अष्टाङ्गसंग्रहः शरीरस्थानम् अध्याय १-६

अष्टाङ्गसंग्रहः


अष्टाङ्गसङ्ग्रहः

शारीरं स्थानम्

अस1.1
अथातः पुत्रकामीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस1.2
अथ खलु पुमानेकविंशतिवर्षः कन्यामतुल्यगोत्रां तुल्याभिजनामसञ्चारिरोगकुलप्रसूतं रूपशीललक्षणसम्पन्नामनूनाविनष्टदन्तौष्ठकर्णनासानखकेशस्तनीं मृदुमरोगप्रकृतिमकपिलमपिङ्गलामहीनाधिकाङ्गीं द्वादशवर्षदेशीयाममरभुजगसरिदचलवृक्षपक्षिनक्षत्रान्त्यप्रेष्यभीषणकनामान्यनुद्वहन्तीमनघामनिन्द्यामनिन्द्येन विधिनोद्वहेत्॥

अस1.3
तस्यां षोडशवर्षायां पञ्चविंशतिवर्षः पुरुषः पुत्रार्थं प्रयतेत।
तदा हि तौ प्राप्तवीर्यौ वीर्यान्वितमपत्यं जनयतः।
ऊनपञ्चविंशतिवर्षेणोनषोडशवर्षायामाहितो गर्भः कुक्षिस्थ एव विनाशमाप्नुयादल्पायुर्बलारोग्यविभवो वा स्याद्विकलेन्द्रियो वा।
ऋतावाद्ये च रात्रित्रये तथा दुष्टे शुक्रार्तव इति॥

अस1.4
तत्राहारस्य सम्यक्परिणतस्य क्रमान्मज्जानमनुप्राप्तस्य सारः शुक्रसंज्ञां लभते।
तत्तु क्षीर इव सर्पिरिक्षुरस इव गुडः शरीरे शुक्रधरां कलामाश्रित्यास्रुतं सर्वाङ्गव्यापितया स्थितम्।
विशेषतश्च मज्जमुष्कस्तनेषु।
हर्षोदीरितं तु संघट्टनेन हृदयावेशात् पिण्डीभूतमङ्गादङ्गात् प्रवर्तते।
तत् सौम्यं स्निग्धं गुरु शुक्लं मधुगन्धि मधुरं पिच्छिलं बहु बहलं घृततैलक्षौद्रान्यतमवर्णं च शुक्रं गर्भाधानयोग्यं भवति॥

अस1.5
तथा रक्तमेव च स्त्रीणां मासे मासे गर्भकोष्ठमनुप्राप्य त्र्यहं प्रवर्तमानमार्तवमित्याहुः।
अतिप्रसङ्गेनानृतावृतौ वा तदेवासृग्दरं प्रदरं व्यापदं च रक्तयोनिसंज्ञां लभते।
तत्साधने रक्तपित्तचिकित्सितं गुह्यरोगप्रतिषेधं चेक्षेत॥

अस1.6
वातकफावृतमार्गाणां चाप्रवर्तमानं पित्तलैरुपाचरेत्।
तद्धि वर्द्धमानमन्तर्वर्तमानं सशुक्रमशुक्रं वा जीवरहितं वातलान्यासेवमानाया योषितो गर्भलिङ्गानि दर्शयद् गुल्मीभवति।
तत्र गुल्मचिकित्सितमीक्षेत॥

अस1.7
कदाचिद्वा गर्भ इव वातोदरं भवति तद्वातोपशमनैरुपशाम्यति॥

अस1.8
तदेव कदाचिदार्तवं सौम्यैर्बृंहणात्मभिराहारविहारैः स्तम्भितमनुपद्रवमेवोदरं गर्भाधिष्ठितमिव वर्धयति।
येन तामगर्भां गर्भिणीमाहुर्मूढाः।
ततो विपरीतैर्यदृच्छया वा प्रवृत्ते रक्ते गर्भशरीरमपश्यन्तो भूतहृतमित्यज्ञा व्रुवते।
यस्मात्सम्भवत्योजसोऽपहरणं रक्षोभिर्न तु शरीरापहरणमनिष्टत्वादशक्तेर्वा।
इच्छाशक्त्योर्हि प्रवृत्तेरुपलब्धिः।
न च दृश्यते कस्यचिदमानुषैर्देहापहारः॥

अस1.9
यदि च दृष्टमपि समुल्लङ्घ्य केचिदतिशक्तियुक्ता गर्भस्य शरीराक्षेपे प्रवर्तन्ते तदा कथमिव प्राप्तावसरास्तज्जननीमुपेक्षेरन्॥

अस1.10
आर्तवं पुनश्शशरुधिरलाक्षारसोपमं धौतं च विरज्यमानं शुद्धमाहुः॥

अस1.11
यथा च बालस्य जीर्णस्य वा तरोः पुष्पफलं पुष्पफलस्य वा तद्विधस्य गन्धो नोपलभ्यते तथैव नोनषोडशातीतसप्तीतवर्षस्य पुंसः शुक्ररोमादयो योषितश्चोनद्वादशातीतपञ्चाशद्वर्षाया रजस्तन्यादय इति॥

अस1.12
अथ शुद्धशुक्रार्तवमरोगं मिथोऽनुरक्तं मिथुनमुपस्नेह्य विधिवत् संशोध्यास्थापनानुवासनाभ्यामुपाचरेत्।
विशेषतस्तु घृतक्षीरवद्भिर्मधुरौषधसंस्कारैः पुरुषम्।
तैलेन नारीं पित्तलैश्च मांसैः।
एवं हि समानगुणतया शुक्रार्तवमाप्यायते॥

अस1.13
वातपित्तश्लेष्मकुणपगन्धिग्रन्थिपूयक्षीणमूत्रपुरीषरेतांसि त्वबीजानि भवन्ति।
तत्र तनु रूक्षं फेनिलमरुणमल्पं विच्छिन्नं सरुजं चिराच्च निषिच्येत वातेन। किञ्चित्पीतमपिच्छिलमानीलं वा दहदिव प्रवर्तते पित्तेन।
मज्जोपसंसृष्टं प्रभूतं विबद्धं चाम्भसि च किञ्चिन्मज्जति श्लेष्मणा।
कुणपगन्ध्यनल्पं रक्तेन।
ग्रन्थिभूतं वातश्लेष्मभ्याम्।
पूतिपूयनिभं पित्तश्लेष्मभ्याम्।
क्षीणं वातपित्ताभ्याम्।
तदुक्तं ससाधनं प्राक्।
मूत्रपुरीषगन्धि सन्निपातेन॥

अस1.14
आर्तवमपि शुक्रवद्दोषैरुपसृष्टमबीजमेव।
तस्य लिङ्गं नाम च पूर्ववत्।
तेषु कुणपग्रन्थिपूयक्षीणरेतांसि कृच्छ्रसाध्यानि।
मूत्रपुरीषशुक्रातवं त्वसाध्यं कुणपग्रन्थिपूयार्तवं च।
तत्राद्यांस्त्रीन् शुक्रार्तवदोषान्यथास्वं दोषसाधनेन साधयेत्।
गुह्ययोनिरोगप्रतिषेधेन चोभयान्॥

अस1.15
अपि च। वातिके शुक्रदोषे वसुकसैन्धवफलाम्लसिद्धं यवक्षारप्रतीवापं सर्पिष्पानम्।
बिल्वविदारीसिद्धं क्षीरयुक्तमास्थापनम्।
मधुकभद्रदारुसिद्धं तैलमनुवासनम्।
क्षीरकुलीररससिद्धं तैलमुत्तरबस्तिः।
पैत्तिके काण्डेक्षुश्वदंष्ट्रागुडूचीसिद्धं मूर्वामधूकप्रतीवापं सर्पिष्पानम्।
त्रिवृच्चूर्णः सघृतो विरेकः।
पयस्याश्रीपर्णीसिद्धं क्षीरयुक्तमास्थापनम्।
मधुकमुद्गपर्णीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च।
श्लैष्मिके पाषाणभेदाश्मन्तकामलकक्वाथसिद्धं पिप्पलीमधुकचूर्णप्रतीवापं सर्पिष्पानम्।
मदनफलकषायो वमनम्।
दन्तीविडङ्गचूर्णस्तैललीढो विरेकः।
राजवृक्षमदनफलकषायप्रगाढमास्थापनम्।
मधुकपिप्पलीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च॥

अस1.16
वातजे पुष्पदोषे भार्ङ्गीमधुकभद्रदारुसिद्धं सर्पिष्पानम्।
काश्मर्यक्षुद्रसहासिद्धं वा क्षीरम्।
मधुकसृगालविन्नाकल्कं पयस्सर्पिस्सहितं प्रियङ्गुतिलकल्कं वा योनौ धारयेत्।
सरलमुद्गपर्णीकषायः प्रक्षालनम्।
पित्तजे काकोलीद्वयविदारीमूलक्वाथमुत्पलपद्मकक्वाथं मधूकपुष्पकाश्मर्यफलक्वाथं वा सशर्करं पिबेत्।
श्वेतचन्दक्वाथं वा सक्षौद्रम्।
धवधातकीकल्कं वा घृतेन वा मधुकमधुरसामृद्वीकाकल्कम्।
शम्याकगवाक्षीक्षीरं विरेकः।
चन्दनपयस्याकल्कं योनौ धारयेत्।
गौरिकारिष्टकषायः प्रक्षालनम्।
श्लैष्मिके कुटजकटुकाश्वगन्धाक्वाथं पिबेत्।
समाक्षिकं वा क्षीरिवृक्षप्रवालक्वाथमेतेषामेव वा चूर्णं मधुघृताभ्यां लिह्यात्।
मदनफलकषायेण वमनम्।
तत्कल्कमेव च योनौ धारयेत्।
लोध्रतिन्दुककषायः प्रक्षालनं बस्तमेषमूत्रं वा॥

अस1.17
कुणपरेतसि धातकीपुष्पखदिरार्जुनदाडिमैः सिद्धमसनादिभिर्वा सर्पिः पाययेत्।
ग्रन्थिरेतसि पाषाणाभिदा पलाशभस्मना वा।
पूयरेतसि परूषकादिन्यग्रोधादिभ्याम्।
मूत्रपुरीषरेतसि वायुनातिविकृते हिङ्गूशीरचित्रकैरथवा चित्रकवितुन्नकप्रियङ्गुहिङ्गुसमङ्गामृणालसिद्धमेलामोचचूर्णप्रतीवापम्। तथा ग्रन्थ्यार्तवे पाठात्रिकण्टकवृक्षकक्वाथम्।
कुणपपूयार्तवे चन्दनक्वाथं पिबेत्।
त्रिफलाकल्कक्वाथौ चात्र धारणाचमने॥

अस1.18
सर्वेषु च शुक्रार्तवदोषेषु स्त्रीपुंसौ स्नेहादिकर्मभिर्विशेषेण चोत्तरबस्तिभिः पुनः पुनरुपाचरेत्।
यथास्वं च योनौ कल्कैः पिचुभिश्च।
इत्येवं विशुद्धशुक्रार्तवौ पूर्वोक्तं विधिमासेवेवाम्॥

अस1.19
ऋतुस्तु दृष्टार्तवो द्वादशरात्रं भवति।
षोडशरात्रमित्यन्ये।
शुद्धयोनिगर्भाशयार्तवाया मासमपि केचित्।
तद्वददृष्टार्तवोऽप्यस्तीत्यपरे॥

अस1.20
क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम्।
स्रास्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम्॥

अस1.21
पद्मं संकोचमायाति दिनेऽतीते यथा तथा।
ऋतावतीते योनिःस्याच्छुक्रंनातः प्रतीच्छति॥

अस1.22
मसेनोपचितं रक्तं धमनीभ्यामृतौ पुनः।
ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत्॥

अस1.23
ततः पुष्पदर्शने प्रथमदिवसात् प्रभृति ब्रह्मचारिणी स्नानाद्यलङ्काररहिता दर्भसंस्तरशायिनी त्रिरात्रमासीत।
पर्णशरावकरतलान्यतमेन यावकं पयसा सिद्धमल्पं कर्शनार्थमश्नीयात्।
तीक्ष्णोष्णाम्ललवणानि च वर्जयेत्॥

अस1.24
चतुर्थेऽहन्युद्वर्तिता शीतसलिलस्नातानुलिप्तालङ्कृताशुक्लमाल्याम्बरा कृतमङ्गलस्वस्त्ययनैवंविधमेव भर्तारं पश्येदनन्यमनाः।
तदा हि यादृशमेव पश्यति चिन्तयति वा तादृशं प्रसूत इति॥

अस1.25
ततः स्नानात् पुनरपि गुणवत्पुत्रार्थी त्रिरात्रमुपेक्षेत।
पुष्पदर्शनात् सप्तरात्रम्।
अथाष्टम्यां दशम्यां द्वादश्यां वा रात्रौ पुत्रकामः संवसेत्।
पच्चम्यां सप्तम्यां नवम्यां वा दुहितृकामः।
तासूत्तरोत्तरमायुरारोग्यैश्वर्यसौभाग्यबलवर्णेन्द्रियसम्पदपत्यस्य भवति।
अतः परं तूत्तरोत्तरमेवायुरादीनां ह्रासः॥

अस1.26
तत्र युग्मासु रात्रिष्वल्पीभवत्यार्तवमयुग्मास्वाप्याय्यते।
तस्मात्तासु क्रमात् पुत्रस्य दुहितुश्च जन्म।
अत एव चानुपरतार्तवदर्शनां पुत्रार्थी विप्रकृष्टेष्वप्यहस्सु नोपेयात्।
यदि त्वाहारानुरोधादयुग्मासु शुक्रस्याधिकता युग्मासु च न्यूनता स्यात्ततः पुमान् स्त्र्याकृतिर्दुर्बलो हीनाङ्गो वा जायते।
स्त्री च पुरुषाकृतिर्दुर्बला हीनाङ्गा वा।
एकादशीत्रयोदश्योस्तु नपुंसकं स्यात्॥

अस1.27
अथोपाध्यायः पुत्रीयं विधानमाचरेत्।
शूद्रायास्तु मन्त्रवर्जितम्।
यादृशं च पुत्रमाशासीत तद्रूपवर्णचरितान् जनपदाननुचिन्तयेति स्त्री वाच्या।
तज्जनपदाहारविहारोपचारपरिच्छदांश्चानुविदघीत॥

अस1.28
कर्मान्ते च पुमान् मासं ब्रह्मचारी सर्पिः क्षीराभ्या शाल्योदनमभिप्राश्य नात्याशितः सुखी स्रग्वी सुमनाः प्रीणिताङ्गः शुक्लनिवसनो मौहूर्तिकानुमते रात्रिभागे कल्याणानि चिन्तयानस्तदभिकामः स्वास्तीर्णं शयनं दक्षिणेन पादेन प्रागारोहेत्।
ताद्विधैव च प्रमदा कर्णिताङ्गी तैलमाषोत्तराहारा पूर्वं वामपादेन पुरुषस्य दक्षिणतः शय्यामधिरोहेत्।
तत्र मन्त्रं प्रयुञ्जीत।
आयुरसि सर्वतः प्रतिष्ठासि धाता त्वा दधातु विधाता त्वा दधातु ब्रह्मवर्चसा भवेति।
ब्रह्माबृहस्पतिर्विष्णुस्सोमस्सूर्यस्तथाश्विनौ।
भगोऽथ मित्रावरुणौ वीरं दधतु मे सुतमिति॥

अस1.29
ततः परस्परं सामभिरभिसान्त्व्य सहर्षमनुकूलं संविशेताम्।
पर्याप्ते चैनां शीतोदकेन सहसा परिषिञ्चेत्॥

अस1.30
तत्रात्याशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धातिमेदुरान्यकामाऽव्यवायकामा वा न गर्भं धत्ते विगुणं वा।
तथा पुरुषोऽपि।
न चासौअधस्तिष्ठेत्।
तथा हि स्त्रीचेष्टः पुमान् जायते पुंश्चेष्टा वा स्त्री।
न च न्युब्जां पार्श्वगतां वा सेवेत।
न्युब्जाया वातो बलवान् स योनिं पीडयति।
दक्षिणपार्श्वगतायाः श्लेष्मा पीडितश्च्युतः पिदधाति गर्भाशयम्।
वामपार्श्वगतायास्तद्वत् पित्तं विदहति रक्तशुक्रे।
तस्मादुत्ताना बीजं गृह्णीयात्।
तथा हि यथास्थानमेव तिष्ठन्ति दोषाः॥

अस1.31
लब्धगर्भां चैनां विदित्वा प्राग्व्यक्तीभावाद्गर्भस्य पुष्ये पुंसवनानि प्रयुञ्जीत।
द्वादशरात्रमित्यन्ये।
तत्रापि युग्मदिनेष्विति केचित्।
प्रत्यहमित्यपरे॥

अस1.32
तद्यथा।
लक्ष्मणावटशृङ्गसहदेवाविश्वदेवानामन्यतमं क्षीरेऽभिषुत्य त्रींश्चतुरो वा बिन्दून् दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना।
वामे तु दुहितृकामा।
न चैतान् निष्ठीवेत्।
तथा पुष्योद्घृतायाः श्वेतबृहत्या।
मूलकल्काद्रसं नावयेत्।
तद्वच्चोत्पलपत्रं कुमुदपत्र लक्ष्मणामूलं वटशृङ्गानि चाष्टौ च नावयेत्॥

अस1.33
शुक्लमाल्याम्बरधरा च नारी पुष्योद्धृताया लक्ष्मणाया मूलकल्कमुदुम्बरमात्रं पयसा पिबेत् पुत्रस्योत्पादनाय स्थितये च।
तद्वद्गौरदण्डमपामार्गं जीवकर्षभकौ शङ्खषुष्पीमध्यदण्डां सहचरं नग्नजितमग्निजिव्यामष्टौ वा वटशृङ्गानि। शालिपिष्टस्य च पच्यमानस्योष्माणमाघ्राय तद्रसं देहल्यां स्थिता पूर्ववन्नावयेत्॥

अस1.34
यच्चान्यदपि ब्राह्मणा वृद्धस्त्रियो वा ब्रूयुस्तच्च कुर्यात्।
ततः प्रजास्थापनाख्या दशौषधीः शिरसा दक्षिणेन च पाणिना धारयेत्।
एताभिश्च सिद्धं पयो घृतं वा पिबेत्।
एताभिरेव पुष्ये पुष्ये स्नायात् सदा च समालभेत।
तथा सर्वासां जीवनीयानामौषधीनां सदोपयोगस्तैस्तैर्विधानैरिति गर्भस्थापनानि॥

अस1.35
सौम्याकृतिवचनोपचारचेष्टाश्च प्रियहितानुवर्तिनः परिचारकास्तथा भर्तेति।
पुनश्चैनां मासादुपेयात्॥

अस1.36
तत्र शुक्रे शुक्ले घृतमण्डाभे वा गर्भस्य गौरत्वं तैलाभे कृष्णत्वं मध्वाभे श्यामत्वम्।
तथा क्षीरादिमधुराणामुपयोगान्मातुरुदकविहाराच्च गौरता तिलान्नविदाहिना कृष्णता।
व्यामिश्राणां श्यामता।
देशकुलानुवृत्तितश्च वर्णभेदः॥

अस1.37
तथा तेजोधातोरुदकाकाशधातुसम्पर्काद्गौरता।
भूवायुसम्पर्कात् कृष्णता।
सर्वधातुसाम्ये श्यामता॥

अस1.38
सत्वविशेषकराणि पुनर्मातापितृसत्वादयोऽन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोपचितं च कर्म भवति।
पूर्वाभ्यासश्चेति॥

अस1.39
भवन्ति चात्र।
घृतक्षीरादिनित्यासु मुदितासु कफात्मसु।
आर्तवं तिष्ठत्ति चिरं विपरीतास्वतोऽन्यथा॥

अस1.40
निपातादेव गृह्णाति रागं वासो यथाऽमलम्।
ध्रुवं गर्भं तथा बीजं क्षेत्रं बीजमुपस्कृतम्॥

अस1.41
अविरुद्धे ध्रुवं दैवे काले युक्तस्य कर्मणः।
सिद्धिः पुंसवनाद्यस्मात् पूर्वं व्यक्तेः प्रयोजयेत्॥

अस1.42
जाताश्चैवं रूपवन्तो मासत्त्वाश्चिरायुषः।
ऋणान्मोचयितारः स्युः सुपुत्राः पुत्रिणां मताः॥

अस1.43
देवताचारशौचादिरता सूते महागुणम्।
धावत्येवं चाचरितं प्राग्जन्माभ्यासयोगतः॥

अस1.44
योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे।
गर्भस्य तन्न किञ्चित्तु करोतीति न चिन्त्यते॥


अथ द्वितीयोऽध्यायः।

अस2.1
अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस2.2
गते पुराणे रजसि नवेऽवस्थिते शुद्धे गर्भस्याशये मार्गे च बीजात्मना शुक्रमविकृतमविकृतेन वायुना प्रेरितमन्यैश्च महाभूतैरनुगतमार्तवेनाभिमूर्च्छितमन्वक्षमेव रागादिक्लेशवशानुवर्तिना स्वकर्मचोदितेन मनोजवेन जीवेनाभिसंसृष्टं गर्भाशयमुपयाति॥

अस2.3
कार्याणा च कारणानुविधायित्वात्तत्सभागतां प्रतिपद्यते।
तत एव च शुक्रस्य बाहुल्यात् पुमानार्तवस्य बाहुल्यात् स्त्री तयोः साम्येन नपुंसकम्।
शुक्रार्तवेऽनिलेन खण्डशो भिन्ने यथाविभागमपत्यानामुत्पत्तिः।
विकृते वियोन्याकृतीनां च॥

अस2.4
अथ नार्याः सद्योगृहीतगर्भायाश्च लिङ्गं योन्या बीजग्रहणं तृप्तिर्गरिमा स्फुरणं शुक्रार्तवयोरनुबन्धश्च।
तथा प्रहर्षो हृल्लासस्तन्द्राङ्गसादः प्रसेको हृदयव्यथा ग्लानिः पिपासा च।
क्रमेण तु व्यक्तगर्भायाः कुक्षिमात्रगौरवं क्षामनेत्रस्वरता योनिरोमसंलुलनं निद्रा जृम्भणं मूर्च्छा छर्दिररुचिः पादशोफोऽम्लेऽभिलाषस्तेषु तेषु चोच्चावचेषु भावेष्विति॥

अस2.5
तस्याश्च रजोवाहिनां स्रोतसां वर्त्मान्युपरुध्यन्ते गर्भेण।
तस्मात्ततः परमार्तवं न दृश्यते।
ततस्तदधः प्रतिहतमपरमपरं चोपचीयमानमपरेत्याहुः।
जरायुरित्यन्ये। स्थिते रक्ते रोमराजिः प्रादुर्भवति॥

अस2.6
जरायुशेषं चोर्ध्वमसृक् प्रतिपद्यते।
तस्मात् पीनकपोलपयोधरता कृष्णौष्ठचूचुकत्वं च।
स्तनाश्रयमेव च कफोपरञ्जितं स्तन्यतामुपगतं प्रसूतायाः पूनराहाररसेनाप्यायते॥

अस2.7
तत्र प्रथमे मासे कललं जायते।
द्वितीये घनः पेश्यर्बुदं वा तेभ्यः क्रमात् पुंस्त्रीनपुंसकानि।
तृतीये पञ्चधा प्ररोहति।
तद्यथा सक्थिनी बाहू शिरश्च।
सक्थ्यादिप्ररोहैककालमेव च सर्वमङ्गावयवेन्द्रियाणि युगपत्सम्भवन्त्यन्यत्र जन्मोत्तरकालजेभ्यो दन्तादिभ्यः।
क्रमेण तु स्फुटीभवन्ति।
एषा प्रकृतिः।
विकृतिरतोऽन्यथा॥

अस2.8
यथास्वं च गर्भस्य पुंस्त्रीनपुंसकान्यतमलिङ्गानुरूपा भावा मनसि शरीरे च सन्तिष्ठन्ते।
वैशेषिकलिङ्गसङ्करे तु यतो भूयस्त्वं ततोऽन्तरा भावाः॥

अस2.9
तद्यथा।
क्लैब्यं भीरुत्वमवैशारद्यं मोहोऽनवस्थानमधोगुरुत्वमसंहननं शैथिल्यं मार्दवं गर्भाशयबीजभागस्तथायुक्ताश्चापरे स्त्रीकरा भावाः।
ततो विपरीताः पुंस्कराः सङ्कीर्णा नपुंसकराः॥

अस2.10
तदा चास्य वेदना प्रव्यक्ता भवति।
ततश्च तत्प्रभृति स्पन्दतेऽभिलाषं पञ्चेन्द्रियार्थेषु करोति॥

अस2.11
मातृजं ह्यस्य हृदयं तद्रसहारिणीभिर्धर्मनीभिर्मातृहृदयेनाभिसम्बद्धं भवति।
तस्मात्तयोस्ताभिः श्रद्धा सम्पद्यते।
तथा च द्विहृदयां नारीं दौहृदिनीत्याचक्षते।
अन्ये तु पक्षत्रयात् प्रभृत्यापञ्चमान्मासाद्दौहृदकालमाहुः॥

अस2.12
प्रार्थनायां च तीव्रायां काममहितमप्यस्यै हितोपसंहितं दद्यात्।
दौहृदविमाननाद्धि वायुः प्रकुपितोऽन्तश्शरीरमनुचरन् गर्भस्य विनाशं वैरूप्यं वा कुर्यात्।
लब्धदौहृदा तु वीर्यवन्तं चिरायुषं च पुत्रं प्रसूते॥

अस2.13
चतुर्थेऽङ्गप्रत्यङ्गविभागः प्रव्यक्तो गर्भश्च स्थिरो भवति।
पञ्चमे मनः प्रतिबुद्धतरं भवति मांसशोणितोपचयश्च। षष्ठे केशरोमनखास्थिस्नाय्वादीन्यभिव्यक्तानि बलवर्णोपचयश्च।
सप्तमे सर्वाङ्गसम्पूर्णता॥

अस2.14
अष्टमे गर्भश्च मातृतो गर्भतश्च माता रसहारिणीभिर्वाहिनीभिर्मुहर्मुहुरोजः परस्परमाददाते। तस्मात्तदा गर्भिणी मुहुर्मुदिता भवति मुहुर्ग्लाना तथा गर्भः।
एवं गर्भस्य जन्म व्यापत्तिमत्तदा भवति। ओजसोऽनवस्थितत्वात्।
तथा ह्यस्य निष्क्रमणोन्मुखस्य परिवर्तनादीन्यनुभवत एवौजसा वियोगः।
यद्यपि च किञ्चित्कालमस्योच्छ्वसनं स्यात्तच्छिन्नस्येवाङ्गस्यौजस्संस्कारानुवृत्तिकृतम्।
जनन्यास्तु स्थिरौजस्कतयैकदेशेन रसे सङ्क्रान्ते ग्लानिरेवेति॥

अस2.15
अन्ये पुनराहुः।
नैरृतभागत्वात्तत्र गर्भस्य मरणम्।
तस्मात् प्रसवप्रतिषेधार्थं स्त्री स्नाता शुचिर्ब्रह्मचारिणी देवताराधनपरा स्यात्।
मांसौदनबालिं चात्र निर्वपेत्।
तस्मिन्नेकदिवसातिक्रान्तेऽपि प्रसवकालमाहुरासंवत्सरात्।
अतः परं विकारी भवति॥

अस2.16
गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृताञ्जलिः सङ्कुचिताङ्गो गर्भष्ठे दक्षिणपार्श्वमाश्रित्यावतिष्ठते पुमान्।
वामं स्त्री मध्यं नपुंसकम्।
तत्र स्थितश्च गर्भो मातरि स्वपन्त्यां प्रबुद्धायां प्रबुध्यते।
परतन्त्रवृत्तेश्च गर्भस्य।
निषेकात् प्रभृति गर्भाशयोपस्नेहोपस्वेदौ वर्तनम्॥

अस2.17
ततो व्यक्तीभवदङ्गप्रत्यङ्गस्यास्य नाभ्यां प्रतिबद्धानाडी नाड्यामपरा तस्यां मातृहृदयम्।
ततो मातृहृदयादाहाररसो धमनीभिः स्यन्दमानोऽपरामुपैति।
ततः क्रमान्नाभिम्।
ततश्च स पुनर्गर्भस्य पक्वाशये स्वकायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादिपुष्टिकरः सम्पद्यते। तथारोमकूपैरुपस्नेहो रस एव च पयोभूतः॥

अस2.18
अजातस्य साक्षादन्नपानाननुप्रवेशादमलत्वाच्च रसस्य गर्भस्य स्थूलमलासम्भवः। एवं जठरस्थो गर्भो जन्मकाले तु प्रसूतिमारुतयोगात् परिवृत्यावाक्शिरा निष्क्रामत्यनु चापरा च्युता मातृहृदयात्।
एषा प्रकृतिः।
विकृतिरतोऽन्यथा॥

अस2.19
तत्र या दक्षिणं पादं पूर्वमभिसरति दक्षिणश्च बाहुर्बलवांस्तेन चेष्टते तत्स्तने च प्राक् पयो दृश्यते अभ्युन्नतदक्षिणकुक्षिः परिमण्डलगर्भा पुन्नामदर्शनस्पर्शनप्रश्नदौहृदाभिरता पुन्नामधेयांश्च स्वप्नान् पश्यति प्रसन्नमुखवर्णा तीक्ष्णक्षुदूर्ध्वरोमराजिः पुरुषानभिलाषिणी च सा पुत्रं प्रसूते तद्विपर्यये कन्यां सङ्करे च नपुंसकम्।
प्रश्नकाले नारी यल्लिङ्गमङ्गं बाह्यद्रव्यं वा परामृशति तल्लिङ्गमस्या गर्भमादिशेत्॥

अस2.20
यदा तून्मार्गगो वातो गर्भस्य रसवाहीनि स्रोतांसि शोषयति तदा वातरोगी हीनाङ्गो वा जायते।
बहूनि वा वर्षाण्युदरे तिष्ठति॥

अस2.21
यदा स्त्रीपुंसयोः सममेवार्थो निष्पद्यते।
बीजं वा तयोः समांशं संमुखं च।
यदा च बीजं भागे दुष्यति तदा द्विप्रकृतिर्द्विरेता नपुंसकं भवति॥

अस2.22
यदा स्त्री प्रथमं कृतार्था भवति ततः पुरुषेण पश्चाच्छुक्रमुत्सृष्टं हर्षानवस्थितचेतसः स्त्रिया वातो विगुणीकरोति पुंस्त्ववाहीनि स्रोतांसि चोपहन्ति तदा वातेन्द्रियं भवति।
तन्मैथुने वातमेवोत्सृजति॥

अस2.23
यदा तु कार्त्स्न्येन नोपहन्ति अनुपघ्नन्नेव वा स्रोतोमुखं पिधत्ते तदा संस्कारवाह्यं भवति।
तत्र संस्कारो वाजीकरा बस्तयोऽभ्यवहारश्चेतोहर्षणानि च।
तानि हि शुक्रे बलमादधानानि स्रोतांस्यस्याप्याययन्तीति॥

अस2.24
यदाल्पबीजोऽल्पबलः पुमानुद्वेगः स्त्रीद्वेषयुक्तोऽन्यकामो वा नार्या व्यवायप्रतिघातं करोति तद्विधा वा नारी पुंसः।
तदा++आसेक्यं नाम भवति।
तच्शुक्रास्वादाद्ध्वजोच्छ्रायं लभते॥

अस2.25
यदा पुनरुभावपि भवतः स्त्रीपुंसौ तद्विधौ तदा वक्रध्वजो भवति।
तस्य नैव ध्वजः स्तभ्यते॥

अस2.26
यदा पूतियोन्याः स्त्रिया गर्भो भवति सौगन्धिकाख्यः स योनिध्वजगन्धेन बलं लभते॥

अस2.27
यदा त्वीर्ष्याभिभूतौ मन्दहर्षौ संसृज्येते तदेर्ष्यारतिसंज्ञम्।
तस्य परं मिथुनीभूतं दृष्ट्वा मैथुनप्रवृत्तिर्भवति॥

अस2.28
यदा पुरुषस्य गर्भस्य वाय्वग्निदोषाद् वृषणनाशस्तदा वातषण्डकाख्यं भवति।
एताः कर्मवैचित्र्यादष्टौ षण्डयोनयोऽसङ्कीर्णाः कथिताः॥

अस2.29
यदा तु स्त्रियाः शोणितगर्भाशयौ दोषाः किञ्चित् प्रदूषयन्ति तदा यो गर्भो भवति तस्य गर्भस्य यस्य यस्य मातृजस्यावयवस्य बीजे बीजांशे वा दोषः प्रकोपमापद्यते तं तमवयवं विकृतिराविशति॥

अस2.30
यदा ह्यस्याः शोणिताख्ये बीजे गर्भाशयस्थे निर्वर्तकं बीजं प्रदुष्यति तदा वन्ध्यां जनयति।
यदा तस्यावयवस्तदा पूतिप्रजाम्।
तस्या जातं जातं म्रियते॥

अस2.31
यदा पुनः सोऽवयवः स्त्रीकराणां च शरीरसंश्रयाणामधोगुरुत्वादीनां निर्वर्तका ये बीजांशास्तेषामेकदेशः।
तदा स्त्र्याकृतिप्रायामस्त्रियं वार्तां नाम जनयति।
तां स्त्रीव्यापदमाचक्षते॥

अस2.32
एवमेव पुंसो यदा शुक्राख्ये बीजे बीजं प्रदुष्यतीत्यादि योजयेद्वन्ध्यं पूतिप्रजं तथा पुरुषाकृतिप्रायमपुरुषं तृणमुखिनं नाम जनयतीत्येतेन मातृजानां पितृजानां चावयवानां विकृतिर्व्याख्याता॥

अस2.33
अनेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति।
यस्य यस्याङ्गावयवस्य बीजे बीजांशे वा उपतप्तिर्भवति तस्य तस्याङ्गावयवस्य विकृतिरुपजायते।
नोपजायतेऽनुतापात्॥

अस2.34
यदा च लब्धगर्भाऽन्वक्षमेव वातलान्यासेवते तदास्या वायुः प्रकुपितः शरीरमनुसर्पन् गर्भाशयेऽवतिष्ठमानो गर्भस्य जडबधिरमूकमिन्मिणगद्गदखञ्जकुब्जवामनहीनाङ्गाधिकाङ्गत्वान्यन्यं वा वातविकारं करोति।
तथा वायुवत् पित्तमपि खलतिपलितश्मश्रुहीनतात्वङ्नखकेशपैङ्गल्यादीनि।
श्लेष्मा तु कुष्ठकिलाससदन्तत्त्वादीनि।
त्रिवर्गो मिश्रान्विकारान्॥

अस2.35
अपि च। दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वम्।
तदेव वातानुगतं विकृतरूक्षारुणाक्षम्।
पित्तानुगतं पिङ्गाक्षम्।
श्लेष्मानुगतं शुक्लाक्षम्।
रक्तानुगतं रक्ताक्षमिति॥

अस2.36
गर्भसमानयोगक्षेमा हि गर्भिणी भवति।
तस्माद्विशेषतस्तां प्रियहिताभ्यां गर्भोपधातकरेभ्यो रक्षेत् यथा यथा च गर्भो वृद्धिमाप्नोति तथा तथा भाराहारानादानादाहाररसापहाराच्च स्त्रिया बलक्षयः।
तत्रेमे गर्भोपघातकराः।
तद्यथा व्यवायव्यायामकर्शनाभिघातातिमात्रसङ्क्षोभियानयानरात्रिजागरणदिवास्वप्नवेगविधारणाजीर्णातपाग्निकोधशोकभयोत्त्रासोपवासोत्कटकविषमकठिनासनश्वभ्रकूपप्रपाताप्रियावलोकनश्रवणादयः।
समासतः सर्वमतिगुरूष्णतीक्ष्णरूक्षमन्नपानं दारुणाश्च चेष्टाः॥

अस2.37
तथा देवतारक्षोऽनुपचयपरिरक्षणार्थं न रक्तानि वासासि धारयेन्न यानमधिरोहेन्न मद्यमांसमश्नीयात्।
यच्चान्यदपि वृद्धस्त्रियो ब्रूयुः।
प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्ट्य व्यापत्तिं करोति।
विवृतशया नक्तचारिणी चोन्मत्तं जनयति।
कलहशीलापस्मारिणम्।
व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा।
शोकनित्या भीरुमपचितमल्पायुषं वा।
अभिध्यायिनी परोपतापिनमीर्ष्यालुं स्त्रैणं वा।
स्तेना त्वायासबहुलमभिद्रोहिणमकर्मशीलं वा।
अमर्षणा चण्डमौपधिकं वा।
स्वप्नशीला निद्रालुमबुधमल्पाग्निं वा।
मद्यनित्या तृष्णालुमल्पस्मृतिमनवस्थितं वा।
गोधामांसनित्याश्मरिणं शनैर्मेहिनं वा।
बराहमांसनित्या रक्ताक्षं क्रथनमतिपरुषरोमाणं वा।
मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा।
मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा।
अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा।
लवणनित्या शीघ्रवलीपलितं खलतिकं वा।
तिक्तनित्या शोषिणमबलमपचितं वा।
कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा।
कषायनित्या श्याममानाहिनमुदावर्तिनं वा।
यच्च यच्च यस्य व्याधेर्निदानं तत्तदासेवमानान्तर्वत्नी स्त्री तत्तद्विकारबहुलमपत्यं जनयति।
एतेन पितृजा अपि शुक्रदोषा व्याख्याताः॥

अस2.38
तस्मात् प्रजासम्पदमिच्छन्तौ साध्वात्मान्नसुपाचरेताम्।
विशेषेण नारी।
व्याधींश्चास्या मृदुमधुरशिशिरसुखैरौषधाहारविहारैरुपाचरेत्।
न चास्या वमनादीनि प्रयोजयेत्।
न रक्तावसेचनम्।
केवलं त्वष्टममासमुपादायास्थापामनुवासनं वा।
वमनादिसाध्येषु पुनर्विकारेषु मृदुभिस्तदर्थकारिभिर्वोपक्रमेत् पूर्णमिव तैलपात्रमसंक्षोभयद्गर्भिणीमुपाचरेदिति।
भवन्ति चात्र॥

अस2.39
इत्यनात्ययिके व्याधौ विधिरात्यीयके पुनः।
तीक्ष्णैरपि क्रियायोगैः स्त्रियं यत्नेन पालयेत्॥

अस2.40
स्त्री हि मूलमपत्यानां स्त्री हि रक्षति रक्षिता।
सर्वाश्रमाणां प्रथमं गृहस्थत्वमनिन्दितम्॥

अस2.41
जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते।
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति॥


अथ तृतीयोऽध्यायः।

अस3.1
अथातो गर्भोपचरणीयमध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

अस3.2
प्रथमे मासि गर्भिणी क्षीरमनुपसंस्कृतं मात्रावच्छीतं काले काले पिवेत्।
तस्मिन्नपि चाद्यं द्वादशरात्रं क्षीरोद्भवं सर्पिश्शालिपर्णीपलाशाभ्यां शृतं कनकरजतक्वथितं शीतोदकानुपानं पिबेत्।
स्वादु शीतं द्रवप्रायं सात्म्यं च सायंप्रातराहारयेत्।
न चाभ्यङ्गोद्वर्तनानि सेवेत।
यथोक्तानि च दोषकराणि परिहरेदापञ्चमान्मासाद्विशेषेण॥

अस3.3
द्वितीये मधुरौषधसिद्धं पयः पिबेत्।
तृतीये तदेव सर्पिर्मधुभ्याम्।
चतुर्थेऽक्षमात्रनवनीतयुक्तम्।
पञ्चमे क्षीरसर्पिः।
षष्ठे तदेव मधुरौषधसिद्धम्।
सप्तमे च।
तस्मिंस्तु गर्भस्य केशोत्पत्त्या मातुर्विदाहो भवतीति स्त्रियो भाषन्ते।
नेति भगवानात्रेयः।
गर्भोत्पीडनात्तु दोषा हृदयं प्राप्य विदहन्ति ततः कण्डूर्जायते कण्ड्वा किक्किसम्॥

अस3.4
तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रमस्यै दद्यात्।
चन्दनमृणालकल्कैश्च स्तनोदरं मृद्नीयात्।
शिरीषधातकीसर्षपमधुकचूर्णैर्वा।
कुटजार्जकबीजमुस्ताहरिद्राकल्कैर्वा।
निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा।
शशहरिणपृषतरुधिरयुक्तया वा त्रिफलया।
करवीरकरञ्जपत्रकल्कसिद्धेन च तैलेनाभ्यङ्गः।
परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा।
कण्डूयनं वर्जयेत्।
त्वग्भेदवैरूप्यपरिहारार्थं स्नानोद्वर्तनं च शीलयेत्।
मधुरं चाहारमल्पमल्पस्नेहलवणमल्पोदकानुपानं भुञ्जीत॥

अस3.5
अष्टमे क्षीरयवागूं सर्पिष्मतीं पिबेत्।
नेति खण्डकाप्यः गर्भस्य पैङ्गल्याबाधभयात्।
अस्तु पैङ्गल्याबाधस्तथाप्येवं कुर्वीत।
नीरुजं बलवर्णसत्वसंहननसम्पदुपेतं ज्ञातीनामग्रगण्यमपत्यं जनयतीति भगवानात्रेयः॥

अस3.6
बदरोदकेन पललपयोदधिमस्तुतैललवणफलघृतमधुयुक्तेनास्थापयेत्।
पुराणविड्विशुध्यर्थं मधुकादिमधुरौषधसिद्धेन च तैलेनानुवासयेदनुलोमनाय वायोः।
अनुलोमे हि मारुते सा सुखमनुपद्रवा प्रसूते॥

अस3.7
गर्भिणीं तु न्युब्जामास्थापयेदनुवासयेद्वा।
तथास्या विवृतमार्गतया सम्यगौषधमनुप्रविशति॥

अस3.8
तत ऊर्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपाचरेदाप्रसवकालादिति भगवान् धन्वन्तरिः॥

अस3.9
नवमे तु तत एवानुवासनतैलात् पिचुं योनौप्रणयेद्गर्भमार्गाशययोः स्नेहनार्थमिति।
अनेन प्रथममासादाराभ्य क्रमेण गर्भिण्याः प्रसवकाले गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदु भवति।
वायुश्चानुलोमः सम्पद्यते।
मूत्रपुरीषं च प्रकृतिभूतं जरायुश्च मार्गं प्रतिपद्यते।
पुत्रं चेष्टं कल्यमायुष्मन्तं सुखिनं सुखेन काले बलवती प्रसूते॥

अस3.10
बिल्वकार्पासीपफ्फणापाटलीपिचुमन्दाग्निमन्थमासीवर्धमानकपत्रभङ्गक्वाथेन शीतेन सर्वगन्धोदकेन वा गर्भिण्याः प्रत्यहं स्नानमुपदिशेत्॥

अस3.11
प्राक् चैवास्या नवमान्मासादपहृतास्थिशर्कराकपाले प्रशस्ते देशे वास्तुविद्याप्रशस्तं सर्वर्तुसुखमुपहृतसर्वोपकरणं सन्निहितज्वलनं प्राग्द्वारमुदग्द्वारं वा सूतिकागारं कारयेत्॥

अस3.12
तत्रानुकूलेषु नक्षत्रादिषु पुण्याहशब्देन गोब्राह्मणवृद्धान् नत्वा++आवर्तमाना प्रदक्षिणं प्रविश्य बहुशः प्रसूताभिरनुरक्ताभिरविषादाभिः क्लेशक्षमाभिः परिवृता स्वस्त्ययनपरानुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीषा प्रसवकालमुदीक्षेत।
स्वल्पेऽपि च विण्मूत्रविबन्धे फलवर्तीः प्रणिदद्यात्॥

अस3.13
तत्रासन्नप्रसवायाः क्लमो ग्लानिर्मुक्तबन्धने इवाक्षिणी निष्ठीविका मूत्रपुरीषबाहुल्यं शिथिलकुक्षिताधोगुरुत्वमन्नानभिलाषो वेदनोदरहृदयकटीबस्तिवङ्क्षणेषु तोदभेदशूलस्फुरणस्रवणानि च योन्यां भवन्ति।
तदनन्तरमावीनां प्रादुर्भावो गर्भोदकप्रवाहश्च॥

अस3.14
अथैनामुपस्थितगर्भां कृतकौतुकमङ्गलां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तां सघृतां यवागूं पाययेत्।
ततः सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूमिशयने शयानामुत्तानामाभुग्नसक्थिपृष्ठामहतवाससोऽशङ्कनीयाः प्रियदर्शनाः परिणतवयसः प्रजननकुशलाः प्रगल्भाः कृत्तनखाः स्त्रियः सूतिकां सूनृताभिर्वाणीभिराश्वासयन्त्यः पर्युपासीरन्॥

अस3.15
अथास्यै दद्यात् कुष्ठैलालाङ्गलीवचाचव्यचित्रकचिरिबिल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः।
तथा भूर्जपत्रशिंशपासर्जरसान्यतमधूममन्तरान्तरा च। पार्श्वपृष्ठकटीसक्थिदेशान् कोष्णेन तैलेनाभ्यज्यानुसुखमस्या मृद्नीयात्॥

अस3.16
एकमवाक् परिवर्तते गर्भः।
तस्य लक्षणम्।
विमुच्य हृदयमुदरमाविशति।
बस्तिशिरोऽवगृह्णाति।
त्वरयन्त्येनामाव्यः।
न चेदेवं परिवर्तते ततो मुहुर्मुहुर्जृम्भणं चङ्क्रमणं च कारयितव्यानन्तरोक्तं विधिम्॥

अस3.17
अन्ये तु मुसलेनोलूखलं धान्यपूर्णमाहननीयमित्याहुः।
तत्तु न सम्यक्।
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते।
विशेषतश्च प्रसवकाले प्रचलितसर्वधातुदोषायाः सौकुमार्यत्वान्नार्या मुसलव्यायामेनेरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यादिति॥

अस3.18
अथ परिवृत्तगर्भां पर्यङ्कमेनामारोप्य कुशला स्त्री पादतोऽस्या निषण्णाया योनिमनुलोममनुसुखमभ्यज्ज्य स्फिजौ पादाभ्यां पीडयेत्।
योनिं च पुनः पुनः प्रसाधयेत्।
ब्रूयाच्च सुभगे शनैश्शनैः प्रवाहयस्व सुप्रसन्नस्ते मुखवर्णः पुत्रं जनयिष्यतीति॥

अस3.19
अन्या तु वामकर्णेऽस्या मन्त्रमिमं जपेत्॥

अस3.20
क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः।
सगर्भां त्वां सदा पातु वैशल्यं वा दधात्वपि॥

अस3.21
प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने।
कार्तिकेयद्युतिं पुत्रं कार्तिकेयादिरक्षितमिति॥

अस3.22
तथा--- इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि।
उच्चैश्श्चवाश्च तुरगो मन्दिरे निवसन्तु ते॥

अस3.23
इदममृतमपां समुद्वृतं वै तव लघुगर्भमिमं प्रमुञ्चतु स्त्री।
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिमिति॥

अस3.24
तथा पराऽनुशिष्यात् अनागतायां वेदनायां मा प्रवाहिष्ठाः।
अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थकरमहितं च गर्भस्य श्वासकासशोषकुब्जतादिकारित्वात्।
तथा तेषामेव विधारणमिव वेदनायामप्रवाहणमुपघाताय ततो यथोक्तं कुरुष्व॥

अस3.25
शनैश्शनैश्च पूर्वं प्रवाहिष्ठाः।
निर्गमे बाढं गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाप्रसवादिति।
तस्यास्तु प्रवाहमानायाः स्त्रियः शब्दं कुर्युः प्रजाता प्रजाता धन्यं धन्यं पुत्रमिति।
तथास्या हर्षेण प्राणा आप्यायन्ते॥

अस3.26
गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेन।
पिण्डीतकेन वा।
बध्नीयाच्च हिरण्यपुष्पीमूलं हस्तपादे धारयेच्च सुवर्चलां विशल्यां वा॥

अस3.27
अथ प्रसूताया न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुपपीड्य अन्येन पृष्ठत उपसङ्गृह्य विधुनुयात्॥

अस3.28
पार्ष्ण्या वा श्रोणीमाकोटयेत्।
स्फिजौ वोपसंगृह्य सुपीडितं निपीडयेत्।
वेण्याङ्गुल्या वा केशवेष्टितया च कण्ठतालू परामृशेत्॥

अस3.29
भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत्।
भूर्जगुग्गुलुभ्यां वा।
शालिमूलसिद्धेन वा सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत्।
अनभ्यक्तां वा कटुतैलमिश्रैः कल्कीकृतैर्वा तैलाक्तैरालिम्पेत्।
गुडनागरकल्केन वा।
तदेव वा भक्षयेत्।
लाङ्गलीमूलकल्केन वा पाणिमुदरं चालिम्पेत्।
महावृक्षक्षीरं वा मूर्धन्यनुषेचयेत्॥

अस3.30
कुष्ठतालीसकल्कं बिल्वबल्वजयूषमैरेयासवसुरामण्डान्यतमेन व्योषतीक्ष्णोष्णेन वाम्लेन कुलत्थरसेन मधुकपिप्पलीसम्पाकेन वा पाययेत्।
पिप्पल्येलाकोलविबिडचव्यचित्रकोपकुञ्चिकाकल्कं वा।
खरस्य वृषभस्य वा जीवतो दक्षिणं कर्णमुद्धृत्य बिल्वकुलत्थबल्वजयूषादीनामाप्लावनानामन्यतमे प्रक्षिप्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनं पाययेत्॥

अस3.31
कुष्ठैलाकल्कं वा सुरया।
अर्कालर्ककषायं वा प्रजातां सुरोन्मिश्रम्।
कुष्ठलाङ्गलिकीमूलककल्कं वा मद्यमूत्रान्यतमेन।
वत्सकादिचूर्णं वा मद्येन।
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्।
ततश्चैनामनुवासनकालेऽनुवासयेत्॥

अस3.32
बिल्वबल्बजयूषाद्याप्लावनैश्च फलजीमूतकेक्ष्वाकुधामार्गवकुटजार्ककृतवेधनहस्तिपर्ण्यभीरूपहितैरास्थापयेत्।
सिद्धार्थककुष्ठलाङ्गलिकीमहावृक्षक्षीरमिश्रेण वा सुरामण्डेन।
शाल्मलीवृन्तानि वा स्विन्नान्यापोथ्य पञ्चमूलकषाये विमर्दयेत्।
तेन च पूतेन स्नेहवता फलादियुक्तेन॥

अस3.33
यथोक्तास्थापनद्रव्यसिद्धेन कटुतैलोत्तरबस्तिं दद्यात्।
शिग्रुसुमुखमरिचाजाजीचित्रककल्कक्षीरगोमूत्रसिद्धेन वा कटुतैलेनानुवासयेत्।
उमाशाल्मलीपिच्छया वा सघृतया योनिं पूरयित्वा विधुनुयात्।
स्निग्धेन वा कृत्तनखेन पाणिना नालानुसारतोऽपहरेत्॥

अस3.34
प्रजातायां चेद्बस्तिमूर्धोदरेषु शूलं मक्कलाख्यं स्यात्तत्र यवक्षारचूर्णं सर्पिषा सुखोष्णोदकेन वा पिबेत्।
वरणादिं वा सपञ्चकोलमेलाप्रतीवापम्॥

अस3.35
अथवा वीरतरादिमूषरादिप्रतीवापम्।
लवणचूर्णं वा वत्सकादिनिर्यूहेण।
वत्सकादिं वा मदिरया।
अंशुमतीद्वयक्वाथेन वा मरिचभद्रदारुकल्कम्।
भार्ङ्गीनागरदेवदारुकल्कं वोष्णाम्भसा।
पुराणगुडं वा त्रिकटुत्रिजातकधनिकाचूर्णसंसृष्टं भक्षयेत्॥

अस3.36
तस्याश्चेत् स्वस्थानतो योनिर्भ्रश्येत्।
ततो यस्य कस्यचिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत्।
निविष्टां चाशोकरोहिणीबर्हिषोशीरप्रियङ्गुदेवदारुकल्कविपक्वेन तैलेन बहुशः स्वेदयेत् पूरयेत् ब्रूयाच्च गच्छ सुभगे स्वस्थानमिति॥

अस3.37
तद्वच्चान्यतमा स्त्री जातमात्रमेव बालं बालोपचरणीयेन विधिनोपपादयेत्।
तमुपदेक्ष्यते तूतारेषु।
अथ सूतिकां बलातैलेनाभ्यज्यात्।
बुभुक्षितां च पञ्चकोलचूर्णेन यवान्युपकुञ्चिकाचव्यचित्रकव्योषसैन्धवचूर्णेन वा युक्तामहःपरिणामिनीं यथासात्म्यं स्नेहमात्रां पाययेत्।
स्नेहायोग्यां वातहरौषधक्वाथं ह्रस्वपज्चमूलक्वाथं वा॥

अस3.38
पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं वस्त्रेण।
तथा न वायुरुदरविकृतिमुत्पादयेदयेदनवकाशत्वात्।
जीएणे तु स्नेहे पूर्वैषधैरेव सिद्धां विदार्यादिगणक्वाथेन क्षीरेण वा यवागूं सुस्विन्नां द्रवां मात्रया पाययेत्।
प्राक् स्नेहयवागूपानाभ्यां चोभयकालमुष्णोदकेन परिषेचयेत्॥

अस3.39
एवं त्रिरात्रं पञ्चरात्रं सप्तरात्रं वानुपाल्य ततो यवकोलकुलत्थयूषेण लघुना चान्नपानेन।
द्वादशरात्रात् परं जाङ्गलरसादिभिश्च क्रमादाप्याययेदग्निबलादीन्यपेक्ष्य।
क्वथितशीतं च तोयं पाययेत्।
तथा जीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोद्वर्तनपरिषेकावगाहैरन्नपानैश्च हृद्यैरुपाचरेत्।
एवं हि गर्भवृद्धिक्षपितशिथिलसर्वशरीरधातुप्रवाहणवेदनाक्लेदरक्तनिस्स्रुतिविशेषशून्यशरीराच्च पुअर्नवीभवति॥

अस3.40
अत एव च सूतिकाया व्याधिः कृच्छ्रसाध्यो भवत्यसाध्यो वा।
तस्मात्तां यथोक्तेन विधिना प्रयत्नेनोपचरेत्।
एवं साध्यर्धमासमुपसंस्कृता क्रमेण विमुक्ताहारविहारयन्त्रणा विगतसूतिकाभिघाना स्यात् पुनरार्तवदर्शनादित्येके॥

अस3.41
इत्याद्यं मासमादाय यावद्गर्भक्षमा पुनः।
स्त्री स्यात्तावद्विधिः सर्वः सर्वथा साधु दर्शितः॥


अथ चतुर्थोऽध्यायः।

अस4.1
अथातो गर्भव्यापदं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस4.2
स्त्री चेदापन्नगर्भा परिहार्याण्यासेवेत।
ततश्च यस्या बस्तिपार्श्वश्रोणियोनिमुखेषु शूलं पुष्पदर्शनं च स्यात्।
तां मृदुसुखशिशिरास्तरणशयनस्थामीषदवनतशिरसं शीतप्रदेहपरिषेकादिभिरुपाचरेत्॥

अस4.3
तद्यथा।
सहस्रधौतेन सर्पिषाधोनाभेः सर्वतः प्रदिह्यात्।
मधुकसिद्धसर्पिषा सुशीतेन पिचुमाप्लाव्य योनिसमीपे स्थापयेत्।
गव्येन पयसा मधुकाम्बुना न्यग्रोधादिकषायेण वा परिषेचयेत्।
परिपीततत्स्वरसानि च तैलानि योनौ निधापयेत्।
तच्छृङ्गसिद्धस्य वा क्षीरसर्पिषः पिचुम्॥

अस4.4
अतिस्रवति तु रक्ते तत एवाक्षमात्रं प्राशयेत्।
केवलादेव वा क्षीरसर्पिषः।
पद्मोत्पलकुमुदकिञ्जल्कं च समधुशर्करं लेहयेत्॥

अस4.5
धातकीगैरिकसर्जरसाञ्जनचूर्णं वा मधुना।
न्यग्रोधादित्वक्प्रवालकल्कं वा।
शशैणहरिणरुधिरं वा सक्षौद्रं पाययेत्।
ऋद्धिविदारीजीवन्तीर्वा पयसा।
नीलोत्पलसितापक्वलोष्टचन्दनादि वा तण्डुलशालूकोदुम्बरशलाटुन्यग्रोधशृङ्गानि वा++आजेन पयसा॥

अस4.6
कशेरुकमृणालकशृङ्गाटककाश्मर्यपरूषकद्राक्षासारिवाप्रपौण्डरीकानन्तोत्पलकदम्बबीजक्वाथेन वा शर्करामधुमधुरेण शालिचूर्णम्।
जीवनीयशृतं वा क्षीरम्।
बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन पयसा समधुशर्करेण रक्तशाल्योदनं सुशीतं भोजयेत्।
शीतवीर्यजाङ्गलरसेन वा।
रक्तपित्तक्रियाश्च शोधनवर्ज्याः प्रयुञ्जीत।
सौम्याश्च मनोऽनुकूलाः कथाः॥

अस4.7
अदृष्टशोणितां तु मधुकपयस्यासुरदारुभिः सिद्धं पयः पाययेत्।
ताम्रवल्यश्मन्तकशतावरीपयस्याभिर्वा।
विदार्यादिगणेन वा।
श्वदंष्ट्रास्वरसक्षीरसिद्धं वा सर्पिः।
पलाण्डुरससिद्धं वा सक्षौद्रम्॥

अस4.8
असम्पूर्णत्रिमासायास्तु पुष्पदर्शने गर्भः प्रायो न तिष्ठत्यसञ्जातसारत्वात्॥

अस4.9
आमान्वये चोर्ध्वमपि विरुद्धोपक्रमत्वात्।
तत्र रूक्षशीतानि प्रयुञ्जीत॥

अस4.10
तद्यथा।
प्रागुपवासं ततो दुरालभामृतोशीरपर्पटकघनचन्दनातिविषाबलाकट्वङ्गधान्याकक्वाथपानम्।
तृणधान्यशालिषष्टिकपेयामशनं च मुद्गादियूषैः।
जिते त्वामे स्निग्धशीतानि पूर्ववत्॥

अस4.11
आमगर्भे तु पतिते मद्यानामन्यतमं सामर्थ्यतः पाययेत्।
गर्भकोष्ठविशुध्यर्थमार्तिविस्मरणार्थं च।
अमद्यपां पाचनीयद्रव्योपहिताभिः स्नेहलवणवर्ज्याभिः सतिलाभिरुद्दालकादियवागूभिरुपाचरेद्यावन्तो मासास्तावन्त्यहानीति॥

अस4.12
ततः प्रीणनैर्बलानुरक्षिभिरस्नेहैराहारैरादोषधातुक्लेदशुद्धेः।
आमगर्भशेषेण हि पुनःपुनरकुशलमनुषज्येत।
तस्मात्तीक्ष्णैरनवशेषयन्नुपाचरेत्।
ततः परं स्नेहपानैर्बस्तिभिराहारैश्च दीपनीयपाचनीयजीवनीयबृंहणीयमधुरवातहरैरिति॥

अस4.13
यस्याः पुनर्महति जातसारे गर्भे वर्ज्यानामवर्जनात् पुष्पदर्शनं स्यादन्यद्वा योनिस्रवणम्।
तस्यास्तन्निमित्तं वायुः प्रकुपितः पित्तश्लेष्माणौ परिगृह्य गर्भस्य रसवहां नाडीं प्रतिपीड्यावतिष्ठते।
ततो नाड्यां दोषैः कुल्यायामिव तृणपत्रादिभिः प्रतिच्छन्नायां रसस्यासम्यग्वहनाद्गर्भो वृद्धिमनाप्नुवन्नुपविशत्युपशुष्यति वा॥

अस4.14
तत्र यस्याः कादाचित्कार्तवपरिस्रावावल्पौ च दृश्येते सततं च गर्भः प्राप्तात्परिमाणादपरिहीयमान एव स्फुरति।
न च कुक्षिर्विवर्धते।
तमुपविष्टकमित्याचक्षते।
यदा तु प्रतिमासमार्तवं प्रत्यहं वा परिस्रवणं नात्यल्पं च तथा परिहीयमाणो गर्भश्चिरात् किञ्चित् स्पन्दते।
कुक्षिश्च वृद्धोऽपि परिहीयते।
तदुपशुष्ककं नागोदरं च॥

अस4.15
तौ तु मातुराहारतेजसाल्पेनाप्याय्यमानौ यदा पुष्टौ स्यातां केशदशनादियुक्तौ।
तदा वर्षगणैरपि प्रमदा प्रसूयत एव॥

अस4.16
तत्र वातेनोपविष्टकोपशुष्ककयोर्वायुः प्रतिहन्यते सशब्दं फेनिलं विच्छिन्नं शकृदुपवेश्यते मूत्रमुपरुध्यते कटीपृष्ठहृदयेषु वेदना जृम्भा निद्रानाशोऽभीक्ष्णं प्रतिश्यायः शुष्ककासः सादः क्ष्वेडेते इव कर्णौ तुद्येते इव शङ्खौ पिपीलिकाभिरिव संसृज्यते शरीरं परिकृन्तन्निव वायुर्भ्रमति कुक्षौ तम इव प्रवेश्यते दुःखेनान्नस्य जरणमहरहः परिहानिः स्फुटितविवर्णपरुषत्वक्त्वं च भवति॥

अस4.17
पित्तेन ताम्रहरितमुपवेश्यते धूमकोऽम्लकश्छर्दिर्मूर्छा कुक्षिहृदयदाहः पीतरक्तगोमूत्राभनेत्रमूत्रनखत्वक्त्वं काली दुर्बला नित्यशूना च नारी भवति॥

अस4.18
श्लेष्मणा मधुरास्यत्वमुत्क्लेशः श्लेष्मोद्वमनं भक्तद्वेषः श्वेतहस्तपादनेत्रता कासः श्वासश्च॥

अस4.19
तयोर्जीवनीयबृंहणीयमधुरौषधसिद्धानां संपिषामुपयोगः।
तथा पयसां रसानामामगर्भाणां च गर्भवृद्धिकरः।
तथा सम्भोजनमेतैरेव च घृतादिभिः।
सुभिक्षाया अभीक्ष्णं यानवाहनापवर्जनबृंहणैरुपपादनम्॥

अस4.20
अथ विशेषेण वाते पूर्वमेव सैन्धबोपहितं क्षीरबस्तिं दत्वा शीतोदकस्नातां मृदु शाल्योदनं भोजयेत्।
ततो विदार्यादिगणसाधितेन संषिषानुवासयेत्।
निवातं च सेवेत।
पित्ते मधुकविदारीनिर्यूहसिद्धं पयः पिबेत्।
तिस्रः स्थूलकुक्कुटीर्निस्तुषमाषाढकं च क्षीरोदकेनोलूखले सङ्क्षुद्य तद्रसेन सर्पिषा च तित्तिरिकपिञ्जलान्यतररसं साघयित्वा पाययेदुपविष्टकविवर्धनार्थमुपशुष्ककबृंहणार्थं च।
अजासंपिषा क्षीरेण जीवनीयैश्च संस्कृतां यवागूं पिबेत्॥

अस4.21
पयस्याकाकोलीद्वयसुनिषण्णककल्केन पयसा च सर्पिर्विपाचयेत्।
तत् काल्यं क्षीरानुपानमुपयुञ्जीत।
आमगर्भरसेन चाश्नीयात्।
तानेव च तत्र भृष्टान् भक्षयेत्।
जलचरमांसानि च।
कफे त्वानूपौदकपिशितोपदंशामच्छसुरां त्रिरात्रं पञ्चरात्रं सप्तरात्रं वा पिबेत्॥

अस4.22
तिलमुद्गमाषलवणाबिल्वपात्रैः पञ्चभिर्घृतपात्रं संयोज्य स्वनुगुप्तं निधापयेत्।
ततः प्रातः पिण्डं बिल्वमात्रं शृतशीतच्छागदुग्धानुपानं वाश्नीयात्।
अत्रैव वा बदरचूर्णपात्रमपि निदध्यात्।
एवमवृद्धौ तीक्ष्णैर्विरेचयेदपरापातनीयैश्च पातयेत्॥

अस4.23
यस्याः पुनर्वातोपसृष्टस्रोतसि लीनो गर्भः प्रसुप्तो न स्पन्दते तं लीनमित्याहुः।
तत्र श्येनोत्क्रोशगोमत्स्यगोधाशिखिकुक्कुटतित्तिरीणामन्यतमस्य रसेन भूरिसर्पिष्केण माषयूषेण वा घृताढ्येन रक्तशाल्योदनं भोजयेत्।
सक्तून्वा तिलमाषबिल्वशलाटुयुक्तान् पयसा पाययेत्।
मेद्यमांसोपदंशं वा मार्द्वीकम्।
तैलेन चाभीक्ष्णमुदरवङ्क्षणोरुकटीपार्श्वपृष्ठान्यभ्यज्यात्।
मुहुर्मुहुश्चैनां हर्षयेत्।
पूर्वोक्तं चेक्षेत।
यस्याः पुनरुदावर्तविबन्धः स्यात्तां वातहरस्निग्धान्नपानैरुपाचरेत्॥

अस4.24
अष्टमे तु मासे मधुकसिद्धेन तैलेनानुवासयेत्।
तदसिद्धौ वीरणशालिकुशकाशेक्षुबालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधूकमधुकमृद्वीकानां च पयसार्धोदकेनोद्गृह्य रसं तेन प्रियालबिभीतकमज्जतिलकल्कयुक्तेनेषल्लवणोष्णेन निरूहयेत्।
विगतविबन्धां च स्नाताशितां सायं तेनैव तैलेनानुवासयेत्॥

अस4.25
उदावर्तो हि समुपेक्षितः सहसा सगर्भां गर्भिणीमतिपातयेत्॥

अस4.26
यस्याः पुनरतिमात्रदोषोपचयाद्यथोक्तैर्वा व्यवायादिभिरन्यैर्वा व्याधिभिः पूर्वोपचितेन वा जनन्यपत्ययोः कर्मणा बन्धनान्मुच्यते गर्भः फलमिव वृन्तात् स मुक्तबन्धनो गर्भशय्यामतिक्रम्य यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसङ्क्षोभमापादयति।
ततः कोष्ठसङ्क्षोभाद्वायुरपानो मूढः कुक्षिबस्तिपार्श्वोदरयोनिशूलानाहविण्मूत्रसङ्गानापाद्य गर्भं च्यावयति तरुणं शोणितभावेन।
सोऽभिहितः प्राक्॥

अस4.27
विवृद्धे तु गर्भे स्तब्धं स्तिमितं शीतमश्मगर्भमिवोदरमाभाति।
शूलमधिकमुपजायते न च स्पन्दते गर्भो नाव्यः प्रादुर्भवन्ति न स्रवति योनिरक्षिणी चास्याः स्रंस्येते तथा भृशमरतिपरीता व्यथतेऽन्यथा चेष्टते ताम्यति भ्राम्यति रोदित्यहर्निशं न स्वपिति पूत्युच्छवासा कृच्छ्राच्छ्रवसित्यतिकष्टं प्राणिति जक्षितीत्येवंविधां स्त्रियं मृतगर्भां विद्यात्॥

अस4.28
तं तु गर्भं कदाचिदसम्यगपत्यपथमनेकधा प्रतिपन्नं विगुणेनेव वायुना षीडितं मोहितं च मूढ गर्भमित्याहुः।
विगुणानिलप्रतिपीडनवैचित्र्यादसङ्ख्यगतिं च॥

अस4.29
समासतस्तु त्रिविधा ग....र्ध्व।
तिर्यङ् न्युब्जा च।
संस्थानानि षुनरष्टौ।
तान्यत्रैवोत्तरत्र वक्ष्यन्ते॥

अस4.30
तेषु संवेष्वपि विपरीतेन्द्रियार्थामाक्षेपयोनि भ्रंशसंवरणमक्कलश्वासभ्रमाभिपन्नां शीतगात्रां पूत्युद्गारां च वर्जयेत्॥

अस4.31
न तु क्षणमप्युपेक्षेत गर्भशल्यम्।
तद्धि निरुच्छ्वासीकृत्याशु जननीं हन्यात्॥

अस4.32
सचेतनश्च गर्भः शस्त्रेण विदार्यमाणो विषममङ्गानि विक्षिपेत्॥

अस4.33
तस्मात्तत्सङ्गे सूत्यः प्रयतेरन् पूर्वोक्तानि च मन्त्रौषधानि प्रयुञ्जीत।
त्रिविधस्तु सङ्गो भवति।
शिरस्यंसे जघने वा॥

अस4.34
मूढगर्भस्य तु जरायुपातनसामान्यं कर्मेत्येके।
मन्त्रादिकर्माथर्ववेदविहितमित्येके।
दृष्टकर्मणा शल्यहर्त्रा शल्याहरणमित्येके॥

अस4.35
न त्वतः कष्टतममस्ति शस्त्रकर्म।
यतो योनियकृत्प्लीहान्त्रगर्भशयादीनां मध्ये ताननुपहिंसता स्पर्शवता शस्त्रमवचार्यमुत्कर्षणव्यावर्तमोत्कर्तच्छेदनभेदनपीडनर्जूकरणानि चैकेन पाणिना कार्याणि॥

अस4.36
तस्मादीश्वरमापृच्छ्य परं च यत्नमास्थाय तद्विद्यसहितस्तमुपक्रमेत्।
अक्रियायां ध्रुवं मरणम्।
उपक्रमे संशयः।
तथोदराश्मरीप्रभृतीनपि॥

अस4.37
अथोत्तानाया व्याभुग्नसक्थ्या वस्त्रचुम्बलोन्नमितकटिप्रदेशायाश्च धन्वनागवृन्तिकाशाल्मलीपिच्छाघृतैरभ्यज्य हस्तं योनिं च गर्भमाहरेत्॥

अस4.38
तत्र सक्थिभ्यामागतस्यानुलोममाञ्छनमेव।
एकसक्थिप्रपन्नस्येतरं सक्थिः प्रसार्य।
स्फिग्देशागतस्य स्फिग्देशं प्रतिषिध्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्य।
तिर्यगागतस्य परिघस्येवापरार्धमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीय।
पार्श्वापवृत्तशिरसोऽसं प्रतिपीड्योर्ध्वमुत्क्षिप्य शिरोपत्यपथमानीय।
बाहुद्वयप्रपन्नस्योर्ध्वमुत्पीड्यासौ शिरोमूअमानीय॥

अस4.39
यस्त्वाभुग्नमध्यः पाणिपादशिरोभिर्योनिं प्रतिपद्यते।
यश्चाभुग्न एवैकेन पादेन योनिं द्वितीयेन पायुम्।
तौ मूढौ हस्तेनाहर्तुमशक्याविति शस्त्रमवचारयेत्॥

अस4.40
अथ स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलिशस्त्रेण वा विदार्य शिरः कपालान्याहृत्य गर्भशङ्कुना गृहीत्वा चिबुके तालुन्युरसि कक्ष्यायां वापहरेत्।
अभिन्नशिरसं चाक्षिकूटे वा।
तथांससक्तस्यांसदेशे बाहुं छित्वा दृतेरिवाध्मातस्य वातपूर्णमुदरमवदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्।
जघनसक्तस्य जघनकपालानि दारयित्वेति॥

अस4.41
अपि च यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य खण्डशः।
तत्तच्छित्वा हरेत्सम्यग्रक्षन्नारीं च यत्नतः॥

अस4.42
अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक्।
एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा॥

अस4.43
दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः।
योनिर्मृदुर्भवेत्तेन शूलं चास्याः प्रशाम्यति॥

अस4.44
दीप्यकातिविषारास्नाहिङ्ग्वेलापञ्चकोलकात्।
चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत्ततः॥

अस4.45
कटुकातिविषापाठाशाकत्वग्धिङ्गुतैजनीः।
तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च॥

अस4.46
त्रिरात्रमेवं सप्ताहं स्नेहमेव ततः पिबेत्।
सायं पिबेदरिष्टं च तथा सुकृतमासवम्॥

अस4.47
शिरीषककुभक्वाथपिचून्योनौ च निक्षिपेत्॥

अस4.48
उपद्रवाश्च येऽन्ये स्युस्तान्यथास्वमुपाचरेत्।
पयो वातहरैः सिद्धं दशाहं भोजने हितम्॥

अस4.49
रसो दशाहं च परं लघुपथ्याल्पभोजना॥

अस4.50
स्नेहाभ्यङ्गपरा स्नेहान बलातैलादिकान् भजेत्।
ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च॥

अस4.51
अथ बलातैलमुपदेक्ष्यामः।
बलामूलकषायस्य भागाः षट् तावन्त एव पयसो यवकोलकुलत्थदशमूलकषायस्य भागो भागश्चतुर्दशस्तैलस्य तत्सर्वमैकध्यं कृत्वा श्लक्ष्णपिष्टानि चावाप्य काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णी मोदामहामेदाक्षीरशुक्लामधुकदेवदारुमञ्जिष्ठाचन्दनसारिवातगरकुष्ठशतावर्यश्वगन्धापुनर्नवाशतपुष्पावरापत्ररससरलशैलेयैलावचागरुकालानुसारीसैन्धवानि शनैर्मृद्वग्निना साधयित्वा सुभाजनेऽनुगुप्तं निदध्यादेष भगवतो धन्वन्तरेरभिमतस्तैलराजो राज्ञां राजमात्राणां सूतिकानां कृशानां शिशूनामतीतवयसां सुकुमाराणां शूलिनां महाग्रहगृहीतानां दीर्घरोगक्षपितवपुषां मर्मविद्धपतिताभिहतभग्नविश्लिष्टदेहानां दैवोपघाताभिशप्तमनोज्वरपरीतानां पाननावनाभ्यङ्गबस्तिषु प्रयोज्यः।
तेन बलपौरुषस्मृतिमतिमेधाग्निवीर्यौजांसि विवर्धन्ते पक्षाघाताक्षेपकार्दितादिविविधवातविकारगुल्महिक्काश्वासकासा निवर्तन्ते।
अहरहश्चोपयुज्यमाने षण्मासादान्त्रवृद्धिः प्रशाम्यति च वन्ध्या च पुत्रं गुणवन्तमिच्छया लभत इति।
भवन्ति चात्र॥

अस4.52
बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि।
जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम्॥

अस4.53
मधुकं शाकबीजं च पयस्या सुरदारु च।
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी॥

अस4.54
वृक्षादनी पयस्या च लता चोत्पलसारिबा।
अनन्ता सारिवा रास्ना पद्मा च मधुयष्टिका॥

अस4.55
बृहतीद्वयकाश्मर्यक्षीरिशृङ्गत्वचो घृतम्।
पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका॥

अस4.56
शृङ्गाटकं बिसं द्राक्षा कशेरुमधुकं बला।
सप्तैतान् पयसा योगानर्धश्लोकसमापनान्॥

अस4.57
क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत्।
कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकात्॥

अस4.58
मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाष्टमे।
नममे सारिवानन्तापयस्यामधुयष्टिभिः॥

अस4.59
योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया।
अथवा यष्टिमधुकनागरामरदारुभिः॥


अथ पञ्चमोऽध्यायः।

अस5.1
अथातोऽङ्गविभागं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस5.2
सकलमपि शरीरमङ्गमित्युच्यते तत्र पुनः षडङ्गं शिरोन्तराधिर्द्वौ बाहू सक्थिनी च नेत्रनाभिपाणिपादादीनि त्वस्य प्रत्यङ्गानि॥

अस5.3
महागुणमयेभ्यश्च खपवनतेजोजलभूम्याख्येभ्यो महाभूतेभ्यश्चेतनाधिष्ठितेभ्योऽभिनिर्वृत्तिरङ्गस्य॥

अस5.4
भूतानामेव च दृष्टादृष्टविविधकर्मवशादनेकरूपात्सन्निवेशविशेषादाकृतिप्रमाणस्नेहदीप्तिस्वरादीनां सारूप्यमसारूप्यं वा सूक्ष्मस्थूलतारतम्यभेदभिन्नमतिबहुप्रकारं निष्पद्यते॥

अस5.5
तत्र सत्त्वबहुलमाकाशम्।
रजोबहुलो वायुः।
उभयबहुलोऽग्निः।
सत्त्वतमोबहुलमम्बु।
तमोबहुला भूः।
तेषामप्रतिघातश्चलत्वमौष्ण्यं द्रवता काठिन्यमिति क्रमाल्लिङ्गानि।
विशेषतश्च श्रोत्रादिष्विन्द्रियेष्ववस्थानम्।
शब्दस्पर्शरूपरसगन्धैरेकैकप्रवृद्धैरन्वयः॥

अस5.6
तत्राकाशजानि श्रोत्रं शब्दः सर्वस्रोतांसि विविक्ता च।
वायवीयानि स्पर्शनं स्पर्शः प्रश्वासोच्छ्वासादिपरिस्पन्दनानि लाघवं च।
आग्नेयानि दर्शनं रूपं पित्तमूष्मा पक्तिः सन्तापो मेधा वर्णो भास्तेजः शौर्यं च।
आम्भसानि रसनं रसः स्वेदक्लेदवसारसासृक्शुक्रमूत्रादिद्रवसमूहः शैत्यं स्नेहश्च।
पार्थिवानि घ्राणं गन्धः केशनखास्थ्यादिमूर्तसमूहो धैर्यं स्थैर्यं च॥

अस5.7
तेषु मातृजानि मृदूनि त्वग्रक्तमांसमेदोमज्जनाभिहृदयामाशयगर्भशययकृत्प्लीहाक्लोमान्त्रगुदादीनि॥

अस5.8
पितृजानि स्थिराणि केशनखास्थिशुक्रसिरास्नाय्वादीनि॥

अस5.9
आत्मजानि नानायोनिषूत्पत्तिर्मनश्चेतनेन्द्रियाणि प्राणापानौ धारणमाकृतिस्वरवर्णविशेषाः कामक्रोधलोभभयहर्षधर्मार्धमशीलतास्मृतिबुद्धीच्छाद्वेषप्रयत्नाहङ्कारसुखदुःखायुरात्मज्ञानानि च॥

अस5.10
सात्म्यजान्यायुरारोग्यमनालस्यलोलुपत्वमिन्द्रियप्रसादस्वरवर्णौजःसम्पत्प्रशस्तता प्रहर्षभूयस्त्वं मेधाबलं च॥

अस5.11
रसजानि कृत्स्नस्य देहस्य सम्भवो वृत्तिर्वृद्धिस्तृप्तिरलौल्यं पुष्टिरुत्साहश्च॥

अस5.12
शुद्धसत्त्वजानि शौचमास्तिकत्वं कृत्ज्ञता दाक्षिण्यं व्यवसायः शौर्यं गाम्भीर्यं बुद्धिर्मेधा स्मृतिः शुक्लवर्त्मरुचिर्भाक्तिराभिषङ्गाभावस्तमोगुणविपर्ययश्च॥

अस5.13
राजसानि दुरुपचारताऽनार्यं शौर्यं मात्सर्यममितभाषित्वमहङ्कारो लोलुपत्वं दम्भो मानः क्रोधो हर्षः कामश्च॥

अस5.14
तामसान्यज्ञानं विषादः प्रमादो निद्रालस्यं क्षुत्तृष्णा शोको मात्सर्यं विप्रतिपत्तिः परातिसन्धानं सत्त्वगुणवैपरीत्यं च॥

अस5.15
तत्र सत्त्वं मनस्तस्योषप्लवो रजस्तमश्चेत्येवं भूतात्मकं देहमाहुः॥

अस5.16
तस्य पुनः प्रविभागः।
त्वचः कला दोषा धातवो मला बुद्धीन्द्रियाणि तदधिष्ठितानि कर्मेन्द्रियाण्यतीन्द्रियमाशयाः प्राणायतनानि कण्डराजालानि कूर्चारज्जवस्सीवन्योऽस्थिसङ्घाताःसीमन्ता अस्थीन्यस्थिसन्धयः स्नायूनि पेश्यस्सिराधमन्यस्स्रोतांस्यूष्माणो मर्माणि केशश्मश्नुलोमानि प्रकृतिविकृतिभेदाश्च।
तत्रासृजः पच्यमानस्य क्षीरस्येव सन्तानिकाः षट् त्वचो भवन्ति।
त्वक्प्रसादाद्रक्तस्य प्रसादः॥

अस5.17
तासामुदकधरा चाद्या।
द्वितीयाऽसृग्धरा।
तृतीया सिध्मकिलासाधिष्ठाना।
चतुर्थी सर्वकुष्ठाधिष्ठाना।
पञ्चमी पुनरलजीविद्रध्यधिष्ठाना।
षष्ठी तु प्राणधरा।
यस्यां छिन्नायां ताम्यत्यन्धमिव च तमः प्रविशति यां चाधिष्ठायारूपंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि॥

अस5.18
अन्ये सप्त त्वचो वदन्ति।
तत्र प्रथमा भासिनी नाम या वर्णानामवभासिनी खादीनाञ्च षञ्चानां छायानां सा व्रीहेरष्टादशभागप्रमाणा।
द्वितीया लोहिनी नाम षोडशभागप्रमाणा।
तृतीया श्वेता नाम द्वादशभागप्रमाणा।
चतुर्थी ताम्रा नामाष्टभागप्रमाणा।
पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा।
षष्ठी रोहिणी नाम व्रीहिप्रमाणा।
सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा॥

अस5.19
यस्तु धात्वाशयान्तरेषु क्लेदोऽवतिष्ठते स यथास्वमूष्मभिर्विपक्वः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुसारशेषो रसशेषोल्पत्वात् कलासंज्ञः।
ता धात्वाशयान्तरमर्यादाः सप्त कलाः॥

अस5.20
तासां प्रथमा मांसधरा नाम यस्यां मांसे सिरास्नायुधमनीस्रोतसां भूमाविव पङ्कोदकेन बिसमृणालानां प्रतानानि भवन्ति॥

अस5.21
द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिराप्लीहयकृत्सु भवति।
मांसाच्च क्षतात् क्षतजं वृक्षादिव क्षीरिणः क्षीरं प्रवर्तते॥

अस5.22
तृतीया मेदोधरा नाम।
मेदो हि तस्यामुदरेऽण्वस्थिषु च सरक्तं भवति।
तदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्काख्यं मस्तुलुङ्गाख्यं च स्थूलास्थिषु च मज्जा।
चतुर्थी श्लेष्मधरा नाम।
तत्स्थेन हि श्लेष्मणा श्लेषिताः सर्वसन्धयो दृढा भवन्ति सोपाङ्गा इवाक्षाः।
पञ्चमी पुरीषधरा नाम।
सा ह्यत्रामपक्वाशयाश्रिता कोष्ठान्तरुण्डुकस्थं मलं विभजति॥

अस5.23
षष्ठी पित्तधरा नाम पक्वामाशयमध्यस्था।
सा ह्यन्तरग्नेराधिष्ठानतयामाशयात् पक्वाशयोन्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयति पचति पक्वं च विमुञ्चति। दोषाधिष्ठिता तु दौर्बल्यादाममेव।
ततोऽसावन्नस्य ग्रहणात् पुनर्ग्रहणीसंज्ञा।
बलं च तस्याः पित्तमेवाग्न्यभिधानमतः साग्निनोपस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्तयति॥

अस5.24
सप्तमी शुक्रधरा नाम द्व्यङ्गुले दक्षिणे पार्ण्वे बस्तिद्वारस्याधो मूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्तयति॥

अस5.25
दोषा धातवो मलाश्च प्रागुदिताः।
पञ्च बुद्धीन्द्रियाणि श्रोत्रं स्पर्शनं दर्शनं रसनं घ्राणं च।
तेषां सभागतया क्रमाद्विषयाः शब्दस्पर्शरूपरसगन्धाः।
पञ्चबुद्धीन्द्रियाधिष्ठानानि कर्णौ त्वगक्षिणी जिह्वा नासिके च॥

अस5.26
पञ्च कर्मेन्दिर्याणि वाक्पायूपस्थपाणिपादसंज्ञकानि।
तान्यपि च वचनोत्सर्गहर्षादानगमनार्थानि॥

अस5.27
अतीन्द्रियं तु मनः सर्वार्थैरन्वयात् तद्योगेन पञ्चेन्द्रियाणामर्थप्रवृत्तेः बुद्धिकर्मेन्द्रियोभयात्मकत्वाच्च॥

अस5.28
सप्ताशयः क्रमादसृक्कफामपित्तपक्ववायुमूत्राधाराः स्त्रीणां पित्तपक्वाशययोर्मध्ये गर्भाशयोऽष्टमः।
तेषु सप्तसु प्रतिबद्धानि कोष्ठाङ्गानि हृदययकृत्प्लीहफुफ्फुसोण्डुकवृक्कान्त्रादीनि।
तत्र समानेनाध्मायमानस्य देहोष्मणा पच्यमानस्य शोणितस्याच्छतो जायते यकृत् प्लीहा च।
रक्तफेनात् फुफ्फुसम्।
रक्तकिट्टादुण्डुकः।
रक्तमेदःप्रसादाद् वृक्कौ।
रक्तमांसप्रसादादान्त्राणि।
तानि सार्धत्रिव्यामानि पुंसाम्।
त्रिव्यामानि स्रीणाम्।
रक्तस्यानिलयोगात् कालीयम्।
हृदयं पुनः श्लेष्मरक्तप्रसादात् सम्भवति पद्मकोशसङ्काशं सुषिरमधोमुखम्।
तद्विशेषेण चेतनायाः स्थानं सर्वभावानां च चेतनानुगतानाम्।
तस्य वामपार्ण्वे प्लीहा फुफ्फुसश्च दक्षिणतो यकृत् क्लोम च॥

अस5.29
तथा कफरक्तवाहिनां स्रोतसां महाभूतानां च प्रसादादिन्द्रियाणि।
तेष्वपि च नेत्रे श्लेष्मणः प्रसादाच्छुक्लमण्डलं तत् पितृजम्।
असृजः कृष्णमण्डलं तन्मातृजम्।
मध्ये दृष्टिमण्डलं तदुभयात्मकम्॥

अस5.30
पक्ष्मवत्मर्शुक्लकृष्णदृष्ट्याख्यानि पञ्च मण्डलानि।
तत्सन्धयश्चत्वारः।
द्वौ चापाङ्गकनीनयोः इति ते षट्।
षट् च पटलानि।
द्वे वर्त्मनी।
बाह्यं चाश्रितमग्न्यम्भसी।
द्वितीयं मांसं तृतीयं मेदश्चतुर्थमस्थि।
तेषां बहलता दृष्टेः पञ्चमांशेन॥

अस5.31
बन्धनगुणास्तु चत्वारः सिराकण्डरामेदःकफात्मकाः।
श्लेष्मा तु परं सर्वसन्धिबन्धनमित्युक्तं प्राक्।
नेत्राश्रितं तु तेजो बाह्यतेजसा स्वयोनिना योगाच्छस्त्रमिवाश्मना कर्मण्यं भवति।
अतियोगादुपहन्यते।
तच्च वैद्युतवद् बडवामुखवच्चाम्भोमध्यगमपि वीर्योत्कर्षात्तेजस्त्वं न जहाति।
मांसासृक्कफप्रसादात्तु जिह्वा जायते।
मांसासृक्कफमेदःप्रसादाद् वृषणाविति॥

अस5.32
दश प्राणायतनानि मूर्धा जिह्वाबन्धनं कण्ठो हृदयं नाभिर्बस्तिर्गुदः शुक्रमोजो रक्तं च।
तेषामाद्यानि सप्त पुनर्महामर्मसंज्ञानि॥

अस5.33
षोडश कण्डराः।
तासां द्वे द्वे करचरणेषु।
चतस्रः पृथग्ग्रीवापृष्ठयोः॥

अस5.34
षोडश जालानि तेषां मांससिरास्नाय्वस्थिजानि चत्वार्येकैकत्र गुल्फे मणिबन्धे च प्रस्परगवाक्षितानि तानि स्थितानि॥

अस5.35
षट् कूर्चा हस्तपादग्रीवामेढ्रेषु॥

अस5.36
चतस्रो मांसरज्जवः पृष्ठवंशमुभयतः पेशीनिबन्धनार्यं तासां द्वे बाह्ये।
द्वे चाभ्यन्तरस्थिते॥

अस5.37
सप्त सीवन्यः।
ताः पञ्च शिरसि जिह्वामेहनयोरेकैका।
परिहार्याश्च शस्त्रेण॥

अस5.38
चतुर्दशास्थिसङ्घाताः।
तेषामेकैको गुल्फजानुवङ्क्षणमणिबन्धकूर्परकक्ष्यासु त्रिकशिरसोश्च॥

अस5.39
तद्वत् सीमन्ताः।
ते तु पञ्च शिरसीत्यष्टादश॥

अस5.40
त्रीणि षष्ट्यधिकान्यस्थिशतानि।
तेषां च चत्वारिंशच्छतं शाखासु।
सविंशं शतमन्तराधौ।
शतमूर्ध्वमिति।
तत्रैकैकस्मिन् सक्थ्नि पञ्च पादनखाः प्रत्येकमङ्ग्ल्यां त्रीण्यस्थीनि तानि पञ्चदश।
पञ्चपादशलाकाः।
तत्प्रतिबन्धकमेकम्।
द्वे द्वे कूर्चगुल्फजङ्घास्वेकैकं पार्ष्णिजानूरुषु।
सर्वाणि च नखास्थ्यादीनि सक्थिवद् बाह्वोश्च॥

अस5.41
चतुर्विंशतिः परशुकाः।
तावन्त्येव स्थालकान्यर्बुदानि च।
त्रिंशत् पृष्ठे।
अष्टावुरसि।
एकैकं भागे त्रिके।
नितम्बयोश्च द्वे।
तद्वदक्षकांसांसफलकेषु॥

अस5.42
तथा गण्डक्र्णशङ्खेषु जत्रुतालुनोश्च।
त्रयोदश ग्रीवायाम्।
चत्वारि कण्ठनाड्याम्।
द्वे हनुबन्धने।
द्वात्रिंशद्दन्ताः।
तद्वदुलूखलानि च।
त्रीणि नासायां षट् शिरसि॥

अस5.43
तानि जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणमध्यशिरस्सु कपालसंज्ञानि।
दशनास्तु रुचकाः।
घ्राणकर्णग्रीवाक्षिकोशेषु तरुणानि।
पाणिपादपार्श्वपृष्ठेषु वलयानि।
शेषाणि नलकानीति।
नामानुगताकृतीनि पञ्चविधान्यस्थीनि।
तेषु हि सिराभिः स्नायुभिश्च निबद्धानि मांसानि॥

अस5.44
दशोत्तरं शतद्वयमस्थिसन्धीनाम्।
तेषामष्टषष्टिः शाखासु।
एकोनषष्टिरन्तराधौ।
त्र्यशीतिरूर्ध्वम्।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुलौ प्रत्येकं त्रयः।
द्वावङ्गुष्ठे।
ते चतुर्दश।
एकैको गुल्फजानुवङ्क्षणेषु॥

अस5.45
त्रयः कटीकपालेषु। चतुर्विंशतिः पृष्ठवंशे।
तद्वत् पार्श्वयोः।
अष्टावुरसि॥

अस5.46
अष्टौ ग्रीवायाम्।
त्रयः कण्ठनाड्याम्।
अष्टदश कण्ठनाडीनिबद्धा हृदययकृत्क्लोमनाडीषु।
द्वात्रिंशद्दन्तमूलेषु।
एकैकः काकलनासामूर्द्धसु।
द्वौ द्वौ गण्डकर्णशङ्खवर्त्मनेत्रहनुसन्धिषु।
द्वावुपरिष्टात् भ्रुवोः।
पञ्च शिरःकपालेषु॥

अस5.47
तेऽङ्गुलिगुल्फजानुमणिबन्धकूर्परेषु कोरसंज्ञाः।
कक्षावङ्क्षणदन्तमूलेषूलूखलसंज्ञाः।
अंसपीठगुदभगनितम्बेषु सामुद्गाः।
ग्रीवापृष्ठवंशयोः प्रतराः।
शिरःकटीकपालेषु तुन्नसेवनीसंज्ञाः।
हनूभयतो वायसतुण्डाः।
कण्ठनेत्रहृदययकृत्प्लीहक्लोमनाडीषु मण्डलसंज्ञाः।
श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः।
इत्यस्थिसन्धयोऽष्टविधाः॥

अस5.48
स्नायुपेशीसिराश्रितैस्तु सहस्रद्वयं न पुनः शस्त्रप्रणिधाने तेषु वाच्यमस्तीति पृथङ् नोच्यते॥

अस5.49
नव स्नायुशतानि।
तेषां षट् शतानि शाखासु।
त्रिंशच्छतद्वयमन्तराधौ।
ऊर्ध्वं सप्ततिः।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं षट् षट्।
तानि त्रिंशत्।
दश दश पादतलकूर्चगुल्फेषु।
त्रिंशज्जङ्घायाम्।
दश जानुनि।
चत्वारिंशदूरौ।
दश वङ्क्षणे॥

अस5.50
चत्वारिंशत् कट्याम्।
विंशतिर्मुष्कमेढ्रबस्त्यन्त्रेषु।
अशीतिः पृष्ठे।
षष्टिः प्रार्श्वयोः।
अष्टादशोरसि।
चत्वार्यक्षकयोः।
अष्टावंसयोः॥

अस5.51
द्वे द्वे मन्यावटुनेत्रौष्ठतालुषु।
त्रिंशद् ग्रीवायाम्।
त्रीणि जत्रुणि।
चत्वारि हन्वोः।
पञ्च जिह्वायाम्।
द्वादशोत्तराधरेषु दन्तमांसेषु।
षण्मूर्धनि॥

अस5.52
तत्र शाखासु सन्धिषु च प्रतानवन्ति।
महास्नावानि तु वृत्तानि तानि कण्डरासंज्ञानि।
बस्त्यामपक्वाशयान्त्रेषु सुषिराणि।
पार्श्वपृष्ठोरश्शिरस्सु पृथूनि॥

अस5.53
स्नावबन्धनैर्हि सन्धिषु सुबद्धा तनुर्नौरिव सम्यगीहते।
तस्मादस्थिसिरादिभ्योऽपि तानि यत्नतो रक्षेत्।
यश्च स्नावानि बाह्यान्यभ्यन्तराणि च सम्यग् जानाति स गूढमपि शल्यमाहर्तुं समर्थो भवति॥

अस5.54
पञ्च पेशीशतानि।
तासां चत्वारि शतानि शाखासु।
षष्टिरन्तराधौ।
चत्वारिंशदूर्ध्वम्।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं तिस्रः।
ताः पञ्चदश।
दश दश प्रपदे पादतले गुल्फे च।
तथा पादस्योपरि कूर्चे सन्निविष्टाः।
विंशतिर्जङ्घायाम्।
पञ्च जानुनि।
विंशतिरूरौ॥

अस5.55
एकैका मेढ्रसेवन्योः।
द्वे वृषणयोः।
दश स्फिजोः।
तिस्रो गुदे तास्तु वलीसंज्ञाः।
द्वे बस्तिशिरसि।
चतस्र उदरे।
नाभ्यामेका।
हृद्यामाशये च।
षट् यकृत्प्लीहोण्डुकेषु।
पृष्ठे पञ्चोर्ध्वसन्निविष्टाः।
दश दीर्घाः पार्श्वयोः।
दश वक्षसि।
तिस्रोऽंसाक्षकोपरितः॥

अस5.56
दश ग्रीवायाम्।
अष्टौ गण्डयोः।
अष्टौ हन्वोः।
एकैका गलकाकलजिह्वामूर्धसु।
द्वे द्वे तालुललाटयोः।
नासौष्ठकर्णेषु च॥

अस5.57
स्त्रीणां तु विंशतिरधिका।
तत्र दश स्तनयोः।
तासां यौवने परिवृद्धिर्भवति।
दश योनौ।
तासामभ्यन्तराश्रिते द्वे।
मुखाश्रिते वृत्ते द्वे।
तिस्रो गर्भमार्गाश्रयाः।
यस्यां गर्भस्तिष्ठति।
योनिस्तु शङ्खनाभ्याकृतिस्त्र्यावर्ता।
तस्यास्तृतीय आवर्ते पित्तपक्वाशयान्तरे गर्भशय्या।
तस्यां शुक्रार्तवप्रवेशिन्यस्तिस्रः पेश्यः॥

अस5.58
ताभिर्हि शरीरे तनुबहलस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशाभिः सन्ध्यस्थिसिरास्नावानि प्रच्छादितानि॥

अस5.59
सिराधमनीमुखानां त्वणुशो विभज्यमानानामेकोनत्रिंशच्छतसहस्राणि नव च शतानि षट्पञ्चाशानि भवन्ति।
ताभिरिदं गवाक्षितं पिनद्धमाततं च॥

अस5.60
तावन्ति च केशश्मश्रुलोमानि।
तासां हि मुखानि तत्प्रतिबद्धान्यतस्तानि ताभिराप्याय्यन्ते।
तैश्च ताः स्वेदमभिवहन्ति।
तथाभ्यङ्गलेपादिवीर्यं त्वचि विपक्वमन्तर्नयन्ति स्पर्शं च गृह्णन्ति॥

अस5.61
स्रोतांसि पुनरसङ्ख्येयान्येव।
तथापि तु सिरादीनि यथास्थूलं यथोपयोगं चान्यत्रोपदेक्ष्यन्ते।
इत्येवं परिसङ्ख्याताः शरीरे मूर्तिमन्तः स्थिरा भावाः॥

अस5.62
द्रवास्तु यत्तदतियोगेन च्यवमानं पुरीषमनुबध्नाति।
तथा मूत्रं रुधिरमन्यांश्चशरीरे धातून्।
यच्च सर्वशरीरगतं बाह्या त्वग्बिभर्ति।
यच्च त्वगन्तरे व्रणगतं लसीकाशब्दवाच्यम्।
यच्चोष्मानुबद्धं रोमकूपेभ्योऽभिनिष्पतत्स्वेदवाच्यम्।
तदुदकम्॥

अस5.63
तस्याद्यस्य चाहारसारस्य रसाख्यस्य रक्तस्य शकृतः श्लेष्मणः पित्तस्य मूत्रस्य वसायाः मेदसो मज्ञश्च स्वेन स्वेनाञ्जलिप्रमाणेन यथापूर्वमेकादिसङ्ख्याप्रवृद्धिः।
अर्द्धाञ्जलिः शुक्रस्य।
तावदेव मस्तिष्कमोजश्च।
स्त्रीणां रजसोऽञ्जलयश्चत्वारः।
स्तन्यस्य द्वौ।
उभयमपि चैतद्रसप्रसादात्मकमिति॥

अस5.64
समधातोः परिमाणमिदम्।
अतो वृद्धिक्षयौ यथास्वं लक्षणैर्विभावयेदपराश्चापरिसङ्ख्यातान्मूर्तामूर्तान् भावान्।
तद्यथा।
मांसकर्णादिमलान् वायुबुद्धिस्मृत्यादीश्च॥

अस5.65
धन्वन्तरीयाः पुनः पठन्ति।
विलक्षणानि हि शरीराणि नित्यमेव च चला दोषधातुमलाः।
तस्मादुदकादीनामपि समत्वं मांसादिवत् परिमाणतो निर्देष्टुमशक्यम्।
केवलं स्वास्थ्यमात्रेणानुमानतो लक्षयेदिति॥

अस5.66
सर्व एव त्ववयवाः परमाणुभेदेनाति सौक्ष्म्यादसङ्ख्येयतां यान्ति।
तेषां संयोगविभागे परमाणूनां कर्मप्रेरितो वायुः कारणम्॥

अस5.67
तदेतदङ्गमभेदेन भेदतश्च गृह्यमाणं बन्धाय मोक्षाय च भवतीति।
भवति चात्र॥

अस5.68
इति सर्वावयवशो यो जानाति कलेवरम्।
अहितेषु स मोहेन न कदाचित् प्रवर्तते॥


अथ षष्ठोऽध्यायः॥

अस6.1
अथातः सिराविभागमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस6.2
दश मूलसिरा हृदयप्रतिबद्धाः सर्वाङ्गप्रत्यङ्गेष्वोजो नयन्ति।
तत्प्रतिबद्धा हि शरीरचेष्टाः।
तास्तुद्व्यङ्गुलमङ्गुलमर्धाङ्गुलं यवं यवार्धं च गत्वा द्रुमपत्रसेवनीप्रतानवद्भिद्यमानाः सप्तशतानि भवन्ति॥

अस6.3
तासां चतुःशती शाखासु।
तत्र षोडशाव्यधनीयाः।
षट्त्रिंशं शतमन्तराधौ।
तत्र द्वात्रिंशत्।
चतुष्षष्ट्यधिकं शतमूर्ध्वम्।
तत्रापि पञ्चाशत्॥

अस6.4
तासामेकैकस्मिन् सक्थ्नि शतम्।
तत्र न विध्येज्जालन्धराम्।
तिस्रश्चाभयन्तरगताः॥

अस6.5
द्वात्रिंशच्छ्रोण्या गुदमेढ्राश्रयाः।
तासां द्वे द्वे वङ्क्षणयोः कटीकतरुणयोश्चेत्यष्टौ शस्त्रतो रक्षेत्।
षोडश पार्श्वयोः तयोरूर्ध्वगामेकैकां पार्श्वसन्धिसंज्ञाम्।
चतुर्विंशतिः पृष्ठे।
तासां पृष्ठवंशमुभयतो द्वे द्वे ऊर्ध्वगामिन्यौ ताश्चतस्रः।
चतुर्विंशतिरुदरे।
तासां मेढ्रस्योपरि रोमराजीमुभयतो द्वे द्वे ता अपि चतस्रः।
चत्वारिंशद्वक्षसि।
तासां द्वे हृदये द्वे द्वे च स्तनमूलस्तनरोहितेषु।
एकैकापस्तम्भापालापेष्विति।
ताश्चतुर्दश॥

अस6.6
चतुर्विंशतिर्ग्रीवायाम्।
तासां चतस्रोऽष्टौ च मर्मसंज्ञाः।
द्वे कृकाटिकयोर्द्वे विधुरयोरिति षोडश शस्त्रेण न स्पृशेत्।
हन्वोः षोडश तासां सन्धिसम्बन्धिन्यौ द्वे।
षोडश जिह्वायाम्।
तासामधो द्वे रसवेदिन्यौ द्वे वाक्प्रवर्तिन्यौ ताश्चतस्रः।
चतुर्विंशतिर्नासायाम्।
तासां द्वे गन्धवेदिन्यौ तासामेव च तालुन्येकामिति तिस्रः।
षट्पञ्चाशन्नेत्रयोः।
तयोरुन्मेषनिमेषक्रिये द्वे द्वे।
द्वे चापाङ्गयोरिति षट्।
नासानेत्रगतास्तु ललाटे षष्टिः।
तासां केशान्तानुगताश्चतस्रो द्वे चावर्तयोरेका च स्थपन्यामिति सप्त।
कर्णयोः षोडश।
तासां शब्दवाहिन्यौ द्वे।
त एव च शङ्खयोस्तासां शङ्खसन्धिगते द्वे।
द्वादश मूर्धनि।
तासामुत्क्षेपयोर्द्वे सीमन्तेष्वेकैकामेकामधिपतावित्यष्टौ शस्त्रेण परिहरेत्।
तथा क्षुद्रिकाः कुटिलाः सङ्कीर्णा ग्रथिताः सन्धिषु चाशस्त्रकृत्याः॥

अस6.7
तासां यथास्वं तुर्यांशविभागेन पञ्चसप्तत्यधिकं शतमनिलरक्तं वहति।
एष विभागः पित्तश्लेष्मशुद्धरक्तेष्वपि।
स्थिता ह्येवं देहमनुगृह्णन्ति दोषाः।
व्यत्ययेन तु पीडयन्ति॥

अस6.8
तत्र श्यावारुणाः प्रस्पन्दिन्यः सूक्ष्माः क्षणपूर्णरिक्ता वातरक्तं वहन्ति।
नीलपीतासिताः स्पर्शोष्णाः क्षिप्रस्राविण्यः पित्तरक्तम्।
गौर्यः स्निग्धाः स्थिराः शीताः कण्डूमत्यः कफरक्तम्।
लक्षणसङ्करे संसर्गसन्निपातारक्तम्।
समा गूढाः स्निग्धा रोहिण्यः शुद्धरक्तमिति॥

अस6.9
धमन्यस्तु चतुर्विंशतिः।
ताभिः कायोऽयमाराम इव जलहारिणीभिः केदार इव कुल्याभिरुपस्निह्यति।
ताभिश्च नाभिश्चक्रनाभिरारकैरिवावृता।
तस्या नाभ्यां विशेषेण प्राणा व्यवस्थिताः।
यतश्च सान्तरग्न्यधिष्ठानम्॥

अस6.10
तासां खलु धमनीनां दशोर्ध्वं प्रसृता दशाधश्चतस्रस्तिर्यक्।
ततस्ताभिर्यथास्वमङ्गावयवा धार्यन्ते आप्याय्यन्ते च॥

अस6.11
तासामूर्ध्वगा हृदयमभिप्रपन्नाः प्रत्येकं त्रिधा जायन्ते।
ततस्त्रिंशतो मध्ये द्वे द्वे वातपित्तकफरक्तरसान् वहतः।
अष्टाभिः शब्दरूपरसगन्धा गृह्यन्ते।
द्वाभ्यां द्वाभ्यां भाषते घोषं करोति स्वपिति प्रतिबुध्यते च।
द्वे चाश्नु वहतः।
द्वे च स्तनाश्रिते नार्याः स्तन्यं नरस्य शुक्रम्॥

अस6.12
अधोगमाः पक्वाशयस्था एवं त्रिधा जायन्ते। तत्र दशाद्याः पूर्ववत्।
द्वे वहतोऽन्नं मात्राश्रयेण।
द्वे तोयम्।
द्वे मूत्रम्।
द्वे शुक्रं वहतो द्वे च मुञ्चतः।
ते एव नारीणामार्तवम्।
द्वे वर्चोनिरसिन्यौ स्थूलान्त्रप्रतिबद्धे।
एवं द्वादश।
शेषास्त्वष्टौ धमन्यस्तिरश्चीनाः स्वेदमभितर्पयन्ति॥

अस6.13
तिर्यग्गामिन्यश्चतस्रो भिद्यमानाः सुबहुधा भवन्तीत्युक्तं प्राक्॥

अस6.14
स्रोतांसि पुंसां नव।
कर्णौ नेत्रे नासापुटौ मुखं पायुर्मूत्रपथोऽन्यानि च त्रीणि स्त्रीणां स्तनौ रक्तपथश्च।
तथापराण्यन्तस्स्रोतांसि जीवितायतनानि त्रयोदश प्राणोदकान्नधातुमलानामयनानि॥

अस6.15
तत्र प्राणवाहिनां हृदयं मूलं महास्रोतश्च।
तानि धातुक्षयरौक्ष्यपिपासाक्षुद्व्यायामवेगधारणादिभिर्दुष्यन्ति।
ततोऽतिसृष्टं प्रतिबद्धमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसनम्।
तत्र श्वासवत् साधनम्॥

अस6.16
उदकवाहिनां तलु मूलं क्लोम च।
तान्यामभयातिपानोष्ण शुष्कान्नकषायतृण्निग्रहादिभिर्दुष्यन्ति।
ततोऽतितृष्णा मुखशोषः कर्णक्ष्वेडनं तमोदर्शनं च।
तत्र तृष्णोक्तमौषधम्॥

अस6.17
अन्नवाहिनामामाशयो मूलं वामपार्श्वं च।
तेषा दुष्टौ सर्वं मात्राशितीयोक्तमवगच्छेत्॥

अस6.18
रसवाहिनां हृदयं मूलं दश धमन्यश्च।
रक्तवाहिनां यकृत् प्लीहा च।
मांसवाहिनां स्नावानि त्वक् च।
भेदोवाहिनां वृक्कौ मांसं च।
अस्थिवाहिना जघनं मेदश्च।
मज्जवाहिनां पर्वाण्यस्थीनि च।
शुक्रवाहिनां स्तनौ मुष्कौ मज्जा च।
मूत्रवाहिनां बस्तिर्वङ्क्षैणा च।
शकृद्वाहिनां पक्वाशयः स्थूलान्त्रं च।
स्वेदवाहिनां मेदो रोमकूपाश्च।
तेषां दूषणं विविधमहिताहारविहारमुपद्रवान् पृथक् पृथक् साधनं दोषादिविज्ञानीयाद्यथास्वं वृद्धिक्षयलक्षणेन लक्षयेत्॥

अस6.19
व्यधे तु स्रोतसां भ्रममोहकम्पप्रलापाध्मानशूलारुचितृट्छर्दिज्वरातिरुधिरस्रुतिमूत्रपुरीषरोधा मरणं च।
तस्मात्स्रोतोविद्धं प्रत्याख्यायोपाचरेत्।
उद्धृतशल्यं च सद्योव्रणविधानेन॥

अस6.20
तत्र स्रोतसामेव विशेषाः सिराधमन्यः।
अन्ये त्वन्यत्वमिच्छन्ति सिराधमनीस्रोतसाम्।
केवलं परस्परसन्निकर्षात् सदृशकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव लक्ष्यते॥

अस6.21
अपरे पुनराहुः।
स्रोतांसि सिराधमन्यो रसवाहिन्यो नाड्यः पन्थानोऽयनानि गार्गाः शरीरच्छिद्राणि संवृतासंवृतानि स्थानान्याशयाः क्षयानिकेताश्चेति शरीरे धात्ववकाशानां लक्ष्यालक्ष्याणां नामानीति॥

अस6.22
ते चावकाशाः प्रकुपिताः स्थानस्थान्मार्गस्थांश्च धातून् प्रकोपयन्ति।
तेऽपि कुपितास्तानि स्रोतांसि।
स्रोतांसि च स्रोतांसि।
धातवश्च धातून्।
तेषां सर्वेषामेव दूषयितारो दुष्टा दोषाः।
ते च प्रायशो दुष्यन्त्यग्निदोषात्।
तस्मात्तन्निमित्तान्यायुरारोग्यबलोपचयवर्णौजांसि।
तत्प्रतिबद्धान्येव च रञ्जकादीनि भूताग्नयो धात्वग्नयश्च।
तथान्नमपि तैनैव पक्वममृततां यात्यपक्वं च विषताम्॥

अस6.23
तत्र पित्तविशेषः पाचकसंज्ञोऽग्निरिति प्रागभिहितः।
अन्ये पुनराचक्षते दोषधातुमलसन्निपातजनितोऽन्तरूष्मा यथानिर्दिष्टाधिष्ठानकर्माग्निरिति॥

अस6.24
स खलु विधिवदभ्यवहृतमन्नजातं प्राणेन वायुना कोष्ठमाकृष्टं द्रवैर्विभिन्नसङ्घातं स्नेहेन मृदूकृतमभिसन्धुक्षितः समानेनामाशयस्थं स्थालीस्थमिवाम्बुतण्डुलमग्निरन्तरग्निः पचति॥

अस6.25
तत्तु सर्वरसमपि पच्यमानमादौ मधुरीभूतं कफं फेनीभूतमुदीरयति।
ततो विदग्धमम्लीभूतमामाशयात् च्यवमानमच्छं पित्तम्।
प्राप्य च पक्वाशयं कटुकीभूतमनिलम्॥

अस6.26
ततश्चैवं विक्लिन्न आहारे पञ्च पञ्चात्मका महाभूताग्नयो वायुना व्यस्तान् यथास्वं पञ्चैव भूतगुणानाहारस्थान् पचन्ति।
ते पक्वाः पुनर्यथास्वमेव देहाश्रितांश्च स्वविकारभूतान् भूतगुणानाप्याययन्ति॥

अस6.27
एवं च पक्वादाहाराद्विविधौषधगर्भादिव स्नेहादच्छः सारभूतो रसाख्यः किट्टाख्यश्च मलोऽभिनिर्वर्तते।
ताभ्यां च सारमलाभ्यां तदात्मकानामेव शरीरगुणानां धात्वाख्यानां यथास्वं स्रोतांसि पारम्पर्येणाविच्छिन्नसन्तानमापूर्यन्ते।
स्रोतोभ्यश्च यथाविभागं यथायथमेव धातवः पुष्यन्ति।
उत्तरोत्तरानुप्रवेशेऽपि च पूर्वेषां स्रोतसां यथाकालं सम्यगाहारोपयोगेन परिणामवताप्याय्यमानानां नापचयो भवति।
ततश्च धात्वाख्याः प्रसादमलाः स्वं स्वमेव मानमनुवर्तन्ते।
यथावयश्शरीरम्॥

अस6.28
तत्राहाररसो व्यानीवक्षिप्तो यथास्वं सप्तसु धात्वग्निषु क्रमात् पच्यमानः स्वात्मभावप्रच्युतिसमनन्तरमेव प्राप्तरक्तादिधातुसंज्ञकः कालवदस्खलितबलप्रमाणो देहमूर्जयित्वा धातून् धातुमलांच पुष्णाति॥

अस6.29
अथान्नकिट्टमच्छं मूत्रं घनं शकृत्।
रसस्य सारो रक्तं मलः कफो लसीका च।
रक्तस्य सारो मांसं कण्डरास्सिराश्च मलः पित्तम्।
मांसस्य सारो मेदस्त्वचो वसा च किट्टं कर्णाक्षिनासिकास्यरोमकूपप्रजननमलाः।
मेदसः सारोऽस्थिस्नायुसन्धयः किट्टं स्वेदः।
अस्थ्नः सारो मज्जा किट्टं केशरोमनखाः।
मज्ज्ञस्तु सारः शुक्रं मलोक्षिविट्त्वचां स्नेहः।
शुक्रस्य सारमोजः।
अत्यन्तशुद्धतयास्य मलाभावः।
अन्ये पुनरत एव तस्य नेच्छन्ति पाकम्।
अपरे पुनः शुक्रसारं गर्भमेवामनन्ति॥

अस6.30
वायुः पुनरग्नेराहारस्य च बह्वल्पतया तस्मात्तस्मान्मूर्च्छनाविशेषादमूर्तः शब्दवानीषच्छब्दः प्रचुरोऽल्पो वा पञ्चात्मा कोष्ठे प्रादुर्भवति।
एवं च कृत्वान्नमया एव देहे सर्वे भावाः।
तेनैव चेदमेवं चिरेण व्याप्तमन्तर्बहिः शरीरयन्त्रमनवरतप्रवाहेण स्वास्थ्यबलोपचययुक्तं यावत्कर्मोपादानं याप्यते।
अन्यथा त्वन्नरसोत्क्षेपणाद्विबद्धस्रोतसा वा यथावदनभिसन्धीयमानधातुप्रवाहमन्तरा व्यवच्छिद्यते।
व्याधिभाजनं वा भवति॥

अस6.31
अन्ये तु वर्णयन्ति।
अभ्यवहृत्मात्रस्याहारस्य कण्ठनाडीप्रलुठितस्य महानिम्रमवतीर्णस्य यो य एवांशः कायाग्निनावलीढः पाकमुपनीयते तस्य तस्यैव प्रसादाख्यो रसलेशोऽभिनिर्वृत्तिसमनन्तरं समं समस्तधातुषु संवृतासंवृतैः प्रविसृतो विवृतमुखेष्वासन्नेषु स्रोतस्सु भूयान् प्रथमतरं चान्वेति पर्यायेणेतरेष्वपि।
एवमन्नरस एव साक्षात्सर्वधातून् केनचिदेव कालभेदेन पुष्णाति।
न पुनर्धातवो धात्वन्तरतां स्वरूपोपमर्देन प्रतिपद्यन्त इति॥

अस6.32
अग्निस्तु बलभेदेन चतुर्विधो भवति।
समो विषमस्तीक्ष्णो मन्दश्च।
तत्र समो यः सम्यगेवोपयुक्तमन्नं सम्यक् पचति।
विषमोऽसम्यगप्युपयुक्तं पचति सम्यगपि च न पचति।
तीक्ष्णोऽसम्यगप्युपयुक्तमाशु पचति।
स एव वर्धमानोऽत्यग्निर्भवति।
मन्दस्तु सम्यगप्युपयुक्तमुदरगौरवाध्मानविबन्धाटोपान्त्रकूजनमुखशोषवायुस्तम्भादीन्यामलिङ्गानि दर्शयित्वा चिरात् पचति।
बाह्येनापि च ज्वालाङ्गारात्मकेनाग्निना नैकाकारः सर्वदा पाको भवति।
किमुतान्तराश्रयेणोष्णात्मना समेनापि।
तस्मात्तं प्रयत्नतो रक्षेत्।
तत्र प्रवरेण सात्म्येन समं यथास्वमपरेणेतरान् क्रमशः सात्म्यमापाद्य प्रवरेण परिपालयेद्दोषोपक्रमणीयोक्तेन च वातादिसाधनेन ग्रहणीरोगविहितैश्चौषधव्यायामयोगैरिति।
भवति चात्र॥

अस6.33
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च।
स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च॥

अस6.34
आहारश्च विहारश्च यः स्याद्दोषगुणैः समः।
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः॥

अस6.35
अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा।
विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम्॥

अस6.36
बिसानामिव सूक्ष्माणि दूरं विप्रसृतानि च।
द्वाराणि स्रोतसां देहे रसो यैरुपचीयते॥

अस6.37
केचिदाहुरहोरात्रात् षडहादपरे परे।
मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमादिभिः॥

अस6.38
वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते।
प्रायः करोत्यहोरात्रात् कर्मान्यदपि भेषजम्॥

अस6.39
कफः पित्तं मलः खेषु प्रस्वेदो नखरोम च।
स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः॥

अस6.40
समः समाने स्थानस्थे विषमोऽग्निर्विमार्गगे।
पित्ताभिमूर्छिते तीक्ष्णो मन्दोस्मिन्कफपीडिते॥

अस6.41
शान्तेऽग्नौ म्रियते युक्ते चिरं जीवत्यनामयः।
रोगी स्याद्विकृते तस्मात्तं प्रयत्नेन पालयेत्॥