अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय १६-२०

अष्टाङ्गसंग्रहः

अथ षोडशोऽध्यायः।

अउ16.1
अथातस्तिमिरप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ16.2
तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया।
नेत्ररोगेष्वतो घोरं तिमिरं साधयेत् द्रुतम्॥

अउ16.3
तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषिते।
तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत्॥

अउ16.4
प्रपौण्डरीककाकोलीपिप्पलीलोध्रसैन्धवैः।
शताह्वामधुकद्राक्षा सितादारुफलत्रयैः।
कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम्॥

अउ16.5
द्राक्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः।
सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः॥

अउ16.6
पचेज्जीर्णघृतपस्थं समक्षीरं पिचून्मितैः।
हन्ति तच्छ्रुक्रतिमिररक्तराजीशिरोरुजः॥

अउ16.7
पटोलनिम्बकटुकादार्वीसेव्यवरावृषम्।
सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्॥

अउ16.8
प्रस्थमामलकानां च क्वाथयेदर्मणेऽम्भसः।
तदाढकेर्धपलिकैः पिष्टैः प्रस्थं घृतात् पचेत्॥

अउ16.9
मुस्तभूनिम्बयष्ट्याह्वकुटयोदीच्यचन्दनैः।
सव्योषचव्यैस्तत्सर्पिर्घ्राणकर्णाक्षिरोगजित्॥

अउ16.10
विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत्।
विशेषाच्छ्रुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत्॥

अउ16.11
त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके।
तेन तुल्यपयस्केन त्रिफलापलकल्कवान्॥

अउ16.12
अर्धप्रस्थो घृतात्सिद्धः सितया माक्षिकेण वा।
युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसम्॥

अउ16.13
यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः।
पालिकैः ससिताद्राक्षैर्घृतप्रस्थं पचेत् समैः॥

अउ16.14
अजाक्षीरवरावासामार्कवस्वरसैः पृथक्।
महात्रैफलमित्येतत् परं दृष्टिविकारजित्॥

अउ16.15
त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि।
यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम्॥

अउ16.16
मासमेकं हिताहारः पिबन्नामलकोदकम्।
सौपर्णं लभते चक्षुरित्याह भगवान् निमिः॥

अउ16.17
गव्यं घृतं लोहरजो भाजने बादरे स्थितम्।
त्रिफलाचूर्णसहितं पीतं तिमिरनाशनम्॥

अउ16.18
पुराणं च सिताभीरुयष्टीमधुकचूर्णवत्।
निषिक्तमग्निवर्णैर्वा जीर्णं सर्पिरयोगुडैः॥

अउ16.19
हेमरूप्यायसैश्चूर्णैर्युक्तां वा त्रिफलां पृथक्।
घृतक्षौद्रान्वितामद्यात् केवलां वा विचूर्णिताम्॥

अउ16.20
ताप्यायस्त्रिफलाचूर्णं मधुजीर्णघृतद्रुतम्।
लोहपात्रे स्थितं मासं माषराशौ च भक्षयेत्॥

अउ16.21
सक्तून् वाद्यात्ससर्पिष्कांस्त्रिफलाचूर्णसंयुतान्।
भुञ्जीत वा सुसिद्धेन सूपेनामलकैः सह॥

अउ16.22
प्रातर्भक्तस्य वा पूर्वमद्यात् पथ्यां पृथक् पृथक्।
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः॥

अउ16.23
क्वाथोसनात् भृङ्गरसस्तैलं कालतिलोद्भवम्।
लोहपात्रे तदेकत्र साधितं नावनं हितम्॥

अउ16.24
स्रोतोजांशांश्चतुष्षष्टिं हेमायोरूप्यताम्रकैः।
युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान्॥

अउ16.25
ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्।
रसस्कन्धकषायेण सप्तकृत्वः पृत्थक् पृथक्॥

अउ16.26
वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः।
चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वतिमिरापहम्॥

अउ16.27
निर्दग्धं बदराङ्गारैस्तुत्थं चेत्थं निषेचितम्।
क्रमादजापयः सर्पिः क्षौद्रैस्तस्मात् पलद्वयम्॥

अउ16.28
कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः।
पटुलोध्रशिलापथ्याकणैलाञ्जनफेनकैः॥

अउ16.29
युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम्।
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः।
चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा॥

अउ16.30
मनोह्वासैन्ध्हवव्योषशङ्खनाभीरसाञ्जनम्।
कतकं चन्दनं फेनो विडङ्गानि सितोपला॥

अउ16.31
कुक्कुटाण्डकपालं च जलपिष्टा सुखावती।
हन्त्येषा मधुना घृष्टा काचतैमिर्यशुक्लकान्॥

अउ16.32
त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः।
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः॥

अउ16.33
आजेन पयसा पिष्ट्वा लेपयेत्ताम्रभाजनम्।
सप्तरात्रे गते भूयः पिष्टं क्षीरेण वर्तयेत्।
एषा दृष्टिप्रदा वर्तिरपि स्याद्भिन्नचक्षुषः॥

अउ16.34
अञ्जनं कृष्णसर्पास्ये निहितं कुशवेष्टिते।
ततस्ततः समुद्वृत्य मासात् सञ्चूर्णयेत् सह॥

अउ16.35
सुमनःक्षारकैः शुष्कैरर्धांशैः सैन्धवेन च।
प्रयोजयेद्रागवति तिमिरे तद्वराञ्जनम्॥

अउ16.36
पयसा त्रयमेतच्च चूर्णयित्वा सुभावितम्॥

अउ16.37
सामान्यं साधनं त्वेतत्प्रतिदोषमतः शृणु॥

अउ16.38
वातजे तिमिरे तत्र दशमूलाम्भसा घृतम्।
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः॥

अउ16.39
त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम्।
एरण्डतैलसंयुक्तं योजयेत विरेचनम्॥

अउ16.40
शङ्खिनीतिल्वकश्यामादन्तीर्निष्काथ्य वा जले।
त्रिवृत्कल्कप्रतीवापं तेन पक्वं घृतं पिबेत्॥

अउ16.41
प्रपौण्डरीकबृहतीबलानलदसैन्धवैः।
दारुबिल्वाडकीकृष्णा हरिद्द्रामधुयष्टिभिः।
सिद्धं चतुर्गुणक्षीरं तैलं नस्तो निषेचयेत्॥

अउ16.42
सितैरण्डजटासिंहीफलदारुनिशानतैः।
शताह्वाबिल्वमूलैश्च तैलं पक्वं पयोऽन्वितम्।
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिषु॥

अउ16.43
वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते।
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक्॥

अउ16.44
प्रत्यञ्जनं च स्रोतोजं रसक्षीरघृतैः क्रमात्।
निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम्॥

अउ16.45
नचेदेवं शमं याति ततस्तर्पणमाचरेत्॥

अउ16.46
शताह्वाकुष्ठनलदकाकोलीद्वययष्टिभिः।
प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः।
सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम्॥

अउ16.47
प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत्॥

अउ16.48
वातपीनसवच्चात्र निरूहं सानुवासनम्॥

अउ16.49
पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम्।
शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैर्विरेचयेत्॥

अउ16.50
मञ्जिष्ठालोध्रमधुकसारिवाचन्दनैः शृतम्।
जलं सशर्करास्तन्यं नेत्रसेके प्रशस्यते॥

अउ16.51
स्तन्यं वा पद्मकोशीरक्षीरिवृक्षाङ्कुरैः शृतम्।
तप्तैर्निर्वापितं सर्पिरसकृल्लोहपिण्डकैः॥

अउ16.52
विमर्दितसिताद्राक्षं हिमं तच्चाक्षिसेचनम्।
शीतानालेपसेकादीन् मुखे मूर्ध्नि च शीलयेत्॥

अउ16.53
सारिवापद्मकोशीरमुस्ताशाबरचन्दनैः।
वर्तिः शस्ताञ्जने चूर्णस्तथा पद्मोत्पलाञ्जनैः।
सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगौरिकैः॥

अउ16.54
लोध्रमूर्वाप्रपुण्ड्राह्वमांसीयष्ट्याह्वचन्दनैः।
सोशीरैः साधितं सर्पिः सक्षीरं तर्पणं हितम्॥

अउ16.55
एभिरेवौषधैश्छागे पक्वे यकृति तद्रसे।
पूर्ववत् पुटपाकश्च कार्यस्तिमिरनाशनः॥

अउ16.56
श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम्।
विध्येत् सिरां पीतवतो दद्याच्चानु विरेचनम्।
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्॥

अउ16.57
करञ्जकट्फलवचात्रिफलापञ्चकोलकैः।
सदार्वीकैः पयो युक्तं सिद्धं तैलं च नावनम्॥

अस16.58। शङ्खप्रियङ्गुनैपालीकटुत्रिकफत्रिकैः।
दृग्वैमल्याय विमला वर्तिः स्यात् कोकिला पुनः॥

अउ16.59
कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः।
पीताख्या द्विनिशाकुष्ठनतपत्रकणोषणैः॥

अउ16.60
पत्रपीतावराव्योषशिलालनतसैन्धवैः॥

अउ16.61
मनोह्वाशङ्खसिन्धूत्थमरिचैस्तिमिरं जयेत्।
वर्तिः प्रगाढमप्याशु शुक्रपिल्लामयार्म च॥

अउ16.62
तालीसपाठाकिणिहीवेल्लमांसीनिशाभयैः।
पिष्टैः क्षीरिद्रुमक्वाथे घृतं सिद्धं च तर्पणम्॥

अउ16.63
पुटपाकं च पिशितैर्जाङ्गलैः सैन्धवान्वितैः।
सपिप्पलीमधुघृतैः कल्कितैः प्रागिवाचरेत्॥

अउ16.64
शिग्रुपत्रैर्जलस्विन्नैः कार्यः स्वेदश्च मात्रया॥

अउ16.65
रक्तजे पित्तवत् कार्यं सन्निपाते यथोल्बणम्॥

अउ16.66
व्याघ्रर्ष्यगोशिखिवसा यवक्वाथपयोयुता।
दूर्वामधुककल्केन विपक्वा तर्पणे हिता॥

अउ16.67
यष्ट्यनन्ताद्विबृहतीपिप्पलीलवणद्वयैः।
सलोहचन्दनैः पक्वं यकृता शल्यकस्य च।
मृगगोधाशशानां च पुटपाकं प्रकल्पयेत्॥

अउ16.68
दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम्।
तत्स्रुतं सघृतं भूयः पचेत् क्षौद्रं क्षिपेद्धने।
शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम्॥

अउ16.69
कुष्ठं वा शर्करोपेतमान्तरिक्षेण वारिणा।
निष्काथ्यं सर्पिःक्षौद्राभ्यां संसृष्टं प्रागिवाञ्जनम्॥

अउ16.70
स्रोतोऽञ्जनं ससौवीरं वेष्टयित्वाजमेदसा।
वटपत्रैरनु तथा दर्भैः कृष्णमृदानु च।
गोमयानलपक्वं तत् प्रशस्तं चूर्णमञ्जनम्॥

अउ16.71
उरभ्रशल्यकश्वाविण्मार्जारशिखिजन्ममिः।
वसाभिर्विधिनानेन योगा योज्याः पृथक् पृथक्॥

अउ16.72
वटप्ररोहमधुकदूर्वालोध्रतिलोत्पलैः।
वयोम्बुपिष्टैः सघृतैः शिरो वक्त्रं च लेपयेत्॥

अउ16.73
कुर्याच्छिरः परीषेकमेभिरेव पयःशृतैः॥

अउ16.74
सन्निपाते यदुदितं दोषोद्रेकं विभज्य तत्।
संसर्गेऽपि प्रयुञ्जीत काचे तिमिरवत् क्रिया॥

अउ16.75
न तु तत्र सिरां विध्येत् दृक्स्थिता यन्त्रपीडनात्।
कुर्युरान्ध्यं मला दद्यात् स्रव्ये त्वस्रे जलौकसः॥

अउ16.76
धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा।
स्निग्धं विरेचयेच्छीतैश्शीतैर्दिह्या च सर्वतः॥

अउ16.77
गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम्।
स्वर्णगौरिकतालीसचूर्णावापा रसक्रिया॥

अउ16.78
पुराणगुडकासीसपिप्पलीकट्फलाद्रजः।
भावितं त्रिफलाम्भोभिः शुष्कं गोविड्रसाप्लुतम्।
निशान्ध्वतिमिरे सद्यो गुटिका हन्ति तत्कृता॥

अउ16.79
दध्ना विघृष्टं मरिचं रात्र्यन्धांजनमुत्तमम्।
भृष्टं घृतं कुम्भयोनेः पत्रैः पाने च पूजितम्॥

अउ16.80
कारञ्जिकोत्पलस्वर्णगौरिकाम्भोजकेसरैः।
गोविड्रसेन पिष्टेयं वर्तिर्नक्तान्ध्यनाशिनी॥

अउ16.81
क्षौद्रजातीरसाभ्यां वा द्विहरिद्रारसाञ्जनैः।
अजामूत्रेण वा कौन्तीकृष्णास्त्रोतोजसैन्धवैः॥

अउ16.82
गोशकृद्रसपिष्टैर्वा द्विनिशापिप्पलीयुतैः।
कालानुसारीतालीसपत्रयष्ट्याह्वनागरैः॥

अउ16.83
कणा वा कापिले पित्ते मासार्धं परिभाविता।
यकृत्पित्तेषु वा गोधाशशर्ष्यरुरुबर्हिणाम्॥

अउ16.84
खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत्।
तथातिमुक्तकैरण्डसोहलाभीरुजानि च॥

अउ16.85
व्रणवच्चाक्षिरोगेषु भोज्याभोज्यानि निर्दिशेत्॥

अउ16.86
अविधारितवेगस्य भजतोऽञ्जननावनम्।
त्यजतः क्रोधशोकौ च तिमिरं नाश्नुतेऽन्तरम्॥

अउ16.87
त्रिफलामश्नतो रात्रौ संस्कृतं पिबतो घृतम्।
भुक्त्वा चापिबतस्तोयं तिमिरं लघु शाम्यति॥

अउ16.88
सुषभव्यं सुकन्यां च स्कन्दं च्यवनमश्विनौ।
पडेतान् यः स्मरेन्नित्यं तस्य चक्षुर्न हीयते॥

अउ16.89
चिन्ताभिघातभीशोकरौक्ष्यामोत्कुटिकासनात्।
विरेकनस्यवमनपुटपाकादिविभ्रमात्॥

अउ16.90
विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात्।
अक्षिरोगावसानाच्च पश्येत्तिमिररोगिवत्॥

अउ16.91
सूर्योपरागानलविद्युदादिविलोकनेनोपहतेक्षणस्य।
सन्तर्पणं स्निग्धहिमादि योज्यं तथाञ्जनं हेम घृतेन घृष्टम्॥

अउ16.92
चक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः कर्तव्यो जीविते यावदिच्छा।
व्यार्थो लोकोऽयं तुल्यरात्रिन्दिवानां पुंसामन्धानां विद्यामानेऽपि वित्ते॥

अउ16.93
त्रिफलारुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम्।
शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा॥

अउ16.94
अहितादशनात् सदा निवृत्तिर्भृशभास्वच्चलसूक्ष्मवीक्षणाच्च।
मुनिना निमिनोपदिष्टमेतत् परमं रक्षणमीक्षणस्य पुंसाम्॥

अउ16.95
तमालतृटिकुङ्कुमान्यसितमुत्पलं पिप्पली सिताञ्जनमयोरजो मरिचकाकमाचीत्वचः।
सयष्टिमधुकाञ्जनान्युदधिफेनमक्ष्यामयेष्वनुत्तममतोऽञ्जनं विमलमाशु तैमिर्यहृत्॥
॥इति षोडशोऽध्यायः॥

अथ सप्तदशोऽध्यायः।

अउ17.1
अथातो लिङ्गनाशप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयोमहर्षयः॥

अउ17.2
लिङ्गनाशे नीलिका पटलमान्ध्यमिति पर्यायाः।
सः श्लैष्मिक एव प्राक् साध्योऽभिहितः।
तस्य पुनः षडुपद्रवाः।
आवर्तकी, शर्करा, राजीमती, छिन्नांशुका, चन्द्रकी, छत्रकी चेति॥

अउ17.3
तत्र श्वेतारुणावर्तवदनवस्थिता दृष्टिरावर्तकी।
अर्कक्षीरलेशेनेव कूर्चिकापिण्डेनेव चाचिता शर्करा।
शालिशूकाभराज्यावृता राजीमती।
छिन्नविषमदग्धाभा सरुक् छिन्नांशुका।
कांस्यसमच्छाया चन्द्रकसंस्थाना चन्द्रकी।
नैकवर्णा छत्रनिभा छत्रकी।
ता न विध्येत्।
अपि च॥

अउ17.4
न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम्।
नाजीर्णभीरुवमितशिरःकर्णाक्षिशूलिनाम्।
नात्युष्णशीतवाताभ्रे नासम्पूर्णां च नीलिकाम्॥

अउ17.5
असञ्जाता हि विषमा दधिमस्तुतनुश्च सा।
शलाकयावघृष्टापि पुनरूर्ध्वं प्रपद्यते।
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः॥

अउ17.6
सा च सम्पूर्यते शीघ्रं श्लेष्मलर्वातपित्तलैः।
चिरात्सोपद्रवा च स्यान्निष्प्रेक्ष्यात्वर्हति व्यधम्॥

अउ17.7
अथ स्निग्धस्य विरिक्तस्य घृतैः सम्भोजितस्य निशि रसेन प्रीणितोत्तमाङ्गस्याभुक्तवतः सज्जोपकरणस्य विमलेऽहनि साधके च कृतस्वस्त्ययनस्य विहितादित्यविदेहाधिपतिप्रणामस्य पूर्वाह्णे निवातप्रकाशदेशस्थस्य प्रत्यादित्यमास्तरणेन लब्धमार्दवायां भामौ प्रसारितचरणयुग्ममुपविष्टस्य क्षितितलगतसमतलोभयपाणेः पृष्ठतः सुखोपविष्टेन परिचारकेण हस्ताभ्यां निश्चलमवलम्बितशिरसः किश्चिदुत्तानास्यस्य स्वां नासामितरच्चेक्षणमीक्षमाणस्यातुरस्य जङ्घयोरुपरिष्टान्नात्युच्छ्रितासननिविष्टो भिषग् दक्षिणहस्तानुलोममक्षि मुखबाष्पस्विन्नं निमीलितमीषदङ्गुष्ठोदरविमृदिततारकतया परिप्लुतदोषं सव्याङ्गुष्ठप्रदेशिनीभ्यामुन्मील्य दक्षिणमध्यमाप्रदेशिन्यङ्गुष्ठैर्निष्कम्पं गृहीतया शलाकया कृष्णभागाद्भागद्वयस्यापाङ्गादेकभागस्य च सङ्गमे दृष्टेरार्जवं नात्यूर्ध्वमधो वा नेत्रसहजन्मनि सन्धौ विध्येत्॥

अउ17.8
एवमेव दक्षिणं दक्षिणाङ्गुष्ठप्रदेशिन्युन्मीलितमितरेण करेणैव चातुरस्य दक्षिणपार्श्वे स्थित्वा॥

अउ17.9
अथ शब्दवदवेदनं साम्बुबिन्दुस्रुति च सम्यग्विद्धं विद्यात्।
प्रविष्टमात्रां च शलाकां धारयेत्।
रागाश्रुवेदनानुत्पादनार्थं च स्तन्येन सेचयेत्।
ततः पुनरातुरमाश्वास्य भ्रमयन् शलाकामा दृष्टिमध्यात् प्रवेशयेत्॥

अउ17.10
अधश्चास्यावलिकयतो लिङ्गनाशमद्रुतमविलम्बितमनुसुखमधोमुखमपनयेदुच्छिङ्खयेच्चैनम्।
तथा हि दृक् स्रस्तकफस्य विशुध्यति।
विशुद्धदृष्टेश्चाङ्गुलिं तन्तून् ज्ञातीन् सन्ततींश्च दर्शयेत्।
प्रेक्षमाणस्य चानिमीलितान्नेत्राच्छन्नैः शनैः भ्रमयन्नेव शलाकामपकर्षेत्।
अथ व्यपगतदोषस्य यथावत् पश्यतः सुखोष्णघृताप्लुतं पिचुमीक्षणस्योपरि दत्वा बध्नीयात्।
ततो निवातमागारमनुप्रवेश्य संवेश्य च सोपधाने मृदुशयने शयानं दक्षिणेऽक्षिणि विद्धे वामेन पार्श्वेन वामे दक्षिणेनोभयस्मिन्नुत्तानमनुकूलाभिः कथाभिरुपाचरेत्।
यथाशक्ति चैनमुपवासयेत्।
उद्गारक्षवथुकासनिष्ठीवनोत्क्षेपणानि त्र्यहं परिहरेत्।
स्नानाम्बुपानदन्तधावनाधोमुखावस्थानानिसप्ताहम्॥

अउ17.11
स्नेहविधिं चेक्षेत।
मूर्ध्नि पादयोश्च घृताभ्यङ्गमाचरेत्।
तृतीये चाह्नि मुक्त्वाक्षि परिषेचयेदेरण्डपल्लवशृतेन दुग्धोष्णेन दुग्धेन।
जीवनीयैर्वा सिद्धेन पयसा हविषा वा।
तद्वल्लघुना पञ्चमूलेन।
ततः पूर्ववद् बध्नीयात्॥

अउ17.12
ततः प्रभृत्येवमेव प्रत्यहमासप्ताहम्।
सप्तमे तु दिवसे सर्वथा मोक्षयेत्।
दशमे वा।
भोजयेच्चैनं व्योषामलकयुक्तं द्रवमीषत्स्नेहलवणं वाट्यमुष्णोदकद्वितीयं विलेपीं वा।
एवमाचरतो रुजारागादयो नानुवर्तन्ते॥

अउ17.13
तदनुवृत्तौ तु यष्टीमधुकलोध्रमृद्वीकासैन्धवैः सिद्धेन ससितेनाजपयसा नयनमाश्च्योतयेत्।
मधुककुष्ठोत्पलद्राक्षालाक्षाशर्कराभिर्वा।
पृश्निपर्णीमुस्तमधुकशतावरीपंद्मकसैन्धवैर्वा॥

अउ17.14
शिरोवक्त्रलेपं च सारिवागैरिकयवदूर्वाघृतैः कुर्यात्।
मातुलुङ्गरसाप्लुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः।
अजाक्षीरद्रुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः।
अजाक्षीरद्रुतैर्वा पयस्यासारिवापत्रमञ्जिष्ठायष्ट्याह्वैर्हिमः सुखोष्णो वा लेपः।
तद्वद्देवदारुनागरमद्मकैर्वा॥

अउ17.15
जाङ्गलरसेन च जीवनीयक्वाथवता भोजयेत्।
वातहरवर्गसिद्धेन च पयसा।
पद्मकादिगर्भसिद्धं सर्पिः पाननावनसेकेषु विदध्यात्।
तथानुपशमे सिरां विध्येत्।
अधिमन्थसाधनं चेक्षेत॥

अउ17.16
यथोक्ताचारातिक्रमात्तु व्यधः पाकमुपयाति।
अभिष्यन्दाधिमन्थादयः स्युर्व्यधदोषाच्च।
तान्यथास्वमुपत्रमेत॥

अउ17.17
व्यधदोषाः पुनरध ऊर्ध्वं कृष्णासन्नमपाङ्गासन्नं सिराव्यधश्च॥

अउ17.18
तत्राधोव्यधादत्यर्थशूलास्रस्रुतिरागाः शलाकायांश्चोपलेपो बहलपिच्छिलः कृष्णां वलिभिरुपचीयते नयनं स्रवति तद्वर्जयेत्॥

अउ17.19
ऊर्ध्वव्यधादतिमात्ररुक्।
तत्रात्युष्णघृतपरिषेको वातहरं च कर्म॥

अउ17.20
कृष्णासन्नव्यधान्नसुखमपनीयते पटलम्।
कृष्णे च रुजा।
दृष्टिरपि च रक्तावच्छादिता कृष्णमण्डलाभा भवति।
तत्र सर्पिस्सेकविरेकरक्तमोक्षैः सिद्धिः॥

अउ17.21
अपाङ्गासन्नव्यधाच्छोफशूलतोदभेदाः सास्राः स्रुतयः।
तत्र घृतसेकोपवासौ भ्रुवोरन्तरे च दाहः॥

अउ17.22
सिराव्यधाद्रक्तागमो विविधाश्च वेदनाः।
तत्र स्तन्यमधुकविपक्वेन सर्पिषा परिषेकोऽपाङ्गे वा दाहः॥

अउ17.23
सिराजालवति तु नेत्रे प्राक् सिराजालमपनयेत्।
ततो लब्धबलं स्निग्धं च विध्येत्॥

अउ17.24
अथ शलाकाभ्रमणदोषाः।
क्षोभणमूर्ध्वमधोऽत्यर्थदृष्टिघट्टनमतिदृष्टिप्रेरणं च।
शलाकाक्षोभणाद्धिस्पन्दनतोदभेदपरिमन्थाः।
तस्मिन्यष्टीमधुकपोट्टल्या घृतमृदितया सेको जलौकसश्च।
ऊर्ध्वप्रणयनाद्रागोऽतिवेदना च।
तत्रोपवासो घृतसेकश्च स्पर्शसुखः।
अधोनयनाच्छूलं रक्तागमश्च।
तत्र क्षोभणवत् सिद्धिः।
अत्यर्थदृष्टिघट्टनाद्दृष्ट्याकुलता।
तत्र सर्पिर्मण्डोनुवासनं नावनं च।
अतीत्य दृष्टिं शलाकायाः प्रेरणाद्रक्तस्रवणं रक्ताभरूपदर्शनं च।
तत्र सर्पिस्सेकोपवासजलौकसः॥

अउ17.25
लिङ्गनाशदोषास्तु स्फुटनमवगलनं विस्तरणमुत्प्लवनं लीनता च।
तत्र शलाकया स्पृष्टो लिङ्गनाशो यः स्फुटति तमेरण्डपत्रस्विन्नं खण्डशः शोधयेत्।
ततः कृष्णासैन्धवमधुभिरवपीडनम्।
अवगलति तु शलाकामपनीय स्तन्यसेकं दद्यादवपीडनं च शुण्ठीगुडं जलौकसश्च।
विस्तीर्यमाणे सुखोष्णाम्बुप्लुतेन वाससा स्वेदो घृतमण्डश्च प्रतिमर्शः।
तद्वदुत्प्लवमाने वित्रासनं शीताम्भसा प्रततं चोच्छिङ्खनं च॥

अउ17.26
स्थिरे चले च दोषे पत्रभङ्गस्वेदः।
तथाप्यनपगच्छति शलाकापगमने वा पुनरुत्प्लवने स्नेहपाननस्यादिभिरुपपाद्य पुनर्विध्येत्।
एवमपि पुनरुत्प्लवने भ्रुवोरन्तरे दाहः॥

अउ17.27
यस्त्वपकृष्यमाणो दृष्टिमण्डले लीयते तत्र क्षीरेण नाडीस्वेदं दद्यात्।
शताह्वामधुकचूर्णसंसृष्टं च घृतं प्रतिमर्श इति।
भवति चात्र॥

अउ17.28
स्वेददाहप्रतीमर्शान् सद्योविद्धे तु सेचनम्॥

अउ17.29
अवपीडं तृतीयेऽह्नि युञ्ज्यात्तद्वज्जलौकसः।
सप्ताहान्ते सिरामोक्षं विरेकं बस्तिकर्म च॥

अउ17.30
यन्त्रणामनुरुध्येत दृष्टेरा स्थैर्यलाभतः।
रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत्॥

अउ17.31
कुर्याच्छ्लाकास्थूलाग्रा विशालव्रणतां तनुः।
पटलोत्प्लवनं तीक्ष्णा क्षतमन्तः खरारुजः।
कण्ठा च विषमाश्रूणि द्रस्वा दीर्घा च दुर्ग्रहा॥

अउ17.32
आढकीमूलमरिचहरितालरसाञ्जनैः।
विद्धेऽक्ष्णि सगुडा वर्तिर्योज्या दिव्याम्बुपेषिता॥

अउ17.33
जातीशिरीषधवमेषविषाणषुष्पवैडूर्यमौक्तिकफलं पयसा सुपिष्टम्। आजेन ताम्रममुना प्रतनुप्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम्॥

अउ17.34
पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः।
स्रोतोजविद्रुमशिलाप्पतिफेनतीक्ष्णैरस्यैव तुल्यमुदितं गुणकल्पनाभिः॥
॥इति सप्तदशोऽध्यायः॥

अथ अष्टादशोऽध्यायः।

अउ18.1
अथातः सर्वगाक्षिरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ18.2
वातेन नेत्रेऽभिष्यण्णे नासानाहोऽल्पशोफता।
शङ्खाक्षिभ्रूललाटास्यतोदस्फुरणभेदनम्॥

अउ18.3
शुष्काल्पा दूषिका शीतमल्पं चाश्रु चला रुजः।
निमेषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम्॥

अउ18.4
अक्ष्याध्मातमिवाभाति सूक्ष्मैश्शल्यैरिवाचितम्।
स्निग्धोष्णैश्चोपशमनम् सोभिष्यन्द उपेक्षितः॥

अउ18.5
अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः।
अरण्येव च मथ्यन्ते ललाटाक्षिभ्रुवादयः॥

अउ18.6
हताधिमन्थः सोपि स्यात् प्रमादात्तेन वेदनाः।
अनेकरूपा जायन्ते व्रणो दृष्टौ च दृष्टिहा॥

अउ18.7
मन्याक्षिशङ्खतो वायुरन्यतो वा प्रवर्तयेत्।
व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम्।
सङ्गोचयति पर्यश्रु सोन्यतोवातसंज्ञितः॥

अउ18.8
तद्वज्जिह्मं भवेन्नेत्रमूनं वा वातपर्यये॥

अउ18.9
दाहो धूमायनं शोफः श्यावता वर्त्मनोर्बहिः।
अन्तःक्लेदोऽश्रु पीतोष्णं रागः पीताभदर्शनम्।
क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम्॥

अउ18.10
ज्वलदङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम्।
अधिमन्थे भवेन्नेत्रम् स्यन्दे तु कफसम्भवे॥

अउ18.11
अधिमन्थे भवेन्नेत्रम् स्यन्दे तु कफसम्भवे।
जाड्यं शोफो महान् कण्डूर्निद्रान्नानभिनन्दनम्।
सान्द्रस्निग्धबहुश्वेतपिच्छावद्दूषिकाश्रुता॥

अउ18.12
अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम्।
प्रसेको नासिकाध्मानं पांसुपूर्णमिवेक्षणम्॥

अउ18.13
रक्ताश्रुराजीदूषीका रक्तमण्डलदर्शनम्।
रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम्॥

अउ18.14
मन्थेऽक्षिताम्रपर्यन्तमुत्पाटनसमानरुक्।
रागेण बन्धूकनिभं ताम्यति श्पर्शनाक्षमम्।
असृङ्निमग्नारिष्टाभं कृष्णमग्न्याभदर्शनम्॥

अउ18.15
अधिमन्था यथास्वं च सर्वे स्यन्दाधिकव्यथाः।
शङ्खदन्तकफोलेषु कपाले चातिरुक्कराः॥

अउ18.16
वातपित्तातुरं घर्षतोदभेदोपदेहवत्।
रूक्षदारुणवर्त्माक्षिकृच्छ्रोन्मीलनिमीलनम्॥

अउ18.17
विकूणनविशुष्कत्वशीतेच्छाशूलपाकवत्।
उक्तः शुष्काक्षिपाकोऽयम् सशोफः स्यात्त्रिभिर्मलैः॥

अउ18.18
सरक्तैस्तत्र शोफोऽतिरुग्दाहष्ठीवनादिमान्॥

अउ18.19
अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः॥

अउ18.20
अल्पशोफोऽल्पशोफस्तु पाकोऽन्यैर्लक्षणैस्तथा॥

अउ18.21
अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता।
कफोपदिग्धमसितं सितं प्रक्लेदरागवत्।
दाहो दर्शनसंरोधो वेदनाश्चानवस्थिताः॥

अउ18.22
अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः।
सिराभिर्नेत्रमारूढः करोति श्यावलोहितम्॥

अउ18.23
सशोफदाहपाकाश्रु भृशं चाविलदर्शनम्।
अम्लोषितोऽयमित्युक्ता गदाः षोडश सर्वगाः॥

अउ18.24
हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत्॥

अउ18.25
वातोद्भूतः पञ्चरात्रेण दृष्टिं सप्ताहेन श्लेष्मजातोऽधिमन्थः।
रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रान्मिथ्याचारात् पैत्तिकः सद्य एव॥
॥इति अष्टादशोऽध्यायः॥

अथ एकोनविंशोऽध्यायः।

अउ19.1
अथातोऽभिष्यन्दप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयोमहर्षयः॥

अउ19.2
अथ खलु सर्वगाक्षिरोगाणां पूर्वरूप एव शिरोविरेककवलधूमोपवासानासेवेतान्यत्र मारुतोद्रेकात्॥

अउ19.3
सर्वत्र तु चन्दनमरिचपत्रैलास्वर्णगैरिकतगररसाञ्जनलवणयष्ट्याह्वैर्बिडालकं कुर्यात्॥

अउ19.4
तथा दार्वीतुत्थहरीतकीभिर्वातपित्ते।
कफे तु हरीतकीनागररसाञ्जनस्वर्णगैरिकैः॥

अउ19.5
अपि च।
कुष्ठामिसिपिप्पलीचन्दनोत्पलैर्बिडालको वेदनाघ्नः।
मुस्तागरुचन्दनैः क्षौद्रयुतैः शूलदाहरागघ्नः।
सन्धवागरुत्रिजातकत्रिकटुकस्वर्णगैरिककुष्ठतगरशैलेयकैः शूलश्वयथुदाहरागनुत्॥

अउ19.6
शिग्रुफलमनोह्वाशाबरलोध्रैः क्रमाच्चतुर्गुणप्रवृद्धैः श्लक्ष्णरजोभिः सूक्ष्मतान्तवस्थैर्नयनमवचूर्णयेत्॥

अउ19.7
श्वेतलोध्रत्वचं बहिर्विलिखितां निम्बपत्रकल्केन प्रदिग्धां पुटपाके विपक्वामर्धपलोन्मितां मरिचचतुष्टययुक्तां श्लक्ष्णरजीकृतां वस्त्रबद्धामक्ष्ण्यवकिरेत्।
एतदवगुण्ठनं शूलदाहाश्रुश्वयथुकण्डूषापाकक्लेदोपदेहहरम्।
तयैव च पोट्टलिकयाश्च्योतनकालेऽवन्तिसोमाप्लुतयाश्च्योतयेत्॥

अउ19.8
पूर्ववद्वा लोध्रवल्कलकल्कमुपस्कृतं तन्मात्रमेव मरिचद्वयेन मनश्शिलापादेनाष्टांशकैश्च यष्टीमधुकशतपुष्पाञ्जनैर्युक्तं प्रकल्पयेत्।
अपि च॥

अउ19.9
आरण्याश्छगणरसे पटावबद्धाः सुस्विन्ना नखवितुषीकृताः कुलत्थाः।
तच्चूर्णं सकृचूदवर्णनान्निशीथे नेत्राणां विधमति सद्य एव कोपम्॥

अउ19.10
अथ दारुहरिद्रापलमुदकार्धप्रस्थेनाष्टांशशेषं क्वथितं माक्षिकयुक्तमाश्च्योतनं कुर्वीत॥

अउ19.11
एवं चानुपशमे वाताभिष्यन्दिनमादावेव जाङ्गलरसैर्भेजयित्वा दशमूलरास्नात्रिफलाक्वाथेन जीवनीयकल्केन च पयोयुतं सिद्धमितरद्वा पुराणसर्पिः पाययेत्॥

अउ19.12
आश्च्योतनं चास्यैरण्डमूलपल्लवैः शृतमजाक्षीरं कुर्यात्।
सालपर्णीपृश्निपर्णीद्विबृहतीमधुकोरुपूगैर्वा।
तद्वत्तगरद्रीबेरशार्ङ्गेष्ठोदुम्बरमधुकपिप्पलीबृहतीद्वयैरण्डमूलैर्वा॥

अउ19.13
अंशुमतीद्वयबृहतीकण्टकारिकाभिर्वा तान्तवावबद्धाभिः सुरामद्यधान्याम्लान्यतमाप्लुताभिरानूपमांसाम्लक्वाथेन वा॥

अउ19.14
तैरेव च मांसैर्वेशवारीकृतस्विन्नैर्महास्नेहवद्भिर्यवचूर्णलवणप्रगाढामुत्कारिकां कृत्वा ललाटगण्डादीन् स्वेदयेत्॥

अउ19.15
अथवा रास्नाभीरुदशमूलबलाकोलकुलत्थयवानामजाक्षीरस्विन्नानां बाष्पेण।
रास्नादिभिरेव सिद्धं तैलं सर्पिर्वा नावनम्।
एवंविधैरेव नाडीस्वेदं कुर्यात्॥

अउ19.16
सरलसुरभिघनदेवदारुहिंस्राकरञ्जफलबिल्वसर्षपैश्च सभृष्टतिलैः पयसा पिष्टैः सुखोष्णैर्मुखालेपोऽक्षिवेदनास्तम्भप्रशमनः॥

अउ19.17
एवमस्यानुपशान्तरुजः सिरां मोक्षयेत्।
स्नेहस्वेदविष्यन्दं हि वातदुष्टमसृङ्निर्द्रियमाणं नानिलप्रकोपाय।
पुनश्च स्निग्धाय तिल्वकेन संयुक्तं वा तिल्वककषायानुपानं सर्पिर्विरेचनं दद्यात्।
शुद्धं च वातप्रतिश्यायवदास्थापयेदनुवासयेच्च॥

अउ19.18
अथ तिलान् निस्तुषान् बिल्वफलक्वाथेन भावयेन्निशि दिवा शोषयेदेवं पञ्चाहम्।
तेभ्यस्तैलं गृहीत्वा वराहमेदोयुक्तं बिल्वमूलमधुयष्टिकाकल्केन पयसा च पचेत्।
तेन नस्यं शिरोबस्तिं च कुर्यात्।
सर्वगन्धनिर्यूहेण वा मधुकगर्भं सक्षीरं तैलम्।
स्नैहिकं च धूमं पिबेत्॥

अउ19.19
उपशान्तरुजोऽस्य च तर्पणम्।
काश्मर्यमधुकः कुमुदोत्पलोरुपूगकुष्ठबृहतीतमालमांसीसारिवाप्रपौण्डरीकदर्भमूलकशेरुकाभिः पयः साधयेत् तत्तर्पणनस्याभ्यङ्गेषु विदध्यात्॥

अउ19.20
कृष्णसर्पशिरो वा क्षीरे क्वाथयेत्।
ततः स्नेहमुद्धृत्य चन्दनोशीरशर्करोत्पलकल्केन क्षीरवता पक्वं तर्पणम्।
अथवा पञ्चमूलजीवनीयकुक्कुटमांसैःपयो विपचेत्, ततो नवनीतं घनानन्तासारिवोशीरचन्दनैः सपयस्कैः साधयेत्॥

अउ19.21
पुटपाकं च छागोरभ्रवराहाणामन्यतमस्य यकृत् पिप्पलीसैन्धवमधुघृतोपेतं कुर्यात्।
अञ्जनं चास्य दृक्प्रसादनार्थम्॥

अउ19.22
कृष्णतिलान् निस्तुषान् कृत्वा स्तन्येन सप्ताहं भावयेच्छोषयेच्च।
तच्चूर्णं सितोपलासमं कृत्वा मधुकार्धभागेन सैन्धवांशेन कृष्णसर्पशिरसश्चान्तर्धूमदग्धस्य भागेन संसृष्टं दिव्योदकपिष्टां गुटिकां कारयेत्॥

अउ19.23
गोधासर्पवसायामाजमेदसि च सैन्धवपिप्पलीचूर्णं रसाञ्जनं चावपेत्।
एषा मासं स्थिता रसक्रिया दृष्टिप्रसादनी रुजाहरा च॥

अउ19.24
उद्धृतसरेण गव्येन दध्नाम्लेन राजतं भाजनमालिम्पेत्।
नीलीभूतं च तद्विशुष्कं मस्तुना वर्तयः कृताः छायाविशोषिता वाताक्षिरोगं जयन्ति।
मागधिकाकण्टकारिकाद्वयमूलत्वङ्मधुकसितासैन्धवताम्ररजांस्यजाक्षीरेण पिष्ट्वा ताम्रपात्रमालेपयेत्।
सप्ताहात् सप्ताहादपनीय पुनस्तथैव पिष्ट्वा लेपयेत्।
सप्तभिः सप्तरात्रैर्गुटिका कृताः परं वाताक्षिरोगवेदनारागशोफतिमिरकाचनक्तान्ध्यतापाधिमन्थाभिघातहराः॥

अउ19.25
प्रत्यञ्जनं चात्र स्फटिकशङ्खनाभिमधुकगैरिकैरिक्षुरसपिष्टैर्वर्त्तिः॥

अउ19.26
अयमेव च सर्वो विधिरधिमन्धादिष्वपि प्रयोज्यः॥

अउ19.27
विशेषतस्त्वधिमन्थे सहचरस्फूर्जातककतकबीजबिल्ववृक्षादनीनिर्यूहेण सपयस्कं सर्पिः सिद्धं पिबेत्॥

अउ19.28
सर्पिषानुपशमे तैलं वसां मज्जानं पूर्वोक्तविधिवद्व्यत्यासेन कुर्यात्।
सर्वथानुपशान्तावुपरिभ्रुवोर्यथोक्तो दाहः॥

अउ19.29
पित्ताभिष्यन्दाधिमन्थयोः शर्करावचूर्णितं सर्पिः पानम्।
तिक्तकानामन्यतमं वा॥

अउ19.30
प्रपौण्डरीकामलकद्विबृहतीदर्भदशमूलशतावरीतालीसपत्रमञ्जिष्ठानीलोत्पलक्वाथः सितास्तन्येनाश्च्योतनम्।
मधुककटङ्कटेरीनिर्यूहो वा।
सक्षौद्रश्चन्दनमधुकलोध्रमञ्जिष्ठास्वर्णगैरिकक्वाथस्तीव्रशूलदाहहरः॥

अउ19.31
लोध्रदार्वीमधुकप्रपौण्डरीकान्यापोथ्य नन्तकेन बध्नीयात्।
तेन क्षौद्रसलिलाप्लुतेन सेको वेदनाघ्नः।
तेनैव च सशर्करस्त्रीस्तन्ये च्छागदुग्धे वा दाहरागघ्नः॥

अउ19.32
श्वेतलोध्रं मधुकं च समं घृतेन भर्जयित्वा चूर्णयेत्।
ततः पोट्टलिकावबद्धं स्तन्येन तोयेन वा मृदितमाशु शूलदाहरागशोफानपोहति।
चन्दननलिनकुमुदनलदादिभिर्वा क्षीरसंस्कृतैः।
तैश्च शिरोवक्त्रप्रलेपपरिषेकाः॥

अउ19.33
एवमसिद्धौ सिराव्यधः पुनः स्निग्धस्य च त्रिफलाकाश्मर्यक्वाथशर्करात्रिवृच्चूर्णौर्विरेकः॥

अउ19.34
शङ्खमधुकसैन्धवबृहतीमूलत्वचः पयसाजेन पिष्ट्वा ताम्रपात्रं परलेपयेत्।
पुनः सप्ताहादेवं सप्तभिः सप्तरात्रैर्गुटिकाः कुर्यात्।
ताः स्तन्यघृष्टाः पित्तामयेष्वञ्जनाद्रुजमपहरन्ति॥

अउ19.35
सुवर्णगैरिकं निशां देव्येम्भासि स्थितमहः शोषयेत् सप्ताह मेवमेव च सुशीतेन मधुरवर्गकषायेण भावयेदेतच्चूर्णाञ्जनं दाहरागघ्नम्॥

अउ19.36
पञ्चाशद्दार्वीपलानि पलिकानि च सारिवामधुककाकोलीद्विनिशामृद्वीकाकाश्मर्यसुनिषण्णकमञ्जिष्ठालोध्रोशीरचन्दानि जलद्रोणेष्टभागावशेषं पचेत्।
परिस्रुतं च पुनरादर्वीलेपादवतार्य च सितोपलासमांशं मधुघृतद्विपलं प्रक्षिपेत्।
रसक्रियेयं मधुरा सर्वाक्षिरोगेषु हिता॥

अउ19.37
काश्मर्यस्वरसपिष्टः सारिवाशर्कराकल्को नस्यमिक्षुरसपिष्टं वा यष्ट्याह्वम्।
क्षतशुक्रोक्तं चात्र तर्पणं पुटपाकश्च॥

अउ19.38
श्लेष्माभिष्यन्देधिमन्थे च त्र्यहमुपवासस्तीक्ष्णानि धूमकवलनावनानि।
शार्ङ्गेष्ठाकुष्ठतगरमुरुङ्गीव्योषैलादारुभिर्बिडालकः॥

अउ19.39
तिल्वकबृहतीनिदिग्धिकालोध्रारग्वधमूलत्वग्भिर्गोमूत्रक्वथितैराश्च्योतनं शोफोपदेहकण्डूघ्नम्॥

अउ19.40
निम्बपत्रकल्कदिग्धं वा लोध्रमङ्गारस्वेदितं चूर्णितं तान्तवावबद्धमुष्णाम्बुमृदितम्।
तद्वदेवाभयामलकोपकुल्यापाटलीचूर्णानि।
शिग्रुपल्लवरसो वा मधुमिश्रः।
मधुशिग्रुपाटलीबिल्वमूलशुण्ठीक्वाथो वा॥

अउ19.41
निम्बपटोलजातिपत्रलोध्रद्वयमहौषधैः खण्डशः कल्पितैर्वस्त्रबद्धैः सक्षौद्रैर्गौडे सीधौ वा परिप्लुतैः सेकः परं श्लेष्मशूलध्रः॥

अउ19.42
रोहिषपूतीककरञ्जकपित्थास्फोतपीलुबिल्वपत्रशिग्रुसुरसार्कनिम्बपत्रैर्गोमूत्रक्वथितैः स्वेदः॥

अउ19.43
तथापि शोफघर्षानुबन्धे यवमदनभूर्जशमीपत्रैः सघृतैर्घृतेनैव वा नाड्याक्षि धूपयेत्।
लघ्वशितं च द्वितीयेह्नि प्रातर्व्योषविपक्वं यवक्षारावचूर्णितं सर्पिः पाययेत्।
ततः सिराव्यधो विरेकश्च॥

अउ19.44
बृहतीत्वक्शुण्ठीताम्रकांस्यरजांसि दधिमस्तुना पिष्ट्वा तास्रपात्रे प्रलेपयेत्।
तथैव च सप्ताहे।
सप्तसप्ताहे च गते वर्तयः कार्याः मरिचहरिद्राभयाञ्जनैर्वा जलपिष्टा वर्तिः।
त्रिकटुकत्रिफलाविडङ्गसारहरिद्राभिर्वा॥

अउ19.45
हरीतकी तुत्थं च समभागं तुत्थादष्टांशेन मरिचमेषा वर्तिः कुमारी सर्वश्लेष्माक्षिरोगघ्नी॥

अउ19.46
विडङ्गचूर्णो वा वारुण्या भावितः शङ्खो बीजपूररसेन मधुकं त्रिफलारसेन पृथगैकध्यं वा चूर्णाञ्जनं वा पिण्डो वा पोथकीबहलकफोत्क्लेशाभिष्यन्दानपहरति॥

अउ19.47
स्वर्णगैरिकसैन्धवमनश्शिलालाक्षानतकरञ्जिकासुरसशङ्खव्योषतालीसकुष्ठकलिङ्गकदेवदारुनलदजातीमुकुलरसाञ्जनैः सुरामण्डपिष्टैर्वर्त्तिः सर्वश्लेष्माक्षिरोगविकारहरा॥

अउ19.48
पुष्पकासीसचूर्णं ताम्रसमुद्गे सुरसपत्रस्वरसेन सप्ताहं भावयेत्।
तच्चूर्णाञ्जनं वर्त्मोपचयपक्ष्मशातघ्नम्॥

अउ19.49
सैन्धवव्योषवराविडङ्गलोध्रप्रपौण्डरीकमधुकतुत्थकतार्क्ष्यशैलताम्रचूर्णैः छागपयःपिष्टैर्मार्कवस्वरसपरिपीतैर्वर्त्तिः काण्डचित्राख्या सर्वाक्षिरोगान् जयति॥

अउ19.50
कण्ड्वां मनश्शिलासैन्धवश्वेतमरिचैर्मातुलुङ्गरसपिष्टैर्वर्त्तिः।
सशोफायां नागरदेवदारुसैन्धवजातिक्षारकैः सुरामण्डपिष्टैः॥

अउ19.51
नक्तमाललशुनशिग्रुशिग्रुकबीजैर्वा रसक्रिया।
तर्पणं च॥

अउ19.52
यकृदाजमगरुप्रियङ्गुनलददेवदारुयुतं पयसि क्वाथयेत्तस्मिन् शीते खजमथिते यन्नवनीतं तदेभिरेवौषधैर्विपक्वम्।
पुटपाकश्च कुष्ठतगरदार्वीसर्वगन्धैराजेन यकृता सह पिष्टैर्मधुघृतयुतैः॥

अउ19.53
रक्तजं पुनरभिष्यन्दमधिमन्थं च पित्तवदुपत्रमेत्।
स्तन्येक्षुरसशर्करोदकान्यतमेन वाश्च्योतयेत्।
पुनःपुनश्चास्य रुधिरमवसेचयेत् सिराव्यधेन जलौकोभिश्च।
तीव्रवेदनायां महतीं घृतमात्रां पाययेत्॥

अउ19.54
आढकीकुर्यटपाटलीश्रीपर्णीविदुलार्जुनबृहतीचम्पकमालतीमूलानि खर्जूररसपिष्टानि गुटिकाञ्जनम्॥

अउ19.55
केशैर्जलार्द्रैः कांस्यमुद्घर्षयेत् तान् कांस्यमलदिग्धानन्तर्धूमं दग्ध्वा तत् भस्म त्रिफलाक्वाथे सुरसास्वरसे क्षीरे च छागे पञ्चाहं भावयेत्।
एतच्चूर्णं स्रोतोजतुल्यं प्रत्यञ्जनम्॥

अउ19.56
कृष्णसर्पं पयसि क्वाथयेत्ततः पूतशीतमथितात् स्नेहमुपोषिताय कृकवाकवे दद्यात्।
तस्य यत् पुरीषं तत् स्नेहाञ्जनम्॥

अउ19.57
कृष्णसर्पमुखमञ्जनसर्पिषोः पूर्णं दर्भवेष्टितं मृदवलिप्तमधोमुखं गोमयेनाग्निनादग्ध्वा ततोञ्जनमादाय पत्रनलदनीलोत्पलतुल्यं चूर्णीकृतं परं दृक्प्रसादजननमञ्जनम्॥

अउ19.58
घृतमण्डश्च शर्करामधुकनीलोत्पलैर्मानुषीदुग्धयुक्तैः सिद्धो नस्यमिति।
भवति चात्र॥

अउ19.59
सर्वेक्षिरोगा यत् प्रायो जायन्ते स्यन्दपूर्वकाः।
यतश्च रक्तं सन्दूष्य तानतस्त्वरया जयेत्॥

अउ19.60
सर्वोर्ध्वजत्रुगस्रोतस्यन्दनात् स्यन्द उच्यते।
तत्स्थानां तद्वदङ्गानामधिमन्थोऽतिमन्थनात्॥

अउ19.61
वातेऽक्षिसेकस्सैरण्डबृहतीमधुशिग्रुणा।
सिद्धेन पञ्चमूलेन ससितैः पित्तरक्तयोः॥

अउ19.62
दार्वीलाक्षोत्पलद्राक्षामञ्जिष्ठामधुकद्वयैः।
श्लेष्मणि त्रिफलाशुण्ठीनिम्बलोध्राटरूषकैः।
समस्तैस्सन्निपातोत्थे कुर्यात् स्यन्देऽक्षिसेचनम्॥

अउ19.63
तुत्थव्योषाभयालोध्रयष्ट्याह्वैस्ताम्रसंस्थितैः।
धान्याम्लपिष्टैः सेकोयं सर्वाभिष्यन्दरुक्प्रणुत्॥

अउ19.64
तद्वतुत्थाभयालोध्रयष्टीमधुरसाञ्जनैः।
शताह्वार्द्धांशसंयुक्तैः सेकः सर्वाक्षिशूलजित्॥

अउ19.65
पुष्पाञ्जनसिताक्षौद्रैस्ताम्रसंस्थैस्तिलाम्भसा।
सेचनं हन्ति रुग्रागदाहश्वयथुघर्षणम्॥

अउ19.66
द्विनिशात्रिफलामुस्तैः प्रमदादुग्धकल्कितैः।
सेकः सशर्कराक्षौद्रैरभिघातरुजापहः॥

अउ19.67
निषिक्तं तुत्थकं वारान् गोर्जले पञ्चविंशतिम्।
स्तन्ये वा छागदुग्धे वा सद्यःकोपे तदञ्जनम्॥

अउ19.68
बदरीदलयष्ट्याह्वतुत्थधात्रीफलैः समैः।
पुट्Aअन्तर्बादराग्नीद्धैर्दृगुत्कोपघ्नमञ्जनम्॥

अउ19.69
बृहत्यैरण्डमूलत्वक्शिग्रुमूलैः ससैन्धवैः।
वर्त्तिराजपयःपिष्टैस्सर्ववाताक्षिरोगजित्॥

अउ19.70
सुमनःक्षारकाः शङ्खस्त्रिफला मधुकं बला।
पित्तरक्तापहा वर्त्तिः पिष्टा दिव्येन वारिणा॥

अउ19.71
सैन्धवं त्रिफला व्योषं शङ्खनाभिस्समुद्रजः।
फेनः शैलेयकं सर्जो वर्त्तिः श्लेष्माक्षिरोगजित्॥

अउ19.72
शङ्खविद्रुमवैडूर्यलोहिताक्षप्लवास्थिभिः।
स्रोतोजश्वेतमरिचैर्वर्त्तिः सर्वाक्षिरोगजित्॥

अउ19.73
पिप्पल्यः किंशुकरसो वसा सर्पस्य सैधवम्।
घृतं च जीर्णं सर्वाक्षिविकारघ्नी रसक्रिया॥

अउ19.74
कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रिया।
शस्ता सर्वाक्षिरोगेषु काचार्मपटलेषु च॥

अउ19.75
रसाञ्जनं शृङ्गवेरमभया तुत्थकं शुभम्।
यथोत्तरं द्विगुणितैस्तैर्वर्त्तिरपराजिता॥

अउ19.76
ऋते वातादभिष्यन्दात्तिमिराणि कुकूणकम्।
पोथकीपिटकाः पिल्लानर्माणि च नियच्छति॥

अउ19.77
ताम्रे मस्तुसमुद्घृष्टं तुत्थकं श्यावतां गतम्।
सर्वाभिष्यन्दशुक्लार्मसिराजालजिदञ्जनम्॥

अउ19.78
मरिचवरलवणभागो भागौ द्वौ कणसमुद्रफेनाभ्याम्।
सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित्॥

अउ19.79
मरिचामलकजलोद्भवतुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः।
षण्माक्षिक इति योगस्तिमिरार्मक्लेदकाचकण्डूघ्रः॥

अउ19.80
पिप्पलीं सतगरोत्पलपत्रा वर्त्तयेत् समधुकां सहरिद्रां।
एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः॥
॥इति एकोनविंशोऽध्यायः॥

अथ विंशोऽध्यायः।

अउ20.1
अथातः अक्षिपाकपिल्लप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ20.2
शुष्काक्षिपाके वाताभिष्यन्दविहितं सर्पिः पिबेत्।
कुलीररसक्षीरसिद्धं वा॥

अउ20.3
दार्वीप्रपौण्डरीकयोः क्वाथ आश्च्योतनमक्षिपाकघ्नम्।
मञ्जिष्ठामधुककालानुसारीसारिवालोध्रलाक्षाप्रपौण्डरीकाणामक्षिपाकरक्तराजीघ्नम्।
मृद्वीकाचन्दनकल्कस्तण्डुलाम्बुपरिस्रुतो मधुमानश्रुदाहहरः।
लोध्रकोरण्डकपुष्पक्वाथो वेदनाहरः॥

अउ20.4
अणुतैलं नस्यम्।
सारिवाविदारीबलामधुकोत्पलद्राक्षाटरूषकजीवकचन्दनैर्जाङ्गलरसक्षीरोपेतं तैलं साधितं नावनात् सर्वोर्ध्वजत्रुजान् गदान् वातपित्तोत्तरान् निहन्ति॥

अउ20.5
स्न्गिधाश्चात्र तर्पणपुटपाकाः।
वातपित्तान्यतरोद्रेकतश्च यथास्वमभिष्यन्दविधिः॥

अउ20.6
आदर्शमण्डले घृताक्तकेशान् घृष्ट्वान्तर्धूमं दहेत् सा मषी घृतपिष्टायसभाजनस्थिताक्षिपाकमञ्जना दपहरति॥

अउ20.7
मञ्जिष्ठाफलत्रिककटङ्कटेरीनिष्क्वाथे लोहस्रोतोञ्जनचूर्णमापिण्डीभावात् पचेत्।
एतच्चूर्णाञ्जनमभयं दाहोषारागाश्रुहरम्॥

अउ20.8
ताम्ररजस्सैर्यकपुष्पपुण्ड्राह्वमधुककालानुसारीसारिवाः छागेन पयसा पिष्टाः पिण्डाञ्जनम्॥

अउ20.9
आनूषवसा शुण्ठीसैन्धवचूर्णान्विता स्नेहाञ्जनम्।
एवमप्यशान्तौ मधुकसिद्धः शताह्वाचूर्णयुक्तो घृतमण्डस्तथा पयो वा बस्तिः॥

अस20.10। सशोफाल्पशोफयोस्तु स्निग्धस्विन्नस्यानु सिराविध्येत्॥

अउ20.11
द्राक्षाभयाक्वाथस्त्रिवृत्कल्कवान् सघृतो विरेकः।
विरिक्तस्य यथादोषोदयमास्थापनम्॥

अउ20.12
ततः पिण्डस्विन्नशिरसः सर्षपतैलेन सैन्धवयुतेन वा सर्पिषा फणिज्जकयुक्तेन वा अणुतैलेन शिंरोविरेकः।
विरिक्तशिरसोऽनुवासनं क्षीरसर्पिषा धूमपानं च॥

अउ20.13
शिरोनेत्रं चास्य सुनिषण्णकपत्तूरैरण्डपत्रैः क्षीराम्बुस्विन्नैः संस्वेदयेत्॥

अउ20.14
घृतभृष्टं लोध्रचूर्णं सूक्ष्मवासस्थमुष्णोदकविमृदितमाश्च्योतनम्।
शुष्काक्षिपाकोक्तं च वेदनाघ्नम्॥

अउ20.15
एवमशान्तवेदनं सन्धावैरुपक्रमेत्॥

अउ20.16
शशशिरःकपालं सैन्धवं कांस्ये स्तन्यघृष्टं सन्धावो वेदनाघ्नः।
तद्वत्ताम्रं च लोहे गोमूत्रघृष्टं घृतधूपितम्॥

अउ20.17
शिग्रुपल्लवरसश्च ताम्रघृष्टो घृतधूपितः।
शङ्खं ताम्रे स्तन्येन घृष्टं घृताभ्यक्तयवशमीपत्रधूपितं घर्षवेदनाघ्नम्॥

अउ20.18
उदुम्बरफलं लोहे स्तन्यघृष्टं घृताभ्यक्तशमीपत्रधूपितं शूलरागाश्रुघर्षघ्नम्।
दधिसरः पिप्पलीसैन्धवयुक्तस्ताम्रे घृष्टश्शोफघर्षाश्रुवेदनाघ्नः॥

अउ20.19
मृत्कपालं कांस्ये तिलोदकघृष्टं घृताक्तनिम्बपत्रधूपितं शोफकण्डूघर्षाश्रुशूलरागघ्नम्॥

अउ20.20
सन्धावाञ्जितं चाक्षि स्तन्येनानुसिञ्चेत्।
त्रिःपरं च तैर्न्नाञ्जयेत्।
अथाञ्जनानि॥

अउ20.21
मधुकबृहतीत्वक्ताम्ररजांस्यजाक्षीरपिष्टानि शम्यामलकपत्रैर्घृताप्लुतैरनेकशो धूपितानि पिण्डाञ्जनं शोफवेदनाघ्नम्॥

अउ20.22
तालीसपत्रपिप्पलीलोहर्रजोञ्जनकासीसतगरजातीमुकुलसैन्धवैर्गोमूत्रपिष्टैस्ताम्रमालिप्तं सप्तरात्रं स्थापयित्वा पुनस्तद्वदेवपिष्टैर्गुटिकाः कार्यास्ताः स्तन्यघृष्टाः स्तम्भश्वयथुहर्षघर्षाश्रुकण्डूघ्न्यः॥

अउ20.23
अबद्धास्थिसहकारमांसं विगतत्वचं समताम्रचूर्णमीषत् सैन्धवोपेतं गव्येन दध्ना पिष्ट्वा ताम्रमालेपयेत्।
शुष्कं शुष्कं तथैव च पिष्ट्वा पुनर्लेपयेत्।
एतत् सप्तभिः सप्ताहैः पिण्डाञ्जनं कृतं सर्वाक्षिपाकाश्रुघर्षशोफरागवर्त्मोपचयघ्नम्।
अश्मन्तकाम्लवेतसपरूषककोलदाडिमैः कृता रसक्रिया सशोफाल्पशोफपूयालसान् नाशयति।
इत्थमपि शोफानुवृत्तौ पुनरस्रावसेकः शिरोविरेकश्च॥

अउ20.24
अम्लोषितं पित्ताभिष्यन्दवदुपाचरेत्।
पिल्लसाधनं चेक्षेत॥

अउ20.25
पित्तकफरक्तनिचयोत्क्लिष्टवर्त्मपोथकीबिसाख्यकुकूणकपक्ष्मोपरोधपूयालसशुष्काक्षिपाकाल्पशोफाम्लोषिता वातवर्ज्याश्चस्यन्दाधिमन्था इत्यष्टादशदीर्घकालानुबन्धिनो रोगाः पिल्लसंज्ञाः॥

अउ20.26
एषां क्रिया यथास्वमुपदिष्टैव।
पुनश्च पिल्लीभूतानां सामान्येनोपदिश्यते॥

अउ20.27
अथ पिल्लाक्षिरोगिणं स्नेहयित्वा वामयेत्।
कृतक्रमस्य सिराव्यधस्ततो विरेकः।
कृतविरेकस्य वर्त्मनी लिखेत्।
सकृल्लेखनादशुद्धौ पुनर्लेखयेत् जलौकोभिश्च ग्राहयेत्॥

अउ20.28
प्रियङ्गुलोध्रपद्मकेसरचन्दनमधुककल्केन समाक्षिकेण बिडालकः।
तुवरिकाफलत्रिकरोचनाक्वाथेन मधुमता सायं प्रातः सदा प्रक्षालनमञ्जनान्ते च कषायवृक्षपल्लवकषायेण॥

अउ20.29
तैरेव च पत्रैरुष्णाप्रियतायामन्तरान्तरा स्वेदः॥

अउ20.30
तुत्थकपलं विंशतिश्च श्वेतमरिचानि धान्याम्ल पिष्टानि तत्पलैस्त्रिंशता ताम्रपात्रे समालोडितानि बहुवर्णामपि पिल्लानां परममाश्च्योतनम्॥

अउ20.31
अञ्जनं चास्याम्रधातकीपुष्पतिलपर्णीकल्केन च वर्त्तिः हरीतक्याढकीश्चाष्टगुणेम्भास्यष्टभागावशेषं क्वाथयेत् पुनश्च परिस्राव्यादर्वीप्रलेपाद्रसक्रियेयं पिल्लाक्षिरोपणी।
पलाशशाखास्वरसे क्वाथ्यमाने बृहत्युशीररजोदद्यात् तत्घनीभूतं शीतमञ्जनम्।
सुरसारसपिष्टैर्वा वचलदेवदारुभिः।
गोपित्तपिष्टाभ्यां वा व्योषरसाञ्जनाभ्याम्॥

अउ20.32
हरितालसौवीरकाञ्जनसमांशं वा ताम्रचूर्णमञ्जनम्।
परिपेलवकासीसहरिद्राद्वयसर्षपप्रियङ्गुतगरपिप्पलीकल्केन ताम्रभाजनमन्तर्लेपयित्वा सौवीरककुम्भेधोमुखं सप्ताहं वासयेत् ततो गुटिकाश्चूर्णं वा कुर्यात्॥

अउ20.33
तुत्थगैरिकचूर्णं छगलीपयःपिष्टं गुटिका प्रत्यञ्जनम्।
चूर्ण एव वा दिव्योदकभावितः।
स एव वा तदाप्लुतो नेत्राश्च्योतनमिति।
भवति चात्र॥

अउ20.34
वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्।
पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत्॥

अउ20.35
पूयालसेत्वशान्तेन्ते दाहः सूक्ष्मशलाकया॥

अउ20.36
चतुर्नवतिरित्यक्ष्णोर्हेतुलक्षणसाधनैः।
परस्परमसङ्कीर्णाःकार्त्स्न्येन गदिता गदाः॥

अउ20.37
सर्वदा च निषेवेत स्वस्थोपि नयनप्रियः।
पुराणयवगोधूमशालिषष्टिककोद्रवान्॥

अउ20.38
मुद्गादीन्कफपित्तघ्नान् भूरिसर्पिःपरिप्लुतान्।
शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम्॥

अउ20.39
सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम्।
आतपत्रं पदत्राणं विधिवद्दोषशोधनम्॥

अउ20.40
वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च।
क्रोधशोकदिवास्वप्नरात्रिजागरणातपान्।
विदाहविष्टम्भकरं यच्चेहाहारभेषजम्॥

अउ20.41
द्वे पादमध्ये पृथुसन्निवेशे सिरे गते ते बहुधा च नेत्रे।
ताम्रङ्क्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान् नयनं नयन्ति॥

अउ20.42
मलोष्णसङ्घट्टनपीडनाद्यैस्ता दूष्यन्ते नयनानि दुष्टाः।
भजेत् सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि॥

॥इति विंशोऽध्यायः॥