अवग्रहस्य उच्चारणं कथं कर्तव्यम् ?

अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


संस्कृते इदं चिह्नं बहुत्र उपयुज्यते - ‘ऽ’ । अस्य च ‘अवग्रह:’ इति नाम अपि प्रसिद्धम् । अस्य उच्चारणं प्रति लोके बहूनां भ्रान्ति: वर्तते । तन्निरासाय अत्र प्रयत्न: क्रियते ॥

उपयोगस्थलानि

सम्पाद्यताम्

प्रथमत: अस्य चिह्नस्य कुत्र उपयोग: भवतीति चिन्तयाम: ।

हरेऽत्र, गुरोऽत्र ‘हरे अत्र’, ‘गुरो अत्र’ इति पदच्छेद: । अत्र पूर्वरूपं नाम सन्धि: जात: । पदयो: मध्ये ‘एअ’ ‘ओअ’ इति वर्णयो: सन्धौ अकार: निर्गच्छतीति अत्र सन्धे: प्रतीयमानं फलम् । निर्गतस्य च अकारस्य स्थाने इदम् ‘ऽ’ इति चिह्नम् उपयुज्यते । अस्य चिह्नस्य लेखने प्रयोजनं तु पदच्छेदे अकार: निवेशनीय: इति ज्ञापनम् एव । एवम् - तथाऽपि ‘तथा अपि’ इति पदच्छेद: । अत्र सवर्णदीर्घो नाम सन्धि: जात: । ‘आअ’ इत्यनयो: वर्णयो: स्थाने ‘आ’ इति तयो: सदृश: दीर्घ: वर्ण: आगत: । अस्मिन् स्थले ‘अपि’ इत्यत्र विद्यमान: अकारो निर्गत: इत्येव प्रतीयमानं फलम् । तेन अत्रापि पूर्ववत् अवग्रहचिह्नम् उपयुज्यते । भूयश्च - तथाऽऽत्मा ‘तथा आत्मा’ इति पदच्छेद: । अत्र आकारस्य आकारेण सवर्णदीर्घो जात: । एक: आकारो निर्गत: इति फलत्वेन प्रतीयते । तस्य सूचनाय द्वे अवग्रहचिह्ने दीयेते । अनयो: प्रयोजनं तु पदच्छेदे आकार: निवेशनीय: इति ज्ञापनम् एव । क्वचित् - एवाऽऽत्मा इत्यपि लिख्यते । ‘एव आत्मा’ इति पदच्छेद: । अत्र अकारस्य आकारेण सवर्णदीर्घो जात: । अत्र यद्यपि ‘एव’ इत्यत्र विद्यमान: अकारो निर्गत इत्येव फलत्वेन प्रतीयते, तथाऽपि पदच्छेदे उत्तरपदादौ दीर्घो वर्तते इति सूचनाय ‘तथाऽऽत्मा’ इत्यत्र यथा तथा द्वे अवग्रहचिह्ने दीयेते ।

एवं च यत्र पूर्वरूपं सवर्णदीर्घो वा सन्धि: भवति, तद्वशाच्च अकार: आकारो वा निर्गच्छतीति प्रतीयते, तेषु स्थलेषु पदच्छेदे क्रियमाणे अकार: वा निवेशनीय: इति सूचनाय अवग्रहचिह्नम् उपयुज्यते इति सिद्धम् ॥

अवग्रहस्य उच्चारणम्

सम्पाद्यताम्

एवं च पदच्छेदे उपकारं जनयितुम् एव अवग्रहो लिख्यते इत्युक्ते सति अवग्रहस्य उच्चारणं कथं कर्तव्यम् इति आदौ उत्थापितस्य प्रश्नस्य उत्तरं स्पष्टमेव । तस्य उच्चारणं नैव कर्तव्यम् ! केषाञ्चन भ्रान्ति: वर्तते यत् अवग्रहे अकारलेशस्य उच्चारणं कर्तव्यम् इति । तत् न साधु । यत: व्याकरणानुसारं पूर्वोक्तेषु सर्वेषु स्थलेषु यत्र अकार: (आकारो वा) निर्गत: तत्रैव अव-ग्रहो लिख्यते । निर्गतश्च अकार: उच्चार्यते च इति विरुद्धं खलु ? तस्मात् पूर्णतया वा लेशतो वा सर्वथा अवग्रहे अकारस्य (अन्यस्य वा वर्णस्य) उच्चारणं नैव कर्तव्यम् ॥

विनाऽपि लेखनं सम्भवति

सम्पाद्यताम्

अत्र इदं प्रसङ्गाद् उच्यते । यस्मात् पूर्वोक्तरीत्या अवग्रहस्य उच्चारणं नैव अस्ति, तस्मात् अवग्रहस्य लेखनमपि ऐच्छिकमेव । तन्नाम, यदि पूर्वोक्तेषु स्थलेषु अवग्रहं विना लेखनं क्रियते, तथाऽपि अत्र कोऽपि भाषादोषो नास्ति । यथा - हरेत्र, गुरोत्र, तथापि, तथात्मा, एवात्मा

अवग्रह: पदच्छेदे एव उपकारं जनयति । स च पदच्छेद: भाषाज्ञानेनैव बहुत्र कर्तुं शक्यते । तत: अवग्रहं विना लेखने भाषादोषो नैव वर्तते । अत्रायं सन्देह: । अवग्रहं विना लेखने भाषादोष: क्वचिद् भवति खलु । यथा - राजा धर्मं चरति, राजाऽधर्मं चरति इत्यत्र राजा अधर्मं चरतीति विवक्षिते अवग्रहस्य उपयोगाभावे विपरीतस्य अर्थस्य बोधेन दोषो भवति खलु ? अत्रोच्यते । नायम् अवग्रहस्य तदभावस्य वा अपराध: । अत्र विपरीतार्थज्ञानं यद् जातं, तस्य कारणं पदच्छेदसूचनाय पदयो: मध्ये कृतम् अवकाश- दानमेव । राजा अधर्मं चरतीति विवक्षिते येन लेखकेन ‘राजा धर्मम्’ इति लिखितं तस्यैव अयं दोष: । ईदृशं हि अवकाशदानं पदयो: मध्ये एव अनुमतम् । अत्र च ‘राजा अधर्मम्‘ इत्यनयो: सन्धौ जाते ‘राजाधर्मम्’ इति वर्णानुपूर्व्यां जकाराद् उत्तर: य: आकार: स: उभयो: पूर्वोत्तर-पदयो: अवयव: व्याकरणानुसारम् । एवं सति कथं वा तत्र अवकाशो दीयते ? ‘राजाधर्मम्’ इति अवकाशरहिते लेखने एव दोषो नास्तीति अस्माभि: उक्तं, न पुन: ‘राजा धर्मम्’ इति लेखने ।

एवं च अवग्रहेण विना लेखनं नैव भाषादोषाय भवति । अवग्रहस्य उपयोगेन लिखितं सुखेन पठितुं शक्यते, पदच्छेदश्च सुकरो भवति इत्यत: तदभावे लेखनशैलीदोष एव कदाचित् उद्भाव्येत । न तु भाषादोष: अत्र ब्रह्मणाऽपि उद्भावयितुं शक्यते । अवग्रहचिह्नं हि लेखनतन्त्रान्तर्गतं, न भाषागतम् ।

वस्तुत: बहुषु प्राचीनेषु तालपत्रेषु पुस्तकेषु वा अवग्रहचिह्नं न लिख्यते । अवग्रहप्रसङ्गे वा अन्यत्र वापि शब्दानां मध्ये अवकाशप्रदानं न भवति । तेन एवं लेखनं क्रियते -

अच्छेद्योयमदाह्योयमक्लेद्योशोष्यएवच । नित्य:सर्वगत:स्थाणुरचलोयंसनातन: ॥
अव्यक्तोयमचिन्त्योयमविकार्योयमुच्यते । तस्मादेवंविदित्वैनांनानुशोचितीमर्हसि ॥

अथचैनंनित्यजातंनित्यंवामन्यसेमृतम् । तथापि .... इत्यादि । एवं लेखने कारणं तु पूर्वस्मिन् काले लेखनोचितानां तालपत्रादीनां दौर्लभ्यं वा स्यात्, अथवा पश्चादपि महाभारतादीनाम् अतिदीर्घाणां ग्रन्थानां मुद्रणे अत्यधिकानां पत्राणाम् अपेक्षितत्वात् व्यय: अधिको भवेदिति स्यात् । एतादृशस्थले प्रायेण भाषाज्ञानेनैव पद-च्छेदज्ञानं भवति, क्वचित् पुन: व्याख्यानस्यापि अपेक्षा भवति ॥

’अवग्रह’पदस्य किं मूलम् ?

सम्पाद्यताम्

‘ऽ’ इत्यस्य चिह्नस्य ‘अवग्रह’चिह्नम् इति निर्देश: सर्वै: अपि क्रियते विद्वद्भि: अपि । तदा प्रश्न: उदेति एव यत् अस्य प्रयोगस्य किं स्यात् मूलम् इति । अवग्रह इति पदस्य प्राचीन: प्रयोग: वैदिकव्याकरणे वर्तते । तत्र अयं शब्द: समासपूर्वपदस्य नामत्वेन उपयुक्त: । वैदिकवाङ्मये क्वचित् समासप्रदर्शने पूर्वोत्तरपदविवेकाय इदं ‘ऽ’ इति चिह्नं मध्ये लिख्यते । यथा - ‘विश्वऽरूप:’ इति । तेन एव कारणेन अस्य चिह्नस्य ‘अवग्रह’चिह्नम् इति नाम स्यादिति भाव्यते ।


एवं च अवग्रहस्य उच्चारणं नैव कर्तव्यम् । तस्य लेखनमपि ऐच्छिकम् । अवग्रहप्रसङ्गे तल्लेखनाभावे पदयो: मध्ये अवकाशदानं तु नैव कर्तव्यम् । इत्थम् असंशयं विदाङ्कुर्वन्तु संस्कृतज्ञा महाजना: !

'सम्भाषणसन्देशः' - नवम्बर्२००९
लेखकः – विद्वान् श्रीरमणशर्मा