अष्टाङ्गसंग्रहः निदानस्थानम् अध्याय ११-१६

अष्टाङ्गसंग्रहः

अथैकादशोऽध्यायः।

अस11.1
अथातो विद्रधिवृद्धिगुल्मनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस11.2
भुक्तैः षर्युषितास्युष्णरूक्षशुष्कविदाहिभिः।
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः॥

अस11.3
दुष्टत्वङ्मांसमेदोस्थिस्नावासृक्कण्डराश्रयः।
यः शोफो बहिरन्तर्वा महामूलो महारुजः॥

अस11.4। वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः।
दोषैः पृथक् समुदितैः शोणितेन क्षतेन च॥

अस11.5
बाह्योऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः।
आन्तरो दारुणतरो गम्भीरो गुल्मवद्घनः॥

अस11.6
वल्मीकवत् समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत्।
नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणे॥

अस11.7
स्याद्वृक्कयोरपाने वा वातात्तत्रातितीव्ररुक्।
श्यावारुणश्चिरोत्थानपाको विषमसंस्थितिः॥

अस11.8
व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान्।
रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान्॥

अस11.9
क्षिप्रोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात्।
सोत्क्लेशशीतकस्तम्भजृम्भारोचकगौरवः॥

अस11.10
चिरोत्थानविदाहशच् सङ्कीर्णः सन्निपाततः।
सामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम्॥

अस11.11
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः।
पित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथान्तरः॥

अस11.12
शस्त्राद्यैरभिघातेन क्षते वापथ्यकारिणः।
क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन्॥

अस11.13
पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्यपद्रवम्।
तेषूपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः॥

अस11.14
नाभ्यां हिध्मा भवेद्बस्तौ मूत्रं कृच्छ्रेण पूति च।
श्वासो यकृति रोधस्तु प्लीहन्युच्छूवासस्यतृट्पुनः॥

अस11.15
गलग्रहश्च क्लोम्नि स्यात् सर्वाङ्गप्रग्रहो हृदि।
प्रमेहस्तमकः कासो हृदयोद्धटनं व्यथा॥

अस11.16
कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च।
सक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः॥

अस11.17
पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम्।
आमपक्वविदग्धत्वं तेषां शोफवदादिशेत्॥

अस11.18
नाभेरूर्ध्वं मुखात् पक्वाः प्रस्रवन्त्यधरे गुदात्।
गुदास्यान्नाभिजो विद्याद्दोषं क्लेदाच्च विद्रधौ॥

अस11.19
यथास्वं व्रणवत्तत्र विवर्ज्यः सन्निपातजः।
पक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा॥

अस11.20
पक्वश्चान्तःस्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः॥

अस11.21
एवमेव स्तनसिरा विवृताः प्राप्य योषिताम्।
सूतानां गर्भिणीनां वा सम्भवेच्छ्रवयथुर्घनः॥

अस11.22
नाडीनां सूक्ष्मवक्त्रत्वात् कन्यानां तु न जायते॥

अस11.23
क्रुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्।
मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः॥

अस11.24
प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः।
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः॥

अस11.25
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्।
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्॥

अस11.26
पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्।
कफाच्छीतो गुरुः स्निग्धः पण्डूमान्कठिनोल्परुक्॥

अस11.27
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः।
कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः॥

अस11.28
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः।
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः॥

अस11.29
मूत्रकृच्छ्रमधः स्याच्च वलयः फलकोशयोः।
वातकोपिभिराहारैः शीततोयावगाहनैः॥

अस11.30
धारणेरणभाराध्वंविषमाङ्गप्रवव्र्तनैः।
क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा॥

अस11.31
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्।
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा॥

अस11.32
उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः।
प्रपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नोति पुनश्च मुक्तः॥

अस11.33
आन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः।
रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः॥

अस11.34
गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः।
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः॥

अस11.35
अथ यो ज्वरातिसारादिभिर्वमनादिभिर्वा कर्मभिः कर्शितो वातलान्याहारयत्याहाराभिलाषी वा शीतमुदकं पिबत्यन्नपानानन्तरं वा लङ्घनप्लवनव्यवाययानयानादीन् देहविक्षोभिणः सेवतेऽनुदीर्णां वा छिर्दिमुदीरयत्युदीर्णान् वा वातादीन् निश्वासोच्छ्वासौ वा निगृह्णात्यस्नेहपूर्वं वा वमनविरेचने करोति तथा शोधित एव वातिविदाहिनोऽभिष्यन्दिनो वा निषेवते तस्य यथास्वं वातप्रधानाः कुपिता दोषाः पृथक् संसृष्टाः समस्ताः सरक्ता वा महास्रोतोऽनुप्रविश्यावृत्योर्ध्वमधश्च मार्गमवश्यं शूलमुपजनयन्तो गुल्ममभिनिर्वर्तयन्ति।
यतश्च तस्मिन् शूलविद्ध इव व्यथते तीव्रवेदनार्दितः कृच्छ्रोच्छ्वासस्तस्माच्छूलमित्युच्यते॥

अस11.36
तत्रातिकर्शनात् कफपित्ताभ्यां वा मार्गनिरोधाल्लब्धाश्रयो वायुरुत्प्लुतो रौक्ष्यात् कठिनीभूतः स्वाश्रये स्वतन्त्रः परतन्त्रो वा पित्तश्लेष्माश्रये स्पर्शोपलभ्यः पिण्डितत्वादमूर्तोऽपि मूर्ततामिवोपगतो ग्रन्थिरूपेणावतिष्ठमानो गुल्मसंज्ञां लभते।
तस्य पञ्च स्थानानि बस्तिर्नाभिः पार्श्वे हृदयं च।
अथास्य पूर्वरूपाणि सदनमग्निशरीरयोररुचिः सौहित्यासहिष्णुता कुक्षिशूलमाध्मानमुद्गिरणं बहुशो विदग्धेऽन्ने छर्दिराटोपो मलस्य प्रादुर्भावोऽप्रवृत्तिश्च॥

अस11.37
तत्र वातात् सूच्येव च शङ्कुनेव च व्यधो मन्याशिरःशङ्खशूलज्वराङ्गमर्दप्लीहाटोपान्त्रकूजोदावर्तोच्छ्वासोपरोधमुखशोषस्तब्धगात्रताः वायुकालेषूपद्रववृद्धिर्विषमाग्निता कृष्णारुणपरुषत्वङ्नखादित्वं गुल्मश्चास्य चलत्वाद्वायोरनियतस्थानसंस्थानोदयप्रलयाल्पमहारुजः पिपीलिकापरिगत इव तोदस्फुरणबहुलो विस्ताअरयतीव स्वदेशे चर्म कदाचित् कदाचित्सङ्कोचयतीव हर्षयति रोमाणि वेदनातिप्रवृत्तौ तु सर्वस्मिन्नपि देहे प्रायो बस्त्याश्रयश्च भवति॥

अस11.38
पित्ताद्दाहो धूमकोऽम्लकस्तृष्णा ज्वरः स्वेदो विड्भेदो मूर्च्छा शीतोपशयता हरितहारिद्रत्वगादित्वं गुल्मश्चास्य तप्तायःपिण्ड इव तमवकाशं दहति दूयते धूमायत ऊष्मायते शिथिल इव व्रण इवास्पर्शसहो निर्लोमा प्रायो नाभ्याश्रयश्च॥

अस11.39
कफात् स्तैमित्यमरोचकाविपाकौ हृदयोपलेपः शीतज्वरस्तृप्तिः सदनं कासो हृल्लासः पीनसोनिद्रालस्यं नखादिशुक्लता गुल्मश्च सुप्तस्थिरगुरुकठिनोऽवगाढोऽल्परुक् प्रायो हृत्पार्श्वाश्रयश्च।
संसृष्टलिङ्गः संसर्गात्।
स त्रिविधः।
सर्वलिङ्गनिचये निचयगुल्मः सोऽसाध्यः॥

अस11.40
रक्तगुल्मस्तु गर्भकोष्ठार्तवागमनवैशेष्यात् पारतन्त्र्यादवैशारद्यादुपचारानुरोधाच्च स्त्रिया एव भवति॥

अस11.41
तत्र यदासावृतुमती नवप्रसूता योनिरोगिणी वा वातलान्यासेवेत तदास्या वायुः प्रकुपितो योन्या मुखमनुप्रविश्यार्तवमपरुणद्धि।
तदुपरुध्यमानं मासे मासे कुक्षिमभिनिर्वर्तयति गर्भलिङ्गानि च हृल्लासतन्द्राङ्गसाददौहृदस्तन्यदर्शनादीनि।
वायुसंसर्गात् पुनः पित्तैकप्रकोपतया च वातपित्तगुल्मरूपाणि क्रमाच्छूलस्तम्भदाहातीसारादीनि गर्भाशये च सुतरां शूलं तया योन्या दौर्गन्ध्यमास्रावं च करोति।
गुल्मश्च न गर्भ इवाङ्गैः पिण्डित इव तु चिरेण सशूलं स्पन्दते।
गुल्म एव वर्द्धते न कुक्षिः॥

अस11.42
स्वदोषाधिष्ठानश्च सर्वो भवति गुल्मः।
तस्माच्च्चिरेण नैव वा पाकमेति।
भृशदुष्टरक्ताश्रयत्त्वात्तु विद्रधिः शीघ्रपाको भवतीति।
भवति चात्र॥

अस11.43
गुल्मेऽन्तराश्रये बस्तिकुक्षिहृत्प्लीहवेदनाः।
अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम्॥

अस11.44
अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्।
वैवर्ण्यमवकाशस्य बहिरुन्नतताधिकम्॥

अस11.45
साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्।
ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते॥

अस11.46
घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः।
आनाहलिङ्गस्तिर्यक् तु प्रत्यष्ठीला तदाकृतिः॥

अस11.47
पक्वाशयात् गुदोपस्थं वायुस्तीव्ररुजश्चरन्।
तूनी प्रतूनी तु भवेत्स एवातो विपर्यये॥
इति एकादशोऽध्यायः॥

अथ द्वादशोऽध्यायः।

अस12.1
अथात उदरनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस12.2
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु।
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात्॥

अस12.3
ऊर्ध्वाधो धातवो रुध्वा वाहिनीरम्बुवाहिनीः।
प्राणाग्न्यपानान् सन्दूष्य कुर्युस्त्वङ्मांससन्धिगाः॥

अस12.4
आध्माप्य कुक्षिमुदरम् अष्टधा तच्च भिद्यते॥

अस12.5
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः।
तेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः॥

अस12.6
नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः।
स्युः प्रेतरूपाः पुरुषा भाविनस्तस्य लक्षणम्॥

अस12.7
क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते।
जीर्णाजीर्णं न जानाति सौहित्यं सहते न च॥

अस12.8
क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते।
वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः॥

अस12.9
रुग्बस्तिसन्धौ ततता लघ्वल्पाभोजनैरपि।
राजीजन्म वलीनाशो जठरे जठरेषु तु॥

अस12.10
सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता।
दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः॥

अस12.11
सर्वं त्वतोयमरुणमशोफं नातिभारिकम्।
गवाक्षितं सिराजालः सदा गुडुगुडायते॥

अस12.12
नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति।
मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनः॥

अस12.13
सशब्दो निश्चरेद्वायुर्विड् बद्धा मूत्र्मल्पकम्।
नातिमन्दोऽनलो लौल्यं न च स्याद्विरसं मुखम्॥

अस12.14
तत्र वातोदरे शोफः पाणिपान्मुष्कसन्धिषु।
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम्॥

अस12.15
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः।
श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत्॥

अस12.16
सतोदभेदमुदरं तनुकृष्णसिराततम्।
आध्मातदृतिवच्छब्दमाहंतं प्रकरोति च॥

अस12.17
वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः।
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता॥

अस12.18
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित्।
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते॥

अस12.19
धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते।
श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्॥

अस12.20
निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता।
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्॥

अस12.21
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम्।
त्रिदोषकोपनैस्तैस्तैःस्त्रीदत्तैश्च रजोमलैः॥

अस12.22
गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः।
कोष्ठं प्राप्य विकुर्वाणाः शोफमूर्च्छाभ्रमान्वितम्॥

अस12.23
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्।
बाधते तच्च सुतरां शीतवाताभ्रदर्शने॥

अस12.24
अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः।
अतिव्यवायभाराध्वगमनव्याधिकर्शनैः॥

अस12.25
वामपार्श्वाश्रितः प्लीहा च्युतः स्थानाद्विवर्द्धते।
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्॥

अस12.26
सोऽष्ठीलेवातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्।
क्रमेण वर्धमानश्च कुक्षावुदरमावहेत्॥

अस12.27
श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः।
पाण्डुत्वमूर्च्छाच्छर्दीभिर्दाहमोहैश्च संयुतम्॥

अस12.28
अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्।
उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः॥

अस12.29
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्।
प्लीहवद्दक्षिणात् पार्श्वात् कुर्याद्यकृदपि च्युतम्॥

अस12.30
पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे।
दुर्नामभिरुदावर्तैरन्नैर्वान्त्रोपलेपिभिः॥

अस12.31
वर्चः पित्तकफान् रुध्वा करोति कुपितोऽनिलः।
अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः॥

अस12.32
कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक् मलसङ्गोऽरुचिच्छर्दिरुदरं मूढमारुतम्॥

अस12.33
स्थिरं नीलारुणसिराराजीनद्धमराजि वा।
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते॥

अस12.34
अस्थ्यादिशल्यैः सान्नैश्च भुक्तैरत्यशनेन वा।
भिद्यते पच्यते चान्त्रं तच्छिद्रैश्च स्रवन् बहिः॥

अस12.35
आम एव गुदादेति ततोल्पाल्पं सविड्रसः।
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः॥

अस12.36
शेषश्चापूर्य जठरं जठरं घोरमावहेत्।
वर्धते तदधोनाभेराशु चैति जलात्मताम्॥

अस12.37
उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृट्भ्रमैः।
छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे॥

अस12.38
प्रवृत्तस्नेहपानादेः सहसामाम्बुपायिनः।
अत्यम्बुपानान्मन्दाग्रेः क्षीणस्यातिकृशस्य वा॥

अस12.39
रुध्वाम्बुमार्गाननिलः कफश्च जलमूर्च्छितः।
वर्द्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ॥

अस12.40
ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्।
कासश्वासारुचियुतं नावणसिराततम्॥

अस12.41
तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु।
दकोदरं महत् स्निग्धं स्थिरमावृत्तनाभि तत्॥

अस12.42
उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः।
पाकाद्द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि॥

अस12.43
स्वेदश्च बाह्यस्रोतस्सु विहतस्तिर्यगास्थितः।
तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्॥

अस12.44
गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्।
मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति॥

अस12.45
तदनूदकजन्मास्मिन् कुक्षिवृद्धिस्ततोऽधिकम्।
सिरान्तर्द्धानमुदकजठरोक्तं च लक्षणम्॥

अस12.46
वातपित्तकफप्लीहसन्निपातदकोदरम्।
कृच्छ्रं यथोत्तरं पक्षात् परं प्रायोऽपरे हतः॥

अस12.47
सर्वं च जातसलिलं रिष्ठोक्तोपद्रवान्वितम्।
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्॥

अस12.48
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्॥
इति द्वादशोऽध्यायः॥

अथ त्रयोदशोऽध्यायः।

अस13.1
अथातः पाण्डुशोफविसर्पनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस13.2
पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः।
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्॥

अस13.3
धमनीलेन सम्प्राप्य व्याप्नुवत्सकलां तनुम्।
श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्॥

अस13.4
त्वङ्मांसयोस्तत् कुरुते त्वचि वर्णान्पृथग्विधान्।
पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्॥

अस13.5
यतोऽतः पाण्डुरित्युक्तः स रोगः तेन गौरवम्।
धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः॥

अस13.6
ततोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः।
मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च॥

अस13.7
शूनाक्षिकूटवदनः कोपनः ष्ठीवनोल्पवाक्।
अन्नद्विट्शिशिरद्वेषी शीर्णरोमा हतानलः॥

अस13.8
सन्नसक्थी ज्वरी श्वासी कर्णक्ष्वेडी श्रमी भ्रमी।
स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्॥

अस13.9
प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि।
अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवाह्निता॥

अस13.10
सादः श्रमोऽनिलात्तत्र गात्ररुक्तोदकम्पनम्।
कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता॥

अस13.11
शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक्।
पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः॥

अस13.12
तृट्स्वेदमूर्च्छा शीतेच्छा दौर्गन्ध्यं कटुवक्त्रता।
वर्चोभेदोऽम्लको दाहः कफाच्छुक्लसिरादिता॥

अस13.13
तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः।
कासश्छर्दिश्च निचयान्मिश्रलिङ्गोऽतिदुस्सहः॥

अस13.14
मृत् कषायानिलं पित्तमूषरा मधुरा कफम्।
दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च॥

अस13.15
स्रोतांस्यपक्वैवापूर्य कुर्याद्रुध्वा च पूर्ववत्।
पाण्डुरोगं ततः शूननाभिपादास्यमेहनः॥

अस13.16
पुरीषं कृमिवन्मुञ्चेद्भिन्नं सासृक्कफं नरः।
यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम्॥

अस13.17
कोष्ठशाखाश्रयं पित्तं दग्ध्वासृङ्मांसमावहेत्।
हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया॥

अस13.18
दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः।
भवेत् पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च॥

अस13.19
उपेक्षया च शोफाढ्या सा कृछ्रा कुम्भकामला।
हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत्॥

अस13.20
वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुज्वरः।
तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्॥

अस13.21
अलसं चेति शंसन्ति तेषां पूर्वमुपद्रवाः।
शोफप्रधानाः कथिताः स एवातो निगद्यते॥

अस13.22
पित्तरक्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः।
नीत्वा रुद्धगतिस्तैर्हि कुर्यात् त्वङ्मांससंश्रयम्॥

अस13.23
उत्सेधं संहतं शोफं तमाहुर्निचयादतः।
सर्वम् हेतुविशेषैस्तु रूपभेदान्नवात्मकम्॥

अस13.24
दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि।
द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम्॥

अस13.25
पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः।
सामान्यहेतुः शोफानां दोषजानां विशेषतः॥

अस13.26
व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्।
अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्।
लवणक्षारतीक्ष्णोष्णशाकाम्बुस्वप्नजागरम्॥

अस13.27
मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्।
पदातेर्मार्गगमनं यानेन क्षोभिणापि वा॥

अस13.28
श्वासकासातिसारार्शोजठरप्रदरज्वराः।
विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः॥

अस13.29
अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः।
ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः॥

अस13.30
सर्वाङ्गाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः।
तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम्॥

अस13.31
वाताच्छोफश्चलो रूक्षः खररोमारुणासितः।
सङ्कोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान्॥

अस13.32
क्षिप्रोत्थानशमः शीघ्रमुन्नमेत् पीडितस्तनुः।
स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्॥

अस13.33
त्वक्च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते।
पीतरक्तासिताभासः पित्तादाताम्ररोमकृत्॥

अस13.34
शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनोः।
सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः॥

अस13.35
शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः।
कण्डूमान् पाण्डुरोमत्वक्कठिनः शीतलो गुरुः॥

अस13.36
स्निग्धः श्लक्ष्णः स्थिर स्त्यानो निद्राच्छर्द्यग्निसादकृत्।
आक्रान्तो नोन्नमेत् कृच्छ्रशमजन्मा निशाबलः॥

अस13.37
स्रवेन्नासृक् चिरात् पिच्छां कुशशस्त्रादिविक्षतः।
स्पर्शोष्णकाङ्क्षी च कफाद्यथास्वं द्वन्द्वजास्त्रयः॥

अस13.38
सङ्कराद्धेतुलिङ्गानां निचयान्निचयात्मकः।
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः॥

अस13.39
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः।
रसैश्शूकैश्चसंस्पर्शाच्छ्रवयथुः स्याद्विसर्पवान्॥

अस13.40
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः॥

अस13.41
विषजः सविषप्राणिपरिसर्पणमूत्रणात्।
दंष्ट्रादन्तनखापातादविषप्राणिनामपि॥

अस13.42
विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात्।
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्॥

अस13.43
मृदुश्चलोऽवलम्बी च शीघ्रदाहरुजाकरः।
नवोऽनुपद्रवः शोफः साध्योऽसाध्यः पुरेरितः॥

अस13.44
स्याद्विसर्पोऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत्।
त्र्यधिष्ठानं च तं प्राहुर्बाह्यान्तरुभयाश्रयात्॥

अस13.45
यथोत्तरं च दुःसाध्यास्तत्र दोषा यथायथम्।
प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः॥

अस13.46
देहे शीघ्रं विसर्पन्ति तेऽन्तरन्तःस्थिता बहिः।
बहिःस्था द्वितये द्विस्थाः विद्यात्तत्रान्तराश्रयम्॥

अस13.47
मर्मोपतापात्सम्मोहादयनानां विघट्टनात्।
तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्॥

अस13.48
आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात्।
तत्र वातात् परीसर्पो वातज्वरसमव्यथः॥

अस13.49
शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्।
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः॥

अस13.50
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्।
स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः॥

अस13.51
ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम्।
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः॥

अस13.52
अस्तिभेदाग्निसदनतमकारोचकैर्युतः।
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्॥

अस13.53
यं यं देशं विसर्पश्च विसर्पति भवेत्स सः।
शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते॥

अस13.54
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतञ्च सः।
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः॥

अस13.55
व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत्।
हिध्मां च स गतोऽवस्थामीदृशीं लभते न ना॥

अस13.56
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु।
चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम्॥

अस13.57
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते॥

अस13.58
कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्।
रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम्॥

अस13.59
दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम्।
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्॥

अस13.60
श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः।
मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाग्निसदनैर्युताम्॥

अस13.61
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः॥

अस13.62
कफपित्तात् ज्वरः स्तम्भो तन्द्रानिद्राशिरोरुजः।
अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः॥

अस13.63
मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम्।
आमोपवेशनं लेपः स्रोतसां स च सर्पति॥

अस13.64
प्रायेणामाशये गृह्णन्नेकदेशञ्च नातिरुक्।
पिटकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः॥

अस13.65
मेचकाभोऽसितःस्निग्धो मलिनःशोफवान् गुरुः।
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्याते॥

अस13.66
पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः।
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्॥

अस13.67
सर्वजो लक्षणैः सर्वैः सर्वधात्वभिदर्पणः।
बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन्॥

अस13.68
विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्।
स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्॥

अस13.69
असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः॥

अस13.70
शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः॥
इति त्रयोदशोऽध्यायः॥

अथ चतुर्दशोऽध्यायः।

अस14.1
अथातः कुष्ठश्वित्रकृमिनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस14.2
मिथ्याहारविहारेण विशेषेण विरोधिना।
साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः॥

अस14.3
पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वेरिता मलाः।
सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृगामिषम्॥

अस14.4
दूषयन्तः श्लथीकृत्य निश्चरन्तस्ततो बहिः।
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्॥

अस14.5
कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद्वपुः।
प्रपद्य धातून्व्याप्यान्तः सर्वान्सङ्क्लेद्यचावहेत्॥

अस14.6
सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्।
लोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात्॥

अस14.7
भक्षयेत् श्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम्।
कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः॥

अस14.8
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः।
वातेन कुष्ठं कापालं पित्तादौदुम्बरं कफात्॥

अस14.9
मण्डलाख्यं विचर्ची च ऋष्याख्यं वातापित्तजम्।
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः॥

अस14.10
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी।
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा॥

अस14.11
सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु सकाकणम्।
पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु॥

अस14.12
अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः।
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिःश्रमः॥

अस14.13
व्रणानामधिकं शूलं शीघ्नोत्पत्तिश्चिरस्थितिः।
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोथनम्॥

अस14.14
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्।
कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु॥

अस14.15
विस्तृतासमपर्यन्तं हृषितैर्लोमभिश्चितम्।
तोदाढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च॥

अस14.16
पक्वोदुम्बरताम्रत्वग्रोमगौरसिराचितम्।
बहलं बहुलक्लेदं रक्तं दाहरुजाकरम्॥

अस14.17
आशूत्थानावदरणकृमि विद्यादुदुम्बरम्॥

अस14.18
स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम्।
अन्योन्यासक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमि॥

अस14.19
श्लक्ष्णपीताभपर्यन्तं मण्डलं परिमण्डलम्।
सकण्डूपिटका श्यावा लसीकाढ्या विचर्चिका॥

अस14.20
परुषं तनुरक्तान्तमन्तःश्यावं समुन्नतम्।
सतोददाहरुक्क्लेदं कर्कशैः पिटकैश्चितम्॥

अस14.21
ऋष्यजिह्वाकृति प्रोक्तमृष्यजिह्वं बहुक्रिमि।
हस्तिचर्मखरस्पर्शं चमकाख्यं महाश्रयम्॥

अस14.22
अस्वेदं मत्स्यशकलसन्निभं किटिभं पुनः।
रूक्षं किणखरस्पर्शं कण्डूमत् परुषासितम्॥

अस14.23
सिध्म रूक्षं बहिःस्निग्धमन्तर्घृष्टं रजः किरेत्।
श्लक्ष्णस्पर्शं तनुश्वेतताम्रं दौग्धिकपुष्पवत्॥

अस14.24
प्रायेण चोर्ध्वकाये स्याद्गण्डैः कण्डूयुतैश्चितम्।
रक्तैरलसकं पाणिपाददार्यो विपादिकाः॥

अस14.25
तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटकाचिताः।
दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः॥

अस14.26
उत्सन्नमण्डला दद्रुः कण्डूमत्यनुषङ्गिणी।
स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम्॥

अस14.27
शतारुः क्लेदजन्त्वाढ्यं प्रायशः पर्वजन्म च।
रक्तान्तमन्तरापाण्डुकण्डुदाहरुजान्वितम्॥

अस14.28
सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः।
घनभूरिलसीकासृक्प्रायमाशु विभेदि च॥

अस14.29
पुण्डरीकम् तनुत्वग्भिश्चितं स्फोटैः सितारुणैः।
विस्फोटं पिटकाः पामाकण्डूक्लेदरुजाधिकाः॥

अस14.30
सूक्ष्माः श्यावारुणा बहूव्यः प्रायः स्फिक्पाणिकूर्परे।
सस्फोटमस्पर्शसहं कण्डूषातोददाहवत्॥

अस14.31
रक्तं दलच्चर्मदलं काकणं तीव्रदाहरुक्।
पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम्॥

अस14.32
कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्।
दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः॥

अस14.33
कुष्ठेषु दोषोल्बणतां सर्वदोषोल्बणं त्यजेत्।
रिष्ठोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्॥

अस14.34
याप्यं मेदोगतं कृच्छ्रं पित्तद्वन्द्वास्रमांसगम्।
अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत्॥

अस14.35
तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः।
स्वेदस्वापश्वयथवः शोणिते पिशिते पुनः॥

अस14.36
पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्।
कौण्यं गतिक्षयोऽङ्गानां दलनं स्याच्च मेदसि॥

अस14.37
नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः।
क्षते च कृमयः शुक्रे स्वदारापत्यबाधनम्॥

अस14.38
यथापूर्वं च सर्वाणि स्युर्लिङ्गान्यसृगादिषु।
कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं च तत्॥

अस14.39
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्॥

अस14.40
वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत्।
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु॥

अस14.41
सकण्डु च क्रमाद्रक्तमांसमेदस्सु चादिशेत्।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्॥

अस14.42
अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम्।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा॥

अस14.43
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्।
स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः॥

अस14.44
सर्वे सञ्चारिणो नेत्रत्वग्विकारा विशेषतः।
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः॥

अस14.45
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः।
नामतो विंशतिविधा बाह्यास्तत्रामृजोद्भवाः॥

अस14.46
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः।
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः॥

अस14.47
द्विधा ते कोठपिटकाकण्डूगण्डान् प्रकुर्वते।
कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजास्तेषु चाधिकम्॥

अस14.48
मधुरान्नगुडक्षीरदधिसक्तुनवोदनैः।
शकृज्जा बहुविड्धान्यपर्णशाकौकुलादिभिः॥

अस14.49
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः।
पृथुव्रद्ध्ननिभाः केचित् केचित् गण्डूपदोपमाः॥

अस14.50
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते॥

अस14.51
अन्त्रादा उदरावेष्टा हृदयादा महारुहाः।
चुरवो दर्भकुसुमाः सुगन्धास्ते तु कुर्वते॥

अस14.52
हृल्लासमास्यस्रवणमविपाकमरोचकम्।
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्॥

अस14.53
रक्तवाहिसिरास्थाना रक्तजा जन्तवोऽणवः।
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः॥

अस14.54
केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः।
षट् ते कुष्ठैककर्माणः सहसौरसमातरः॥

अस14.55
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः॥

अस14.56
तदास्योद्गारनिश्वासा विड्गन्धानुविधायिनः।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः॥

अस14.57
ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः।
सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च॥

अस14.58
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः।
रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात्॥
इति चतुर्दशोऽध्याय्ः॥

अथ पञ्चदशोऽध्यायः।

अस15.1
अथातो वातव्याधिनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस15.2
सर्वार्थानर्थकरणे विश्वस्यास्यैककारणम्।
अदुष्टदुष्टः पवनः शरीरस्य विशेषतः॥

अस15.3
स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः।
स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः॥

अस15.4
तददुष्टौ प्रयत्नेन यतितव्यमतः सदा।
तस्योक्तं दोषविज्ञाने कर्म प्राकृतवैकृतम्॥

अस15.5
समासाद्व्यासतो दोषभेदीये नाम धाम च।
प्रत्येकं पञ्चधा चारो व्यापारश्चेह वैकृतम्॥

अस15.6
तस्योच्यते विभागेन सनिदानं सलक्षणम्।
असङ्ख्यमपि सङ्ख्यायै यदशीत्या पुरेरितम्॥

अस15.7
धातुक्षयकरैर्वायुः कुप्यत्यतिनिषोवितैः।
चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन्॥

अस15.8
तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वावरणं बली।
तत्र पक्वाशयं क्रुद्धः शूलानाहान्त्रकुजनम्॥

अस15.9
मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम्।
करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्॥

अस15.10
आमाशये तृड्वमथुश्वासकासविषूचिकाः।
कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वं च नाभितः॥

अस15.11
श्रोत्रादिष्विन्द्रियवधं त्वचि स्फुटनरूक्षते।
रक्ते तीव्रां रुजां स्वापं तापं रागं विवर्णताम्॥

अस15.12
अरुंष्यन्नस्य विष्टम्भमरुचिं कृशतां भ्रमम्।
मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् भ्रमम्॥

अस15.13
गुर्वङ्गं चातिरुक् स्तब्धं मुष्टिदण्डहतोपमम्।
अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रं बलक्षयम्॥

अस15.14
मज्जस्थोऽस्थिषु सौषिर्यमस्वप्नं सन्ततं रुजम्।
शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा॥

अस15.15
तद्वद्गर्भस्य शुक्रस्थः सिरास्वाध्मानरिक्तते।
तत्स्थः स्नावस्थितः कुर्यात्गृध्रस्यायामकुब्जताः॥

अस15.16
वातपूर्णदृतिस्पर्शं शोफं सन्धिगतोऽनिलः।
प्रसारणाकुञ्चनयोः प्रवृत्तिं च सवेदनाम्॥

अस15.17
सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्।
स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम्॥

अस15.18
यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः।
तदाङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः॥

अस15.19
अधःप्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः।
नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन्॥

अस15.20
आक्षिपेत् परितो गात्रं धनुर्वच्चास्य नामयेत्।
कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक् ततः॥

अस15.21
कपोत इव कूजेच्च निस्संज्ञः सोऽपतन्त्रकः॥

अस15.22
स एव चापतानाख्यो मुक्ते तु मरुता हृदि।
अश्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते॥

अस15.23
गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः।
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः॥

अस15.24
मन्ये संस्तभ्य वातोऽन्तरायच्छन् धमनीर्यदा।
व्याप्नोति सकलं देहं जत्रुरायम्यते तदा॥

अस15.25
अन्तर्धनुरिवाङ्गं च वेगैः स्तम्भं च नेत्रयोः।
करोति जृम्भां दशनं दशनानां कफोद्वमम्॥

अस15.26
पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहत्।
अन्तरायाम इत्येष बाह्यायामश्च तद्विधः॥

अस15.27
देहस्यबहिरायामात् पृष्ठतो ह्रियते शिरः।
उरश्चेत्क्षिप्यते तत्र कन्धरा चावमृद्यते॥

अस15.28
दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्तब्धगात्रता।
बाह्यायामं धनुष्कम्पं ब्रुवते वेगिनं च तम्॥

अस15.29
व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्।
व्यायच्छन्ति तनुं दोषाः सर्वामापादमस्तकम्॥

अस15.30
तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः।
गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकेषु तु॥

अस15.31
जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः।
कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनू॥

अस15.32
करोति विवृतास्यत्वमथवा संवृतास्यताम्।
हनुस्रंसः स तेन स्यात् कृच्छ्राच्चर्वणभाषणम्॥

अस15.33
वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः।
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता॥

अस15.34
शिरसा भारभरणादतिहास्यप्रभाषणात्।
उत्त्रासवक्रक्षवथुखरकार्मुककर्षणात्॥

अस15.35
विषमादुपधानाच्च कठिनानां च चर्वणात्।
वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः॥

अस15.36
वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्।
ततोऽस्य कम्पते मुर्धा वाक्सङ्गः स्तब्धनेत्रता॥

अस15.37
दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः।
गन्धाज्ञानं स्मृतेर्मोषस्त्रासः सुप्तस्य जायते॥

अस15.38
निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णोर्निमीलनम्।
जत्रोरूर्धवं रुजास्तीव्राः शरीरार्धेऽधरेऽपि वा॥

अस15.39
तमाहुरर्दितं केचिदेकायाममथापरे।
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः॥

अस15.40
रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात् सिराग्रहः।
गृहीत्वार्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च॥

अस15.41
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्।
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः॥

अस15.42
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः।
सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले॥

अस15.43
शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः।
कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षतहेतुकः॥

अस15.44
आमबद्धायनः कुर्यात् संस्तभ्याङ्गं कफान्वितः।
असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्॥

अस15.45
अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः।
बाहुप्रस्पन्दितहरं जनयत्यपवाहुकम्॥

अस15.46
तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः।
बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता॥

अस15.47
वायुःकट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा।
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि॥

अस15.48
कम्पते गमनारम्भे खञ्जन्निव च याति यः।
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्॥

अस15.49
शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः।
जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः॥

अस15.50
सश्लेष्ममेदःपवनमाममत्यर्थसञ्चितम्।
अभिभूयेतरं दोषमुरू चेत् प्रतिपद्यते॥

अस15.51
सक्थ्यास्थना प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत्।
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ॥

अस15.52
परकीयाविव गुरू स्यातामतिभृशव्यथौ।
ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः॥

अस15.53
संयुतः पादसदनकृच्छ्रोद्धरणसुप्तिभिः।
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे॥

अस15.54
वातशोणितजः शोफो जानुमध्ये महारुजः।
ज्ञेयः क्रोष्टुकणीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत्॥

अस15.55
रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा।
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्॥

अस15.56
पार्ष्णि प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता।
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते॥

अस15.57
विश्वाची गृद्ध्रसी चोक्ता खल्ली तीव्ररुजान्विता।
हृष्येते चरणौ यस्य भ्वेतां च प्रसुप्तवत्॥

अस15.58
पादहर्षः स विज्ञेयः कफमारुतकोपजः।
पादयोः कुरुते दाहं पित्तासृकसहितोऽनिलः॥

अस15.59
विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्॥
इति पञ्चदशोऽध्यायः॥

अथ षोडशोऽध्यायः।

अस16.1
अथातो वातशोणितनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस16.2
विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम्।
भजतां विधिहीनं च स्वप्नजागरमैथुनम्॥

अस16.3
प्रायेण सुकुमारणामचङ्क्रमणशीलिनाम्।
अभिघातादशुद्धेश्च नृणामसृजि दूषिते॥

अस16.4
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः।
तादृशेनासृजा रुद्धः प्राक्तदेव प्रदूषयेत्॥

अस16.5
आढ्यरोगं खुडं वातबलासं वातशोणितम्।
तदाहुर्नामभिस्तच्च पूर्वं पादौ प्रधावति॥

अस16.6
विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम्।
भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता॥

अस16.7
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु।
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः॥

अस16.8
भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च।
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि॥

अस16.9
आखोरिव विषं क्रुद्धं कृत्स्नं देहं प्रधावति।
त्वङ्मांसाश्रयमुत्तानं तत् पूर्वं जायते ततः॥

अस16.10
कालान्तरेण गम्भीरं सर्वान् धातूनाभिद्रवत्।
कण्ड्वादिसंयुतोत्ताने त्वक् ताम्रश्यावलोहिता॥

अस16.11
सायामा भृशदाहोषा गम्भीरेऽधिकपूर्वरुक्।
श्वयथुर्ग्रथितः पाकी सन्ध्यस्थिमज्जसु॥

अस16.12
भिन्दन्निव चरत्यन्तर्वक्रीकुवश्च वेगवान्।
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्॥

अस16.13
वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम्।
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः॥

अस16.14
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः॥

अस16.15
रक्ते शोफोऽतिरुक् तोदस्ताम्रश्चिमिचिमायते।
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः॥

अस16.16
पित्ते विदाहःसम्मोहः स्वेदो मूर्छा मदः सतृट्।
स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता॥

अस16.17
कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः।
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गं च सङ्करे॥

अस16.18
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्।
त्रिदोषजं त्यजेत् स्रावि स्तब्धमर्बुदकारि च॥

अस16.19
रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः।
निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून्॥

अस16.20
वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः।
अत्याहाराभिघाताध्ववेगोदीरणधारणैः॥

अस16.21
कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्।
पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून्॥

अस16.22
उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः।
गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान्॥

अस16.23। कण्ठरोधमनोभ्रंशच्छर्द्यरोचकपनिसान्।
कुर्याच्च गलगण्डादीन्तांतान्जत्रूर्ध्वसंश्रयान्॥

अस16.24
व्यानोऽतिगमनस्थानक्रीडाविषमचेष्टितैः।
विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः॥

अस16.25
पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान्।
सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः॥

अस16.26
कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान्।
समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः॥

अस16.27
करोत्यकालशयनजागराद्यैश्च दूषितः।
शूलगुल्मग्रहण्यादीन् पक्वामाश्यजान् गदान्॥

अस16.28
अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः।
यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः॥

अस16.29
कुपितः कुरुते रोगान्कृच्छ्रान्पक्वाशयाश्रयान्।
मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून्॥

अस16.30
सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः।
स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः॥

अस16.31
कटुरूक्षाभिलाषेण तद्विधोपशयेन च।
युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात्॥

अस16.32
वायोरावरणं चातो बहुभेदं प्रवक्ष्यते।
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः॥

अस16.33
कटुकोष्णाम्ललवणैर्विदाहः शीतकमता।
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्॥

अस16.34
लङ्घनायासरूक्षोष्णकामता च कफावृते।
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजा भृशम्॥

अस16.35
भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च।
मांसेन कठिनः शोफो विवर्णः पिटकास्तथा॥

अस16.36
हर्षः पिपीलिकानां च सञ्चार इव जायते।
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः॥

अस16.37
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृते।
स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति॥

अस16.38
सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शूल्यते।
मज्जावृते विनमनं जृम्भणं परिवेष्टनम्॥

अस16.39
शूलं च पीड्यमाने च पाणिभ्यां लभते सुखम्।
शुक्रावृतेऽतिवेगो वा न वा निष्फलतापि वा॥

अस16.40
भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले।
मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत्॥

अस16.41
विडावृते विबन्धोऽधः स्वे स्थाने परिकृन्तति॥

अस16.42
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः।
शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्॥

अस16.43
सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक्।
विलोमो मारुतोऽस्वास्थ्यं हृदयं पीड्यतेऽतिच॥

अस16.44
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते।
विदग्धेऽन्ने च वमनमुदाने विभ्रमादयः॥

अस16.45
दाहोऽन्तरूर्जाभ्रंशश्च दाहो व्याने तु सर्वगः।
क्लमोऽङ्गचेष्टासङ्गश्च सन्तापः सहवेदनः॥

अस16.46
समान उष्मोपहतिरतिस्वेदोऽरतिः सतृट्।
दाहश्च स्यादपाने तु मले हारिद्रवर्णता॥

अस16.47
रुजोऽतिवृद्धिस्तापश्च योनिमेहनपायुषु॥

अस16.48
श्लेष्मणा त्वावऋते प्राणे सादस्तन्द्रारुचिर्वमिः।
ष्ठीवनक्षवथूद्गारनिश्वासोच्छ्वाससङ्ग्रहः॥

अस16.49
उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः।
बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहः॥

अस16.50
गुरुताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम्।
समानेऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता॥

अस16.51
अपाने सकफं मूत्रशकृतोः स्यात् प्रवर्तनम्।
इति द्वाविंशतिविधं वायोरावरणं विदुः॥

अस16.52
प्राणादयस्तथान्योन्यमावृण्वन्ति यथाक्रमम्।
सर्वेपि विंशतिविधं विद्यादावरणं च तत्॥

अस16.53
निश्वासोच्छ्ववाससंरोधःप्रतिश्यायःशिरोग्रहः।
हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते॥

अस16.54
उदानेनावृते प्राणे वर्णौजोबलसङ्क्षयः।
दिशानया च विभजेत् सर्वमावरणं भिषक्॥

अस16.55
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्।
प्राणादीनां च पञ्चानां मिश्रमावरणं मिथः॥

अस16.56
पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः।
मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा॥

अस16.57
तारतम्यविकल्पाच्च यात्यावृतिरसङ्ख्यताम्।
तां लक्षयेदवहितो यथास्वं लक्षणोदयात्॥

अस16.58
शनैश्शनैश्चोपशयाद् गूढामपि मुहुर्मुहुः।
विशेषाज्जीवितं प्राण उदानो बलमुच्यते॥

अस16.59
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च॥

अस16.60
आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः।
प्रयत्नेनापि दुःसाध्या भवेयुर्वानुपक्रमाः॥

अस16.61
विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः।
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्॥

इति षोडशोऽध्यायः॥

॥निदानस्थानं तृतीयं समाप्तम्॥