← परिच्छेदः ४ अलङ्कारसङ्ग्रहः
परिच्छेदः ५
अमृतानन्दयोगीन्द्र:
परिच्छेदः ६ →

रीतिरात्मात्र काव्यस्य कथ्यते सा चतुर्विधा।
वैदर्भी च तथा गौडी पाञ्चली लाटिकेति च ।। १ ।।

श्लेषः प्रसादः समता माधुर्यं सुकुमारता।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ।। २ ।।

अल्पप्राणाक्षरैः श्लेषः पदैरशिथिलैर्मतः।
पदैः प्रसन्नो यत्रार्थः प्रसादोऽसौ प्रतीयते ।। ३ ।।

प्रकान्तबन्धो यत्र स्यात्समः स्यात्समता मता।
बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ।। ४ ।।

सरसौ यत्र शब्दार्थौ माधुर्यं श्रुतिमोदकृत्।
अनिष्ठुरैः श्रुतिसुखैर्वर्णैः स्यात्सुकुमारता ।। ५ ।।

अर्थव्यक्तिरनेयोऽर्थः साक्षाद्यत्राभिधीयते।
शब्दार्थयोर्गुणोत्कर्षो यत्र सा स्यादुदारता ।। ६ ।।

वाक्ये समासबाहुल्यं हृद्यमोजोऽभिधीयते।
कमनीयो लौकिकोऽपि यत्रार्थः कान्तिरुच्यते ।। ७ ।।

समाधिरन्यधर्माणामध्यासादर्थगौरवम्।
एतैः समग्रा वैदर्भी वर्ण्यते दशभिर्गुणैः ।। ८ ।।

असमस्ता द्वित्रपदसमस्ता वा मनोहरा।
वर्गद्वितीयप्रचुरा स्वल्पघोषाक्षरा यथा ।। ९ ।।

"वैदेहि! पश्यामलयाद्विभक्तां
मत्सेतुना फेनिलमम्बुराशिम्।
छायापथेनेव शरत्प्रसन्न-
माकाशमाविष्कृतचारुतारम् ।। "

समस्तात्युद्भटपदामोजः कान्तिसमन्विताम्।
महाप्राणाक्षरवतीं गौडीमाहुर्बुधा यथा ।। १० ।।

"अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा-
जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना।
पूर्वं गाधिसुतेन सामिघटिता मुक्तानु मन्दाकिनी
यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ।। "

माधुर्यसौकुमार्यौजःकान्तिभिः सहिता गुणैः।
समस्तपञ्चषपदा पाञ्चाली कीर्त्यते यथा ।। ११ ।।

"वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भै-
र्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीध्रुतावाङ्मुखत्वैः।
कस्या नोत्तानगाया दिविसुरसुरभेरास्यदेशं गतग्रै-
र्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म ।। "

समस्तरीतिसम्मिश्रा लटी मृदुसमासिनी।
न युक्तवर्णभूयिष्ठा स्वल्पघोषाक्षरा यथा ।। १२ ।।

"एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर
प्रान्तं हन्त! पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते।
तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
द्दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ।। "

शृङ्गारहास्यकरुणाशान्तामाधुर्यशालिनः।
वीररौद्राद्भुतभयबीभत्सेष्वोज उच्यते ।। १३ ।।

रसेष्वेतेषु सर्वेषु प्रमादाः परिकीर्तिताः।
अन्ये गुणा यथा योग्यं योजनीयाः क्वचित्क्वचित् ।। १४ ।।

अथार्थानामलङ्काराः कथ्यन्ते साम्प्रतं क्रमात्।
स्वभावाख्यानमुपमा रूपकं दीपकावृती ।। १५ ।।

आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना।
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः ।। १६ ।।

प्रेयोरसवदूर्जस्वि पर्यायोक्तं समाहितम्।
उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता ।। १७ ।।

विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने।
सहोक्तिः परिवृत्त्याशीर्वक्रोक्तिरथ सङ्करः ।। १८ ।।

यद्यद्वस्तु यथावस्थं तथा तद्रूपवर्णनम्।
स्वभावोक्तिरिति ख्याता सैव जातिर्मता यथा ।। १९
"अङ्कोपान्तमुपाश्रितो गजमुखो मातुर्भुजालिङ्गितः
स्तन्यास्वादसुखातिरेकतरलस्तद्वक्त्रदत्तेक्षणः।
हस्ताग्रेण पयोधरान्तरमुखं मृन्दन्मुहुर्लीलया
पादाब्जं मणिकिङ्किणीपरिगतं प्रेंखोलयन् पातु वः ।। "

जातिक्रियागुणाद्रव्यभेदैः सापि चतुर्विधा।
यस्य येनास्ति सादृश्यं यस्मात्कस्मात्प्रकारतः ।। २० ।।

उपमा नामा तस्योक्तिरिववद्वादिभिर्यथा।
"उन्मुक्तकञ्चुकतयेयमुदारकान्तिः
शस्त्रीव शम्बररिपोरपनीतकोशा।
रक्तावगुण्टनपटोरचितापिधाना
सन्ध्याम्बुवाहकलितेव शशाङ्करेखा ।। "

बहवस्तत्प्रकाराः स्युस्तेषामन्यत्र विस्तरः।२१ ।।

एकत्वं रूपकं यत्स्यादुपमानोपमेययोः।
रूपकं नाम तच्चापि बहुभेदयुतं यथा ।। २२ ।।

"मन्दस्मितं मधुरमञ्जुमुखं सरोजं
मन्दारदाममहितं ननु बाहुयुग्मम्।
पुण्याहपूर्णकलशौ पृथुलौ स्तनौ ते
पुण्यायितानि हि कटाक्षनिरीक्षणानि ।। "

सुबन्तं वा तिङन्तं वा पदमेकत्र सङ्गतम्।
सर्वोपकारकं स्याच्चेत्तदाहुर्दीपकं यथा ।। २३ ।।

"अक्षं विक्षिपति ध्वजं विभजते मृद्गाति नद्धं गुणं
चक्रे चूर्णयति क्षिणोति तुरगान् रक्षःपतेः पक्षिराट्।
रुन्धे गर्जति तर्जयत्यभिभवत्यालम्बते ताडय-
त्याकर्षत्यपकर्षति प्रचलयत्यञ्चत्युदञ्चत्यपि ।। "

"सञ्चारपूतानि दिगन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुम्।
प्रचक्रमे पल्लवरागताम्रा
प्रभा पतङ्गस्य मुनेश्च धेनुः ।। "

उक्तस्यानेकदोक्तिः स्यादावृत्तिः सा मता यथा।
"विश्वं जित्वा भवानद्य विहरत्यविरोधनैः।
विहरत्यप्सरोभिस्ते रिपुवर्गो दिवं गतः।"
आक्षेपः प्रतिषेधोक्तिः कालधर्मादिनात्मना ।। २४ ।।

आक्षेप्याणामनन्तत्वादाक्षेपोऽपि तथा यथा।
"कस्तूरीतिलकं फाले बाले मा कुरु मा कुरु।
अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ।। "

प्रस्तुतार्थस्य सिद्ध्यर्थं विन्यासोऽर्थान्तरस्य यः ।। २५ ।।

असावर्थान्तरन्यासो भिद्यते बहुधा यथा।
"आतपे धृतिमता सह वध्वा
यामिनीविरहिणा विहगेन।
सेहिरे न किरणा हिमरश्मेः
दुःखिते मनसि सर्वमसह्यम् ।। "

शब्दे प्रातीतिके वापि सादृश्यं यत्र वस्तुनोः ।। २६ ।।

तयोर्यद्भेदकथनं व्यतिरेको मतो यथा।
"अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि।
असावञ्जनसङ्काशस्त्वं तु चामीकरद्युतिः ।। "

"हीना दानगुणेन हेमवलयैस्त्यक्ता गता विभ्रमैः
भूयस्त्वत्परिभूतिसंशयवती मध्येजलं संश्रिता।
किञ्चैतत्कुचकुम्भयुग्मविलसत्क्षौमापिधानोज्झिता
बाले बालमृणालिका कथमियं त्वद्बाहुवल्लीसमा ।। "

स्वकारणं निराकृत्य कारणान्तरकल्पकम् ।। २७ ।।

विभावना स्वभावो वा विभाव्यो यत्र सा यथा।
"असम्भृतं मण्डनमङ्गयष्टे
रनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं साऽथ वयः प्रपेदे ।। "

"अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता
अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि! ।। "

वस्तुकिञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः ।। २८ ।।

उक्तिः सङ्क्षेपरूपत्वात्सा समासोक्तिरिष्यते।
अन्यापदेश इत्यासीन्नामान्यच्चोच्यते यथा ।। २९ ।।

"मुग्धे! यथा कलयसे मृगतृष्णिकाम्भः
तद्विद्धि तामरसनेत्रि! तटाकवारि।
अस्मिन्यथेष्टमवगाह्य सुखं विहृत्य
चिन्तां परां कुरु चिराय विमुञ्च तापम् ।। "

विवक्षितार्थविषये लोकवृत्तातिशायिनी।
उक्तिस्त्वतिशयोक्तिः स्यादनुद्वेगकरी यथा ।। ३० ।।

"यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापगा।
मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ।। "

यथार्थस्यान्यथावलुप्तिरुत्प्रेक्षा साभिधीयते।
मन्ये शङ्के ध्रुवं प्रायो नूनमित्यादिभिर्यथा ।। ३१ ।।

"यदेतस्मिन्निन्दौ जलदलवलीलां प्रकुरुते
तदाचष्टे लोकः शश इति न मां तु प्रति तथा।
?०अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी
कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ।। "

इवशब्दः क्रियायोगे तूत्प्रेक्षाव्यञ्जको यथा।
"अयोध्यापुरनारीणां मुखसौन्दर्यलिप्सया।
सरोजानि सरोमध्ये चरन्तीव चिरं तपः ।। "

कारकं वा ज्ञापकं वा हेतुर्यत्र विशेषणम् ।। ३२ ।।

निर्वर्त्ये वा विकार्ये वा प्राप्ये वा कारकं यथा ।
"अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति लोकस्य प्रीतिं दक्षिणमारुतः ।। "

"एष ते विद्रुमच्छायो मरुमार्ग इवाधरः।
करोति कस्य नो मुग्धे पिपासाव्याकुलं मनः।"
"मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरम् ।। "

"अवध्यैरिन्दुपादानामसाध्यैश्चन्दनाम्भसाम्।
देहोष्मभिस्सुबोधं ते सखि! कामातुरं मनः ।। "

भावाभावादिभेदेन हेतुभेदास्त्वनेकशः ।। ३३ ।।

इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः।
"पथि पथिकवधूभिस्सादरं पृच्छ्यमाना
कुवलयदलनीलः कोऽयमार्ये! तवेति।
स्मितविकसितगण्डं व्रीडविभ्रान्तनेत्रं
मुखमवनमयन्ती स्पष्टमाचष्ट सीता ।। "

वचसा चेष्टयाऽर्थस्य गोपनं वा प्रकाशनम् ।। ३४ ।।

लेशमेके विदुर्निन्दां स्तुतिं वा लेशतो यथा।
"निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः।
मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ।। "

"दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ।। "

उद्दिष्टानां पदार्थानां क्रमेणैवानुदेशिभिः ।। ३५ ।।

सह संयोगकथनं क्रम इत्युच्यते यथा।
"हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु
स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः।
सुखमनुभव राजंस्त्वद्विषो यान्तु नाशं
दिवसकमललज्जाशर्वरीरेणुपङ्कैः ।। "

प्रेयः प्रियतरालापैः प्रेमादिख्यापनं यथा ।। ३६ ।।

"अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः!
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। "

रसानामेव सर्वेषामुत्कर्षे रसवद्यथा।
"मलयपवनमन्दस्पन्दमानारविन्द-
प्रसरदलिविलासि प्रौढिपाटच्चराणाम्।
अधिगतिरहमेवालीकरोषस्पृशां स्या-
मलसवलदपाङ्गालोकितानाममुष्याः ।। "

रसानामिह चान्येषामुत्कर्षस्तूह्यतां बुधैः ।। ३७ ।।

"अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ।। "

अत्यहङ्कारवद्वाक्यमूर्जस्वीत्युच्यते यथा।
"क्षुद्राः सन्त्रासमेनं विजहत हरयो भिन्नशक्रेभकुम्भाः
युष्मद्गात्रेषु लज्जां दधति परममी सायकास्सम्पतन्तः।
सौमित्रे! तिष्ठ पात्रं त्वमपि न हि रुषो नन्वहं मेघनादः
किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि ।। "

इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये ।। ३८ ।।

यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा।
"त्वं मुग्धाक्षि! विनैव कञ्चुलिकया धत्से मनोहारिणीं
शोभामित्यभिधायिनि प्रियतमे तद्वेणिकासंस्पृशि।
शय्योपान्तनिविष्ठसस्मितवधूनेत्रोत्सवानन्दितो
निर्यातश्शनकैरलीकवचनोपन्यासमालीजनः ।। "

किञ्चिदारभमाणस्य कार्यं दैववशात्पुनः ।। ३९ ।।

तत्साधनसमापत्तिः समाहितमिदं यथा।
"मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः।
उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितम् ।। "

तदुदात्तं यन्महत्त्वमाशयैश्वर्ययोर्यथा ।। ४० ।।

"गुरोश्शासनमत्येतुं न शशाक स राघवः।
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ।। "

"रत्नस्तम्भेषु सङ्क्रान्तैः प्रतिबिम्बशतैर्वृतः।
ज्ञातो लङ्केश्वरः कृछ्रादाञ्जनेयेन तत्त्वतः ।। "

सत्यार्थापह्नवादन्यप्ररोहोऽपह्नुतिर्यथा।
"नेंयं निशा दिवस एव भवेत्कथं मे
निद्रान्यथा नयनयोर्युगलं न याति।
नायं शशी तपन एव तनोति ताप-
मुत्पात एव यदिमास्तु विभान्ति ताराः ।। "

एकरूपमनेकार्थं श्लिष्टं बहुविधं यथा ।। ४१ ।।

"प्रौढपयोधरधारा
प्रावृण्मलिनाम्बरा प्रबाष्पधरा।
मानसगराजहंसा
मानवतीवाद्य भाति मदनार्त्ता ।। "

गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम्।
विशेषदर्शनायैव विशेषोक्तिर्मता यथा ।। ४२ ।।

"धनुः पौष्पं मौर्वी मधुकरमयी चञ्चलदृशां
दृशां कोणो बाणः सुहृदपि जडात्मा हिमकरः।
तथाप्येकोऽनङ्गस्त्रिभुवनमपि व्याकुलयति
क्रियासिद्धिस्स्त्वे भवति महतां नोपकरणे ।। "

यत्प्रसिद्धगुणस्साम्यकथनं यस्य कस्यचित्।
स्तुत्या वा निन्दया तुल्ययोगिता सा मता यथा ।। ४३ ।।

"यमः कुबेरो वरुणः सहस्राक्षो भवानपि।
विभ्रत्यनन्यविषयां लोकपाल इति श्रुतम् ।। "

"सङ्गतानि मृगाक्षीणां तटिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ।। "

उक्तैः स्ववाक्यैः यः कश्चिद्विरुद्धार्थः प्रतीयते।
विरोध इति विज्ञेयस्सोऽपि नानाविधो यथा ।। ४४ ।।

"मृणालबाहु रम्भोरु पद्मोत्पलदलेक्षणम्।
अपि ते रूपमस्माकं तन्वि तापाय कल्पते ।। "

अप्रस्तुतस्तुतिः सा स्यादप्रकाण्डेऽपि या स्तुतिः।
सेवादिक्लेशनिर्विण्णमानसेन कृता यथा ।। ४५ ।।

"मन्दिरमरविन्दकुटी बिसमशनं शयनमम्बुजदलानि।
कल्लोला हिन्दोला मरालयूनोस्तपांसि भूयांसि ।। "

यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ मता।
"कीर्तिस्ते दयिता तदीयजठरे लोकत्रयं वर्तते
तस्मात्त्वं जगतां पिता पितृधनं तेनार्थिनां त्वद्धनम्।
त्यागं ते जगदेकमल्लनृपते त्यागं न मन्यामहे
कस्त्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः ।। "

अर्थान्तरमुपन्यस्य किञ्चित्तत्सदृशं यदि ।। ४६ ।।

सदसद्वा निदर्श्येत निदर्शनमिदं यथा।
"अणुमपि परकीयं हन्त! सन्तो नयन्ते
गुणमधिकमनोज्ञं तद्धि तेषां स्वभावः।
सरसिजकुहरान्तः पत्रमात्रप्रभूतं
परिमलमपि वाताः किं न विस्तारयन्ति ।। "

"दुर्जनः परिहर्तव्यो धीमता सख्यवैरयोः।
श्वा भवत्यपकाराय लिहन्नपि दशन्नपि ।। "

सहोक्तिः सह भावानां वस्तूनां कथनं यथा ।। ४७ ।।

दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह।
सह दीर्घा मम श्वासैरिमास्सम्प्रति रात्रयः ।। ४८ ।।

पांण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रभूषणाः।
काम्भोजास्समरे सोढुं तस्य वीर्यमनीश्वराः ।। ४९ ।।

गजालानपरिक्लिष्टैरङ्कोलैः सार्धमानताः।
अर्थानां यो विनिमयः परिवृत्तिस्तु सा यथा ।। ५० ।।

"क्रयविक्रयदक्षस्ते स्वङ्गो भूपाल वैरिणाम्।
हृत्वा भूमण्डलं दत्ते रम्भायाः कुचमण्डलम् ।। "

आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा।
"सव्यार्धजानिः सनकादिवन्द्यः
स्फुरल्ललाटः कमलारिजूटः।
मुदे स देवोऽस्तु मुमुक्षुमृग्यः
श्रीकण्ठनाथः श्रितवत्सलो वः ।। "

रोषात्प्रियवदुक्तिर्या वक्रोक्तिः कथ्यते यथा ।। ५१ ।।

"साधु दूति! पुनः साधु कर्तव्यं किमतः परम्।
यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ।। "

नानालङ्कारसंयोगात्सङ्करः कथ्यते यथा।
"आक्षिपन्त्यरविन्दानि मुग्धे! तव मुखश्रियम्।
कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ।। "

दिङ्मात्रमत्र कथितं सङ्ग्रहत्वान्न विस्तृतिः ।। ५२ ।।

अथ प्रमाणालङ्काराः कथ्यन्ते साम्प्रतं क्रमात्।
प्रत्यक्षमेकं चार्वाकाः काणादास्सौगताः पुनः ।। ५३ ।।

अनुमानं च तच्चाथ साङ्ख्याः शाब्दं च ते अपि।
न्यायैकदेशिनोऽप्येवमुपमानं च केचन ।। ५४ ।।

अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः।
अभावषष्ठान्येतानि भाट्टवेदान्तिनस्तथा ।। ५५ ।।

सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः।
इन्द्रियाणामर्थयोगे यज्ज्ञानमुपजायते ।। ५६ ।।

तत्प्रत्यक्षं समाख्यातं मनसा चेन्द्रियाणि षट्।
प्रत्यक्षं द्विविधं निर्विकल्पकं सविकल्पकम् ।। ५७ ।।

नामादिभिर्विशिष्टार्थविषयं सविकल्पकम्।
अवशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकम् ।। ५८ ।।

इन्द्रियोत्पन्नविज्ञानं प्रत्यक्षालङ्कृतिर्यथा।
"क्रान्तकान्तवदनप्रतिबिम्बे
भग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणुदितालिनिशीथे
निर्ववार मधुनीन्द्रियवर्गः ।। "

निवृत्तिर्मनसो वृत्तिरिन्द्रियैरपनीयते ।। ५९ ।।

हेतुना हेतुमज्ज्ञानमनुमानं तदुच्यते।
दृष्टं सामान्यतो दृष्टमिति चास्य विधाद्वयम् ।। ६० ।।

पूर्वं प्रत्यक्षयोग्यार्थमन्यार्थमितरद्यथा।
"चूर्णबभ्रुललितस्रगाकुलं
छिन्नमेखलमलक्तकाङ्कितम्।
उत्थितस्य शयनं विलासिनः
तस्य विभ्रमरतान्यवेदयत् ।। "

"परिरम्भपरं निजं निरुन्धे
करयोः केवलमेव कर्म कान्तम्।
पुलकैः पुनरुच्यते भवत्याः
पुर एव स्फुटमायताक्षि भावः ।। "

यथार्थदर्शिनः पुंसो यथादृष्टार्थवादिनः ।। ६१ ।।

उपदेशः परार्थो यः आगमः स मतो यथा।
परापकारनिरतैर्दुर्जनैः सह सङ्गतिः ।। ६२ ।।

वदामि तत्त्वं भवतो न विधेया कदाचन।
सादृश्यात्सदृशज्ञानमुपमानमिहोच्यते ।। ६३ ।।

अनुभूतार्थमननुभूतार्थं द्विविधं यथा।
"अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्षीचकार।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ।। "

"तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले।
समूहस्तारकाणां यः शकटाकारमाश्रितः ।। "

दृष्टः श्रुतोपि यो वार्थः स्वस्यैवानुपपत्तितः ।। ६४ ।।

प्रसूतेऽर्थान्तरे बुद्धिं साऽर्थापत्तिर्मता यथा।
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।। ६५ ।।

अन्यथा नोपपद्येत पयोधरभरस्थितिः।
"रुचिधाम्नि भर्तरि भृशं विमलाः
परलोकमभ्युपगते विविशुः।
ज्वलनं त्विषः कथमिवेतरथा
सुलभोन्यजन्मनि स एव पतिः ।। "

अर्थस्याविद्यमानत्वमभाव इति कथ्यते ।। ६६ ।।

प्रागभावोऽथ प्रध्वंसश्चान्योन्याभाव एव च।
अत्यन्ताभाव इत्येवं चतुर्धा भिद्यते यथा ।। ६७ ।।

"अन्यभ्यासेन विद्यानामसंसर्गेण धीमताम्।
अनिग्रहेण चाक्षाणां व्यसनं जायते नृणाम् ।। "

"धृतिरस्तमिता रतिश्च्युता
विरतं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं
परिशून्यं शयनीयमद्य मे ।। ।"
कर्णोत्पलं न चक्षुस्ते न चक्षुः श्रवणोत्पलम्।
इति जानन्नपि मनो मन्यते दीर्घनेत्रताम् ।। ६८ ।।

"सव्यापसव्यत्यजनाद्द्विरुक्तैः
पञ्चेषुबाणैः पृथगार्जितासु।
दशासु शेषा खलु तद्दशाया
तया नभः पुष्यतु कोरकेण ।। "

आढकं सम्भवेद्द्रोणे सहस्रेपि शतं यथा।
आहुरेवं विधं ज्ञानं सम्भवं मुनयो यथा ।। ६९ ।।

"ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यते मम तु कोऽपि समानधर्मा
कालोह्ययं निरवधिर्विपुला च पृथ्वी ।। "

प्रवादपारम्पर्यं यदनिर्दिष्टप्रवक्तृकम्।
ऐतिह्यमिति विज्ञेयं प्रमाणं पण्डितैर्यथा ।। ७० ।।

"यासि भीरु ननु तत्र निशीथे
ध्वान्तरुद्धदशदिक्प्रविभागे।
वर्त्मनीह वटभूरुहि यक्ष-
स्तिष्ठतीति न जना विचरन्ति ।। "

नानाविधालङ्कृतिहृद्यवर्णां कन्यामिवैतां कवितां वृणीष्व।
अस्यां यशः सन्ततिवृद्धिरस्तु विवेकविद्याधर मन्मभूप ।। ७१ ।।

इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे अलङ्कारनिर्णयो नाम पञ्चमः
परिच्छेदः ।।