अशोकावदानम्
[[लेखकः :|]]

अशोकावदानं
पांशुप्रदानावदानं

योऽसौ स्वमांसतनुभिर्यजनानि कृत्वा- तप्यच्चिरं करुणया जगतो हिताय ।
तस्य श्रमस्य सफलीकरणाय सन्तः सावर्जितं शृणुत सांप्रतभाष्यमाणम् ॥

एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति । इति सूत्रं वक्तव्यम् । अत्र तावद्भगवत्तथागतवदनाम्भोधरविवरप्रत्युद्गतवचनसरत्सलिलधारासम्पातापनीतरागद्वेषमोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायादितर्कशास्त्रार्थावलोकनोत्पन्नप्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्धकाराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपानशौण्डानां गुरूणां संनिघौ सर्वाववादकश्रेष्ठं शक्रब्रह्मेशानयमवरूणकुवेरवा[व]सवसोमादित्यादिभिरप्यप्रतिहतशासनं कन्दर्पदर्पापमर्दनशूरं महात्मानमतिमहर्द्धिकं स्थविरोपगुप्तमारभ्य काञ्चिदेव विबुधजनमनः प्रसादकारीं धर्म्यां कथां समनुस्मरिष्यामः । तत्र तावद्गुरुभिरवहितश्रोत्रैर्भवितव्यम् ।

(आव्२)
एवमनुश्रूयते । यदा भगवान् परिनिर्वाणकालसमयेऽपलालनागं विनीय कुम्भकारीं चण्डालीं गोपालीं च तेषां मथुरामनुप्राप्तः । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । अस्यामानन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति । तस्य पुत्रो भविष्यति उपगुप्तनामालक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्य करिष्यति । तस्याववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति । तेऽष्टादशहस्तामायामेनं द्वादशहस्तां विस्तारेण चतुरङ्गुलमात्राभिः शलाकाभिर्गुहां पूरयिष्यन्ति । एषोऽग्रो मे आनन्द श्रावकाणां भविष्यति अववादकानां यदुत उपगुप्तो भिक्षुः ।

पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम् । एवं भदन्त । एष आनन्द उरूमुण्डो नाम पर्वतः । अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर्भविष्यति । सोऽत्र उरूमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति । उपगुप्तं च प्रव्राजयिष्यति ।

मथुरायामानन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिनौ भविष्यतः । तौ उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यतः । तस्य नटभटिकेति (आव्३) संज्ञा भविष्यति । एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदिदं नटभटिकारण्यायतनम् ।

अथायुष्मान आनन्दो भगवन्तमिदमवोचत् । आश्चर्य भदन्त यदीदृशमायुष्मानुपगुप्तो बहुजनहितं करिष्यति । भगवानाह । नानन्द एतर्हि, यथातितेऽप्यध्वनि तेन विनिपतितशरीरेणाप्यत्रैव बहुजनहितं कृतम् ।

उरूमुण्डपर्वते त्रयः पार्श्वाः । एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशातानि प्रतिवसन्ति । द्वितीये पञ्चर्षिशतानि । तृतीये पञ्चमर्कटशतानि । तत्र योऽसौ पञ्चानां मर्कटशतानां यूथपतिः स तं यूथमपहाय यत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्र गतः । तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः । स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूलफलानि चोपनामयति, यदा च ते पर्यङ्केणोपविष्टा भवन्ति स वृद्धान्ते कृत्वा यावन्नवान्तं गत्वा पर्यङ्केणोपविशति ।

यावत्ते प्रत्येकबुद्धाः परिनिर्वृताः । स तेषां शीर्णपर्णानि मूलफलानि चोपनामयति । ते न प्रतिगृण्हन्ति । स तेषां चीवरकर्णिकानि आकर्षयति । पादौ गृण्हाति । यावत्स मर्कटश्चिन्तयति । नियतमेते कालगता भविष्यन्ति । ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्चर्षिशतानि प्रतिवसन्ति ।

(आव्४)
ते च ऋषयः केचित्कण्टकापाश्रयाः केचिद्भस्मापाश्रयाः केचिदूर्ध्वहस्ताः केचित्पञ्चातपावस्थिताः । स तेषां तेषामीर्यापथान् विकोपयितुमारब्धः । ये कण्टकापाश्रयास्तेषां कण्टकानुद्धरति । भस्मापाश्रयाणां भस्म विधुनोति । ऊर्ध्वहस्तानामधो हस्तं पातयति । पञ्चातपावस्थितानामग्निमवकिरति । यदा च तैरीर्यापथो विकोपितो भवति तदा स तेषामग्रतः पर्यङ्कं बध्नाति ।

यावत्तैरृषिभिराचार्याय निवेदितम् । तेनापि चोक्तम् । पर्यङ्केण तावन्निषीदत । यावत्तानि पञ्चर्षिशतानि पर्यङ्केणोपविष्टानि । तेऽनाचार्यका अनुपदेशकाः सप्तत्रिंशद्बोधिपक्षान् धर्मानामुखीकृत्य प्रत्येकां बोधिं साक्षात्कृतवन्तः ।

अथ तेषां प्रत्येकबुद्धानामेतदभवद् । यत्किञ्चदस्माभिः श्रेयोऽवाप्तं तत्सर्वमिमं मर्कटमागम्य । तैर्यावत्स मर्कटः फलमूलैः परिपालितः । कालगतस्य च तच्छरीरं गन्धकाष्ठैर्ध्मापितम् ।

तत्किं मन्यसे आनन्द योऽसौ पञ्चानां मर्कटशतानां यूथपतिः स एष उपगुप्तः । तदापि तेन विनिपतितशरीरेणाप्यत्रैवोरुमुण्डपर्वते बहुजनहितं कृतम् । अनागतेऽप्यध्वनि वर्षशतपरिनिर्वृतस्य ममात्रैवोरुमुण्डपर्वते बहुजनहितं करिष्यति । तच्च यथैवं तथोपदर्शयिष्यामः ।

(आव्५)
शाणकवास्युपाख्यानं

यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः, समन्वाहरति । किमसौ गन्धिक उत्पन्नः । अथाद्यापि नोत्पद्यत इति । पश्यत्युत्पन्नः । स यावत्समन्वाहरति । योऽसौ तस्य पुत्र उपगुप्तो नाम्नालक्षणको बुद्धो निर्दिष्टो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति, किमसावुत्पन्नः । अद्यापि नोत्पद्यत इति । पश्यत्यद्यापि नोत्पद्यते ।

तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासनेऽभिप्रसादितः । स यदाभिप्रसन्नस्तदा स्थविरः संबहुलैर्भिक्षुभिः सार्धमेकदिवसं तस्य गृहं प्रविष्टः अपरस्मिन्नहनि, आत्मद्वितीयः । अन्यस्मिन्नहनि, एकाकी । यावद्गुप्तो गान्धिकः स्थविरं शाणकवासिनमेकाकिनं दृष्ट्वा कथयति । न खल्वार्यस्य कश्चित्पश्चाच्छ्रमणम् । स्थविर उवाच । जराधर्माणां कुतोऽस्माकं पश्चाच्छ्रमणो भवति । यदि केचिच्छ्रद्धापुरोगेण (आव्६) प्रव्रजन्ति, तेऽस्माकं पश्चाच्छ्रमणा भवन्ति । गुप्तो गान्धिक उवाच । आर्याहं तावद्गृहवासे परिगृद्धो विषयाभिरतश्च । न मया शक्यं प्रव्रजितुम् । अपि तु योऽस्माकं पुत्रो भवति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः । स्थविर उवाच । वत्स एवमस्तु । अपि तु दृढप्रतिज्ञां स्मरेथास्त्वमिति ।

यावद्गुप्तस्य गान्धिकस्य पुत्रो जातः । तस्याश्वगुप्त इति नामधेय कृतम् ।

स यदा महान् संवृत्तस्तदा स्थविरशाणकवासी गुप्तं गान्धिकमधिगम्योवाच । वत्स त्वया प्रतिज्ञातं योऽस्माकं पुत्रो भविष्यति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः । अयं च पुत्रो जातः । अनुजानीहि प्रव्राजयिष्यामीति । गान्धिक उवाच । आर्य अयमस्माकमेकपुत्रः । मर्षयान्यो योऽस्माकं द्वितीयः पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः ।

यावत्स्थविरशाणकवासी समन्वाहरति । किमयं स उपगुप्तः । पश्यति नेति । तेन स्थविरेणाभिहित एवमस्त्विति । तस्य यावद्द्वितीयः पुत्रो जातः । तस्य धनगुप्त इति नाम कृतम् । सोपि यदा महान् संवृत्तस्तदा स्थविरशाणकवासी गुप्तं गान्धिकमुवाच । वत्स त्वया प्रतिज्ञातं योऽस्माकं पुत्रो भविष्यति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः । अयं च ते पुत्रो जातः । अनुजानीहि प्रव्राजयिष्यामीति । गान्धिक उवाच । आर्य मर्षय एकोऽस्माकं बहिर्धा द्रव्यं संचयिष्यति, द्वितीयोऽन्तर्गृहे परिपालनं करिष्यतीति । अपि तु योऽस्माकं तृतीयः पुत्रो भविष्यति स आर्यस्य दत्तः ।

(आव्७)
यावत्स्थविरशाणकवासी समन्वाहरति । किमयं स उपगुप्तः । पश्यति नेति । ततः स्थविर उवाच । एवमस्त्विति । यावद्गुप्तस्य गान्धिकस्य तृतीयः पुत्रो जातः । अभिरूपो दर्शनीयः प्रासादिकोऽतिक्रान्तो मानुषवर्णमसंप्राप्तश्च दिव्यवर्णम् । तस्य विस्तरेण जातौ जातिमहं कृत्वा उपगुप्त इति नाम कृतम् । सोऽपि यदा महान् संवृत्तो यावत्स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच । वत्स त्वया प्रतिज्ञातं योऽस्माकं तृतीयः पुत्रो भविष्यति तं वयमार्यस्य दास्यामः पश्चाच्छ्रमणार्थे । अयं ते तृतीयः पुत्र उत्पन्नः । अनुजानीहि प्रव्राजयिष्यामीति । गुप्तो गान्धिक उवाच । आर्य समयतः । यदालाभोऽनुच्छेदो भविष्यतीति तदानुज्ञास्यामि ।

यदा तेन समयः कृतस्तदा मारेण सर्वावती मथुरा गन्धाविष्टा । ते (मथुरावासिनः) सर्वे उपगुप्तसकाशाद्गन्धान् क्रीणन्ति । स प्रभूतान् ददाति ।

यावत्स्थविरशाणकवासी उपगुप्तसकाशं गतः । उपगुप्तश्च गन्धापणे स्थितः । स धर्मेण व्यवहारं करोति । गन्धान् विक्रीणीते । स स्थविरेण शाणकवासिनाभिहितः । वत्स कीदृशास्ते चित्तचैतसिकाः प्रवर्तन्ते । क्लिष्टा वाक्लिष्टा वेति । उपगुप्त उवाच । आर्य नैव जानामि कीदृशाः क्लिष्टाश्चित्तचैतसिकाः कीदृशा अक्लिष्टा इति । स्थविरशाणकवासी उवाच । वत्स (आव्८) यदि केवलं चित्तं परिज्ञातुं शक्यसि प्रतिपक्षं मोचयितुम् । तेन तस्य कृष्णिकपट्टिका दत्ता पाण्डुरिका च । यदि क्लिष्टं चित्तमुत्पद्यते कृष्णिकां पट्टिकां स्थापय । अथाक्लिष्टं चित्तमुत्पद्यते पाण्डुरां पट्टिकां स्थापय । अशुभां मनसि कुरु । बुद्धानुस्मृतिं च भावयस्वेति । तेनास्य व्यपदिष्टम् ।

तस्य यावदारब्धा अक्लिष्टाश्चित्तचैतसिकाः प्रवर्तितुम् । स द्वौ भागौ कृष्णिकानां स्थापयति । एकं पाण्डुरिकाणाम् । यावदर्धं कृष्णिकानां स्थापयति । अर्धं पण्डुरिकाणाम् । यावद्द्वौ भागौ पाण्डुरिकाणां स्थापयति । एकं कृष्णिकानाम् ।

यावदनुपूर्वेण सर्वाण्येव शुक्लानि चित्तान्युत्पद्यन्ते । स पाण्डुरिकाणामेव पट्टिकां स्थापयति । धर्मेण व्यवहारं करोति ।

मथुरायां वासवदत्ता नाम गणिका । तस्या दासी उपगुप्तसकाशं गत्वा गन्धान् क्रीणाति । सा वासवदत्तया चोच्यते । दारिकेमुष्यते स गान्धिकस्त्वया, बहून् गन्धानानयसीति । दारिकोवाच । आर्यदुहित उपगुप्तो गान्धिकदारको रूपसम्पन्नश्चातुर्यमाधुर्यसम्पन्नश्च (आव्९) धर्मेण व्यवहारं करोति । श्रुत्वा च वासवदत्ताया उपगुप्तसकाशे सानुरागं चित्तमुत्पन्नम् । तया यावद्दासी उपगुप्तसकाशं प्रेषिता । त्वत्सकाशमागमिष्यामि । इच्छामि त्वया सार्धं रतिमनुभवितुम् । यावद्दास्या उपगुप्तस्य निवेदितम् । उपगुप्त उवाच । अकालस्ते भगिनि मद्दर्शनायेति ।

वासवदत्ता पञ्चभिः पुराणशतैः परिचार्यते । तस्य बुद्धिरुत्पन्ना । नियतं पञ्चपुराणशतानि नोत्सहते दातुम् । तया यावद्दासी उपगुप्तसकाशं प्रेषिता । न ममार्यपुत्रसकाशात्कार्षापणेनापि प्रयोजनम् । केवलमार्यपुत्रेण सह रतिमनुभवेयम् । दास्य तथा निवेदितम् । उपगुप्त उवाच । अकालस्ते भगिनि मद्दर्शनायेति ।

यावदन्यतरः श्रेष्ठिपुत्रो वासवदत्तायाः सकाशं प्रविष्टः । अन्यतरश्च सार्थवाह उत्तरापथात्पञ्चशतमश्वपण्यं गृहीत्वा मथुरामनुप्राप्तः । तेनाभिहितम् । कतरा वेश्या सर्वप्रधाना, तेन श्रुतं वासवदत्तेति । स पञ्चपुराणशतानि गृहीत्वा बहून् च प्राभृतान् वासवदत्तायाः सकाशमभिगतः ।

ततो वासवदत्तया लोभाकृष्टया तं श्रेष्ठिपुत्रं प्रघातयित्वावस्करे प्रक्षिप्य सार्थवाहेन सह रतिरनुभूता । यावत्स श्रेष्ठिपुत्रो (आव्१०) बन्धुभिरवस्करादुद्धृत्य राज्ञो निवेदितः । ततो राज्ञाभिहितम् । गच्छन्तु भवन्तो वासवदत्तां हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरयन्तु ।

यावत्तैर्वासवदत्ता हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरिता । यावदुपगुप्तेन श्रुतं वासवदता हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरिता । तस्य बुद्धिरुत्पन्ना । पूर्वं तया मम विषयनिमित्तं दर्शनमाकाङ्क्षितम् । इदानिं तु तस्या हस्तपादौ कर्णनासे च विकर्तितौ । इदानीं तु तस्य दर्शनकाल इति । आह च ।

यदा प्रशस्ताम्बरसंवृताङ्गी अभूद्विचित्राभरणैर्विभूषिता ।
मोक्षार्थिनां जन्मपराङ्मुखाणां श्रेयस्तदास्यास्तु न दर्शनं स्यात् ॥
इदानीं तु कालोऽयं द्रष्टुं गतमानरागहर्षायाः ।
निशितासिविक्षतायाः स्वभावनियतस्य रूपस्य ॥

यावदेकेन दारकेण उपस्थायकेन छत्रमादाय प्रशान्तेनेर्यापथेन श्मशानमनुप्राप्तः । तस्याश्च प्रेषिका पूर्वगुणानुरागात्समीपेऽवस्थिता काकादीन्निवारयति । तया च वासवदत्ताया निवेदितम् । (आव्११) आर्युदुहितर्यस्य त्वयाहं सकाशं पुनः पुनरनुप्रेषिता अयं स उपगुप्तोऽभ्यागतः । नियतमेष कामरागार्त आगतो भविष्यति । श्रुत्वा च वासवदत्ता कथयति ।

प्रनष्टशोभां दुःखार्ता भूमौ रुधिरपिञ्जराम् ।
मां दृष्ट्वा कथमेतस्य कामरागो भविष्यति ॥

ततः प्रेषिकामुवाच । यौ हस्तपादौ कर्णानासे च मच्छरीराद्विकर्तितौ तौ श्लेषयेति । तया यावच्छ्लेषयित्वा पट्टकेन प्रच्छादिता । उपगुप्तश्चागत्य वासवदत्ताया अग्रतः स्थितः ।

ततो वासवदत्ता उपगुप्तमग्रतः स्थितं दृष्ट्वा कथयति । आर्यपुत्र, यदा मच्छशरीरं स्वस्थभूतं विषयरत्यनुकूलं तदा मया आर्यपुत्रस्य पुनः पुनर्दूती विसर्जिता । आर्यपुत्रेणाभिहितम् । आकालस्ते भगिनि मम दर्शनायेति । इदानीं मम हस्तपादौ कर्णनासे च विकर्तितौ । स्वरुधिरकर्दम एवावस्थिता । इदानीं किमागतोऽसि । आह च ।

इदं यदा पङ्कजगर्भकोमलं महार्हवस्त्राभरणैर्विभूषितम् ।
बभूव गात्रं मम दर्शनक्षमं तदा न दृष्टोऽसि मयाल्पभाग्यया ॥
एतर्हि किं द्राष्टुमिहागतोऽसि मे यदा शरीरं मम दर्शनाक्षमम् ।
निवृत्तलीलारतिहर्षविस्मयं भयावहं शोणितपङ्कलेपनम् ॥

उपगुप्त उवाच ।

नाहं भगिनि कामार्तः संनिधावागतस्तव ।
कामानामशुभानां तु स्वभावं द्रष्टुमागतः ॥
प्रच्छादिता वस्त्रविभूषणाद्यैर्वाह्यैर्विचित्रैर्मदनानुकूलैः ।
निरीक्ष्यमाणापि हि यत्नवभ्दिर्नाप्यत्र दृष्टासि भवेद्यथा च ॥
(आव्१२)
इदं तु रूपं तव दृष्यमेतत्स्थितं स्वभावे रचनाद्वियुक्तम् ।
तेऽपण्डितास्ते च विगर्हणीया ये प्राकृतेऽस्मिन् कृणपे रमन्ते ॥
त्वचावनद्धे रुधिरावसक्ते चर्मावृते मांसघनावलिप्ते ।
शिरासहस्रैश्च वृते समन्तात्को नाम रज्येत कुतः शरीरे ॥

अपि च भगिनि ।

बहिर्भद्राणि रूपाणि दृष्ट्वा बालोऽभिरज्यते ।
अभ्यन्तरविदुष्टानि ज्ञात्वा धीरो विरज्यते ॥
अवकृष्टावकृष्टस्य कुणपस्य ह्यमेध्यता ।
मेध्याः कामोपसंहाराः कामिनः शुभसंज्ञिनः ॥

इह हि ।

दौर्गन्ध्यं प्रतिवार्यते बहुविधैर्गन्धैरमेध्याकरैः
वैकृत्यं बहिराध्रियेत विविधैर्वस्त्रादिभिर्भूषणैः ।
स्वेदक्लेदमलादयोऽप्यशुचयस्तान्निर्हरत्यम्भसा
येनामेध्यकरङ्कमेतदशुभं कामात्मभिः सेव्यते ॥
संबुद्धस्य तु ते वचः सुवचसः शृण्वन्ति कुर्वन्त्यपि
ते कामान् श्रमशोकदुःखजननान् सभ्दिः सदा गर्हितान् ।
त्यक्त्वा कामनिमित्तमुक्तमनसः शान्ते वने निर्गताः
पारं यान्ति भवार्णवस्य महतः संश्रित्य मार्गप्लवम् ॥

(आव्१३)
श्रुत्वा वासवदत्ता संसारादुद्विग्ना बुद्धगुणानुस्मरणाच्चावर्जितहृदयोवाच ।

एवमेतत्तथा सर्वं यथा वदति पण्डितः ।
मे त्वां साधु समसाद्य बुद्धस्य वचनं श्रुतम् ॥

यावदुपगुप्तेन वासवदत्ताया अनुपूर्विकां कथां कृत्वा सत्यानि संप्रकाशितानि । उपगुप्तश्च वासवदत्तायाः शरीरस्वभावमवगम्य कामधातुवैराग्यं गतः । तेन आत्मियया धर्मदेशनया सह सत्याभिसमयादनागामिफलं वासवदत्तया च श्रोतापत्तिफलं प्राप्तम् । ततो वासवदत्ता दृष्टसत्या उपगुप्तं संरागयन्ती उवाच ।

तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः ॥

(आव्१४)
अपि च । एषाहं तं भगवन्तं तथगतमर्हन्तं सम्यक्संबुद्धं शरणं गच्छामि । धर्मं च भिक्षुसङ्घं चेत्याह ।

एष व्रजामि शरणां विबुद्धनवकमलविमलधवलनेत्रम् ।
तममरबुधजनसहितं जिनं विरागं सङ्घं चेति ॥

यावदुपगुप्तो वासवदत्तां धर्म्यया कथया संदर्श्य प्रक्रान्तः । अचिरप्रक्रान्ते चोपगुप्ते वासवदत्ता कालगता देवेषूपपन्ना । दैवतैश्च मथुरायामारोचितम् । वासवदत्तया उपगुप्तसकाशाद्धर्मदेशनां श्रुत्वा आर्यसत्यानि दृष्टानि । सा कालगता देवेषूपपन्नेति । श्रुत्वा च मथुरावास्तव्येन जनकायेन वासवदत्तायाः शरिरे पूजा कृता ।

यावत्स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच । अनुजानीहि उपगुप्तं प्रव्राजयिष्यामीति । गुप्तो गान्धिक उवाच । आर्य एष समयः । यदा न लाभो न छेदो भविष्यति तदानुज्ञास्यामीति ।

यावत्स्थविरशाणकवासिना ऋद्ध्या तथाधिष्ठितं यथा न लाभो न छेदः । ततो गुप्तो गान्धिको गणयति तुलयति मापयति । पश्यति न लाभो न छेदः ।

ततः स्थविरशणकवासी गुप्तं गान्धिकमुवाच । अयं हि भगवता बुद्धेन निर्दिष्टः, मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति । अनुजानीहि प्रव्राजयिष्यामीति ।

यावद्गुप्तेन गान्धेकेन अभ्यनुज्ञातः । ततः स्थविरेण शाणकवासिना (आव्१५) उपगुप्तो नटभटिकारण्यायतनं नीतम् । उपसंपादितश्च ज्ञप्तिचतुर्थं च कर्म व्यवसितम् । उपगुप्तेन च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम् ।

ततः स्थविरेण शाणकवासिनाभिहितम् । वत्स उपगुप्त त्वं भगवता निर्दिष्टो वर्षशतपरिनिर्वृतस्य मम उपगुप्तो नाम भिक्षुर्भविष्यति, अलक्षणक्तो बुद्धः । यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति । एषोऽग्रो मे आनन्द श्रावकाणामववादकानां यदुतोपगुप्तो भिक्षुः । इदानीं वत्स शासनहितं कुरुष्वेति । उपगुप्त उवाच । एवमस्त्विति ।

ततः स धर्मश्रवणेऽधीष्टः । मथुरायां च शब्दो विसृतः । उपगुप्तो नामालक्षणको बुद्धोऽद्य धर्मं देशयिष्यतीति । श्रुत्वा चानेकानि प्राणिशतसहस्राणि निर्गतानि ।

यावत्स्थविरोपगुप्तः समापद्यावलोकयति । कथं तथागतस्य परिषन्निषण्णाः । पश्यति चार्धचन्द्रिकाकारेण पर्षदवस्थिता । यवदवलोकयति कथं तथागतेन धर्मदेशना कृता । पश्यति पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशना कृता । सोऽपि पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनां कर्तुमारब्धः ।

मारेण च तस्यां पर्षदि मुक्ताहारवर्षमुत्सृष्टम् । वैनेयानां मनांसि व्याकुलीकृतानि । एकेनापि सत्यदर्शनं न कृतम् ।

(आव्१६)
यावत्स्थविरोपगुप्तो व्यवलोकयति । केनायं व्याक्षेपः कृतः । पश्यति मारेण ।

यावद्द्वितीये दिवसे बहुतरको जनकायो निर्गतः । उपगुप्तो धर्मं देशयति । मुक्ताहारं च वर्षोपवर्षितमिति । यावद्द्वितीयेऽपि दिवसे स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनायामारब्धायां मारेण चास्य पर्षदि सुवर्णवर्षमुत्सृष्टम् । वैनेयानां मनांसि संक्षोभोतानि । एकेनापि सत्यदर्शनं न कृतम् ।

यावत्स्थविरोपगुप्तो व्यवलोकयति, केनायं व्याक्षेपः कृतः । पश्यति मारेण पापीयसेति ।

यावत्तृतीये दिवसे बहुतरको जनकायो निर्गतः । उपगुप्तो धर्मं देशयति । मुक्तावर्षं सुवर्णवर्षं च पततीति । यावत्तृतीयेऽपि दिवसे स्थविरोपगुप्तः पूर्वकालकरणीयां कथां कृत्वा सत्यानि आरब्धः संप्रकाशयितुम् । मारेण च नातीदूरे नाटकमारब्धम् । दिव्यानि च वाद्यानि संप्रवादितानि । दिव्याश्चाप्सरसो नाटयितुं प्रवृत्ताः । यावद्वीतरागो जनकायो दिव्यानि रूपाणि दृष्ट्वा दिव्यांश्च शब्दान् श्रुत्वा मारेणाकृष्टः ।

अतो मारेणोपगुप्तस्य पर्षदाकृष्टा । प्रीतमनसा मारेण (आव्१७) स्थविरोपगुप्तस्य शिरसि माला बद्धा । यावत्स्थविरोपगुप्तः समन्वाहरितुमारब्धः । कोऽयम् । पश्यति मारः । तस्य बुद्धिरुत्पन्ना । अयं मारो भगवच्छासने महान्तं व्याक्षेपं करोति । किमर्थमयं भगवता न विनीतः । पश्यति ममायं विनेयः । तस्य च विनयात्सत्त्वानुग्रहादहं भगवता अलक्षणको बुद्धो निर्दिष्टः ।

यावत्स्थविरोपगुप्तः समन्वाहरति । किमस्य विनेयकाल उपस्थित आहोस्विन्नेति । पश्यति विनेयकाल उपस्थितः । ततः स्थविरोपगुप्तेन त्रयः कुणपा गृहीताः । अहिकुणपं कुर्कुस्कुणपं मनुष्यकुणपं च । ऋद्ध्या च पुष्पमालामभिनिर्माय मारसकाशमभिगतः । दृष्ट्वा च मारस्य प्रीतिरुत्पन्ना । उपगुप्तोऽपि मयाकृष्ट इति ।

ततो मारेण स्वशरीरमुपनामितम् । स्थविरोपगुप्तः स्वयमेव बध्नाति । ततः स्थविरेणोपगुप्तेन अहिकुणपं मारस्य शिरसि बद्धम् । कुर्कुरकुणपं ग्रीवायां कर्णावसक्तं मनुष्यकुणपं च । ततः समालभ्योवाच ।

भिक्षुजनप्रतिकूला माला बद्धा यथैव मे भवता ।
कामिजनप्रतिकूलं तव कुणपमिदं मया बद्धम् ॥

(आव्१८)
यत्ते बलं भवति तत्प्रतिदर्शयस्व बुद्धात्मजेन हि सहाद्य समागतोऽसि । उग्दृत्तमप्यनिलभिन्नतरङ्गवक्त्रं व्यावर्तते मलयकुक्षिषु सागराम्भः ॥

अथ मारस्तं कुणपमपनेतुमारब्धः । परमपि च स्वयमनुप्रविश्य पिपीलिक इव अद्रिराजमपनेतुं न शशाक । सामर्षो वैहायसमुत्पत्य उवाच ।

यदि मोक्तुं न शक्यामि कण्ठात्स्वकुणपं स्वयम् ।
अन्ये देवा हि मोक्ष्यन्ते मतोऽभ्यधिकतेजसः ॥

स्थविर उवाच ।

ब्रह्माणं वज्र शरणं शतक्रतुं वा दीप्तं वा प्रविश हुताशमर्णवं वा ।
न क्लेदं न च परिशोषणं न भेदं कण्ठस्थं कुणपमिदं तु यास्यतीह ॥

स महेन्द्ररुद्रोपेन्द्रद्रविणेश्वरयमवरुणकुवेरवसवादीनां देवानामभिगम्य अकृतार्थ एव ब्रह्माणमभिगतः ।

तेन चोक्तम् ।

(आव्१९)
मर्षय वत्स ।

शिष्येण दशबलस्य स्वयमृद्ध्या कृतान्तमर्यादा ।
कस्तां भेत्तुं शक्तो वेलां वरुणालयस्येव ॥
अपि पद्मनालसूत्रैर्बद्धवा हिमवन्तमुद्धरेत्क्वचित् ।
न तु तव कण्ठासक्तं श्वकुणपमिदमुद्धरेयमहम् ॥
कामं ममापि महदस्ति बलं तथापि नाहं तथागतसुतस्य बलेन तुल्यः ।
तेजस्विनां न खलु न ज्वलनेऽस्ति किन्तु नासौ द्युतिर्हुतवहे रविमण्डलेया ॥

मारोऽब्रवीत् । किमिदानीमाज्ञापयसि । कं शरणं व्रजामीति ।

ब्रह्माब्रवीत् ।

शीघ्रं तमेव शरणं व्रज यं समेत्य भ्रष्टस्त्वमृद्धिविभवाद्यशसः सुखाच्च ।
भ्रष्टो हि यः क्षितितले भवतीह जन्तुरुत्तिष्ठति क्षितिमसाववलम्ब्य भूयः ॥

अथ मारस्तथागतशिष्यसामर्थ्यमुपलभ्य चिन्तयामास ।

ब्रह्मणा पुज्यते यस्य शिष्याणामपि शासनम् ।
तस्य बुद्धस्य सामर्थ्यं प्रमातुं को नु शक्नुयात् ॥
कर्तुकामोऽभविष्यत्कां शिष्टिं क्षमो न सुव्रतः ।
यां नऽकरिष्यत्क्षान्त्यां तु तेनाहमनुरक्षितः ॥

किं बहुना ।

अद्यावैमि मुनेर्महाकरुणतां तस्यातिमैत्रात्मनः
सर्वोपद्रवविप्रमुक्तमनसश्चामीकराद्रिद्युतिः ।
(आव्२०)
मोहान्धेन हि तत्र तत्र स मया तैस्तैर्नयैः खेदितः
तेनाहं च तथापि नाम बलिना नैवाप्रियं श्रावितः ॥

अथ कामधात्वधिपतिर्मारो नास्त्यन्या गतिरन्यत्र उपगुप्तकादेवेति ज्ञात्वा सर्वमुत्सृज्य स्थविरोपगुप्तसमीपमुपेत्य पादयोर्निपत्योवाच । भदन्त किमविदितमेतद्भदन्तस्य यथा बोधिमूलमुपादाय मया भगवतो विप्रियशतानि कृतानि । कुतः ।

शालायां ब्राह्मणग्रामे मामासाद्य स गौतमः ।
भक्तच्छेदमपि प्राप्य नाकार्षीन्मम विप्रियम् ॥
गौर्भूत्वा सर्पवत्स्थित्वा कृत्वा शाकटिकाकृतिम् ।
स मयायासितो नाथो न चाहं तेन हिंसितः ॥
(आव्२१)
त्वया पुनरहं वीर त्यक्त्वा हि सहजां दयाम् ।
सदेवासुरमध्येषु लोकेष्वद्य विडम्बितः ॥

स्थविरोऽब्रवीत् । पापीयान् कथमपरीक्ष्यैव तथगतमाहात्म्येषु श्रावकमुपसंहरसि ।

किं सर्षपेण समतां नयसीह मेरुं
खद्योतकेन रविमञ्जलिना समुद्रम् ।
अन्या हि सा दशबलस्य कृपा प्रजासु
न श्रावकस्य हि महाकरुणास्ति सौम्य ॥
अपि च ।

यदर्थं हि भगवता सापराधोऽपि मर्षितः ।
इदं तत्कारणं साक्षादस्माभिरुपलक्षितम् ॥

मार उवाच ।

ब्रूहि ब्रूहि श्रीमतस्तस्य भावं सङ्गं छेत्तुं क्षान्तिगुप्तव्रतस्य ।
यौऽसौ मोहान्नित्यमायसितो मे तेनाहं च प्रेक्षितो मैत्रचित्तैः ॥

(आव्२२)
स्थविर उवाच । शृणु सौम्य त्वं हि भगवत्यसकृदसकृदवस्खलितः । न च बुद्धावरोपितानामकुशलानां धर्माणामन्यत्प्रक्षालनमन्यत्र तथागतप्रसादादेव ।

तदेतत्कारणं तेन पश्यता दीर्घदर्शिना ।
त्वं नाप्रियमिह प्रोक्तः प्रियाण्येव तु लम्भितः ॥
न्यायेनानेन भक्तिस्तव हृदि जनिता तेनाग्रमतिना
स्वल्पापि ह्यत्र भक्तिर्भवति मतिमतां निर्वाणफलदा ।
संक्षेपाद्यत्कृतं ते वृजिनमिह मुनेर्मोहान्धमनसा
सर्वं प्रक्षालितं तत्तवहृदयगतैः श्रद्धाम्बुविसरैः ॥

अथ मारः कदम्बपुष्पवदाहृष्टरोमकूपः सर्वाङ्गेण प्रणिपत्योवाच ।

स्थाने मया बहुविधं परिखेदितोऽसौ
प्राक्सिद्धितश्च भुवि सिद्धिमनोरथेन ।
सर्वं च मर्षितमृषिप्रवरेण तेन
पुत्रापराध इव सानुनयेन पित्रा ॥

(आव्२३)
स बुद्धप्रसादाप्ययितमनाः सुचिरं बुद्धगुणाननुस्मृत्य स्थविरस्य पादयोर्निपत्योवाच ।

अनुग्रहो मेऽद्य परः कृतस्त्वया निवेशितं यन्मयि बुद्धगौरवम् ।
इदं तु कण्ठव्यवलम्बि मैत्र्या महर्षिकोपाभरणं विसर्जय ॥

स्थविर उवाच । समयतो विमोक्ष्यामीति । मार उवाच । कः समय इति । स्थविर उवाच । अद्यप्रभृति भिक्षवो न विहेठयितव्या इति । मारोऽब्रवीत् । न विहेठयिष्ये । किमपरमाज्ञापयसीति । स्थविर उवाच । एवं तावच्छासनकार्यं प्रति ममाज्ञा । स्वकार्यं प्रति विज्ञापयिष्यामि भवन्तम् । मारः ससम्भ्रम उवाच । प्रसीद स्थविर किमाज्ञापयसीति । स्थविरोऽब्रवीत् । स्वयमवगच्छसि यदहं वर्षशतपरिनिर्वृते भगवति प्रव्रजितः । तद्

धर्मकायो मया तस्य दृष्टस्त्रैलोक्यनाथस्य ।
काञ्चनाद्रिनिभस्तस्य न दृष्टो रूपकायो मे ॥
तदनुपममनुग्रहं प्रति त्वमिह विदर्शय बुद्धविग्रहम् ।
प्रियमधिकमतो हि नास्ति मे दशबलरूपकुतूहलो ह्यहम् ॥

मार उवाच । तेन हि ममापि समयः श्रूयताम् ।

सहसा त्वमिहोद्विक्ष्य बुद्धनेपथ्यधारिणम् ।
न प्रणामस्त्वया कार्यः सर्वज्ञगुणगौरवात् ॥

(आव्२४)
बुद्धानुस्मृतिपेशलेन मनसा पूजां यदि त्व मयि
स्वल्पामप्युपदर्शयिष्यसि विभो दग्धो भविष्याम्यहम् ।
का शक्तिर्मम वीतरागविहितां सोढुं प्रणामक्रियां
हस्तन्यासमिवोद्वहन्ति न गजस्यैरण्डवृक्षाङ्कुराः ॥

स्थविरोप्याह । एवमस्तु । न भवन्तं प्रणमिष्यामीति । मारोऽब्रवीत् । तेन मुहूर्तमागमस्व यावदहं वनगहनमनुप्रविश्य

शूरं वञ्चयितुं पुरा व्यवसितेनोत्तप्तहेमप्रभं
बौद्धं रूपमचिन्त्यबुद्धविभवादासीन्मया यत्कृतम् ।
कृत्वा रूपमहं तदेव नयनप्रल्हादिकं देहिनां
एष्याम्यर्कमयूखजालममलं भामण्डलेनाक्षिपन् ॥

अथ स्थविर एवमस्तु इत्युक्त्वा तं कुणपमपनीय तथागतरूपदर्शनोत्सुकोऽवस्थितः । मारश्च वनगहनमनुप्रविश्य बुद्धरूपं कृत्वा नट इव सरुचिरनेपथ्यस्तस्माद्वनगहनादारब्धोनिष्क्रमितुम् । वक्ष्यते हि ।

ताथागतं वपुरथोत्तमलक्षणाढ्यमादर्शयन्नयनशान्तिकरं नराणाम् ।
प्रत्यग्ररङ्गमिव चित्रपटं महार्हमुद्घातयन् वनमसौ तदलंचकार ॥

अथ व्यामप्रभामण्डलमण्डितमसेचनकदर्शनं भगवतो रूपमभिनिर्माय दक्षिणे पार्श्वे स्थविरशारद्वतीपुत्रं वामपार्श्वे स्थविरमहामौद्गल्यायनं पृष्ठश्चायुष्मन्तमानन्दं बुद्धपात्रव्यग्रहस्तं स्थविरमहाकाश्यपानिरुद्धसुभूतिप्रभृतीनां (आव्२५) च महाश्रावकाणां रूपाण्यभिनिर्माय अर्धत्रयोदशभिर्भिक्षुशतैरर्धचन्द्रेणानुपरिवृतं बुद्धवेशमादर्शयित्वा मारः स्थविरोपगुप्तस्यान्तिकमाजगाम । स्थविरोपगुप्तस्य च भगवतो रूपमिदमिदृशमिति प्रामोद्यमुत्पन्नम् ।

स प्रमुदितमनास्त्वरितमासनादुत्थाय निरीक्षमाण उवाच ।

धिगस्तु तां निष्करुणामनित्यतां भिनत्ति रूपाणि यदीदृशान्यपि ।
शरीरमीदृक्किल तन्महामुनेरनित्यतां प्राप्य विनाशमागतम् ॥

स बुद्धावलम्बितया स्मृत्या तथाप्यासक्तमनाः संवृत्तो यथा बुद्धं भगवन्तमहं पश्यामीति व्यक्तमुपागतः । स पद्ममुकुलप्रतिममञ्जलिं कृत्वोवाच । अहो रूपशोभाः भगवतः । किं बहुना ।

वक्त्रेणाभिभवत्ययं हि कमलं नीलोत्पलं चक्षुषा
कान्त्या पुष्पवनं मन प्रियतया चन्द्रं समाप्तद्युतिम् ।
गाम्भीर्येण महोदधिं स्थिरतया मेरुं रविं तेजसा
गत्या सिंहमवेक्षितेन वृषभं वर्णेन चामीकरम् ॥
स भूयसा मात्रया हर्षेणापूर्यमाणहृदयो व्यापिना स्वरेणोवाच ।

अहो भवविशुद्धानां कर्मणां मधुरं फलम् ।
कर्मणेदं कृतं रूपं नैश्वर्येण यदुच्छया ॥
(आव्२६)
यत्तत्कल्पसहस्रकोटिनियुतैर्वाक्कायचित्तोभ्दवं
दानक्षान्तिसमाधिबुद्धिनियमैस्तेनार्हता शोधितम् ।
तेनेदं जननेत्रकान्तममलं रूपं समुत्थापितं
यं दृष्ट्वा रिपुरप्यभिप्रमुदितः स्यात्किं पुनर्मद्विधः ॥

संबुद्धालम्बनैः संज्ञां विस्मृत्य बुद्धसंज्ञामधिष्ठाय मूलनिकृत्त इव द्रूमः सर्वशरीरेण मारस्य पादयोर्निपतितः । अथ मारः ससम्भ्रमोऽब्रवीत् । एवं त्वं भदन्त नार्हसि समयं व्यतिक्रमितुम् । स्थविर उवाच । कः समय इति । मार उवाच । ननु प्रतिज्ञातं भदन्तेन नाहं भवन्तं प्रणमिष्यामीति ।

ततः स्थविर उपगुप्तः पृथिवीतलादुत्थाय सगद्गदकण्ठोऽब्रवीत । पापीयान् ।

न खलु न विदितं मे यत्स वादिप्रधानो
जलविहत इवाग्नि र्निर्वृतिं संप्रयातः ।
अपि तु नयनकान्तिमाकृतिं तस्य दृष्ट्वा
तमृषिमभिनतोऽहं त्वां तु नाभ्यर्चयामि ॥

मार उवाच । कथमिहाहं नार्चितो भवामि यदेवं मा प्रणमसीति ।

स्थविरोऽब्रवीत् । श्रूयतां यथा त्वं नैव मयाभ्यर्चितो भवसि न च मया समयातिक्रमः कृत इति ।

(आव्२७)
मृन्मयीषु प्रतिकृतिष्वमराणां यथा जनः ।
मृत्संज्ञा[न्ता]मनादृत्य नमत्यमरसंज्ञया ॥
तथाहं त्वामिहोद्वीक्ष्य लोकनाथवपुर्धरम् ।
मारसंज्ञामनादृत्य नतः सुगतसंज्ञया ॥

अथ मारो बुद्धवेशमन्तर्धापयित्वा स्थविरोपगुप्तमभ्यर्च्य प्रक्रान्तः । यावच्चतुर्थे दिवसे मारः स्वयमेव मथुरायां घण्टावघोषित्तुमारब्धः । यो युष्माकं स्वर्गापवर्गसुखं प्रार्थयते स स्थविरोपगुप्तसकाशाद्धर्मं शृणोतु । यैश्च युष्माभिस्तथागतो न दृष्टस्ते स्थविरोपगुप्तं पश्यन्त्विति । आह च ।

उत्सृज्य दारिद्रमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह ।
स्वर्गापवर्गाय च यस्य वाञ्छा स श्रद्धया धर्ममतः शृणोतु ॥
दृष्टो न यैर्वा द्विपदप्रधानः शास्ता महाकारुणिकाः स्वयम्भूः ।
ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्तु भास्वत्त्रिभवप्रदीपम् ॥

यावन्मथुरायां शब्दो विसृतः स्थविरोपगुप्तेन मारो विनीत इति । श्रुत्वा च यभ्दूयसा मथुरावास्तव्यो जनकायः स्थविरोपगुप्तसकाशं निर्गतः । ततः स्थविरोपगुप्तोऽनेकेषु ब्राह्मणशतसहस्रेषु संनिपतितेषु सिंह इव निर्भीः सिंहासनमभिरूढो वक्ष्यति च ।

मां प्रति न तेन शक्यं सिंहासनमविदुषा समभिरोढुम् ।
यस्[तु] सिंहासनस्थो मृग इव स हि याति सङ्कोचम् ॥
(आव्२८)
सिंह इव यस्तु निर्भीर्निनदति परवादिदर्पनाशार्थम् ।
सिंहासनमभिरोढुं स कथिकसिंहो भवति योग्यः ॥

यावत्स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यानि संप्रकाशितानि । श्रुत्वा चानेकैः प्राणिशतसहस्रैर्मोक्षभागीयानि कुशलमूलान्याक्षिप्तानि । कैश्चिदनागामिफलं प्राप्तम् । कैश्चित्सकृदागामिफलम् । कैश्चिच्छ्रोतापत्तिफलम् । यावदष्टादशसहस्राणि प्रव्रजितानि । सर्वैश्च युज्यमानैर्यावदर्हत्त्वं प्राप्तम् ।

तत्र चोरुमुण्डपर्वते गुहाष्टादशहस्ता दीर्घेण द्वादशहस्ता विस्तरेण । यदा तु कृतकरणीयाः । संवृत्तास्तदा स्थविरोपगुप्तेनाभिहितम् । यो मदीयेनववादेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति तेन चतुरङ्गुलमात्रा शलाका गुहायां प्रक्षेप्तव्या ।

यावदेकस्मिन् दिवसेष्टादशभिरर्हत्सहस्रैः शलाकाः प्रक्षिप्ताः । तस्य यावदासमुद्रायां शब्दो विसृतः । मथुरायमुपगुप्तनामा अववादकानामग्रो निर्दिष्टो भगवता । तद्यथा हि ।

विनीतकामधात्वीश्वरे द्वितीयशास्तृकल्पे महात्मनि स्थविरोपगुप्ते सुरमनुजमहोरगासुरगरुडयक्षगन्धर्वविद्याधरार्चितपादयुग्मे [सति] पूर्वबुद्धाक्षेत्रावरोपितकुशलबीजसन्ततीनामनेकेषां सत्त्वशतसहस्राणां सद्धर्मसलिलवर्षधारानिपातामोक्षाङ्कुरानभ्यवर्धयन्नुरुमुण्डे शैले ।

कार्यानुरोधात्प्रणतसकलसामन्तचूडामणिमयूखोभ्दासितपादपीठस्याशोकस्य राज्ञः पूर्वं पांशुप्रदानं समनुस्मरिष्यामः । इत्येवमनुश्रूयते ।

(आव्२९)
पांशुप्रदानं नाम प्रकरणं

भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत् । वक्ष्यति च ।

कनकाचलसन्निभाग्रदेहो द्विरदेन्दप्रतिमः सलीलगामी ।
परिपूर्णशशाङ्कसौम्यवक्त्रौ भगवान् भिक्षुगणैर्वृतो जगाम ॥

यावद्भगवता साभिसंस्कारं नगरद्वारे पादं प्रतिष्ठापितम् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः साभिसंस्कारं नगरद्वारमिन्द्रकीले पादौ व्यवस्थापयन्ति । तदा चित्राणि अद्भूतानि प्रादुर्भवन्ति । अन्धाश्चक्षूंषि प्रतिलभन्ते । बधिराः श्रोत्रग्रहणसमर्था भवन्ति । पङ्गवो गमनसमर्था भवन्ति । हडिनिगडचारकावबद्धानां सत्त्वानां बन्धनानि शिथिलीभवन्ति । जन्मजन्मवैरानुबद्धाः सत्त्वास्तदनन्तरं मैत्रचित्ततां लभन्ते । वत्सा दामानि छित्त्वा मातृभिः सार्धं समागच्छन्ति । हस्तिनः क्रोशन्ति । अश्वा ह्रेषन्ते । ऋषभा गर्जन्ति । शुकशारिककोकिलजीवजीवबर्हिणो मधुरान्निकूजन्ति । पेडागतालङ्कारा मधुरशब्दं निश्चारयन्ति । अपराहतानि च वादित्रभाण्डानि मधुरं शब्दं निश्चारयन्ति । उन्नतोन्नता पृथिवीप्रदेशा अवनमन्ति । अवनताश्चोन्नमन्ति । अपगतपाषाणशर्करकपालाश्चावतिष्ठन्ते ।

इयं च तस्मिन् समये पृथिवी षड्विकारं प्रकम्प्यते । तद्यथा पूर्वो दिग्भाग उन्नमति । पश्चिमोऽवनमति । अन्तोऽवनमति । मध्य (आव्३०) उन्नमति । चलितः प्रचलितो वेधितः प्रवेधित इतीमे चान्ये चाद्भुतधर्माः प्रादुर्भवन्ति । भगवतो नगरप्रवेशे वक्ष्यति ।

लवणजलनिवासिनी ततो वा नगरनिगममण्डिता सशैला ।
मुनिचरणनिपीडिता च भूमी पवनबलहतं हि यानपात्रम् ॥

अथ बुद्धप्रवेशकालनियतैः प्रातिहार्यैरावर्जिताः स्त्रीमनुष्यास्, तन्नगरमनिबलचलितभिन्नविचितरङ्गक्षुभितमिव महासमुद्रं विमुक्तोच्चनादं बभूव । न हि बुद्धप्रवेशतुल्यं नाम जगत्यद्भुतमुपलभ्यते । पुरप्रवेशसमये हि भगवतश्चित्राण्यद्भूतानि दृश्यन्ते । वक्ष्यति हि ।

निम्ना चोन्नमते नतावनमते बुद्धानुभावान्मही
स्थूणा शर्करकण्टकव्यपगता निर्दोषतां याति च ।
अन्धा मूकजडेन्द्रियाश्च पुरुषा व्यक्तेन्द्रियास्तत्क्षणं
संवाद्यन्त्यनिघट्टिताश्च नगरे नन्दन्ति तूर्यस्वनाः ॥
सर्वं च तन्नगरं सूर्यसहस्रातिरेकया कनकमरीचिवर्णया बुद्धप्रभया स्फुटं बभूव । आह च ।

सूर्यप्रभां समवभर्त्स्य हि तस्य भाभिर्व्याप्तं जगत्सकलमेव सकाननस्थम् ।
(आव्३१)
संप्राप च प्रवरधर्मकथाभिरामो लोकं सुरासुरनरं हि समुक्तभावम् ॥

यावद्भगवान् राजमार्गं प्रतिपन्नः । तत्र द्वौ बालदारकौ । एकोऽग्रकुलिकपुत्रो द्वितीयः कुलिकपुत्रश्च । पांश्वागारैः क्रीडतः । एकस्य जयो नाम द्वितीयस्य विजयः । ताभ्यां भगवान् दृष्टो द्वात्रिंशमहापुरुषलक्षणालङ्कृतशरीरोऽसेचनकदर्शनश्च ।

यावज्जयेन दारकेण शक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः । विजयेन च कृताञ्जलिनाभ्यनुमोदितम् । वक्ष्यति च ।

दृष्ट्वा महाकारुणिकं स्वयम्भुवं व्यामप्रभोद्द्योतितसर्वगात्रम् ।
धीरेण वक्त्रेण कृतप्रसादः पांशुं ददौ जातिजरान्तकाय ॥

स भगवते प्रतिपादयित्वा प्रणिधानं कर्तुमारब्धः । अनेनाहं कुशलमूलेन एकच्छत्रायां पृथिव्यां राजा स्याम् । अत्रैव च बुद्धे भगवति कारां कुर्यामिति ।

ततो मुनिस्तस्य निशाम्य भावं बालस्य सम्यक्प्रणिधिं च बुद्ध्वा ।
इष्टं फलं क्षेत्रवशेन दृष्ट्वा जग्राह पांशुं करुणायमानः ॥

(आव्३२)
तेन यावद्राज्यवैपाक्यं कुशलमाक्षिप्तम् । ततो भगवता स्मितं विदर्शितम् ।

धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं विदर्शयन्ति ।

तस्मिन् समये नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णा अर्चिषो मुखान्निश्चरन्ति । केचिदूर्ध्वतो गच्छन्ति केचिदधस्ताद्गच्छन्ति । येऽधो गच्छन्ति ते सञ्जीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिपर्यन्तेषु गत्वा ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति । ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति ।

तेन तेषां सत्त्वानां कारणविशेषाः प्रतिप्रस्रभ्यन्ते । तेषामेवं भवति । किं नु भवन्तो वयमितश्च्युता आहोस्विदन्यत्रोपपन्ना इति । येनास्माकं कारणविशेषाः प्रतिप्रस्रब्धाः । तेषां भगवान् प्रसादसंजननार्थं निर्मितं विसर्जयति । तेषामेवं भवति । न वयं च्युता नाप्यन्यत्रोपपन्नाः । अपि तु अयमपूर्वदर्शनोऽस्यानुभावेनास्माकं कारणविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तानि प्रसादयित्वा नरकवेदनीयानि कर्माणि क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति । यत्र सत्यानां भाजनभूता भवन्ति । ये ऊर्ध्वतो गच्छन्ति ते चतुर्महाराजिकान् देवांस्त्रयस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मान् परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तेषु देवेषु गत्वा अनित्यं दुःखं शून्यमनात्मेति उद्घोषयन्ति । गाथाद्वयं च भाषन्ते ।

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः ॥
(आव्३३)
यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥

अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेवानुगच्छन्ति । यदि भगवानतीतं कर्म व्याकर्तुकामो भवति पृष्ठतोऽन्तर्धीयन्तेऽनागतं व्याकर्तुकामो भवति पुरतोऽन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति पादतलेऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति पादांगुष्ठेऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो[र]न्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतलेऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतलेऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामन्तर्धीयन्ते । अनुत्तरां स्मयक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽन्तर्धीयन्ते ।

अथ ता अर्चिषो भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो वामे करतलेऽन्तर्हिताः ।

अथायुष्मानानन्दः कृताञ्जलिपुटो गाथां भाषते । नाहेत्वप्रत्ययः ।
गतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरं स्मितं विदर्शेन्ति जिना जितारयः ॥
तत्कालं स्वयमधिगम्य वीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र कांक्षितानाम् ।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः ॥
मेघस्तनितनिर्घोष गोवृषेन्द्रनिभेक्षण ।
फलं पांशुप्रदानस्य व्याकुरुष्व नरोत्तम ॥

(आव्३४)
भगवानाह । एतदानन्द एवमेतदानन्द नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति । अपि तु सहेतु सप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति ।

पश्यसि त्वमानन्द दारकं येन तथागतस्य पात्रे पांश्वञ्जलिः प्रक्षिप्तः । एवं भदन्त । अयमानन्द दारकः अनेन कुशलमूलेन वर्षशतपरिनिर्वृतस्य तथागतस्य पाटलिपुत्रे नगरेऽशोको नाम्ना राजा भविष्यति । चतुर्भागचक्रवर्ती धार्मिको धर्मराजा । यो मे शरीरधातून् वैस्तारिकान् करिष्यति । चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति । बहुजनहिताय प्रतिपत्स्यते । इति । आह च ।

अस्तंगते मयि भविष्यति सैकराजा योऽसौ ह्यशोक इति नाम विशालकीर्तिः ।
मद्धातुगर्भपरिमण्डितजम्बुषण्डमेतत्करिष्यति नरामरपूजितं नु ॥

अयमस्य देयधर्मो यत्तथागतस्य पांश्वञ्जलिः पात्रे प्रक्षिप्तः ।

यावद्भगवता तेषां सर्व आयुष्मत आनन्दाय दत्ताः । गोमयेन मिश्रयित्वा यत्र चंक्रमे तथागतश्चंक्रम्यते तत्र गोमयकार्षी प्रयच्छेति । यावदायुष्मतानन्देन तेषां सगोमयेन मिश्रयित्वा यत्र चंक्रमति भगवान् तत्र गोमयकार्षी दत्ता ।

तेन खलु पुनः समयेन राजगृहे नगरे बिम्बिसारो राजा राज्यं कारयति । राज्ञो बिम्बिसारस्य अजातशत्रुः पुत्रः । अजातशत्रोरुदायी । (आव्३५) उदायिभद्रस्य मुण्डः । मुण्डस्य काकवर्णी । काकवर्णिनः सहली । सहलिनस्तुलकुचिः । तुलकुचेर्महामण्डलः । महामण्डलस्य प्रसेनजित् । प्रसेनजितो नन्दः । नन्दस्य बिन्दुसारः । पाटलिपुत्रे नगरे बिन्दुसारो नाम राजा राज्यं कारयति । बिन्दुसारस्य राज्ञः पुत्रो जातः । तस्य सुसीम इति नामधेयं कृतम् ।

तेन च समयेन चम्पायां नगर्यामन्यतमो ब्राह्मणः । तस्य दुहिता जाता । अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी । सा नैमित्तिकैर्व्याकृता । अस्या दारिकाया राजा भर्ता भविष्यति । द्वे पुत्ररत्ने जनयिष्यति । एकश्चतुर्भागचक्रवर्ती भविष्यति । द्वितीयः प्रव्रजित्वा सिद्धव्रतो भविष्यति । श्रुत्वा च ब्राह्मणस्य रोमहर्षो जातः । सम्पत्तिकामो लोकः ।

स तां दुहितरं ग्रहाय पाटलिपुत्रं गतः । तेन सा सर्वालङ्कारैर्विभूषयित्वा राज्ञो बिन्दुसारस्य भार्यार्थमनुप्रदत्ता । इयं हि देवकन्याधन्या प्रशस्ता चेति ।

यावद्राज्ञा बिन्दुसारेणान्तःपुरं प्रवेशिता । अन्तःपुरिकाणां बुद्धिरुत्पन्ना । इयमभिरूपा प्रासादिका जनपदकल्याणी । यदि राजानया सार्धं परिचारयिष्यति अस्माकं भूयश्चक्षुःसंप्रेषणमपि न करिष्यति । (आव्३६) ताभिः सा नापितकर्म शिक्षापिता । सा राज्ञः केशश्मश्रु प्रसाधयति । यावत्सुशिक्षिता संवृत्ता । यदारभते राज्ञः केशश्मश्रु प्रसाधयितुं तदा राजा शेते । यावद्राज्ञा प्रीतेन वरेण प्रवारिता । किं त्वं वरमिच्छसीति । तयाभिहितम् । देवेन मे सह समागमः स्यात् । राजाह । त्वं नापिनी अहं राजा क्षत्रियो मूर्धाभिषिक्तः । कथं मया सार्धं समागमो भविष्यति । सा कथयति । देव नाहं नापिनी । अपि ब्राह्मणस्याहं दुहिता । तेन देवस्य पत्न्यर्थं दत्ता । राजा कथयति । केन त्वं नापितकर्म शिक्षापिता । सा कथयति । अन्तःपुरिकाभिः । राजाह । न भूयस्त्वया नापितकर्म कर्तव्यम् ।

यावद्राजाग्रमहिषी स्थापिता । तया सार्धं क्रीडति रमते परिचारयति । सा अपन्नसत्त्वा संवृत्ता । यावदष्टानां नवानां मासानामत्ययात्प्रसूता । तस्याः पुत्रो जातः ।

तस्य विस्तरेण जातिमहं कृत्वा [पृच्छति] किं कुमारस्यभवतु नाम । सा कथयति । अस्य दारकस्य जातस्य अशोकास्मि संवृत्ता । तस्याशोक इति नाम कृतम् ।

यावद्द्वितीयः पुत्रो जातः । विगते शोके जातस्तस्य वीतशोक इति नाम कृतम् ।

अशोको दुःस्पर्शगात्रः । राज्ञो बिन्दुसारस्यानभिप्रेतः ।

अथ राजा बिन्दुसारः कुमारं परीक्षितुकामः पिङ्गलवत्साजीवं परिव्राजकमामन्त्रयते । उपाध्याय कुमारांस्तावत्परीक्षयामः । (आव्३७) कः शक्यते ममात्ययाद्राज्यं कारयितुम् । पिङ्गलवत्साजीवः परिव्राजकः कथयति । तेन हि देव कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गच्छ, परीक्षयामः । यावद्राजा कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गतः ।

यावदशोकः कुमारो मात्रा चोच्यते । वत्स राजा कुमारान् परीक्षितुकामः सुवर्णमण्डपमुद्यानं गतः । त्वमपि तत्र गच्छेति । अशोकः कथयति । राज्ञोऽहमनभिप्रेतो दर्शनेनापि । किमहं तत्र गमिष्यामि । सा कथयति । तथापि गच्छेति । अशोक उवाच । आहारं प्रेषय ।
यावदशोकः पाटलिपुत्रन्निर्गच्छति । राधगुप्तेन चाग्रामात्यपुत्रेणोक्तः । अशोक क्व गमिष्यसीति । अशोकः कथयति । राजाद्य सुवर्णमण्डपे उद्याने कुमारान् परीक्षयति । तत्र राज्ञो महल्लको हस्तिनागस्तिष्ठति । यावदशोकस्तस्मिन्महल्लकेऽभिरुह्य सुवर्णमण्डपमुद्यानं गत्वा कुमाराणां मध्येऽत्र पृथिव्यां प्रस्तीर्य निषसाद ।

यावत्कुमाराणामाहार उपनामितः । अशोकस्यापि मात्रा शाल्योदनं दधिसंमिश्रं मृद्भाजने प्रेषितम् । ततो राज्ञा बिन्दुसारेण पिङ्गलवत्साजीवः परिव्राजकोऽभिहितः । उपाध्याय परीक्षस्व कुमारान् । कः शक्यते ममात्ययाद्राज्यं कर्तुमिति । पश्यति पिङ्गलवत्साजीवः परिव्राजकः । चिन्तयति च । अशोको राजा भविष्यति । अयं च राज्ञो नाभिप्रेतः । यदि कथयिष्यामि अशोको राजा भविष्यतीति, नास्ति मे जीवितम् । स कथयति । देवाभेदेन (आव्३८) व्याकरिष्यामि । राजाह । अभेदेन व्याकुरुष्व । आह । यस्य यानं शोभनं स राजा भविष्यति ।

तेषामेकैकस्य बुद्धिरुत्पन्ना । मम यानं शोभनमहं राजा भविष्यामि । अशोकश्चिन्तयति । अहं हस्तिस्कन्धेनागतो मम यानं शोभनमहं राजा भविष्यामीति । राजाह । भूयस्तावदुपाध्याय परीक्षस्व । पिङ्गलवत्साजीवः परिव्राजकः कथयति । देव यस्यासनमग्रं स राजा भविष्यति ।

तेषामेकैकस्य बुद्धिरुत्पन्ना । ममासनमग्रम् । अशोकश्चिन्तयति । मम पृथिवी आसनमहं राजा भविष्यामि । एवं भाजनं भोजनं पानं विस्तरेण कुमाराणां परीक्ष्य [पाटलिपुत्रं] प्रविष्टः ।

यावदशोको मात्रोच्यते । को व्याकृतो राजा भविष्यतीति । अशोकः कथयति । अभेदेन व्याकृतम् । यस्य यानमग्रमासनं पानं भाजनं भोजनं चेति स राजा भविष्यतीति । यथा पश्यामि अहं राजा भविष्यामि । मम हस्तिस्कन्धं यानं पृथिवी आसनं मृन्मयं भाजनं शाल्योदनं दधिव्यञ्जनं भोजनं पानीयं पानमिति ।

ततः पिङ्गलवत्साजीवः परिव्राजकोऽशोको राजा भविष्यतीति तस्य मातरमारब्ध सेवितुम् । यावत्तयोच्यते । उपाध्याय कतरः कुमारो राज्ञो बिन्दुसारस्यात्ययाद्राजा भविष्यतीति । आह । अशोकः । तयोच्यते । कदाचित्त्वां राजा निर्बन्धेन पृच्छेत । (आव्३९) गच्छ त्वं प्रत्यन्तं समाश्रय । यदा श्रृणोषि अशोको राजा संवृत्तस्तदागन्तव्यम् । यावत्स प्रयन्तेषु जनपदेषु संश्रितः ।

अथ राज्ञो बिन्दुसारस्य तक्षशिला नाम नगरं विरुद्धम् । तत्र राज्ञा बिन्दुसारेण अशोको विसर्जितः । गच्छ कुमार तक्षिशीलानगरम् । संनाहय । चतुरङ्गबलकायं दत्तम् । यानं प्रहरणं च प्रतिषिद्धम् ।

यावदशोकः कुमारः पाटलिपुत्रान्निर्गच्छन् भृत्यैर्विज्ञप्तः । कुमार नैवास्माकं सैन्यप्रहरणं केन वयं कं योधयामः । ततोऽशोकेनाभिहितम् ।

यदि मम राज्यवैपाक्यं कुशलमस्ति सैन्यप्रहरणं प्रादुर्भवतु । एवमुक्ते कुमारेण पृथिव्यामवकाशो दत्तो देवताभिः सैन्यप्रहरणानि चोपनीतानि । यावत्कुमारश्चतुरङ्गेण बलकायेन तक्षशिलां गतः ।

श्रुत्वा तक्षशिलानिवासिनः पौरा अर्धतृतीयानि योजनानि मार्गे शोभां कृत्वा पूर्णघटमादाय प्रत्युद्गताः । प्रत्युद्गम्य च कथयन्ति । न वयं कुमारस्य विरुद्धा नापि राज्ञो बिन्दुसारस्य । अपि तु दुष्टामात्या अस्माकं परिभवं कुर्वन्ति । महता च सत्कारेण तक्षशिलां प्रवेशितः ।

(आव्४०)
एवं विस्तरेण अशोकः खशराज्यं प्रवेशितः । तस्य द्वौ महानग्नौ संश्रितौ । तेन तौ वृत्त्या संविभक्तौ । तस्याग्रतः पर्वतान् संछिन्दन्तौ संप्रस्थितौ । देवताभिश्चोक्तम् । अशोकश्चतुर्भागचक्रवर्ती भविष्यति । न केनचिद्विरोधितव्यमिति । विस्तरेण यावदासमुद्रा पृथिवी आज्ञापिता ।

यावत्सुसीमः कुमार उद्यानात्पाटलिपुत्रं प्रविशति । राज्ञो बिन्दुसारस्याग्रामात्यः खल्वाटकः पाटलिपुत्रान्निर्गच्छति । तस्य सुसीमेन कुमारेण क्रीडाभिप्रायतया खटका मुर्ध्नि पातिता । यावदमात्यश्चिन्तयति । इदानीं खटकां निपातयति । यदा राजा भविष्यति तदा शस्रं पातयिष्यति । तथा करिष्यामि यथा राजैव न भविष्यति । तेन पञ्चामात्यशतानि भिन्नानि । अशोकश्चतुर्भागचक्रवर्ती निर्दिष्टः । एतं राज्ये प्रतिष्ठापयिष्यामः । तक्षशिलाश्च पुनर्विरोधिताः ।

यावद्राज्ञा सुसीमः कुमारस्तक्षशिलामनुप्रेषितः । न च शक्यते संनामयितुम् । बिन्दुसारश्च राजा ग्लानीभूतः । तेनाभिहितम् । (आव्४१) सुसीमं कुमारमानयत । राज्ये प्रतिष्ठापयिष्यामीति । अशोकं तक्षशिलां प्रवेशयत ।

यावदमात्यैरशोकः कुमारो हरिद्रया प्रलिप्तः । लाक्षां च लोहपात्रे क्वाथयित्वा क्वथितेन रसेन लोहपात्राणि म्रक्षयित्वा छोरयन्ति । अशोकः कुमारो ग्लानीभूत इति । यदा बिन्दुसारः स्वल्पावशेषप्राणः संवृत्तस्तदामात्यैरशोकः कुमारः सर्वालङ्कारैर्भूषयित्वा राज्ञो बिन्दुसारस्योपनीतः । इमं तावद्राज्ये प्रतिष्ठापय । यदा सुसीम आगतो भविष्यति तदा तं राज्ये प्रतिष्ठापयिष्यामः ।

ततो राजा रुषितः । अशोकेन चाभिहितम् । यदि मम धर्मेण राज्यं भवति देवता मम पट्टं बध्नन्तु । यावद्देवताभिः पट्टो बद्धः । तं दृष्ट्वा बिन्दुसारस्य राज्ञ उष्णं शोणितिअं मुखादागतम् । यावत्कालगतः ।

यदाशोको राज्ये प्रतिष्ठितस्तस्योर्ध्व योजनं यक्षाः [आदेशं] श्रृण्वन्ति । अधो योजनं नागाः । तेन राधगुप्तोऽग्रामात्यः स्थापितः ।

सुसीमेनापि श्रुतं बिन्दुसारो राजा कालगतोऽशोको राज्ये प्रतिष्ठितः । इति श्रुत्वा च रूषितमभ्यागतः । त्वरितं च तस्माद्देशादागतः ।

(आव्४२)
अशोकेनापि पाटलिपुत्रे नगरे एकस्मिन् द्वारे एको नग्नः स्थापितः । द्वितीये द्वितीयस्तृतीये राधगुप्तः पूर्वद्वारे स्वयमेव राजाशोकोऽवस्थितः ।

राधगुप्तेन च पूर्वस्मिन् द्वारे यन्त्रमयो हस्ती स्थापितः । तस्योपरि अशोकस्य च प्रतिमा निर्मिता । परितश्च परिखां खनयित्वा खदिराङ्गारैश्च पूरयित्वा तृणेनाच्छाद्य [सा] पांशुनाकीर्णा । सुसीमश्चाभिहितो यदि शक्यसेऽशोकं घातयितुं राजेति ।

स यावत्पूर्वद्वारं गतः । अशोकेन सह योत्स्यामीति । अङ्गारपूर्णायां परिखायां पतितः । तत्रैव चानयेन व्यसनमापन्नः । यदा च सुसीमः प्रघातितस्तस्यापि महानग्नो भद्रायुधो नाम्नानेकसहस्रपरिवारः । स भगवच्छासने प्रव्रजितोऽर्हन् संवृत्तः ।

यदाशोको राज्ये प्रतिष्ठितः स तैरमात्यैरवज्ञादृश्यते । तेनामात्यानां शासनार्थमभिहितम् । भवन्तः पुष्पवृक्षान् फलवृक्षांश्च छित्त्वा कण्टकवृक्षान् परिपालयन्तु । अमात्या आहुः । देवेन कुत्र दृष्टम् । अपि तु कण्टकवृक्षान् छित्त्वा पुष्पवृक्षाः फलवृंक्षाश्च परिपालयितव्याः । तैर्यावत्त्रिरपि राज्ञ आज्ञा प्रतिकलिता । ततो (आव्४३) राज्ञा रुषितेन असिं निष्कोशं कृत्वा पञ्चानाममात्यशतानां शिरांसि छिन्नानि ।

यावद्राजाशोकोऽपरेण समयेनान्तः पुरपरिवृतो वसन्तकाले समये पुष्पितफलितेषु पादपेषु पूर्वनगरस्य उद्यानं गतः । तत्र च परिभ्रमताशोकवृक्षः सुपुष्पितो दृष्टः । ततो राज्ञो ममायं सहनामा इत्यनुनयो जातः । स च राजाशोको दुःस्पर्शगात्रः । ता युवतयस्तं नेच्छन्ति स्प्रष्टुम् । यावद्राजा शयितस्तस्यान्तःपुरेण रोषेण तस्मादशोकवृक्षात्पुष्पाणि शाखाश्च छिन्नाः ।

यावद्राज्ञा प्रतिबुद्धेन सोऽशोकवृक्षो दृष्टः । पुष्टाश्च तत्रस्थाः केन स छिन्नः । ते कथयन्ति देवान्तःपुरिकाभिरिति । श्रुत्वा च राज्ञामर्षजातेन पञ्चस्त्रीशतानि किटिकैः संवेष्टय दग्धानि ।

तस्येमानि अशुभानि आलोक्य चण्डो राजा चण्डाशोक इति व्यवस्थापितः ।

यावद्राधगुप्तेनाग्रामात्येनाभिहितः । देव न सदृशं स्वयमेवेदृशमकार्यं कर्तुम् । अपि तु देवस्य वध्यघातकाः पुरुषाः स्थापयितव्या ये देवस्य वध्यकरणीयं शोधयिष्यन्ति । यावद्राज्ञा राजपुरुषाः प्रत्युक्ता वध्यघातं मे मार्गध्वमिति ।

(आव्४४)
यावत्तत्र नातिदूरे पर्वतपादमूले कर्वटकम् । तत्र तन्त्रवायः प्रतिवसति । तस्य पुत्रो जातः । गिरिक इति नामधेयं कृतम् । चण्डो दुष्टात्मा मातरं पितरं च परिभाषते ।

दारकदारिकाश्च ताडयति । पिपीलिकान्मक्षिकान्मूषिकान्मत्स्यांश्च जालेन बडिशेन प्रघातयति । चण्डो दारकस्तस्य चण्डगिरिक इति नामधेयं कृतम् ।

यावद्राजपुरुषैर्दृष्टः पापे कर्मणि प्रवृत्तः । स तैरभिहितः । शक्यसे राज्ञोऽशोकस्य वध्यकरणीयं कर्तुम् । स आह । कृत्स्नस्य जम्बुद्वीपस्य वध्यकरणीयं साधयिष्यामीति ।

यावद्राज्ञो निवेदितम् । राज्ञाभिहितमानीयतामिति । स च राजपुरुषैरभिहितः । आगच्छ राजा त्वामाह्वयतीति । तेनाभिहितम् । आगमयत । यावदहं मातापितराववलोकयामीति । यावन्मातापितरावुवाच । अम्ब, तातानुजानीध्वं यास्याम्यहं राज्ञोऽशोकस्य वध्यकरणीयं साधयितुम् । ताभ्यां च स निवारितः । तेन तौ जीविताद्व्यपरोपितौ । एवं यावद्राजपुरुषैरभिहितः । किमर्थं चिरेणाभ्यागतोऽसि । तेन चैतत्प्रकरणं विस्तरेणारोचितम् ।

स तैर्यावद्राज्ञोऽशोकस्योपनामितः । तेन राज्ञोऽभिहितम् । (आव्४५) ममार्थाय गृहं कारयस्वेति । यावद्राज्ञा गृहं कारापितम् । परमदारुणं द्वारमात्ररमणीयम् । तस्य रमणीयकं बन्धनमिति संज्ञा व्यवस्थापिता । स आह । देव वरं मे प्रयच्छ । यस्तत्र प्रविशेत्तस्य न भूयो निर्गम इति । यावद्राज्ञाभिहितम् । एवमस्त्विति ।

ततः स चण्डगिरिकः कुक्कुटारामं गतः । भिक्षुश्च । बालपण्डितसूत्रं पठति । सत्त्वा नरकेषूपपन्नाः । यावन्नरकपाला गृहीत्वायोमय्यां भूमावादीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भणेन मुखद्वारं विष्कम्भ्य अयोगुडानादीप्तान् प्रदीप्तान् संप्रज्वलितानेकज्वालीभूतानास्ये प्रक्षिपन्ति । ये तेषां सत्त्वानामोष्ठावपि दहन्ति जिह्वामपि कण्ठमपि कण्ठनाडमपि हृदयमपि हृदयसामन्तमपि अन्त्राणि अन्त्रगुणानपि दग्ध्वा अधः प्रघरन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।

सत्त्वा नरकेषूपपन्नाः । यावन्नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भणेन मूखद्वारं विष्कम्भ्य क्वथितं ताम्रमास्ये प्रक्षिपन्ति । यत्तेषां सत्त्वानामोष्ठौ अपि दहन्ति जिह्वामपि तालु अपि कण्ठमपि कण्ठनाडमपि अन्त्राणि अन्त्रगुणानापि दग्ध्वा अधः प्रघरन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।

सन्ति सत्त्वा नरकेषूपपन्नाः । यान्नरकपाला गृहीत्वायोमय्यां भूमावादीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवाङ्मुखान् प्रतिष्ठाप्यायोमयेन सूत्रेण आदीप्तेन संप्रज्वलितेन एकज्वालीभूतेन आस्फाट्य अयोमयेन कुठारेण आदीप्तेन संप्रदीप्तेन संप्रज्वलितेन एकज्वालीभूतेन तक्ष्णुवन्ति संतक्ष्णुवन्ति संप्रतक्ष्णुवन्ति अष्टांशमपि षडंशमपि चतुरस्रमपि वृत्तमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।

(आव्४६)
सन्ति सत्त्वा नरकेषूपपन्नाः । यान्नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवाङ्मुखान् प्रतिष्ठाप्यायोमयेन सूत्रेणादीप्तेन प्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्फाट्यायोमय्यां भूम्यामादीप्तायां प्रदीप्तायां संप्रज्वलितायां नैकज्वालीभूतायां तक्ष्णुवन्ति संतक्ष्णुवन्ति संपरितक्ष्णुवन्ति अष्टांशमपि षडंशमपि चतुरस्रमपि मण्डलमपि उन्नतमपि अनवतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति । इयद्दुःखा हि भिक्षवो नरकाः ।

सन्ति सत्त्वा नरकेषूपपन्नाः । यान्नरकपाला गृहीत्वायोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य पञ्चविधबन्धनकारणां कारयन्ति । उभयोर्हस्तयोरायसौ कीलौ क्रामन्ति । उभयोः पादयोरायसौ कीलौ क्रामन्ति । मध्ये हृदयस्यायसं कीलं क्रामन्ति । सुदुःखा हि भिक्षवो नरकाः ।

एवं पञ्च वेदना इति सोऽपि (चण्डगिरिकः) कुरुते । तत्सदृशाश्च कारणाः सत्त्वानामारब्धः कारयितुं [सोऽपि तच्चारके] ।

यावच्छ्रावस्त्यामन्यतमः सार्थवाहः पत्न्या सह महासमुद्रमवतीर्णः । तस्य सा पत्नी महासमुद्रे प्रसूता । दारको जातस्तस्य समुद्र इति नामधेयं कृतम् ।

यावत्विस्तरेण द्वादशभिर्वषैर्महासमुद्रादुत्तीर्णः । स च सार्थवाहः पञ्चभिर्धूर्तशतैर्मुषितः । सार्थवाहः स प्रघातितः । स च समुद्रः सार्थवाहपुत्रो भगवच्छासने प्रव्रजितः । स जनपदचारिकां चरन् पाटलिपुत्रमनुप्राप्तः ।

(आव्४७)
स पूर्वाह्णे निवास्य पात्रचीवरमादाय पाटलिपुत्रं पिण्डाय प्रविष्टः । सोऽनभिज्ञया च रमणीयकं भवनं प्रविष्टः । तच्च द्वारमात्ररमणीयमभ्यन्तरं नरकभवनसदृशं प्रतिभयं दृष्ट्वा च पुनर्निर्गन्तुकामश्चण्डगिरिकेणावलोकितः । गृहीत्वा चोक्तः । इह ते निधनमुपसंगन्तव्यमिति । विस्तरेण कार्यम् ।

ततो भिक्षुः शोकार्तो वाष्पकण्ठः संवृत्तः । तेनोच्यते । किमिदं बालदारक इव रुदसीति । स भिक्षुः प्राह ।

न शरीरविनाशं हि भद्र शोचामि सर्वशः ।
मोक्षधर्मान्तरायं तु शोचामि भृशमात्मनः ॥
दुर्लभं प्राप्य मानुष्यं प्रव्रज्यां च सुखोदयाम् ।
शाक्यसिंहं च शास्तारं पुनस्त्यक्ष्यामि दुर्मतिः ॥

तेनोच्यते । दत्तवरोऽहं नृपतिना । धीरो भव । नास्ति ते मोक्ष इति । ततः सकरुणैर्वचनैस्तं भिक्षुः क्रमं याचति स्म । मासं यावत् । सप्तरात्रमनुज्ञातः ।

स खलु मरणभयोद्विग्नहृदयः सप्तरात्रेण मे न भवितव्यमिति व्यायममतिः संवृत्तः ।

अथ सप्तमे दिवसे अशोकस्य राज्ञोऽन्तःपुरिका कुमारेण सह संरक्तां निरीक्ष्यमाणां संलपन्तीं च दृष्ट्वा सहदर्शनादेव रुषितेन (आव्४८) राज्ञा तौ द्वावपि तं चारकमनुप्रेषितौ । तत्र मूशलैरयोद्रोण्यामस्थ्यवशेषौ कृतौ । ततो भिक्षुस्तौ दृष्ट्वा संविग्नः प्राह ।

अहो कारुणिकः शास्ता सम्यगाह महामुनिः ।
फेनपिण्डोपमं रूपमसारमनवस्थितम् ॥
क्व तद्वदनकान्तित्वं गात्रशोभा क्व सा गाता ।
धिगस्त्वन्यायसंसारं रमन्ते यत्र बालिशाः ॥
इदमालम्बनं प्राप्तं चारके वसता मया ।
यदाश्रित्य तरिष्यामि पारमद्य भवोदधेः ॥
तेन तां रजनीं कृत्स्नां युज्यता बुद्धशासने ।
सर्वसंयोजनं छित्त्वा प्राप्तमर्हत्त्वमुत्तमम् ॥

ततस्तस्मिंन् रजनिक्षये स भिक्षुश्चण्डगिरिकेणोच्यते । भिक्षो निर्गता रात्रिरुदित आदित्यः कारणाकालस्तवेति । ततो भिक्षुराह । दीर्घायुर्ममापि निर्गता रात्रिरुदित आदित्यः परानुग्रहकाल इति । यथेष्टं वर्ततामिति ।

चण्डगिरिकः प्राह । नावगच्छामि विस्तीर्यतां वचनमेतदिति । ततो भिक्षुराह ।

(आव्४९)
ममापि हृदयाद्घोरा निर्गता मोहशर्वरी ।
पञ्चावरणसंच्छन्ना क्लेशतस्करसेविता ॥
उदितो ज्ञानसूर्यश्च मनोनभसि मे शुभः ।
प्रभया यस्य पश्यामि त्रैलोक्यमिह तत्त्वतः ॥
परानुग्रहकालो मे शास्तुर्वृत्तानुवर्तिनः ।
इदं शरीरं दीर्घायुर्यथेष्टं क्रियतामिति ॥

ततस्तेन निर्घृणेन दारुणहृदयेन परलोकनिरपेक्षेण रोषाविष्टेन बहूदकायां स्थाल्यां नररुधिरवसामूत्रपूरीषसंकुलायां महालोह्यां प्रक्षिप्तः । प्रभूतेन्धनैश्चाग्निः प्रज्वालितः । स च बहुनापीन्धनक्षयेण न संतप्यते । ततः पुनः प्रज्वालयितुं चेष्टते । यदा तस्यापि न प्रज्वलति ततो विचार्य तां लोहीं पश्यति । तं भिक्षुं पद्मस्योपरि पर्यङ्केणोपविष्टं दृष्ट्वा च ततो राज्ञे निवेदयामास । अथ राजनि समागते प्राणिसहस्रेषु संनिपतितेषु स भिक्षुर्वैनेयकालमवेक्षमाणः

(आव्५०)
ऋद्धिं समुत्पाद्य स तन्मुहूर्तं लोह्यन्तरस्थः सलिलाद्रगात्रः ।
निरीक्षमाणस्य जनस्य मध्ये नभस्तलं हंस इवोत्पपात ॥

विचित्राणि च प्रातिहार्याणि दर्शयितुमारब्धः । वक्ष्यति हि ।

अर्धेन गात्रेण ववर्ष तोयमर्धेन जज्वाल हुताशनश्च ।
वर्षञ्ज्वलंश्चैव रराज यः खे दीप्तौषधिप्रस्रवणेव शैलः ॥
तमुद्गतं व्योम्नि निशाम्य राजा कृताञ्जलिर्विस्मयफुल्लवक्त्रः ।
उद्वीक्षमाणस्तमुवाच धीरं कौतुहलात्किंचिदहं विवक्षुः ॥
मनुष्यतुल्यं तव सौम्य रूपमृद्धिप्रभावस्तु नरानतीत्य ।
न निश्चयं तेन विभो व्रजामि को नाम भावस्तव शुद्धभाव ॥
तत्साम्प्रतं ब्रूहि ममेदमर्थं यथा प्रजानामि तव प्रभावम् ।
ज्ञात्वा च ते धर्मगुणप्रभावान् यथाबलं शिष्यवदाचरेम ॥

ततो भिक्षुः प्रवचनपरिग्राहकोऽयं भविष्यति भगवद्धातुं च विस्तरीकरिष्यति महाजनहितार्थं च प्रतिपत्स्यत इति मत्वा स्वगुणमुद्भावयंस्तमुवाच ।

अहं महाकारुणिकस्य राजन् प्रहीणसर्वास्रवबन्धनस्य ।
बुद्धस्य पुत्रो वदतां वरस्य धर्मान्वयः सर्वभवेष्वसक्तः ॥
(आव्५१)
दान्तेन दान्तः पुरुषर्षभेन शान्तिं गतेनापि शमं प्रणीतः ।
मुक्तेन संसारमहाभयेभ्यो निर्मोक्षितोऽहं भवबन्धनेभ्यः ॥

अपि च महाराज त्वं भगवता व्याकृतः । वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति । चतुर्भागचक्रवर्ती धर्मराजो यो मे शरीरधातून् वैस्तारिकान् करिष्यति । चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति । इदं च देवेन नरकसदृशं स्थानमेव स्थापितं यत्र प्राणिसहस्राणि निपात्यन्ते । तदर्हसि देव सर्वसत्त्वेभ्योऽभयप्रदानं दातुं भगवतश्च मनोरथं परिपूरयितुम् । आह च ।

तस्मान्नरेन्द्र अभयं प्रयच्छ सत्त्वेषु कारुण्यपुरोजवेषु ।
नाथस्य संपूर्य मनोरथं च वैस्तारिकान् धर्मधरान् कुरुष्व ॥

अथ स राजा बुद्धे समुपजातप्रसादः कृतकरसंपुटस्तं भिक्षुं क्षमयन्नुवाच ।

दशबलसुत क्षन्तुमर्हसीमं कुकृतमिदं च तवाद्य देशयामि ।
शरणमृषिमुपैमि तं च बुद्धं गणवरमार्यनिवेदितं च धर्मम् ॥

अपि च ।

करोमि चैष व्यवसायमद्य तद्गौरवात्तत्प्रवणप्रसादात् ।
गां मण्डयिष्यामि जिनेन्द्रचैत्यैर्हंसांशुशङ्खेन्दुबलाककल्पैः ॥

यावत्स भिक्षुस्तदैव ऋद्ध्या प्रक्रान्तः । अथ राजारब्धो निष्क्रामितुम् । ततश्चण्डगिरिकः कृताञ्जलिरुवाच । देव लब्धवरोऽहं नैकस्य विनिर्गम इति । राजाह । मा तावन् । मामपीच्छसि घातयितुम् ।

(आव्५२)
स उवाच । एवमेव ।

राजाह । कोऽस्माकं प्रथमतरं प्रविष्टः ।

चण्डगिरिक उवाच । अहम् ।

ततो राज्ञाभिहितम् । कोऽत्रेति ।

यावद्वध्यघातैर्गृहीतः । गृहित्वा च यन्त्रगृहं प्रवेशितः । प्रवेशयित्वा दग्धः । तच्च रमणीयकं बन्धनमपनीतम् । सर्वसत्त्वेभ्यश्चाभयप्रदानमनुप्रदत्तम् ॥

ततो राजा भगवच्छरीरधातुं विस्तरिष्यामीति चतुरङ्गेण बलकायेन गत्वाजातशत्रुप्रतिष्ठापितं द्रोणस्तूपमुत्पाट्य शरीरधातुं गृहीतवान् । यत्र उद्धारणं च विस्तरेण कृत्वा धातुप्रत्यंशं दत्त्वा स्तूपं प्रत्यस्थापयत् । एवं द्वितीयं स्तूपं विस्तरेण । भक्तिमतो यावत्सप्तद्रोणाद्ग्रहाय स्तूपांश्च प्रतिष्ठाप्य रामग्रामं गतः ।

ततो राजा नागैर्नागभवनमवतारितः । विज्ञप्तश्च । वयमस्य [शरीरधातोः] अत्रैव पूजां करिष्याम इति । यावद्राज्ञाभ्यनुज्ञातम् ।

ततो नागराजेन पुनरपि नागभवनादुत्तारितः । वक्ष्यति हि ।

रामग्रामेऽस्ति त्वष्टमं स्तूपमद्य नागास्तत्कालं भक्तिमन्तो ररक्षुः ।
धातूनेतस्मान्नोपलेभे स राजा श्रद्धालू राजा यस्त्वकृत्वा जगाम ॥

(आव्५३)
यावद्राजा चतुरशीतिकरण्डसहस्रं कारयित्वा सौवर्णरूप्यस्फटिकवैदूर्यमयाणां तेषु धातवः प्रक्षिप्ताः । एवं विस्तरेण चतुरशीतिकुम्भसहस्रं (आव्५४) पट्टसहस्रं च यक्षाणां हस्ते दत्त्वा विसर्जितम् । आसमुद्रायां पृथिव्यां हिनोत्कृष्टमध्यमेषु नगरेषु यत्र कोटिः परिपूर्यते तत्र धर्मराजिका प्रतिष्ठापयितव्या ।

तस्मिन् समये तक्षशिलायां षट्त्रिंशत्कोट्यः । तैरभिहितम् । षट्त्रिंशत्करण्डकाननुप्रयच्छेति । राजा चिन्तयति । न यदि वैस्तारिका धातवो भविष्यन्ति । उपायज्ञो राजा । तेनाभिहितम् । पञ्चत्रिंशत्कोट्यः शोधयितव्याः । विस्तरेण यावद्राज्ञाभिहितम् । यत्राधिकतरा भवन्ति यत्र च न्यूनतरा तत्र न दातव्यम् ।

यावद्राजा कुक्कुटारामं गत्वा स्थविरयशसमभिगम्य उवाच । अयं मे मनोरथः । एकस्मिन् दिवसे एकस्मिन्मूहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयेयमिति । स्थविरेणाभिहितम् । एवमस्तु । अहं तस्मिन् समये पाणिना सूर्यमण्डलं प्रतिच्छादयिष्यामीति ।

(आव्५५)
यावत्तस्मिन् दिवसे स्थविरयशसा पाणिना सूर्यमण्डलं प्रतिच्छादितम् । एकस्मिन् दिवसे एकमुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । वक्ष्यति च ।

ताभ्यः सप्तभ्यः पूर्विकाभ्यः कृतिभ्यो धातुं तस्यर्षेः स ह्युपादाय मौर्यः ।
चक्रे स्तूपानां शारदाभ्रप्रभाणां लोके साशीति ह्यह्नि चातुःसहस्रम् ॥

यावच्च राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं धार्मिको धर्मराजा संवृत्तस्तस्य धर्माशोक इति संज्ञा जाता । वक्ष्यति च ।

आर्यो मौर्यश्रीः स प्रजानां हितार्थं कृत्स्ने स्तूपान् यः कारयामास लोके ।
चण्डाशोकत्वं प्राप्य पूर्वं पृथिव्यां धर्माशोकत्वं कर्मणा तेन लेभे ॥

पांशुप्रदानावदानं षड्विंशतिमम् ।

(आव्५६)
वीतशोकावदानं

यदा राज्ञाशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । पञ्चवार्षिकं च कृतम् । त्रीणी शतसहस्राणि भिक्षूणां भोजितानि । यत्रैकमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च । आसमुद्रायां पृथिव्यां जनकाया यभ्दूयसा भगवच्छासनेऽभिप्रसन्नाः ।

तस्य भ्राता वीतशोको नाम तीर्थ्याभिप्रसन्नः । स तीर्थ्यैर्विग्राहितः । नास्ति श्रमणशाक्यपुत्रीयाणां मोक्ष इति । एते हि सुखाभिरताः परिखेदभीरवश्चेति ।

यावद्राज्ञाशोकेनोच्यते । वीतशोक मा त्वं हीनायतने प्रसादमुत्पादय । अपि तु बुद्धधर्मसङ्घे प्रसादमुत्पादय । एष आयतनगतः प्रसाद इति ।

अथ राजाशोकोऽपरेण समयेन मृगवधाय निर्गतः । तत्र वीतशोकेनारण्ये ऋषिर्दृष्टः । पञ्चातपेनावस्थितः । स च कष्टतपःसारसंज्ञी । तेनाभिगम्य पादाभिवन्दनं कृत्वा स ऋषिः पृष्टः । भगवन् कियच्चिरं ते इहारण्ये प्रतिवसतः । स उवाच । द्वादशवर्षाणीति । वीतशोकः कथयति । कस्तवाहारः । ऋषिरुवाच । फलमूलानि । किं प्रावरणम् । दर्भचीवराणि । का शय्या । तृणसंस्तरः । वीतशोक उवाच । भगवन् किं दुःखं बाधते । ऋषीरुवाच । इमे (आव्५७) मृगा ऋतुकाले संवसन्ति । यदा मृगाणां संवासो दृष्टो भवति तस्मिन् समये रागेण परिदह्यामि ।

वीतशोक उवाच । अस्य कष्टेन तपसा [वर्तमानस्य] रागोऽद्यापि बाधते प्रागेव । श्रमणाः शाक्यपुत्रीयाः स्वास्तीर्णासनशयनोपसेविनः । कुत एषां रागप्रहाणं भविष्यति । आह च ।

कष्टेऽस्मिन् विजने वने निवसता वाय्वम्बुमूलाशिना
रागो नैव जितो यदीह ऋषिणा कालप्रकर्षेण हि ।
भुक्त्वान्नं सघृतं प्रभूतपिशितं दद्युत्तमालङकृतं
शाक्येष्विन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥

सर्वथा वञ्चितो राजाशोको यच्छ्रमणेषु शाक्यपुत्रीयेषु कारां करोति ।

एतच्च वचनं श्रुत्वा राजा उपायज्ञोऽमात्यानुवाच । अयं वितशोकस्तीर्थ्याभिप्रसन्नः । उपायेन भगवच्छासनेऽभिप्रसादयितव्यः ।

अमात्याः आहुः । देव किमाज्ञापयसि । राजाह । यदाहं राजालङ्कारं मौलि पट्टं चापनयित्वा स्नानशालां प्रविष्टो भवामि, तदा यूयं वीतशोकस्य उपायेन मौलि पट्टं च बद्ध्वा [एनं] सिंहासने निषादयिष्यथ । एवमस्त्विति ।

यावद्राजा राजालङ्कारं मौलिपट्टं चापनयित्वा स्नानशालायां प्रविष्टः । ततोऽमात्यैर्वीतशोक उच्यते । राज्ञोऽशोकस्यात्ययात्(आव्५८) त्वं राजा भविष्यसि । इमं तावद्राजालङ्कारं प्रवरमौलिपट्टं च बद्ध्वा [त्वां] सिंहासने निषादयिष्यामः । किं शोभसे न वेऽति ।

[स] तैस्तदाभरणं मौलिपट्टं च बद्ध्वा सिंहासने निषादितः । राज्ञश्च निवेदितम् ।

ततो रजाशोको वीतशोकं राजालङ्कारमौलिपट्टबद्धं च सिंहासनोपविष्टं दृष्ट्वा कथयति । अद्याप्यहं जीवामि, त्वं राजा संवृत्तः । ततो राज्ञाभिहितम् । कोऽत्रम् ।

ततो यावद्वध्यघातका नीलाम्बरवासिनः प्रलम्बकेशा घण्टाशब्दपाणयो राज्ञः पादयोर्निपत्योचुः । देव किमाज्ञापयसि ।

राजाह ।

वीतशोको मया परित्यक्त इति । यावद्वीतशोक उच्यते । सशस्त्रैवैध्यघातैरस्माभिः परिवृतोऽसीति । ततोमात्या राज्ञः पादयोर्निपत्य ऊचुः । देव मर्षय वीतशोकम् । देवस्यैष भ्राता ।

ततो राज्ञाभिहितम् । सप्ताहमस्य मर्षयामि । भ्राता चैष मम । भ्रातुः स्नेहादस्य सप्ताहं राज्यं प्रयच्छामि ।

यावत्तूर्यशतानि संप्रवादितानि । जयशब्दैश्चानन्दितम् । प्राणिशतसहस्रैश्चाञ्जलिः कृतः । स्त्रीशतैश्च परिवृतः ।

(आव्५९)
वध्यघातकाश्च द्वारि तिष्ठन्ति । दिवसे गते वीतशोकस्याग्रतः स्थित्वा आरोचयन्ति । निर्गतं वीतशोक एकं दिवसम् । षडहान्यवशिष्टानि । एवं द्वितीये दिवसे । विस्तरेण यावत्सप्ताहदिवसे वीतशोको राजालङ्कारविभूषितो राज्ञोऽशोकस्य समीपमुपनीतः ।

ततो राज्ञाशोकेनाभिहितम् । वीतशोक कच्चित्सुगीतं सुनृत्यं सुवादितमिति । वीतशोक उवाच । न मे दृष्टं वा स्याच्छ्रु तं वेति । आह च ।

येन श्रुतं भवेद्गीतं नृत्यं चापि निरीक्षितम् ।
रसाश्चास्वादिता येन स ब्रूयात्तव निर्णयम् ॥

राजाह । वीतशोक इदं मया राज्यं सप्ताहं तव दत्तम् । तर्यशतानि संप्रवादितानि । जयशब्दैश्चानन्दितम् । अञ्जलिशतानि प्रगृहीतानि । स्त्रीशतैश्च परिचीर्णः । कथं त्वं कथयसि नैव मे दृष्टं न श्रुतमिति । वीतशोक उवाच ।

न मे दृष्टं नृत्यं न च नृप श्रुतो गीतनिनदः
न मे गन्धा घ्राता न च खलु रसा मेऽद्य विदिताः ।
न मे स्पृष्टः स्पर्शः कनकमणिहाराङ्गजनितः
समूहो नारीणां मरणपरिबद्धेन मनसा ॥
स्त्रियो नृत्यं गितं भवनशयनान्यासनविधिः
वयो रूपं लक्ष्मीर्बहुविविधरत्ना च वसुधा ।
निरानन्दा शून्या मम तु वरशय्या गतसुखा
स्थितान् दृष्ट्वा द्वारे वधकपुरुषान्नीलवसनान् ॥
(आव्६०)
श्रुत्वा घण्तारवं घोरं नीलाम्बरधरस्य हि ।
भयं मे मरणाज्जातं पार्थिवेन्द्र सुदारुणम् ॥
मृत्युशल्यपरीतोऽहं नाश्रौषं गीतमुत्तमम् ।
नाद्राक्षं नृपते नृत्यं न च भोक्तुं मनःस्पृहा ॥
मृत्युज्वरगृहीतस्य न मे स्वप्नोऽपि विद्यते ।
कृत्स्ना मे रजनी याता मृत्युमेवानुचिन्ततः ॥

राजाह । वीतशोक । मा तावत् । तवैकजन्मिकस्य मरणभयात्तव राजश्रियं प्राप्य हर्षो नोत्पन्नः । किं पुनर्भिक्षवो ये जन्मशतमरणभयभीताः सर्वाण्युपपत्त्यायतनानि दुःखान्यनुसृतानि पश्यन्ति । नरके तावच्छरीरसंतापकृतमग्निदाहदुःखं च तिर्यक्ष्वन्योन्यभक्षणपरित्रासदुःखं, प्रेतेषु क्षुत्तर्षदुःखम् । पर्येष्टिसमुदाचारदुःखं मनुष्येषु । च्यवनपतनभ्रंशदुःखं देवेषु । एभिः पञ्चभिर्दुःखैस्त्रैलोक्यमनुषक्तं शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति । शून्यग्रामभूतान्यायतनानि, चौरभूतानि विषयाणि कृत्स्नं च त्रैधातुकमनित्याग्निना प्रदीप्तं पश्यन्ति । तेषां रागः कथमुत्पद्यते । आह च ।

तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः ।
मनसि विषयैर्मनोज्ञैः सततं खलु पच्यमानस्य ॥
किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयताम् ।
मनसि भविष्यति हर्षो भिक्षूणां भोजनाद्येषु ॥
(आव्६१)
तेषां न वस्त्रशयनासनभोजनादि मोक्षेऽभियुक्तमनसां जनयेत सङ्गम् ।
पश्यन्ति ये वधकशत्रुनिभं शरीरमादीप्तवेश्मसदृशांश्च भवाननित्यान् ॥

कथं च तेषां न भवेद्विमोक्षो मोक्षार्थिनां जन्मपराङमुखाणाम् ।
येषां मनः सर्वसुखाश्रयेषु व्यावर्तते पद्मदलादिवाम्भः ॥

यदा वीतशोको राज्ञाशोकेनोपायेन भगवच्छासनेऽभिप्रसादितः स कृतकरपुट उवाच । देव एषोऽहं तं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं शरणं गच्छामि । धर्मं च भिक्षुसंङ्घं चेति । आह च ।

एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रम् ।
बुधविबुधमनुजमहितं जिनं विरागं सङ्घं चेति ॥

अथ राजाशोको वीतशोकं कण्ठे परिष्वज्योवाच । न त्वं मया परित्यक्तः । अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः ।

ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति । सद्धर्मं च श्रृणोति । सङ्घे च कारां कुरुते ।

स कुक्कुटारामं गतः । तत्र यशो नाम स्थविरः अर्हन् षडभिज्ञः । स तस्य पुरतो निषण्णो धर्मश्रवणाय । स्थविरश्च तमवलोकयितुमारब्धः ।

स पश्यति वीतशोकमुपचितहेतुकं चरमभविकं तेनैवाश्रयेनार्हत्त्वं प्राप्तव्यम् । तेन तस्य प्रव्रज्याया वर्णो भाषितः । तस्य श्रुत्वा (आव्६२) स्पृहा जाता । प्रव्रजेयं भगवच्छासने । तत उत्थाय कृताञ्जलिः स्थविरमुवाच । लभेयमहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम् । स्थविर उवाच । वत्स । राजानमशोकमनुज्ञापयस्वेति ।

ततो वीतशोको येन राजाशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच । देव अनुजानीहि माम् । प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धयागारादनागारिकाम् । आह च ।

उभ्दान्तोऽस्मि निरंकुशो गज इव व्यावर्तितो विभ्रमात्
त्वद्बुद्धिप्रभवांकुशेन विधिवद्बुद्धोपदेशैरहम् ।
एकं त्वर्हसि मे वरं प्रवरितुं त्वं पार्थिवानां पते
लोकालोकवरस्य शासनवरे लिङ्गं शुभं धारये ॥

श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच । वीतशोक । अलमनेन व्यवसायेन । प्रव्रज्या खलु वैवर्णीकाभ्युपगता वास पांशुकूलम् ।

प्रावरणं परिजनोज्झितम् । आहारों भैक्षं परकुले । शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः । ब्याबाधे खल्वपि भैषज्यमसुलभम् । पूतिमुक्तं च भोजनम् । त्वं च सुकुमारः शीतोष्णक्षित्पिपासानां दुःखानामसहिष्णुः । प्रसीद निवर्तय मानसम् ।

वीतशोक उवाच । देव ।
(आव्६३)
नैवाहं तन्न जाने न विषयतृषितो नायासविहतः
प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्यकृपणः ।
दुःखार्त मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं
पन्थानं जन्मभीरुः शिवमभयमहं गन्तुव्यवसितः ॥

श्रुत्वा राजाशोकः सशब्दं प्ररुदितुमारब्धः । अथ वीतशोको राजानमनुनयन्नुवाच । देव ।

संसारदोलामभिरुह्य लोलां यदा निपातो नियतः प्रजानाम् ।
किमार्थमागच्छति विक्रिया ते सर्वेण सर्वस्य यदा वियोगः ॥

राजाह । वीतशोक । भैक्षे तावदभ्यासः क्रियताम् । राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः । भोजनं चास्य दत्तम् । सोऽन्तःपुरं पर्यटति महार्हं चाहारं लभते ।

ततो राज्ञान्तःपुरिकाभिहिता । प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छेति । तेन यावदभिदूषिता पूतिकमाषा लब्धाः । तांश्च (आव्६४) परिभोक्तुमारब्धः । दृष्ट्वा राज्ञाशोकेन निवारितः । अनुज्ञातश्च प्रव्रज, किन्तु प्रव्रजित्वा उपदर्शयिष्यसि ।

स यावत्कुक्कुटारामं गतः । तस्य बुद्धिरुत्पन्ना । यदि इह प्रव्रजिष्यामि आकीर्णो भविष्यामि । ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः । ततस्तेन युज्यता यावदर्हत्त्वं प्राप्तम् ।

अथायुष्मतो वीतशोकस्य अर्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत् । अस्ति खलु मे [द्रष्टुकामो भ्राता । ततः पाटलिपुत्राय प्रस्थितः ।] पूर्वं राज्ञोऽशोकस्य गृहद्वारमनुप्राप्तः । ततो दौवारिकमुवाच । गच्छ राज्ञोऽशोकस्य निवेदय वीतशोको द्वारितिष्ठति देवं द्रष्टुकाम इति ।

ततो दौवारिको राजानमशोकमभिगम्योवाच । देव, दिष्ट्या वृद्धि र्वीतशोकोऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः । ततो राज्ञाभिहितम् । गच्छ शीघ्रं प्रवेशयेति ।

यावद्वीतशोको राजकुलं प्रविष्टः । दृष्ट्वा च राजाशोकः सिंहासनादुत्थाय मूलनिकृत्त इव द्रुमः सर्वशरीरेण [भूमौ निपतितः । ततः स] आयुष्मन्तं वीतशोकं निरीक्षमाणः प्ररुदन्नुवाच ।

भूतेषु संसर्गगतेषु नित्यं दृष्ट्वापि मां नैति यथा विकारम् ।
विवेकवेगाधिगतस्य शङ्के प्रज्ञारसस्यतिरसस्य तृप्तः ॥

(आव्६५)
अथ राज्ञोऽशोकस्य राघगुप्तो नामाग्रामात्यः । स पश्यत्यायुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृन्मयं पात्रं यावदन्नभक्षं लूहप्रणीतम् । दृष्ट्वा च राज्ञः पादयोर्निपत्य कृताञ्जलिरुवाच । देव यथायमल्पेच्छः सन्तुष्टश्च नियतमयं कृतकरणीयो भविष्यति । प्रीतिरुत्पाद्येत । कुतः ।

भैक्षान्नभोजनं यस्य पांशुकूलं च चीवरम् ।
निवासो वृक्षमूलं च तस्य ह्यनियतं कथम् ॥
निरास्रवं यस्य मनो विशालं निरामयं चोपचितं शरीरम् ।
स्वच्छन्दतो जीवितसाधनं च नित्योत्सवं तस्य मनुष्यलोके ॥

श्रुत्वा ततो राजा प्रीतमना उवाच ।

अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च ।
दृष्ट्वा वशंनिवहं [नु]प्रहीणमदमानमोहसारम्भम् ॥
अत्युद्धतमिव मन्ये यशसा पूतं पुरमिव गेहं च ।
प्रतिपद्यतां त्वया [वै] दशबलधरशासनमुदारम् ॥

अथ राजाशोकः सर्वाङ्गेण परिगृह्य प्रज्ञप्त एवासने निषादयामास । प्रणीतेन चाहारेण स्वहस्तं सन्तर्पयति । भुक्तवन्तं (आव्६६) विदित्वा घौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय ।

अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच ।

अप्रमादेन सम्पाद्य राजैश्वर्यं प्रवर्तताम् ।
दुर्लभत्रीणि रत्नानि नित्यं पूजय पार्थिव ॥

स यावद्धर्म्यया कथया संप्रहर्षयित्वा संप्रस्थितः । अथ राजाशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतोऽनेकैश्च पौरजनसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः । वक्ष्यति हि ।

भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यते ।
प्रव्रज्यायाः खलु श्लाध्यं संदृष्टिकमिदं फलम् ॥

तत आयुस्मान् वीतशोकः स्वगुणानुभ्दावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः । अथ राजाशोकः कृतकरपुटः प्राणिकशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच ।

स्वजनस्नेहनिःसङ्गो विहङ्ग इव गच्छसि ।
श्रीरागनिगडैर्बद्धानस्मान् प्रत्यादिशन्निव ॥
(आव्६७)
आत्मायत्तस्य शान्तस्य मनःसंकेतचारिणः ।
ध्यानस्य फलमेतच्च रागान्धैर्यन्न दृश्यते ॥

अपि च ।

ऋद्धया खल्ववभर्त्सिताः परमया श्रीगर्वितास्ते वयं
बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयाः ।
प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं
संक्षेपेण सबास्पदुर्दिनमुखाः स्थाने विमुक्ता वयम् ॥

तत्रायुष्मान् वीतशोकः प्रत्यन्तिकेषु जनपदेषु शय्याशनाय निर्गतः । तस्य च महाव्याधिरुत्पन्नः । श्रुत्वा च राज्ञाशोकेन भैषज्यमुपस्थायकाश्च विसर्जिताः । तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत् । यदा च व्याधिर्निर्गतस्तस्य विरुढानि शिरसि रोमाणि । तेन वैद्योपस्थायकाश्च विसर्जिताः । तस्य च गोरसः प्राय आहारोनुसेव्यते । स घोषं गत्वा भैक्षं पर्यटति ।

तस्मिंश्च समये पुण्डवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपतिता चित्रार्पिता । उपासकेनाशोकस्य राज्ञो निवेदितम् । श्रुत्वा च राज्ञाभिहितं शीघ्रमानीयताम् ।

(आव्६८)
तस्योर्ध्वं योजनं यक्षाः श्रुण्वन्ति । अधो योजनं नागाः । यावत्तं तत्क्षणेन यक्षैरुपनीतम् । दृष्ट्वा च राज्ञा रुषितेनाभिहितम् । पुण्डवर्धने सर्वे आजीविकाः प्रघातयितव्याः । यावदेकदिवसेऽष्टादशसहस्राणि आजीविकानां प्रघातितानि ।

ततः पाटलिपुत्रे भूयोऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपतिता चित्रार्पिता । श्रुत्वा च राज्ञामर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशयित्वाग्निना दग्धः । आज्ञप्तं च यो मे निर्ग्रन्थस्य शिरो दास्यति तस्य दीनारं दास्यामि । इति घोषितम् ।
स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिवासमुपगतः । तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि दीर्घकेशनखश्मश्रु । आभीर्या बुद्धिरुत्पन्ना निर्ग्रन्थोऽयमस्माकं गृहे रात्रिवासमुपगतः । स्वामिनमुवाच । आर्यपुत्र सम्पन्नोऽयमस्माकं दीनारः । इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञोऽशोकस्योपनामयेयमिति ।

ततः स आभीरोऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः । आयुष्मता च वीतशोकेन पूर्वान्तं ज्ञानं क्षिप्तम् । पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितम् । ततः कर्मप्रतिशरणो भूत्वावस्थितः । तेन तथास्याभीरेण शिरश्छिन्नम् । राज्ञोऽशोकस्योपनीतम् । दीनारं प्रयच्छेति ।

(आव्६९)
दृष्ट्वा च राज्ञाशोकेन न परिज्ञातम् । विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति । ततो वैद्या उपस्थायका आनीताः । तैर्दृष्ट्वाभिहितम् । देव वीतशोकस्यैत्शिरः । श्रुत्वा राजा मुर्च्छितो भूमौ पतितः । यावज्जलसेकं दत्त्वा स्थापितः । अमात्यैश्चाभिहितम् । देव वीतरागाणामपि अत्र पीडा जाता । दीयतां सर्वसत्त्वेष्वभयप्रदानम् ।

यावद्राज्ञाभयप्रदानं दत्तं, न भूयः कश्चित्प्रघातयितव्यः ।

ततो भिक्षवः संशयजाताः सर्वसंशयछेत्तारमायुष्मन्तमुपगुप्तं पृच्छन्ति । किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितः । स्थविर उवाच । तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु । शूयताम् ।

भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति । अटव्यामुदपानम् । स तत्र लुब्धो गत्वा पशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति ।

असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते । विस्तरः । अन्यतरः प्रत्येकबुद्धस्तस्मिन्नुदपाने आहारकृत्यं कृत्वोदपानादुत्तीर्य वृक्षमूले पर्यङ्केण निषण्णः । तस्य गन्धेन मृगास्तस्मिन्नुदपाने (आव्७०) नाभ्यागताः । स लुब्ध आगत्य पश्यति नैव मृगा उदपानमभ्यागताः । पदानुसारेण च तं प्रत्येकबुद्धमभिगतः । दृष्ट्वा चास्य बुद्धिरुत्पन्ना । अनेनैष आदीनव उत्पादितः । तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः ।

किं मन्यध्वे आयुष्मन्तः । योऽसौ लुब्धः स एष वितशोकः । यत्रानेन मृगाः प्रघातितास्तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः ।

यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितस्तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्चजन्मशतनि मनुष्यषुपपन्नः शस्त्रेण प्रघातितः । तत्कर्मावशेषेणैतर्हि अर्हत्त्वप्राप्तोऽपि शस्त्रेण प्रघातितः ।

किं कर्म कृतं येन उच्चकुले उपपन्नः । अर्हत्त्वं च प्राप्तम् ।

स्थविर उवाच । काश्यपे सम्यक्सम्बुद्धे प्रव्रजितः । अभूत्प्रदानरुचिः । तेन दायकदानपतयः सङ्घभक्ताः कारापिताः । तर्पणानि यवागूपानानि निमन्त्रणाकानि [कारापितानि] स्तूपेषु च छत्राण्यवरोपितानि । ध्वजपताकागन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः । तस्य कर्मणो विपाकेनोच्चकुल उपपन्नः । यावद्दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक्प्रणिधानं कृतम् । तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति ।

इति श्रीदिव्यावदाने वीतशोकावदानमष्टाविंशतितमम् ।

(आव्७१)
कुनालावदानं
यशोऽमात्योपाख्यानं

स इदानीमचिरजातप्रसादो बुद्धाशासने यत्र शाक्यपुत्रीयान् ददर्श, आकीर्णे रहसि वा तत्र शिरसा पादयोर्निपत्य वन्दते स्म ।

तस्य च यशो नामामात्यः परमश्राद्धो भगवति । स तं राजानमुवाच ।

देव नार्हसि सर्वर्णप्रव्रजितानां प्रणिपातं कर्तुम् । सन्ति हि शाक्यश्रामणेरकाश्चतुर्भ्यो वर्णेभ्यः प्रव्रजिता इति । तस्य राजा न किंचिदवोचद् ।

अथ स राजा केनचित्कालान्तरेण सर्वसचिवानुवाच । विविधानां प्राणिनां शिरोभिः कार्यम् । तत्त्वममुकस्य प्राणिनः शीर्षमानय त्वममुकस्येति । यशोऽमात्यः पुनराज्ञप्तस्त्वं मानुषं शीर्षमानयेति । समानीतेषु च शीरःस्वभिहिताः । गच्छतेमानि शिरांसि मूल्येन विक्रीणिध्वमिति ।

अथ सर्वशिरांसि विक्रीतानि । तदेव मानुषं शिरो न कश्चिज्(आव्७२) जग्राह । ततो राज्ञाभिहितः । विनापि मूल्येन कस्मैचिदेतच्छिरो देहिति ।

न चास्य कश्चित्प्रतिग्राहको बभूव । ततो यशोऽमात्यस्तस्य शिरसः प्रतिग्राहकमनासाद्य सव्रीडो राजानमुपेत्येदमर्थमुवाच ।

गोगर्दभोरभ्रमृगद्विजानां मूल्यैर्गृहीतानि शिरांसि पुम्भिः ।
शिरस्त्विदं मानुषमप्रशस्तं न गृह्यते मूल्यमृतेऽपि राजन् ॥

अथ स राजा तममात्यमुवाच । किमिदमिति । इदं मानुषशिरो न कश्चिद्गृण्हातीति ।

अमात्य उवाच । जुगुप्सितत्वादिति । राजाब्रवीत् । किमेतदेव शिरो जुगुप्सितमाहोस्वित्सर्वमानुषशिरांसीति । अमात्य उवाच । सर्वमानुषशिरांसीति ।

राजाब्रवीत् । किमिदं मदीयमपि शिरो जुगुप्सितमिति । स च भयान्नेच्छति तस्माद्भूतार्थमभिधातुम् । स राज्ञाभिहितः । अमात्य सत्यमुच्यतामिति । स उवाच । एवमिति ।

ततः स राजा तममात्यं प्रतिज्ञायां प्रतिष्ठाप्य प्रत्यादिशन्निममर्थमुवाच । हं भो रूपैश्वर्यजनितमदविस्मित युक्तमिदं भवतः । यस्मात्त्वं भिक्षुचरणप्रणामं मां विच्छन्दयितुमिच्छसि ।

विनापि मूल्यैर्विजुगुप्सितत्वात्प्रतिग्रहीता भुवि यस्य नास्ति ।
शिरस्तदासाद्य ममेह पुण्यं यद्यर्जितं किं विपरीतमत्र ॥
(आव्७३)
जातिं भवान् पश्यति शाक्यभिक्षुष्वन्तर्गतांस्तेषु गुणान्न चेति ।
अतो भवान् जातिमदावलेपादात्मानमन्यांश्च हिनस्ति मोहात् ॥
आवाहकालेऽथ विवाहकाले जातेः परीक्षा न तु धर्मकाले ।
धर्मक्रियाया हि गुणा निमित्त गुणाश्च जातिं न विचारयन्ति ॥
यद्युच्चकुलीनगता दोषा गर्हां प्रयान्ति लोकेऽस्मिन् ।
कथमिव नीचजनगता गुणा न सत्कारमर्हन्ति ॥
चित्तवशेन हि पुंसां कडेवरं निन्द्यतेऽथ सत्क्रियते ।
शाक्यश्रमणमनांसि च शुद्धान्यर्चाम्यतः शाक्यान् ॥
यदि गुणपरिवर्जितो द्विजातिः पतित इति प्रथितोऽपि यात्यवज्ञाम् ।
ननु निधनकुलोद्गतोऽपि जन्तुः शुभगुणयुक्त इति प्रणम्यपूज्यः ॥

अपि च ।

किं ते कारुणिकस्य शाक्यवृषभस्यैतद्वचो न श्रुतं
प्राज्ञैः सारमसारकेभ्य इह यन्त्रेभ्यो ग्रहीतुं क्षमम् ।
तस्यानन्यथवादिनो यदि च तामाज्ञां चिकीर्षाम्यहं
व्याहन्तुं च भवान् यदि प्रयतते नैतत्सुहृल्लक्षणम् ॥
इक्षुक्षोदवदुज्झितो भुवि यदा कायो मम स्वप्स्यति
प्रत्युत्थाननमस्कृताञ्जलिपुटक्लेशक्रियास्वक्षमः ।
कायेनाहमनेन किन्नु कुशलं शक्ष्यामि कर्तुं तदा
तस्मान्न्वर्हमतः श्मशाननिधनात्सारं ग्रहीतुं मया ॥
(आव्७४)
भवनादिव प्रदीप्तान्निमज्जमानादिवाप्सु रत्ननिधेः ।
कायाद्विधाननिधनाद्ये सारं नाधिगच्छन्ति ॥
ते सारमपश्यन्तः सारासारेष्वकोविदाप्राज्ञाः ।
ते मरणमकरवदनप्रवेशसमये विषीदन्ति ॥
दधिघृतनवनीतक्षीरतक्रोपयोगाद्
वरमपहृतसारो मण्डकुम्भोवभग्नः ।
न भवति बहुश्चोच्यं यद्वदेवं शरीरं
सुचरितहृतसारं नैति शोकोऽन्तकाले ॥
सुचरितविमुखानां गर्वितानां यदा तु
प्रसभमिह हि मृत्यु कायकुम्भं भिनत्ति ।
दहति हृदयमेषां शोकवन्हिस्तदानीं
दधिघत इव भग्ने सर्वशोऽप्राप्तसारे ॥
कर्तुं विघ्नमतो न मेऽर्हति भवान् कायप्रणामं प्रति
श्रेष्ठोऽस्मीत्यपरीक्षको हि गणयन्मोहान्धकारावृतः ।
कायं यस्तु परीक्षते दशबलव्याहारदीपैर्बुधः
नासौ पार्थिवभृत्ययोर्विस[ष]मतां कायस्य संपश्यति ॥
त्वङ्मांसास्थिशिरायाकृत्प्रभृतो भावा हि तुल्या नृणां
आहार्यैस्तु विभूषणैरधिकता कायस्य निष्पाद्यते ।
एतत्सारमिहेष्यते तु यदिमं निश्रित्य कायाधमं
प्रत्युत्थाननमस्कृतादि कुशलं प्राज्ञैः समुत्थाप्यते ।
इति ।

राजाशोकोपाख्यानं

अथाशोको राजा हि क्षोदकसिकतापिण्डैरण्डकाष्ठेभ्योऽपि असारतरत्वं कायस्यावेत्य, प्रणामादिभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्, महापृथिवीभ्यः सारतरतामवेक्ष्य भगवतः (आव्७५) स्तूपवन्दनायामात्मानमलङ्कर्तुकामोऽमात्यगणपरिवृतः कुक्कुटारामं गत्वा तत्र वृद्धान्ते स्थित्वा कृताञ्जलिरुवाच ।

अस्ति कश्चिदन्योऽपि निर्दिष्टः सर्वदर्शिना ।
यथाहं तेन निर्दिष्टं पांशुदानेन धीमता ॥

तत्र यशो नाम्ना सङ्घस्थविर उवाच । अस्ति महाराज । यदा भगवतः परिनिर्वाणकालसमयस्तदापलालं नागं दमयित्वा कुम्भकारीं चण्डालीं गोपालीं च नागं च मथुरामनुप्राप्तः ।

तत्र भगवानायुष्मन्तमानन्दमामन्त्रयत । अस्यामानन्द मथुरायां वर्षशतपरिनिर्वृतस्य तथागतस्य गुप्तो नाम्ना गान्धिको भविष्यति । तस्य पुत्रो भविष्यत्युपगुप्तो नाम्ना अववादकानामग्रः अलक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति ।

पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम् । एवं भदन्त । एष आनन्द उरुमुण्डो नाम पर्वतोऽत्र वर्षशतपरिनिर्वृतस्य तथागतस्य नटभटिका नामारण्यायतनं भविष्यति । एतदग्रं मे (आव्७६) आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदुत नटभटिका नामारण्यायतनम् । आह च ।

अववादकानां प्रवर उपगुप्तो महायशाः ।
व्याकृतो लोकनाथेन बुद्धकार्यं करिष्यति ॥

राजाह ।

किं पुनः स शुद्धसत्त्व उपपन्नः । अथाद्यापि नोत्पद्यत इति । स्थविर उवाच । उत्पन्नः स महात्मा उरुमुण्डे पर्वते जितक्लेशोऽर्हद्गणैः परिवृतस्तिष्ठति लोकानुकम्पार्थम् । अपि च देव ।

सर्वज्ञलीलो हि स शुद्धसत्त्वो धर्मं प्रणीतं वदते गणाग्रे ।
देवासुरेन्द्रोरगमानुषांश्च सहस्रशो मोक्षपुरं प्रणेता ॥

तेन खलु समयेनायुष्मानुपगुप्तोऽष्टादशभिरर्हत्सहस्रैः परिवृतो नटभटिकारण्यायतने प्रतिवसति । श्रुत्वा च राजामात्यगणानाहूय कथयति ।

संनाह्यतां हस्तिरथाश्वकायः शीघ्रं प्रयास्याम्युरुमुण्डशैलम् ।
द्रक्ष्यामि सर्वास्रव विप्रमुक्तं साक्षदर्हन्तः ह्युपगुप्तमार्यम् ॥

ततोऽमात्यैरभिहितः । देव दूतः प्रेषयितव्यो विषयनिवासी स देवस्य स्वयमेवागमिष्यति । राजाह । नासावस्माक अर्हत्यभिगन्तुं किंतु वयमेवार्हामस्तस्याभिगन्तुम् । अपि च ।

(आव्७७)
मन्ये वज्रमयं तस्य देहं शैलोपमाधिकम् ।
शास्तृतुल्योपगुप्तस्य यो ह्याज्ञामाक्षिपेन्नरः ॥

यावद्राज्ञा स्थविरोपगुप्तस्य सकाशं दूतः प्रेषितः स्थविरदर्शनाय आगमिष्यामीति । स्थविरोपगुप्तश्चिन्तयति । यदि राजागमिष्यति महाजनकायस्य पीडा भविष्यति । गोचरस्य च । ततः स्थविरेणाभिहितम् । स्वयमेवागमिष्यामीति ।

ततो राज्ञा स्थविरोपगुप्तस्यार्थे नौयानेनागमिष्यतीति यावच्च मथुरां यावच्च पाटलिपुत्रमन्तरान्नौसङ्क्रमोऽवस्थापितः । अथ स्थविरोपगुप्तो राज्ञोऽशोकस्य अनुग्रहार्थमष्टादशभिरर्हत्सहस्रैः परिवृतो नावमभिरुह्य पाटलिपुत्रमनुप्राप्तः ।

ततो राजपुरुषै राज्ञोऽशोकस्य निवेदितम् । देव दिष्ट्या वर्धस्व । अनुग्रहार्थं तव सोपगुप्तश्चित्तेश्वरः शासनकर्णधारः पुरस्कृतस्तीर्णभवौघपारैः सार्धं समभ्यागत एष पभ्द्याम् ।

श्रुत्वा च राज्ञा प्रीतमनसा शतसहस्रमूल्यो मुक्ताहारः स्वशरीरादवनीय प्रियाख्यायिनो दत्तः । घाण्टिकं चाहूय कथयति । घूष्यन्तां पातलिपुत्रे घण्टाः । स्थविरोपगुप्तस्यागमनं निवेद्यताम् । वक्तव्यम् ।

(आव्७८)

स्वर्गापवर्गाय च हेतुभूतं स पश्यतां कारुणिकोपगुप्तम् ॥
येभिर्न दृष्टो द्विपदप्रधानः शास्ता महाकारुणिकः स्वयम्भूः ।
ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्त्युदारं त्रिभवप्रदीपम् ॥

यावद्राज्ञा पाटलिपुत्रे घण्टां घोषयित्वा नगरशोभां च कारयित्वा अर्धतृतीयानि योजनानि गत्वा सर्ववाद्येन सर्वपुष्पगन्धमाल्येन सर्वपौरैः सर्वमात्यैः सह स्थविरोपगुप्तं प्रत्युद्गतः ।

ददर्श राजा स्थविरोपगुप्तं दुरत एव अष्टादशभिरर्हत्सहस्रैरर्धचन्द्रेणोपगुप्तम् । यदन्तरं च राजा स्थविरोपगुप्तमद्राक्षीत्तदन्तरं हस्तिस्कन्धादवतीर्य पद्भ्यां नदीतिरमभिगम्य एकं पादं नदीतीरे स्थाप्य द्वितीयं नौफलके स्थविरोपगुप्तं सर्वाङ्गेणानुपरिगृह्य नाव उत्तारितवान् । उत्तार्य च मूलनिकृत्त इव द्रुमः सर्वशरीरेणोपगुप्तस्य पादयोर्निपतितो मुखतुण्डकेन च पादावनुपरिमार्ज्य उत्थाय द्वौ जानुमण्डलौ पृथिवीतले निक्षिप्य कृताञ्जलिः स्थविरोपगुप्तं निरीक्षमाण उवाच ।

यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला ।
एकातपत्रा पृथिवी तदा मे प्रीतिर्न सा या स्थविरं निरीक्ष्य ॥
(आव्७९)
त्वद्दर्शनां मे द्विगुणप्रसादः संजायतेऽस्मिन् वरशासनाग्रे ।
त्वद्दर्शनाच्चैव परोपि शुद्धो दृष्टो मयाद्य अप्रतिमः स्वयम्भूः ॥

अपि च ।

शान्तिंगते कारुणिके जिनेन्द्रे त्वं बुद्धकार्यं कुरुषे त्रिलोके ।
नष्टे जगन्मोहनमीलिताक्षे त्वमर्कवज्ज्ञानवभासकर्ता ॥
त्वं शास्तृकल्पो जगदेकचक्षुरववादकानां प्रवरः शरण्यम् ।
विभो ममाज्ञां वद शीघ्रमद्य कर्तास्मि वाक्यं तव शुद्धसत्त्व ॥

अथ स्थविरोपगुप्तो दक्षिणेन पाणिना राजानं शिरसि परिमार्जयन्नुवाच ।

अप्रमादेन संपाद्य राजैश्वर्यं प्रवर्तताम् ।

अपि च महाराज तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन तव च मम शासनमुपन्यस्तं सत्त्वसारथिवरेण गणमध्ये परीत्तं परिपाल्यं यत्नतोऽस्माभिः । राजाह । स्थविर यथाहं निर्दिष्टो भगवता तदेवानुष्ठीयते । कुतः ।

स्तूपैर्विचित्रैर्गिरिश्रृङ्गकल्पैश्छत्रध्वजैश्चोच्छ्रितरत्नचित्रैः ।
संशोभिता मे पृथिवी समन्ताद्वैस्तारिका धातुधराः कृताश्च ॥

(आव्८०)
अपि च ।

आत्मा पुत्रो गृहं दाराः पृथिवी कोशमेव च ।
न किञ्चिदपरित्यक्तं धर्मराजस्य शासने ॥

स्थविरोपगुप्त आह । साधु साधु महाराज । एतदेवानुष्ठेयम् । कुतः ।

ये धर्ममुपजीवन्ति कायैर्भोगैश्च जीवितैः ।
गते काले न शोचन्ति इष्टं यान्ति सुरालयम् ॥

यावद्राजा महता श्रीसमुदयेन स्थविरोपगुप्तं राजकुले प्रवेशयित्वा सर्वाङ्गेणानुपरिगृह्य प्रज्ञप्त एवासने निषादयामास । स्थविरोपगुप्तस्य शरीरं मृदु सुमृदु । तद्यथा तूलपिशुर्वा कर्पासपिशुर्वा ।

अथ राजा स्थविरोपगुप्तस्य शरीरसंस्पर्शमवगम्य कृताञ्जलिरुवाच ।

मृदूनि तेऽङ्गानि उदारसत्त्व तूलोपमाङ्गं काशिकोपमं च ।
अहं त्वधन्यः खरकर्कशाङ्गो निःस्पर्शगात्रः परुषाश्रयश्च ॥

स्थविर उवाच ।

दानं मनापं सुशुभं प्रणितं दत्तं मया ह्यप्रतिपुद्गलस्य ।
न पांशुदानं हि मया प्रदत्तं यथा त्वयादायि तथागतस्य ॥

राजाह । स्थविर ।

बालभावादहं पूर्वं क्षेत्रं प्राप्य ह्यनुत्तरम् ।
पांशून् रोपितवांस्तत्र फलं यस्येदृशं मम ॥

(आव्८१)
अथ स्थविरो राजानं संहर्षयन्नुवाच । महाराज ।

पश्य क्षेत्रस्य माहात्म्यं पांशुर्यत्र विरुह्यते ।
राजश्रीर्येन ते प्राप्ता आधिपत्यमनुत्तरम् ॥
श्रुत्वा च राजा विस्मयोत्फुल्लनेत्रः अमात्यानाहूयोवाच ।
बलचक्रवर्तिराज्यं प्राप्तं मे पांशुदानमात्रेण ।
केन भगवन् भवन्तो नार्चयितव्यः प्रयत्नेन ॥

अथ राजा स्थविरोपगुप्तस्य पादयोर्निपत्योवाच । स्थविरोऽयं मे मनोरथो ये भगवता बुद्धेन प्रदेशा अद्युषितास्तानर्चेयम् । चिन्हानि च कुर्यां पश्चिमस्यां जनतायामनुग्रहार्थम् ।

स्थविर उवाच । साधु महाराज शोभनस्ते चित्तोत्पादः । अहं प्रदर्शयिष्याम्यधुना ।

बुद्धेनाध्युषिता देशास्तान्नमस्ये कृताञ्जलिः ।
गत्वा चिन्हानि तेष्वेव करिष्यामि न संशयः ॥

अथ राजा चतुरङ्गबलकायं संनाह्य गन्धमाल्यपुष्पमादाय स्थविरोपगुप्तसहायः संप्रस्थितः । अथ स्थविरोपगुप्तो राजानमशोकं सर्वप्रथमेन लुम्बिनीवनं प्रवेशयित्वा दक्षिणं हस्तमभिप्रसार्योवाच । अस्मिन्महाराज प्रदेशे भगवान् जातः । आह च ।

इदं हि प्रथमं चैत्यं बुद्धस्योत्तमचक्षुषः ।
जातमात्रेह स मुनिः प्रक्रान्तः सप्तपदं भुवि ॥
(आव्८२)
चतुर्दिशमवलोक्य वाचं भाषितवान् पुरा ।
इयं मे पश्चिमा जातिर्गर्भवासश्च पश्चिमः ॥

अथ राजा सर्वशरीरेण तत्र पादयोर्निपत्योत्थाय कृताञ्जलिः प्ररुदन्नुवाच ।
धन्यास्ते कृतपुण्याश्च यैर्दृष्टः स महामुनिः ।
प्रजातः संश्रुता यैश्च वाचस्तस्य मनोरमाः ॥

अथ स्थविरो राज्ञः प्रसादबुद्ध्यर्थमुवाच । महाराज किं द्रक्ष्यसि तां देवताम् ।

यया दृष्टः प्रजायन् स वनेऽस्मिन् वदतां वरः ।
क्रममाणः पदान् सप्त श्रुत्वा वाचो यया मुनेः ॥

राजाह । परं स्थविर द्रक्ष्यामि । अथ स्थविरोपगुप्तो यस्य वृक्षस्य शाखामवलम्बय देवी महामाया प्रसूता तेन दक्षिणहस्तमभिप्रसार्य उवाच ।

नैवासिका य इहाशोकवृक्षे सम्बुद्धदर्शिनी या देवकन्या ।
साक्षादसौ दर्शयतु स्वदेहं राज्ञो ह्यशोकस्य प्रसादवृद्ध्यै ॥

यावत्सा देवता स्वरूपेण स्थविरोपगुप्तसमीपे स्थित्वा कृताञ्जलिरुवाच । स्थविर किमाज्ञापयसि । अथ स्थविरो राजानमशोकमुवाच । महाराज इयं सा देवता ययां दृष्टो भगवाञ्जायमानः । अथ राजा कृताञ्जलिस्तां देवतामुवाच ।

दृष्ट्स्त्वया लक्षणभूषिताङ्गः प्रजायमानः कमलायताक्षः ।
श्रुतास्त्वया तस्य नरर्षभस्य वाचो मनोज्ञाः प्रथमा वनेऽस्मिन् ॥

(आव्८३)
देवता प्राह ।

मया हि दृष्टः कनकावदातः प्रजायमानो द्विपदप्रधानः ।
पादानि सप्त क्रममाण एव श्रुताश्च वाचा अपि तस्य शास्तुः ॥

राजाह । कथय देवते कीदृशी भगवतो जायमानस्य श्रीर्बभूवेति । देवता प्राह । न शक्यं मया वाग्भिः संप्रकाशयितुमपि तु संक्षेपतः श्रृणु ।

विनिर्मिताभा कनकावदाता सैन्द्रे त्रिलोके नयनाभिरामा ।
ससागरान्ता च मही सशैला महार्णवस्था इव नौश्चचाल ॥

यावद्राज्ञा जात्यां शतसहस्रं दत्तम् । चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः । अथ स्थविरोपगुप्तो राजानं कपिलवस्तु निवेशयित्वा दक्षिणहस्तमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज बोधिसत्त्वो राज्ञः शुद्धोदनस्योपनामितः । तं द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरमसेचनकदर्शनं च दृष्ट्वा राजा सर्वशरीरेण बोधिसत्त्वस्य पदयोर्निपतितः ।

इदं महाराज शाक्यवर्धं नाम देवकुलम् । अत्र बोधिसत्त्वो जातमात्र उपनीतो देवमर्चयिष्यतीति । सर्वदेवता च बोधिसत्त्वस्य पादयोर्निपतिता । ततो राज्ञा शुद्धोदनेन बोधिसत्त्वो देवतानामप्ययं देव इति तेन बोधिसत्त्वस्य देवातिदेव इति नामधेयं कृतम् । अस्मिन् प्रदेशे महाराज बोधिसत्त्वो ब्राह्मणानां नैमित्तिकानां विपश्चिकानामुपदर्शितः । अस्मिन् प्रदेशेऽसितेन ऋषिणा निर्दिष्टो बुद्धो लोके भविष्यतीति ।

(आव्८४)
अस्मिन् प्रदेशे महाराज महाप्रजापत्या संवर्धितः । अस्मिन् प्रदेशे लिपिज्ञानं शिक्षापितः । अस्मिन् प्रदेशे हस्तिग्रीवायामश्वपृष्ठे रथे शरधनुग्रहे तोमरग्रहेऽङकुशग्रहे कुलानुरूपासु विद्यासु पारगः संवृतः । इयं बोधिसत्त्वस्य व्यायामशाला बभूव । अस्मिन् प्रदेशे महाराज बोधिसत्त्वो देवताशतसहस्रैः परिवृतः षष्टिभिः स्त्रीसहस्रैः सार्धं रतिमनुभूतवान् ।

अस्मिन् प्रदेशे बोधिसत्त्वो जीर्णातुरमृतसंदर्शनोद्विग्नो वनसंश्रितः । अस्मिन् प्रदेशे जम्बुच्छायायां निषद्य विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखमनास्रवसदृशं प्रथमध्यानं समापन्नः । अथ परिणते मध्यान्हेऽतिक्रान्ते भक्तकालसमयेऽन्येषां वृक्षाणां छाया प्राचीननिम्ना प्राचीनप्रवणा प्राचीनप्राग्भारा जम्बुच्छाया बोधिसत्त्वस्य कायं न जहाति । दृष्ट्वा च पुनर्राजा शुद्धोदनः सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतिताः । अनेन द्वारेण बोधिसत्त्वो देवताशतसहस्रैः परिवृतोऽर्धरात्रे कपिलवस्तुनो निर्गतः ।

अस्मिन् प्रदेशे बोधिसत्त्वेन छन्दकस्याश्वमाभरणानि च दत्त्वा प्रतिनिवर्तितः । आह च ।

छन्दकाभरणान्यश्वश्चास्मिन् प्रतिनिवर्तितः ।
निरुपस्थायको वीरः प्रविष्टैकस्तपोवनम् ॥

(आव्८५)
अस्मिन् प्रदेशे बोधिसत्त्वो लुब्धकसकाशात्काशिकैर्वस्त्रैः काषायाणि वस्त्राणी ग्रहाय प्रव्रजितः । अस्मिन् प्रदेशे भार्गवेणाश्रमेणोपनिमन्त्रितः । अस्मिन् प्रदेशे बोधिसत्त्वो राज्ञा बिम्बिसारेणार्धराज्येनोपनिमन्त्रितः । अस्मिन् प्रदेशे आराडोद्रकमभिगतः । आह च ।

उद्रकाराडका नाम ऋषयोऽस्मिन् तपोवने ।
अधिगतार्यसत्त्वेन पुरुषेन्द्रेण तापिताः ॥

अस्मिन् प्रदेशे बोधिसत्त्वेन षड्वर्षाणि दुष्करं चीर्णम् । आह च ।

षड्वर्षाणि हि कटुकं तपस्तप्त्वा महामुनिः ।
नायं मार्गो ह्यभिज्ञाया इति ज्ञात्वा समत्यजत् ॥

अस्मिन् प्रदेशे बोधिसत्त्वेन नन्दाया नन्दबलायाश्च ग्रामिकदुहित्रोः सकाशात्षोडशगुणितं मधुपायसं परिभुक्तम् ।

आह च ।

अस्मिन् प्रदेशे नन्दाया भुक्त्वा च मधुपायसम् ।
बोधिमूलं महावीरो जगाम वदतां वरः ॥

अस्मिन् प्रदेशे बोधिसत्त्वः कालिकेन नागराजेन बोधिमूलमभिगच्छन् संस्तुतः ।

(आव्८६)
आह च ।

कालिकभुजगेन्द्रेण संस्तुतो वदतां वरः ।
प्रयातोऽनेन मार्गेण बोधिमण्डेऽमृतार्थिकः ॥

अथ राजा स्थविरस्य पादयोर्निपत्य कृताञ्जलिरुवाच

अपि पश्येम नागेन्द्रं येन दृष्टस्तथागतः ।
व्रजानोऽनेन मार्गेण मत्तनागेन्द्रविक्रमः ॥

अथ कालिको नागराजः स्थविरसमीपे स्थित्वा कृताञ्जलिरुवाच । स्थविर किमाज्ञापयसीति । अथ स्थविरो राजानमुवाच । अयं स महाराज कालिको नागराजा येन भगवाननेन मार्गेण बोधिमूलं निर्गच्छन् संस्तुतः । अथ राजा कृताञ्जलिः कलिकं नागराजमुवाच ।

दृष्टस्त्वया ज्वलितकाञ्चनतुल्यवर्णः शास्ता ममाप्रतिसमः शरदेन्दुवक्त्रः ।
आख्याहि मे दशबलस्य गुणैकदेशं तत्कीदृशी वद हि श्रीः सुगते तदानीम् ॥

कालिक उवाच । न शक्यं वाग्भिः संप्रकाशयितुमपि तु संक्षेपं शृणु ।

चरणतलपराहतः सशैलो ह्यवनितलः प्रचचाल षड्विकारम् ।
रविकिरणविभाधिका नृलोके सुगतशशिद्युतिरक्षया मनोज्ञा ॥

(आव्८७)
यावद्राजा चैत्यं प्रतिष्ठाप्य प्रक्रान्तः । अथ स्थविरोपगुप्तो राजानं बोधिमूलमुपनामयित्वा दक्षिणं करमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज बोधिसत्त्वेन महामैत्रीसहायेन सकलं मारबलं जित्वानुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धा । आह च ।

इह मुनिवृषभेण बोधिमूले नमुचिबलं विकृतं निरस्तमाशु ।
इदममृतमुदारमग्र्यबोधि ह्यधिगतमप्रतिपुद्गलेन तेन ॥

यावद्राज्ञा बोधौ शतसहस्रं दत्तम् । चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः । अथ स्थविरोपगुप्तो राजानमशोकमुवाच । अस्मिन् प्रदेशे भगवान् चतुर्णां महाराजानां सकाशाच्चत्वारि शैलमयानि पात्राणि ग्रहाय एकपात्रमधियुक्तम् । अस्मिन् प्रदेशे त्रपुषभल्लिकयोर्वणिजोरपि पिण्डपात्रं प्रतिगृहीतम् । अस्मिन् प्रदेशे भगवान् वाराणसीमभिगच्छनुपगणेनाजीविकेन संस्तुतः । यावत्स्थविरो राजानमृषिपतनमुपनीय दक्षिणं हस्तमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज भगवता त्रिपरिवर्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तितम् । आह च ।

शुभं धर्ममयं चक्रं संसारविनिवर्तये ।
अस्मिन् प्रदेशे नाथेन प्रवर्तितमनुत्तरम् ॥

अस्मिन् प्रदेशे जटिलसहस्रं प्रव्राजितम् । अस्मिन् प्रदेशे राज्ञो बिम्बिसारस्य धर्मं देशितम् । राज्ञा च बिम्बिसारेण सत्यानि दृष्टानि (आव्८८) चतुरशीतिभिश्च देवतासहस्रैरनेकैश्च मागधकैर्ब्राह्मणगृहपतिसहस्रैः । अस्मिन् प्रदेशे भगवता शक्रस्य देवन्द्रस्य धर्मो देशितः । शक्रेण च सत्यानि दृष्टानि चतुरशीतिभिश्च देवतासहस्रैः । अस्मिन् प्रदेशे महाप्रातिहार्यं विदर्शितम् । अस्मिन् प्रदेशे भगवान् देवेषु त्रयास्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः अवतीर्णः । विस्तरेण यावत्स्थविरो राजानमशोकं कुशिनगरीमुपनामयित्वा दक्षिणं करतलमभिप्रसार्योवाच । अस्मिन् प्रदेशे महाराज भगवान् सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । आह च ।

लोकं सदेवमनुजासुरयक्षनागमक्षय्यधर्मविनये मतिमान् विनीय ।
वैनेयसत्त्वविरहादुपशान्तबुद्धिः शान्तिं गतः परमकारुणिको महर्षिः ॥

श्रुत्वा च राजा मूर्च्छितः पतितः । यावज्जलपरिषेकं कृत्वोत्थापितः । अथ राजा कथंचित्संज्ञामुपलभ्य परिनिर्वाणे शतसहस्रं दत्त्वा चैत्यं प्रतिष्ठाप्य पादयोर्निपत्योवाच । स्थविर अयं मे मनोरथो ये च भगवता श्रावका अग्रतायां निर्दिष्टास्तेषां शरीरपूजां करिष्यामीति । स्थविर उवाच । साधु साधु महाराज । शोभनस्ते चित्तोत्पादः । स्थविरो राजानमशोकं जेतवनं प्रवेशयित्वा दक्षिणं करमभिप्रसार्योवाच । अयं महाराज स्थविरशारिपुत्रस्य स्तूपः । क्रियतामस्यार्चनमिति । राजाह । के तस्य गुणा बभूवुः । स्थविर उवाच । स हि द्वितीयशास्ता धर्मसेनाधिपतिर्धर्मचक्रप्रवर्तनः प्रज्ञावतामग्रो निर्दिष्टो भगवता ।

(आव्८९)
सर्वलोकस्य या प्रज्ञ स्थापयित्वा तथागतम् ।
शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशीम् ॥

आह च ।

सद्धर्मचक्रमतुलं यज्जिनेन प्रवर्तितम् ।
अनुवृत्तं हि तत्तेन शारिपुत्रेण धीमता ॥
कस्तस्य साधु बुद्धादन्यः पुरुषः शारद्वतस्येह ।
ज्ञात्वा गुणगणनिधिं वक्तुं शक्नोति निरवशेषात् ॥

ततो राजा प्रीतमनाः स्थविरशारद्वतीपुत्रस्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच ।
शारद्वतीपुत्रमहं भक्त्त्या वन्दे विमुक्तभवसङ्गम् । लोकप्रकाशकिर्तिं ज्ञानवतामुत्तमं वीरम् ॥

यावत्स्थविरोपगुप्तः स्थविरमहामौद्गल्यायनस्य स्तूपमुपदर्शयन्नुवाच । अयं महाराज स्थविरमहामौद्गल्यायनस्य स्तूपः । क्रियतामस्यार्चनमिति । रजाह । केतस्य गुणा बभूवुरिति । स्थविर उवाच । स हि ऋद्धिमतामग्रो निर्दिष्टो भगवता येन दक्षिणेन पादाङगुष्ठेन शक्रस्य देवेन्द्रस्य वैजयन्तः प्रासादः प्रकम्पितो नन्दोपनन्दौ नागराजानौ विनीतौ । आह च ।

शक्रस्य येन भवनं पादाङगुष्ठेन कम्पितम् ।
पूजनीयः प्रयत्नेन कोलितः स द्विजोत्तमः ॥
भुजगेश्वरौ प्रतिभयौ दान्तौ येनातिदुर्दमौ लोके ।
कस्तस्य शुद्धबुद्धेः पारं गच्छेद्गुणार्णवस्य ॥

यावद्राजा महामौद्गल्यायनस्य स्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच ।

(आव्९०)
ऋद्धिमतामग्रो यो जन्मजराशोकदुःखनिर्मुक्तः ।
मौद्गल्यायनं वन्दे मूर्ध्ना प्रणिपत्य विख्यातम् ॥

यावत्स्थविरोपगुप्तः स्थविरमहाकाश्यपस्य स्तूपमुपदर्शयन्नुवाच । अयं महाराज स्थविरमहाकाश्यपस्य स्तूपः । क्रियतामस्यार्चनमिति । राजाह । के तस्य गुणा बभूवुः । स्थविरोवाच । स हि महात्मापेच्छान्नां सन्तुष्टानां धूपगुणवादिनामग्रो निर्दिष्टो भगवता, अर्धासनेनोपनिमन्त्रितः श्वेतचीवरेणाच्छादितो दीनातुरग्राहकः शासनसंधरकश्चेति । आह च ।

पुण्यक्षेत्रमुदारं दीनातुरग्राहको निरायासः ।
सर्वज्ञचीवरधरः शासनसंधारको मतिमान् ॥
कस्तस्य गुरोर्मनुजो वक्तुं शक्तो गुणान्निरवशेषान् ।
आसनवरस्य सुमतिर्यस्य जिनो दत्तवानर्धम् ॥

ततो राजाशोकः स्थविरमहाकाश्यपस्य स्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच ।

पर्वतगुहानिलयमरणं वैरपराङमुखं प्रशमयुक्तम् ।
सन्तोषगुणविवृद्दं वन्दे खलु काश्यपं स्थविरम् ॥

यावत्स्थविरोपगुप्तः स्थविरबत्कुलस्य स्तूपं दर्शयन्नुवाच । अयं महाराज स्थविरबत्कुलस्य स्तूपः । क्रियतामर्चनमिति । राजाह । केतस्य गुणा बभूवुरिति ।

(आव्९१)
स्थविर उवाच । स महात्माल्पबाधानामग्रो निर्दिष्टो भगवता । अपि च न तेन कस्यचिद्द्विपदिका गाथा श्राविता । राजाह । दीयतामत्र काकणिः । यावदमात्यैरभिहितः । देव किमर्थं तुल्येष्ववस्थितेष्वत्र काकणी दीयत इति । राजाह । श्रूयतामत्राभिप्रायो मम ।

आज्ञाप्रदीपेन महोगृहस्थं हृतं तमो यद्यपि तेन कृत्स्नम् ।
अल्पेच्छभावान्न कृतं हि तेन यथा कृतं सत्त्वहितं तदन्यैः ॥

सा प्रत्याहता तस्यैव राज्ञः पादमूले निपतिता । यावदमात्या विस्मिता ऊचुः । अहो तस्य महात्मनोऽल्पेच्छता । बभूवानयाप्यनर्थी ।

यावत्स्थविरोपगुप्तः स्थविरानन्दस्य स्तूपमुपदर्शयन्नुवाच । अयं स्थविरानन्दस्य स्तूपः । क्रियतामस्यार्चनमिति । राजाह । के तस्य गुणा बभूवुरिति । स्थविर उवाच । स हि भगवत उपस्थायको बभूव । बहुश्रुतानामग्र्यो प्रवचनग्राहकश्चेति । आह च ।
मुनिपात्ररक्षणपटुः स्मृतिधृतिमतिनिश्चितः श्रुतसमुद्रः ।
विस्पष्टमधुरवचनः सुरनरमहिंतः सदानन्दः ॥
सम्बुद्धचित्तकुशलः सर्वत्र विचक्षणो गुणकरण्डः ।
जिनसंस्तुतो जितरणः सुरनरमहितः सदानन्दः ॥

(आव्९२)
यावद्राज्ञा तस्य स्तूपे कोटिर्दत्ता । यावदमात्यैरभिहितः । किमर्थमयं देव सर्वेषां सकाशादधिकतरं पूज्यते ।

राजाह । श्रूयतामभिप्रायः ।

यत्तच्छरीरं वदतां वरस्य धर्मात्मनो धर्ममयं विशुद्धम् ।
तद्धारितं तेन विशोकनाम्ना तस्माद्विशेषेण स पूजनीयः ॥
धर्मप्रदीपो ज्वलति प्रजासु क्लेशान्धकारान्तकरो यदद्य ।
तत्तत्प्रभावात्सुगतेन्द्रसूनोस्तस्माद्विशेषेण स पूजनीयः ॥
यथा सामुद्रं सलिलं समुद्रैर्धार्येत कच्चिन्न हि गोष्पदेन ।
नाथेन तद्धर्ममवेक्ष्य भावं सूत्रान्तकोऽयं स्थविरोऽभिषिक्तः ॥

अथ राजा स्थविराणां स्तूपार्चनं कृत्वा स्थविरोपगुप्तस्य पादयोर्निपत्य प्रीतिमना उवाच ।

मानुष्यं सफलीकृतमृतुशतैरिष्टेन यत्प्राप्यते
राज्यैश्वर्यगुणैश्चलैश्च विभवैः सारं गृहीतं परम् ।
लोकं चैत्यशतैरलङ्कृतमिदं स्वेताभ्रकूटप्रभैः
अस्याद्याप्रतिमस्य शासनकृते किं नो कृतं दुष्करम् ॥
इति ॥

(आव्९३)
यावद्राजा स्थविरोपगुप्तस्य प्रणामं कृत्वा प्रक्रान्तः ।

यावद्राज्ञाशोकेन जातौ बोधौ धर्कचक्रे परिनिर्वाणे एकैकशतसहस्रं दत्तम् । तस्य बोधौ विशेषतः प्रसादो जात इह भगवतानुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धेति । स यानि विशेषयुक्तानि रत्नानि तानि बोधिं प्रेषयति ।

अथ राज्ञोऽशोकस्य तिष्यरक्षिता नामाग्रमहिषी । तस्या बुद्धिरुत्पन्ना । अयं राजा मया सार्धं रतिमनुभवति विशेषयुक्तानि च रत्नानि बोधौ प्रेषयति । तया मातङ्गी व्याहरिता । शक्यसि त्वं बोधिं मम सपत्नीं प्रघातयितुम् । तयाभिहितम् । शक्ष्यामि किन्तु कार्षापणान् देहीति ।

यावन्मातङ्ग्या बोधिवृक्षो मन्त्रैः परिजप्तः सूत्रं च बद्धम् । यावद्बोधिवृक्षः शोष्टुमारब्धः । ततो राजपुरुषै राज्ञे निवेदितम् । देव बोधिवृक्ष शुष्यत इति । आह च ।

यत्रोपविष्टेन तथागतेन कृत्स्नं जगब्दुद्धमिदं यथावद् ।
सर्वज्ञता चाधिगता नरेन्द्र बोधिद्रुमोऽसौ निधनं प्रयाति ॥

श्रुत्वा च राजा मुर्च्छितो भूमौ पतितः । यावज्जलसेकं दत्त्वा उत्थापितः । अथ राजा कथंचित्संज्ञामुपलभ्य प्ररुदन्नुवाच ।
दृष्ट्वा न्वहं तं द्रुमराजमूलं जानामि दृष्टोऽद्य मया स्वयम्भूः ।
नाथद्रूमे चैव गते प्रणाशं प्राणाः प्रयास्यन्ति ममापि नाशम् ।

(आव्९४)
अथ तिष्यरक्षिता राजानं शोकार्तमवेक्ष्योवाच । देव, यदि बोधिर्न भविष्यत्यहं देवस्य रतिमुत्पादयिष्यामि । राजाह । न सा स्त्री अपि तु बोधिवृक्षः । स यत्र भगवतानुत्तरा सम्यक्सम्बोधिरधिगत । तिष्यरक्षिता मातङ्गीमुवाच । शक्यसि त्वं बोधिवृक्षं यथापौराणमवस्थापयितुम् । मातङ्गी आह । यदि तावत्प्राणणुकमवशिष्टं भविष्यति, यथापौराणमवस्थापयिष्यामीति ।

विस्तरेण यावत्तया सूत्रं मुक्त्वा वृक्षं सामन्तेन खनित्वा दिवसे क्षीरकुम्भसहस्रेण पाययति । यावदल्पैरहोभिर्यथापौराणः संवृत्तः । ततो राजपुरुषै राज्ञे निवेदितम् । देव, दिष्ट्या वर्धस्व । यथापौराणः संवृत्तः । श्रुत्वा च प्रीतिमना बोधिवृक्षं निरीक्षमाण उवाच ।

बिम्बिसारप्रभृतिभिः पार्थिवेन्द्रैर्द्युतिन्धरैः ।
न कृतं तत्करिष्यामि सत्कारद्वयमुत्तमम् ॥
बोधिं च स्नापयिष्यामि कुम्भैर्गन्धोदकाकुलैः ।
सङ्घस्य च करिष्यामि सत्कारं पञ्चवार्षिकः ॥

अथ राजा सौवर्णरूप्यवैडूर्यस्फटिकमयानां कुम्भानां सहस्रं गन्धोदकेन पूरयित्वा प्रभूतं चान्नपानं समुदानीय गन्धमाल्यपुष्पसञ्चयं कृत्वा स्नात्वाहतानि वासांसि नवानि दीर्घदशानि प्रावृत्याष्टाङ्गसमन्वागतमुपवासमुपोष्य धूपकटच्छुकमादाय शरणतलमभिरुह्य (आव्९५) चतुर्दिशमायाचितुमारब्धः । ये भगवतो बुद्धस्य श्रावकास्ते ममानुग्रहायागच्छन्तु ।

अपि च ।

सम्यग्गता ये सुगतस्य शिष्याः शान्तेन्द्रिया निर्जितकामदोषाः ।
सम्माननार्हा नरदेवपूजिता अयान्तु तेऽस्मिन्ननुकम्पया मम ॥
प्रशमदमरता विमुक्तसङ्गाः प्रवरसुताः सुगतस्य धर्मराजाः ।
असुरसुरनरार्चितार्यवृत्तास्त्विह मदनुग्रहणात्समभ्युपेयुः ॥
वसन्ति काश्मीरपुरे सुरम्ये ये चापि धीरास्तमसोवनेऽस्मिन् ।
महावने रेवतके य आर्या अनुग्रहार्थं मम तेऽभ्युपेयुः ॥
अनवतप्तह्रदे निवसन्ति ये गिरिनदीषु च पर्वतकन्दरेः ।
जिनसुताः खलु ध्यानरताः सदा समुदयन्त्विह तेऽद्य कृपाबलाः ॥
शईरीषके ये प्रवरे विमाने वसन्ति पुत्रा वदतां वरस्य ।
अनुग्रहार्थं मम ते विशोका ह्यायान्तु कारुण्यनिविष्टभावाः ॥
गन्धमादनशैले च ये वसन्ति महौजसः ।
इहायान्तु हि कारुण्युमुत्पाद्योपनिमन्त्रिताः ॥

(आव्९६)
एवमुक्ते च राज्ञि त्रीणि शतसहस्राणि भिक्षूणां संनिपतितानि । तत्रैकं शतसहस्रमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च । न कश्चिद्वृद्धासनमाक्रम्यते स्म । राजाह । किमर्थं वृद्धासनं तन्नाक्रम्यते । तत्र यशो नाम्ना वृद्धः षडभिज्ञः । स उवाच । महाराज वृद्धस्य तदासनमिति । राजाह । अस्ति स्थविर त्वत्सकाशादन्यो वृद्धतर इति । स्थविर उवाच । अस्ति महाराज । वदतां वरेण वशिना निर्दिष्टः सिंहनादिनामग्र्यः । पिण्डोलभरद्वाजस्यैतदग्रासनं नृपते ।

अथ राजा कदम्बपुष्पवदाहृष्टरोमकूपः कथयति । अस्ति कश्चिद्बुद्धदर्शी भिक्षुर्घ्रियत इति ।

स्थविर उवाच । अस्ति महारज पिण्डोलभरद्वाजो नाम्ना बुद्धदर्शी तिष्ठत इति ।

राजा कथयति । स्थविर, शक्यः सोऽस्माभिर्दृष्टिमिति । स्थविर उवाच । महाराज इदानीं द्रक्ष्यसि । अयं तस्य आगमनकाल इति । अथ राजा प्रीतिमाना उवाच ।
लाभः परः स्यादतुलो ममेह महासुखश्चायमनुत्तमश्च ।
पश्याम्यहं यत्तमुदारसत्त्वं साक्षाद्भरद्वाजसगोत्रनाम ॥

ततो राजा कृतकरपुटो गगनतलावसक्तदृष्टिरवस्थितः । अथ स्थविरपिण्डोलभरद्वाजोऽनेकैरर्हत्सहस्रैरर्धचन्द्राकारेणोपगूढो राजहंस (आव्९७) इव गगनतलादवतीर्य वृद्धान्ते निषसाद् । स्थविरपिण्डोलभरद्वाजं दृष्ट्वा तान्यनेकानि भिक्षुशतसहस्राणि प्रत्युपस्थितानि ।

अद्राक्षीद्राजा पिण्डोलभरद्वाजं श्वेतपलितशिरसं प्रलम्बुभ्रूललाटं निगूढाक्षितारकं प्रत्येकबुद्धाश्रयम् । दृष्ट्वा च राजा मूलनिकृत्त इव द्रुमः सर्वशरीरेण स्थविरपिण्डोलभरद्वाजस्य पादयोः पतितः । मुखतुण्डकेन च पादावनुपरिमार्ज्योत्थाय तौ जानुमण्डलौ पृथिवीतले प्रतिष्ठाप्य कृताञ्जलिः स्थविरपीण्डोलभरद्वाजं निरीक्षमाणः प्ररुदन्नुवाच ।

एकातपत्रा पृथिवी तदा मे प्रीतीर्न सा या स्थविरं निरीक्ष्य ॥

त्वद्दर्शनाद्भवति दृष्टोऽद्य तथागतः । करुणालाभात्त्वद्दर्शनाच्च द्विगुणप्रसादो ममोत्पन्नः । अपि च स्थविर दृष्टस्ते त्रैलोक्यनाथो गुरुर्मे भगवान् बुद्ध इति । ततः स्थविरपिण्डोलभरद्वाज उभाभ्यां पाणिभ्यां भ्रुवमुन्नाम्य राजानमशोकं निरीक्षमाण उवाच ।

दृष्टो मया ह्यसकृदप्रतिमो महर्षिः । सन्तप्तकाञ्चनसमोपमतुल्यतेजः ।
द्वात्रिंशलक्षणधरः शरदिन्दुवक्त्रो ब्राह्मस्वराधिकरणो ह्यरणाविहारी ॥

(आव्९८)
राजाह । स्थविर कुत्र ते भगवान् दृष्टः कथं चेति । स्थविर उवाच । यदा महाराज भगवान् विजितमारपरिवारः पञ्चभिरर्हच्छतैः सार्धं प्रथमतो राजगृहे वर्षामुषितोऽहं तत्कालं तत्रैवासम् । मया स दक्षिणीयः सम्यग्दृष्ट इति । आह च ।

वीतरागैः परिवृतो वीतरागो महामुनिः ।
यदा राजगृहे वर्षा उषितः स तथागतः ॥
तत्कालमासं तत्राहं सुबुद्धस्य तदन्तिके ।
यथ पश्यसि मां साक्षादेवं दृष्टो मया मुनिः ॥

यदापि महाराज भगवता श्रावस्त्यां तीर्थ्यान् विजयार्थं महाप्रातिहार्य कृतं बुद्धावतंसकं यावदकनिष्ठभवनं निर्मितं महत्तत्कालं तत्रैवाहमासम् । मया तद्बुद्धविक्रीडितं दुष्तमिति ।

आह च ।

तीर्थ्या यदा भगवता कुपथप्रयाता ऋद्धिप्रभावविधिना खलु निर्गृहीताः ।
विक्रीडीतं दशबलस्य तदा ह्युदारं दृष्टं मया तु नृप हर्षकरं प्रजानाम् ॥

यदापि महाराज भगवता देवेषु त्रयस्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः सांकाश्ये नगरेऽवतीर्णोऽहं तत्कालं तत्रैवासम् । मया सा देवमनुष्यसंपदा दृष्टा उत्पलवर्णया च निर्मिता चक्रवर्तिसंपदा इति ।

(आव्९९)
यदावतीर्णो वदतां वरिष्ठो वर्षामुषित्वा खलु देवलोके ।
तत्राप्यहं सन्निहितो बभूव दृष्टो मयासौ मुनिरग्रसत्त्वः ॥

यदा महाराज सुमागधया अनाथपिण्डदुहित्रा उपनिमन्त्रितः पञ्चभिरर्हच्छतैः सार्धमृद्ध्या पुण्डवर्धनं गतस्तदाहमृद्ध्या पर्वतशैलं ग्रहाय गगनतलमाक्रम्य पुण्डवर्धनं गतः । त्वन्निमित्तं च मे भगवताज्ञा क्षिप्ता । न तावत्ते परिनिर्वातव्यं यावद्धर्मो नान्तर्हित इति । आह च ।

यदा जगामर्द्धिबलेन नायकः सुमागधायोपनिमन्त्रितो गुरुः ।
तदा गृहीत्वर्द्धिबलेन पर्वतं जगाम तूर्णं खलु पुण्डवर्धनम् ॥
आज्ञा तदा शाक्यकुलोदितेन दत्ता च मे कारुणिकेन तेन ।
तावन्नते निर्वृतिरभ्युपेया अन्तर्हितो यावदयं न धर्मः ॥

यदापि महाराज त्वया पूर्वं बालभावाद्भगवतो राजगृहं पिण्डाय प्रविष्टस्य सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तो राधगुप्तेन चानुमोदितं त्वं च भगवता निर्दिष्टोऽयं दारको वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा यो मे शरीरधातुकं वैस्तारिकं करिष्यति चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यत्यहं तत्कालं तत्रैवासम् । आह च ।

यदा पांश्वञ्जलिर्दस्त्वया बुद्धस्य भाजने ।
बालभावात्प्रसादित्वा तत्रैवाहं तदाभवम् ॥

(आव्१००)
राजाह । स्थविर । कुत्रेदानीमुष्यत इति । स्थविर उवाच ।

उत्तरे सरराजस्य पर्वते गन्धमादने ।
वसामि नृपते तत्र सार्धं सब्रह्मचारिभिः ॥

राजाह । कियन्तः स्थविरस्य परिवाराः । स्थविर उवाच ।

षष्ट्यर्हन्तः सहस्राणि परिवारो नृणां वर ।
वसामि यैरहं सार्धं निष्पृहैर्जितकल्मषैः ॥

अपि च महाराज किमनेन सन्देहेन कृतेन । परिविष्यतां भिक्षुसङ्घः । भुक्तवतो भिक्षुसङ्घस्य प्रतिसंमोदनं करिष्यामि । राजाह । एवमस्तु यथा स्थविर आज्ञापयति । किन्तु बुद्धस्मृतिप्रतिबोधितोऽहं बोधिस्नपनं तावत्करिष्यामि । समनन्तरं च मनापेन चाहारेण भिक्षुसङ्घमुपस्थास्यामीति ।

अथ राजा सर्वमित्रमुद्घोषकमामन्त्रयति । अहमार्यसङ्घस्य शतसहस्रं दास्यामि । कुम्भसहस्रेण च बोधिं स्नापयिष्यामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति ।

तत्कालं च कुनालस्य नयनद्वयमविपन्नमासीत् । स राज्ञो दक्षिणे पार्श्वे स्थितः । तेनांगुलिद्वयमुत्क्षिप्तं न तु वाग्भाषिता । द्विगुणं त्वहं प्रदास्यामीत्याकारयति । पाणौ वर्धितमात्रे च कुनालेन सर्वजनकायेन हास्यं मुक्तम् ।

ततो राजा हास्यं मुक्त्वा कथयति । अहो राधगुप्त केनैतद्वर्धितमिति ।

राधगुप्तः कथयति । देव बहवः पुण्यार्थिनः प्राणिनो यः पुण्यार्थी तेन वर्धितमिति ।

(आव्१०१)
राजाह । शतसहस्रत्रयं दास्यामीत्यार्यसङ्घे । कुम्भसहस्रेण च बोधिं स्नपयिष्यामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति ।

यावत्कुनालेन चतस्रोऽङगुलय उत्क्षिप्ता । ततो राजा रूषितो राधगुप्तमुवाच । अहो राधगुप्त कोऽयमस्माभिः सार्धं प्रतिद्वन्द्वयति अलोकज्ञः ।

रुषितं च राजानमवेक्ष्य राधगुप्तो राज्ञः पादयोर्निपत्योवाच । देव कस्य शक्तिर्नरेन्द्रेण सार्धं विस्पर्धितुं भवेत् । कुनालो गुणवान् पित्रा सार्धं विकुरुते । अथ राजा दक्षिणेन परिवृत्य कुनालमवलोक्योवाच । स्थविर अहं कोशं स्थापयित्वा राज्यमन्तःपुरममात्यगणमात्मानं च कुनालं चार्यसङ्घे निर्यातयामि । सुवर्णरूप्यस्फटिकवैडूर्यमयैः पञ्चकुम्भसहस्रैर्नानागन्धपूर्णैः क्षीरचन्दनकुंकुमकर्पूरवासितैर्महाबोधिं स्नपयिष्यामि । पुष्पशतसहस्राणि च बोधिप्रमुखे चार्यसङ्घे ददामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति । आह च ।

राज्यं समृद्धं हि संस्थाप्य कोशमन्तः पुरामात्यगणं च सर्वम् ।
ददामि सङ्घे गुणपात्रभूते आत्माकुनालं च गुणोपपन्नम् ॥

ततो राजा पिण्डोलभरद्वाजप्रमुखे भिक्षुसङ्घे निर्यातयित्वा बोधिवृक्षस्य च चतुर्दिशं वारं बद्ध्वा स्वयमेव च वारमभिरुह्य चतुर्भिः कुम्भसहस्रै र्बोधिस्नपनं कृतवान् । कृतमात्रे च बोधिस्नपने बोधिवृक्षो यथापौराणः संवृत्तः । वक्ष्यति हि ।

(आव्१०२)
कृतमात्रे नृपतिना बोधिस्नपनमुत्तमम् ।
बोधिवृक्षस्तदा जातो हरित्पल्लवकोमलः ॥
दृष्ट्वा हरितपत्राढ्यं पल्लवाङ्कुरकोमलम् ।
राजा हर्षपरं यातः सामात्यगणनैगमः ॥

अथ राजा बोधिस्नपनं कृत्वा भिक्षुसङ्घं परिवेष्टुमारब्धः । तत्र यशो नाम्ना स्थविरः । तेनाभिहितम् । महाराज महानयं परमदक्षिणीय आर्यसङ्घः संनिपतितः । तथा ते परिवेष्टव्यं यथा तेन क्षतिर्न स्यादिति ।

ततो राजा स्वहस्तेन परिवेषयन् यावन्नवकान्तं गतः । तत्र द्वौ श्रामणेरौ संरञ्जनीयं धर्मं समादाय वर्ततः । एकेनापि सक्तवो दत्ता द्वितीयेनापि सक्तवः । एकेन खाद्यका द्वितीयेनापि खाद्यका एव । एकेन मोदका द्वितीयेनापि मोदकाः । तौ दृष्ट्वा राजा हसितः । इमौ श्रामणेरौ बालक्रीडया क्रीडतः ।

यावद्राज्ञा भिक्षुसङ्घं परिवेष्य वृद्धान्तमारूढः । स्थविरेण चानुयुक्तः । मा देवेन कुत्रचिदप्रसाद उत्पादित इति ।

राजाह । नेति । अपि तु अस्ति द्वौ श्रामणेरौ बालक्रीडया क्रीडयो यथा बालदारकाः पांश्वागारैः क्रीडन्त्येवं तौ श्रामणेरौ सक्तुक्रीडया क्रीडतः खाद्यक्रीडया क्रीडतः ।

स्थविर उवाच । अलं महाराज । उभौ हि तौ उभयतो भागविमुक्तौ अर्हन्तौ ।

(आव्१०३)
श्रुत्वा च राज्ञः प्रीतिमनसो बुद्धिरुत्पन्ना । तौ श्रमणेरावागम्य भिक्षुसङ्घं पटेनाच्छादयिष्यामि । ततस्तौ श्रामणेरौ राज्ञोऽभिप्रायमवगम्य भूयोऽन्येऽस्माभिः स्वगुणा उभ्दावयितव्या इति [चिन्तितौ] । तयोरेकेन कटाहका उपस्थापिता द्वितीयेन रङ्गः समुदानीतः ।

राज्ञा पृष्टौ श्रामणेरकौ । किमिदमारब्धम् । तयोरभिहितम् । देवोऽस्माकमागम्य भिक्षुसङ्घं पटेनाच्छादितुकामः । तान् पटान् रञ्जयिष्यामः ।

श्रुत्वा च राज्ञो बुद्धिरुत्पन्ना । मया केवलं चिन्तितं न तु वाङ निश्चारिता । परचित्तविदावेतौ महात्मानौ । ततः सर्वशरीरेण पादयोर्निपत्यं कृताञ्जलिरुवाच ।

मौर्यः सभृत्यः सजनः सपौरः सुलब्धलाभार्थसुयष्टयज्ञः ।
यस्येदृशः साधुजन प्रसादः काले तथोत्साहि करोति दानम् ॥

यावद्राज्ञाभिहितम् । युष्माकमागम्य त्रिचीवरेण भिक्षुसङ्घमाच्छादयिष्यामीति । ततो राजाशोकः पञ्चवार्षिके पर्यवसिते सर्वभिक्षून् त्रिचीवरेणाच्छाद्य चत्वारि शतसहस्राणि सङ्घास्याच्छादनानि (आव्१०४) दत्त्वा पृथिवीमन्तःपुरममात्यगणमात्मानं च कुनालं च निष्क्रीतवान् । भूयसा भगवच्छासने श्रद्धा प्रतिलब्धा । चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । इति ।

(आव्१०५)
कुनालोपाख्यानं

यस्मिन्नेव दिवसे राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं तस्मिन्नेव दिवसे राज्ञोऽशोकस्य पद्मावती नाम्ना देवी प्रसूता । पुत्रो जातः अभिरूपो दर्शनीयः प्रासादिको नयनानि चास्य परशोभनानि ।
यावद्राज्ञोऽशोकस्य निवेदितम् । देव दिष्ट्या वृद्धिर्देवस्य पुत्रो जातः । श्रुत्वा राजा आत्तमनाः कथयति ।

प्रीतिः परा मे विपुला ह्यवाप्ता मौर्यस्य वंशस्य परा विभूतिः ।
धर्मेण राज्यं मम कुर्वतो हि जातः सुतो धर्मविवर्धनोऽस्तु ॥

तस्य धर्मविवर्धन इति नाम कृतम् । यावत्कुमारो राज्ञोऽशोकस्योपनामितः । अथ राजा कुमारं निरीक्ष्य प्रीतमनाः कथयति ।

सुतस्य मे नेत्रवरा सुपुण्या सुजातनीलोत्पलसंनिकाशा ।
अलङ्कतं शोभति यस्य वक्त्रं सम्पूर्णचन्द्रप्रतिमं विभाति ॥

यावद्राजामात्यानुवाच । दृष्टानि भवभ्दिः कस्येदृशानि नयनानि । अमात्या ऊचुः । देव मनुष्यभूतस्य न दृष्टानि । अपि तु देव, अस्ति हिमवति पर्वतराजे कुनालो नाम पक्षी प्रतिवसति । तस्य सदृशानि नयनानि । आह च ।

(आव्१०६)
हिमेन्द्रराजे गिरिशैलशृङ्गे प्रबालपुष्पप्रसवे जलाढ्ये ।
कुनालनाम्नेति निवासि पक्षी नेत्राणि तेनास्य समान्यमूनि ॥

ततो राज्ञाभिहितम् । कुनालः पक्षी आनीयतामिति ।

तस्योर्ध्वतो योजनं यक्षाः श्रृण्वन्ति । अधो योजनं नागाः । ततो यक्षिस्तत्क्षणेन कुनालः पक्षी आनीतः । अथ राजा कुनालस्य नेत्राणि सुचिरं निरीक्ष्य न किंचिद्विशेषं पश्यति । ततो राज्ञाभिहितम् । कुमारस्य कुनालसदृशानि नयनानि । भवतु कुमारस्य कुनाल इति नाम । वक्ष्यति हि ।

नेत्रानुरागेण स पार्थिवेन्द्रः सुतं कुनालेति तदा बभाषे ।
ततोऽस्य नाम प्रथितं पृथिव्यां तस्यार्यसत्त्वस्य नृपात्मजस्य ॥

विस्तरेण यावत्कुमारो महान् संवृत्तः । तस्य काञ्चनमाला नाम दारिका पत्न्यर्थे आनीता ।

यावद्राजाशोकः कुनालेन सह कुक्कुटारामं गतः । तत्र यशो नाम्ना सङ्घस्थविरः अर्हन् षडभिज्ञः । स पश्यति कुनालस्य न चिरान्नयनविनाशो भविष्यति ।

तेन राजाभिहितः । किमर्थं कुनालः स्वकर्मणि न नियुज्यते । ततो राज्ञाभिहितः । कुनाल सङ्घस्थविरो यदाज्ञापयति तत्परिपालयितव्यम् । ततः कुनालः स्थविरस्य पादयोर्निपत्य कथयति । स्थविर किमाज्ञापयसि । स्थविर उवाच । चक्षुःकुनाल अनित्यमिति कुरु । आह ।

(आव्१०७)
कुमार चक्षुः सततं परीक्ष्यं चलात्मकं दुःखसहस्रयुक्तम् ।
यत्रानुरक्ता बहवः पृथग्जनाः कुर्वन्ति कर्माण्यहितावहानि ॥

स च तथाभ्यासं करोति मनसिकारप्रयुक्तः । एकाभिरामः प्रशमारामश्च संवृत्तः । स राजकुले विविक्ते स्थानेऽवस्थितस्चक्षुरादीन्यायतनानि अनित्यादिभिराकारैः परीक्षते ।

तिष्यरक्षिता च नाम्नाशोकस्याग्रमहिषी तं प्रदेशमभिगता । सा तं कुनालमेकाकिनं दृष्ट्वा नयनानुरागेण गात्रेषु परिष्वज्य कथयति ।

दृष्ट्वा तवेदं नयनाभिरामं श्रीमद्वपुर्नेत्रयुगं च कान्तम् ।
दंदह्यते मे हृदयं समन्ताद्दावाग्निना प्रज्वलते च कक्षः ॥

श्रुत्वा कुनाल उभाभ्यां पाणिभ्यां कर्णौ पिधाय कथयति ।

वाक्यं न युक्तं तव वक्त्तुमेतत्सूनोः पुरस्ताज्जननी ममासि ।
अधर्ममार्गं परिवर्जयस्व अपायमार्गस्य स एव हेतुः ॥

ततस्तिष्यरक्षिता तत्कालमलभमाना ऋद्धा कथयति ।

अभिकामामभिगतां यत्त्वं नेच्छसि मामिह ।
न चिरादेव दुर्बुद्धे सर्वथा न भविष्यसि ॥

(आव्१०८)
कुनाल उवाच ।

मम भवतु मरणं मात स्थितस्य धर्मे विशुद्धभावस्य ।
न तु जीवितेन कार्यं सज्जनजनधिक्कृतेन मम ॥
स्वर्गस्य धर्मलोपो यतो भवति जीवितेन किं तेन ।
मम मरणहेतुना वै बुधपरिभूतेन धिक्कृतेन ॥
यावत्तिष्यरक्षिता कुनालस्य छिद्रान्वेषिणि अवस्थिता ।

राज्ञोऽशोकस्योत्तरापथे तक्षशिला नगरं विरुद्धम् । श्रुत्वा च राजा स्वयमेवाभिप्रस्थितः । ततोऽमात्यैरभिहितः । देव कुमारः प्रेष्यताम् ।

अथ राजा कुनालमाहूय कथयति । वत्स कुनाल गमिष्यसि तक्षशिलानगरं संनामयितुम् ।

कुनाल उवाच । परं देव गमिष्यामि ।

ततो नृपस्तस्य निशाम्य भावं पुत्राभिधानस्य मनोरथस्य ।
स्नेहाच्च योग्यं मनसा च बुद्द्वा आज्ञापयामास विहारयात्राम् ॥

अथ राजाशोको नगरशोभां मार्गशोभां च कृत्वा जीर्णातुरकृपणांश्च मार्गादपनीय एकरथेऽभिरुह्य कुमारेण सह पाटलिपुत्रान्निर्गतः । अनुव्रजित्वा निवर्तमानः कुनालं कण्ठे परिष्वज्य नयनं निरीक्षमाणः प्ररुदन्नुवाच ।

(आव्१०९)
धन्यानि तस्य चक्षूंषि चक्षुष्मन्तश्च ते जनाः ।
सततं ये कुमारस्य द्रक्ष्यन्ति दुखपङ्कजम् ॥

यावन्नैमित्तिको ब्राह्मणः पश्यति कुमारस्य न चिरान्नयनविनाशो भविष्यति । स च राजाशोकस्तस्य नयनेष्वत्यर्थमनुषुक्तः । दृष्ट्वा च कथयति ।

नृपात्मजस्य नयने विशुद्धे महीपतिश्चाप्यनुरक्तमस्य ।
श्रिया विवृद्धे हि सुखानुकूले पश्यामि नेत्रेऽद्य विनश्यमाने ॥
इदं पुरं स्वर्ग इव प्रहृष्टं कुमारसंदर्शनजातहर्षम् ।
पुरं विपन्ने नयने तु तस्य भविष्यते शोकपरीतचेतः ॥

अनुपूर्वेण तक्षशिलामनुप्राप्तः । श्रुत्वा च तक्षशिलापौरा अर्धत्रिकाणि योजनानि मार्गशोभां नगरशोभां च कृत्वा पूर्णकुम्भैः प्रत्युद्गताः । वक्ष्यति च ।

श्रुत्वा तक्षशिलापौरो रत्नपूर्णघटादिकान् ।
गृह्य प्रत्युज्जगामाशु बहुमान्य नृपात्मजम् ॥

प्रत्युद्गम्य कृताञ्जलिरुवाच । न वयं कुमारस्य विरुद्धा न राज्ञोऽशोकस्य । अपि तु दृष्टात्मानोऽमात्या आगत्यास्माकमपमानं कुर्वन्ति । यावत्कुनालो महता सम्मानेन तक्षशिलां प्रवेशितः ।

(आव्११०)
राज्ञश्चाशोकस्य महान् व्याधिरुत्पन्नः । तस्य मुखादुच्चारो निर्गन्तुमारब्धः । सर्वरोमकूपेभ्यश्चाशुचि प्रघरति न च शक्यते चिकित्सितुम् । ततो राज्ञाभिहितम् । कुनालमानयत राज्ये प्रतिष्ठापयिष्यामीति । किं ममेदृशेन जीवितेन प्रयोजनम् ।

श्रुत्वा च तिष्यरक्षिता चिन्तयति । यदि कुनालं राज्ये प्रतिष्ठापयिष्यति नास्ति मम जीवितम् । तयाभिहितम् । अहं त्वा स्वस्थं करिष्यामि किं तु वैद्यानां प्रवेशः प्रतिषिध्यताम् । यावद्राज्ञा वैद्यानां प्रवेशः प्रतिषिद्धः । ततस्तिष्यरक्षितया वैद्यानामभिहितम् । यदि कश्चिदीदृशेन व्याधिना स्पृष्टः स्त्री वा पुरुषो वागच्छति मम दर्शयितव्याः ।

अन्यतमश्चाभीरस्तादृशेनैव व्याधिना स्पृष्टः । तस्य पत्न्या वैद्याय व्याधिर्निवेदितः । वैद्येनाभिहितम् । स एवागच्छत्वातुरो व्याधिं दृष्ट्वा भैषज्यमुपदेक्ष्यामि । यावदाभीरो वैद्यसकाशमभिगतः । वैद्येन च तिष्यरक्षितायाः समीपमुपनीतः । ततस्तिष्यरक्षितया प्रतिगुप्ते प्रदेशे जीविताद्व्यपरोपितः । जीविताद्व्यपरोप्य कुक्षिं पाटयित्वा पश्यति च तस्य पक्वाशयस्थानम् । अन्त्रायां कृमिर्महान् प्रादुर्भूतः । स यद्यूर्ध्वं गच्छति तेनाशुचि प्रघरति । अथाघो गच्छत्यधः प्रघरति । यावत्तत्र मरिचान् पेषयित्वा दत्तो न च [स] म्रियते । एवं पिप्पलिं श्रृङ्गवेरं च । विस्तरेण यावत्पलाण्डुं दत्तः । स्पृष्टश्च (आव्१११) मृत उच्चारमार्गेण निर्गतः । एतच्च प्रकरणं तया राज्ञे निवेदितम् । देव पलाण्डुं परिभुंक्ष्व स्वास्थ्यं भविष्यति । राजाह । देवि, अहं क्षत्रियः कथं पलाण्डुं परिभक्षयामि । देव्युवाच । देव, परिभोक्तव्यं जीवितस्यार्थे भैषज्यमेतत् ।

राज्ञा परिभुक्तम् । स च कृमिर्मृत उच्चारमार्गेण निर्गतः । स्वस्थीभूतश्च राजा । तेन परितुष्टेन तिष्यरक्षिता वरेण प्रवारिता । किं ते वर प्रयच्छामि । तयाभिहितम् । सप्ताहं मम देवो राज्यं प्रयच्छतु । राजाह । अहं को भविष्यामि । देव्युवाच । सप्ताहस्यात्ययाद्देव एव राजा भविष्यति ।

यावद्राज्ञा तिष्यरक्षितायाः सप्ताहं राज्यं दत्तम् । तस्या बुद्धिरुत्पन्ना । इदानीं मयास्य कुनालस्य वैरं निर्यातयितव्यः । तया कपटलेखो लिखितस्तक्षशिलकानां पौराणाम् । कुनालस्य नयनं विनाशयितव्यमिति । आह च ।

राजा ह्यशोको बलवान् प्रचण्ड आज्ञापयत्तक्षशिलाजनं हि ।
उद्धार्यतां लोचनमस्य शत्रौर्मौर्यस्य वंशस्य कलङ्कु एषः ॥

राज्ञोऽशोकस्य यत्र कार्यमाशु परिप्राप्यं भवति [स] दन्तमुद्रया मुद्रयति । यावत्तिष्यरक्षिता शयितस्य राज्ञस्तं लेखं दन्तमुद्रया मुद्रयिष्यामीति राज्ञः सकाशमभिगता । राजा च भीतः प्रतिबुद्धः । (आव्११२) देवी कथयति । किमिदमिति । राजा कथयति । देवि स्वप्नं मंऽशोभनं दृष्टम् । पश्यामि द्वौ गृध्रौ कुनालस्य नयनमुत्पाटयितुमिच्छतः । देवी कथयति । स्वास्थ्यं कुमारस्येति । एवं द्विरपि राजा भीतः प्रतिबुद्धः कथयति । देवि स्वप्नो मे न शोभनो दृष्ट इति । तिष्यरक्षिता कथयति । कीदृशः स्वप्न इति । राजाह । पश्यामि कुनालं दीर्घकेशनखश्मश्रुं पौरं प्रविष्टम् । देव्याह । स्वास्थ्यं कुमारस्येति ।

यावत्तिष्यरक्षितया राज्ञः शयितस्य स लेखो दन्तमुद्रया मुद्रयित्वा तक्षशिलां प्रेषितः । यावद्राज्ञा शयितेन स्वप्ने दृष्टं दन्ता विशीर्णाः ।

ततो राजा तस्या एव रात्रेरत्यये नैमित्तिकानाहूय कथयति । कीदृश एषां स्वप्नानां विपाक इति । नैमित्तिकाः कथयन्ति । देव य ईदृशस्वप्नानि पश्यति तस्य पुत्रस्य चक्षुर्भेदो भवति । आह च ।

दन्ता यस्य विशीर्यन्ते स्वप्नान्ते प्रपतन्ति च ।
चतुर्भेदं च पुत्रस्य पुत्रनाशं स पश्यति ॥

श्रुत्वा च राजाशोकस्त्वरितमुत्थायासनात्कृताञ्जलिश्चतुर्दिशं देवतां याचयितुमारब्धः । आह च ।

या देवता शास्तुरभिप्रसन्ना धर्मे च सङ्घे च गणप्रधाने ।
ये चापि लोके ऋषयो वरिष्ठा रक्षन्तु तेऽस्मत्तनयं कुनालम् ॥

(आव्११३)
स च लेखोऽनुपूर्वेण तक्षशिलामुपनीतः । अथ तक्षशिलाः पौरजानपदा लेखदर्शनात्कुनालस्य गुणविस्तरतुष्टा नोत्सहन्ते तदप्रियं निवेदितुम् । चिरं विचारयित्वा चण्डो राजा दुःशीलः स्वपुत्रस्य न मर्षयति प्रागेवास्माकं [किं] मर्षयति । आह च ।

मुनिवृत्तस्य शान्तस्य सर्वभूतहितैषिणः ।
यस्य द्वेषः कुमारस्य कस्य नास्य भविष्यति ॥

तैर्यावत्कुनालस्य निवेदितम् । लेखश्चोपनीतः । ततः कुनालो वाचयित्वा कथयति । विश्रब्धं यथात्मप्रयोजनं क्रियतामिति । यावच्चण्डाला उपनीताः कुनालस्य नयनमुत्पाटयतेति । ते च कृताञ्जलिपुटा ऊचुः । नोत्सहयामः । कुतः ।

यो हि चन्द्रमसः कान्तिं मोहादभ्युद्धरेन्नरः ।
स चन्द्रसदृशाद्वक्त्रात्तव नेत्रे समुद्धरेत् ॥

ततः कुमारेण मकुटं दत्तम् । अनया दक्षिणयोत्पाटयत इति । तस्य तु कर्मणावश्यं विपक्तव्यम् । पुरुषो हि विकृतरूपोष्टादशभिर्दौर्वर्णिकैः (आव्११४) समन्वागतोऽभ्यागतः । स कथयति । अहमुत्पाटयिष्यामीति । यावत्कुनालस्य समीपं नीतः । तस्मिंश्च समये कुनालस्य स्थविराणां वचनमामुखीभूतम् । स तद्वचनमनुस्मृत्योवाच ।

इमां विपत्तिं विज्ञाय तैरुक्तं तत्त्ववादिभिः ।
पश्यानित्यमिदं सर्वं नास्ति कश्चिद्ध्रुवे स्थितः ॥
कल्याणमित्रास्ते मह्यं सुखकामा हितैषिणः ।
यैरयं देशितो धर्मो वीतक्लेशैर्महात्मभिः ॥
अनित्यतां संपरिपश्यतो मे गुरूपदेशान्मनसि प्रकुर्वतः ।
उत्पाटनेऽहं न बिभेमि सौम्य नेत्रद्वयस्यास्थिरतां हि पश्ये ॥
उत्पाट्ये वा न वा नेत्रे यथा वा मन्यते नृपः ।
गृहीतसारं चक्षुर्मे ह्यनित्यादिभिराश्रयैः ॥

ततः कुनालस्तं पुरुषमुवाच । तेन हि भोः पुरुष एकं तावन्नयनमुत्पाट्य मम हस्तेऽनुप्रयच्छ । यवत्स पुरुषः कुनालस्य नयनमुत्पाटयितुं प्रवृत्तः । ततोऽनेकानि प्राणिशतसहस्राणि विक्रोष्टुमारब्धानि । कष्टं भोः ।

(आव्११५)
एष हि निर्मलज्योत्स्नो गगनात्पतते शशी ।
पुण्डरीकवनाच्चापि श्रीमानुत्पाट्यतेऽम्बुजः ॥

तेषु प्राणिशतसहस्रेषु रुदत्सु कुनालस्यैव नयनमुत्पाट्य हस्ते दत्तम् । ततः कुनालस्तन्नयनं गृह्योवाच ।

रूपाणि कस्मान्न निरीक्षसे त्वं यथा पुरा प्राकृतमांसपिण्ड ।
ते वञ्चितास्ते च विगर्हणीया आत्मेति ये त्वामबुधाः श्रयन्ते ॥
सामग्र्यकं बुर्बुदसन्निकाशं सुदुर्लभं निर्विषयास्वतन्त्रम् ।
एवं प्रवीक्षन्ति सदाप्रमत्ता ये त्वां न ते दुःखमनुप्रयान्ति ॥
एवं चिन्तयता तेन सर्वभावेष्वनित्यताम् ।
स्त्रोतापत्तिफलं प्राप्तं जनकायस्य पश्यतः ॥
ततः कुनालो दृष्टसत्यस्तं पुरुषमुवाच । इदानीं द्वितीयं विश्रब्धं नयनमुत्पाट्यताम् । यावत्तेन पुरुषेण कुनालस्य द्वितीयं नयनमुत्पाट्य हस्ते दत्तम् । अथ कुनालो मांसचक्षुषि उद्धृते प्रज्ञाचक्षुषि च विशुद्धे कथयति ।

उद्धृतं मांसचक्षुर्मे यद्यप्येतत्सुदुर्लभम् ।
प्रज्ञाचक्षुर्विशुद्धं मे प्रतिलब्धमनिन्दितम् ।
(आव्११६)
परित्यक्तो नृपतिना यद्यहं पुत्रसंज्ञया ।
धर्मराजस्य पुत्रत्वमुपेतोऽस्मि महात्मनः ॥
ऐश्वर्याद्यद्यहं भ्रष्टः शोकदुःखनिबन्धनाद् ।
धर्मैश्वर्यमवाप्तं मे दुःखशोकविनाशनम् ॥

यावत्कुनालेन श्रुतं नायं तातस्याशोकस्य आदेशः । अपि तु तिष्यरक्षितायामयं प्रयोग इति । श्रुत्वा च कुनालः कथयति ।

चिरं सुखं तिष्ठतु तिष्यनाम्नी आयुर्बलं पालयतां च देवी ।
संप्रेषितोयं हि यया प्रयोगो यस्यानुभावेन कृतः स्वकार्थः ॥

ततः काञ्चनमालया श्रुतं कुनालस्य नयनानि उत्पाटितानीति । श्रुत्वा च भर्तृतया कुनालसमीपमुपसंक्रम्य पर्षदमवगाह्य कुनालमुद्धृतनयनं रुधिरावसिक्तगात्रं दृष्ट्वा मूर्छिता भूमौ पतिता । यावज्जलसेकं कृत्वा उत्थापिता ।

ततः कथंचित्संज्ञामुपलभ्य सस्वरं प्ररुदती उवाच ।

नेत्राणि कान्तानि मनोहराणि ये मां निरीक्ष्या जनयन्ति तुष्टिम् ।
ते मे विपन्ना ह्यनिरीक्षणीया स्त्यजन्ति मे प्राणसमाः शरीरम् ॥

ततः कुनालो भार्यामनुनयन्नुवाच । अलं रुदितेन । नार्हसि शोकमाश्रयितुम् । स्वयंकृतानामिह कर्मणां फलमुपस्थितम् । आह च ।

कर्मात्मकं लोकमिदं विदित्वा दुःखात्मकं चापि जनं हि मत्वा ।
मत्वा च लोकं प्रियविप्रयोगं कर्तुं प्रिये नार्हसि वाष्पमोक्षम् ॥
(आव्११७)

ततः कुनालो भार्यया सह तक्षशिलाया निष्कासितः । स गर्भाधानमुपादाय परमसुकुमारशरिरः । न किञ्चिदुत्सहते कर्म कर्तुम् । केवलं वीणां वादयति । गायति च । ततो भैक्ष्यं लभते कुनालः पत्न्या सह भुंक्ते ।

ततः काञ्चनमाला येन मार्गेण पातलिपुत्रादानीता तमेव मार्गंमनुसरन्ती भर्तुद्वितीया पाटलिपुत्रं गता । यावदशोकस्य गृहमारब्धा प्रवेष्टुम् । द्वारपालेन च निवारितौ । यावद्राज्ञोऽशोकस्य यानशालायामवस्थितौ ।

ततः कुनालो रात्र्याः प्रत्युषमये वीणां वादयितुमारब्धः । यथा नयनान्युत्पाटितानि सत्यदर्शनं च कृतं तदनुरूपं हितं च गीतं प्रारब्धम् । आह च ।

चक्षुरादीनि यः प्राज्ञः पश्यत्यायतनानि च ।
ज्ञानदीपेन शुद्धेन स संसाराद्विमुच्यते ॥
यदि तव भवदुःखपीडिता भवति च दोषविनिश्चिता मतिः ।
सुखमिह च यदीच्छसि ध्रुवं त्वरितमिहायतनानि संत्यज ॥
(आव्११८)
तस्य गीतशब्दो राज्ञाशोकेन श्रुतः । श्रुत्वा च प्रीतमना उवाच ।
गीतं कुनालेन मयि प्रसक्तं वीणास्वरश्चैव श्रुतश्चिरेण ।
अभ्यागतोऽपीह गृहं नु कञ्चिन्न चेच्छति द्रष्टुमयं कुमारः ॥
अथ राजाशोकोऽन्यतमपुरुषमाहूयोवाच । पुरुष लक्ष्यते ।
न खल्वेष किं गीतस्य कुनालसदृशो ध्वनिः ।
कर्मण्यधैर्यतां चैव सूचयन्निव लक्ष्यते ॥
तदनेनास्मि शब्देन धैर्यादाकम्पितो भृशम् ।
कलभस्येव नष्टस्य प्रनष्टकलभः करी ॥

गच्छ कुनालमानयस्वेति । यावत्पुरुषो यानशालां गतः । पश्यति कुनालमुद्धृतनयनं वातातपपरिदग्धगात्रमप्रत्यभिज्ञाय च राजानमशोकमभिगम्योवाच । देव न ह्येष कुनालः । अन्धक एष वनीपकः पत्न्या सह देवस्य यानशालायामवस्थितः । श्रुत्वा च राजा संविग्नश्चिन्तयामास । यथा मया स्वप्नान्यशोभनानि दृष्टानि नियतं कुनालस्य नयनानि विनष्टानि भविष्यन्ति । आह च ।

स्वप्नान्तरे निमित्तानि यथा दृष्टानि मे पुरा ।
निःसंशयं कुनालस्य नेत्रे वै निधनं गते ॥

ततो राजा प्ररुदन्नुवाच ।

शीघ्रमानीयतामेष मत्समीपं वनीपकः ।
न हि मे शाम्यते चेतः सुतव्यसनचिन्तया ॥

यावत्पुरुषो यानशालां गत्वा कुनालमुवाच । कस्य त्वं पुत्रः । किं च नाम । कुनालः प्राह ।

(आव्११९)
अशोको नाम राजासौ मौर्याणां कुलवर्धनः ।
कृत्स्नेयं पृथिवी यस्य वशे वर्तति किंकर ॥
तस्य राज्ञस्त्वहं पुत्रः कुनाल इति विश्रुतः ।
धार्मिकस्य तु पुत्रोऽहं बुद्धस्य आदित्यबान्धवः ॥

ततः कुनाल पत्न्या सह राज्ञोऽशोकस्य समीपमानीतः । अथ राजाशोकः [पश्यति] कुनालमुद्धृतनयनं वातातपपरिदग्धगात्रं रथ्याचोडकसंघातप्रत्यवरेण वाससा लक्ष्यालक्ष्यप्रच्छादितकौपीनम् । स तमप्रत्यभिज्ञाय आकृतिमात्रकं दृष्ट्वा कथयति । त्वं कुनाल इति । कुनालः प्राह । एवं देव कुनालोऽस्मीति । श्रुत्वा मूर्च्छितो भूमौ पतितः । वक्ष्यति हि ।

ततः कुनालस्य मुखं निरीक्ष्य नेत्रोद्धृतं शोकपरीतचेताः ।
राजा ह्यशोकः पतितो धरण्यां हा पुत्र शोकेन हि दह्यमानः ॥

यावज्जलपरिषेकं कृत्वा राजानमुत्थापयित्वासने निषादितः । अथ राजा कथञ्चित्संज्ञामुपलभ्य कुनालमुत्सङ्गे स्थापयामास । वक्ष्यति हि ।

ततो मुहूर्तं नृप आश्वसित्वा कण्ठे परिष्वज्य रसाश्रुकण्ठः ।
मुहुः कुनालस्य मुखं प्रमृज्य बहूनि राजा विललाप तत्र ॥
नेत्रे कुनालप्रतिमे विलोक्य सुतं कुनालेति पुरा बभासे ।
तदस्य नेत्रे निधनं गते ते पुत्रं कुनालेति कथं च वक्ष्ये ॥

आह च ।

कथय कथय साधुपुत्र तावद्वदनमिदं तव केन चारुनेत्रम् ।
(आव्१२०)
गगनमिव विपन्नचन्द्रतारं व्यपगतशोभमनीक्षकं कृतं ते ॥
अकरुणहृदयेन तेन तात मुनिसदृशस्य न साधु साधुबुद्धेः ।
नरवरनयनेष्ववैरवैरं प्रकृतमिदं मम भूरिशोकमूलम् ॥
वद सुवदन क्षिप्रमेतदर्थं व्रजति शरीरमिदं पुरा विनाशम् ।
तव नयनविनाशशोकदग्धं वनमिव नागविमुक्तवज्रदग्धम् ॥

ततः कुनालः पितरं प्रणिपत्य उवाच ।

राजन्नतीतं खलु नैव शोच्यं किं न श्रुतं ते मुनिवाक्यमेतत् ।
यत्कर्मभिस्तेऽपि जिना न मुक्ताः प्रत्येकबुद्धाः सुदृढैस्तथैव ॥
लब्धाफलस्थाश्च पृथग्जनाश्च ये कृतानि कर्माण्यमृतानि देहिनाम् ।
स्वयं कृतानामिह कर्मणां फलं कथं तु वक्ष्यामि परैरिदं कृतम् ॥

(आव्१२१)
अहमेव महाराज कृतापराधश्च सापराधश्च । विनिवर्तयामि योऽहं विनयामि विपत्तिजननानि ।

न शस्त्रवज्राग्निविषाणि पन्नगाः कुर्वन्ति पीडां रभसापकारिणः ।
शरीरलक्ष्ये हि धृते हि पार्थिव पतन्ति दुःखान्यशिवानि देहिनाम् ॥

अथ राजा शोकाग्निना संतापितहृदय उवाच ।

केनोद्धृतानि नयनानि सुतस्य मह्यं को जीवितं सुमधुरं त्यजितुं व्यवस्तः ।
शोकानलो निपतितो हृदये प्रचण्डः आचक्ष्व पुत्र लघु कस्य हरामि दण्डम् ॥

यावद्राज्ञाशोकेन श्रुतं तिष्यरक्षिताया अयं प्रयोग इति । श्रुत्वा राजा तिष्यरक्षितामाहूयोवाच ।

(आव्१२२)
कथं ह्यधन्ये न निमज्जसे क्षितौ छेत्तास्मि शीर्षं परशुप्रहारितम् ।
त्यजाम्यहं त्वामतिपापकारिणीमधर्मयुक्तां श्रियमात्मवानिव ॥

ततो राजा क्रोधाग्निना प्रज्वलितस्तिष्यरक्षितां निरीक्ष्योवाच ।

उत्पाट्य नेत्रे परिपाटयामि गात्रं किमस्या नखरैः सुतीक्ष्णैः ।
जीवन्तिशूलामथ कारयामि छेत्तास्मि नासां क्रकचेन वास्याः ॥
क्षूरेण जिव्हामथ कर्तयामि विषेण पूर्णामथ घाटयिष्ये ।
स एवमित्यादिवघप्रयोगं बहुप्रकारं ह्यवदन्नरेन्द्रः ॥
श्रुत्वा कुनालः करुणात्मकस्तु विज्ञापयामास गुरुं महात्मा ।
अनार्यकर्मा यदि तिष्यरक्षिता त्वमार्यकर्मा भव मा वधी स्त्रियम् ॥
फलं हि मैत्र्या सदृशं न विद्यते प्रभो तितिक्षा सुगतेन वर्णिता ।
(आव्१२३)
पुनः प्रणम्य पितरं कुमारः कृताञ्जलिः सूनृतवाग्जगाद ॥
राजन्न मे दुःखलवोऽस्ति कश्चित्तीव्रापकारेऽपि न मन्युतापः ।
मनः प्रसन्नं यदि मे जनन्यां ययोद्धृते मे नयने स्वयं हि ।
तत्तेन सत्येन ममास्तु तावन्नेत्रद्वयं प्राक्तनमेव सद्यः ॥

इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्बभूवतुः । यावद्राज्ञाशोकेन तिष्यरक्षितामर्षितेन जतुगृहं प्रवेशयित्वा दग्धा । तक्षशिलाश्च पौराः प्रघातिताः ।

भिक्षवः संशयजाताः सर्वसंशयछेत्तारमायुष्मन्तं स्थविरोपगुप्तं पृच्छति । किं कुनालेन कर्म कृतं यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि ।

स्थविर उवाच । तेन ह्यायुष्मन्तः श्रूयताम् ।

भूतपूर्वमतीतेऽध्वनि वाराणस्यामन्यतमो लुब्धकः । स हिमवन्तं गत्वा मृगान् प्रघातयति । सोऽपरेण समयेन हिमवन्तं गतः । तत्र चाशनिपतितानि पञ्चमृगशतनि एकस्या गुहायां प्रविष्टान्यासादितानि । तेन वागुरया सर्वे गृहीताः । तस्य बुद्धिरुत्पन्ना । यदि (आव्१२४) प्रघातयिष्यामि मांसः क्लेदमुपयास्यति । तेन पञ्चानां मृगशतानामक्षीण्युत्पाटितानि । ते उद्धृतनयना न क्वचित्पलायन्ति । एवं बहूनां मृगशतानां नयनान्युत्पाटितानि ।

किं मन्यध्वमायुष्मन्तः । योऽसौ लुब्धकः स एष कुनालः । यत्तत्रानेन बहूनां मृगशतानां नयनान्युत्पाटितानि तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मविशेषेण पञ्चजन्मशतानि तस्य नयनान्युत्पाटितानि ।

किं कर्म कृतं यस्य कर्मणो विपाकेनोच्चे कूले उपपन्नः । प्रासादिकश्च संवृत्तः । सत्यदर्शनं च कृतम् ।

तेन ह्यायुष्मन्तः श्रूयताम् ।

भूतपूर्वमतीतेऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उदपादि ।

यदा क्रकुच्छन्दः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्याशोकेन राज्ञा चतूरत्नमयः स्तूपः कारितः । यदा राजाशोकः कालगतोऽश्राद्धो राजा राज्ये प्रतिष्ठितः । तानि रत्नान्यदत्तादायिकैर्हृतानि । पांशुकाष्ठं चावशिष्टम् । तत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः ।

(आव्१२५)
तस्मिंश्च समयेन्यतमश्च श्रेष्ठिपुत्रः । तेनोक्तः । किमर्थं रुद्यत इति । तैरभिहितं क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य स्तूपश्चतूरत्नमय आसीत् । स इदानीं विशीर्णमिति ।

ततस्तेन या तत्र क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा साभिसंस्कृता । सम्यक्प्रणिधानं च कृतम् । यादृशः क्रकुच्छन्दः शास्तेदृशमेव शास्तारमारागयेयम् । मा विरागयेयमिति ।

किं मन्यध्वमायुष्मन्तः । योऽसौ श्रेष्ठिपुत्रः स एष कुनालः । यत्रानेन क्रकुच्छन्दस्य स्तूपोऽभिसंस्कृतस्तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः । यत्प्रतिमाभिसंस्कृता तस्य कर्मणो विपाकेन कुनालः प्रासादिकः संवृत्तः । यत्प्रणिधानं कृतं तस्य कर्मणो विपाकेन कुनालेन [यादृशः] शाक्यमुनिः सम्यक्सम्बुद्धस्तादृश एव शास्ता समारागितो न विरागितः । सत्यदर्शनं च कृतम् ।

इति श्रीदिव्यावदाने कुनालावदनं सप्तविंशतिमं समाप्तम् ॥

(आव्१२६)
अशोकावदानं

यदा राज्ञाशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा स भिक्षूनुवाच । केन भगवच्छासने प्रभूतं दानं दत्तम् । भिक्षव ऊचुः । अनाथपिण्डदेन गृहपतिना । राजाह । कियत्तेन भगवच्छासने दानं दत्तम् । भिक्षव ऊचुः । कोटिशतं तेन भगवच्छासने दानं दत्तम् । श्रुत्वा च राजाशोकश्चिन्तयति । तेन गृहपतिना भूत्वा कोटिशतं भगवच्छासने दानं दत्तम् । तेनाभिहितम् । अहमपि कोटीशतं भगच्छासने दानं दास्यामि ।

तेन यावच्चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । सर्वत्र च शतसहस्राणि दत्तानि । जातौ बोधौ धर्मचक्रे परिनिर्वाणे च सर्वत्र शतसहस्रं दत्तम् । पञ्चवार्षिकं कृतम् । तत्र च चत्वारि शतसहस्राणि दत्तानि । त्रीणि शतसहस्राणि भिक्षूणां भोजितानि । यत्रैकमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च । कोषं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुनालं चार्यसङ्घे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान् । षण्णवतिकोट्यो भगवच्छासने दानं दत्तम् । स यावद्ग्लानीभूतः । अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः ।

तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तम् । तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर्निपत्य कृताञ्जलिरुवाच ।

(आव्१२७)
यच्छत्रुसङ्घैः प्रबलैः समेत्य नोद्वीक्षितं चण्डदिवाकराभम् ।
पद्माननश्रीशतसंप्रपीतं कस्मात्सवाष्पं तव देव वक्त्रम् ॥

राजाह । राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि । किन्तु शोचामि, आर्यैर्यद्, विप्रयोक्ष्यामि ।

नाहं पुनः सर्वगुणोपपन्नं सङ्घं समक्षं नरदेवपूजितम् ।
संपूजयिष्यामि वरान्नपानैरेतद्विचिन्त्याश्रुविमोक्षणं मे ॥

अपि च राधगुप्त, अयं मे मनोरथो बभूव, कोटीशतं भगवच्छासने दानं दास्यामीति । स च मेऽभिप्रायो न परिपूर्णः ।

ततो राज्ञाशोकेन चतस्रः कोटीः परिपुरयिष्यामीति हिरण्यसुवर्णं कुक्कुटारामं प्रेषयितुमारब्धः ।

तस्मिंश्च समये कुनालस्य संपदी नाम पुत्रो युवराज्ये प्रवर्तते । तस्यामात्यैरभिहितम् । कुमार अशोको राजा स्वल्पकालवस्थायी । (आव्१२८) इदं च द्रव्यं कुक्कुटारामं प्रेष्यते । कोशबलिनश्च राजानः । निवारयितव्यः ।

यावत्कुमारेण भाण्डागारिकः प्रतिषिद्धः । यदा राज्ञोऽशोकस्याप्रतिषिद्धा [सम्पत्] तस्य सुवर्णभाजने आहारमुपनाम्यते । भुक्त्वा तानि सुवर्णभाजनानि कुक्कुटारामं प्रेषयति ।

तस्य सुवर्णभाजनं प्रतिषिद्धम् । रूप्यभाजने आहारमुपनाम्यते । तान्यपि कुक्कुटारामं प्रेषयति । ततो रूप्यभाजनमपि प्रतिषिद्धम् । तस्य यावन्मृभ्दाजन आहारमुपनाम्यते ।

तस्मिंश्च समये राज्ञोऽशोकस्यार्धामलकं करान्तरगतम् । अथ राजाशोकः संविग्नः अमात्यान् पौरांश्च संनिपात्य कथयति । कः साम्प्रतं पृथिव्यामीश्वरः ।

ततोऽमात्या उत्थायासनाद्येन राजाशोकस्तेनाञ्जलिं प्रणम्य ऊचुः । देव पृथिव्यामीश्वरः । अथ राजा अशोकः साश्रुदुर्दिननयनवदनोऽमात्यानुवाच ।

दाक्षिण्यादनृतं हि किं कथयथ भ्रष्टाधिराज्या वयं
शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम ।
ऐश्वर्यं धिगनार्यमुद्धतनदीतोयप्रवेशोपमं
मर्त्येन्द्रस्य ममापि यत्प्रतिभयं दारिद्र्यमभ्यागतम् ॥

(आव्१२९)
अथवा को भगवतो वाक्यमन्यथा करिष्यति । सम्पत्तयो हि सर्वा विपत्तिनिदाना इति प्रतिज्ञातं यदवितथवादिना गौतमेन न हि तद्विसंवदति । प्रतिशिष्यतेऽस्मन्नचिराज्ञा मम यावतिथा मनसा साद्य महाद्रिशिलातले विहतावन्नदी प्रतिनिवृत्ता ।

आज्ञाप्य व्यवधूतडिम्बडमरामेकातपत्रां महीं
उत्पाट्य प्रतिगर्वितानरिगणानाश्वास्य दीनातुरान् ।
भ्रष्टास्थायतनो न भाटि कृपणः संप्रत्यशोको नृपश्
छिन्नम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा ॥

ततो राजाशोकः समीपगतं पुरुषमाहूयोवाच । भद्रमुख पूर्वगुणानुरागाद्भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु । इदं ममार्धामलकं ग्रहाय कुक्कुटारामं गत्वा सङ्घे निर्यातय । मद्वचनाच्च सङ्घस्य पादाभिवन्दनं कृत्वा वक्तव्यम् ।

जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति । इदं तावदपश्चिमं दानं तथा परिभोक्तव्यं यथा मे सङ्घगता दक्षिणा विस्तीर्णा स्यादिति । आह च ।

(आव्१३०)
इदं प्रदानं चरमं ममाद्य राज्यं च तच्चैव गतं स्वभावम् ।
आरोग्यवैद्योषधिवर्जितस्य त्राता न मेऽस्त्यार्यगणाद्बहिर्धा ॥
तत्तथा भुज्यतां येन प्रदानं मम पश्चिमम् ।
यथा सङ्घगता मेऽद्य विस्तीर्णा दक्षिणा भवेत् ॥

एवं देवेति स पुरुषो राज्ञोऽशोकस्य प्रतिश्रुत्य तदर्धामलकं गृह्य कुक्कुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं सङ्घे निर्यातयन्नुवाच ।

एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा
लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः ।
भाग्यच्छिद्रमवेक्ष्य सोऽद्य नृपतिः स्वैः कर्मभिर्वञ्चितः
संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः ॥

भक्त्यावनतेन शिरसा प्रणम्य सङ्घाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिन्हितम् । ततः सङ्घस्थविरो भिक्षूनुवाच । भदन्ता भवभ्दिः शक्यमिदानीं संवेगमुत्पादयितुम् । कुतः । एवं ह्युक्तं भगवता- परविपत्तिः संवेजनीयं स्थानमिति । कस्येदानीं सहृदयस्य संवेगो नोत्पाद्यते । कुतः ।

(आव्१३१)
त्यागशूरो नरेन्द्रोऽसौ अशोको मोर्यकुञ्जरः ।
जन्बुद्विपेश्वरो भूत्वा जातोऽर्धामलकेश्वरः ॥
भृत्यैः स भूमिपतिरद्य हृताधिकारो
दानं प्रयच्छति किलामलकार्धमेतत् ।
श्रीभोगविस्तरमदैरतिगर्वितानां
प्रत्यादिशन्निव मनांसि पृथग्जनानाम् ॥

यावद्तदर्धामलकं चुर्णयित्वा यूषे प्रक्षिप्य सङ्घे चारितम् ।
ततो राजाशोको राधगुप्तमुवाच । कथय राधगुप्त कः साम्प्रतं पृथिव्यामीश्वरः ।

अथ राधगुप्तोऽशोकस्य पादयोर्निपत्य कृताञ्जलिरुवाच । देवः पृथिव्यामीश्वरः ।

अथ राजाशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य सङ्घायाञ्जलिं कृत्वोवाच ।

एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसङ्घे निर्यातयामि ।

आह च ।

इमां समुद्रोत्तमनीलकञ्चुकामनेकरत्नाकरभूषिताननाम् ।
ददाम्यहं भुतधरां समन्दरां सङ्घाय तस्मै ह्युपभुज्यतां फलम् ॥

(आव्१३२)
अपि च ।

दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं
काङ्क्षामि द्रुतवारिवेगचपलां प्रागेव राजश्रियम् ।
दानस्यास्य फलं तु भक्तिमहितं यन्मेऽस्ति तेनाप्नुयां
चित्तैश्वर्यमहर्यमार्यमहितं नायाति यद्विक्रियाम् ॥

यावत्पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितम् । ततो राजा महापृथिवीं सङ्घे दत्त्वा कालगतः । यावदमात्यैर्नीलपीताभिः शिविकाभिर्निर्हरित्वा शरीरपूजां कृत्वा ध्मापयित्वा राजानं प्रतिष्ठापयिष्याम इति [उक्तम्] । यावद्राधगुप्तेनाभिहितम् । राज्ञाशोकेन महापृथिवी सङ्घे निर्यातिता इति । ततोऽमात्यैरभिहितं किमर्थमिति ।

राधगुप्त उवाच । एष राज्ञोऽशोकस्य मनोरथो बभूव कोटीशतं भगवच्छासने दानं दास्यामीति । तेन षण्ण्वतिकोट्यो दत्ताः । यावदाज्ञा प्रतिषिद्धा । तदभिप्रायेण राज्ञा महापृथिवी सङ्घे दत्ता ।

यावदमात्यैश्चतस्रः कोटीर्भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः ।

(आव्१३३)
संपदिनो बृहस्पति पुत्रो बृहस्पतेऽर्वृषसेनो वृषसेनस्य पुष्यधर्मा पुष्यधर्मणः पुष्यमित्रः । सोऽमात्यानामन्त्रयते । क उपायः स्याद्यदस्माकं नाम चिरं तिष्ठेद् ।

तैरभिहितम् । देवस्य च वंशादशोको नाम्ना राजा बभूवेति । तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं यावद्भगवच्छासनं प्राप्यते तावत्तस्य यशः स्थास्यति । देवोऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु ।

राजाह । महेशाख्यो राजाशोको बभूव । अन्यः कश्चिदुपाय इति । तस्य ब्राह्मणपुरोहितः पृथग्जनोऽश्राद्धः । तेनाभिहितम् । देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति । राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं स्थापितमतस्तस्य नाम चिरं तिष्ठति । भवांश्चेत्तानि नाशयेद्भवतो नाम चिरतरं स्थास्यतीति ।

यावद्राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः । द्वारे च सिंहनादो मुक्तः । यावत्स राजा भीतः पाटलिपुत्रं प्रविष्टः । एवं द्विरपि त्रिरपि । यावद्भिक्षूंश्च सङ्घमाहूय कथयति । भगवच्छासनं नाशयिष्यामीति । किमिच्छथ स्तूपं सङ्घारामान् वा । स्तूपाः भिक्षुभिः (आव्१३४) परिगृहीताः । यावत्पुष्यमित्रो यावत्सङ्घारामं [नाशयन्] भिक्षूंश्च प्रघातयन् प्रस्थितः ।

स यावच्छाकलमनुप्राप्तः । तेनाभिहितम् । यो मे श्रमणशिरो दास्यति तस्याहं दीनारशतं दास्यामि । [तत्र एकः] धर्मराजिकावास्यऽर्हदृद्ध्या शिरो दातुमारब्धः । श्रुत्वा च राजार्हन्तं प्रघातयितुमारब्धः । स च निरोधं समापन्नः । तस्य परोपक्रमो न क्रमते । स तं समुत्सृज्य यावत्कोष्ठकं गतः ।

दंष्ट्रानिवासी यक्षश्चिन्तयति । इदं भगवच्छासनं विनश्यति । अहं च शिक्षां धारयानि । न मया शक्यं कस्यचिदप्रियं कर्तुम् । तस्य दुहिता कृमिशेन यक्षेण याच्यते । न चानुप्रयच्छति त्वं पापकर्मकारीति । यावत्सा दुहिता तेन कृमिशस्य दत्ता । भगवच्छासनपरित्राणार्थं परिग्रहपरिपालनार्थं च ।

पुष्यमित्रस्य राज्ञः पृष्ठतो यक्षो महाप्रमाणोऽनुबद्धः । तस्यानुभावात्स राजा न प्रतिहन्यते । यावद्दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबद्धं (आव्१३५) यक्षं ग्रहाय पर्वतचर्येऽचरत् । यावद्दक्षिणं महासमुद्रं गतः । कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनोऽवष्टब्धः । तस्य सुनिहित इति संज्ञा व्यवस्थापिता । यदा पुष्यमित्रो राजा प्रघाततस्तदा मौर्यवंशः समुच्छिन्नः ।

इति श्रीदिव्यावदानेऽशोकावदानं समाप्तम् ॥�
नेw देल्हि : सहित्य अकदेमि, १९६३.

इन्पुत्ब्य्मेम्बेर्सोf थे सन्स्क्रित्बुद्धिस्तिन्पुत्प्रोजेच्त्.
wइथ्किन्द्पेर्मिस्सिओनोf थे दिगितल्सन्स्क्रित्बुद्धिस्त्चनोन् प्रोजेच्त्
ओf नगर्जुन इन्स्तितुते, नेपल्
अन्दुनिवेर्सित्योf थे wएस्त्, रोसेमेअद्, चलिfओर्निअ, उस
(www.उwएस्त्.एदु।सन्स्क्रित्चनोन्)
सस्त्र सेच्तिओन्, तेxत्नो. ५६

थे त्रन्स्लितेरतिओनेमुलतेस्थे चोन्वेन्तिओन्सोf नगरि स्च्रिप्त्.
थेरेfओरे, मन्य्wओर्द्बोउन्दरिएसरे नोत्मर्केद्ब्य्ब्लन्क्स्.

स्त्रुच्तुरे ओf रेfएरेन्चेस्(अद्देद्):
आव्न्न्न् = पगिनतिओनोf एद्.

... = बोल्द्

___________________________________________________________________

थिस्तेxत्fइले इस्fओर्रेfएरेन्चे पुर्पोसेसोन्ल्य्!
चोप्य्रिघ्तन्द्तेर्म्सोf उसगे अस्fओर्सोउर्चे fइले.

तेxत्चोन्वेर्तेद्तो च्लस्सिचल्सन्स्क्रितेxतेन्देद्(च्स्x) एन्चोदिन्ग्:

देस्च्रिप्तिओन् छरच्तेर् =अस्चिइ

लोन्ग आ २२४
लोन्ग आ २२६
लोन्गि ई २२७
लोन्गि ई २२८
लोन्गु ऊ २२९
लोन्गु ऊ २३०
वोचलिच्र् ऋ २३१
वोचलिच्र् ऋ २३२
लोन्ग्वोचलिच्र् ॠ २३३
वोचलिच्ल् ळ २३५
लोन्ग्वोचलिच्ल् ॡ २३७
वेलर्न् ङ् २३९
वेलर्न् ङ् २४०
पलतल्न् ञ् १६४
पलतल्न् ञ् १६५
रेत्रोfलेx त् ट् २४१
रेत्रोfलेx त् ट् २४२
रेत्रोfलेx द् ड् २४३
रेत्रोfलेx द् ड् २४४
रेत्रोfलेx न् ण् २४५
रेत्रोfलेx न् ण् २४६
पलतल्स् श् २४७
पलतल्स् श् २४८
रेत्रोfलेx स् ष् २४९
रेत्रोfलेx स् ष् २५०
अनुस्वर ं २५२
चपितलनुस्वर ं २५३
विसर्ग ः २५४

लोन्गे ¹ १८५
लोन्गो º १८६
लुन्देर्बर् × २१५
रुन्देर्बर् Ÿ १५९
नुन्देर्बर् ­ १७३
कुन्देर्बर् É २०१
तुन्देर्बर् Â १९४

ओथेर्छरच्तेर्सोf थे च्स्x एन्चोदिन्ग्तब्ले अरे नोतिन्च्लुदेद्.
उन्लेस्सिन्दिचतेदोथेर्wइसे, अच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर्
तो fअचिलितते wओर्द्सेअर्छ्.

fओर चोम्प्रेहेन्सिवे लिस्तोf च्स्x अन्दोथेर्ग्रेतिलेन्चोदिन्ग्स्
अन्द्fओर्मत्स्सेए:
www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअच्.प्द्f
अन्द्
www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअस्.प्द्f

"https://sa.wikisource.org/w/index.php?title=अशोकावदानम्&oldid=341384" इत्यस्माद् प्रतिप्राप्तम्