अष्टमूर्त्यष्टकम्
शुक्राचार्यः
१९५३

॥ अष्टमूर्त्यष्टकम् ॥


तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाञ्चलः।
मौळावञ्जलिमाधाय वदन् जयजयेतिच ॥ १
   भार्गव उवाच:-
   त्वं भाभिराभिरभिभूय तमस्समस्तमस्तं न्यस्यमि-
मतं च निशाचराणाम् । देदीप्यसे दिनमणे गगने-
हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ।। २
   लोकेतिवेलमतिवेल महामहोभिर्निर्मासि कौमुद-
मुदं च समुत्समुद्रम् । विद्राविताखिलतमास्सुत-
मोहिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥ ३
   त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना
भुवनजीवन जीवतीह । स्तब्धप्रभञ्जन विवर्धित
सर्वजन्तो सन्तोषिताहिकुल सर्वग तन्नमस्ते ॥ ४
   विश्वैकपावक नतावक पावकैक शक्तेऋते मृत-
बतामृतदिव्यकार्यम् । प्राणित्यदो जगदहो जगदन्त-
रात्मन् तत्पावक प्रतिपदं शमदं नमस्ते॥ ५
   पानीयरूप परमेश जगत्पवित्र चित्रं विचित्र
सुचरित्र करोषि नूनम् । विश्वं पवित्रममलं किल

विश्वनाथ पानावगाहनत एतदतो नतोऽस्मि ॥ ६
   आकाशरूप बहिरन्तरितावकाश दानाद्विकस्वर
महेश्वर विश्वमेतत् । त्वत्तस्सदा सदय संश्वसिति
स्वभावात्संकोचमेति भवतोस्मि नतस्ततस्त्वाम् ॥ ७
   विश्वम्भरात्मक बिभर्ति विभोत्र विश्वं कोविश्वनाथ
भवतोन्यतमस्तमोरे । तत्त्वां विना नशमिनाहि
फणाहिभूष स्तव्यो परः परतर प्रणतस्ततस्त्वाम् ॥ ८
   आत्मस्वरूप तव रूपपरम्पराभिराभिस्ततं हर
चराचररूपमेतत् । सर्वान्तरात्मनिलय प्रतिरूपरूप-
नित्यं नतोऽस्मि परमात्मतनोऽष्टमूर्ते ॥ ९
   इत्यष्टमूर्तिभिरिमाभिरुमाभिनन्ध वन्यातिवन्ध
तव विश्वजनीतमूर्ते। एतत्ततं नु विततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थतनो नतोऽस्मि ॥ १०
   अष्टमूर्त्यष्टकेनेष्टं परिष्टुत्येति भार्गवः ।
भर्गं भूमिमिळन्मौळि: प्रणनाम पुनः पुनः ॥११

॥ इति श्रीशुक्राचार्यकृतं अष्टमूर्त्यष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=अष्टमूर्त्यष्टकम्&oldid=320162" इत्यस्माद् प्रतिप्राप्तम्