अष्टाङ्गसंग्रहः शरीरस्थानम् अध्याय ७-१२

अष्टाङ्गसंग्रहः

अथ सप्तमोऽध्यायः॥

अस7.1
अथातो मर्मविभागं नामाध्यायं व्याख्यास्यामः।
इति ह स्महुरात्रेयादयो महर्षयः॥

अस7.2
सप्तोत्तरं मर्मशतम्।
तत्र चतुश्चत्वारिंशच्छाखासु।
षड्विंशतिरन्तराधौ।
सप्तत्रिंशदूर्ध्वम्॥

अस7.3
अथैकस्मिन् सक्थ्नि मध्यमाङ्गुलिमभितो मध्ये पादतलस्य तलहृदयं नाम मर्म तत्र विद्धस्य रुजया मरणम्।
अङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं तत्राक्षेपकेन मरणम्।
क्षिप्रस्योपरि द्व्यङ्गुल उभयतः कूर्चः।
तत्र पादस्य भ्रमणवेपने भवतः। गुल्फसन्धेरधः कूर्चशिरः।
तत्र रुजाशोफौ।
पादजङ्घयोः सन्धाने गुल्फः।
तत्र रुक् स्तब्धसक्थिता षण्ढता वा।
पार्ष्णिप्रभृतिद्वादशभिरङ्गुलैर्जङ्घामध्ये इन्द्रबस्तिः।
तत्र शोणित्क्षयान्मरणम्।
जङ्घोर्वोः सन्धाने जानु तत्र खञ्जता॥

अस7.4
जानुनस्त्र्यङ्गुलादूर्ध्वमुभयत आणिः।
तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च।
ऊरुमध्ये उर्वी तत्र रक्तक्षयात्सक्थिशोषः।
उर्व्यास्तूर्ध्वमधो वङ्क्षणसन्धेरूरुमूले लोहिताक्षम्।
तत्र रक्तक्षयात् पक्षाघातः।
वङ्क्षणवृषणमध्ये विटपम्।
तत्र षण्ढ्यमल्पशुक्रता वा।
सक्थिवद् बाह्वोः।
विशेषस्तु गुल्फो मणिबन्धः तथा जानु कूर्परम्।
तयोर्व्यधे कुणिता।
विटपवच्च कक्षाक्षमध्ये कक्षाधरः तत्र कुणित्वम्॥

अस7.5
वातवर्चोनिरसनः स्थूलान्त्रप्रतिबद्धो गुदः।
तत्र सद्योमरणम्।
अल्पमांसशोणितोऽभ्यन्तरतः कट्याधनुर्वक्र एकद्वारोऽधोमुखो बस्तिः।
तत्रापि सद्योमरणमश्मरीव्रणादृते।
तत्राप्युभयतो विद्धे न जीवति।
एकतो भिन्ने मूत्रस्रावी व्रणो भवति।
स तु यत्नेनोपक्रान्तो रोहति।
पक्वामाशयमध्ये नाभिः तत्रापि सद्योमरणम्॥

अस7.6
कोष्ठवक्षसोः स्तनयोश्च मध्ये सत्वरजस्तमोधिष्ठानमामाशयद्वारं हृदयं तत्रापि सद्योमरणम्।
स्तनयोरधस्ताद्व्द्यङ्गुलमुभयतः स्तनमूले तयोः कफपूर्णकोष्ठस्य मरणम्।
स्तनचूचुकयोरूर्ध्वं व्द्यङ्गुलमुभयतः स्तनरोहिते।
तयोः शोणितपूर्णकोष्ठस्य मरणम्।
उभयत्रोरसोर्नाड्यौ वातवहे अपस्तम्भौ तयोः शोणितपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम्।
अंसकूटयोरधः पार्श्वयोरुपरिभागयोरपालापौ तयोः पूयत्वमापन्नेन रक्तेन मरणम्॥

अस7.7
पृष्ठवंशमुभयतः प्रतिश्रोणीकर्णावस्थिनी कटीकतरुणे।
तयोः शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपो म्रियते।
पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतः कुकुन्दरौ।
तयोः स्पर्शाज्ञानमधःकाये चेष्टानाशश्च।
श्रोणीकर्णयोरुपर्याशयच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ।
तयोरधःकाये शोफो दौर्बल्यं मरणं च।
अधः पार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ये तिर्यगूर्ध्वं च पार्श्वसन्धी।
तयोः शोणितपूर्णकोष्ठतया मरणम्॥

अस7.8
स्तनमूलयोरार्जवेनोभयतः पृष्ठवंशं बृहत्यौ।
तयोः शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्मरणम्।
पृष्ठवंशमुभयतो बाहुमूलसम्बद्धे अंसफलके।
तयोर्बाहुस्वापशोषौ।
ग्रीवाबाहुशिरोमध्येऽसपीठस्कन्धबन्धनावंसौ।
तयोः स्तब्धबाहुता॥

अस7.9
कण्ठनाडीमुभयतश्चतस्रो धमन्यः।
तासां द्वे नीले द्वे मन्ये।
तासु मूकता स्वरवैकृत्यं रसाग्राहिता वा भवति।
ग्रीवायामुभयतः पृथक् चतस्रः सिरामातृकास्तासु सद्योमरणम्।
शिरोग्रीवयोः सन्धाने कुकाटिके।
तयोश्चलमूर्धता।
कर्णपृष्ठयोरधस्संश्रिते विधुरे।
तयोर्बाधिर्यम्।
घ्राणमार्गमुभयतः श्रोत्रमार्गप्रतिबद्धावभ्यन्तरतः फणौ।
तयोर्गन्धाज्ञानम्।
भ्रुवोः पुच्छान्तयोरधोक्ष्णोर्बाह्यतोऽपाङ्गौ तयोरान्ध्यम्।
भ्रुवोः पुच्छान्तयोरुपर्यनुकर्णं ललाटे शङ्खौ।
तयोः सद्योमरणम्।
भ्रुवोरुपरि निम्नयोरावर्तौ।
तयोरान्ध्यम्।
दृष्ट्युपघातो वा॥

अस7.10
शङ्खयोरुपरि केशान्ते उत्क्षेपौ।
तयोः सशल्यः पाकात् पतितशल्यो वा जीवेन्नोद्धृतशल्यः।
भ्रुवोर्मध्ये स्थपनी।
तत्रोत्क्षेपवत्।
पञ्च सन्धयः शिरसि तिर्यगूर्ध्वं च सीमन्ता नाम।
तेषून्मादभ्रमचित्तनाशैर्मरणम्।
जिह्वाघ्राणाक्षिश्रोत्रतर्पणीनां सिराणां तालुनि सन्निपातः।
तासां मुखानि चत्वारि शृङ्गाटकसंज्ञानि तेषु सद्योमरणम्।
मस्तकाभ्यन्तर उपरिष्टात्सिरासन्धिसन्निपातो रोमावर्तः सोऽधिपतिर्नाम।
तत्रापि सद्योमरणं भवतीति॥

अस7.11
सामान्यलक्षणं पुनर्मर्मणां पीडिते रुजोत्पत्तिर्विषमं च स्पन्दनम्।
सामान्येनैव च॥

अस7.12
देहप्रसुप्तिर्गुरुता सम्मोहः शीतकामिताअ।
स्वेदो मूर्छा वमिः श्वासो मर्मविद्धस्य लक्षणम्॥

अस7.13
अपि च मरणकारित्वान्मर्म।
तत् पुनर्मांससिरास्नावास्थिसन्धिसन्निपातः।
तेन तस्मिन् पीड्यमाने विशेषतः प्राणाबाधः।
बाहुल्येन तु निर्देशः।
तस्मान्मांसाद्याश्रयतो मर्माणि पञ्चधा भिद्यन्ते॥

अस7.14
तद्यथा।
तलहृदयेन्द्रबस्तिगुदस्तनरोहितान्येकादश मांसमर्माणि।
उर्वीलोहिताख्यनाभिहृदयस्तनमूलापस्तम्भापालापपार्श्वसन्धिबृहतीनीलामन्यामातृकाफणापाङ्गस्थपनीशृङ्गाटकान्येकचत्वारिंशत् सिरामर्माणि।
क्षिप्रकूर्चकूर्चशिरोविटपकक्षाधराणि बस्त्यंसविधुरोत्क्षेपाः सप्तविंशतिः स्नावमर्माणि।
कटीकतरुणनितम्बांसफलकशङ्खास्त्वष्टावस्थिमर्माणि।
गुल्फमणिबन्धजानुकूर्परकुकुन्दरकृकाटिकावर्तसीमन्ताधिपतयो विंशतिः सन्धिमर्माणि॥

अस7.15
पुनश्च पञ्चधा गुदबस्तिनाभिहृदयमातृकाशङ्खशृङ्गाटकाधिपतय एकोनविंशतिः सद्यःप्राणहराण्याग्नेयत्वात्तेषां सप्तरात्राभ्यन्तरं कालः॥

अस7.16
तलहृदयक्षिप्रेन्द्रबस्तिवक्षोमर्मकटीकतरुणनितम्बपार्श्वसन्धिबृहतीसीमन्तास्त्रयस्त्रिंशत् कालान्तरप्राणहराणि सौम्याग्नेयत्वात्तेषां पक्षाभ्यन्तरं कालः।
तेष्वपि तु क्षिप्राणि कदाचिदाशु॥

अस7.17
उत्क्षेपौ स्थपनी च त्रीणि विशल्यघ्नानि वायव्यत्वात्।
शल्यमुखावरुद्धो हि यावदत्र वायुस्तिष्ठति तावज्जीवति॥

अस7.18
कूर्चजानुकूर्पराण्युर्वीलोहिताख्यविटपकक्षाधरकुकुन्दरांसफलकनीलामन्याकृकाटिकाविधुरफणापाङ्गावर्ताश्चतुश्चत्वारिंशद्वैकल्यकराणि सौम्यत्वात्।
सोमो हि स्थैर्यशैत्याभ्यां प्राणान् धारयति।
तान्यपि च कदाचिदभिहतानि मारयन्ति॥

अस7.19
कुर्चशिरोगुल्फमणिबन्धास्त्वष्टौ रुजाकराण्यग्निवायुसोमगुणबाहुल्यात्।
अग्निवायू हि विशेषेण रुजाकरौ।
सोमस्तु प्राणानवलम्बत इत्युक्तम्॥

अस7.20
अन्ये त्वाहुः।
मांसादीनां पञ्चानामपि विवृद्धानां समवायात् सद्यः प्राणहराणि।
एकैकहीनानामल्पानां च क्रमादितराणि स्वभावत एव च॥

अस7.21
अन्ये वदन्ति।
प्रतिनियतकर्माणि चन्द्रसूर्यायस्कान्तोपलानामिवाम्बुवह्निकाललोहसंश्लेषाः तथा च छिन्नेषु बहुमर्मस्वपि पाणिपादेषु स्वभावत एव न मृत्युः॥

अस7.22
अपरे पुनरत्रापि हेतुमाहुः।
पाणिपादच्छेदे हि सिराः सङ्कोचमायान्ति।
ततोल्पासृक्प्रवृत्तेर्जीवितम्।
मर्मव्यधे त्वतिरक्तस्रुतितो वायुवैकृतेन च मरणम्।
तस्मान्मर्माभिहतस्य तदङ्गमाशु सन्धिदेशाच्छेदनीयम्।
अतिहतानां तु मर्माणां यथास्वं पूर्वं पूर्वं च कर्म ईषदन्ते वा हतानामुत्तरोत्तरमेव॥

अस7.23
पुनश्च पञ्चधा भिद्यन्ते।
तद्यथा।
उर्व्यः कूर्चशिरांसि विटपे कक्षाधरे च द्वादश स्वाङ्गुलोन्मितानि।
गुल्फौ मणिबन्धौ स्तनमूले च षट् द्व्यङ्गुलानि।
जानुनी कूर्परे च चत्वारि त्र्यङ्गुलानि।
कूर्चा गुदो बस्तिर्नाभिर्हृदयं नीले मन्ये मातृकाः सीमन्ताः शृङ्गाटकानि चैकोनत्रिंशत् पाणितलसम्मितानि।
शेषाणि षट् पञ्चाशदङ्गुलदलप्रमाणानि।
अन्ये पुनराहुः।
ब्रीहिप्रमाणानि क्षिप्राणि।
कलायप्रमाणाः स्तनरोहितोत्क्षेपाः।
तथान्ये तिलप्रमाणान्यपि मर्माणीच्छन्ति।
भवन्ति चात्र॥

अस7.24
मर्मव्याप्तेऽपि देहेऽस्मिन्नायुर्मर्माणि रक्षति।
आयुष्याण्येव सेवेत सदा तस्माद्विचक्षणः॥

अस7.25
मर्माभिघातः स्वल्पोऽपि प्रायशो बाधतेतराम्।
रोगा मर्माश्रयास्तद्वत् प्रकान्ता यत्नतोपि च॥

अस7.26
विक्षिप्यते भृशं सीदन् शून्यो भ्रमति वेपते।
ऊर्ध्वं श्वसिति कृच्छ्रेण स्रस्तगात्रो मुहुर्मुहुः॥

अस7.27
हृदयं दद्यते चास्य नैकस्थानेऽवतिष्ठते।
मर्मोपघातान्मरणमेतैर्लिङ्गैः समश्नुते॥

अस7.28
अमर्मविद्धोऽपि नरश्छेदभेदादिपीडितः।
अतिनिस्सृतरक्तश्च सद्यस्त्यजति जीवितम्॥

अस7.29
अतोऽन्यथा जीवति तु विद्धः शरशतैरपि॥

अस7.30
पुण्यवान्नियतायुश्च न कथञ्चिन्न जीवति।
तस्मादा चरमोच्छ्वासाच्चिकित्सेदेव यत्नतः॥

अस7.31
तद्बन्धुमित्रानुमतः प्रत्याख्यायातुरं भिषक्॥


अथाष्टमोऽध्यायः।

अस8.1
अथातः प्रकृतिभेद्दीयं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस8.2
सप्त प्रकृतयो दोषैः पृथक् संसर्गेण साम्येन च भवन्ति।
तत्र शुक्रार्तवगर्भाशयकालेषु मातुश्चाहारविहारयोरेकोऽनेको वा यो दोषो भवत्याधिक्येन तेनामरणाद्विषवल्यामिवोत्पद्यमानस्य कृमेर्विषेण सविषकृमेरिव वृश्चिकादेराशीविषस्येव वा स्वविषेण प्रकृतिर्जायते॥

अस8.3
तस्मात्तन्मयतया शुक्रार्तवयोर्देहस्य भावितत्वात् प्राकृतत्वाच्च तावता तेन दोषेण न विहन्यते।
तद्गुणैरेव चास्यशरीरमुपस्क्रियते।
ततश्च तद्गुणप्रतिपक्षैः सहसा न बाध्यते।
तस्यां त्ववस्थायां विकृतिमति दोषे उल्बणेनैव गर्भः सम्भवति।
सम्भव एव विपद्यते।
विकृतो वा भवति॥

अस8.4
तथा च केचिदाहुः।
द्विविधा वातादयः प्राकृता वैकृताश्च।
तत्र प्राकृताः सप्तविधायाः प्रकृतेर्हेतुभूताः शरीरैकजन्मानः।
ते शरीरधारणाद्धातुसंज्ञाः।
दोषाख्यानां विकृतानां बीजभूताः।
मुमूर्षोः स्वरूपाच्चलन्ति।
सर्वेष्वपि च देहे सन्निहितेषु प्रकृतावुल्बणेन व्यपदेशः॥

अस8.5
वैकृतास्तु गर्भादभिनिस्सृतस्याहाररसस्य मलाः सम्भवन्ति।
प्राकृतेष्ववरोहन्ति।
ते कालादिवशेन स्वप्नमाणवृद्धिक्षययोगाद्देहमनुगृह्णन्ति दूषयन्ति च।
तद्वदोजोऽपि परं हृदयस्थमष्टबिन्दुप्रमाणमाधारः प्रासृतिकस्य रसात्मकस्यौजसः क्षयवृद्धिभाजः॥

अस8.6
अथ स्वदोषगुणानुरोधाद्वातप्रकृतिस्तनुरूक्षस्तब्धाल्पाङ्गदन्तनखरोमनेत्रस्वरः शीतद्विडुद्वद्धपिण्डिकः सशब्दसन्धिगामी शीघ्रारम्भक्षोभग्रहणविस्मरणश्चलधृतिमतिगतिदृष्टिस्वभावसौहार्दस्तेनोऽनार्यो मत्सर्यजितेन्द्रियः प्रियगान्धर्वेतिहासहासविलासकलहमृगयोद्यानयात्रः स्निग्धोष्णमधुराम्ललवणान्नपानकाङ्क्षोपशयश्च भवति॥

अस8.7
अपि च।
अल्पवित्तबलजीवितनिद्रः क्षामवाग्धमनिसन्ततगात्रः।
दुर्भगोऽतिबहुभुग्बहुभाषी नास्तिकः स्फुटितकेशकराङ्घ्रिः॥

अस8.8
किञ्चिदुन्मिषितदुर्मुखसुप्तस्त्रस्यति क्रथति खादति दन्तान्।
शुष्करूक्षविषमासु सरित्सु व्योम्नि शौलशिखरेषु च याति॥

अस8.9
पित्तप्रकृतिरुष्णगौरगात्रस्ताम्रनखनयनजिह्वौष्ठपाणिपादतलः शिथिलसन्धिबन्धमांसः करभकपिलविरलमृदुकेशरोमा मध्यबलायुरल्पशुक्रव्यवायापत्यः शूरोऽभिमानी शीघ्रवलीखलतिपलितपिप्लुव्यङ्गक्षुत्पिपासो मेधावी दुर्भगः स्वादुतिक्तकषायशीताभिलाषोपशयश्च भवति॥

अस8.10
अपि च।
दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः।
विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि॥

अस8.11
घर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः।
सुप्तः पश्येत् कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च॥

अस8.12
कफप्रकृतिस्तु दूर्वेन्दीवरशरकाण्डान्यतमवर्णः समसुविभक्तस्निग्धस्थिरसुकुमारश्लिष्टमांससन्धिबन्धः परिपूर्णचारुगात्रो महाललाटोरुबाहुर्व्यक्तसितासितप्रसन्नायतविशालपक्ष्मलाक्षः सिंहमृदङ्गघनघोषः क्षुत्पिपासोष्णसहिष्णुर्बह्वोजोबलशुक्रव्यवायापत्यश्चिरशोषमाल्यानुलेपनो दृढप्रच्छन्नवैरः पेशलः सत्यवादी स्मृतिमान् धृतिमानलोलुपो बाल्येऽप्यरोदनः कटुतिक्तकषायोष्णरूक्षेच्छोपशयश्च भवति॥

अस8.13
अपि च।
अल्पव्याहारक्रोधपानाशनेहः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः।
श्राद्धो गम्भीरः स्थूललक्षः क्षमावानार्यो निद्रालुर्दीर्धसूत्रः कृतज्ञः॥

अस8.14
ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां दृढसौहृदय्यः।
स्वप्ने सपद्मान् सविहङ्गमालांस्तोयाशयान् पश्यति तोयदांश्च॥

अस8.15
उभयलक्षणसङ्करे तु संसर्गप्रकृतिः।
सर्वगुणसमुदितः समदोषप्रकृतिः।
तत्राद्यास्त्रयो नित्यातुराः दोषानुशयितप्रकृतित्वात्।
विशेषतश्च द्वन्द्वप्रकृतयः।
तेषु हि गुणमिश्रविकारकारिषु क्षुत्पिपासादिष्विवारोग्यव्यपदेशः।
तस्माद्विपरीतगुणेन विधिना दोषोपक्रमणीयोक्तेन तानुपाचरेत्।
समसर्वरसेन सात्म्येनान्त्यं यथर्तुविहितेन च॥

अस8.16
दोषवच्च गुणैरपि सत्त्वादिभिः सप्त प्रकृतयो भवन्ति।
तास्तदभिनिर्वृत्तैरेव यथोक्तैः शौचादिभिर्जानीयात्॥

अस8.17
तथा पुनः सप्त प्रकृतयो जातिकुलदेशकालवयोबलप्रत्यात्मसंश्रयाः।
दृश्यन्ते हि पुरुषाणां जात्यादिनियतास्ते ते भावविशेषाः॥

अस8.18
सत्त्वादीनां च तरतमयोगाच्छरीरविशेषेभ्यश्चान्योन्यानुविधायित्वाच्च भेदाश्रयमसङ्ख्येयं भवति।
शरीरमपि सत्त्वादीननुरुध्यते।
सत्त्वादयोऽपि शरीरम्॥

अस8.19
सत्त्वाद्यसङ्ख्यभेदावेशाच्च रूपस्वरचरितानुकरणमप्यनूकशब्दवाच्यमसङ्ख्यभेदं भवति।
तदावेशस्त्वनन्तरजन्माभ्यासवासनया जन्यते।
तस्माद्देवमानुषतिर्यक्प्रेतनारकाणां तत्तद्विशेषाणां च यथायथमेवानूकं पुरुषस्यान्ववेक्षेत॥

अस8.20
वयस्त्रिविधं बालं मध्यं वृद्धं च।
तत्राषोडशाद्वर्षाद्बालम्।
आ षष्टेर्मध्यम्।
ततो वृद्धम्।
तेष्वपि स्तन्याहारोभयवृत्त्या बालं त्रिविधम्।
तस्मिन् देहप्रमाणवृद्धिः श्लेष्मोद्रेकश्च।
तेन बालस्य स्नेहमार्दवसौकुमार्याल्पक्रोधत्वसौभाग्यानि भवन्ति॥

अस8.21
मध्यमपि त्रिविधं यौवनं सम्पूर्णत्वमपरिहानिश्च।
तस्मिन् पित्तोद्रेकः।
तेन दीप्ताग्निता प्रज्ञाधिक्यपरिपाकौ व्यवसायश्च।
तत्रात्रिंशतो यौवनमाचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यपौरुषस्मरणवचनविज्ञानप्रश्रयगुणसम्पूर्णत्वमतः परमपरिहानिः॥

अस8.22
वृद्धं तु शश्वत् क्षीयमाणधात्विन्द्रियादिगुणं वलीखलतिकासश्चसाग्निसादादिभिरभिभूयमानं जीर्णं भवनमिवाभिवृष्टमवसीदति।
तस्मिन्मारुतोद्रेकः तेन श्लथसारमांससन्ध्यस्थिता त्वक्पारुष्यमवनामः कायस्य वेपथुः कासः श्वासः श्लेष्मसिङ्घाणकोदीरणं धातुक्षयश्च॥

अस8.23
अन्ये पुनराहः।
बाल्यं वृद्धिः प्रभा मेधां त्वक्शुक्राक्षिश्नुतीन्द्रियम्।
दशकेषु क्रमाद्व्येति मनस्सर्वेन्द्रियाणि च॥

अस8.24
एवं वर्षतमायुषः प्रमाणमस्मिन् काले।
सन्ति पुनः कर्मविशेषादूनाधिकवर्षशतजीविनो मनुष्याः।
तेषां यथोक्तैः प्रकृतिविशेषैरायुषः प्रमाणमुपलभ्य वयस्त्रिधा विभजेत्॥

अस8.25
अपि च।
वर्षं वर्षं क्षयं याति नृणां याते शते शते।
आयुषोऽपुण्यबाहुल्याद्यदा यन्मानमिष्यते॥

अस8.26
बलमपि त्रिविधं भवति।
सहजं कालकृतं युक्तिकृतं च।
तत्र सहजं देहसत्त्वयोः प्राकृतम्।
कालकृतमृतुविभागजं वयःकृतं च।
युक्तिकृतं पुनराहारविहारोत्थमूर्जस्करयोगजं च।
तद्वृद्धिकरास्त्विमे च भावा भवन्ति।
तद्यथा।
बलवत्पुरुषे देशे जन्म तद्विधे च काले सुखश्च कालयोगो बीजक्षेत्रगुणशरीराहारसत्त्वसम्पत्तयः स्वमावो यौवनं व्यायामो हर्षश्च॥

अस8.27
तथा साराण्यष्टौ त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्वात्मकान्युत्तरोत्तरवराणि बलमानज्ञानार्थमुपदिश्यन्न्ते।
अपि च।
न मुह्येद्देहमात्रदर्शनादेव भिषगयमुपचयेन माहाशरीरत्वाद्वा बलवानयं कृशत्वादल्पशरीरत्वाद्वाल्पबल इति।
तच्चोभयमप्यन्यथा दृष्टं गजसिंहे॥

अस8.28
तत्र सर्वैः सारैरुपेतो भवत्यतिबलः परमगौरवयुक्तः क्लेशक्षमः सर्वारम्भेष्वात्मनि प्रत्याशावान् कल्याणाभिनिवेशी स्थिरशरीरः सुसमाहितगतिः सानुनादस्निग्धगम्भीरमहास्वरः सुखैश्वर्यवित्तोपभोग सम्मानभाङ्मन्दजरामयः प्रायस्तुल्यगुणविस्तीर्णापत्यो दीर्घायुश्च।
तद्विपरीतस्त्वसारः।
मध्यो मध्यगुणः॥

अस8.29
प्रमाणं पुनः स्वाङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते तिस्रोऽन्याः क्रमेणोत्तरोत्तरं पञ्चमभागहीनास्तन्नखहीना वा।
चतुरङ्गुलायताः पृथक् प्रपदपादतलपार्ष्णयः षट्पञ्चचतुरङ्गुलविस्तृताश्चतुर्दशैवायामेन पादश्चतुर्दशैव परिणाहेन।
तथा गुल्फौ जङ्घामध्यं च।
चतुरङ्गुलोत्सेधः पादः।
अष्टादशायामा जङ्घा ऊरुश्च।
चतुरङ्गुलं जानु।
त्रिंशदङ्गुलपरिणाह ऊरुः।
षडायामेन॥

अस8.30
मुष्क्कमेढ्रावष्टपञ्चपरिणाहौ।
षोडशविस्तारा कटी पञ्चाशत्परिणाहा।
दशाङ्गुलं बस्तिशिरः।
द्वादशाङ्गुलमुदरम्।
दशविस्तारे द्वादशायामे पार्श्वे।
द्वादशोत्सेधं त्रिकम्।
अष्टादशोत्सेधं पृष्ठम्।
द्वादशकं स्तनान्तरम्।
द्व्यङ्गुलं स्तनपर्यन्तम्।
चतुर्विंशत्यङ्गुलविशालं द्वादशोत्सेधमुरः।
द्व्यङ्गुलं हृदयम्।
अष्टकौ स्कन्धे कक्षे च।
षट्कावंसौ।
षोडशकौ प्रबाहू।
पञ्चदशकौ प्रपाणी।
द्वादशाङ्गुलौ पाणी।
तत्रापि पञ्चाङ्गुला मध्यमाङ्गुलिः।
ततोऽर्धाङ्गुलहीने प्रदेशिन्यनामिके।
सार्धत्र्यङ्गुलौ कनिष्ठिकाङ्गुष्ठौ।
चतुरङ्गुलोत्सेधा द्वाविंशतिपरिणाहा शिरोधरा।
द्वादशोत्सेधं चतुर्विंशतिपरिणाहमाननम्॥

अस8.31
पञ्चाङ्गुलमास्यम्।
चतुरङ्गुलं पृथक् चिबुकौष्ठनासादृष्ट्यन्तरकर्णललाटम्। त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा।
द्व्यङ्गुलायतमङ्गुष्ठोदरविस्तृतं नेत्रम्।
तत्र शुक्लात्तृतीयांशं कृष्णम्।
कृष्णान्नवमांशा मसूरदलमात्रा दृष्टिः।
षडङ्गुलोत्सेधं द्वात्रिंशत्परिणाहं शिर इति।
सर्वं पुनः शरीरमङ्गुलानि चतुरशीतिः।
तदायामविस्तारसमं सममुच्यते।
तत्र यथोक्तपरिमाणमिष्टमनिष्टं हीनमधिकं वा।
तथा ह्रस्वदीर्घगौरकृष्णरोमारोमस्थूलकृशं चेति॥

अस8.32
इष्टं पुनर्महाशरीरदर्शनवदनहनुस्तनाग्रपृष्ठस्वरमुपचितोरुस्थिक्कटीवक्षोग्रीवातालुकमुभयगुणपाणिपादचिबुककर्णललाटम्।
सूक्ष्मास्थिदन्तनखाङ्गुलिपर्वकेशम्।
दीर्घाङ्गुलिसक्थिबाहूच्छ्वासेक्षितनेत्रजिह्वम्।
विस्तीर्णास्याधरौष्ठजिह्वाललाटकर्णपठिवक्षोऽल्पमेढ्रग्रीवाकेशम्।
स्निग्धत्वक्कचकरजनयनस्वनम्।
स्थिरेन्द्रियत्वङ्नखकेशपार्श्वम्।
गम्भीरनाभिसन्धिस्वरम्।
गूढजत्रुपृष्ठवंशदन्तमूलम्।
रक्तताल्वोष्ठनखनेत्रान्तमाताम्रजिह्वाहस्तपादतलम्।
कृष्णकेशभ्रूनेत्रपक्ष्मतारकम्।
शुक्लशुक्लमण्डलदशनचरितमुन्नतचित्तरकन्धललाटोदरमुखनखपादम्।
नीचैर्बद्धकर्णस्तननासाग्रचङ्क्रमणम्।
घनस्कन्धकन्धरादन्ताङ्गुलित्वक्सौहार्दम्।
तनुनखमध्यजिह्वम्।
वृत्तस्फिग्ग्रीवानखम्।
समपृष्ठदन्तललाटेक्षितम्।
तथानुपूर्ववृत्तावूरू।
दक्षिणावर्तनाभिः।
प्रकृष्टान्तरौस्तनौ भ्रुवौ च।
कूर्माकृतयो नखाः पादौ च।
र्ज्वास्यं नासावंशश्च।
अनुल्बणे हनू वेषश्च।
श्लक्ष्णं तालु जिह्वा च।
नातिस्थूलकृशावोष्ठौ देहबन्धश्च।
सस्पन्दं हृदयं शङ्खौ मन्ये च।
सोष्मतालुपादोदरं निश्वासश्च।
पृष्ठतोऽवनतौ रोमशौ च कर्णौ।
ईषत्प्रलम्बिन्यौ भ्रुवौ वलिनं सुश्लिष्टसन्ध्यर्धचन्द्राकृतिललाटमातपत्रोपमं शिरः।
नैकमूला मृदवः केशाः दृढं गूढं सिरास्थिसन्धि।
प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि।
हसितरुदितानि च चेष्टितानि।
तथा स्नातानुलिप्तमधःप्रसृतानुपूर्व्या शुष्यदिष्टं शरीरमिति भवति चात्र॥

अस8.33
उत्तरोत्तरसुक्षेत्रं गर्भीद्भवति नीरुजम्।
आयामज्ञानविज्ञानेर्वर्धमानं शनैश्शुभम्॥

अस8.34
इति सर्वगुणोपेते शरीरे शरदां शतम्।
आयुरैश्वर्यमिष्टाश्च सर्वे भावाः प्रतिष्ठिताः॥

अस8.35
अनुत्सेकमदैन्यं च सुखं दुःखं च सेवते।
सत्ववांस्तभ्यमानस्तु राजसो नैव तामसः॥

अस8.36
दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः।
रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः॥


अथ नवमोऽध्यायः।

अस9.1
अथातो विकृतिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस9.2
स्वस्थानामातुराणां वा पुरुषाणां देहान्तराभिलाषिणामौषधविषयमतीताः सकलशरीरव्यापिनो दोषा घना घना इव वर्षमायुषः क्षयं सूचयन्तोऽकस्मात्स्वभावविपर्यासं जनयन्ति।
तत्समासतो रिष्टमित्याहुः॥

अस9.3
तत्र गौरः श्यामः कृष्णो गौरश्यामः कृष्णश्याम इति देहप्रकृतिवर्णाः।तद्भेदाश्च पद्मगौरादयः।
नीलश्यामताम्रहारिद्रशुक्लादयस्तु विकृतयः।
तत्र प्रकृतिविकृतिवर्णौ युगपदङ्गेऽङ्गैकदेशे वा मरणाय।
एतेन ग्लान्युपचयशोकहर्षरौक्ष्यस्नेहादयस्तथा प्रकृतिभेदीयोक्तानां महदुपचयसूक्ष्मदीर्घाणां सर्वेषां च दोषादिभागेन प्रतिनियतानां भावानाम्निमित्ततोऽन्यथात्वमुक्तं भवति॥

अस9.4
छायास्तु शरीरे पञ्च।
तत्र खादमलखङ्गाकाशनीलनिर्मला सस्नेहा सप्रभेव।
वातात् पांसुभस्मरूक्षा रजोऽरुणा श्यावा निष्प्रभा स्वेदमलगन्धिः।
तेजसो हुतहुताशनविद्युत्तप्ततपनीयरक्ता दृष्टिसुखा।
अम्भसो वैडूर्येन्द्रनीलविमला घना सुस्निग्धा।
भुवो रुचिराभा घना स्थिरा स्निग्धा शुद्धा श्यामा श्वेता च।
तासां वायव्या विनाशाय क्लेशाय चातिमहते।
शेषास्तु सुखोदयाः॥

अस9.5
सप्त प्रभा रक्ता पीता पाण्डुरा सितासिता श्यावा हरिता च।
ताः स्निग्धा विकासिन्योऽमलाः शुभाः।
विपरीतास्त्वशुभाः॥

अस9.6
तयोर्विशेषाः।
छायावर्णमाक्रामत्यासन्ना च लक्ष्यते पञ्चभूतात्मिका च।
प्रभा तु वर्णं प्रकाशयति विप्रकृष्टाल्लक्ष्यते तेजःप्रभवैव च॥

अस9.7
यस्य दृष्टौ प्रतिच्छायामयी कुमारिका न दृश्यते स परासुः॥

अस9.8
यस्यातपादर्शादिष्वकस्मात् प्रतिच्छाया छिन्ना भिन्ना हीनाधिकाकुला नष्टा जिह्माऽन्यथा वा विकृता वा दृश्यते।
यस्य ललाटं न स्विद्यति यस्य केशरोमाण्यनभ्यक्तान्यभ्यक्तवद् दृश्यन्ते।
नयने चातिप्रविष्टे निर्गते विस्तृते सङ्क्षिप्ते सङ्क्षिप्तभ्रुणी विनतभ्रुणी जिह्मो विषमे विभ्रान्तदर्शने हीनदर्शने नकुलाभे कपोताभे अलातवर्णे नीलादिविकृतवर्णे अतिचले स्तब्धस्रस्ते प्रस्रुते अत्युन्मिषिते अतिनिमिषिते लुलितपक्ष्मणी वा।
नासिका वातिविवृतातिसंवृता कुटिला स्फुटिता पिटकाचिता शुष्का वा स गतायुः॥

अस9.9
यस्याधोधरौष्ठो यात्युत्तरौष्ठश्चोर्ध्वमुभौ वा पक्वजम्बूनीलौ।
दन्ता वातिरूक्षास्ताम्राः श्यामाः पङ्किताः पुष्पिताः सशर्करा वा सहसा वा पतन्ति।
जिह्वा वा जिह्मास्तब्धा सुप्तावलिप्ता गुर्वी श्यावा शूना शुष्का विसर्पिणी कण्टकाचितेव वा।
यस्य गण्डललाटहनुबन्धानि स्थानाच्च्युतानीव स्रस्तानि।
यस्य न धत्ते शिरः शिरोधरां पृष्ठं वा स्वभारम्।
हनू वा वृषणावतो विपर्ययो वा।
यस्य मूत्रमत्युष्णम्।
यस्य विषदोषाद्विना स्वेभ्यः सरोमकूपेभ्यो रक्तं प्रवर्तते।
यस्यानिमित्तमङ्गान्यतिलघून्यतिगुरूणि वा स्युः समुमूर्षुः॥

अस9.10
यस्यैकोऽनेको वा स्वरो गद्गदो व्यक्तः क्षामो दीनो वा सहसा लक्ष्यते।
यो वा विवक्षुर्मुह्यति।
यस्या वा वदतो भृशमूर्ध्वमुरो रुजति।
यस्योच्छ्वासोऽतिदीर्घोऽतिह्रस्वः पूतिगन्धिः सुगन्धिर्वा।
यस्याङ्गुलय आयम्यमाना न स्फुटेयुः।
यस्यान्योऽन्योऽपि क्षुतगतमूत्रणादिषु स्वभावातीतः शब्दः।
यस्येष्टोऽनिष्टो वा माल्यफलचन्दनकुणपादिगन्धो देहमुखमलव्रणवस्त्रादिषु।
यस्य शरीरं वैरस्यात्सौरस्याद्वात्यर्थं यूकामक्षिकादयस्त्यजन्ति भजन्ति वा।
यस्य सततोष्मस्वङ्गावयवेषु शौत्यं शीतेषु वा कुमुदोत्पलानुकार्यतिशैत्यमतिस्वेदोऽतिस्तम्भो विगतमांसशोणितेष्विव च स्रंसः।
यस्य च योगोतियोगो वा शरीरे युगपन्महाभूतानां दृश्यते।
सर्वे ते कालपक्वा इति।
भवति चात्र॥

अस9.11
यस्यापूर्वास्सिरालेखा बालेन्द्वाकृतयोऽपि वा।
ललाटे बस्तिशीर्षे वा षण्मासान्न स जीवति॥

अस9.12
पद्मिनीपत्रवत्तोयं शरीरे यस्य देहिनः।
प्लवते प्लवमानस्य षण्मासं तस्य जीवितम्॥

अस9.13
हरिताभाः सिरा यस्य रोमकूपाश्च संवृताः।
सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते॥

अस9.14
यस्य गोमयचूर्णाभं चूर्णं मूर्ध्नि मुखेऽपि वा।
सस्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम्॥

अस9.15
मूर्ध्नि भ्रुवोर्वा कुर्वन्ति सीमन्तावर्तका नवाः।
मृत्युं स्वस्थस्य षड्रात्रात्रिरात्रादातुरस्य तु॥

अस9.16
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्।
आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति॥

अस9.17
उरस्यूष्मा भवेद्यस्य जठरे चातिशीतता।
भिन्नं पुरीषं तृष्णा च यथा प्रेतस्तथैव सः॥

अस9.18
मूत्रं पुरीषं निष्ठ्यूतं शुक्रं चाप्सु निमज्जति।
निष्ठ्यूतं बहुर्वर्णं वा यस्य मासात्स नश्यति॥

अस9.19
स्वरस्य दुर्बलीभावं हानिं वा बलवर्णयोः।
रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्॥

अस9.20
अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः।
श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत्॥

अस9.21
ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्।
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्॥

अस9.22
यो जातशीतपिटकः शीताङ्गो वा विदह्यते।
उष्णद्वेषी च शीतार्तः स प्रेताधिपगोचरः॥

अस9.23
यस्य रज्जुरिवच्छाया कण्ठे सक्तोपलक्ष्यते।
अवश्यं कृष्यते जन्तुः सोऽचिराद्यमकिङ्करैः॥


अथ दशमोऽध्यायः।

अस10.1
अथातो विकृतेहाविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस10.2
घनीभूतमिवाकाशमाकाशमिव यो घनम्।
अमूर्तामिव मूर्तं च मूर्तं वामूर्तवत् स्थितम्॥

अस10.3
तेजस्व्यतेजस्तद्वच्च शुक्लं कृष्णमसच्च सत्।
अनेत्ररोगश्चन्द्रं च बहुरूपमलाञ्छनम्॥

अस10.4
जाग्रद्रक्षांसि गन्धर्ववन् प्रेतानन्यांश्च तद्विधान्।
रूपं व्याकृति तद्वच्च यः पश्यति स नश्यति॥

अस10.5
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्।
ध्रुवमाकाशगङ्गां वा न स पश्यति तां समाम्॥

अस10.6
मेघतोयौघनिर्घोषवीणापणववेणुजान्।
शृणोत्यन्यांश्च यः शब्दानसतो न सतोऽपि वा॥

अस10.7
निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनम्।
तद्वद्गन्धरसस्पर्शान्मन्यते यो विपर्ययात्॥

अस10.8
सर्वशो वा न यो यश्च दीपगन्धं न जिघ्रति।
विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः॥

अस10.9
यः पांसुनेव कीर्णाङ्गो योऽङ्गे घातं न वेत्ति वा॥

अस10.10
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्।
जानात्यतीन्द्रियं यश्च तेषां मरणमादिशेत्॥

अस10.11
जिह्वा श्यावा मुखं पूति सव्यमक्षि निमज्जति।
स्वगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत्॥

अस10.12
निकषन्निव यः पादौच्युतांसः परिसर्पति।
हीयते बलतः शश्वद्योऽन्नमश्नन् हितं बहु॥

अस10.13
योल्पाशी बहुविण्मूत्रो बह्वाशी चाल्पमूत्रविट्।
यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते॥

अस10.14
दीर्घमुच्छ्वस्य यो ह्रस्वं निश्वस्य परिताम्यति।
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम्॥

अस10.15
शिरो विक्षिपते कृच्छ्राद्योञ्चयित्वा प्रपाणिकौ।
यो ललाटात्स्स्रुतस्वेदः श्लथसन्धानबन्धनः॥

अस10.16
उत्थाप्यमानः सम्मुह्येद्यो बली दुर्बलोऽपि वा।
उत्थान एव स्वपिति यः पादौ विकरोति च॥

अस10.17
शयनासनकुड्यादेः योऽसदेव जिघृक्षति।
अहास्यहासी सम्मुद्यन् यो लेढि दशनच्छदौ॥

अस10.18
उत्तरोष्ठं परिलिहन् फूत्कारांश्च करोति यः।
यमभिद्रवति छाया कृष्णा पीतारुणापि वा॥

अस10.19
भिषग्भेषजपानान्नगुरुमित्राद्विषश्च ये।
वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः॥

अस10.20
ग्रीवाललाटहृदयं यस्य स्विद्यति शीतलम्।
उष्णोऽपरः प्रदेशश्च शरणं तस्य देवताः॥

अस10.21
योऽणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा।
बलिं बलिभुजो यस्य प्रणीतं नोपभुञ्जते॥

अस10.22
निर्निमित्तं च यो मेधां शोभामुपचयं श्रियम्।
प्राप्नोत्यतो वा विभ्रंशं स प्राप्नोति यमक्षयम्॥

अस10.23
गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा।
यात्यन्यथात्वं प्रकृतिः षण्मासान्न् स जीवति॥

अस10.24
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्।
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः॥

अस10.25
मत्तवद्गतिवाक्कम्पमोहा मासान्मरिष्यतः।
नश्यत्यजानन् षडहात् केशलुञ्चनवेदनाम्॥

अस10.26
न याति यस्य चाहारः कण्ठं कण्ठामयादृते।
प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते॥

अस10.27
यस्य निद्रा भवेन्नित्या नैव वा न स जीवति।
वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणौ भृशम्॥

अस10.28
चक्षुश्चाकुलतां याति यमराज्यं गमिष्यतः।
यैः पुरा रमते भावैररतिस्तैर्न जीवति॥

अस10.29
कथयेन्न च पृष्टोऽपि दुःश्रवं मरणं भिषक्।
गतासोर्बन्धुमित्राणां न चेच्छेत्तं चिकित्सितुम्॥

अस10.30
यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते।
घ्नद्भिरौषधवीर्याणि तस्मात्तं परिवर्जयेत्॥

अस10.31
अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम्।
अरिष्टे रिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात्॥

अस10.32
चरकस्येति वचनं सुश्रुतेन तु पठ्यते।
ध्रुवं हि रिष्टे मरणं ब्राह्मणैस्तत् किलामलैः॥

अस10.33
रसायनतपोदानतत्परैश्च निवार्यते।
कृष्णात्रेयो द्विधा रिष्टं स्थिरास्थिरविभेदतः॥

अस10.34
दोषाणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत्।
तद्दोषाणां शमे शाम्येत्स्थाय्यवश्यं तु मृत्यवे॥

अस10.35
आयुर्वेदफलं कृत्स्नं यदायुर्ज्ञे प्रतिष्टितम्।
रिष्टज्ञानादृतस्तस्मात्सर्वदैव भवेद्भिषक्॥

अथैकादशोऽध्यायः।

अस11.1
अथातो विकृतव्याधिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस11.2
सर्वैर्यथास्वं हेतुप्राग्रूपरूपैरतिमात्रैर्यस्य व्याधिरुत्पद्यते।
व्याधितस्य वा यस्याशु मुखे पिप्लुव्यङ्गलेखातिलकालकाः।
करजरदनेषु वा पुष्पाण्युदरे वा नानावर्णाः सिराः।
यस्य शुष्यतो नेत्रोपदेहो वर्त्मनासिकान्यतरश्वयथुर्वर्त्मस्रंसो वा।
यस्य क्षीणस्य क्षुत्तृष्णा वा हृद्यैर्बहुभिरप्यन्नपानैर्न शाम्यति।
यस्य सफेनमसृक् प्रसिच्यते।
कुक्षिशूलं च।
उरसो वा।
यस्य श्लेष्मा नीलपीतलोहितो बहुशश्च।
यस्य बलवान् ग्रीवावमर्दो जिह्वाशोषः कण्ठास्यगुदपाकश्च।
यस्यामाशयोत्था परिकर्तिकातितृष्णा शकृद्भेदश्च। यस्य पक्वाशयोत्था परिकर्तिकातितृष्णातिमात्रश्च गुदग्रहः।
यस्यामपक्वाशयान्यतरमाश्रित्य संज्ञां च हत्वा वायुः कण्ठे घुर्घुरकं करोति।
यस्य क्षीणस्य तृष्णाभिवृद्धिर्हृदि शूलं च।
तथा हिध्मारक्तातिसारौ वाध्मानातीसारौ वा भृशं सतृष्णौ।
सपरासुरिति भवति चात्र॥

अस11.3
ज्वरो निहन्ति बलवान् गम्भीरो दैर्घरात्रिकः।
सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलम्॥

अस11.4
अक्षामं सक्तवचनं रक्ताक्षं हृदि शूलिनम्।
सशुष्ककासःपूर्वाह्णे योऽपराह्णेऽपि वा भवेत्॥

अस11.5
बलमांसविहीनस्य श्लेष्मकाससमन्वितः।
रक्तपित्तं भृशं रक्तं कृष्णमिन्द्रधनुष्प्रभम्॥

अस11.6
ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत्।
रोमकूपप्रविसृतं कण्ठास्यहृदये सजत्॥

अस11.7
वाससोऽरञ्जनं पूति वेगवच्चातिभूरि च।
वृद्धं पाण्डुज्वरच्छर्दिकासशोफातिसारिणम्॥

अस11.8
कासश्वासौ ज्वरच्छर्दितृष्णातीसारशोफिनम्।
यक्ष्मा पार्श्वरुजानाहरक्तच्छर्द्यं सतापितम्॥

अस11.9
छर्दिर्वेगवती मूत्रशकृद्गन्धिः सचन्द्रिका।
सास्रविट्पूयरुक्कासश्वासवत्यनुषङ्गिणी॥

अस11.10
तृष्णान्यरोगक्षपितं बहिर्जिह्वं विचेतनम्।
मदात्ययोऽतिशीतार्तं क्षीणं तैलप्रभाननम्॥

अस11.11
अर्शांसि पाणिपन्नाभिगुदमुष्कास्यशोफिनम्।
हृत्पार्श्वाङ्गरुजाच्छर्दिपायुपाकज्वरातुरम्॥

अस11.12
अतीसारो यकृत्पिण्डमांसधावनमेचकैः।
तुल्यस्तैलघृतक्षीरदधिमज्जवसासवैः॥

अस11.13
मस्तुलुङ्गमषीपूयवेशवाराम्बुमाक्षिकैः।
अतिरक्तासितस्निग्धपूत्यच्छघनवेदनः॥

अस11.14
कर्बुरं प्रस्रवन् धतून् निष्पुरीषोऽथवातिविट्।
तन्तुमान् मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतः॥

अस11.15
शीर्णपायुवलिं मुक्तनालं पर्वास्थिशूलिनम्।
स्रस्तपायुं बलक्षीणमन्नमेवोपवेशयेत्॥

अस11.16
सतृट्कासज्वरच्छर्दिदाहानाहप्रवाहिकः।
अश्मरी शूनवृषणं बद्धमूत्रं रुजार्दितम्॥

अस11.17
मेहस्तृड्दाहपिटकामांसकोथातिसारिणम्।
पिटका मर्महृत्पृष्ठस्तनांसगुदमूर्द्धगा॥

अस11.18
पर्वपादकरस्था वा मन्दोत्साहं प्रमेहिणम्।
सर्वं च मांससङ्कोथदाहतृष्णामदज्वरैः॥

अस11.19
विसर्पमर्मसंरोधहिध्माश्वासभ्रमक्लमैः।
गुल्मः पृथुपरीणाहो घनः कूर्म इवोन्नतः॥

अस11.20
सिरानद्धो ज्वरच्छर्दिहिध्माध्मानरुजान्वितः।
कासपीनसहृल्लासश्वासातीसारशोफवान्॥

अस11.21
विण्मूत्रसङ्ग्रहश्वासशोफहिध्माज्वरभ्रमैः।
मूर्च्छाछर्द्यतिसारैश्च जठरं हन्ति दुर्बलम्॥

अस11.22
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्।
विरेचनहृतानाहमानह्यन्तं पुनःपुनः॥

अस11.23
पाण्डुरोगः श्वयथुमान् पीताक्षिनखदर्शनम्।
तन्द्रादाहारुचिच्छर्दिमूर्च्छाध्मानातिसारवान्॥

अस11.24
अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्।
नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि॥

अस11.25
राजीचितः स्रवंश्छर्दिज्वरश्वासातिसारिणम्॥

अस11.26
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये।
दुर्बलस्य विशेषेण जायन्तेऽन्ताय देहिनः॥

अस11.27
श्वयथुर्यस्य पादस्थः परिस्रस्ते च पिण्डिके।
सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत्॥

अस11.28
आननं हस्तपादं च विशेषाद्यस्य शुष्यतः।
शूयेते वा विना देहात्स मासाद्याति पञ्चताम्॥

अस11.29
उदरी यश्च शोफी वा स्वं न पश्यति मेहनम्।
यस्य वा जठरोन्नामात् परिधानं न तिष्ठति॥

अस11.30
विसर्पः कासवैवर्ण्यज्वरमूर्छाङ्गभङ्गवान्।
भ्रमास्यशोफहृल्लासदेहसादातिसारवान्॥

अस11.31
कुष्ठं विशीर्यमाणाङ्गं रक्तनेत्रं हतस्वरम्।
मन्दाग्निं जन्तुभिर्जुष्टं हन्ति तृष्णातिसारिणम्॥

अस11.32
वायुः सुप्तत्वचं भुग्नं कम्पशोफरुजातुरम्॥

अस11.33
वातास्रं मोहमूर्छायमदास्वप्नज्वरान्वितम्।
शिरोग्रहारुचिश्वाससङ्कोचस्फोटकोथवत्॥

अस11.34
शिरोरोगारुचिश्वासमोहविड्भेदतृड्भ्रमैः।
घ्नन्ति सर्वामयाः क्षीणस्वरधातुबलानलम्॥

अस11.35
वातव्याधिरपस्मारी कुष्ठी रक्त्युदरी क्षयी।
गुल्मी मेही च तान् क्षीणान् विकारेऽल्पेऽपि वर्जयेत्॥

अस11.36
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः।
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति॥

अस11.37
वाताष्ठीलातिसंवृद्धा तिष्ठन्ती दारुणा हृदि।
तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम्॥

अस11.38
शैथिल्यं पिण्डिके वायुर्नीत्वा नासां च जिह्मताम्।
क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम्॥

अस11.39
नाभीगुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन्।
गृहीत्वा पायुहृदये क्षीणदेहस्य वा बली॥

अस11.40
मलान् वस्तिशिरोनाभिं विबध्य जनयन् रुजम्।
कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्नपुरीषताम्॥

अस11.41
श्वासं वा जनयन् वायुर्गृहीत्वा गुदवङ्क्षणौ।
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः॥

अस11.42
स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम्॥

अस11.43
सहसा ज्वरसन्तापस्तृष्णामूर्छाबलक्षयः।
विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते॥

अस11.44
गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्।
लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम्॥

अस11.45
प्रवालगुलिकाभासा यस्य गात्रे मसूरिकाः।
उत्पद्याशु विनश्यन्ति न चिरात्स विनश्यति॥

अस11.46
मसूरविदलप्रख्यास्तथा विदुमसन्निभाः।
अन्तर्वक्राः किणाभाश्च विस्फोटा देहनाशनाः॥

अस11.47
कामलाक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता।
सन्त्रासश्चोष्णताङ्गे च यस्य तं परिवर्जयेत्॥

अस11.48
अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयम्।
चन्दनोशीरमदिराकुणपध्वाङ्क्षगन्धयः॥

अस11.49
शैवालकुक्कुटशिखाकुङ्कुमालमषीप्रभाः।
अन्तर्दाहा निरूष्माणः प्राणनाशकरा व्रणाः॥

अस11.50
यो वातजो न शूलाय स्यान्न दाहाय पित्तजः।
कफजो न च पूयाय मर्मजश्च रुजे न यः॥

अस11.51
अचूर्णश्चूर्णकीर्णाभो यत्राकस्माच्च दृश्यते।
रूपं शक्तिध्वजादीनां सर्वांस्तान् वर्जयेद् व्रणान्॥

अस11.52
विण्मूत्रमारुतवहं कृमिणं च भगन्दरम्॥

अस11.53
घट्टयन् जानुना जानु पादावुयम्य पातयन्।
योऽपास्यति मुहुर्वक्त्रमातुरो न स जीवति॥

अस11.54
दन्तैश्छिन्दन् नखाग्राणि तैश्च केशांस्तृणानि वा।
भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन्॥

अस11.55
हृष्टरोमा सान्द्रमूत्रः शुष्ककासी ज्वरी च यः।
मुहुर्हसन् मुहुः क्षवेडन् शय्यां पादेन हन्ति यः॥

अस11.56
मुहुश्छिद्राणि विमृशन्नातुरो न स जीवति॥

अस11.57
ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्।
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्॥

अस11.58
विकारा यस्य वर्द्धन्ते प्रकृतिः परिहीयते।
सहसा सहसा तस्य मृत्युर्हरति जीवितम्॥

अस11.59
यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्।
यतमानो न शक्नोति दुर्लभं तस्य जीवितम्॥

अस11.60
विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्।
न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्॥

अस11.61
भवेद्यस्यौषधेऽन्ने वा कल्प्यमाने विपर्ययः।
अकस्माद्वर्णगन्धादेः स्वस्थोऽपि न स जीवति॥

अस11.62
निवाते सेन्धनं यस्य ज्योतिश्चाप्युपशाम्यति॥

अस11.63
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा।
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्॥

अस11.64
यं नरं सहसा रोगो दुर्बलं परिमुञ्चति।
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते॥


अथ द्वादशोऽध्यायः।

अस12.1
अथातो दूतादिविज्ञानीयमध्यायं व्याख्यास्यामः॥

अस12.2
निर्दिष्टं रिष्टमातुराश्रयम्।
दूतस्यापि तु जातिवेषभाषाचेष्टितदेशकाला वैद्यस्य च तत्सङ्गमसङ्कल्पप्रस्थानप्रयाणप्रवेशा ग्रहचारोऽपूर्वसम्भवः स्वप्नदर्शनानि च रोगिणः शुभाशुभं सूचयन्ति॥

अस12.3
तत्रातुराद्वर्णोत्तमोऽन्याश्रमः पाषण्डः षण्डो मुण्डी जटिलः स्त्री व्याधितोऽनेकोऽजीर्णविवर्णमलिनच्छिन्नार्द्रैकवसनः पङ्कतैलदिग्धो रक्तमाल्यानुलेपनो विकृताङ्गरूपकर्मा खरोष्ट्रमहिषवाहनो विक्लबः श्वसन् रुदन् निष्टुरामङ्गलाभिधायी दूरादाह्वयमानस्तृणलोष्टतुषाङ्गारभस्मतुषसीसास्थिकेशशिरोललाटनासिकास्यदन्तजिह्वाग्रीवानखानामिकाङ्गुलिस्तनजठरनाभिपृष्ठकटीमेहनजङ्घाकपालपललोपलमुसलशूर्पोपानन्मार्जनीशस्त्रवस्त्रान्तदशाकार्पासभग्नच्युतस्पृक्काष्ठयष्टीतुलारज्जुपाशचर्मवेणुरिक्तभाजनस्नेहभाजनधरः पादाभ्यां भुवं मुञ्चन् विलिखन् गृहीत्वा पक्वं फलप्रसारं वा तद्विधमन्यद्वा विकारतुल्यगुणे च देशे काले वा दूतो वैद्यमुपसर्पन्नशुभः॥

अस12.4
तद्यथा।
घृतोदकादिद्रवसमपि स्थमातिशीतस्तब्धः प्रत्युषसि श्लेष्मामयेऽशुभः।
पित्तामये तु शुभः।
तथा सेतुभङ्गे छर्दिमेहातिसारादिष्वशुभः सेतुबन्धे तु शुभः।
तथा मध्याह्नोभयसन्ध्यार्द्धरात्रिचतुर्थीषष्ठीनवमीपर्वदिनेषु ग्रहोपरागोत्पातदर्शनभ्रणीकृत्तिकार्द्राश्लेषामघामूलपूर्वासु चाशुभो यश्च वैद्यं सुप्तं नग्नं च भूमौ शयानमभ्यक्तं मुक्तकेशं दक्षिणाभिमुखं विक्लवं छिन्दन्तं भिन्दन्तमग्निपितृकार्यप्रवणमशस्तं चिन्तयन्तं कथयन्तं वोपतिष्ठति।
यो वा दिशं याम्यां प्रतिकृताञ्जलिर्विषमैकपादस्थः।
यस्मिन् व्याधिताश्रयं कथयति दूते भिषगशुभमिन्द्रियार्थमुपलक्षयेत् सङ्कल्पयेद्वा तं च नानुयायात्।
अतोऽन्यथा पुनः करुणापेशलेन मनसा सौमनस्यवता मातापितृसमेनातुरस्यात्यन्तमारोग्यमाशसमानेन प्रयातव्यम्॥

अस12.5
प्रस्थानगमनप्रवेशेषु दधिमधुघृतलाजपुष्पाक्षतोदुम्बराश्वत्थमुक्तामणिछत्रदूर्वाङ्कुरादर्शकन्याध्वजस्यन्दनाष्टापदाक्षा नृपश्रीतरुर्भद्रपीठानि सस्यानि मत्स्या हया हंसचाषौ वृषः केसरी दक्षिणावर्तशङ्खाब्जसिद्धार्थकारोचनाः स्वस्तिकस्तोरणं कीचकावेणवो वरवधूर्मदसिक्तगण्डो गजस्तोयलम्बोऽम्बुदः पूर्णकुम्भो हरिद्रात्रिरिन्द्रः फलान्यार्द्रमांसं सितं चामरं गौः सवत्साङ्गना पुत्रिणी मानुषं वर्धमानं सहस्रं भूमिरभ्युद्वृता सिद्धमन्नं वराहश्च तोयोत्थितास्त्रिणयनमधुसूदनस्कन्दपद्मासनाः लोकपालाः सुराः खं दिशोऽग्निः सरांसि स्रवन्त्यः समुद्रा मखा मारुतो ज्योतिषं धर्मशास्त्राणि तीर्थानि काव्यं धर्मार्थकामामृतं वालखिल्यादयो वेदवाक्यं निधिः कौस्तुभः काञ्चनं मणिभद्रः सुमेरुः प्रियङ्गुः प्रदीपो वचामोदकौ दितिरदितिररुन्धती र्द्धिः सावित्र्युमाकाशगङ्गा शची देवसेना स्वधा शान्तिर्लक्ष्मीः सरस्वत्यपत्यं क्षमा स्वस्तिशब्दो वषट्कार औंकारपुण्याहधर्मक्रियाश्चैतदष्टोत्तरं मङ्गलानां शतं दर्शनात् स्पर्शनात् कीर्तनाच्चाशुभानि व्यपोह्यार्थसिद्धिं दिशन्त्युत्तमाम्।
अपि च॥

अस12.6
पुन्नामानः पक्षिणो वामाः शिवाः।
शिवा श्यामा पिङ्गला कोकिलारला चुच्छुन्दरी सूकरी गृहगोधिकैकशफाश्च स्त्रीनामानो दक्षिणाः।
शिखी चणकश्येनगजाजकपयश्च।
प्रवेशे तु विपरीताः।
सर्वत्र च दक्षिणाद्वामगमनमिष्टं श्वसृगालयोः।
विपरीतं मृगविहङ्गयोः।
सर्वथापि दर्शनं भरद्वाजचाषभासनकुलानाम्॥

अस12.7
शशसर्पाजाविगोधाजाविकसूकराणां तु कीर्तनमिष्टम्।
न दर्शनं विरुतं वा।
विपरीतमृक्षवानरयोः।
सर्पमपि त्वनिष्टं सरटकुक्कुटबिडालोलूकानाम्।
तथा ग्रन्थ्यर्बुदादिषु छेदशब्द इष्टो गुल्मोदरादिषु भेदशब्दोऽतीसाररक्तपित्तादिषु रुद्धशब्दोऽश्मर्युदरादिषु प्रवर्तनशब्द इति।
एवमन्येऽपि ध्वनयो योज्याः।
सर्वत्रैव च स्थिरस्थावरवर्द्धमानत्राताचलध्रुवक्षेमशिवादयः शब्दा धन्यवादित्रस्वराश्च श्रेष्ठाः॥

अस12.8
क्षतहतपतिताक्रोशप्रहारच्छेदभेददाहहाहाप्रतिषेधादिशब्दाः चिकित्साप्रतिषेधाय॥

अस12.9
दीप्तायां च दिशि क्रूराः पक्षिमृगध्वनयो वृक्षे वा रूक्षशुष्के सवल्लीकण्टके।
तद्विधे वा देशे॥

अस12.10
दर्शनं च तृणपललकाष्ठभारकर्परकलोष्टादीनां कण्टकोर्ध्वपादयानशयनासनादिभग्नोपस्कररिक्तकुम्भमद्यवसातैलतिलगर्भिणीश्चपाकव्यसनिमृतानां च।
प्रवेशे चातुरगृहात् पूर्वोक्तमाङ्गल्यनिर्गमः।
प्रविष्टस्य तु भिषजः न सत्कारो लाभतुष्टिस्तुतयश्चाशुभाः॥

अस12.11
आतुरस्य वक्रानुवक्ता ग्रहा गर्हितस्थानस्थाः।
केतुशनिराहुभिर्जन्मर्क्षाभिभवो गृहदारशयनासनवाहनमणिरत्नोपकरणेषु वा गर्हितलक्षणप्रादुर्भावश्चिकित्साप्रतिषेधाय॥

अस12.12
स्वप्नस्तु स्वयमन्येन वा दृष्टः शुभाशुभहेतुः सप्तविधो दृष्टः श्रुतोऽनुभूतः प्रार्थितः सङ्कल्पितो भाविको दोषजश्च।
तत्राद्यः पञ्चविधोऽफलः।
तथा यथास्वप्रकृतिर्विस्मृतो दिवातिह्रस्वोऽतिदोर्घो नातिशुप्तदृष्टश्च॥

अस12.13
पूर्वरात्रेऽल्पं चिराच्च फलं करोति।
गोसर्गे महत्सद्यश्च।
निद्रया च पुनरनुपहतः प्रतीपैर्वा वचोभिर्दानयमनियमादिभिर्वा॥

अस12.14
तत्र यः प्रेतैः सह मद्यं पिबन् शुनाकृष्यते।
स हन्यते ज्वरेण।
यो लाक्षारक्ताभमम्बरं पश्यति यो वा रक्तदेहमाल्यवस्त्रो हसन्नार्या ह्रियते स रक्तपित्तेन।
यो याम्यां दिशं खरोष्ट्रमहिषवराहान्यतमेन स यक्ष्मणा।
यस्य कण्टकिनी लता वंशस्तालो वा हृदि जायते स गुल्मेन।
यस्य शिरसि स शिरोरोगेण वा शिरच्छेदनेन।
यस्य नग्नस्याज्यावसिक्तस्याग्निमनर्चिषं जुह्वतो जायन्ते पद्मान्युरसि स कुष्ठेन।
यश्चण्डालैः सह स्नेहं पिबति स प्रमेहेण।
यो मत्तः सोऽपस्मारेण।
यश्चन्द्रसूर्ययोरुपरागं पश्यति तस्य नेत्ररोग उपजायते।
यस्तयोः पतनं तस्य नेत्रविनाशः॥

अस12.15
यः शष्कुलीरपूरान्वाभ्यवहृत्य प्रतिबुद्धश्छर्दयति यस्य शिरसि लतादयो जायन्ते वयांसि च निलीयन्ते मौड्यं वा भवति यो गृध्रोत्लूककाकाद्यैः प्रेतपिशाचरक्षोद्रविडान्ध्रस्त्रीचण्डालाद्यैर्वा परिवार्यते दक्षिणाभिमुखं वा स्त्रिया नृत्यन्नाकृष्यते अन्तावसायिभिर्वा स्वयं वा दिग्वासा याति शून्याटवीं वा कपिरथेन प्रेतैः प्रव्रजितैर्वा परिष्वज्यते नग्नो वा रक्तां स्रजं धारयति पङ्कदिग्धो हसति नृत्यति वा वेत्रवंशकण्टकतृणगहने संसृज्यते पतति वा पांसूपधानायां भुवि वल्मीकभस्मश्मशानश्वभ्रायतनेषु पङ्ककूपकलुषोदकेषु वा मज्जति स्रोतसा वा ह्रियते रक्तकुसुमवनां भूमिं गुहामन्धकाराचितां पापकर्मालयं संबाधं जननीं वा प्रविशति मत्स्येन वा ग्रस्यते।
श्मश्रुकर्म च यो गात्रवृद्धिं विवाहं चानुभवति शैलप्रासादाग्रात्पतत्यारोहति वा यूपपुष्पाड्यशाल्मलीकोविदारकिंशुकपारिभद्रकान्यो वा पराजीयते बध्यते छर्दयति विरिच्यते हृष्यति लभते वा हिरण्यलोहलवणतैलपिण्याककार्पासानश्नाति पक्वान्नं पिबति मद्यं स्नेहं वाभ्यज्यति निर्भर्त्स्यते वा कुपितैः पितृभिः चन्द्रार्कतारादीपदेवतानेत्रदर्शनान्यनुपततो नश्यतो वा पश्यति वक्रं वा बाहुमङ्गं वा विभिद्यमानं पुरुषान् वा नग्नान् कषायवाससोऽसौम्यान् दण्डपाशहस्तान् कृष्णान्रक्ताक्षान् स्त्रियं वा कृष्णशुक्लदर्शनां दीर्घकेशस्तनीं कालरात्रिरूपां ते व्याधिताः पञ्चतामाप्नुवन्ति स्वस्थास्तु जीवितसन्देहमिति।
भवन्ति चात्र॥

अस12.16
मनोवहानां पूर्णत्वात् स्रोतसां प्रबलैर्मलैः।
दृश्यन्ते दारुणाः स्वप्ना विनाशाभिमुखात्मभिः॥

अस12.17
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः।
पश्येत् सौम्यं शुभं तस्य शुभमेव फलं भवेत्॥

अस12.18
देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान्।
साधून्यशस्विनो वह्निमिद्धं स्वच्छान् जलाशयान्॥

अस12.19
कन्याः कुमारकान् गौरान् शुक्लवस्त्रान् सुतेजसः।
नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितम्॥

अस12.20
यः पश्येल्लभते यो वा छत्रादर्शविषामिषम्।
शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम्॥

अस12.21
शैलप्रासादसफलवृक्षसिंहनरद्विपान्।
आरोहेत् गोऽश्वयानं च तरेन्नदह्रदोदधीन्॥

अस12.22
पूर्वोत्तरेण गमनमगम्यागमनं मृतिः।
सम्बाधान्निस्सृतिः स्पर्शास्तारकाचलभास्वताम्॥

अस12.23
रोदनं पतितोत्थानं द्विषतां चावमर्दनम्।
यस्य स्यादायुरारोग्यं वित्तं स बहुशोऽश्नुते॥

अस12.24
पितृदेवद्विजातीनां क्रुद्धभीतकृशात्मनाम्।
मलिनाम्बरपुष्पाणां दर्शनं न प्रशस्यते॥

अस12.25
तेषामेव तु तुष्टानां शुद्धपुष्पाम्बरात्मनाम्।
दर्शनं शस्यते स्वप्ने तैश्च सम्भाषणं शुभम्॥

अस12.26
दृष्ट्वा स्वप्नान् दारुणान् शोभनान् वा।
प्रातः स्नातः सर्षपानग्निवर्णान्।
हुत्वा सावित्र्या सर्पिषाक्तांस्तिलान्वा।
पूतः पापैर्मुच्यते व्याधिभिश्च॥

अस12.27
मङ्गलाचारसम्पन्नपरिवारस्तथातुरः।
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः॥

अस12.28
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु।
चिकित्सायामनिर्वेदस्तदारोग्यस्य लक्षणम्॥

अस12.29
इत्यत्र जन्ममरणं यतः सम्यगुदाहृतम्।
शरीरस्य ततः स्थानं शारीरमिदमुच्यते॥

इति द्वादशोऽध्यायः॥