अलङ्कारसङ्ग्रहः/परिच्छेदः ३
← परिच्छेदः २ | अलङ्कारसङ्ग्रहः परिच्छेदः ३ अमृतानन्दयोगीन्द्र: |
परिच्छेदः ४ → |
आत्मनो मनसा योगे मनसस्त्विन्द्रियैः सह।
इन्द्रियाणां तत्तदर्थैरिति ज्ञानोदयक्रमः ।। १ ।।
ज्ञायमानैर्विभावाद्यैर्व्यक्तः स्थायी रसः स्मृतः।
भावस्तु मनसोवृत्तिभेदः स्थैर्यमुपेयिवान् ।। २ ।।
रतिर्हासस्तथा शोकः क्रोधोत्साहौ भयं तथा।
जुगुप्साविस्मयशमाः स्थायीभावा नव क्रमात् ।। ३ ।।
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः।
बीभत्साद्भुतशान्ताख्या रसभेदा नव क्रमात् ।। ४ ।।
पोष्यमाणा रतिर्भावैः शृङ्गार इति गीयते।
एवमेव स्थायिनोऽन्ये रसतां प्राप्नुवन्ति हि ।। ५ ।।
नवनीतं यथा पाकाद्घृतत्वं प्रतिपद्यते।
श्रूयमाणैर्विभावाद्यैः काव्येषु रससम्भवः ।। ६ ।।
दृश्यमानैः सदस्यानां नाटकेषु रसोदयः।
विभावा अनुभावाश्च सात्विका व्यभिचारिणः ।। ७ ।।
श्रोतॄणां प्रेक्षकाणां च ते सर्वे रसपोषकाः।
आलम्बनत्वेनोद्दीपनत्वेन द्विविधा मताः ।। ८ ।।
विभावाद्यैर्विशेषेण रसव्यक्तिस्तु भाव्यते।
आलम्बनविभावः स यमालम्ब्य रसोदयः ।। ९ ।।
उद्दीप्यते रसो यैस्ते भावैरुद्दीपना मताः।
उत्पन्नो यै रसो भावैर्भावकैरनुभूयते ।। १० ।।
तेऽनुभावाः प्रकीर्त्यन्ते विभावा अङ्गसम्भवाः।
सत्त्वं नाम मनोवृत्तिः सात्विकास्तत्समुद्भवाः ।। ११ ।।
स्तम्भः स्वेदोऽथ रोमाञ्चलयौ वैस्वर्यवेपथू।
अश्रुवैवर्ण्यमित्यष्टौ भावाः प्रोक्ता मनीषिभिः ।। १२ ।।
भावे स्थायिन्यनैकान्त्याच्चरन्तो व्यभिचारिणः।
उत्पद्यन्ते विलीयन्ते वारिधाविव वीचयः ।। १३ ।।
निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्योग्रचिन्ता
त्रासोर्ष्यामर्षगर्वस्मृतिमरणमदाः सुप्तिनिद्रावबोधाः।
व्रीडापस्मारमोहाः समतिरलसता वेगतर्कावहित्था
व्याध्युन्मादौ विषादोत्सुकचपलयुता त्रिंशदेते त्रयश्च ।। १४ ।।
नटेषु रसभावानामालोक्यत्वान्न तत्त्वतः।
रसः सामाजिकेष्वेव स्वस्वभावरसस्मृतेः ।। १५ ।।
प्राणिनामपि सर्वेषां लोके स्वाभाविको रसः।
अन्योन्यालम्बनत्वं स्यात्कान्ताकामुकयो रसे ।। १६ ।।
उद्दीपनाः स्युः शृङ्गारे चन्द्रिकोपवनादयः।
अनुभावाः प्रकीर्त्यन्ते कटाक्षक्षेपणादयः ।। १७ ।।
स्तम्भादयः सात्विकाः स्युर्दर्शनस्पर्शनादिषु।
निर्वेदाद्या यथायोग्यं योज्याः सञ्चारिणोऽपि च ।। १८ ।।
सम्भोगो विप्रयोगश्च शृङ्गारो द्विविधो मतः।
सम्भोगः सन्निकर्षः स्याद्भाषणाद्यैर्मिथो यथा ।। १९ ।।
व्रीडाकातरलोचनं विनमितं वक्त्रं विशद्वेपथू
हस्तौ हल्लकसोदरौ पुलकितौ स्पृष्टौ तवेमौ स्तनौ।
तन्वी तारकिता तनुस्तनुतरैः स्वेदाम्भसां जालकैः
भावो भावजराज्यलक्ष्मिविदितो बाह्यैरलं डम्बरैः ।। "
विप्रलम्भोऽभिलाषेर्ष्याप्रवासाद्यैरनेकधा।
उदाहरणमेतेषामष्टावस्थासु वक्ष्यते ।। २० ।।
रत्युल्लाससमुद्भूता विद्यन्तेऽत्र दशा दश।
चक्षुःप्रीतिर्मनस्सक्तिः सङ्कल्पो जागरस्तथा ।। २१ ।।
तनुता विषयद्वेषः त्रपानाशस्ततः परम्।
मोहो मूर्छा मृतिरिति विज्ञेयाः प्रथमा यथा ।। २२ ।।
आदरादीक्षणं यच्च चक्षुःप्रीतिः प्रशस्यते।
"सामिप्रपुल्लसरसीरुहकोणनिर्य-
न्मत्तद्विरेफमहिलागतिगर्वचोरैः।
लज्जालसैर्ललितभावशतैः कटाक्षैः
सा त्वामवैक्षत सखी मम मन्वभूप ।। "
चित्तासक्तिर्मुहुश्चिन्ता प्रतिकृत्यादिभिर्यथा ।। २३ ।।
"त्वां मन्वभूप लिखितुं त्रपयासमर्था
सा सन्निधौ मम चिरादलिखद्विचिन्त्य।
पद्मद्वयं करिकरौ गगनं कवाटं
सम्भोरुहं युगयुगं शशिनं ततश्च ।। "
मनोरथैः प्रियव्याप्तिः सङ्कल्पः कथितो यथा।
"आमीलिताक्षमलकाकुलफालभाग-
मास्विन्नगण्डमधरस्फुरणाभिरामम्।
पाणौ निधाय वदनं परभागशालि
मन्मक्षितीश रतिमेति मनोरथैः सा ।। "
प्रियानवाप्त्या तच्चिन्तासातत्याज्जागरो यथा ।। २४ ।।
"राकाविधोरपि रवेरविशेषतोषा
सा जागरादपि सखी मम मन्मभूप।
जानाति नान्तरमनन्यजबाणजालैः
दीना निशादिवसयोर्दिननाथवंश ।। "
तदलाभात्तनोः कामज्वरेण तनुता यथा।
"भक्तेशनन्दन! भवद्विरहे मृगाक्षी
मन्मक्षितीश मदनज्वरकर्शिताङ्गी।
लब्धुं त्वदीयहृदये ललितेऽवकाशं
कार्श्यं निजं कलयते कमनीयमेव ।। "
अर्थान्तरासहिष्षुणुत्वं विषयद्वेषणं यथा ।। २५ ।।
"आलापमालिनिकरस्य निशम्य भीता
मुग्धा विलोक्य वदनं मुकुरं जहाति।
मन्दं न निश्वसिति मन्मथवेदनार्ता
कीरेन्दु मारुत भयात् किमु मन्मभूप ।। "
मानत्यागस्त्रपानाशो गौरवागणनाद्यथा।
"मन्दा वहन्ति मलयाचलगन्धवाहाः
मत्ता नदन्ति मकरन्दरसेन भृङ्गाः।
मानं जहाति मदनाशुगपातभीता
मन्मक्षितीश भजते न मरालयानम् ।। "
उन्मादश्चित्तवैकल्यान्मोह इत्युच्यते यथा ।। २६ ।।
"आलोलपल्लववतीमवलम्ब्य शाखा-
मागम्यतामिति शनैरनुनीय चूतम् ।। "
नेत्राम्बु सा त्यजति नेतुमपारयन्ती
कोपेन मन्मनृपते कोमराङ्कभीम ।। "
मुहुरुन्द्रियवैकल्यान्मूर्छा ज्ञानक्षयो यथा।
"मुग्धा मुहुः पिहितमन्मथबाणपीडां
मूर्छां सखी मृगयते मम मन्मभूप।
आज्ञातवेदनविशेषतया विवेकं
नाङ्गीकरोति नयने विनिमीलयन्ती ।। "
क्षणान्तरे प्राणहानिः प्रियालाभान्मृतिर्यथा ।। २७ ।।
"पुण्यं पुरातनमिहास्ति यदि त्वदीय-
मङ्कं विशङ्कमाधिरोढुमरालकेश्याः।
कामो नयेन्न दशमीमियताप्यवस्थां
कालेन मन्मनृपते करुणापरक्ताम् ।। "
हास एव विभावाद्यैः पुष्टो हास्यत्वमागतः।
विदूषकादिरालम्बो भावो हास्यरसो यथा ।। २८ ।।
"सम्मार्जनीसततसङ्गमनारपूतं
पाणिं पवित्रिकचे बहुतीर्थतोयैः।
मन्मस्तकेऽर्पितवती मधुपानमत्ता
धिक्तस्य मानमिह किन्तु विमाननाय ।। "
उद्दीपनविभावाः स्युस्तद्भावाकारविक्रियाः।
भावकाक्षिविकासाद्याः अनुभावाः प्रकीर्त्तिताः ।। २९ ।।
अश्रुवैवर्ण्यवैस्वर्यप्रमुखाः सात्त्विकाः स्मृताः।
अत्र हासाश्रुमत्यादिभावाः सञ्चारिणो मताः ।। ३० ।।
उत्तमादिविभेदेन त्रिधा हास्यरसो मतः।
स्मितं च हसितं चेतावनुभावाविहोत्तमे ।। ३१ ।।
आद्यं विकासिगण्डं स्यादीषल्लक्ष्यरदं परम्।
मध्यमं स्याद्विहसितं तथोपहसितं परम् ।। ३२ ।।
मृदुस्वनं स्यात्प्रथमं शिरःकम्पं परं मतम्।
अधमे चापहसितं तथाऽतिहसितं मतम् ।। ३३ ।।
शिरःकम्पाश्रुमत्पूर्वं विक्षिप्ताङ्गं द्वितीयकम्।
शोक एव विभावाद्यैः पुष्टः करुणतां गतः ।। ३४ ।।
इष्टनाशादनिष्टाप्तेः करुणोऽपि द्विधा मतः।
नष्टो वानिष्टयुक्तो वा बन्धुरालम्बनं यथा ।। ३५ ।।
"कस्तवाद्य कथमर्पयेत्सुधां
नाथ नष्टनयनोऽसि साम्प्रतम्।
हन्त वीतकरुणो हठात्कथं
यष्टिमन्धविधृतां यमोऽहरत् ।। "
"नृपतितनयभृत्यैर्नीयमानो नृशंसैः
पथिजनवति पश्चात्पाशबद्धस्वबाहुः।
निशमयत विरागान्नीयतेऽसौ निहन्तुं
कमलजकुलजातः कैरवः कातरात्मा ।। "
उद्दीपनविभावाः स्युः स्वजनाक्रन्दनादयः।
अनुभावास्तु निश्वासविलापरुदितादयः ।। ३६।।
स्तम्भाश्रुपातवैस्वर्यप्रमुखाः सात्त्विकाः स्फुटाः ।
अत्रापस्मारदीनत्वमरणालस्यसम्भ्रमाः ।। ३७ ।।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः।
क्रोध एव विभावाद्यैः पुष्टो रौद्रत्वमाप्तवान् ।। ३८ ।।
मात्सर्यादपि च द्वेषाद्रौद्रोऽपि द्विविधो यथा।
"आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान-
ज्याघातश्रेणिरेखान्तरितवसुमती चक्रजैत्रप्रशस्तिः।
वक्षःपीठे धनास्त्रव्रणकिणकठिने सङ्क्षुवानः पृषक्तान्
प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्न्यः ।। "
"कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः।
नरकरिपुणा सार्थं तेषां सभीमकिरीटिना
मयमहमसृङ्भेदोमांसैः करोमि दिशां बलिम् ।। "
आलम्बनविभावौ द्वौ मात्सर्यद्वेषगोचरौ ।। ३९ ।।
उद्दीपनविभावाः स्युस्तद्भाषाचेष्टितादयः।
अनुभावा भ्रुकुट्यक्षिरागोष्ठस्पन्दनादयः ।। ४० ।।
स्वेदवैवर्ण्यवैस्वर्यप्रमुखाः सात्त्विका मताः।
ईर्ष्यामर्षोग्रतागर्वमदाद्या व्यभिचारिणः ।। ४१ ।।
उत्साहस्तु विभावाद्यैः पुष्टो वीररसो भवेत्।
दानवीरो दयाविरो युद्धवीरस्त्रिधा यथा ।। ४२ ।।
"दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत्तदद्भुतमिदं तत्रैव चास्तं गतम् ।। "
"सिरामुखैस्पन्दत एव रक्त-
मद्यापि देहे मम मांसमस्ति।
तृप्तिं न पश्यामि तथैव तावत्
किं भक्षणात्त्वं विरतो गरुत्मन्! ।। "
"क्षुद्राः संत्रासमेते विजहतहरयः क्षुण्णशक्रेभकुम्भाः
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः।
सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः
किञ्चिद्भूभङ्गलीलानियमितजलधिं राममन्वेषयामि ।। "
आद्ये सत्पात्रमालम्बो द्वितीये दीन उच्यते।
वैरी तृतीये विज्ञेयः तत्र तूद्दीपनाः क्रमात् ।। ४३ ।।
दानस्तुतिर्दीनवाक्यं रणभेरीस्वनादयः।
अनुभावाः क्रमादस्य प्रसादार्थास्त्रसङ्ग्रहाः ।। ४४ ।।
अत्र ज्ञेया यथायोग्यं सात्विकाः पुलकादयः।
सञ्चारिणो गर्वहर्षामर्षधृत्यादयोऽपि च ।। ४५ ।।
भयमेव विभावाद्यैर्भयानकरसो यथा।
"नीलेन ते नीररुहाक्षि गात्रं
चेलेन सञ्छादय चञ्चलाभम्।
इतीरयन्त्यद्रिगुहासु लीनाः
त्वद्वैरिणो वीक्ष्य तमोविघातम् ।। "
आलम्बनविभावाः स्युः शत्रुव्याघ्रोरगादयः ।। ४६ ।।
उद्दीपनविभावाः स्युरत्र तद्गर्जनादयः।
अनुभावास्तु वैवर्ण्यकम्पस्वेदादयो यथा ।। ४७ ।।
त एव सात्त्विका भावास्तत्राष्टौ स्पष्टलक्षणाः।
सञ्चारिणो मोहदैन्यत्राससम्भ्रमणादयः ।। ४८ ।।
जुगुप्सैव विभावाद्यैर्याता बीभत्सतां द्विधा।
जुगुप्स्यदर्शनादेको वैराग्यादपरो यथा ।। ४९ ।।
"वङ्गक्षोणिभुजा पराक्रमयुजा निर्वासिता वैरिणः
सन्दिष्टाः प्रतिचत्वरं प्रतिमठं ये नूत्नकापालिकाः।
पूयार्द्रव्रणसंस्पृशो व्यपनयन्तः सत्वरं मक्षिका
भिक्षाभक्तविकीर्णशाकशकलान्येकत्र सञ्चिन्वते ।। "
"चारशठचोरचेटकविटनटनिष्टीवनशरावम्।
कश्चुम्बति कुलपुत्रो वेश्याधरपल्लवं मधुरमपि ।। "
आलम्बनविभावाः स्युरहृद्या ये जुगुप्सिताः।
उद्दीपनविभावा ये पूतिगन्धादयो मताः ।। ५० ।।
अत्रानुभावा नासास्यकूणनावेगपूर्वकाः।
ऊह्यास्तत्र यथायोग्यं सात्त्विकाः पुलकादयः ।। ५१ ।।
सञ्चारिणो यथायोग्यं निर्वेदोद्वेजनादयः।
विस्मयस्तु विभावाद्यैः पुष्टोऽभूदद्भुतो यथा ।। ५२ ।।
"सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः
नेत्रे द्वे रथिनो रथाङ्गयुगळं युग्यान्तमृग्यो रथी।
मौर्वी मूर्ध्नि रथस्थितो रथवहश्चापः शरव्यं त्रयं
योद्धुः कोशचरं तदेतदखिलं त्राणं रणं पातु नः ।। "
अलौकिकचमत्कारि वस्त्वालम्बनमिष्यते।
उद्दीपनविभावाः स्युः अहोवादादिवर्णनाः ।। ५३ ।।
अनुभावा नेत्रवक्त्रगण्डविस्फुरणादयः।
सात्त्विकाः स्वेदरोमाञ्चप्रमुखाः समुदीरिताः ।। ५४ ।।
हर्षवेगादयो भावाश्चात्र सञ्चारिणो मताः।
शम एव विभावाद्यैः पुष्टः शान्तरसो यथा ।। ५५ ।।
"आशायाः प्रशमय्य वेगमखिलं निर्णीय विश्वं जडं
नीत्वा शान्तपदे शनैस्तत इतो डोलायमानं मनः।
कृत्वा चेतसि केवलं पशुपतेरैश्वर्यमव्याहतं
कोणे कुत्रचिदास्महे वयममी कोलाहलैः किं फलम् ।। "
अत्रालम्बनभावः स्याच्छम्भोस्तच्छाश्वतं पदम्।
उद्दीपनास्तु वेदान्तवेदिसम्भाषणादयः ।। ५६ ।।
अनुभावास्तु कथ्यन्ते समतादर्शनादयः।
सात्विकाः स्तम्भरोमाञ्चप्रमुखाः परिकीर्तिताः ।। ५७ ।।
सञ्चारिणोऽपि निर्वेदमतिधृत्यादयो मताः।
शृङ्गार उत्पलाभः स्याद्विष्णुस्तस्याधिदेवता।५८ ।।
हास्यः सुधीशुभ्रवर्णो हेरम्बोऽस्याधिदेवता।
कषायवर्णः करुणो यमस्तस्याधिदेवता ।। ५९ ।।
रौद्रो जपारक्तवर्णो रुद्रस्तस्याधिदेवता।
धूम्रो भयानकस्तस्य महाकालोऽधिदेवता ।। ६० ।।
बीभत्सो नीलमेघाभो नन्दी तस्याधिदेवता।
अद्भुतः कनकच्छायो ब्रह्मा तस्याधिदेवता ।। ६१ ।।
शान्तः स्फटिकवर्णः स्यात्परब्रह्माधिदेवता।
हास्यः शृङ्गारसंभूतः करुणो रौद्रसंभवः ।। ६२ ।।
वीरादद्भुत उत्पन्नो बीभत्सोत्थो भयानकः।
शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।। ६३ ।।
रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः।
शान्तः सर्वरसोत्कृष्टो न मैत्री न विरोधिता ।। ६४ ।।
रसभावोचितवर्णैः कर्णामृतवाक्यकल्पितैः श्लोकैः।
श्लोकैरपि लाल्यगुणो मानी निर्वेत्तु गण्डमन्मनृप ।। ६५ ।।
इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे रसनिर्णयो नाम तृतीयः परिच्छेदः ।।