← परिच्छेदः १० अलङ्कारसङ्ग्रहः
परिच्छेदः ११
अमृतानन्दयोगीन्द्र:

अथ चाटुप्रबन्धानां लक्षणं कथ्यतेऽधुना।
मुक्तकादिविभागः----
मुक्तकं पद्यमेकं स्याद्द्विकं पद्यद्वयं मतम् ।। १ ।।

त्रिकं त्रयेण पद्यानां पञ्चरत्नानि पञ्चकम्।
अष्टकं गजमाला स्यान्नवकं रत्नमालिका ।। २ ।।

दशभिर्दशकं प्रोक्तं द्वादशेन्दुकला मता।
सप्तविंशति पद्यानि नाम्ना तारावली मता ।। ३ ।।

त्रिंशता त्रिंशिका पञ्चाशता पञ्चाशिकेष्यते।
शतेन शतकं प्रोक्तमष्टोत्तरशतं परम् ।। ४ ।।

वृत्तैरभिन्नैर्भिन्नैर्वा कार्यमेकं यथारुचि।
काव्यमप्येकसर्गादि द्वात्रिंशदवधिस्मृतम् ।। ५ ।।

अथोदाहरणादीनां लक्षणं कथ्यतेऽधुना।
कल्पनीयानि पद्यानि सप्त सप्तविभक्तिभिः ।। ६।
सम्बोधनात्मिका चान्ते विभक्तेष्वष्टमी भवेत्।
शक्वरीप्रभृतीनि स्युश्छन्दांस्यस्य यथारुचि ।। ७ ।।

रीतिः प्रधाना गौडीया गतिस्स्याद्द्रुतमध्यमा।
ओजः प्रसाधनाशब्दाः सानुप्रासाः क्वचित्क्वचित् ।। ८ ।।

विभक्तिघटना चात्र यथाकामं क्रमेण वा।
तत्राद्यं मालिनीवृत्तं जयेत्यादिसमन्वितम् ।। ९ ।।

गद्यात्मकदलान्यष्टौ प्रत्येकं सयतीनि च।
ततः सत्कलिका कार्या समस्ताब्धिपदात्मिका।
अन्ते तूत्कलिका कार्या समस्तैकपदात्मिका ।। १० ।।

अन्ते पद्यसमायुक्ता यत्यनुप्रासशोभिनी।
चतुरुत्कलिकास्याद्वा विभक्त्याभासलाञ्छिता ।। ११ ।।

कलिकोत्कलिकामृष्टनव्यताललयक्रमा।
प्रतिपद्यं भवेन्नेतृनाम तत्तद्विभक्तिमत् ।। १२ ।।

विराजन्ती कीर्तिमती सुभागा भोगमालिनी।
कलावती कान्तिमती कमला जयवत्यपि ।। १३ ।।

एता विभक्त्यधिष्टात्र्यो देवताः कथिता बुधैः।
ददत्येताः स्तुतिप्रीताः स्वस्वनामसमं फलम् ।। १४ ।।

वाक्यमेकं च कर्तव्यमन्ते सर्वविभक्तिकम्।
आर्यां वान्यतमं कुर्यात् कविश्रुत्याख्यया ततः ।। १५ ।।

अप्राकृता प्राकृता वा प्राकृतोन्मिश्रितापि वा।
देशीभिश्च पदैर्युक्ता भाषाणां चैव सञ्चयैः ।। १६ ।।

वंशीवीर्यश्रुताद्यैश्च युक्तोदाहरणं मतम्।
अमुष्य नायकाः प्रोक्ता देवा दैत्या महीसुराः ।। १७ ।।

गुरवः क्षोणिपालाश्च सामन्ताः सचिवादयः।
विभक्तिसप्तकयुता सन्ध्या चैव विना कृता ।। १८ ।।

अड्डलीति समाख्याता सद्भिश्चाटुविशारदैः।
केवलं कलिकासङ्गात्कल्याणीति निगद्यते ।। १९ ।।

केवलोत्कलिकासङ्गादुत्फुल्लकवती भवेत्।
यस्यास्तूत्कलिकास्थाने केवलार्या प्रयुज्यते ।। २० ।।

सा फलोदाहरणं वास्यादार्यासङ्गान्न भिद्यते।
केवला प्रथमा वाणी द्वितीया केवला झरी ।। २१ ।।

तृतीया केवला वापी चतुर्थी केवला फणी।
पञ्चमीं केवला सारी षष्ठी मोरीति कथ्यते ।। २२ ।।

सप्तमी कलिका प्रोक्ता सम्बुद्धिः सरसावती।
भिन्नैर्वणैर्भिन्ननाम सम्भावे च तथा भवेत् ।। २३ ।।

सर्ववाक्यं च कर्तव्यं कविनायकलाञ्छितम्।
एषैव गद्यरहिता नवमाणिक्यमालिका ।। २४ ।।

एषैव च त्रिगुणिता भवेन्नक्षत्रमालिका ।
रसः शृङ्गार एव स्याद्भोगवल्याः प्रपञ्चने ।। २५ ।।

अनुषङ्गेण मिलितो वीरोऽपि स्यात्क्वचित्क्वचित्।
वर्णनीयाः क्रमात्साङ्गवीरभोगादयो गुणाः ।। २६ ।।

आशीः पद्यसमायुक्ता प्रथमे विरतावपि।
अष्टभिर्वा षोडषभिः विंशत्या वा पदैर्युता ।। २७ ।।

दलानि षड्वा चत्वारि प्रत्येकं सयतीनि च।
मध्ये भवेयुरथवा यमिताद्यक्षरैः क्वचित् ।। २८ ।।

गतेरपि प्रयेगः स्याद्यथारीति समृद्धितः।
तत्तदर्थावसानेऽस्य विरतिः स्यात्पदे पदे ।। २९ ।।

देवं त्वं जय वीर त्वं धीर जीवादिकं पदम्।
तत्तस्थाने प्राकृतादिभाषाभिर्बिरुदाश्रितैः ।। ३० ।।

भोगोपजृम्भितैर्गद्यपद्यैः सेयं सपल्लवैः।
भोगावली च देशर्तुभावाङ्कज्ञानचातुरी ।। ३१ ।।

वर्णयेद्वीरलब्धांश्च तांस्तान् श्लाघ्यादिकान् गुणान्।
चतुर्भिर्लघुभिः पद्यप्रान्ते सम्मदकारिणी ।। ३२ ।।

मङ्गलानि फलानि स्युः प्रथमश्रवणादपि।
वृत्तेनैकेन नेतारं वर्धयेदाशिषाऽन्तिमे ।। ३३ ।।

ग्रन्थसङ्ख्या शतं षष्टिरत्र ख्यातोत्तमा बुधैः।
भोगावलिसमायुक्ता देवानां भूभुजामपि ।। ३४ ।।

वर्णनेन परं विद्यात् प्रायशो बिरुदावलीम्।
द्वाभ्यां वापि चतुर्भिर्वा पञ्चभिष्षड्भिरेव वा ।। ३५ ।।

भाषाभिर्विहिताभिः स्याद्यदि वा देशभाषितैः।
कुलक्रमागतैर्वापि स्वापदाननिदर्शकैः ।। ३६ ।।

पदैरपि च सा यैः स्यात्तत्तदर्थविनाकृतैः।
नानपुरातनक्ष्माभृद्ब्रिरुदारोहणैरपि ।। ३७ ।।

वाहनारोहशस्त्रास्त्रप्रयोगैर्भोगवर्णनैः।
गुणिनां वर्णनैश्चापि विनयक्रमशालिभिः ।। ३८ ।।

गौडरीत्या विधातव्या सानुप्रासा सपल्लवा।
आद्यन्तयोः स्यादार्या वा गाथा वा मङ्गलात्मिका ।। ३९ ।।

इत्येवं लक्षणानि स्युर्लक्षणानीतराणि वा।
सद्गुणारोपणं यत्र नेतुः सैव गुणावली ।। ४० ।।

गुणाः परोपकारार्था वर्ण्याः सर्वे प्रधानतः।
दलानि चाष्टौ चत्वारि सानुप्रासयतीनि च ।। ४१ ।।

मात्राभिरथवा वर्णैः समानि स्युः परस्य च।
तादृग्वर्णानि सर्वाणि संस्कृतेन क्वचित्क्वचित् ।। ४२ ।।

अस्याः शृङगार एकः स्यात् क्वचित्तत्राद्भुतो रसः।
दलपङ्क्तिविरामेषु देवेत्यादिपदं न्यसेत् ।। ४३ ।।

आदौ समासभूयिष्ठमन्ते स्याद्वृत्तगन्धि च।
गद्याद्यपरमादद्यान्मध्ये हि पदमेव वा ।। ४४ ।।

पुरे जनपदे रम्ये देशे या गुणसम्पदः।
नेतारं वर्णयेत्ताभिरेषैव स्याद्गुणावली ।। ४५ ।।

चतुसृभिर्भवेत् षड्भिर्भाषाभिर्विलसत्क्रमम्।
एकैकभाषयैकैकं पद्यं सर्वविभक्तिभिः ।। ४६ ।।

रगलापि तथापि स्यात्तत्र तत्र सपल्लवा।
श्वोकावाद्यन्तयोर्नेतृमङ्गलार्थौ न्यसेद् बुधः ।। ४७ ।।

त्रिसृभिर्वाथ वृत्तं चेद्भाषाभिर्मण्डलक्रमात्।
उत्तमं चक्रवालं स्यादन्यूनानधिकं मतम् ।। ४८ ।।

रसादीन्वर्णयेद्भूतिर्गुणकर्मानुसारतः।
युक्तमेतद्विशेषेण सिद्धिं च विजिगीषुभिः ।। ४९ ।।

द्वात्रिंशद्गद्यसंयुक्तं गद्याग्रैः पल्लवैर्युतम्।
चतुर्धा भिन्नरूपेण व्यस्तं सस्वरबन्धनम् ।। ५० ।।

तालैर्द्वादशभिर्युक्तं लोकोत्तरमुदाहृतम्।
वेश्यः--------परं----स----तः ।। ५१ ।।

त्यागादयो गुणा यस्यामूह्यन्ते कविभिः कृतौ।
पूर्वाद्यास्तासु तत्रत्यानाहूया ------ ।। ५२ ।।

 ----- --- -----
 ---- गद्यमेकं चतुर्भिः पल्लवैर्युतम् ।। ५३ ।।

चतुर्धैष समावृत्तं चुतुरक्षरबन्धनम्।
आशीराद्यन्तयोः कार्या नेतुः पद्यद्वयेन तु ।। ५४ ।।

एवं पद्यैश्च गद्यैश्च सा भवेत्त्यागघोषणम्।
अथ सङ्ख्या भवेत् षष्टिः शतं वा स्याद्विशेषतः ।। ५५ ।।

अस्यास्तु सर्वे नेतारो भवेयुस्त्यागिनो सदा।
पद्यं गद्यं च तालं च सानुतालं चतुर्विधम् ।। ५६ ।।

देववीर जयेत्यादिसम्बुद्दिश्चान्त एव च।
स्याच्चतुर्धा च वृत्तं स्याच्चतुर्भद्रमितीरितम् ।। ५७ ।।

चाटुप्रबन्धैस्त्वयि चारुकीर्तिरुदारवर्णैरुपलाल्यमाना।
रक्ता सती राजगुरो विचित्रं मन्मक्षमानाथ! मरालशुभ्र! ।। ५८ ।।
इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे चाटुप्रबन्धलक्षणं
नामैकादशः परिच्छेदः।

अलङ्कारसङ्ग्रहः सम्पूर्णः।