अष्टाङ्गसंग्रहः चिकित्सितस्थानम् अध्याय २१-२४

अष्टाङ्गसंग्रहः

अथ एकविंशोऽध्यायः।

अचि21.1
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि21.2
पूर्वरूपेष्वेव कुष्ठिनं स्नेहपानेनोपक्रमेत।
तत्र वातोत्तरे मेषशृङ्गीशार्ङ्गेष्टैरण्डगुडूचीद्विपञ्चमूलसिद्धं तैलं घृतं वा पानाभ्यङ्गयोर्विदध्यात्॥

अचि21.3
पित्तोत्तरे धवाश्वकर्णककुभवचापुनर्नवपलाशपिचुमन्दमधुकलोध्रसमङ्गासिद्धं सर्पिः।
अथवा पटोलपिचुमन्ददार्वीदुरालभातिक्तरोहिणीपाठापर्पटकत्रायमाणानां पालिकान् भागान् जलाढकद्वयेऽष्टभागशेषं क्वाथयेत्।
तेन कार्षिकैश्चन्दनोपकुल्यामुस्तात्रायन्तीन्द्रयवभूनिम्बैः कल्कितैः सपिषो द्वादशपलं साधयेत्।
एतत्तिक्तकं सर्पिः कुष्ठविसर्पविस्फोटगण्डगण्डमालाश्वयथुपिटकारक्तपित्तदुर्नामवातशोणितकामलापाण्ड्वामयोन्माददाहतृड्भ्रमकण्डूकुष्ठनाडीगुल्ममदतिमिरव्यङ्गश्वित्रापस्मारभगन्धरोदरप्रदरज्वरगरविद्रधिग्रहणीहृद्रोगानपहरति॥

अचि21.4
सप्तच्छदकटुकातिविषाशम्याकपाठामुस्तत्रिफलोशीरपटोलपर्पटकपिप्पलीद्वयद्विरजनीद्विसारिवा चन्दनदुरालभापद्मकवचाशतावरीविशालाकुटजबीजवृषमूर्वागुडूचीभूनिम्बत्रायमाणामधुकगर्भं द्विगुणामलकरसमष्टगुणाम्बु सर्पिर्विपक्वं महातिक्तकाख्यं घृतमधिकगुणं पूर्वस्मात्।
गुग्गुलुपञ्चतिक्तं वा पिबेत्॥

अचि21.5
कफोत्तरे सालप्रियालशम्याकारिष्टसप्तपर्णचित्रकमरिचवचाकुष्ठैः साधितम्।
अथवा बृहतीद्वयकाकमाचीशुकनासाक्वाथे मरिचविडङ्गशिग्रुजातीदेवदारुक्षवकहरिद्राभयाकल्केन वाजिमूत्रेण च सिद्धं सर्पिः॥

अचि21.6
सर्वेषु च भल्लातकतुवरकसिद्धार्थकान्यतमतैलम्।
भल्लातकपथ्याकृमिघ्नसिद्धं वा हविः॥

अचि21.7
ततः स्निग्धस्य यथादोषं यथासन्नं च संशोधनानि प्रयुञ्जीत।
सिरां च बलापेक्षी विध्येदेकां द्वे तिस्रश्चतस्रः पञ्च वा।
अन्तरान्तरा च पुनःपुनः स्नेहं पिबेत्।
दुर्बलं हि शून्यकोष्ठं कुष्ठिनं वायुरभिभवति।
वमने त्वस्य मधुककुटजबीजनिम्बपटोलपल्लवानि विदध्यात्।
कुम्भनिकुम्भत्रिफला विरेचने माणिभद्रवटकांश्च॥

अचि21.8
पटोलविशालयोर्मूलं त्रिफला च पृथक् त्रिभागोनत्रिशाणाः कटुकात्रायमाणे शाणांशे शुण्ठ्यास्त्रिभागोनः शाणः तदेतत् पलमैकध्यं सलिले विपाच्य पाययेत्।
ऊर्ध्वाधोविरिक्तश्च जीर्णे जाङ्गलरसेनाश्नीयात्।
एवमेतत् षड्रात्रप्रयोगात् परं पित्तकफशोफकुष्ठदुष्टनाडीव्रणार्शोभगन्दरग्रहणीपाण्डुहलीमककामलाविषमज्वरहृद्बस्तिवेदनाघ्नम्॥

अचि21.9
उभयानुलोमनं वा ब्राह्मीस्वरससाधितं सर्पिः पिबेत्।
आवर्तकीतुलां सलिलार्मणेऽष्टांशशिष्टां विपाच्य तेन निर्यूहेण तन्मूलैश्च घृतप्रस्थं साधयेत्।
ततो मात्रामेकाहान्तरं पिबेत्।
ऊर्ध्वाधो विरिच्यमानस्तृषितः।
शीतलवणमारनालं जीर्णस्नेहश्च तेनैव कोद्रवौदनमश्नीयात्।
अनेन कुष्ठश्वित्रापचीभगन्दरनाडीव्रणाखुविषाणि सिध्यन्ति।
मेध्यं चैतत् पुंसवनं च॥

अचि21.10
दार्वीपटोलबृहतीसेव्यमदननिम्बकृतमालघनेन्द्रयवैः सस्नेहैरास्थापनम्।
एभिरेव च विपक्वः स्नेहोऽनुवासनार्हस्यानुवासनम्।
दन्तीमरिचफणिज्जकार्द्रककरञ्जबीजपिप्पलीविडङ्गसैन्धवैरूर्ध्वजत्रुगते कुष्ठे कृमिषु च शिरोविरेकः।
सूत्रस्थानोक्तो वैरेचनिकधूमश्च॥

अचि21.11
ततः सर्वतो विशुद्धस्यान्तर्बहिः शमनानि प्रयुञ्जीत॥

अचि21.12
खदिरकदरतिनिशासनशिरीषशिंशपाशाकसर्जार्जुनजम्बूकरवीरधवामलकीमुष्ककाक्षिकबदरीवञ्जुलनिम्बकरञ्जकदम्बमधूकसारान् सार्द्रान् कृतमालनिचुलपटोलाङ्कोलबलाबिल्वकुटजकटभीपारिभद्रसहचरगृध्रनखीवरणवर्धमानार्कसौभञ्जनाटरूषकशतावरीश्वदंष्ट्राहिमाराश्वकर्णश्रीपर्णीस्वयंगुप्ताग्निमन्थेन्द्रवारुणीकाकोदुम्बरिकामेषशृङ्गीटुण्टुकगुडूचीवर्षाभूवायसीबृहतीद्वयरोहिणीमूर्वाशार्ङ्गष्टामूलानि च शकलयित्वा पृथक् त्रिंशत्पलिकानि सङ्क्षुद्य महति कटाहेऽष्टगुणेनाम्भसा क्वाथयेत्।
अष्टभागशेषं निर्यूहमवतार्य परिस्राव्य च तस्मिन् सर्पिषः पलशतत्रयं विपचेदीषदवशेषकषाये च विदलीकृतारुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगतस्वरसान्यरुष्कराण्यपास्य तस्मिन् स्नेहे सुचूर्णितानि प्रक्षिपेत्।
व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटुकाकुष्ठबिल्वहिङ्गुविडङ्गचित्रकातिविषामुस्तेन्द्रयवेन्द्रवारुणीरूप्य मललोहरजोलोहकान्तरसाञ्जनाभ्रशुकनासादेवदालीत्रिफलालाङ्गलिकीविशालाकुम्भनिकुम्भवचावाराहीमहाद्रुमकोशातकीप्रपुन्नाटसोमपर्णीनलिकाद्वयपटोलीजातीपल्लवताप्यकारवेल्लीकूलिकाकन्दकसप्तच्छदशार्ङ्गेष्टोत्पलसारिवागुग्गुलुशिलाजतुमूर्वाकुस्तुम्बरीजीवकद्वयपाठेन्द्रुरेखावज्रकन्दहरिद्राद्वयलवणपञ्चकानि प्रत्येकं त्रिपलिकानि शृङ्गीविषपलं चैकं ततो दर्व्या समन्तादाघट्य सुगुप्तं भूमौ धान्ये वा मासं निखनेत्॥

अचि21.13
अथ कृतसंशुद्धिस्वस्त्ययनः कुष्ठी प्रातस्ततो मात्रामुपयुञ्जीत।
जीर्णे च यथेष्टमाहारं तेनास्य पूर्वमङ्गानि तुद्यन्ते भिद्यन्ते शूयन्ते स्फुरन्ति स्फुटन्ति च।
ततः सप्तरात्रात् पुनः स्वस्थीभवन्ति।
अपि च॥

अचि21.14
योगराजमवलिह्य समस्तं संज्ञयैव कथितोत्तमशक्तिम्।
हन्ति कुष्ठमतिपातितगात्रं स्नायुजालपरिशेषमशेषम्॥

अचि21.15
श्वासाग्निसादारुचिकासयक्ष्मगुल्माढ्यवातग्रहणीप्रमेहान्।
शोफं कृमीन् पाण्डुगदं ज्वरांश्च निवर्तयत्येष रसायनाग्र्यः॥

अचि21.16
त्रिफलादशमूलमूर्वामुस्तसप्तच्छददारुनिम्बत्वग्गवाक्षीचित्रकमञ्जिष्ठाव्योषचूर्णं नवगुणैः सक्तुभिर्युक्तं सक्षौद्रं शीलयेत्॥

अचि21.17
अथवा क्षुण्णान्यवान् निस्तुषान् रात्रौ गोमूत्रपर्युषितानहनि किलिञ्जे शोषयेदेवं सप्ताहं भावयेच्छोषयेच्च।
ततस्तान् सक्तून् कृत्वा भल्लातकप्रपुन्नाटावल्गुजचित्रकविडङ्गमुस्तचूर्णचतुर्भागयुक्तानसनादिकषायेण पाययेत्॥

अचि21.18
एवमसनादिक्वाथपीतानामारग्वधादिकषायपीतान वा गोजीर्णकानां वा यवानां सक्तूनरुष्कराग्निमन्थचूर्णमिश्रान् खदिरासनसाररोहितकगुडूचीनामन्यतमस्य कषायेण दाडिमाम्लवेतसाम्लेन सैन्धवलवणेन सितामधुमधुरेणालोड्य पाययेत्।
एष सर्वमन्थकल्पः।
यावकांश्च भक्ष्यानपूपपूर्णकोशशष्कुली प्रभृतीन् कुर्यात्।
यववच्च गोधूमैः॥

अचि21.19
सुरां कल्पयेत् पलाशक्षारभावितशालितण्डुलपिष्टेन क्षारोदकेनैव स्वेदितेन प्रियङ्गुगजपिप्पलीचित्रककेबुकैलावालुकपरिपेलवलोध्रमरिचविडङ्गचूर्णमिश्रेण नवे चैनां भाजने जतुसृते क्षौद्रपिप्पलीलिप्ते स्थापयेत्।
ततो गन्धरसोपपन्नां कुष्ठिने पातुं दद्यात्॥

अचि21.20
खदिरशिंशपासारमुत्तमकारणीं ब्रह्मीं कोशवतीं च कषायकल्पेन विपचेत्।
तेन क्वाथेन तण्डुलान् भावयेत्।
पिष्टं च स्वेदयेत्।
अभिषुणुयाच्च पूर्ववत्॥

अचि21.21
त्रिवृच्छ्यामाग्निमन्थसप्तलाकेबुकशङ्खिनीतिल्वकत्रिफलापलाशशिंशपानां रसमादाय पलाशद्रोण्यामभ्यासिचय खदिराङ्गारतप्तमयःपिण्डमेकविंशतिवारान्निर्वाप्य ततस्तं रसमासिच्य स्थाल्यां गोमयाग्निना साधयेत्।
सिध्यति चावपेत्।
पिप्पलीचूर्णस्य भागं द्वौ मधुनस्तावद्घृतस्य ततश्चतुर्भागावशिष्टेऽवतीर्णे भूयोऽग्नितप्तमयःपिण्डं तस्मिन् प्रक्षिपेत् प्रशान्तं च लोहपात्रे सुगुप्तं निदध्यात्।
इयमयस्कृतिः दुस्साधमपि कुष्ठं मेहं वा साधयति।
स्थूलं कर्शयति शोफमुपहन्ति सन्नमग्निमुद्धरति।
विशेषेण राजयक्ष्मिणामुपदिश्यते।
वर्षशतायुश्चैनामुपयुज्य पुरुषो भवति॥

अचि21.22
असनादिक्वाथमासिच्य पलाशद्रोण्यमयोघनैस्तप्तैः संयोज्य निर्वाप्य च कृतसंस्कारे कलशे प्रक्षिप्य वत्सकादिं प्रतिवाप्य क्षौद्रं च सुगुप्तं मासं निधायोपयुञ्जीत॥

अचि21.23
एवं न्यग्रोधादिष्वारग्वधादिषु चायस्कृतिं विदध्यात्।
खदिरसुरदारुक्वाथप्रस्थं क्षौद्रप्रस्थं मत्स्यण्डिकाप्प्रस्थं लोहचूर्णार्धप्रस्थं त्रिफलाचतुर्जातकमरिचानि च कार्षिकाणि प्रक्षिप्यायसे भाण्डे मासस्थितं तदुपयोजयेत्॥

अचि21.24
रसायनप्रयोगेण च लोहतुलां तुवरकास्थीनि भल्लातकान्यलम्बुषामवल्गुजं गुग्गुलुमर्शोविहितविधानेन वा चित्रकमिति॥

अचि21.25
भवति चात्र।
किलासकुष्ठग्रहणीप्रमेहस्थूलत्वदुर्नामभगन्दरेषु।
पाण्डुत्वशूनत्वकफामयेषु मन्थादियोगान् विदधीत धीमान्॥

अचि21.26
शालयो यवगोधूमकोरदूषाः प्रियङ्गवः।
मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम्॥

अचि21.27
त्रिफलारुष्करारिष्टक्षौद्रयोजितभावितम्।
धात्रीखदिरनिम्बाम्बुरसं मुद्गपटोलजम्॥

अचि21.28
मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत्।
अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम्।
दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम्॥

अचि21.29
तुलार्धं निम्बपञ्चाङ्ग्यास्तथा खदिरसारतः।
हरीतकीदलतुलां भल्लातकतुलां दश॥

अचि21.30
कृष्णाविडङ्गकुडवावैकध्यं विपचेज्जले।
कषायं तं परिस्राव्य निदध्यात्ताम्रभाजने॥

अचि21.31
षण्मासतः पिबेत् कुष्ठकृमिमेहैर्विमुच्यते।
निम्बारिष्ट इति ख्यातो वरुणेनैष निर्मितः॥

अचि21.32
विडङ्गसारामलकाभयानां पलं पलं त्रीणि पलानि कुम्भात्।
गुडस्य च द्वादश मासमेष जितात्मना हन्त्युपयुज्यमानः॥

अचि21.33
कुष्ठश्चित्रश्वासकासोदरार्शोमेहप्लीहग्रन्थिरुग्जन्तुगुल्मान्।
सिद्धं योगं प्राह यक्षो मुमुह्षोर्भिक्षोः प्राणान् माणिभद्रः किलेमम्॥

अचि21.34
कटुकापटोलमूलोत्तमावचानिम्बरात्रिमञ्जिष्ठानाम्।
संशीलितःकषायस्त्वगामयान् श्लेष्मपित्तबहुलान् हन्ति॥

अचि21.35
वातोत्तरांस्तु सर्पिर्विपाचितं क्वथितकल्कितैश्च कटुकाद्यैः।
खदिरारिष्टगुडूचीसुरतरुदार्वीश्च कल्पयेत् पृथगेवम्॥

अचि21.36
शीतः कषायः खदिरस्य पीतः सक्षौद्रतार्क्ष्यो हरति प्रसह्य।
त्वक्कण्ठरोगापचिगुल्ममेहान् बलाहकान् वायुरिव प्रचण्डः॥

अचि21.37
सर्पिर्मधुभ्यां त्रिफलारसेन विडङ्गकल्केन च सम्प्रयुक्तः।
कुष्ठं कषायः खदिरस्य हन्ति तिष्ठन् कषायं मनसीव धर्मः॥

अचि21.38
खदिरस्य लूनशिरसो मूले खातस्य मध्यमं मूलम्।
छित्वाधोऽयःकुम्भं रससंग्रहणाय निदधीत॥

अचि21.39
लिप्तात् कृष्णमृदेन्धनैश्च निचितादादीपिताद्वह्निना।
तस्माद्यश्च्यवते रसः स सहितः क्षौद्राज्यधात्रीरसैः।
पीतः कुष्ठभगन्दरारुरपचीमेहास्रपाण्डून् जयेत्।
प्रस्थस्तस्य जरां च भोज्यमिह तु त्याज्यं च भल्लातवत्॥

अचि21.40
योज्य खदिरवन्निम्बशिंशपारग्वधासनम्।
रोहतिकं सुराह्वं च धदिरोदकपायिनः॥

अचि21.41
दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्।
अभया प्रयोजिता वा मासं सव्योषगुडतैला॥

अचि21.42
दर्वीकलिङ्गकटुकातिविषाग्निपाठामूत्रेण सूक्ष्मरजसो धरणप्रमाणाः।
पीता जयन्ति गुदजोदरगुल्मकुष्ठकोष्ठानिलाढ्यपवनग्रहणीप्रमेहान्॥

अचि21.43
लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्गप्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम्॥

अचि21.44
रक्ता निम्बं सुरतरुकृतं पञ्चमूल्यौ च चूर्णं पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम्॥

अचि21.45
दशपलमरिष्टपल्लवकुसुमजटात्वक्फलं यथाकालम्।
प्रयाहरेत् समस्तं कृतमालतरोश्च तत्तद्वत्॥

अचि21.46
सञ्चूर्ण्यासनखदिरक्वाथेनाप्लाव्य शोषयेदनिले।
चित्रकघनभल्लातकगोक्षुरकमहौषधत्रिफलाः॥

अचि21.47
लोहविडङ्गावल्गुजसितोपलाः पलसमा रजीकृत्य।
सप्ताहमेकतस्तद्रसेन भृङ्ग्यास्ततो भाव्यम्॥

अचि21.48
अथ पीतमक्षमात्रं घृतेन दुग्धेन कोष्णसलिलैर्वा।
अचिरात् करोति वह्निं मतिं स्मृतिं पाटवं मेधाम्॥

अचि21.49
कृमिकुष्ठगण्डपाण्डुप्रमेहवक्त्रामयारुचिच्छर्दीः।
अपचीभगन्दरस्थौल्यदुष्टनाडीव्रणव्यङ्गान्॥

अचि21.50
कफपित्तजान् विकारान् विशेषतः सुविषमान् निवर्तयति।
वर्षाद्विषगरकृत्या नित्याभ्यासेन खलतिपलितानि॥

अचि21.51
त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता।
गुटिका रसायनं स्यात् कुष्ठजिच्च विष्या च सप्तसमा॥

अचि21.52
चन्द्रशकलाग्निरजनीविडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः।
वटका गुडांशक्लृप्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः॥

अचि21.53
विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम्।
सलाङ्गलीकृष्णतिकोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम्॥

अचि21.54
पथ्याकलिङ्गकपलाशफलेन्दुराजीभल्लातकास्थिचतुरङ्गुलचित्रकार्कैः।
सावर्तकीकृमिहरैः क्रमवर्धितांशैः मूत्रेण तुल्यतुवरैर्वटका गदघ्नाः॥

अचि21.55
शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशमूला।
सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा॥

अचि21.56
भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः।
मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः॥

अचि21.57
सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम्।
लिह्याद्दन्तीत्रिवृद्ब्राह्मीश्चूर्णिता मधुसर्पिषा॥

अचि21.58
कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम्।
वराकणाविडङ्गान् वा लिह्यात्तैलाज्यमाक्षिकैः॥

अचि21.59
खदिरशकलचूर्णं क्षौद्रसर्पिर्विमिश्रं।
सगिरिजतुविडङ्गं मात्रया सेवमानः।
लघुमितहितभोजी ब्रह्मचारी जितात्मा।
श्वयथुकिटिभकोठश्वित्रकुष्ठानि हन्यात्॥

अचि21.60
खदिरासनसारस्य तुलां द्रोणेऽम्भसः क्षिपेत्।
अष्टमेऽहनि तत्तोयं पचेदादर्विलेपनात्॥

अचि21.61
त्रिफलार्धतुलाचूर्णं तत्पादेन तु बाकुचीम्।
तदर्धं द्वीपिनो मूलं तद्वद्ब्राह्मीं समार्कवाम्॥

अचि21.62
लोहक्रिमिघ्नद्विप्रस्थं क्षिप्त्वा तद्वटकीकृतम्।
कुष्ठमेहग्रहण्यर्शोभगन्दरिषु पूजितम्॥

अचि21.63
लाङ्गलीत्रिफलालोहचूर्णं दशपलं पृथक्।
गुटिकात्रिशतं षष्टिं कुर्याद्भृङ्गरसाप्लुतम्॥

अचि21.64
छायाशुष्कां च तत्रार्धगुटिकां भक्षयेत् पुरः।
जीर्णे रसेन रूक्षेण पेयापूर्वं च भोजयेत्॥

अचि21.65
यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुटिकामपि।
खादेत् परस्तान्मासस्य भवेत् कामचरः क्रमात्॥

अचि21.66
एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि।
धीमेधास्मृतियुक्तश्च नीरुग्जीवेत् समाः शतम्॥

अचि21.67
वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम्।
सर्पिर्विंसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनन्ति॥

अचि21.68
त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः।
सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नववज्रदुग्धमुष्ट्या॥

अचि21.69
पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च।
कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्यात् कृच्छ्रांस्तन्महावज्रकाख्यम्॥

अचि21.70
यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता।
कुष्ठघ्नी समसर्पिर्वा सगायत्र्यसनोदका॥

अचि21.71
मूत्रे विनीता त्रिफलारसे वा सिद्धा घृते वाम्भसि केवले वा।
रसायनं पथ्यभुजो हरिद्रा निहन्ति पाण्ड्वामयकुष्ठमेहान्॥

अचि21.72
पिबेदमृतवल्या वा स्वरसं यन्त्रपीडितम्।
मेध्यं तत् कुष्ठमेहार्शश्छर्दिवातास्रनाशनम्॥

अचि21.73
स्थिरकठिनमण्डलानां कुष्ठानां पोट्टलैर्हितः स्वेदः।
स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण॥

अचि21.74
रुधिरागमार्थमथवाशृङ्गालाबूभिरपहरेद्रक्तम्।
प्रच्छेदल्पं कुष्ठं निरेचयेद्वा जलौकोभिः॥

अचि21.75
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्।
संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम्॥

अचि21.76
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु।
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य॥

अचि21.77
लेपोऽतिकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च।
पीतागदस्य कार्यो विषैः समन्त्रागदैश्चानु॥

अचि21.78
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि।
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्॥

अचि21.79
जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनेन।
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि॥

अचि21.80
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे।
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गः करवीरकश्च॥

अचि21.81
ग्रन्थिश्च भूर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे।
फणिज्जको वत्सकसप्तपर्णपीलूनि कुष्ठं सुमनःप्रवालाः॥

अचि21.82
वचाहरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च।
मनःशिलाले गृहधूम एला कासीसलोध्रार्जुनमुस्तसर्जाः॥

अचि21.83
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः।
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णाः प्रदेहा बहुशाः प्रयोज्याः॥

अचि21.84
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिभं सदद्रुम्।
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तानचिरान्नराणाम्॥

अचि21.85
निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारुशिग्रु।
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्॥

अचि21.86
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत।
तथास्य कण्डूःपिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति॥

अचि21.87
मुस्तामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लककुष्ठलोध्राः।
गन्धोपलः सर्जरसं विडङ्गं मनःशिलाले करवीरकत्वक्॥

अचि21.88
तैलक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्।
दद्रुःसकण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति॥

अचि21.89
काण्डे महावृक्षभवे निलीनः स्विन्नः कुकूले पुटपाकयुक्त्या।
विचर्चिकां सर्षपकल्कपिण्डो निहन्ति लज्जामिव रागवेगः॥

अचि21.90
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः।
तथा करञ्जप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम्॥

अचि21.91
गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः।
श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः॥

अचि21.92
उभयहरिद्रासहितैश्चात्रिकतैलेन मिश्रितैरेभिः।
दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च॥

अचि21.93
मरिचं तमालपत्रं कुष्ठं समनःशिलं सकासीसम्।
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे॥

अचि21.94
तेनालिप्तं सिध्म सप्ताहात् घर्मसेविनोऽपैति।
मासान्नवं किलासं स्नानेन विना विशुद्धस्य॥

अचि21.95
मयूरकं जर्जरितं समूलं दग्ध्वा परिस्राव्य च सप्तकृत्वः।
तेनाम्भसा कङ्गुणिकोत्थतैलं सिद्धं परं सिध्मनिबर्हणाय॥

अचि21.96
जीवन्ती मञ्जिष्ठा दार्वी काम्पिल्लकं पयस्तुत्थम्।
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः॥

अचि21.97
देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता।
चर्मैर्कुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च॥

अचि21.98
सप्तपर्णकरञ्जार्कमालतीकरवीरजम्।
मूलं स्नुहीशिरीषाभ्यां चित्रकास्फोतयोरपि॥

अचि21.99
करञ्जबीजद्विनिशाव्योषैडगजसर्षपाः।
वरा वेल्लं च तैस्तैलं सगोमूत्रैर्विपाचितम्॥

अचि21.100
कुष्ठदुष्टव्रणग्रन्थिगण्डमालाभगन्दरान्।
विशेषाद्वातकफजान् हन्त्यभ्यङ्गेन वज्रकम्॥

अचि21.101
एरण्डतार्क्ष्यघननीपकदम्बभार्ङ्गीकम्पिल्लवेल्लफलिनीसुरवारुणीभिः।
निर्गुण्ड्यरुष्करसुराह्वसुवर्णदुग्धाश्रीवेष्टगुग्गुलुशिलाहरितालविश्वैः॥

अचि21.102
तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम्।
अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम्॥

अचि21.103
कनकक्षीरी शैला भार्ङ्गी दन्त्याः फलानि मूलं च।
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्॥

अचि21.104
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोतम्।
गुञ्जैरण्डकबृहतीमूलत्वक्सुरसार्जकफलानि॥

अचि21.105
कुष्ठं पाठा मुस्ता षड्ग्रन्थातुम्बुरुत्वचो मूर्वा।
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः॥

अचि21.106
हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासङ्गः।
सौराष्ट्री कासीसं दार्वीत्वक् स्वर्जिकालवणम्॥

अचि21.107
एतैस्तैलं तैलं कटुतैलं वा चतुर्गुणे मूत्रे।
करवीरमूलपल्लवतोये च विपाचितं जयति॥

अचि21.108
कटुकालाबुन्यस्तं जित्याभ्यङ्गेन वातकफकुष्ठम्।
मण्डलदद्रूकोष्ठकृमिपामाविचर्चिकाः सुतराम्॥

अचि21.109
सिक्थकतुत्थकगुग्गुलुसिन्दूररसाञ्जनैः कटुकतैलम्।
पामाकिटिभविचर्चिषु साधितमभ्यञ्जने श्रेष्ठम्॥

अचि21.110
शैलेयकम्पिल्लकपट्टिकाह्वसुराष्ट्रजासर्जरसोपलानि।
शिला च चूर्णो नवनीतयुक्तं कुष्ठे स्रवत्यभ्यधिकं प्रशस्तः॥

अचि21.111
एडगजकुष्ठसैन्धवसिद्धार्थविडङ्गकाञ्जिकैर्लिप्तम्।
कृमिपामासिध्मदद्रूमण्डलकुष्ठं शमं याति॥

अचि21.112
लाक्षाव्योषं प्रापुनाटं च बीजं सश्रीवेष्टाः कुष्ठसिद्धार्थकाश्च।
तक्रोन्मिश्रः स्याद्धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम्॥

अचि21.113
दूर्वाभयासैन्धवचक्रमर्द कुष्ठेरकाः काञ्जिकतक्रपिष्टाः।
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रूं च कण्डूं च विनाशयन्ति॥

अचि21.114
मनःशिलात्वक्कुटजं सकुष्ठं सलोमशः सैडगजः करञ्जः।
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन॥

अचि21.115
पलाशनिर्दाहरसेन वापि कर्षोन्मितान्याढक सम्मितेन।
दर्वीप्रलेपं प्रवदन्ति लेपमेतत् परं कुष्ठनिषूदनाय॥

अचि21.116
एलाचित्रकनिम्बवृषकं कुरुविन्दनागरार्कं च।
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य॥

अचि21.117
क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु।
भिद्यन्ते दीर्यन्ति च लिप्तान्यर्काभितप्तानि॥

अचि21.118
मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः।
मूत्रं पित्तं क्षारः पालाशः कुष्ठनुल्लेपः॥

अचि21.119
मुस्तं त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः।
ससप्ताह्वकुष्ठफलिनीदार्व्यःसिद्धार्थकं स्नानम्॥

अचि21.120
एष कषायो वमनं विरेचनं वर्णदस्तथोद्घर्षः।
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः॥

अचि21.121
करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम्।
मूत्रे दर्वीलेपः क्वाथो लेपेन कुष्ठघ्नः॥

अचि21.122
श्वेतकरवीरमूलं कुटजकरञ्जात् फलं त्वचो दार्व्याः।
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः॥

अचि21.123
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि।
पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः॥

अचि21.124
दार्वीरसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य।
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य॥

अचि21.125
इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य।
स्नाने पाने च हितास्तथाष्टमश्चाश्वमारस्य॥

अचि21.126
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः।
तैलघृतपाकयोगैश्चेष्यन्ते कुष्ठशान्त्यर्थम्॥

अचि21.127
सर्षपकरञ्जकोशातकानि तैलान्यथेङ्गुदीनां च।
कुष्ठेषु हितान्याहुस्तैलं श्रेष्ठं च खदिरसारस्य॥

अचि21.128
शीताः प्रदेहसेकास्तिक्तं सर्पिः सिराविरेकश्च।
विशरणदाहक्लेदे विस्फोटे चर्मदलने च॥

अचि21.129
शीर्णनखरोममांसः कृमिमानन्नाम्भसी त्यजेत् कुष्ठी।
सध्योदुग्धं दुग्धं षण्मासान् कारभं भजेत्समधु॥

अचि21.130
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्।
उद्दालनं च दन्ता गोश्ववराहोष्ट्रदन्ताश्च॥

अचि21.131
रजनीद्वयं कृमिघ्नं प्रपुनाटं राजवृक्षमूलं च।
कुष्ठोत्पाटनमग्र्यं सपिप्पलीपाकलं योज्यम्॥

अचि21.132
श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्।
उत्सन्नेषु च लेपाः सवर्णकरणास्तथाभ्यङ्गाः॥

अचि21.133
पक्षात् पक्षात् छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनं चाप्यधस्तात्।
शुद्धिर्मूर्ध्नःस्यात्त्रिरात्रात्त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणं च॥

अचि21.134
यो दुर्वान्तो दुर्विरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यतेऽसौ।
निस्सन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नान्निर्हरेदस्य दोषान्॥

अचि21.135
व्रतदमयमसेवात्यागशीलाभियोगो द्विजगुरुसुरपूजा सर्वसत्त्वेषु मैत्री।
जिनजिनसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति॥
॥इति एकविंशोऽध्यायः॥

अथ द्वाविंशोऽध्यायः।

अचि22.1
अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि22.2
कुष्ठादपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम्।
श्वित्रमतस्तश्छान्त्यै यतेत दीप्ते यथा भवने॥

अचि22.3
मदयन्त्याः सवायस्याः सुरभ्यारग्वधस्य च।
शतं पलानां प्रत्येकं वरायास्त्वाढकत्रयम्॥

अचि22.4
व्याघ्रीवह्निकपोतावत्सकखदिरार्कमूलदन्त्यैन्द्र्यः।
सनिशाद्वया दशपला क्वाथेऽमीषां क्षिपेत् पिष्ट्वा॥

अचि22.5
बीजं करञ्जेङ्गुदशिग्रुनिम्बान्नीलीं सनीलोत्पलचन्द्रलेखाम्।
श्यामां किरातं कटुकत्रयं च पञ्चाढकं तत्र च पञ्चगव्यात्॥

अचि22.6
शमयत्यचिरेण घृतं मृदुहुतवहसाधितं महानीलम्।
न किलासमेव केवलमपचीकृमिकासकुष्ठमभ्यस्तम्॥

अचि22.7
उन्मादापस्मारावर्शोविद्रधिशिरोरोगान्।
गलगण्डगुल्मगण्डानर्बुदशोफप्रमेहगलरोगान्॥

अचि22.8
सविसर्पशोषपवनव्याधीन्विषमज्वरान् हन्यात्॥

अचि22.9
संशोधनं विशेषात् पीतस्नेहस्य योजयेदनु च।
श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः॥

अचि22.10
तं पीत्वाभ्यक्ततनुर्यथाबलं सूर्यपादसन्तापम्।
सेवेत विरिक्तश्च त्र्यहं पिपासुः पिबेत् पेयाम्॥

अचि22.11
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात्।
स्फोटेषु निस्सृतेषु प्रातः प्रातः पिबेत् पक्षम्॥

अचि22.12
मलयूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य।
पालाशं वा क्षारं यथाबलं फाणितोपेतम्॥

अचि22.13
वितुषावल्गुजबजाच्चूर्णं गोवारिभाविताद्वहुशः।
मूलक्वाहेन पिबेत् कलितरुकृतमालमदनफल्गूनाम्॥

अचि22.14
पीते किलासी तिलतैलदिग्धो दिने दिने स्याद्रविपादसेवी।
जीर्णे च तक्राप्लुतकोद्रवाशी स्फोटोद्भवायैष विधिस्त्रिरात्रम्॥

अचि22.15
विध्वान्येद्युः स्फोटकान् कण्टकैस्तान् बस्ताम्भोभिर्घृष्टया शुक्तवर्त्या।
लिम्पेत् कामं लेपनाद्वेदनायां लेपो योज्यः शङ्खनाभिर्जलेन॥

अचि22.16
व्योषसर्षपनिशागृहधूमैर्यावशूकपटुचित्रकयुक्तैः।
कोलतुल्यगुटिकार्धविषांशा श्वित्रकुष्ठशमनो वरलेपः॥

अचि22.17
गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे संस्थितं क्षौद्रमिश्रम्।
पक्षादूर्ध्वं श्वित्रणा पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम्॥

अचि22.18
मार्कवमथवा खादेद् भृष्टं तैलेन लोहपात्रस्थम्।
बीजकशृतं च दुग्धं तदनुपिबेच्श्वित्रनाशाय॥

अचि22.19
पूतीकार्कव्याधिघातस्नुहीना मूत्रैः पिष्टाः पल्लवा जातिजाश्च।
घ्नन्त्यालेपाच्श्वित्रदुर्नामदद्रून् पामाकोठान् दुष्टनाडीव्रणांश्च॥

अचि22.20
द्वैप्यं दग्धं चर्म मातङ्गजं वा श्वित्रे लेपस्तैलयुक्तो वरिष्ठः।
पूतीकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपि हन्ति॥

अचि22.21
रात्रौ गोमूत्रे वासितान् जर्जराङ्गानह्निच्छायायां शोषयेत् स्फोटहेतून्।
एवं वारांस्त्रीन् भावयेच्श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः॥

अचि22.22
अक्षतैलद्रुतालेपः कृष्णसर्पोद्भवामषी।
शिखिपित्तं तथा दग्धं द्रीबेरं वा तदाप्लुतम्॥

अचि22.23
उपोषितायान्नकालांस्त्रीन् श्वेतकृकवाकवे।
यष्ट्याह्वकुष्ठैडगजबीजचूर्णं घृतान्वितम्॥

अचि22.24
दद्यात्तस्य पुरीषेण श्वित्रमुद्दाल्य लेपयेत्।
मासं हन्त्याशु तच्श्वित्रं विशेषाद्गुह्यसंश्रयम्॥

अचि22.25
लेपः पटुवेल्लशिला कासीसं रोचना कनकपुष्पी।
गोपित्तयुक्तमथवा चपलाञ्जनयुग्मलोहरजः॥

अचि22.26
काकोदुम्बरिका वा सावल्गुजचित्रका सगोमूत्रा।
कदलीक्षारयुतं वा खरास्थि दग्धं सगोरुधिरम्॥

अचि22.27
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा।
हस्तिमदाध्युषितो वा मालत्याः क्षारकक्षारः॥

अचि22.28
सिद्धार्थकाबृहत्यौ करञ्जकोशातकीफलं गुञ्जा।
शुकनासा सगवाक्षी स्वर्णक्षीरीनिकुम्भश्च॥

अचि22.29
लाङ्गलिकी हयमारस्तिल्वकभल्लातकाश्वमूत्री च।
मुस्ता स्नुही सहिंस्रा सुवर्णशकला फलोपेता॥

अचि22.30
मूलकबीजं व्योषं पीलुविडङ्गानि कर्णिकारश्च।
पिचुमन्दजातीकिसलयबाकुचिकातुत्थकुष्ठानि॥

अचि22.31
कटुरोहिणीमनोह्वात्रिफला च सुकल्किता गवां मृत्रे।
गजहयखरमूत्राणां पात्रत्रितयं स्नुगर्कदुग्धाभ्याम्॥

अचि22.32
द्वौ कुडवाविह दद्यात् सर्षपतैलाच्च चातुर्थीम्।
दर्वीलेपं सिद्धा रसक्रिया मूत्रिका नाम॥

अचि22.33
श्वित्रं घृष्टं लिप्तं त्रीनालेपांस्तया न लङ्घयति।
मशतिलकचर्मकीलग्रन्थ्यर्बुदसर्वकुष्ठघ्नी॥

अचि22.34
कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः।
मूत्रेण गवां पिष्टः सवर्णकरणः परं श्वित्रे॥

अचि22.35
क्षारे सुदग्धे गजलिण्डजे वा गजस्य मूत्रेण परिस्रुते च।
द्रोणप्रमाणे दशभागयुक्तं दत्वा पचेद्बीजमवल्गुजानाम्॥

अचि22.36
श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिप्तं बहुशः प्रघृष्टम्।
कुष्ठं मशं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम्॥

अचि22.37
भल्लातकद्वीपिसुधार्कमूलगुञ्जाफलत्र्यूषणशङ्खचूर्णम्।
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा॥

अचि22.38
स्नुगर्कदुग्धे तद्विदधीत लेपम्।
कुष्ठे किलासे तिलकालकेषु मशेषु दुर्नामसु चर्मकीले॥

अचि22.39
शुध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्।
श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य॥

अचि22.40
कृमिचिकित्सितम्।
स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे।
उत्क्लेशितक्रिमिकफे शर्बरीं तां सुखोषिते॥

अचि22.41
सुरसादिगणं मूत्रे क्वाथयित्वार्धवारिणि।
तं कषायं कणागालाकृमिजित्कल्कयोजितम्।
सतैलस्वर्जिकाक्षारं युञ्ज्याद्बस्तिं ततोऽहनि॥

अचि22.42
तस्मिन्नेव निरूढं तं पाययेत विरेचनम्।
त्रिवृत्कल्कं फलकणाकषायालोडितं ततः।
ऊर्ध्वाधःशोधिते कुर्यात् पञ्चकोलयुतं क्रमम्॥

अचि22.43
कटुतिक्तकषायाणां कषायैः परिषेचनम्।
काले विडङ्गतैलेन ततस्तमनुवासयेत्॥

अचि22.44
शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेष्वनु।
उद्रिक्ततिक्तकटुकमल्पस्नेहं च भोजनम्॥

अचि22.45
विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः।
पिबेत् सस्वर्जिकाक्षारैर्यवागूं तक्रसाधिताम्॥

अचि22.46
रसं शिरीषकिणिहीपारिभद्रककेम्बुकात्।
पलाशबीजपत्तूरपूतीकाद्वा पृथक् पिबेत्।
सक्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्रयुतान् पृथक्॥

अचि22.47
शतकृत्वोऽश्वविट्चूर्णं विडङ्गक्वाथभावितम्।
कृमिमान्मधुना लिह्यात् भावितं वा वरारसैः।
शिरोगतेषु क्रिमिषु चूर्णं प्रधमनं च तत्॥

अचि22.48
आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः।
पक्त्वा पूपलिकां खादेत् धान्याम्लं च पिबेदनु॥

अचि22.49
सपञ्चकोललवणमसान्द्रं तक्रमेव वा।
नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः॥

अचि22.50
विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत्।
विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम्॥

अचि22.51
दिनमारुष्करं तैलं पाने बस्तौ च योजयेत्।
सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत्॥

अचि22.52
तिल्वकोद्दालकपले त्रिवृच्छ्यामे तदर्धतः।
दन्तीद्रवन्त्यावर्धेन तदर्धे चव्यचित्रकौ॥

अचि22.53
पिष्ट्वा विडङ्गयूषेण तेन भावितपीडितात्।
तैलप्रस्थं तिलात्साध्यं क्रिमिघ्नद्विगुणे रसे।
तच्छोधनं पिबेत् काले विदध्याच्चानुवासनम्॥

अचि22.54
कोशातकीकरञ्जोमासर्षपस्नेहकल्पनम्।
कृत्वा तेनैव विधिना पाययेदुदरक्रिमिम्॥

अचि22.55
पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने।
शिरोविरेकं वमनं शमनं कफजन्मसु॥

अचि22.56
रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सितम्।
इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु॥

अचि22.57
क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति।
समासतोऽम्लान्मधुरान्रसांश्च क्रिमीन् जिघांसुः परिवर्जयेच्च॥
॥इति द्वाविंशोऽध्यायः॥

अथ त्रयोविंशोऽध्यायः।

अचि23.1
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि23.2
सर्वेषु केवलानिलविकारेष्वन्तर्बहिः स्नेहस्वेदौ साल्वलेनोपनाहो निवातं स्थानं प्रावरणानि दशमूलक्वाथसिद्धा महास्नेहप्रगाढाः स्निग्धा दध्यम्ला नागरपिप्पलीतीक्ष्णा ग्राम्यानूपौदकशिरःपिशितरसाः पयांसि यूषाः प्रीणनानि चान्नानि।
तैरेव च मांसैर्महास्नेहसंसृष्टैस्तदक्तानामभीक्ष्णं पिण्डादिस्वेदाः॥

अचि23.3
अपि च।
कोलकुलत्थामरतरुयवमिसिमाषातसीवचाकुष्ठम्।
रास्नातैलफलानि च वातजिदुत्कारिकाम्लोष्णा॥

अचि23.4
बिडालनकुलोष्ट्रसृगालादिचर्मभिर्बन्धः।
स्निग्धा बस्तयो नावनानि च प्रयोज्यानि।
दोषोपक्रमणीयं चेक्षेत॥

अचि23.5
स्निग्धस्विन्नस्य हि तोदभेदायामशूलादयो वातविकाराः शीघ्रमुपशाम्यन्ति।
स्नेहश्च धातून् पुष्णाति बलं च देहे जनयति।
तस्मात् पुनः पुनः स्नेहस्वेदौ शीलयेत्।
तन्मृदूकृते च कोष्ठे नावतिष्ठन्त्यनिलामयाः॥

अचि23.6
यदि तु सदोषत्वान्न निवर्तन्ते ततः सर्वशरीरगेऽपि वायौ विशेषतः पक्वाशयाश्रिते मृदुस्नेहविरेचनं तिल्वकसर्पिः सातलाघृतमैरण्डतैलं वा क्षीरेण दद्यात्।
एवं हि विशुद्धस्रोतसोऽनावृतः पवनो विचरन्नाशु शान्तिमेति॥

अचि23.7
अपि च।
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः।
स्रोतो बध्वानिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्॥

अचि23.8
अथ दुर्बले विरेच्ये निरूहं पाचनीयदीपनीयद्रव्ययुक्तमेवंविधं च भोज्यम्।
भोज्ययुक्तं वा स्रंसनमवचारयेत्।
विशुद्धस्य च समिद्धेऽग्रावसकृत् स्नेहस्वेदौ स्वाद्वम्ललवणं चान्नपानम्।
एवमप्यनिवृत्ताववपीडकस्नेहान् बस्तिकर्म च प्रयोजयेत्॥

अचि23.9
आमाशयगते कृतवमनस्य षड्ढरणं चूर्णं परतश्च यथार्हं स्नेहादीन्।
नाभिदेशमाश्रिते बिल्वशलाटुभिः सिद्धान् मत्स्यान्।
अशेषकोष्ठाश्रिते पुनरर्शोग्रहणीविहितमाममलपाचनं क्षारोपयोगानन्तर्गुल्मोपक्रमं च प्रयुञ्जीत।
हृदयस्थे अंशुमत्या शृतं पयः॥

अचि23.10
श्रोत्रादिगते शिरोगते च विशेषेण स्नैहिकं नस्यं धूमं शिरोबस्तिमर्दनालेपनान्यथास्वं च स्रोतसां प्रीणनम्॥

अचि23.11
त्वचि स्थितेऽभ्यङ्गस्वेदनिवातानि।
रक्ते शीतप्रदेहविरेकरक्तमोक्षाः।
मांसमेदसोर्विरेकास्थापनशमनानि।
अस्थिमज्ज्ञोरन्तर्बहिःस्नेहाः।
शुक्रप्राप्ते हर्षः शुक्रलं चान्नपानम्।
विबद्धे तु शुक्रे विरेचनम्।
ततोऽनुबन्धेऽनन्तरोक्तां क्रियां कुर्यात् पुत्रकामीयं चेक्षेत॥

अचि23.12
शुष्यति तु गर्भे बालेषु च यष्टीमधुककाश्मर्यफलसारिवाशर्कराशृतं पयो दद्यात्।
मांसादमांसरसांश्च बृंहणीयस्नेहयुक्तान्॥

अचि23.13
सिरास्नावसन्धिप्राप्तेऽभ्यङ्गमर्दनस्वेदोपनाहबन्धाग्निकर्माणि।
सङ्कोचे माषसैन्धवसाधितं तैलमभ्यङ्गः।
स्वापे बहुशो रक्तावसेचनम्।
न त्वङ्गम्लानौ शोषभयात्।
स्रुतरक्तस्य तैललवणागारधूमैः प्रदेहः॥

अचि23.14
अथापतानकिनमस्रस्ताक्षमस्तब्धलाङ्गुलमवेदनमस्वेदनमप्रलापिनमखट्वाघातिनमबहिरायामिनं चोपक्रमेत॥

अचि23.15
तत्र प्रागेव स्निग्धस्विन्नाङ्गं व्योषविडङ्गश्वेतमरिचैरन्यैश्च तीक्ष्णैः शिरोविरेचनैः स्रोतोविशुद्धये कृतनस्यमनन्तरं चैनं विदार्यादिक्वाथमांसरसक्षीरदधिविपक्वं सर्पिरच्छं पाययेत्।
तथा नातिमात्रमनिलः प्रसरति॥

अचि23.16
ततो भद्रदार्वादिवर्गं वातघ्नमाहृत्य सयवकोलकुलत्थं सानूपमांसं च निष्क्वाथ्य तत्कषायेणाम्लक्षीरवता मधुरवर्गप्रतीवापं महास्नेहं विपचेत्।
तमपतानकिनमभ्यङ्गपरिषेकावगाहपानभोजनानुवासननावनेषु विदध्यात्॥

अचि23.17
बलीयसि च वाते सुखोष्णकरीषपूर्णे कूपे निखन्यादामुखम्।
तप्तायां वा रथकारचुल्यां शिलायां वा सुरापरिषिक्तायां शाययेत् पलालावच्छन्नम्।
स्वेदयेद्वा पिण्डेन।
मूलकोरुबूकस्फूर्जातकार्कसप्तलाशङ्खिनीस्वरससिद्धं वा तलमभ्यङ्गादिषु योज्यम् अभुक्तवता चैतत् पीतमम्लदधिमरिचवचायुक्तमाक्षेपकमपहन्ति॥

अचि23.18
तिलपीडनोपकरणद्रव्याण्यल्पकालतैलपरिपीतान्यवक्षुद्य महति कटाहे पानीयेनाप्लाव्य क्वाथयेदास्नेहोपगमात्।
ततस्तत् स्नेहमम्भस उपरिष्टात् पाणिशरावयोरन्यतरेणादाय वातघ्नौषधदत्तप्रतीवापं स्नेहपाककल्पेन पचेत्।
एतदणुतैलं सर्ववातविकारहरम्।
अणुतैलद्रव्येभ्यो निषपद्यत इत्यणुतैलम्॥

अचि23.19
वेगान्तरेषु च तीक्ष्णान्यवपीडानि प्रधमनानि वासकृद्दद्यात्।
तथास्य श्लेष्मापगमनेन श्वसनविमोक्षात् संज्ञा पुनः पुनर्नोपरुध्यते।
कुक्कुटकुलीरशिंशुमारवराहवसाः पाययेत्।
यवकोलकुलत्थमूलकदधिघृततैलसिद्धां च यवागूम् सर्वाकारं च गतवेगः स्नेहविरेचनास्थापनानुवासनानि सेवेत॥

अचि23.20
त्रिवृदृन्तीसुवर्णक्षीरीशङ्खिनीविडङ्गत्रिफलानामक्षसमाः कल्काः बिल्वमात्रकं तिल्वकमूलानां त्रिफलारसदधिपात्रे द्वे घृतपात्रमकं सर्वमैकध्यं प्रतिसंसृज्य विपचेदेतत्तिल्वकसर्पिः स्नेहविरेचनमनिलरोगेषु।
तिल्वकविधिरेव चाशोकरम्यकयोर्द्रष्टव्यः।
शुद्धवातपतानकविधानमेतत्।
संसृष्टे यथासंसर्गम्॥

अचि23.21
सकफे तु वाते तुल्बुरुफलाभयाहिङ्गुपुष्करमूललवणत्रयचूर्णं यवक्वाथेन कृत्पार्श्वार्तिहरं पिबेत्।
हिङ्गुनागरदाडिमाम्लवेतससौवर्चलचूर्णं वा।
मुस्तपिप्पलीनागरातिविषाबिभीतकभार्ङ्गीचूर्णं वा मद्येनोष्णाम्बुना वापतन्त्रककासहृद्रोगहरम्।
सौवर्चलाभयाव्योषसिद्धं सर्पिः।
रास्नाम्लवेतससैन्धववचाहरातकाकल्कश्च घृतभृष्टो भक्षितः॥

अचि23.22
शुण्ठीचित्रकभार्ङ्गीशुकनासानिचुलमहावल्लीबृहतीद्वयकाकमाचीपुनर्नवैरक्षमात्रैर्घृतप्रस्थं साधयेत्।
तत् पीतं परमपतन्त्रकश्वासहिध्माहृद्रोगघ्नम्।
पथ्याशतार्धकल्केन वा सौवर्चलपलद्वययुक्तं चतुर्गुणक्षीरं घृतप्रस्थं विपाचयेत् तदपतन्त्रकघ्नम्।
न चास्य शोधनार्थं बस्तयस्तीक्ष्णाः प्रयोक्तव्याः।
हृद्रोगचिकित्सितं चेक्षते॥

अचि23.23
अन्तर्बहिरायामावेकायामवत् साधयेत्।
तैलद्रोण्यां चात्र शयनम्।
अन्तरायामश्चैतयोर्घोरतरः अपि च॥

अचि23.24
विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः।
प्रस्विद्यंश्च धनुष्कम्पी दशरात्रं न जीवति॥

अचि23.25
वेगेष्वतोऽन्यथा जीवेन्मन्देषु विनतो जडः।
खञ्जः कुणिः पक्षहतः पङ्गुलो विकलोथवा॥

अचि23.26
हनुस्तम्भमप्यर्दितवच्चिकित्सेत्।
स्वेदयित्वा च हनू स्तब्धौ स्रस्तौ स्वस्थानमानीय पाणिभ्यां पीडयेत्।
विवृतास्ये चिबुकं चोन्नामयेत्।
संवृतास्ये च नामयेत्॥

अचि23.27
जिह्वास्तम्भे सामान्योक्तो विधिरेकायामे च।
तथा महातृणपञ्चमूलविदार्यादिजीवनीयानि मेद्यमांसान्यौदककन्दांश्च द्विगुणोदके क्षीरशेषं निष्क्वाथ्य परिस्राव्य तैलप्रस्थेनोन्मिश्रं पुनरधिश्रयेत्।
क्षीरानुगमे चावतार्य शीतं मन्थयेत्।
ततः स्नेहमादाय पूर्ववद्विपचेत्।
एतत् क्षीरतैलं पानाभ्यङ्गादिषु विधेयम्।
तैलविहीनमिदमेव क्षीरघृतमक्षितर्पणम्॥

अचि23.28
तिल्वकफलसिद्धक्षीरदध्ना च सह मांसरसान् कल्पयेत्।
यथोक्ताश्च यवागूः स्निग्धाश्च नस्यधूमकवलग्रहाः प्रयोज्याः।
कृष्णभूमिकेदारं रोहिणीकाष्ठैर्नातिशुष्कैर्दाहयेत्।
उपलिप्य च गोमयेन पुनः खदिरकाष्ठैर्दग्ध्वा तद्भस्मापनीय तत्र शीतीभूते तैलं निषेचयेत्।
उषितं च निशां खानयेत्।
तामनुगततैलां मृत्तिकामादाय पञ्चमूलेन सह क्वाथयेत्।
तमपि क्वाथं परिस्रुतमष्टगुणेन पयसा तैलावशेषं पाचयेत्।
एतदप्यणुतैलं नावनात् सर्ववातव्याधिहरम्॥

अचि23.29
तद्वच्च पञ्चमूलकाष्ठैर्दग्ध्वा भस्मापनीय विदार्यादिसिद्धेन तैलेन शतशो निषिच्य पूर्ववन्मृदमादायोष्णोदकवति कटाहेऽभ्यासिच्य तैलं पाणिना पिचुना वा गृहीत्वा वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं साधयेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगा चाश्वगन्धा वातघ्नानि च द्रव्याणि।
सिध्यति चास्मिन् शङ्खमाध्मापयेत्।
दुन्दुभीन् वादयेत्।
ब्राह्मणानध्यापयेत् भोजयेच्च।
छत्रं धारयेत्।
बालव्यजनैश्च वीजयेत्।
तत्सिद्धं नस्यपानाभ्यङ्गबस्तिषु प्रयुञ्जीत।
एतत्सहस्रपाकमनिवार्यवीर्यं तैलमेवं भागशतपक्वं शतपाकम्।
अभीक्ष्णं च स्वेदयेत्।
ततः स्निग्धस्विन्नस्य श्लक्ष्णस्य मृदुनश्चर्मणो वाससो वा चतुरङ्गुलविस्तृताभिः पट्टिकाभिर्वक्रीभूतप्रदेशानवगृह्णन् सर्वतो वेष्टयेत् बध्नीयात्।
निशि बध्वा दिवा मुञ्चेद्दिवा वा जिशि।
मोक्षान्ते चोत्कारिकाभिः सुस्निग्धाभिर्वातघ्नप्रक्लृप्ताभिः स्वेदयेत्।
अव्यथं च प्रतिलोमं प्रमार्जयन्नृजु कुर्वंश्च पुनर्बध्नीयात्।
एवं सप्तरात्रम्।
सशोफे तु वमनमाचरेत्।
सदाहरागे बलवतः सिराव्यधम्।
घृतक्षीरबस्तिसेकान् वातपित्तघ्नक्रियां च॥

अचि23.30
एकाङ्गरोगिणमम्लानगात्रं स्नेहस्वेदोपपन्नं मृदुना संशोधनेन संशोध्यानुवास्यास्थाप्य चाक्षेपकविधानेनोपचरेत्।
विशेषतो बलातैलमनुवासनार्थे।
दोषसंसर्गे यथासंसर्गम्।
कुक्कुटीं वा रसायनविधानेनोपयुञ्जीत।
अपबाहुके नाचनमूर्ध्वभक्तं च निरामे स्नेहपानम्।
विश्वभीप्रभृतिषु पाददाहान्तेषु यथोक्तां सिरां विध्वा वातव्याधिवदुपाचरेत्॥

अचि23.31
ऊरुस्तम्भे तु स्नेहासृक्स्राववमनाविरेचनबस्तिकर्माणि परिहरेत्।
आमश्लेष्मभ्यां सह तेषां विरोधात्।
ऊरुलीनानां वायुना स्तब्धानां च वमनादिभिरूर्ध्वं नेतुमम्भसामिव निम्नात् स्थलमशक्यत्वात्।
ततस्तत्र तु बहुशः शमनशोषणानि युक्त्यावेक्ष्य युञ्जीत।
रूक्षोपचारान् यवश्यामाककोद्रवोद्दालकमलवणमल्पतैलसिद्धं शाकं क्षारारिष्टमधूदकानि च शीलयेत्॥

अचि23.32
स सैन्धवं वचादिं हरिद्रादिं वत्सकादिं वा।
षड्धरणं वा हरीतकीः पिप्पलीर्वा।
शार्ङ्गेष्टामदनदन्तीवत्सकं वा।
स्वादुकण्टकारग्वधदार्वीमरुबकपाठाकरञ्जकूलकचूर्णं वा सक्षौद्रं मस्तुना पिबेत्।
चित्रकदेवदारुकुष्ठपाठातिक्तकरोहिणीर्वा मधुना लिह्यात्।
त्रिफलापिप्पलीमुस्तचविकाकटुरोहिणीर्वा।
स्वेदांश्च रूक्षान् कुर्यात्॥

अचि23.33
अत्यपतृप्तं तु रूक्षं क्षाममनिद्रं जाङ्गलरसैः शालिभिश्च तर्पयेत्।
सर्षपतैलं वा सरलकुष्ठश्रीवेष्टकसुरदारुनागकेसराजगन्धासिद्धं सक्षौद्रं पिबेत्।
ससैन्धवपलं शुण्ठीचित्रकपिप्पलीमूलानां पृथक् द्विपलं दश भल्लातकास्थीनि कल्कीकृत्यैकध्यमारनालाढकेन सह तैलप्रस्थं पचेत्।
तत्सर्ववातविकारेषु पथ्यं विशेषादूरुस्तम्भार्शोगृध्रसीघ्नमपत्यदं च।
बहिरपि श्लेष्मक्षपणाय क्षौद्रसर्षपकरञ्जफलवल्मीकमृद्गोमूत्रैरुष्णैर्लेपयेत्।
सौभाञ्जनतर्कारीद्वयसरलार्जुनकरञ्जाढकीगोक्षुरकैर्लेपोन्मर्दनसेकान् कुर्यात्।
व्यायामैश्च विविधर्मेदः क्षपयेत्।
स्थलान्युल्लङ्क्षयेत्।
प्रतिस्रोतः सरितमव्यालां तरेत्।
एवमूरुस्तम्भो हि शुष्केश्लेष्मणि प्रशाम्यतीति॥

अचि23.34
भवति चात्र।
सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम्।
पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया॥

अचि23.35
रास्नामहौषधद्वीप्पिप्पलीशठिपौष्करम्।
पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम्॥

अचि23.36
निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथग्दशपलान् विपचेद्घटेऽपाम्।
अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः॥

अचि23.37
पाठाविडङ्गसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिसिचव्यकुष्ठैः।
तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्यरुष्करवचाकणमूलयुक्तैः॥

अचि23.38
मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः।
तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक्॥

अचि23.39
नाडीव्रणार्बुदभगन्दरगण्डमाला जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्।
यक्ष्मारुचिश्वसनपीनसकासशोषहृत्पाण्डुरोगमदविद्रधिवातरक्तम्॥

अचि23.40
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्।
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह॥

अचि23.41
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः।
तद्वत्खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः॥

अचि23.42
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्।
योज्यो निरत्ययः पाननस्याभ्यञ्जनबस्तिषु॥

अचि23.43
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्।
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते॥

अचि23.44
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मबुलूकजा।
प्रत्यग्रा विधिनानेन नस्यपानेषु योजयेत्॥

अचि23.45
जीर्णं पिण्याकं पञ्चमूलं पृथक् च क्वाथं क्वाथाभ्यामेकतस्तैलमाभ्याम् क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता नश्येयुः श्लेष्मयुक्ता विशेषात्॥

अचि23.46
समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च।
अभीरुमूलाच्च तुलार्धमेतदष्टांशशेषं विपचेद्वहेऽपाम्॥

अचि23.47
तत्र सेव्यनखकुष्ठहिमैलास्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः।
लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च॥

अचि23.48
तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्रान् शीलितं हन्ति वातान्।
कम्पाक्षेपस्तम्भशोषादियुक्तान् गुल्मोन्मादौ पीनसान्योनिरोगान्॥

अचि23.49
केतकिमूलबलातिबलानां यद्बहलेन रसेन विपक्वम्।
तैलमनल्पतुषोदकयुक्तं मारुतमस्थिगतं तदपोहेत्॥

अचि23.50
तुलां लशुनकन्दस्य तुलार्धं जाङ्गलात् पलात्।
दशमूलाच्च विपचेद्भागान् पञ्चपलान् पृथक्॥

अचि23.51
तोयार्मणेण पादस्थे समं तैलं पयो दधि।
तत्र दद्यात् पलांशांश्च रास्नामधुकजीवकान्॥

अचि23.52
मिशिस्थिरामहामेदाचपलातिविषाबलाः।
काकोली पौष्करं मूलमश्वगन्धां च साधितम्॥

अचि23.53
तत्परं वातरोगघ्नं गुल्मानाहार्तिशूलनुत्।
भग्नजर्जरिताङ्गानां पथ्यमग्नेश्च दीपनम्॥

अचि23.54
समूलजालां विपचेत् प्रसारिणीं तुलोन्मितां पादधृते घटेऽम्भसः।
पृथक् सतैलं दधि तत्समं क्षिपेत् समं च ताभ्यां विजयां ततः पचेत्॥

अचि23.55
प्रसारिणीजीवकसिन्धुजन्मयष्ट्याह्वरास्नाग्निकयावशूकैः।
सग्रन्थिकाख्यैर्द्विपलैः सुपिष्टैः भल्लातकानां दशकैस्त्रिभीश्च॥

अचि23.56
शुण्ठीपलत्रययुतैर्विनिहन्ति पाननस्यादिभिस्तदखिलान् मरुतो विकारान् कुष्ठप्रमेहहतनाममनोविकारश्वासास्थिभङ्गजठरक्रिमिबीजदोषान्॥

अचि23.57
पचेत् सहाचरतुलां जलद्रोणचतुष्टये।
द्रोणशेषे समक्षीरे तत्र तैलाढकं पचेत्॥

अचि23.58
सहाचरस्य मूलानां कल्कितैर्दशाभिः पलैः।
अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात्॥

अचि23.59
सैलानलदशौलेयशताह्वारक्तचन्दनात्।
सिद्धेऽस्मिन् शर्कराचूर्णादष्टादशपलं क्षिपेत्॥

अचि23.60
भेडस्य संमतं तैलं तत् कृच्छ्राननिलामयान्।
वातकुण्डलिकोन्मादभूतापस्मारवर्ध्म च।
गुल्महृद्रोगदुर्नामयोनिरोगांश्च नाशयेत्॥

अचि23.61
श्वदंष्ट्रककषायस्य प्रस्थौ द्वौ पयसा समौ।
षट्पलं शृङ्गवेरस्य गुडस्य च पलाष्टकम्।
तैलप्रस्थं विपक्वं तद्दद्यात् सर्वानिलार्तिषु॥

अचि23.62
बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम्।
जलाढकशते पक्त्वा शतभागाथिते रसे॥

अचि23.63
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः।
पचेत्साजपयोर्धांशं कल्कैरेभिः पलोन्मितैः॥

अचि23.64
शठीसरलदार्वेलामञ्जिष्ठागरुचन्दनैः।
पद्मकातिबलामुस्तासूप्यपर्णीहरेणुभिः॥

अचि23.65
यष्ठ्याह्वसुरसव्याघ्रनखर्षभकजीवकैः।
पलाशरसकस्तूरीनलिकाजातिकोशकैः॥

अचि23.66
स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः।
त्वक्कुन्दुरुककर्पूरतुरुष्कश्रीनिवासकैः॥

अचि23.67
लवङ्गनखकंकोलकुष्ठमांसीप्रियङ्गुभिः।
स्थौणेयतगरध्यामवचामदनकप्लवैः॥

अचि23.68
सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते।
पत्रकल्कं ततः पूतं विधिना तत् प्रयोजितम्॥

अचि23.69
श्वासं कासं ज्वरं मूर्छां छर्दिं तृष्णां क्षतं क्षयम्।
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्।
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्॥

अचि23.70
अमृतायास्तुलाः पञ्च पचेत्तोयवहद्वये।
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्॥

अचि23.71
एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः।
शतपुष्पाबलामेदामहामेदर्धिजीवकैः॥

अचि23.72
काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः।
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः॥

अचि23.73
शतावरीतामलकीकर्कटाह्वाहरेणुभिः।
वचागोक्षुरकैरण्डारास्नाकालासहाचरैः॥

अचि23.74
वीरामहैलर्षभकत्रिदशाह्वैश्च कार्षिकैः।
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च॥

अचि23.75
कल्कैस्तत्क्षीणवीर्याग्निबलसम्मूढचेतसः।
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्॥

अचि23.76
वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्।
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्।
गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्।
एष कल्पोऽश्वगन्धाया बलातिबलयोरपि॥

अचि23.77
क्वाथकल्कपयोभिर्वा बलादीनां पृथक् पचेत्।
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः॥

अचि23.78
रसेन मूलकानां च तैलं दधिपयोन्वितम्।
साधयेत्तत् परं सर्वपवनव्याधिभेषजम्॥

अचि23.79
यच्च शीतज्वरे तैलमगर्वाद्यमुदाहृतम्।
सहस्रशतशः पक्त्वा सिद्धं वातामयापहम्॥

अचि23.80
फलत्रिकस्य प्रस्थं स्यात् कुलत्थं कुडवद्वयम्।
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलानि तु॥

अचि23.81
रास्नाचित्रकयोर्द्वे द्वे दशमूलात् पलं पलम्।
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्॥

अचि23.82
सुरारनालदध्यम्लसौवीरकतुषोदकम्।
कोलदाडिमवृक्षाम्लरसं क्षीरं वसां नवाम्॥

अचि23.83
मज्जानं तैलमाज्यं च जीवनीयपलानि षट्।
कल्कमेकत्र तत् सिद्धं सिद्धं शुद्धानिलामये॥

अचि23.84
सिरापर्वास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु।
वेपनाक्षेपशूलेषु तमभ्यङ्गं प्रयोजयेत्॥

अचि23.85
आनूपजाङ्गलोत्थानामस्थीनि विपचेज्जले।
तत्स्नेहं दशमूलस्य कषायेण पुनः पचेत्॥

अचि23.86
जीवकर्षभकास्फोतविदारीकपिकच्छुभिः।
वातघ्नैर्दीपनीयैश्च कल्कैर्द्विक्षीरभागिकैः॥

अचि23.87
सिरापर्वास्थिकोष्ठस्थं पानाद्यैर्हन्ति तच्चलम्।
क्षीणौजोमज्जशुक्राणामेतत् स्यादमृतोपमम्॥

अचि23.88
पाने नस्येऽन्वासनेऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः।
दुष्टान् वातानाशु शान्तिं नयेयुर्वन्ध्या नरीः पुत्रभाजश्च कुर्युः॥

अचि23.89
स्नेहस्वेदैर्द्रुतः श्लेष्मा यदा पक्वाशये स्थितः।
पित्तं वा दर्शयेद्रूपं बस्तिभिस्तं विनिर्जयेत्॥
॥इति त्रयोविंशोऽध्यायः॥

अतह् चतुर्विंशोऽध्यायः।

अचि24.1
अथातो वातशोणितचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि24.2
वातशोणितिनः स्निग्धस्य दाहरागरुक्तोदेषु जलौकोभिः कण्डूपतापस्वापचिमिचिमायनेषु शृङ्गतुम्बैर्दशाद्देशान्तरं सञ्चरत् सिरया प्रच्छानेन वा दुष्टमसृगसकृदल्पमवसेचयेत्॥

अचि24.3
असृक्क्षये हि गम्भीरशोफस्तम्भकम्पग्लानि सङ्गोचादयः स्युः।
सिराव्यधोक्ताश्च मूर्छादयः।
नैव च स्रावयेदङ्गग्लानौ रूक्षे वातोत्तरं च रक्तम्।
ततश्च पुनः स्नेहयुक्तानि रूक्षाणि वा विरेचनानि बस्तिकर्म चासकृत् प्रयोजयेत्॥

अचि24.4
अथ वातप्रबले पुराणघृतं पिबेच्छतावरीघृतं वा॥

अचि24.5
दशमूलपुनर्नवद्वयैरण्डमुद्गपर्णीमाषपर्णीमहामेदाशतावरीरास्नावाक्पुष्पीशङ्खपुष्पीबलातिबला द्विपलांशाः पृथक् जलद्रोणे विपाचयेत्।
पादशेषे च तत्तुल्यानि पृथक् छागमांसामलकेक्षुरसघृतक्षीराणि संयोज्य कल्कं च पिप्पलीमरिचकाश्मर्यफलोत्पलद्विमेदाद्विश्रावणीवीरापुनर्नवनागरसमङ्गातुगाक्षीरीक्षीरकाकोलीद्राक्षाक्षोडपद्मबीजशृङ्गाटकनिकोचकभव्योरुमाणखर्जूरवाताममुञ्जाताभिषुकाणां पुनः पचेत्।
एतज्जीवनीयाख्यं सर्पिर्वातविकारान् विशेषतश्च पाण्डुरोगज्वरापस्मारभगन्दरश्वासकासहिध्मास्वरभेदपार्श्वशूलयकृत्प्लीहमूत्रसङ्गाश्मरीवात्तशोणितसर्वाङ्गैकाङ्गरोगानपहरति।
बल्यं वर्ण्यं वृष्यं चक्षुष्यं पुत्रदं च।
तैलसात्म्यो वा क्षीरसितोपेतं तैलं पिबेत्॥

अचि24.6
अथवा शतावरीमयूरकक्षीरविदारीबलाद्वयतृणपञ्चमूलक्वाथे पद्मकादिगर्भं साधितम्।
बलातैलं वा वातव्याध्युक्तम्।
शतपाकं वा।
वातहरसिद्धेन पयसाम्लैर्वा स्पर्शसुखं परिषेकं कुर्वीत॥

अचि24.7
प्रत्येकशो यवगोधूमतिलमुद्गमाषेषु काकोलीजीवकर्षभकबलातिबलातिबलाशृगालविन्नामेषशृङ्गीप्रियालसितोपलासुरभिवचाकशेरुकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धान् पञ्च पायसानुपकल्पयेत्।
स्नैहिकफलमज्जोत्कारिकां वा। बिल्वपेशिकातगरदेवदारुसरलरास्नाहरेणुकुष्ठशतपुष्पाभिर्वा दधिमस्तुयुक्ताभिरुपनाहः॥

अचि24.8
यवमधुकैरण्डबीजपुनर्नवैर्धान्याम्बुपिष्टैः प्रलेपः।
मातुलुङ्गाम्लवेतससैन्धवघृतमिश्रं वा शिग्रुमूलम्।
सहचरजीवन्तीमूलं वा।
रास्नामधुकगुडूचीबलाद्वयजीवकर्षभकल्कक्षीरसिद्धं ससिक्थकं सर्पिरभ्यङ्गः॥

अचि24.9
पित्तप्रबले द्राक्षारेवतफलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत्।
शतावरीपटोलत्रिफलागुडूचीकटुकाकषायं वा।
स्वादुतिक्तवर्गसिद्धं च सर्पिः क्षीरं च।
रास्नाभीरुदशमूलबलासिद्धं वा।
धारोष्णं वा।
विरेकार्थे त्रिवृच्चूर्णयुक्तं वा।
क्षीराहारो वा क्षीरेणैरण्डतैलं बहुशः पिबेत्।
अमृतारग्वधाटरूषककषायेण वा।
क्षीरबस्तीन् वा सघृतान् दद्यात्॥

अचि24.10
शीतैश्च चन्दनपद्मकबिसमृणालादिभिः शृतेन क्षीरेण परिषेकः।
क्षीरेक्षुरसमधुशर्करातण्डुलोदकेन वा।
द्राक्षामधुककाश्मर्ययुतेन वा।
धान्याम्लेन वा जीवनीयसिद्धेन वा सर्पिषा शतधौतेन वा॥

अचि24.11
मसूरोशीरप्रपौण्डरीकदार्वीमधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैरकासक्तुभिः सघृतक्षीरशर्करैः प्रेदहे दाहरागरुग्विसर्पशोफहरः।
गोधूमचूर्णो वा छागक्षीरसंयुक्तो लेपः।
तिलाश्च पयसा पिष्टाः भृष्टाः कपाले पुनः पयसि प्रक्षिप्य निर्वापिताः॥

अचि24.12
रक्तप्रबलेऽप्येवं बहुशश्च शोणितमवसेचयेत्॥

अचि24.13
श्लेष्मप्रबले धात्रीनिशामुस्ताकषायं मधुमधुरपिबेत्।
त्रिफलाकषायं वा।
मधुकशृङ्गिवेराभयाकटुरोहिणीनिर्यूहं वा।
यथार्हस्नेहपीतं च मृदु वामयेद्विरूक्षयेच्च।
न चातिसेकलेपान् दद्यात्॥

अचि24.14
निम्बसर्षपाश्वगन्धाक्षारतिलैः कोष्णैर्लेपः।
वचागारधूमद्विनिशाकुष्ठशतपुष्पाभिर्वा।
पुनर्नवेन वा सघृतेन।
तिलसर्षपातसीयवचूर्णो वा।
श्लेष्मातककपित्थमधुशिग्रुमिश्रः क्षारमूत्रपिष्टः कटुकस्कन्धसिद्धैः क्षारोदकतैलमूत्रैः सेकः॥

अचि24.15
संसर्गे मिश्रं यथोद्रेकं वा प्रतिकुर्यात्।
सर्वेषु च यथायथं गुडूचीं गुडहरीतकीं पिप्पलीवर्धमानं वा शीलयेद्बस्तिकर्म चाभीक्ष्णमिति।
भवति चात्र॥

अचि24.16
बाह्यमालेपनाभ्यङ्गपरिषेकावगाहनैः।
विरेकास्थापनस्नेहपानैरान्तरमाचरेत्॥

अचि24.17
सर्पिस्तैलवसामज्जपानाभ्यञ्जनबस्तिभिः।
लेपोपनाहसेकैश्च कोष्णैर्वातोत्तरं जयेत्॥

अचि24.18
विरेचनैर्घृतक्षीरपानसेचनबस्तिभिः।
पित्तरक्तोत्तरं वातरक्तं लेपैश्च शीतलैः॥

अचि24.19
वमनं मृदु नात्यर्थं स्नेहसेकादिलङ्घनम्।
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे॥

अचि24.20
वातश्लेष्मोत्तरे शीतैः प्रलिप्ते वातशोणिते।
विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत्॥

अचि24.21
पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः।
उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः॥

अचि24.22
मधुयष्ट्याः पलशतात् कषाये पादशेषिते।
तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः॥

अचि24.23
शतपुष्पावरीमूर्वापयस्याभीरुचन्दनैः।
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः॥

अचि24.24
काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः।
जीवन्तीजीवकर्षभत्वक्पत्रनखवालकैः॥

अचि24.25
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः।
चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत्॥

अचि24.26
मधुयष्ट्याः पलं दत्वा तैलप्रस्थं चतुर्गुणे।
क्षीरे पचेच्छतं वारांस्तदेवं मधुकाच्छते॥

अचि24.27
सिद्धं योज्यं तृडुन्मादश्वासकासविसर्पिषु।
हृत्पाण्डुरोगवातासृक्पित्तादिषु च पूर्ववत्॥

अचि24.28
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा।
अतिवृद्ध्यानिले शस्तं नादौ स्नेहनबृंहणम्॥

अचि24.29
कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः।
भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम्॥

अचि24.30
गम्भीरे रक्तमाक्रान्तं स्याच्चेद्वातेन वर्जयेत्।
रक्तपित्तातिवृध्या तु पाकमाशु निगच्छति॥

अचि24.31
भिन्नं स्रवति तद्रक्तं विदग्धं पूयमेव वा।
तयोश्चिकित्सां व्रणवत् भेदशोधनरोपणीम्॥

अचि24.32
कुर्यादुपद्रवाणां च तस्मात्तस्माच्चिकित्सितात्।
प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम्।
यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम्॥

अचि24.33
नीते निरामतां सामे स्वेदलङ्घनपाचनैः।
रूक्षैश्चालेपसेकाद्यैः कुर्यात् केवलवातनुत्॥

अचि24.34
वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम्।
व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्॥

अचि24.35
धन्वमांसं यवः शालिर्विरेकः क्षीरवान्मृदुः।
सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम्॥

अचि24.36
कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः।
यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम्।
पञ्चमूलकषायेण वारिणा शीतलेन वा॥

अचि24.37
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः।
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्॥

अचि24.38
पुराणसर्पिस्तैलं च तिलसर्षपजं हितम्।
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्॥

अचि24.39
कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम्।
स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम्॥

अचि24.40
प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम्।
महास्नेहोऽस्थिमज्जस्थे पूर्वोक्तं रेतसावृते॥

अचि24.41
अन्नावृते पाचनीयं वमनं दीपनं लघु।
मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरबस्तयः।
एरण्डतैलं वर्चस्थे बस्तिस्नेहाश्च भेदिनः॥

अचि24.42
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्।
सर्वस्थानावृतेप्याशु तत्कार्यं मातरिश्वनि॥

अचि24.43
अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम्।
यापना बस्तयः प्रायो मधुराः सानुवासनाः॥

अचि24.44
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम्।
रसायनानां सर्वेषामुपयोगः प्रशस्यते॥

अचि24.45
शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः।
लेहो वा भार्गवस्तद्वदेकादशसिताशतः॥

अचि24.46
अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम्।
वातानुलोमनं कार्यं मूत्राशयविशोधनम्॥

अचि24.47
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम्।
प्राणाद्यानां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्॥

अचि24.48
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्।
समानं शमयोद्विद्वांस्त्रिधा व्यानं च योजयेत्॥

अचि24.49
प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः।
स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान्॥

अचि24.50
सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम्।
रसायनविधानेन लघुनो हन्ति शीलितः॥

अचि24.51
पित्तावृते पित्तहरं मरुतश्चानुलोमनम्।
रक्तावृतेऽपि तद्वच्च खुडोक्तं यच्च भेषजम्।
पित्तरक्तानिलहितं विविधं च रसायनम्॥

अचि24.52
यथानिदानं निर्दिष्टमिति सम्यक्चिकित्सितम्।
आयुर्वेदफलं स्थानमेतत्सद्योऽर्तिनाशनात्॥

अचि24.53
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम्।
भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम्॥

॥इति चतुर्विंशोऽध्यायः॥

टीका

अचि23.60: भेडस्य संमत