज्ञं ह्याह सर्वशक्तिं च ॥ २०४३ ॥
अत्र भवतः ममोपेक्षायां मद्भक्त्यज्ञानं वा रक्षणाशक्तत्वं वेति विकल्प्य तदुभयमपि न संभवतीति ज्ञापयितुं ‘यस्सर्वज्ञस्सर्ववित् । पराऽस्य शक्तिर्विविधैव श्रूयते' इति श्रुतिरूपं प्रमाणमुपन्यस्तम् ॥
यथावा--
त्वामद्वितीय इति यो नारायण वेद स भवति भविष्णुः । त्वन्निभमातनुषे तं तन्निगमान्तस्स
विष्णुरिति वदति ॥ २०४४ ॥हे नारायण! अनेन वक्ष्यमाणार्थस्य नारायणोपनिषद्गतत्वं सूचितम् । यः पुमान् त्वां अद्वितीय इति अप्रतिद्वंद्व इति वेद वेत्ति सः भविष्णुः वर्धिष्णुः उत्तरोत्तरश्रेयश्शाली भवतीत्यर्थः । तं एवं वेत्तारं भविष्णुं पुमांसं त्वन्निभं त्वत्सदृशं आतनुषे । तस्य सायुज्यं ददासीत्यर्थः । पक्षे तं भविष्णुशब्दं त्वन्निभमित्यत्र त्वं निभमिति छेदः ‘वा पदन्तस्य’ इति वैकल्पिकोऽनुस्वारस्य परसवर्णः । त्वं निभं भकारशून्यमित्यर्थः । नीत्युपसर्गपूर्वको बहुव्रीहिः । आतनुषे । तत् तस्मात् निगमान्तः नारायणोपनिषद्रूपः । स पुमान् विष्णुरिति वदति । यथाऽऽम्नायते तत्र-- ‘अथ नित्यो नारायणः’ इत्युपक्रम्य ‘निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातश्शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद । स विष्णुरेव भवति' इति । पक्षे भविष्णुशब्दो भकारच्यावने विष्णुरित्येव भवतीत्यर्थः । अत्र स्वोक्तार्थचमत्कारे उपनिषत् प्रमाणतां प्रापिता । अत्र नारायण-वेद-अद्वितीयः-भवतीति शब्दैरुक्तोपनिषत्प्रत्यभिज्ञाप्यते ॥
क्वचिच्छ्रुतेरर्थान्तरपरिकल्पनेन प्रमाणतयोपन्यासे चारुतातिशयः । यथा--
ब्रह्म त्वां गमयति मां यो गुरुरेनं न मानवं मन्ये । तत्पुरुषोऽमानव इत्युपनिषदुक्तिः प्रमाणमिह भगवन् ॥ २०४५ ॥
अत्र ब्रह्मगमयितृत्वेन हेतुना आचार्यस्यामानवत्वसंभावनरूपस्वाभिमतार्थे ‘तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति' इति श्रुतेः प्रमाणतयोपन्यास इति वैचित्र्यविशेषः ॥यथावा--
यद्ब्रह्म वृषगिरिगतं तज्जगतां सुकृतमेव जानेऽहम्। तत्सुकृतमुच्यत इति श्रुतिराहैतद्धि तैत्तिरीयाणाम् ॥ २०४६ ॥
अत्र ‘तदात्मानग्ँ स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यते' इति स्वात्मन एवोपादानतया स्वीकारेण सुष्ठु सृज्यप्रपञ्चकरणरूपप्रवृत्तिनिमित्तेन सुकृतशब्दवाच्यतां ब्रह्मणः प्रतिपादयन्ती तैत्तिरीयश्रुतिः भगवति स्वाभिमतजगत्सुकृतरूपलक्षणे अर्थे प्रमाणतां नीता ॥
यथावा--
सर्वान्तरात्मनि त्वयि योऽन्यं यजते फणाभृदचलमणे । यजमानः पशुरिति या तां श्रुतिमेतत्परां विजानीमः ॥ २०४७ ॥
यथावा--
यजते यस्त्वामविदन्यदुनन्दन सर्वयज्ञभोक्तारम् । यजमानः प्रस्तर इति या श्रुतिरेषा हि तत्परा मन्ये ॥ २०४८ ॥
सर्वान्तरात्मनि त्वयीत्यनादराधिक्ये भावलक्षणसप्तमी । प्रस्तरो दर्भमुष्टिः पाषाणश्च । सर्वयज्ञभोक्तारं ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च' इति गानादिति भावः । अत एव यदुनन्दनेति साभिप्रायं संबोधनम् । अत्राद्ये पद्ये श्रुत्या
अन्यार्थतया रूपितस्य यजमाने पशुत्वस्य अज्ञत्वेन हेतुनारूपणं परिकल्पितम् । द्वितीये तु प्रस्तरकार्यकरत्वेन रूपितस्य यजमाने प्रस्तरत्वस्य पाषाणरूपार्थान्तरकल्पनं वेदितव्यम् ॥
यथावा--
मा भूवं प्रत्यक्षस्तव देव परोक्ष एव भूयासम् । तर्हि प्रियो भवेयं श्रुतिः परोक्षप्रियान् वदति देवान् ॥ २०४९ ॥
अत्र-- 'इदिद्रग्ँ सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्ष प्रिया हि वै देवाः’ इति परोक्षनामग्रहणे देवानां प्रीतिं प्रतिपादयित्री श्रुतिः स्वस्य परोक्षताहेतुकप्रियत्वाशंसनरूपार्थे प्रमाणभावं गमिता ॥
यथावा--
वेंकटगिरिमात्रपतिं त्वां कथयन्तो जनाः परं मुग्धाः । विष्णुर्हि पर्वतानामधिपतिरिति गौर्जरत्यपि प्राह ॥ २०५० ॥
जरती गौरपि जीर्णः कश्चित् पशुरपि विष्णुः पर्वतानां सर्वेषामधीश्वर इति वदति । वस्तुतस्तु जरती गौः 'विष्णुः पर्वतानामधिपतिस्स माऽवतु’ इति श्रुतिरित्यर्थः । हिशब्दः प्रसिद्धौ, अत्र पूर्वार्धोक्तस्वाभिमतभगवतो वेंकटगिरिमात्रमतित्वं वदतां जनानां मुग्धत्वोपपादनेऽर्थे उदाहृतश्रुतिरुपोद्बलकतया प्रमाणतामनायि ।
यथावा--
जानासि नैव दीनानस्मान् कस्मादितीह विशयो नः । वृक्ष इव स्तब्ध इति त्वां श्रुतिराहाथ किं वितर्केण ॥ २०५१ ॥
यथावा--
यदमी क्रन्दन्ति हरे त्वामवलम्ब्यापि भवपथे मनुजाः । तदचक्षुश्श्रोत्रं त्वां श्रुत्यन्तास्सांप्रतं वदन्तीति ॥ २०५२ ॥
पूर्वोदाहरणेषु श्रुतिरभिमतार्थे प्रमाणतयोपन्यस्ता । अनयोरुदाहरणयोस्तु— ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः । अचक्षुश्श्रोत्रं तदपाणिपादम्' इति श्रुती अनभिमतार्थे भगवदुपालम्भनपरेण भवपथनिर्विण्णेन प्रमाणतां प्रापिते इति भिदा । स्तब्धः जडः । वास्तवार्थस्तु नन्तव्यवस्तुविरहाद्वृक्ष इवाप्रणतस्वभाव इति ॥
यथावा--
विदधानस्सश्रीकान्विप्रान्कमलापते कुचेलमुखान् । न श्री रमते ब्राह्मण इति श्रुतिं वितथवादिनीं व्यदधाः ॥ २०५३ ॥
अत्र विप्राणां निश्रीकताप्रमाणभूता ‘न वै ब्राह्मणे श्री रमते’ इति श्रुतिः तेषां सश्रीकतानिर्वर्तनेन वितथार्थवादिताप्रकाशनायोपात्तेति पूर्वापेक्षया विशेषः ॥
स्मृतिरूपशब्दप्रमाणं यथा--
हृत्कमलं मम विमलं श्रय मृदुलं श्रीश भुजगराडचलम् । विजहीहि चिरं न वसेत्पर्वत इति
वर्वृतीति हि स्मरणम् ॥ २०५४ ॥स्मरणं स्मृतिः वर्वृतीति क्रियासमभिहारेण वर्तते । अत्र भगवतश्रीनिवासस्यातिमृदुलस्वहृदयाश्रयणायातिनिष्ठुरभुजगराडचलपरित्यजनप्रार्थनरूपस्वाभीप्सितार्थे ‘न चिरं पर्वते वसेत्' इति मानवी स्मृतिः प्रमाणभावमनीयत ॥
यथावा--
नमतां जेतुं वर्गं द्विषतां श्रयसे मृगेन्द्रगिरिदुर्गम् । सर्वेषां दुर्गाणां स्मरन्ति गिरिदुर्गमेव हि ज्यायः ॥ २०५५ ॥
नमतां शरणागतानां सम्बन्धिनं द्विषतां वर्गं कामाद्यरिषड्वर्गं जेतुं मृगेन्द्रगिरिदुर्गं शेषाद्रिदुर्गं सिंहादिक्रूरसत्वाधिष्ठितं दुर्गमित्यपि गम्यते । अत्र श्रीनिवासस्य भगवतः शरणागतसंबन्धिद्विषद्वर्गविजयफलकत्वेन संभाव्यमानमृगेन्द्रगिरिदुर्गाश्रयणरूपेऽर्थे--
सर्वेणापि प्रयत्नेन गिरिदुर्गं समाश्रयेत् । |
इति मानवी स्मृतिरेव प्रमाणत्वेन प्रदर्शिता ॥
यथावा--
दुर्गमचाक्षुषममतिः प्रपद्यतां नाच्युतं यदाह मनुः । दुर्गमचक्षुर्विषयं न हि प्रपद्येत कर्हिचिदपीति ॥ १०५६ ॥
दुर्गं दुर्गमं 'क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति’ इति श्रुतेः ‘दुर्लभो दुर्गमो दुर्गः' इति नामसहस्रपाठाच्च । अचाक्षुषं चाक्षुरगोचरं ‘न चक्षुषा गृह्यते' इति श्रुतेः । ईदृशं अच्युतं ‘यस्मात्प्राप्ता न च्यवन्ते सोऽच्युतः' इति निरुक्तिविषयं श्रीनिवासं परं ब्रह्म अमतिः-
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । |
इत्युक्तरीत्या मूढः मायया अपहृतज्ञानश्च जनः न प्रपद्यतां प्रपन्नो मा भूदित्यर्थः । उक्तार्थे--
'अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् ।' इति स्नातकधर्मोक्तं चक्षुरगोचरं कान्तारं कदाचिदपि न प्रविशेदित्यर्थकं मनुवचनं श्लेषभित्तिकाभेदाध्यवसायेन प्रमाणतामनीयत । पूर्वं स्मृतेरभिमतार्थे प्रमाणतयोपन्यासः । इह तु भगवदप्रपन्नोपालम्भपरेणानभिमतार्थे इति विशेषः ॥
इतिहासरूपशब्दप्रमाणं यथा--
विषयविषाब्धाविन्द्रियमकरैः कुष्टोऽपि धारयन् प्राणान् । अधुनाऽऽपं त्वां द्वीपं जीवन् भद्राणि पश्यतीति नयात् ॥ २०५७ ॥
हे भगवन्निति प्रकरणाल्लभ्यते । अधुना यादृच्छिकादिसुकृतपरिपाकावसरे इदानीं त्वामेव द्वीपं आपं प्राप्तवानस्मि । अत्र बहूनि कृच्छ्राणि सोढ्वा प्राणान् धारयितुस्स्वस्य बहोः कालाद्भगवच्चरणावलम्बनभाग्यलाभरूपेऽर्थे--
'विनाशे बहवो दोषा जीवन् भद्राणि पश्यति’ इति श्रीरामायणं प्रमाणतयोपात्तम् ।
यथावा--
एतदलंकरणगणं नाथ ममादास्त्वमहमपि तवादाम् । रामायणमाह कृते प्रतिकर्तव्यं सनातनं धर्मम् ॥ २०५८ ॥हे नाथ! एतत् करणगणं इन्द्रियवर्गं त्वदाराधनौपयिकमिति भावः । मम त्वं अलं पर्याप्तं अदाः दत्तवानसि अहमपि तव अदां अददाम् । अस्मिन् पक्षे अलंकरणमिति समस्तं पदम् । अलंकरणगणं अलङ्कारप्रतिपादकममुं प्रबन्धमित्यर्थः । अत्र स्वाभिमतेऽर्थे--
‘कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ।' इति श्रीरामायणस्य प्रमाणत्ववर्णनम् । श्लेषोज्जीवितमिदम् । पूर्वं तु रूपकसंकीर्णम् ॥
यथावा--
यद्यपि सर्वज्ञस्त्वं न भक्तदोषांस्तथाऽपि जानासि । तदविज्ञातेति त्वां नामसहस्रे पठन्ति मुनिवर्याः ॥ २०५९ ॥
अत्र सर्वज्ञस्यापि श्रीनिवासस्य भक्तदोषादर्शननिर्धारणेऽर्थे ‘अविज्ञाता सहस्रांशुः’ इति श्रीभारतान्तर्गतसहस्रनामस्तुतिवचनं प्रमाणमुपनिबद्धम् ॥
पुराणरूपशब्दप्रमाणं यथा--
हानिस्समजनि माप त्वद्ध्यानभृतोऽपि वासुदेव कथम् । प्राह पुराणं हानिस्सा यत् क्षणमपि न चिन्त्यसे त्वमिति ॥ २०६० ॥
हे माप! माधव हे वासुदेव! त्वद्ध्यानं बिभर्तीति त्वद्ध्यानभृत् तस्यापि निरन्तरं त्वां चिन्तयतोऽपीति भावः । हानिः इष्टहानिः कथं समजनि अजायत । आश्चर्यमेतदिति भावः । हानिः कुतो न संभवेदित्यत आह-- प्राहेति । पुराणं-
यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते । |
इति पुराणं, त्वं भवान् क्षणमपि अत्यल्पकालमपि वा न चिन्त्यस इति यत् सा हानिरिति प्राह । परिहारस्तु— पूर्वार्धे हा निस्समजनिं आप इति छेदः । त्वद्ध्यानेन भृतः जनः भृञः कर्मणि क्तः । निस्समां असदृशीं जनिं जन्म ‘स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म’ इत्युक्तप्रकारं ब्रह्मविद्यावेत्तृत्वरूपं जन्मेति भावः । यद्वा ‘वर्णाश्रमाचारपरः’ इत्युपक्रम्य--
महता तेन पुण्येन वैष्णवत्वं लभेत सः । |
इति वाराहोक्तं लोकोत्तरं प्रपन्नजन्मेति भावः । आप प्राप्तवान् । निस्संदेहैव तत्प्राप्तिरिति द्योतनाय ‘कृतं कार्यमिति श्रीमान् व्याजहार पितामहः' इत्युक्तरीत्या सिद्धवत्कारेण भूतनिर्देशः । हा इत्याश्चर्ये । अत्र उपपादितश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढस्वविवक्षितभगवद्ध्यातृहान्यसंभावितत्वनिर्धारणाय उपदर्शितपुराणरूपशब्दप्रमाणोदाहरणम् ॥
व्याकरणरूपशब्दप्रमाणं यथा--
महतः परमस्य सतो भवता पुरुषेण पूज्यमानेन । सामस्त्येऽग्र्यत्वं स्याद्देवैतत्प्राह सन्महत्सूत्रम् ॥ २०६१ ॥
हे देव ! महतः पूज्यस्य अत एव परमस्य उत्कृष्टस्य सतः ब्रह्मविदः कस्यचित् पूज्येन पुरुषेण भगवता नारायणेन भवतात्वया सामस्त्ये सामग्र्ये सति संबन्धे सतीत्यर्थः । अग्र्यत्वं सकललोकाग्रगण्यता स्यात् । एतत्, इदं कर्म । सन्महत्सूत्रं कर्तृ । प्राह वदति । इममर्थमुक्तसूत्रं कथयतीत्यर्थः । सूत्रपक्षे-- महतः परमस्य सत इति च शब्दस्य पूज्यमानेन पुरुषेण पुरुषशब्देन सामस्त्ये समस्ततायां सत्यां समासे सतीत्यर्थः । अग्र्यत्वं पूर्वप्रयोज्यत्वं स्यादित्यर्थः । ‘सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः’ इति सूत्रेण सदादिशब्दानां पूज्यमानवाचकैस्सह समासविधानात्तेषां ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ इत्युपसर्जनसंज्ञायां ‘उपसर्जनं पूर्वम्' इति पूर्वप्रयोज्यत्वं स्यादित्यर्थः । अत्र विवक्षितस्य ब्रह्मविदो भगंवत्संबन्धेन सर्वलोकाग्रगणनीयत्वस्य निर्धारणे उपपादितश्लेषभित्तिकाभेदाध्यवसायेन पाणिनीयसूत्ररूपशब्दः प्रमाणपदवीमनायि ॥
यथावा--
विजितस्स पारिजाताहरणरणाग्रे त्वया हरे मघवा । बहुळं तान्तोऽद्यापिच मघवा बहुळमिति सूत्रमिह मानम् ॥ १०६२ ॥
हे हरे! मघवा इन्द्रः पारिजाताहरणरणाग्रे त्वया विजितः । अतएव अद्यापि च बहुलं अतिवेलं तान्तः ग्लानः । इह अस्मिन्नर्थे 'मघवा बहुलम्' इति सूत्रं मानम् । मघवतोऽद्यापि बहुलं तान्तत्वे उक्तसूत्रं प्रमाणमित्यर्थः । मघवशब्दस्य उक्तसूत्रेण तृ इत्यन्तादेशस्य बहुलं विधानात्तस्य बहुलं तान्तत्वे तत्प्रमाणमिति भावः । अत्रोपपादितार्थस्थापनाय शब्दार्थतादात्म्यमूलकश्लेषोपष्टम्भेन उक्तसूत्रस्य प्रमाणताप्रदर्शनम् ॥यथावा--
निर्मित्सा चेत्तव जगदासीदेवात्र नेष्यतेऽभ्यासः । अत एवाच्युत पाणिनिरत्राभ्यासस्य लोपमेवाह ॥ २०६३ ॥
हे अच्युत! तव जगदेककारणस्येति भावः । निर्मित्सा निर्मातुमिच्छा चेत् जगत् इदं भुवनं आसीदेव निष्पन्नमेव । न तु तन्निष्पत्तौ मात्रयाऽपि विलम्बः 'इच्छामात्रं प्रभोस्सृष्टिः' इति श्रुतेरिति भावः । अत्र निर्मित्सायां अभ्यासः पौनःपुन्यं नेष्यते । सकृदिच्छोन्मेषमात्रादेव संभवन्त्यां जगत्सृष्टौ तत्पौनःपुन्यं नापेक्षितमिति भावः । अतएव निर्मित्सायामभ्यासानपेक्षणादेव पाणिनिः अत्र निर्भित्सारूपेऽर्थे, पक्षे निर्मित्साशब्दे अभ्यासस्य पौनःपुन्यस्य, अन्यत्र द्विर्वचनस्य लोपमेव अदर्शनमेव आह कथयति । निरित्युपसर्गपूर्वकात् माधातोस्सनि ‘सनि मी मा’ इत्यारभ्य यदुक्तं तत्राभ्यासलोपस्य ‘अत्र लोपोऽभ्यासस्य’ इति सूत्रेण तेन विहितत्वादिति भावः । अत्र भगवतो जगन्निर्माणविषयकेच्छाभ्यासानपेक्षणेऽर्थे पूर्ववदेव श्लेषमूलातिशयोक्त्यवलम्बनेन उपदर्शितं पाणिनिसूत्रं प्रमाणीकृतम् ॥
यथावा--
सम एव भवति सम्राट् पुरुषत्वं चापि भवति तस्यैव । यन्मो राजि समः क्वौ व्रश्चभ्रस्जेति सूत्रितं मुनिना ॥ २०६४ ॥
मया श्रिया सह वर्तत इति समः । स एव सलक्ष्मीक एव सम्राट् जगदीश्वरो भवति 'एष ब्रह्मलोकस्सम्राट् । राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान्' इत्यादिश्रुतिस्मृतिभ्यः । 'सलक्ष्मीकस्य साम्राज्यं सर्वधा सुप्रतिष्ठितम्’ इत्याचार्यश्रीसूक्तेश्च । न ह्यलक्ष्मीकानां साम्राज्यं कदाऽपि भवेदिति भावः । तस्यैव सलक्ष्मीकस्यैव पुरुषत्वं चापि ‘पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्’ इति निरुक्तसर्वकारणत्वसर्वान्तर्यामित्वादिप्रकाशकपुरुषशब्दवाच्यत्वं च भवति ‘ह्री श्च ते लक्ष्मीश्च पत्न्यौ’ इति लक्ष्मीजानेरेवं ‘वेदाहमेतं पुरुषं महान्तम्’ इति पुरुषत्वश्रवणात् । एवं श्रुतिसिद्धे स्वाभिमतार्थे पाणिनीयसूत्रलक्षणस्मृतिमपि श्लेषेण प्रमाणीकरोति-- यदिति । तदा पूर्वार्धस्यैवमर्थः-- यत् यस्मात् सम्राडिति शब्दः सम एव मकारसहित एव भवेत् ‘मो राजि समः क्वौ’ इति क्विबन्ते राजतौ परे समो मकारस्य मकारविधानात् । न तु 'मोऽनुस्वारः’ इति विहितानुस्वारसहितः । तस्यैव सम्राट्छब्दस्यैव-- पुरु भूयिष्ठं यथातथा ‘पुरुभूः पुरु भूयिष्ठम्' इत्यमरः । षत्वं 'व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः' इति जश्त्वस्थानिभूतं षत्वं भवति । सम्राडिति शब्द उक्तप्रक्रियया निष्पद्यत इति भावः ॥
यथावा--
वृद्धाच्छप्रत्यय इह भवेत्त्वदीयो न चात्र संदेहः । स्मरति हि भगवान् पाणिनिरमुमर्थं शेषशैलमौलिमणे ॥ २०६५ ॥
हे शेषशैलमौलिमणे! वृद्धः अभिवृद्धः तैलधारावदविच्छिन्न इति यावत् । अच्छः विजातीयप्रत्ययानन्तरिततया निर्मलश्च प्रत्ययः त्वद्विषयकध्यानं यस्य स तथाभूतः त्वदीयो भवति ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' इत्युक्तरीत्या तव निरतिशयप्रीतिपात्रतामापद्येतेति भावः । अत्र न सन्देहः । यद्वा वृद्धः प्रवृद्धः अच्छः देवतान्तरसंबन्धगन्धदवीयस्तया विमलः प्रत्ययो विश्वासो यस्य स तथाभूतः महाविश्वासशालीत्यर्थः । त्वदीयः त्वदेकशरणः पुमान् वृद्धाच्छप्रत्यय इत्यावृत्त्या योज्यम् । अभिवृद्धनिर्मलज्ञानः 'सर्वं ह पश्यः पश्यति । स चानन्त्याय कल्पते’ इत्युक्तरीत्या नित्यासंकुचितज्ञानो भवेदित्यर्थः । त्वयि महाविश्वासोपलक्षितात्मरक्षाभरसमर्पणं विदधानो मुक्तो भवतीति भावः । अत्र प्राथमिकेऽर्थे उपासना द्वितीयस्मिन्न्यास इति वैलक्षण्यम् ॥
अन्यत्र वृद्धाच्छप्रत्यय इति सप्तम्यन्ततया छेदः । वृद्धाच्छप्रत्यये ‘वृद्धाच्छः' इति सूत्रविहितछप्रत्यये कृते सति त्वदीय इति रूपं भवतीत्यावृत्त्या योजनीयम् । ‘त्यदादीनि च' इति युष्मच्छब्दस्य वृद्धसंज्ञायां ‘वृद्धाच्छः’ इति छप्रत्यये विहिते त्वदीय इति रूपं सिद्ध्यतीत्यर्थः । उत्तरार्धं सुगमम् । अत्र स्वाभिमते उपपादितेऽर्थे पाणिनिस्मृतेः प्रामाणतयाऽवतारणम् ॥
यथावा--
इयमादेशमजाद्ये धत्ते सुप्प्रत्यये परेऽपि श्रीः । भवतीलोपगताऽस्मिन्नर्थे शाब्दिकमुनेर्वचो मानम् ॥ २०६६ ॥
हे श्रीः! इलोपगता इलया भूदेव्या उपगता समीपाश्रिता 'लक्ष्मीप्रियसखीम्' इति भूदेव्याः श्रीसखीत्वश्रवणादिति भावः । इयं भवती सुप्रसिद्धा त्वं अजाद्ये ब्रह्मादौ चतुर्मुखस्यापि कारणभूते इति परमात्मन एव विशेषणं वा । सुप्प्रत्यये शोभनज्ञाने, प्रत्यय इत्युपलक्षणं शक्तिबलादीनामपि परिपूर्णज्ञानादिषाड्गुण्येइत्यर्थः । परेऽपि भगवत्यपि ‘परोऽरिपरमात्मनोः' इति विश्वः । आदेशं शासन धत्ते पुष्णाति । ‘यदपाङ्गाश्रितं सर्वं जगत् स्थावरजङ्गमम् । यद्भ्रुभङ्गाः प्रणाणं स्थिरचररचनातारतम्ये मुरारेः' इत्याद्युक्तेः ॥
पक्षे-- श्रीः श्रीशब्दः अजाद्ये अच् आद्यो यस्य तस्मिन् सुप्प्रत्यये सुप्प्रत्याहारघटक औजस् इत्यादौ प्रत्यये परे सति । अपिशब्दो भिन्नक्रम उत्तरत्रान्वेति । इयं इय् इत्याकारकं आदेशं धत्ते । भवति ईलोपगता इति छेदः । ईलोपं ईकारादर्शनं गताऽपि प्राप्ताऽपि, अपिस्समुच्चये । भवति भूधातोर्लट् । अस्मिन्नर्थे शाब्दिकमुनेः पाणिनेः वचः प्रमाणम् । श्रीशब्दस्याजादौ विभक्तौ परतः ‘अचि ‘श्नुधातुभ्रुवां य्वोरियङुवङौ’ इति विहितस्य इयङो ङित्त्वात् ‘ङिच्च' इत्यनेन अन्त्यवर्णस्य ईकारस्यादेशविधानादिति भावः । ईकारस्य इयङाऽपहृतत्वाददर्शनम् । अत्रापि स्वविवक्षिते श्रुत्यादिसिद्धे श्रीपरत्वरूपेऽर्थे उपपादितश्लेषमूलाभेदाध्यवसायेन पाणिनीयवचसः प्रमाणतयोपन्यासः ॥
यथावा--
आस्ते विष्णुर्नित्यं पदे परस्मिञ् श्रिया त्रिलोकतनुः । नित्यसमासवचस्तत्पुरुषस्योत्तरपदे तदत्युचितम् ॥ २०६७ ॥
त्रिलोकतनुः सकलजगच्छरीरकः ‘जगत्सर्वं शरीरं ते' इत्यादिप्रमाणात् । त्रिलोकेत्यत्र 'दिक्संख्ये संज्ञायाम्' इति नियमेन समासप्राप्तौ ‘तद्धितार्थोत्तरपदसमाहारे च' इत्यनेन समासः । त्रयो लोकाः तनुः यस्येति त्रिपदे बहुव्रीहौ कृते तनुशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । अत्रावान्तरतत्पुरुषस्यविकल्पे प्राप्ते ‘द्वंद्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्’ इति नित्यसमासः । विष्णुः भगवान् श्रिया लक्ष्म्या सह ‘वृद्धो यूना’ इति निर्देशाद्विनाऽपि सहशब्दयोगं तृतीया । परस्मिन् पदे श्रीमति वैकुण्ठे आस्ते उपविशति । तत् तस्मात् स चासौ पुरुषश्च तत्पुरुषः तस्य पूर्वोक्तस्य परमपुरुषस्येत्यर्थः । उत्तरे श्रेष्ठे पदे स्थाने नित्यं मया श्रिया सह वर्तत इति समः आसः उपवेशः आसेर्घञ् । नित्यसमं यथातथा आस इति वा । लक्ष्म्या सहावस्थानं तस्य वचः वचनं अत्युचितम् । पक्षे उपपादितरीत्या उत्तरपदे परतः तत्पुरुषस्य नित्यसमासवचनं अत्युचितमित्यर्थः । अत्र ‘वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा’ इति वचनरीत्या स्वोपपादितेऽर्थे उपदर्शितश्लेषमूलातिशयोक्त्या ‘द्वंद्वतत्पुरुषयोः’ इत्युक्तव्याकरणवार्तिकस्य प्रमाणतयोपन्यासेन औचित्यं समर्थितम् ॥
यथावा--
या मदयति स्वसेविनमचिरेण जनं हरिप्रिया सैषा । सुवचा हलिप्रियेत्यपि रलयोरभिदा हि सम्मता विदुषाम् ॥ २०६८ ॥
या हरिप्रिया स्वसेविनं आत्मानं भजमानं आस्वादयमानं च मदयति हर्षवन्तं मदवन्तं च करोति 'हर्षेऽप्यामोदवन्मदः' इत्यमरः । सा हरिप्रिया हलिप्रियेत्यपि सुवचा हरिहलिनोरभेदादिति भावः । हली बलभद्रः । पक्षे उपपादितेन हेतुनैव हलिप्रिया कादम्बरीत्यपि सुवचा । ‘सुरा हलिप्रिया’ इत्यमरः । समर्थितमप्यर्थं स्थूणानिखनन्यायेन पुनस्समर्थयते-- रलयोरिति । हि यस्मात् रलयोर्वर्णयोः अभिदा अभेदः विदुषां वैयाकरणानांसम्मता । अतो हरिप्रियाशब्दः हलिंप्रियेत्यपि सुवचेति भावः । शब्दार्थतादाम्यं न विस्मर्तव्यम् । अत्र स्वविवक्षिते हरिप्रियायाः हलिप्रियात्वनिर्धारणे वैयाकरणोक्तेः प्रमाणता ॥
यथावा--
अजरं ब्रह्म तदेकं दैवतमन्यत्तु नाजरं विद्मः । जरसा विकृतिमजादौ मुनिराह हि निर्जरे समस्तेऽपि ॥ २०६९ ॥
तद्ब्रह्म एकमेव अजरं जरोपलक्षितसर्वविकारविधुरं ‘विजरो विमृत्युः, यत्तच्छान्तमजरं परं ब्रह्म’ इत्यादिश्रुतेः । अन्यद्दैवतं तु अजरं न विद्मः । दैवतान्तरस्य सर्वस्यापि जरामरणाद्यनतीतत्वात् । हि यस्मात् मुनिः पाणिनिः । अजादौ चतुर्मुखादौ समस्ते निर्जरे दैवतेऽपि जरसा विकृतिं आह । यद्वा हीति प्रसिद्धौ । पक्षे निर्जरे निर्जरशब्दे समस्तेऽपि समस्ततां प्राप्तेऽपि अजादौ अजादिविभक्तौ परतः जरसा 'जराया जरसन्यतरस्याम्’ इति विहितजरसादेशेन विकृतिं आह । समस्तेऽपीत्युक्तिः 'पदाङ्गाधिकारे तस्य च तदन्तस्य च' इति ज्ञापनाय । अत्र भगवदतिरिक्तदैवतजराक्रान्तत्वनिर्धारणाय शाब्दिकोक्तेः प्रमाणता ॥
यथावा--
प्राप्तानां त्वां चिह्नं प्रायेण तवेव भवति परमात्मन् । तत्पुरुषस्य हि परवल्लिङ्गं शाब्दिकमुनीशिताऽवादीत् ॥ २०७० ॥
हे परमात्मन्! त्वां प्राप्तानां मुक्तानामित्यर्थः । ते तव चिह्नं चतुर्भुजत्वादि लिङ्गं प्रायेण भवति । प्रायेणेत्यनेन जगत्कारणत्वश्रीपतित्वादिव्यावृत्तिस्सूचिता । हि यस्मात् शाब्दिकमुनीशिता पाणिनिः तत्पुरुषस्य तादृशत्वदीयपुरुषस्य मुक्तस्य परवत् परमात्मनस्तवेव लिङ्गं चिह्नं भवतीत्यवादीत् । वस्तुतस्तु ‘परवल्लिङ्गं द्वंद्वतत्पुरुषयोः' इति तत्पुरुषस्य उत्तरपदलिङ्गमेवावादीदिति । अत्र स्वाभिमते भागवतानां मुक्तानां भगवच्चिह्नलाभे श्लेषावलम्बनेन पाणिनिसूत्रं प्रमाणतां नीतम् ॥
यथावा--
ननु विश्वमेकनीडं यत्र स पुरुषोत्तमात्किमन्यत्स्यात् । विश्वंभरे मुमागममाह ऋषिश्शब्दवित् स्फुटं सक्तम् ॥ २०७१ ॥
विश्वं इदं सर्वं जगत् यत्र ननु यत्रैव पुरुषे । ननु रवधारणे । एकनीडं अभिन्नस्थानकं ऐकाधिकरण्यभागित्यर्थः । सः पुरुषोत्तमात् पुरुषशब्दाभिलपनीयबद्धमुक्तोभयावस्थप्रत्यगात्मविलक्षणान्नारायणात् अन्यः किं इतरस्स्यात्किम् । किमित्यधिक्षेपे । कदाऽपि न स्यादेवेति भावः । यत्र विश्वमेकनीडमिति पदसंदर्भेण ‘यत्र
विश्वं भवत्येकनीडम्’ इति श्रुतिः प्रत्यभिज्ञाप्यते । अमुं बुद्धिस्थं आगमं ‘यत्र विश्वम्’ इत्याद्युदाहृतश्रुतिं विश्वंभरे नारायणे स्वस्मिन् सक्तं तत्परं, शब्दवित् शब्दशब्दोऽत्र ‘शब्दश्चातोऽकामकारे’ इत्यादाविव वेदपरः । वेदविदित्यर्थः । ‘वेदान्तविद्वेदविदेव चाहम्’ इति गानात् । ऋषिः वासुदेवतयाऽवतीर्णो बदरिकाश्रमतापसो नारायण इत्यर्थः । श्रूयते च भगवद्वाचकऋषिशब्दः ‘स्वयं जुह्वत एकऋषिं श्रद्धयन्तः' इति मुण्डके । ‘एकऋषिं मुख्यऋषिं परमात्मानमित्यर्थः’ इत्युपनिषद्भाष्ये व्याख्यातम् । ‘के ते ऋषयः प्राणा वाव ऋषयः’ इति श्रुतिरप्यत्रानुकूला । ऋषय इति बहुवचनान्त ऋषिशब्दः परमात्मपरतया तथा प्राणाः’ इत्यधिकरणे अभाषि । आह वदति ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । |
इति गायन् भगवान् बिभर्तीत्यनेन ‘यत्र विश्वं भवत्येकनीडम्' इति श्रुतिं नारायणपरामेवाहेत्यर्थः । तथाह्यत्रोपबृंहणे 'परमात्मेत्युदाहृतः' इत्यनेन-- 'तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः’ इति श्रुतिः स्मार्यते । ‘यो लोकत्रयमाविश्य' इत्यनेन 'यच्च किंचित्' इत्यादिकं व्याख्यातम् । "लोक्यत इति लोकः तत्त्रयं लोकत्रयं अचेतनं तत्संसृष्टश्चेतनः मुक्तश्चेति प्रमाणावगम्यमेतत्त्रयं य आत्मतयाऽऽविश्य बिभर्ति तस्माद्व्याप्याद्भर्तव्याच्चार्थान्तरभूतः” इति श्रीमद्गीताभाष्यम् । बिभर्तीत्याधारत्वोक्त्या ‘यत्र विश्वं भवत्येकनीडं, तत्सवितुर्वरेण्यं, ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धाम’ इत्यादेरर्थ उक्तः । अव्ययशब्दोक्त्या ‘शाश्वतं शिवमच्युतम्' इत्याद्युक्तसंग्रहः । ईश्वरशब्द इह ‘व्याप्य नारायणस्स्थित:’ इत्युक्तव्याप्तेः ‘अन्तः प्रविष्टश्शास्ता’ इत्याद्यनुसारात्समस्तनियमनविशिष्टत्वं ‘अत्मेश्वरम्’ इत्युक्तानन्यनियाम्यत्वं चाभिप्रैतीति ‘पुरुषोत्तमः कः’ । इत्यत्र श्रीमत् स्तोत्रभाष्यम् । तस्मात् ‘यत्र विश्वं भवत्येकनीडम्’ इति श्रुतिं नारायणे स्वस्मिन्नेव तत्परामाह गीताचार्य इति सुष्ठूक्तम् ॥
अर्थान्तरं तु-- शब्दवित् व्याकरणवेत्ता ऋषिः पाणिनिःविश्वंभरे विश्वंभरशब्दे मुमागमं मुमित्याकारकमागमं सक्तं संबन्धं स्फुटमाह ‘संज्ञायां भृतृवृजि’ इत्यादिना विश्वशब्दोपपदकात् भृञः खचि 'अरुर्द्विषदजन्तस्य' इति मुमागमं व्यधत्तेति । अत्र ‘यत्र विश्वम्’ इत्यादिश्रुतिप्रतिपादितायास्सकलजगदाधारतायाः पुरुषोत्तमैकनिष्ठत्वनिर्धारणे स्वाभिमते ‘यो लोकत्रयमाविश्य' इत्यादिस्मृतिः श्लेषभित्तिकाभेदाध्यवसायेन उदाहृतव्याकरणस्मृतिश्च प्रमाणतयोपदर्शिते इति पूर्वोदाहरणेभ्यो विशेषः ॥
यथावा--
यो वेद ब्रह्मासद्दुर्मेधास्तं ह्यसन्तमेवाहुः । आस्तां श्रुतिरिह मानं नालं किं नित्यमसिजिति हि सूत्रम् ॥ २०७२ ॥
यः दुर्मेधाः ब्रह्म असदिति वेद सत् अस्तीति न वेदेत्यर्थः । अ इत्येतन्नञ्समानार्थकमव्ययं 'अभावे नह्यनो नापि' इत्यव्ययेष्वमरानुशासनात् । यद्वा असदिति समस्तं पदं यथाश्रुतमेव योज्यम् । ब्रह्म नास्तीति योवेदेति तदर्थः । अन्यत्तुल्यम् । अत्राद्ययोजना “ब्रह्मविषयकज्ञानासद्भावसद्भावाभ्यामात्मनाशमात्मसत्तां च वदति” इति 'असन्नेव स भवति' इति श्रुत्यर्थवर्णनपरमहासिद्धान्तस्थश्रीभाष्यतात्पर्यानुरोधेन । द्वितीया तु ‘आनन्दमयसदसत्त्वज्ञानान्मोक्षसंसारौ भवतः' इति प्रकृतश्रुत्यर्थवर्णनपरोपनिषद्भाष्यानुरोधेन । तं दुर्मेधसं दुर्बुद्धिं दुर्मेधश्शब्दं च असन्तं असाधुमेव अन्यत्र अस् इति वर्णान्तमेव आहुः । इह अस्मिन्नर्थे श्रुतिः ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत्' इति श्रुतिः मानं प्रमाणं आस्मां तिष्ठतुनाम । नित्यमसिजिति हि सूत्रं, हिशब्दोऽवधारणे । ‘नित्यमसिच् प्रजामेधयोः’ इति सूत्रमेवेत्यर्थः । नालं किं न पर्याप्तं किम् । अनेनैव निर्वाहे किं श्रुतिपर्यन्तानुधावनेनेति भावः । उक्तसूत्रेण दुरित्युपसर्गपूर्वकस्य मेधाशब्दस्य बहुव्रीहौ असिति समासान्तप्रत्ययस्य विहितत्वादिति वस्तुस्थितिः । अत्रापि असन्तमिति श्लेषभित्तिकाभेदाध्यवसायानुप्राणितं शब्दस्मृतिरूपप्रमाणं श्रुतिप्रमाणेन सह उक्तार्थस्थापनायोपात्तम् ॥
यथावा--
येन त्वं सर्वविदसि तस्मिन् बोधेऽस्ति सुमहती शक्तिः । माऽस्तु गुणेऽन्यत्र गुणो भगवन् बोधे तु सोऽस्ति शब्दनयात् ॥ २०७३ ॥
भगवान् ज्ञानशक्त्यादिपरिपूर्णः तस्य संबुद्धिः हे भगवन् येन बोधगुणेन षाड्गुण्यप्रथमभूतेन त्वं सर्ववित् ‘यस्सर्वज्ञस्सर्ववित्’ इत्युक्तरीत्या सर्वज्ञः असि नित्यासंकुचितबोधवत्त्वादेव हि तव सर्वज्ञत्वमिति भावः । तस्मिन् बोधे ज्ञाने सर्वसाक्षात्काररूपे सुमहती शक्तिः षाड्गुण्यान्तःपातिगुणविशेषः । सा च यदन्यैरशक्यत्वादघटितमिव भाति तद्धटनसामर्थ्यरूपा । सर्वज्ञत्वनिर्वहणसामर्थ्यमिति तु तत्त्वम् । अस्ति विद्यते । ‘पराऽस्य शक्तिः’ इत्युक्तरीत्या सर्वशक्तेस्तवापि सर्ववित्त्वस्यानेन निष्पादितत्वादस्मिन् बोधे त्वत्तोऽपि महती शक्तिरस्तीति भावः । नन्वियमुक्तिः कथं घटतां गुणे गुणस्यानङ्गीकारात् । गुणौ हि बोधशक्ती उभे अपीत्यत आह-- माऽस्त्विति । अन्यत्र बोधादन्यस्मिन् गुणे गुणान्तरं मास्तु अस्तु वा मा वेति भावः । बोधे तु बोधरूपे गुणे तु स गुणः उक्तशक्तिरूपः अस्ति । एवंनिर्धारणे किं प्रमाणमित्यत्राह-- शब्दनयादिति । व्याकरणनयात् बोधे गुणास्तित्वमुक्तमिति भावः । तत्पक्षे बुधधातोर्घञा निष्पन्ने बोधशब्धे ‘पुगन्तलघूपधस्य च' इति गुणविधानाद्गुणोऽस्तीति भावः । अत्र स्वविवक्षितस्य बोधरूपगुणे सुमहाशक्तिरूपगुणसद्भावस्य उपपादितशक्तिगुणशब्दगतश्लेषमूलाभेदाध्यवसायेन शब्दाशास्त्रीयप्रक्रियायाः प्रमाणता ॥
यथावा--
पद्मे तवाङ्गरोचिः परिभवति स्वर्णवर्णसौभाग्यम् । वर्णयति शाब्दिकौघो वार्णादाङ्गं बलीय इति तस्मात् ॥ २०७४ ॥
अत्र वर्णकार्यादङ्गाधिकारकार्यस्य बलीयस्त्वमभिदधाना ‘वार्णादाङ्गम्' इति परिभाषा अङ्गवर्णशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायबलेन स्वाभिमतार्थे प्रमाणत्वेनोपन्यस्तेति विशेषः ॥
यथावा--
स्वार्थे विबाधते परमच्युत नित्यं च मेऽन्तरङ्गं त्वाम् । शाब्दिकमुनिराह परान्नित्यादप्यन्तरङ्गमधिकबलम् ॥ २०७५ ॥
हे अच्युत! नित्य ‘नित्यो नित्यानाम्’ इति श्रुतेः । परं च ‘परः पराणाम्’ इति श्रुतेः । त्वां मे अन्तरङ्गं मनः कर्तृ स्वार्थे स्वाभीप्सितप्रयोजने विषये बाधते पीडयतीति यावत् । ‘नूनं स्वार्थपरो लोको न वेद परसंकटम्' इति भावः । अन्यत्र परं नित्यं च शास्त्रं कर्म अन्तरङ्गं अन्तरङ्गशात्रं कर्तृ स्वार्थे विषये बाधते तत्प्रवृत्तिविघातकं भवतीत्यर्थः । अत्रस्वोक्तार्थे शाब्दिकपरिभाषां प्रमाणयति शाब्दिकेति । शाब्दिकमुनिः पतञ्जलिः परान्नित्यादप्यन्तरङ्गमधिकबलमाह । ‘परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः’ इति परिभाषणादिति भावः ॥
यथावा--
कृपया तवाच्युताखिलकर्म विनाशोन्मुखं ततोऽहमघम् । तद्वशगोऽपि न कुर्यामकृतव्यूहा हि पाणिनीयास्स्युः ॥ २०७६ ॥
हे अच्युत! तव कृपया मम अखिलं कर्म विनाशोन्मुखं, ततः कारणात् तद्वशगोऽपि कर्मवश्योऽपि अहं अघं उत्तराघं न कुर्याम् । हि यस्मात् पाणिनीयाः अकृतव्यूहाः 'अकृतव्यूहाः पाणिनीयाः’ इति परिभाषितत्वादिति भावः । ‘निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्ति’ इति परिभाषार्थः । अत्र विनाशोन्मुखकर्मानुरोधेन तत्प्रयुक्तोत्तराघस्याकरणे पाणिनीयपरिभाषायाः प्रमाणीकरणात्कवेः पाणिनीयताऽपि प्रकटिता ॥
यथावा--
येषां त्वयाऽनुबन्धस्तेषां भगवन् कथं स्वसारूप्यं स्यात् । यदिह वदन्ति पदज्ञा न ह्यनुबन्धेन कृतमसारूप्यमिति ॥ २०७७ ॥
हे भगवन्! येषां जनानां त्वया सह अनुबन्धः संबन्धः भवति भागवतत्वं भवतीत्यर्थः । यद्वा निरवशेषाविद्यानिवृत्तिपूर्वकं परमे व्योम्नि संश्लेषः भवतीत्यर्थः । तेषां जनानां असारूप्यं त्वदसरूपता कथंनु स्यात् शेषत्वेन त्वया परिगृहीतानां त्वामेव ध्यायतां त्वत्सारूप्यं चतुर्भुजत्वादिकं स्यादेव । यथा-क्रतुनयादिति भावः । ‘निरञ्जनः परमं साम्यमुपैति’ इति श्रुतिरत्रानुसंधेया । यत् यस्मात्कारणात् पदज्ञाः व्याकरणविदः अनुबन्धेन 'ऋहलोर्ण्यत्' इत्यादौ कृतेन इत्संज्ञार्थकणकाराद्यनुबन्धेन कृतं असारूप्यं ‘पोरदुपधात्' इत्यादिविहितस्य यतः असरूपत्वं न भवतीति वदन्ति ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषणादिति भावः । तथाच शप्यं लभ्यमित्यादौ शपिलभ्यादेः ‘पोरदुपधात्' इत्यनेन विहितो यत्प्रत्ययः ‘ऋहलोर्ण्यत्' इति विहितस्य ण्यतः बाधक एव भवति । न तु 'वा सरूपोऽस्त्रियाम्' इत्यनेन असारूप्यनिबन्धनवैकल्पिकबाधकत्वं प्राप्नोतीत्यवधेयम् । अत्र श्रुतिस्मृतिशतप्रमाणसद्भावेऽपि चमत्कारातिशयाय ‘नानुबन्धकृतमसारूप्यम्’ इति शाब्दिकपरिभाषायाः श्लेषेणार्थान्तरं परिकल्प्य प्रमाणीकरणम् ॥
यथावा-
त्वां परमवरं चान्यं समौ वदन्नापराध्यति मुरारे । पूर्वपरावरसूत्रे परावरौ पाणिनिर्यदाह समौ ॥ २०७८ ॥
उत्कृष्टं त्वां त्वत्तोऽपकष्टेन देवतान्तरेण तुल्यं वदतो जनस्यापराधाभावरूपेऽर्थे ‘पूर्वापरावरदक्षिणोत्तर’ इत्यादिपाणिनीयस्मृतेः प्रमाणतयोपन्यासः । पूर्वोदाहरणेषु पाणिनिस्मृतिरभिमतार्थे प्रमाणीकृता । इह तु--
यस्तु नारायणं देवं सामान्येनाभिमन्यते । |
इत्याद्युक्तारीत्या भगवतो नारायणस्य देवतान्तरतुल्यकक्ष्यतावर्णनपरजननिन्दापरेण अनभिमतार्थे प्रमाणीकृतेति वैलक्षण्यम् ॥
यथावा--
तद्विष्णोः पदमव्ययमाम्नातमनव्ययं स्वराद्यं तु । एवं सति पाणिनिना स्वरादिपदमव्ययं कथमभाणि ॥ २०७९ ॥
तत् विष्णोः पदं 'तद्विष्णोः परमं पदम्’ इत्याम्नातं स्थानं अव्ययं अनश्वरं आम्नातं ‘तदक्षरे परमे व्योमन्' इत्यादिश्रुत्या प्रतिपादितम् । स्वराद्यं स्वर्गादिकं पदं स्थानं तु अव्ययं न भवतीत्यनव्ययं नश्वरं आम्नातम् । एवं सति एवं स्थिते पाणिनिना स्वरादि स्वर्गादिकं पदं स्थानं, पक्षे स्वरादिगणपठितं पदं अव्ययं अनश्वरं अव्ययसंज्ञकं च कथमभाणि ‘स्वरादि निपातमव्ययम्’ इति सूत्रेणेति भावः ॥
यथावा--
स्वामिन्नैश्वर्ये तव केन निपातः क्ववाऽपि किं दृष्टः । एवं स्थितेऽस्य पाणिनिराह निपातं कथं न्विति विचिन्ता ॥ २०८० ॥
हे स्वामिन् हे सर्वेश्वर! ऐश्वर्ये जगदीश्वरत्वे विषये तव ‘एष सर्वेश्वर एष भूताधिपतिः' इति श्रुतपारमैश्वर्यस्य तव निपातः भ्रंशः केन पुरुषेण क्व वाऽपि किं दृष्टः न दृष्ट
एवेत्यर्थः । एवं स्थिते वस्तुस्वरूपे एवमवस्थिते पाणिनिः अस्य एवंविधैश्वर्यवतस्तवेत्यर्थः । पक्षे अस्य स्वामिन्निति शब्दस्येत्यर्थः । निपातं भ्रंशं, अन्यत्र ऐश्वर्यरूपेऽर्थे लक्षणाभावे शब्दसाधुत्वायस्वरूपेणोच्चारणरूपं निपातं कथंनु आह । ‘स्वामिनैश्वर्ये' इति सूत्रेण ऐश्वर्यरूपार्थे स्वामिन्निति निपातितत्वादिति भावः । इत्यस्माकं विचिन्ता ॥
यथावा--
प्रथमः पुमान् समन्तादचीकशत्सर्वनामरूपमिति । श्रुतिराह पाणिनिमुनिस्तस्य क्वचिदेव तदिदमाह कथम् ॥ २०८१ ॥
श्रुतिः—- ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इति श्रुतिः प्रथमः पुमान् परब्रह्मभूतः पुरुषोत्तमः समन्तात् सर्वतः सर्वनामरूपं सर्वेषां नाम च रूपं च अनयोस्समाहारं, अन्यत्र पुमान् पुंलिङ्गः प्रथमः प्रथम इति शब्दः समन्तात् सर्वनामताप्रयुक्तकर्यास्पदभूतासु सर्वासु विभक्तिषु सर्वनामरूपं सर्वनामशब्दरूपं अचीकशत् प्रकाशितवान् इत्याह । पाणिनिमुनिस्तु तस्य प्रथमस्य पुंसः तदिदं सर्वनामरूपप्रकाशनं क्वचिदेव एकदेश एवेति कथमाहेत्याश्चर्यम् । पुल्लिङ्गस्य प्रथमशब्दस्य जस्येव सर्वनामतां ‘प्रथमचरमतयाल्पार्धकतिपयनेमाश्च’ इति सूत्रेणावादीदित्याक्षेपपरिहारः ॥
अत्र पद्यत्रयेऽपि सूत्रस्य सर्वसंप्रतिपन्नार्थप्रत्यनीकार्थस्य प्रकाशनपरतां श्लेषेण परिकल्प्य तदभेदाध्यवसायेन तत्प्रणेत्रधिक्षेपाय वैहासिकेन प्रमाणतयोपन्यास इति विशेषः ॥
यथावा--
सकलनयविषयनिगमोद्धरणादरजुषि फणीन्द्रगिरिनेतः । कथमिव मात्स्ये रूपे नयलोपं ते वदन्ति शब्दविदः ॥ २०८२ ॥हे फणीन्द्रगिरिनेतः ! सकलानां नयानां मीमांसान्यायानां विषयः यो निगमः वेदः तस्य उद्धरणे उद्धारे आदरजुषि ते तव मात्स्ये मत्स्यसंबन्धिनि रूपे अवतारे शब्दविदः वैयाकरणाः नयलोपं कथं वदान्ति । सकलनयविषयभूतवेदोद्धरणालंकर्मीणे अवतारे नयलोपोक्तेरसंगतत्वादिति भावः । मात्स्ये रूपे मात्स्य इत्याकारके अण्णन्ते शब्दरूपे नयलोपं यलोपाभावं ‘सूर्यतिष्यागत्स्यमत्स्यानां य उपधायाः’ इति विहितयकारलोपस्य ‘मत्स्यस्य ङ्याम्' इति नियमितत्वेन यलोपाप्रसक्तेरिति परिहारः । यद्वा फणीन्द्रगिरीति भिन्नं पदम् । हे नेतः स्वामिन्! फणीन्द्रगिरि पतञ्जलिभाष्य इत्यर्थोप्युपस्कार्यः । तदा सकलनयविषयनिगमोद्धरणादरजुषीत्यस्य उक्त एवार्थः । व्याकरणभाष्यस्य वेदशब्दानुशासनार्थं प्रवृत्तत्वादिति भावः । अत्र स्वविवक्षितार्थप्रत्यनीकत्वं शब्दविद्वाक्यस्य श्लेषेण परिकल्प्य तदधिक्षेपाय तदुक्तेः प्रमाणतया उपन्यासः । एवमग्रेऽप्यूह्यम् ॥
यथावा--
विश्वंभरासहोक्तौ विश्वंभर एव शेषतां धत्ते । सैवास्य शेषभूतेत्युक्तौ संदेग्धि केवलपदज्ञः ॥ २०८३
विश्वंभरायाः भूदेव्याः सहोक्तौ सहसंलापावसरे विश्वंभरः भगवानेव शेषतां तत्पारार्थ्यं धत्ते । पक्षे विश्वंभराशब्देन सहोक्तौ सहवचने विश्वंभर एव शेषतां धत्ते विश्वंभरशब्द एक एवावशिष्यते । स्त्रीपुंसलक्षणमात्रविशेषसद्भावेन ‘पुमान् स्त्रिया’ इत्यनेन पुंस एकस्यैव शेषताविधानादिति भावः । सैव विश्वंभरा भूरेव अस्य शेषभूतेत्युकौ ‘तथा भूमिश्च नीला च शेषभूते मते मम’ इति भगवदुक्तौ, पक्षे विश्वंभराशब्द एव अस्य विश्वंभरशब्दस्य शेषभूता अवशिष्टा इत्युक्तौ केवलपदज्ञः नतु परमपदज्ञः अनाघ्रातभगवच्छास्त्रसत्संप्रदायगन्धश्शुष्कवैयाकरणः स्वाधीतव्याकरणमात्रदत्तदृष्टिरित्यर्थः । संदेग्धि 'पुमान् स्त्रिया’ इत्यनेन तल्लक्षणमात्रविशेषसद्भावे पुंस एवावशेषस्य विहितत्वात् कथं स्त्रीलिङ्गस्य विश्वंभराशब्दस्यावशेषस्स्यादिति संशेते इति भावः । अत्र केवलवैयाकरणेन केनचिदुपपादितार्थस्य व्याकरणविरोधं प्रदर्शयितुं भगवच्छास्त्रवचनार्थोपनिबन्ध इति विशेषः । श्लेषोत्तम्भितत्वं तु पूर्ववदेव ॥
यथावा--
एकमनेकानुगतं नित्यं सामान्यमिति वचो वितथम् । एकमनेकानुगतं नित्यमसामान्यमेव यद्ब्रह्म ॥ २०८४ ॥
यद्वस्तु एकं अनेकेषु गवादिव्यक्तिषु अनुगतं अनुस्यूतं नित्यं नाशाप्रतियोगि च । तत् सामान्यं जातिरित्यर्थः । 'जातिर्जातं च सामान्यम्' इत्यमरः । इति वचः ‘नित्यमेकमनेकानुगतं सामान्यम्’ इति नैयायिकवचनं वितथम् । कुत इत्यत आह—- यत् यस्मात्कारणात् ब्रह्म एकं अनेकानुगतं नित्यमपि असामान्यं अजातिरेव । परमार्थतस्तु एकं असदृशं अनेकेषु चेतनाचेतनेषु अनुगतं अनुप्रविष्टं ‘यः पृथिव्यां तिष्ठन्, य आत्मनि तिष्ठन्, अन्तःप्रविष्टश्शास्ता जनानाम्' इत्यादिश्रुतेः । नित्यं ‘नित्यो नित्यानाम्’ इति श्रवणात् । असामान्यं अनितरसदृशं ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेः । यद्वा असामान्यं अत्युत्कृष्टमित्यर्थः । ‘सामान्यास्तु परार्थमुद्यमपरास्स्वार्थाविरोधेन ये’ इत्यादौ सामान्यशब्द उत्कर्षापकर्षहीने हि प्रयुक्तः । अत्र स्वविवक्षितार्थप्रत्यनीकतां न्यायविद्वाक्यस्यश्लेषेण परिकल्प्य तदधिक्षेपाय तद्वाक्यस्य प्रमाणतयोपन्यास इति पूर्वेभ्यो वैलक्षण्यम् ॥
यथावा--
असति विरोधे स्मृत्या श्रुत्या उपबृंहणं किल न्याय्यम् । श्रुतिरेव तव गुणानां स्मृतिमुपबृंहयति हन्त नश्शौरे ॥ २०८५ ॥
हे शौरे! विरोधे असति प्रत्यक्षश्रुतिविरोधे अविद्यमाने सति स्मृत्या मन्वादिप्रणीतधर्मसंहितया श्रुत्याः वेदस्य उपबृंहणं अस्पष्टार्थविशदीकरणं न्याय्यं मीमांसान्यायादनपेतम् । किलेति शास्त्रीयवार्तायाम् । सति तु श्रुतिविरोधे स्मृतेरनादरणीयतैव । ‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’ इति स्पर्शनश्रुतिविरोधे ‘औदुम्बरी सर्वा वेष्टयितव्या’ इति सर्ववेष्टनस्मृतेरिवेति भावः । तदेतत्सूत्रितं महर्षिणा-- ‘विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्’ इति । एवं सति शास्त्रीयप्रस्थाने विपरीतमेतदित्याह-- श्रुतिरिति । तव गुणानां सत्यत्वज्ञानत्वादिकल्याणगुणानां श्रुतिरेव ‘सत्यं ज्ञानमनन्तं ब्रह्म, यस्सर्वज्ञस्सर्ववित्' इत्यादिगुणप्रतिपादिका श्रुतिरेव । पक्षे-- निशमनमेव नः अस्माकं स्मृतिं त्वत्कल्याणगुणादिविषयकां स्मृतिं ‘सर्वज्ञस्सर्वदृक्सर्वशक्तिर्ज्ञानबलर्द्धिमान्’ इत्यादिपराशरादिस्मृतिमित्यर्थः । अन्यत्र तव स्मरणं स्मृतिसंतानमिति यावत् । उपबृंहयति अभिवर्धयति । हन्तेति वैपरीत्यचिन्तनजनिताश्चर्ये । अत्र श्लेषगर्भस्वोक्तार्थवैचित्र्यपरिपोषाय पूर्वमीमांसान्यायरूपशब्दप्रमाणोपन्यास इति पूर्वस्माद्विशेषः ॥
यथावा--
पादान्ते सक्तास्ते लघवो वा दधति गौरवंभगवन् । नाहं ब्रवीमि मिथ्या छन्दोभिज्ञाः किलैतदभिदधते ॥ २०८६ ॥
हे भगवन्! ते तव पादान्ते चरणाग्रे । अन्यत्र– पद्यचतुर्थांशचरमभागे सक्ताः संबद्धाः लघवो वा जातिगुणादिप्रयुक्तमहत्त्वहीना अपि । पक्षे-- ते इत्यस्य लघव इत्येतद्विशेषणता । ते लघवः ‘हस्वं लघु' इति सूत्रानुशिष्टा वर्णाः । गौरवं पूज्यत्वं । पक्षे-- वा इत्येतद्गौरवमित्यत्रान्वेति । वा गौरवं विकल्पेन गुरुवर्णत्वं दधति । यदाहुः-- 'सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च लः । वा पादान्तस्तु’ इति । अत्र स्वोक्तचमत्कृतिस्थापनाय उदाहृतच्छन्दश्शास्त्रज्ञवचनं प्रमाणतयोपात्तमिति विशेषः । छन्दोभिज्ञाः वेदज्ञा इत्यप्यर्थः प्रतीयते । तेन प्रामाण्यातिशयप्रतीतिः ॥
यथावा--
गुरवस्त्वद्भक्ताः किल ऋजवोऽन्ये लघव एव वक्रास्स्युः । एवं सति वक्रं गुरुमृजुं लघुं छान्दसा बत वदन्ति ॥ २०८७ ॥
हे भगवन्नित्यनुषज्यते । त्वद्भक्ताः गुरवः पूज्याः ‘एवमष्टविधा भक्तिर्यस्मिन् म्लेच्छेऽपि वर्तते' । ‘स च पूज्यो यथा ह्यहम्’ इत्युक्तेः । ऋजवः करणत्रयसारूप्यशालिनः । अन्ये त्वदभक्ताः लघवः अल्पाः वक्राः कुटिलस्वभावाः स्युः । एवं स्थिते छान्दसाः छन्दश्शास्त्रवेत्तारः वैदिकाश्चेत्यप्युपस्कार्यम् । छान्दसा इत्येतत् ‘श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः । अनुवाकहता बुद्धिः' इत्युक्तरीत्या मन्दबुद्धिताद्योतनाय । गुरुं वक्रं लघुं ऋजुं च वदन्ति । बतेति विपरीतकथनश्रवणजनितखेदे । अत्र ‘असौ
ग्वक्रो ज्ञेयोऽन्यो मात्रिको लृजुः’ इति छन्दश्शास्त्रविदां वचनस्यस्वाभिमतार्थविरोधितया तदधिक्षेपायोपन्यास इति पूर्वस्माद्विच्छित्तिविशेषः ॥
यथावा--
त्वयि विदधानो मैत्रीं द्विजराजो बुधसुहृद्भवत्यनरिः । जगति हरेऽशेषसमो धामनिधे ज्यौतिषं प्रमाणमिह ॥ २०८८ ॥
धामनिधे हे तेजोनिधे हे हरे भगवन्! पक्षे हे भास्वन्नित्यर्थः । त्वयि भगवति भानौ च मैत्रीं शरणागतिं ‘विदितस्स हि धर्मज्ञश्शरणागतवत्सलः । तेन मैत्री भवतु ते' इत्यत्र मैत्रीशब्दस्य शरणागत्यर्थकतया व्याख्यानात् । अन्यत्र सुहृत्त्वं विदधानः द्विजराजः ब्राह्मणमूर्धन्यः चन्द्रमाश्च । चन्द्रमसो भानुमन्मित्रत्वादिति भावः । बुधसुहृत् ब्रह्मवित्सौहार्दवान् सौम्यग्रहस्य मित्रं च, चन्द्रमसस्तन्मित्रत्वात् । अनरिः कामादिवैरिवर्गविधुरः । चन्द्रपक्षे शत्रुरहितः तस्य शत्रुग्रहविरहादिति भावः । जगति अशेषेषु समः 'तुल्यो मित्रारिपक्षयोः’ इत्युक्तक्रमेण सर्वत्र समदर्शी अन्यत्र शेषसम इति छेदः । शेषेषु उक्तग्रहातिरिक्तग्रहेषु समः भवति । अन्येषां सर्वेषां तत्समत्वादिति भावः । इह अस्मिन्नर्थे ज्यौतिषं ज्योतिश्शास्त्रं प्रमाणं ‘तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषास्समाश्शीतगोः' इति वराहमिहिराद्युक्तिः प्रमाणमिति भावः । अत्र श्लेषमहिम्ना स्वोक्तार्थस्थापनाय ज्यौतिषरूपस्मृतेः प्रमाणताप्रापणमिति पूर्वस्माद्विशेषः ॥
यथावा--
हरिदृष्टिर्यो हंसस्स महार्चिस्सत्क्रियाञ्चितः क्रमतः । उच्चपदस्थो भविता श्रुतिवज्ज्यौतिषमिह प्रमाणं चेत् ॥ २०८९ ॥यः हंसः यतिविशेषः भानुश्च । हरौ भगवति विषये दृष्टिः उपासनात्मकज्ञानं यस्य स तथोक्तः । पक्षे हरौ सिंहराशौ दृष्टिर्यस्य तथोक्तः कुम्भराशिस्थस्सन्निति भावः । तत्रावस्थितस्यैव तस्मात्सप्तमे सिंहे दृष्टिसंभवात् ‘पश्यन्ति सप्तमान् सर्वे' इति हि ज्योतिर्विदः । सः यतिविशेषः महार्चिस्सत्क्रियाञ्चितः महत्या अर्चिषः आतिवाहिकाद्यभूतस्याग्नेः सत्क्रियया सत्कारेण अञ्चितः युक्तः क्रमतः अर्चिषोऽहरह्न आपूर्यमाणपक्षम्' इत्याद्युक्तदिनपूर्वपक्षादिक्रमेण उच्चपदस्थः परस्मिन् पदे स्थितः भविता । पक्षे सः कुम्भराशिगतो भानुः क्रमतः मीनराशिप्राप्तिपूर्वकं सत्क्रियाञ्चितः संश्चासौ क्रियः मेषराशिः ‘क्रियताबुरुजतुमकुलीयलेयपाथोनजूककौर्प्याख्याः’ इति ज्योतिर्विद्भिः मेषादीनां क्रमेण क्रियादिसंज्ञाया उक्तत्वात् । तस्मिन् अञ्चितः गतस्सन् उच्चपदस्थः उच्चस्थानस्थितः ‘अजवृषभ' इत्यादिना मेषस्य तदुच्चस्थानतोक्तिः । अतएव महार्चिः महादीप्तिः ‘स्वोच्चे प्रदीप्तः' इति विद्यामाधवोक्तेः । भविता । स्पष्टमन्यत् । अत्राप्यभिमतेऽर्थे ज्यौतिषस्य प्रमाणता ॥
यथावा--
कवयस्तवोपमानं कथयन्ति हरिन्मणिं हरिमणिं च । अनयोर्न वर्णभेदो यदुच्यते कृष्ण तन्न खलु मिथ्या ॥ २०९० ॥
हे कृष्ण! नीलनीरदश्यामलेति भावः । कवयः हरिन्मणिं मरकतं हरिमणिं इन्द्रनीलं च तव उक्तवर्णस्य भवतः उपमानं कथयन्ति कथं हरिन्नीलवर्णयोरुक्तरत्नयोश्श्यामलवर्णस्य तव
चोपमानोपमेयभाव इत्याशङ्क्य समाधत्ते-- अनयोरिति । अनयोः हरिन्मणिहरिमण्योः वर्णभेदः नेति यदुच्यते कविभिरिति शेषः ।तत् न मिथ्या खलु अनयोरुक्तशब्दयोः नवर्णेनैव भेदो नान्यवर्णैरित्यर्थान्तरमपि चमत्कारि । अत्र भगवतो नीलतोयदनीलस्य हरिन्मणिहरिमण्युभयसादृश्यवर्णनाय तयोर्वर्णभेदाभाववर्णनरूपेऽभिमतेऽर्थे ‘कमलासंपदोः कृष्णहरितोर्नागसर्पयोः’ इत्यारभ्य ‘दानवासुरदैत्यानामैक्यमेवाभिसंहितम्’ इत्यालंकारिकोक्तिः प्रमाणभावं प्रापिता ॥
एवं शास्त्रान्तरलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहार्याणि । ‘आचारश्चैव साधूनामात्मनस्तुष्टिरेव च' इति प्रमाणप्रतिपादिताचारात्मतुष्ट्योरपि मीमांसकोक्तधर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः ॥
तत्राचारप्रमाणं यथा--
सौरिस्स कथं पापो वारे यस्याचरन्ति तव तुष्ट्यै । व्रतममितमहिगिरीश्वर सदसच्च विभाव्यमिह सदाचारात् ॥ २०९१ ॥
हे अहिगिरीश्वर! सः सौरिः शनिः कथं पापः । तस्य ज्यौतिषोक्तं पापत्वं न घटत इति भवः । तत्र हेतुमभिप्रयन्नाह--यस्येति । यस्य शनेः वारे तव तुष्ठ्यै अमितं व्रतं उपवासादिनियमं आचरन्ति सन्त इति शेषः । कथमाचारादेव तस्यापापत्वं निर्णेयमित्यत आह-- सदति । इह लोके सत् साधु असच्च असाधु वा सतां आचारादेव विभाव्यं निर्णेयं हि । स्ववारे सतां श्रीनिवासप्रीणनव्रताद्याचारदर्शनात्सौरेः पापत्ववाचोयुक्तिरयुक्तेति भावः । अत्र शनेरपापत्वनिर्णये तद्वारे व्रताचरणरूपस्सदाचारः प्रमाणतयोपन्यस्तः । ‘आचारो नाम शिष्टानामभिमतो दयादाक्षिण्यादियुको वृत्तिविशेषः' इति माधवीये ॥आत्मतुष्टिप्रमाणं यथा--
भक्तिः प्रपत्तिरथवा भवदाप्तेस्साधने स्मृते तदपि । प्रपदन एव विशेषात्परितोषोऽस्मादृशां वृषाद्रिमणे ॥ २०९२ ॥
अत्र--
भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने । |
इति विकल्पितयोर्भक्तिप्रपत्त्योः प्रपदन 'एवास्मादृशां प्रवृत्तावात्मतुष्टिरूपं प्रमाणमुपन्यस्तम् ॥
एवं प्रमाणं श्रुतिलिङ्गादिकमपि मीमांसकोक्तं प्रमाणं संभवदिहोदाहार्यम् ॥
तत्र श्रुतिर्यथा--
नाम्नैव हरिरसि त्वं दुरितं हरसे किमत्र लिङ्गेन । स्वकरप्रकोष्ठकङ्कणसमीक्षणे न खलु दर्पणापेक्षा ॥ २०९३ ॥
अत्र श्रीनिवासस्य हरिरित्यभिधानश्रुत्या सकलदुरितहारित्वं समर्थितम् । ‘श्रुतिर्नाम निरपेक्षरवः' इत्याहुस्तन्त्रविदः ॥
यथावा--
धत्से नाभयमुद्रामभयं ब्रह्मेति यच्छ्रुतोऽसि हरे । श्रुत्या परमे तत्त्वे निर्णीते को नु लिङ्गमाद्रियते ॥ २०९४ ॥
हे हरे श्रीनिवास! त्वं अभयमुद्रां ऊर्ध्वाग्राङ्गुळिकपाणितलप्रदर्शनरूपामभयसूचनीं मुद्रां न धत्से न धारयसे । श्रीनिवासस्यावाक्कृताग्राङ्गुळिककरतलप्रदर्शनरूपवरदानसुचकमुद्रावहनेनतादृशाभयमुद्रावहनाभावात्तथोक्तिः । यत् यस्मात् त्वं अभयं ब्रह्मेति श्रुतोऽसि ‘एतदमृतमेतदभयमेतद्ब्रह्म’ इति, ‘अभयं वै ब्रह्म’ इति च श्रुतिप्रथितोऽसि । अविद्यमानं भयं यस्मादिति पञ्चमीबहुव्रीहिः । तथाहि-- श्रुत्या अभिधानश्रुत्यैव परमे श्रेष्ठे तत्त्वे अर्थयाथात्म्ये निर्णीते सति लिङ्गं तदनुमापकं सामर्थ्यरूपं कोनु आद्रियते । श्रुत्यैवार्थनिर्धारणे दुर्बललिङ्गादरणं न क्रियत एवेति भावः । किंच 'नारायणः परं ब्रह्म तत्त्वं नारायणः परः’ इत्यादिश्रुत्या नारायणस्यैव परतत्वत्वे निर्णीते सति लिङ्गं शिवलिङ्गं कोनु नामाद्रियते । श्रुत्यर्थयाथात्म्यवेत्ता नारायणादन्यं रुद्रादिकं परतत्त्वतया नाद्रियत इत्यर्थोsपि प्रतीयते । अत्र श्रीनिवासस्य ‘अभयम्’ इति श्रुत्या अभयमुद्राधारणरूपलिङ्गानावश्यकत्वं समर्थितम् ॥
यथावा--
श्रुतिराह श्रीपतिरिति मामाभ्यां किमिति शङ्खचक्रे प्राक् । अजहाः किमीहगिरीन्दो श्रौतेऽर्थे न खलु लिङ्गमाद्रियते ॥ २०९५ ॥
हे अहिगिरिन्दो! श्रुतिः ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इत्यादिश्रुतिः मां श्रीपतिरित्याह । आभ्यां शङ्खचक्राभ्यां मम किं साध्यं श्रीपतित्वस्य श्रुत्यैव निर्णये शङ्खचक्रधारणरूपलिङ्गेन किं प्रयोजनमिति प्राक् पूर्वं शङ्खचक्रे अजहाः अत्याक्षीः किमित्युत्प्रेक्षा । तथाहि श्रुते निरपेक्षरवसिद्धेऽर्थे लिङ्गं नाद्रियते तान्त्रिक्तैरिति
शेषः । अत्राप्युदाहृतश्रुत्या शङ्खचक्रधारणानावश्यकता समर्थिता । अत्रान्यहेतुकश्शङ्खचक्रत्याग उक्तहेतुकस्संभाव्यते । अत्र कस्यचिद्राज्ञश्शत्रुविजयाय भगवान् श्रीनिवासश्शङ्खचक्रे व्यतारीदिति पौराणिकी कथाऽनुसंहिता ॥लिङ्गं यथा--
भुवनोपकारहेतोस्तव नो भगवन् प्रवृत्तिरेकाऽपि । किन्तु स्वार्था मन्ये निखिलशरीरत्वमेव तद्वदति ॥ २०९६ ॥
अत्र भगवतश्रीनिवासस्य ‘यस्य पृथिवी शरीरम्’ इत्यादिश्रुतिप्रसिद्धसर्वोपकारकसर्ववस्तुशरीरकत्वलिङ्गेन तत्प्रवृत्तेः स्वप्रोजनैकतत्परत्वं समर्थितम् ॥
ननु लिङ्गस्य सामर्थ्यात्मकस्य शब्दप्रमाणबहिर्भूततया शब्दप्रमाणप्रस्तावे कथमुदाहरणमिति चेन्न, स्वतस्तस्य प्रमाणताविरहेण वेदानुमापकतयैव प्रमाणत्वाच्छब्दप्रमाण एवान्तर्भावितत्वात् । एवं लौकिकलिङ्गानामपि लौकिकशब्दोन्नायकतया लौकिकशब्द एवान्तर्भावः । तादृशलिङ्गमप्येवमेवोदाहार्यम् ॥
वाक्यं यथा--
अघनिष्कृतिप्रकरणे प्रबलं निश्चित्य तावकं वाक्यम् । जननि वृणे शरणं त्वां प्रकरणतो वाक्यमेव हि बलीयः ॥ २०९७ ॥
अघनिष्कृतिप्रकरणे प्रायश्चित्तप्रसक्तौ सत्यां तावकं वाक्यं--
‘प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे । |
प्रकर्षात्’ इति, ‘निरपेक्षो रवश्श्रुतिः । सामर्थ्यं लिङ्गम् । समभिव्याहारो वाक्यम् । उभयाकाङ्क्षा प्रकरणम् । देशसामान्यं स्थानम् । यौगिकश्शब्दसमाख्या' इति संक्षेपः । अत्र प्रकरणवाक्यरूपशब्दप्रतिपाद्यार्थद्वयश्लेषमूलाभेदाध्यवसायोत्तम्भितेन प्रकरणाद्बलीयसा वाक्येनोक्तार्थसमर्थनम् ॥
यथावा--
नाम्नैव माधवे त्वय्यात्तदरारिणि कुमार एष इति । वाक्यं कश्श्रद्दध्याच्छ्रुतिलिङ्गाभ्यां हि दुर्बलं वाक्यम् ॥ २०९८ ॥
हे भगवन्! नाम्नैव माधवे ‘माधवं वेङ्कटगिरौ' इति भगवच्छास्त्रोकेरिति भावः । अनेनाभिधानश्रुतिर्दर्शिता । आत्ते श्रीभगवद्रामानुजाचार्यात्स्वीकृते दरारिणी शङ्खचक्रे येन तस्मिन्निति लिङ्गम् । त्वयि एष कुमारः स्कन्द इति केषांचिन्मूर्खाणां वाक्यं कश्श्रद्दध्यात् । हि यस्मात् श्रुतिलिङ्गाभ्यां तदपेक्षया वाक्यं दुर्बलम् । पूर्वोदाहरणे प्रकरणाद्वाक्यस्य प्राबल्यं प्रादर्शि । अत्र तु श्रुतिलिङ्गापेक्षया तस्य दौर्बल्यमिति विशेषः । अन्यत्तुल्यम् ॥
प्रकरणं यथा--
यत्रक्ववाऽस्तु तव गुणकथाप्रकरणं तदेव साधुजनैः । आद्रियते न स्थानं परमपि तत्प्रकरणाद्धि हीनबलम् ॥ २०९९ ॥
हे भगवन्! तव गुणकथायाः प्रकरणं प्रस्तावः यत्रक्ववा अस्तु अप्रशस्तेऽपि देशे अस्त्वित्यर्थः । तदेव त्वद्गुणकथाप्रकरणमेव साधुजनैः भागवतैः आद्रियते परं स्थानं परमं पदमपि नाद्रियते तेषां भगवत्कथैकभोग्यत्वादिति भावः । तत्परं स्थानं परत्वेन सूत्रोक्तं देशसामान्यरूपस्थानं च प्रकरणादपि प्रस्तावादपि उभयाकाङ्क्षारूपप्रकरणादपि च हीनबलं दुर्बलं हि । पारदौर्बल्यस्य सूत्रितत्वादिति भावः । अत्र उक्तरीत्याप्रकरणस्थानशब्दवाच्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायदत्तहस्तेन प्रकरणेन विवक्षितार्थसमर्थनम् ॥
स्थानं यथा--
स्थानेन व्यपदिष्टा भाति समाख्याऽपि वेङ्कटेश तव । यत्कथितं जैमिनिना स्थानं बलवत्तरं समाख्यायाः ॥ २१०० ॥
हे वेङ्कटेश! तव श्रुतिशतप्रथितवैभस्येति भावः । समाख्याऽपि नामापि स्थानेन त्वदावासभूतवेङ्कटाद्रिलक्षणस्थानेन व्यपदिष्टा व्यपदेशं ख्यातिं प्राप्ता "वसिष्ठव्यपदेशिनः’ इतिवत् वेङ्कटाद्रिरूपस्थानपुरस्कारेणैव हि तव वेङ्कटेश इत्यभिधेति भावः । यत् यस्मात् जैमिनिना समाख्यायाः यौगिकशब्दरूपसमाख्याया: नाम्नश्च तदपेक्षयेत्यर्थः । स्थानं देशसामान्यरूपं आवासभूतं च स्थानमेव बलवदिति कथितं परदौर्बल्यसूत्रेण । तस्मात् तव समाख्याऽपि स्थानेन व्यपदिष्टा भातीति योजना । अत्र समाख्यास्थानशब्दप्रतिपाद्यार्थद्वयश्लेषमूलाभेदातिशयैकीकृतेन स्थानेन भगवत्समाख्याया व्यपदेश्यत्वं समर्थितम् ॥
समाख्या यथा--
वेधास्स कृत्तिवासास्सान्ता वृद्धश्रवाश्च विश्वात्मन् । नान्तस्त्वमत्र मानं भवति हि युष्मत्समाख्यैव ॥ २१०१ ॥हे विश्वात्मन्! इदं अत्रैव उदाहरिष्यमाणवचनस्थविश्वात्मशब्दप्रत्यभिज्ञापकम् । स इत्येतत् वेधःप्रभृतिषु सर्वेष्वप्यनुषञ्जनीयम् । सः लोकस्रष्टृतया प्रख्यातः वेधाः चतुर्मुखः, सः जगत्संहर्तृत्वेन प्रसिद्धः कृत्तिवासाः पिनाकी, सः अमराधीशत्वेन प्रथितः वृद्धश्रवाः इन्द्रश्च सान्ताः अन्तेन सह वर्तन्त इति तथोक्ताः । विनश्वरा इत्यर्थः । पक्षे उक्तास्सर्वेऽपि शब्दास्सकारान्ता इत्यर्थः । सः ‘अजरोऽमृतः । विजरो विमृत्युः । सत्यं ज्ञानमनन्तम्' इति श्रुतिशतख्यापितः त्वं नान्तः अनन्तः नशब्दपूर्वको बहुव्रीहिः । नित्य इत्यर्थः । पक्षे विश्वात्मन्निति शब्दो नकारान्त इत्यर्थः । अत्र मानं प्रमाणं युष्माकं ते च त्वं च यूयं तेषां ‘त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते’ इति परैकशेषः । समाख्या नामैव । अत्र--
ब्रह्मादिषु प्रलीनषु नष्टे लोके चराचरे । |
इति श्रीमन्महाभारतवचनं,
ब्रह्मा शम्भुस्तथाऽर्कश्च चन्द्रमाश्च शतक्रतुः । |
इति श्रीविष्णुधर्मोत्तरवचनं चार्थतः प्रत्यभिज्ञाप्यते । अत्र विवक्षितेऽर्थे समख्यायाः प्रमाणता ॥
यथावा--
नतनिवहेन क्रीतो नितरां चक्री समिद्धयाभक्त्या । चक्रीति समाख्यैव क्रीतत्वममुष्य वदति सुस्पष्टम् ॥ २१०२ ॥
चक्रीति समाख्या नामैव अमुष्य भगवतः क्रीतत्वं क्रयणकर्मत्वं, पक्षे क्रीत्याकारकवर्णेन इतत्वं युक्तत्वम् । अत्रापि स्वविवक्षिते क्रीतत्वरूपेऽर्थे शब्दार्थतादात्म्यमूलकश्लेषमहिम्ना समाख्यैव प्रमाणतां गमिता । अत्र ‘भक्तिक्रीतो जनार्दनः' इति प्रमणार्थोऽनुसंधेयः ॥
यथावा--
त्वत्पदविधुतो रविरिह खेऽटेष्वग्रेसरो भवन् भगवन् । व्यग्रोऽप्यभवन्नूनं समाख्ययैवावगम्यतेऽर्थोऽसौ ॥ २१०३ ॥
हे भगवन्! रविः भानुः रविशब्दश्च । त्वत्पदेन तव
चरणरुचेति यावत् विधुतः अतएव खेटेषु गर्ह्येषु ‘खेटगर्ह्याणकास्समाः’ इत्यमरः । गगनचारिषु ग्रहेष्विति तत्त्वम् । अग्रेसरः श्रेष्ठः अन्यत्र अग्रे आदौ सरः शब्दार्थतादात्म्यबलेन रेफविशिष्ट इत्यर्थः । भवन् सन् व्यग्रोऽपि व्याकुलोपि अभवत् । विः विवर्णः अग्रे प्रान्ते यस्य स तथाभूतश्च "अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्" इति मेदिनी । अभवत् । नूनमिति सम्भावनायाम् । अत्र तस्य समाख्ययैवायमर्थः अवगम्यते । उक्तरीत्या समाख्यया तादृशार्थलाभादिति भावः । अत्रापि स्वविक्षितेऽर्थे समाख्यैव श्लेषमहिम्ना प्रमाणीकृता ॥यथावा--
विधुरिह विभो भवन्मुखविप्रतिपन्नो धुतस्ततस्सख्यमगात् । अस्य समाख्यैव वदत्यमुमर्थं किंन्विहान्यमीमांसनतः ॥ २१०४ ॥
हे विभो स्वामिन्! इह विधुः इन्दुः भवन्मुखेन भवन्मुखे वा विप्रतिपन्नः विप्रतिपत्तिं गतः विरोधं प्राप्त इत्यर्थः । अत एव ततः सार्वविभक्तिकस्तसिः तेन मुखेनेत्यर्थः । धुतः तिरस्कृत इति यावत् । तत इत्येतत् मध्यमणिन्यायेनोभयान्वयि । ततः तेन सह सख्यं सौहार्दं अगात् उत्कृष्टेनावधीरितस्य निकृष्टस्य कुशलमतेर्झडिति तदाश्रयणमेवोचितमिति भावः । अमुमर्थं उक्तमर्थं अस्य विधोः समाख्यैव वदति प्रकाशयति । इह अस्मिन्विषये अन्यमीमांसनतः किं विचारान्तरमनावश्यकमिति भावः । समाख्यापक्षे तु-- विधुः विधुशब्दः विभो अभवत् इति छेदः । मुखे प्रथमभागे विप्रतिपन्नः वि इत्याकारकाक्षरेणाश्रितः अभवत् आसीत् । ततः अनन्तरं धुतः सार्वविभक्तिकस्तसिः । धुवर्णेन सख्यं साहित्यमिति यावत् । अगात् प्रापत् । विधुशब्द एवंनिष्पन्न इत्यर्थः । अन्यत्पूर्ववत् ॥
यथावा--
आदौ स्वाराद्धश्श्रीधर मध्ये त्रासितोऽपि सुत्रामा । मानुगृहीतोऽन्तेऽभूदस्य समाख्यैव तमिममाहार्थम् ॥ २१०५ ॥
हे श्रीधर! सुत्रामा इन्द्रः सुत्रामेति शब्दश्च । आदौ
दुर्वासश्शापोपप्लवात्पूर्वं स्वः स्वर्गः राद्धं सिद्धं यस्य सः स्वाराद्धः स्वः स्वर्गे राद्धः संसिद्ध इति वा । सर्वैश्वर्यपरिपूर्ण इत्यर्थः ‘रो रि’ इति रेफलोपे ‘ढ्रलोपे’ इति पूर्वस्याणो दीर्घः । शब्दपक्षे तु--आदौ सु इति वर्णं आराद्धं येन सः स्वाराद्धः । मध्ये दुर्वासश्शापलक्ष्मीकटाक्षलाभयोरन्तराळसमये त्रासितः वैरोचनिप्रभृतिभिः पदभ्रंशनादिना भीषितोऽपि । अन्यत्र मध्ये सु मा इति वर्णद्वयान्तरे त्रासितः त्रा इति वर्णसमुदयः आसितः उपवेशितः यस्य स तथोक्तः । च इति वर्णसमूहेन सितः बद्धः संबद्ध इति वा । अपिरत्र समुच्चये । त्रासितश्चेत्यर्थः । अन्ते पर्यवसाने मानुगृहीतः लक्ष्मीकटाक्षविषयीकृत इत्यर्थः । अन्यत्र अन्ते चरमभागे मानुगृहीतः मा इति वर्णेन घटित इति यावत् । अभूत् । तमिममर्थं अस्य सुत्राम्णः समाख्यैव आह सुत्रामेति समाख्ययैव वेदितेऽस्मिन्नर्थे पौराणिकोक्तिपर्यन्तानुधावनं नापेक्षितमिति भावः । अत्र उपपादिते स्वाभिमतेऽर्थे समाख्यायाः प्रमाणता ॥
यथावा--
मापमुमापतिरन्तर्बिभर्ति तदधीनसत्त एवायम् । यदि दुर्ग्रहोऽयमर्थो विमृश्यतां साधु तत्समाख्यैव ॥ २१०६ ॥
उमापतिः शिवः मापं श्रीनाथं अन्तर्बिभर्ति अन्तरात्मतया दधाति ।
ममान्तरात्मा तव च येचान्ये देहिसंज्ञिताः । |
इत्यादिप्रमाणादिति भावः । अत एव अयं उमापतिः तदधीनसत्त एव तदायत्तस्वरूपस्थितिप्रवृत्तिभेद इत्यर्थः । अयमर्थः
अन्तर्यामिब्राह्मणार्थाविसंवादिप्रदर्शितप्रमाणसंप्रतिपन्नोऽर्थः दुर्ग्रहोयदि अल्पप्रज्ञैर्दुर्विज्ञानश्चेत् साधु सम्यक् तत्समाख्यैव उमापतिसमाख्यैव विमृश्यतां विमर्शे अयमर्थस्स्फुटीभविष्यत्यल्पज्ञानामपीति भावः । समाख्यापक्षे तु उमापतिः उमापतिशब्दः अन्तः आद्यन्ताक्षरयोर्मध्ये मापं माश्च पश्च अनयोस्समाहारः मापं एवंरूपं वर्णसमुदयं बिभर्ति । अतएव अयं उमापतिशब्दः तदधीनसत्तः मापवर्णायत्तस्वस्थितिः उक्तमापवर्णाभावे उमापतिशब्दसत्ताया दुर्घटत्वादिति भावः । अत्र स्वविवक्षिते उमापतेर्भगवदन्तरात्मकत्वे उमापतिसमाख्यायाः प्रमाणीकरणम् ॥
यथावा--
सति भवति सर्वभोग्ये कामुक इतरामिषस्य यो भगवन् । अमुकस्स काक एव स्यादेतद्वक्ति तत्समाख्यैव ॥ २१०७ ॥
हे भगवन्! सर्वभोग्ये सर्वैस्सर्वप्रकारेण भोग्ये भवति सत्यपि यः इतरामिषस्य भोग्यवस्त्वन्तरस्य 'आमिषं पुंनपुंसकम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपिच' इति मेदिनी । अन्यमांसस्येत्यप्युपस्कार्यम् । कामुकः कामयिता । ‘न लोक’ इत्यादिकृद्योगलक्षणषष्ठीनिषेधस्य ‘कमेरनिषेधः' इति पर्युदस्तत्वात् कामुकशब्दयोगे इतरामिषशब्दस्य षष्ठ्येव । सः अमुकः सोऽसौ कामुकः । अदश्शब्दसमानार्थकोऽयमव्युत्पन्नोऽमुकशब्दः । 'अमुकगोत्रस्यामुकशर्मणः । ज्ञातस्स्वरेणामुकः’
इत्यादिप्रयोगदर्शनात् । न तु साकच्कोऽदश्शब्दः । तथा सत्यसुक इति स्यात् । काक एव वायस एव स्यात् । आमिषगृध्नुत्वात्तत्तुल्य एवेति भावः । पक्षे कामुकशब्दो मुकारविघटितः काक एव काकशब्द एव स्यात् । अत्र स्वविवक्षितार्थनिर्धारणायच्यावित्तैकवर्णकामुकसमाख्यायाः प्रमाणतयोपन्यास इत्यच्यावितवर्णसमाख्योदाहरणेभ्यः पूर्वेभ्यो विच्छित्तिविशेषशालीदम् ॥
यथावा--
प्रतिकूलभावभाक्त्वे नूनं हंसीति भासि सिंहत्वम् । ईदृक्सिंहेत्येतत्पदमेव हि मानमत्र पर्याप्तम् ॥ २१०८ ॥
हे सिंह हे नृसिंह! त्वं प्रतिकूलभावभाक्त्वे त्वद्विषये प्रातिकूल्यकृत्त्वे नूनं हंसीति भासि प्रातिकूल्यभाजं जनं संहरसीति मम प्रतिभासीत्यर्थः । पक्षे हे सिंहेति सिंहशब्दस्यैव संबोधनम् । प्रतिकूलभावभाक्त्वे प्रातिलोम्यप्राप्तौ हंसीति भासि हंसीत्यानुपूर्व्या प्रकाशसे इत्यर्थः । अत्र उक्तार्थे ईदृक् प्रातिलोम्यभाक्त्वे हंसीति निष्पद्यमानं सिंहेत्येतत्पदमेव मानं प्रमाणं पर्याप्तम् । किमन्यप्रमाणान्वेषणेनेति भावः । अत्र उक्तार्थे उक्तरूपं सिंहेति संबुद्ध्यन्तसमाख्यापदं प्रमाणतयोपन्यस्तमिति पूर्वस्माद्विच्छित्तिविशेषशालीदम् ॥
इत्यलङ्कारमणिहारे शब्दप्रमाणसरः पञ्चदशोत्तरशततमः.