अष्टाङ्गसंग्रहः सूत्रस्थानम् अध्याय २१-३०

अष्टाङ्गसंग्रहः

अथ एकविंशोऽध्यायः।


अस21.1
अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्याम इति हस्माहुरात्रेयो महर्षयः।
वातस्योपक्रमः स्नेहः स्वेदो मृदूनि स्निग्धोष्णमधुराम्ललवणानि संशोधनान्यभ्यवहार्याणि चाभ्यङ्गपूर्वमुपनाहनोपवेष्टनोन्मर्दनपरिषेकावगाहसंवाहन पीडनानि वित्रासनविध्मापनविस्मरणानि सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयद्रव्योपहितास्तथा शतपाकसहस्रपाकाः सर्वशः प्रयोगार्था बस्तयो बस्तिनियमो विशेषतस्तैलं मांसरसोऽनुवासनानि सुखशीलता स्त्रीसम्पर्कवर्ज्यश्च हैमन्तो विधिः॥

अस21.2
पित्तस्य सर्पिष्पानं सर्पिषा स्नेहनमधोदोषहरणं मधुरतिक्तकषायाणामौषधाभ्यवहार्याणामुपयोगो मृदुसुरभिशीतहृद्यानां गन्धानामुपसेवा परमशिशिरसुरभिसलिलमज्जनम्।
मनोऽनुकूलसंस्पर्शसुखानां मुक्तामणिवैडूर्याश्मगर्भशङ्खशिलापद्मरागचन्द्रकान्तकान्ततरतरलावलीनां भ्रमरत्रासितसहस्रपत्रासितोत्पल कदलीदलनवमालिकाकुन्दमल्लिकादिविविधवर्णप्रसूनविरचितानां स्रजां च धारणमुरसा।
क्षणे क्षणे चाग्र्यचन्दनप्रियङ्गुकालेयकमृणालकर्पूरसुगन्धिशीतस्वच्छगन्धवारिभिः सकमलकुमुदकुवलयैर्भूमितलकवाटवातायनहर्म्यभित्तीनामभिप्रोक्षणम्।
श्रुतिसुखमृदुमधुरमनोऽनुगानां गीतवादित्राणामभ्युदयानां च श्रवणम्।
अयन्त्रणैः समानविषयवेषचरितैरुत्सवोत्सवतरान्योन्यदर्शनैः सुहृद्भिः सहासनम्।
अनृतवचनविरहस्वभावसुरभितरवदनकुड्मलानां नातिस्पष्टाभिधायिनामनुपचारमधुरकोमलोल्लापानां प्रियाणामपत्यकानां सदयमाश्लेषः।
निर्दयं च तनुतरमृदुसुरभिनिवसनाभिर्मल्लिकामुकुलानुकारिमुक्ताफलप्रायालङ्काराभिः सहचरीनिनादसञ्जल्पोपजनितौत्सुक्यकलहंसानुनादितनूपुररशनाकलापशिञ्जितानुगमनसम्मुग्धमुग्धस्निग्धमृदुवचनाभिर्निजजघननिबिडकुचयुगलालङ्कारभारोद्वहनश्रमश्वसनकम्पितमध्यमुकुलितलोचनोत्पलाभिः किञ्चिद्विगलितनवयौवनाभिः प्रियङ्गसङ्गमात्रातिमात्रसुखास्वादविस्रंस्यमानांशुकैककालोपजातव्रीडावैलक्ष्यप्रगल्भतावैक्लव्यहर्षविषादविस्मयस्मितकोपप्रसादसाध्वसस्रस्तस्विन्नसर्वाङ्गद्रवीकृतहिमाङ्गरागाभिः समस्तदेहहृदयप्रह्लादकारिणीभिर्विलासवतीभिश्चतुरङ्गमिवानङ्गबलमङ्गैस्तनुभिरपि समुद्वहन्तीभिरङ्गनाभिराश्लेषः।
सकलरजनीकरकरनिकरावकीर्णशिशिरतराणि भवनतलसलिलपुलिनानि।
अतिसितसिकतोपास्तृततलमनोककाययन्त्रप्रवृत्तीवमलसलिलधारं धारागृहम्।
सागरानुकारितोयाशयोपतीरसुनिविष्टकुसुमितबहुविटपपृथुतुङ्गविविधतरतटरुहतरुनिवहबहलच्छायोपसञ्छन्नं घवलरक्तनीलनीरजरजोव्याप्तसमस्तजलविपुलसिकतिलतलोपकल्पितं दोलायमानगणतिथपृथुदृतिकलशसरणकरकस्रवदुदकप्रवाहाहितमृत्सौरभभूतलैकदेशं प्रलम्बमानाम्रजम्बूकदम्बविदुलनिचुलादिकिसलयमञ्जरीस्तबकप्रत्युप्तपटालिकं मुहुर्मुहुः पुरुषप्रयत्नप्रेरितघटमुखोद्गीर्णोशीरचन्दनानुविद्धावलग्नपतितशेष मुक्ताफलायमानजललवमुछ्रायविस्तारवदनिषिद्धदूरविस्तृतशीतवातप्रवेशमत्यर्थसन्तताम्बुशीतशीकराभिषेकप्रतिहतसन्तापदाहमोहश्रमक्लमपिपासमतिशयप्राप्तरामणीयकं हिमाचलस्पर्द्धिशैत्यमम्बुधरकाललीलाविडम्बि कायमानम्।
प्रफुल्लपद्मोत्पलपुण्डरीकसौगन्धिककोकनदशतपत्रपरागरागानुरञ्जितजलचरविहगगणकलनिनदरम्या दीर्घिकाः मधुपानलोभनिलीयमानालिकुलचलितलताप्रताननिपतितविविधकुसुमनिचयशयनरचनासव्यापारमृदुपवनान्युपवनानि।
विशेषतस्तु घृतं पयो विरेचनानि सौम्याः सर्वे भावाः दिवास्वप्नवर्ज्यश्च ग्रैष्मो विधिः॥

अस21.3
श्लेष्मणः पुनर्विधिविहितानि तीक्ष्णानि संशोधनानि रूक्षप्रायाण्यभ्यवहार्याणि कटुतिक्तकषायोपहितानि तीक्ष्णानि दीर्घकालस्थितानि हृद्यानि मद्यानि धावनलङ्घनप्लवनजागरणानियुद्धयुद्धव्यवायव्यायामरूक्षोन्मर्दनस्नानोच्छादनानि।
विशेषतः क्षौद्रं यूषो वमनानि सर्वशश्चोपवासः सधूमगण्डूषः सुखप्रतिषेधः सुखार्थमेव वासन्तिको विधिरिति।
भवन्ति चात्र॥

अस21.4
उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः।
संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्॥

अस21.5
ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते।
मरुतो योगवाहित्वात् कफपित्ते तु शारदः॥

अस21.6
योज्याः पट्वम्लमधुरा वायौ क्रुद्धे रसाःक्रमात्।
पित्ते पित्तस्ततः स्वादुः कषायश्च रसो हितः॥

अस21.7
कटुकः प्राक् ततस्तिक्तः कषायोऽन्ते कफामये॥

अस21.8
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु।
वर्षादिषु तु पित्तस्य श्लेष्मणेः शिशिरादिषु॥

अस21.9
चीयते लघुरूक्षाभिरोषधीभिः समीरणः।
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति॥

अस21.10
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्।
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः॥

अस21.11
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः।
तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति॥

अस21.12
इति कालस्वभावोऽयम् आहारादिवशात् पुनः।
चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु॥

अस21.13
व्याप्नोति सहसा देहमापादतलमस्तकम्।
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्॥

अस21.14
चय एव जयेद्दोषं कुपितं त्वविरोधयन्।
सर्वकोपे बलीयांसं शेषदोषाविरोधतः॥

अस21.15
क्रमान्मरुत्पित्तकफान् सर्वत्र सदृशे बले।
वातादीनां यथापूर्वं यतः स्वाभाविकं बलम्॥

अस21.16
ऊचे पराशरोऽप्यर्थममुमेव प्रमाणयन्।
यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितम्॥

अस21.17
नेतृभङ्गेन दृष्टो हि समं सैन्यपराजयः॥

अस21.18
स्थानतः केचिदिच्छन्ति प्राक् तावच्छ्लेष्मणो वधम्।
शिरस्युरसि कण्ठे च प्रलिप्तेऽन्नरुचिः कुतः॥

अस21.19
तदभावे कथं भोज्यपानद्रव्यावचारणम्।
असत्यभ्यवहारे च कुतो दोषविनिग्रहः॥

अस21.20
तस्मादादौ कफो घात्यः कायद्वारार्गलो हि सः।
मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते॥

अस21.21
अतो वातसखस्यास्य कुर्यात्तदनु निग्रहम्।
अत एव च पित्तादिःकफान्तोऽन्यैःक्रमःस्मृतः॥

अस21.22
सुश्रुतश्च न सर्वत्र मतमेतत् ब्रवीति तु।
जयेज्ज्वरेऽतिसारेच क्रमात् पित्तकफानिलान्॥

अस21.23
प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते।
विशश्च सरणं पित्तात्तथा च मृदुकोष्ठता॥

अस21.24
तस्यचानुबलःश्लेष्मा गौरवापक्तिजाड्यकृत्।
वायुश्च वर्द्धतेऽवश्यं यात्स्वहस्सु तयोःक्षये॥

अस21.25
ज्वरातिसारयोस्तस्मादेष दोषजये क्रमः॥

अस21.26
कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि।
यस्मादामाशयोत्क्लेशात् भूयिष्ठं तत्समुद्भवः॥

अस21.27
क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाश्रये स्थितान्।
स्वाश्रयेषु प्रदुष्टानां स्थितैव ह्याशुकारिता॥

अस21.28
विज्ञाय कर्मभिः स्वैः स्वैर्दोषोद्रेकं यथाबलम्।
भेषजं योजयेत्तत्तत् तन्त्रीकुर्यान्न तु क्रमम्॥

अस21.29
प्रयोगः शमयेद् व्याधिं योन्यमन्यमुदीरयेत्।
नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्॥

अस21.30
क्रुद्धं मलमलं जेतुं नाल्पभावादुभावपि।
दोषा दोषात्मकत्वाच्च न समेऽपि परस्परम्॥

अस21.31
शीतद्रवाम्ललवणकट्वादिगुणतुल्यता।
दृष्टा मिथश्च दोषेषु नातोन्योन्यं जयन्ति ते॥

अस21.32
आरम्भकं विरोधेऽपि मिथो यद्यत् गुणत्रयम्।
विश्वस्य दृष्टं युगपद्व्याधेर्दोषत्रयं तथा॥

अस21.33
वायुरामान्वयः सार्तिराध्मानकृदसञ्चरः।
दुर्गन्धमसितं पित्तं कटुकं बहलं गुरु॥

अस21.34
आविलस्तन्तुमांस्त्यानः प्रलेपी पिच्छिलः कफः।
विपर्यये तु पक्वत्वं तथा ताम्रं समेचकम्॥

अस21.35
पीतञ्च पित्तमच्छञ्च श्लेष्माच्छः पिण्डितोऽथवा।
विशदश्च सफेनश्च धवलो मधुरो रसे॥

अस21.36
ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्।
दुष्टमामाशयगतं रसमामं प्रचक्षते॥

अस21.37
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्।
कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्॥

अस21.38
आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः।
समा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः॥

अस21.39
सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्।
लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव॥

अस21.40
आश्नयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः।
पाचनैर्दीपनैःस्रेहैस्तान् स्वेदैश्चपरिष्कृतान्॥

अस21.41
शोधयेच्छोधनैः काले यथासन्नं यथाबलम्।
हन्त्याशुयुक्तं वक्त्रेण द्रव्यमामाशयान्मलान्॥

अस21.42
घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानात् गुदेन तु।
उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम्॥

अस21.43
धारयेदौषधैर्दोषान् विधृतास्ते हि कुर्वते।
रोगानुत्पादनिर्दिष्ठानतिस्थौल्यादिकान् गदान्॥

अस21.44
प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः।
विबद्धान् पाचनैस्तैस्तैः पाचयन् निर्हरेत वा॥
इति एकविंशोऽध्यायः॥

अथ द्वाविंशोऽध्यायः।

अस22.1
अथातो रोगभेदीयमध्यायं व्याख्यास्यामः इति हस्माहुरात्रेयादयो महर्षयः।
सप्तविधाः खलु रोगा भवन्ति।
सहगर्भजातपीडाकालप्रभावस्वभावजाः।
ते तु पृथग्द्विविधाः।
तत्र सहजाः शुक्रार्तवदोषान्वयाः।
कुष्ठार्शोमेहादयः।
पितृजा मातृजाश्च।
गर्भजा जनन्यभिवारात् कौब्जपाङ्गुल्यपैग्गल्यकिलासादयोऽन्नरसजा दौहृदविमाननजाश्च।
जातजाः स्वापचारात् सन्तर्पणजा अपतर्पणजाश्च।
पीडाकृताः क्षतभङ्गप्रहारक्रोधशोकभयादयः शारीरमानसाश्च।
कालजाः शीतादिकृता ज्वरादयो व्यापन्नजा असंरक्षणजाश्च।
प्रभावजा देवगुरूल्लङ्घनशापार्थवणादिकृता ज्वरादयः पिशाचादयश्च।
स्वभावजाः क्षुत्पिपासाज्वरादयः कालजा अकालजाश्च।
तत्र कालजा रक्सणकृताः।
अरक्षणजा अकालजाः।
त एते समासतः पुनर्द्विविधा भवन्ति।
प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च।
तत्र रोगोत्पत्तिं प्रति प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण दृष्टमदृष्टञ्चोद्दिश्याप्तोपदिष्टानां विहितानां प्रतिषिद्धानामननुष्ठानमनुष्ठानं वा।
जन्मान्तरातीतेन तु पूर्वम्।
तत्तु पुनर्दैवाख्यमुक्तञ्च नियतानियतभेदेन प्राक्।
तस्माद् दृष्टहेतवः प्रत्युत्पन्नकर्मजाः।
विपरीता दैवजन्मानः अल्पनिदाना महारुजाश्चोभयात्मकाः॥

अस22.2
तत्र यथास्वं प्रतिपक्षशीलनात् पूर्वेषां रोगाणामुपशमः।
सत्येव विपक्षशीलनेऽनिष्टकर्मक्षयात् दैविकानाम्।
दोषकर्मक्षयादन्येषाम्।
अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयन्ति।
तच्च पराभिसंस्कारमाचक्षते।
एवञ्चाहुः यदि स्वयं कृतादेवकर्मणः कार्यानिर्वृत्तिः स्यात्।
न दृष्टपुरुषान्तरकृतात्।
किमिति विद्वानपि पराचरितयोरुपकारापकारयोः सुखदुःखानुरोधात्तोषरोषौ प्रतिकर्तव्यचित्तं वा प्रतिपद्यते।
एवमेते व्याधयो द्विविधाः सन्तः त्रिविधा जायन्ते।
ततश्च दोषवन्तो भूयः सप्तविधाः॥

अस22.3
सकलोऽपि चायं रोगसमूहः प्रतिकारवानायुर्वेदविहितमुपदेशमपेक्षते।
यस्मान्नियतहेतुकोऽप्यामयः सम्यक् भिषगादेशानुष्ठानादुपात्तायुस्संस्कारापरिक्षये जातोपि वा सह्यवेदनतां प्रतिपद्यते।
अनुपक्रम्यमाणस्तु सर्व एव प्रायशो भिनत्यकण्डे।
स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानष्षोडशगुणसमुदित क्रियोपलम्भादाशुतरमपरिक्लिष्टस्य चापगच्छति।
अनियतफलदायिनि तु दैवे हिताभ्यासरतस्याऽवकाशमेव न लभते व्याधिः।
तस्मान्न कस्याञ्चिदवस्थायामात्मवान् हिताहितयोः तुल्यदर्शी स्यात्।
त्रिविधाश्च पुनर्व्याधयो मृदुमध्याधिमात्रभेदेन।
तत्राल्पलक्षणा मृदवो मध्यलक्षणा मध्याः सम्पूर्णलक्षणास्त्वधिमात्राः।
ते पुनः सुखसाध्यादिविशेषेण चतुर्विधाः प्रागुपदिष्टाः।
सुबहुशोऽपिच भिद्यमाना व्याधयो निजागन्तुतां न व्यभिचरन्ति॥

अस22.4
तत्र निजास्तु दोषोत्थाः।
तेषु पूर्वं वातादयो वैषम्यमापद्यन्ते ततो व्यथाभिनिर्वर्तते।
बाह्यहेतुजास्त्वागन्तवः तेषु प्राहरेण व्यथा पूर्वमुपजायते ततो दोषवैषम्यम्।
दोषवैषम्येणैव च बहुरूपा रुगनुबध्यते प्रवर्द्धते च।
एवञ्च कृत्वा न दोषव्यतिरेकेण रोगानुबन्धः केवलं पौर्वापर्ये विशेषः।
तस्मादेकाकारा एवरोगा रुक्सामान्यात्।
असङ्ख्यभेदा वा प्रत्येकं समुत्थानस्थानसंस्थानवर्णनामवेदनाप्रभावो पक्वमविशेषात्।
यथास्थूलं यथास्वमेवोपदेक्ष्यन्ते।
असङ्ख्येयत्वाच्च दोषलिङ्गैरेव रोगानुपक्रमं च विभजेत्॥

अस22.5
दोषा एव हि सर्वरोगककारणम्।
यथैव शकुनिः सर्वतः परिपतन् दिवसं स्वां च्छायां नातिवर्तते।
यथा वा कृत्स्नं विकारजातं वैश्वरूप्येण व्यवस्ह्तितं गुणत्रयमप्यतिरिच्य न वर्तते।
तथैवेदमपि कृत्स्नं विकारजातं दोषत्रयमिति।
यथा च विद्युद्वर्षादयो नभसि भवन्ति न त्ववश्यं निमित्ततस्त्ववश्यमपि।
तरङ्गबुद्बुदादयश्चाम्भसि तथा दोषेषु रोगाः॥

अस22.6
त्रिविधन्तु निमित्तमेषामसात्म्येन्द्रियार्थसंयोगः पज्ञापराधाः परिणामश्च ते पुनः प्रत्येकमतियोगायोगमिथ्यायोगभेदात् त्रिधा भिद्यन्ते।
तत्र यथास्वं चक्षुरादीन्द्रियाणां रूपादिभिरर्थैरतिसंसर्गोऽतियोगः।
अल्पशो नैव वा संसर्गस्त्वयोगः।
सूक्ष्मातिदूरान्तिकस्थातिभास्वत्भरवाप्रियविकृतादिदशनम्।
द्विष्टात्युच्चपरुषभीषणादिश्रवणम्।
पूत्यमेध्यातितीक्ष्णोग्रप्रतिकूलाद्याघ्राणम्।
स्वभावादिभिराहारकल्पनाविशेषायतनैरपथ्यानां रसानामभ्यवहारः तथा स्नानादीनां शीतोष्णादीनाञ्च स्पृश्यानामयथावदुपसेवनमशुचिभूताभिघातविषवातादिसंस्पर्शश्च भिथ्यायोगः॥

अस22.7
कायवाङ्मनोभेदेन तु त्रिविधमप्यहितं कर्म प्रज्ञापराधः।
तत्र कायादिकर्मणोऽतिप्रवृत्तिरतियोगः।
अल्पशो नैव वा प्रवृत्तिरयोगः।
वेगोदीरणधारणविषमाङ्गेचष्टनस्खलनकण्डूयनप्रहारप्राणायामादि।
तथा क्षुत्पिपासार्धभुक्तभाषणादि।
भयशे केर्ष्यामात्सर्यादि।
दशविधं चाकुशलं कर्म यथास्वं मिथ्यायोगः।
परिणामः काल उच्यते।
सोऽपि शीतोष्णवर्षभेदात्त्रिधा।
तत्रालितिमात्रस्वलक्षणः कालोऽतियोगः।
हीनस्वलक्षणस्त्वयोगः।
विपरीतो मिथ्यायोगः।
त एतेऽतियोगादयः सामान्यतोऽनुपशयलक्षणाः।
सर्वो वा प्रज्ञापराध एवायं यदेषामविवर्जनम्।
अर्थकर्मकालाः पुनःसम्यग्योगेनोपशयात् भूयिष्ठं स्वास्थ्यहेतवः।
तत्रापि रसवर्ज्या विषया यथायथमिन्द्रियं बाधन्तेऽनुगृह्णन्ति च।
शेषा रसकर्मकालास्तु सर्वं देहं।
अपि च॥

अस22.8
सर्वभावानां भावाभावौ नान्तरेण योगातियोगादीन् व्यवस्येत्।
सर्वेषां पुनर्विकाराणां निदानदोषदूष्याविशेषेभ्यो भावाभावविशेषा भवन्ति।
यदा ह्येते त्रयो निदानादिविशेषात् नान्योन्यमनुबध्नन्तीषद्वानुबध्नन्त्यबला वा न तदामिनिर्वर्त्तन्ते व्याधर्याश्चरा द्वाभिनिर्वर्त्तन्ते तनवो वा भवन्त्यसम्पूर्णलिङ्गा वा।
विपर्यये तु विपरीताः॥

अस22.9
त्रयश्च रोगाणां मार्गा बाह्यमध्याभ्यन्तराः तत्र बाह्यो रक्तादिधातवस्त्वक् च।
स पुनः शाखाख्यः।
तदाश्रयाः गण्डपिटकालज्यपचीचर्मकीलार्बुदाधिमांसमशव्यङ्गादयो बहिर्भागाश्च शोफार्शोगुल्मवीसर्पविद्रध्यादयः।
मध्यो मूर्द्धहृदयबस्त्यादीनि मर्माण्यस्थिसन्धयः।
तत्रोपनिवद्धाश्च स्नायुसिराकण्डरादयः तदाश्रयाः।
पक्षवधग्रहापतानकार्दितराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयो मूर्द्धादिरोगाश्च।
आभ्यन्तरो महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयाश्रयः कोष्ठोऽन्तरिति पर्यायाः तदाश्रया ज्वरातीसारछर्द्यलसकविषूचिकाश्वासकासहिध्मानाहोदरप्लीहादयोऽन्तर्भागाश्च विसर्पशोफार्शोविद्रधिगुल्मादयः॥

अस22.10
ते च रोगाः स्वप्रधाना भवन्त्यन्यपरिवारा वा क्रमादनुबन्ध्यनुबन्धाख्याः।
तत्राद्याः स्वतन्त्राः स्पष्टाकृतयो यथास्वं समुत्थानोपशयाश्च।
इतरे तु तद्विपरीताः तद्वच्च दोषा अपि।
तत्रान्यपरिवारा व्याधयो द्विविधाः।
पुरोगामिनोनुगामिनश्च।
तेष्वाद्याः पूर्वरूपसंज्ञाः।
उपद्रवास्त्वितरे।
तान्यथायथमेव वक्ष्यमाणानुपलक्षयेत्।
प्रधानप्रशमे च प्रशमो भवति तेषामनुपशाम्यतो वा पश्चात्तानुपक्रमेत्।
त्वरितं वा बलवन्तमुपद्रवं प्रधानाविरोधेन।
स हि पीडाकरतरो भवति व्याधिपरिक्लिष्टदेहत्वात् प्रमेहपिटकादिवत्।
तथान्यः प्रधान एव रोगोऽन्यस्य प्रधानस्य हेतुः भवति।
यथा ज्वरो रक्तपित्तस्य रक्तपित्तं वा ज्वरस्य।
तौ श्वासस्य।
प्लीहा जठरस्य।
तच्छ्वयथोः।
अर्शांसि गुल्मोदरातीसारग्रहणीनां।
प्रतिश्यायः कासज्वरयोः।
तौ क्षयस्य।
क्षयः शोषस्य।
एकश्चापचारो निमित्तमेकस्य व्याधेः बहूनां च तथा बहवः तद्वदेकं लिङ्गम्।
एवमेव प्रशमेऽभ्युपायः तथा स एवान्यस्य प्रकोपे।
तस्मात्तानवहितः सम्यगागमादिभिः परीक्षेत॥

अस22.11
तत्रागमतो रोगमेवमेवं प्रकोपणमेवं योनिमेवमधिष्ठानमेवमात्मानमेवं देवनमेवं रूपशब्दगन्धरसस्पर्शमेवं पूर्वरूपमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदर्कमेवं नामानम्।
तस्मिन्नियं प्रतीकारस्य प्रवृत्तिः अन्यथा निवृत्तिः।
प्रत्यक्षतस्त्वातुरस्य यथास्वमिन्द्रियैर्वर्णसंस्थानप्रमाणोपचयछायाविण्मूत्र छर्दिताधिक्यमान्त्रकूजनमङ्गुल्यादिषुसन्धिषु स्फुटनं देहशकृद्वर्णादिगन्धं सुप्तशीतोष्णस्तम्भनसंस्पन्दश्लक्ष्णखरस्पर्शञ्च।
प्रकृतिविकृतियुक्तमास्यरसन्तु प्रश्नेन तथा सुच्छर्दनदुच्छर्दनत्वं मृदुक्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्रद्विष्टेष्टसुखदुःखानि च।
तथा वयः प्रत्यक्षेण च।
अनुमानतस्तु यूकापसर्पणेन शरीरवैरस्यम्।
मक्षिकोपसर्पणेन शरीरमाधुर्यम्।
तथाग्निं जरणशक्त्या।
बलं व्यायामशक्त्या।
गूढलिङ्गं व्याधिमुपशयानुपशयतः।
दोषप्रमाणमपचारविशेषेणायुषः क्षयं रिष्टैः।
प्रकृति सत्वसारसात्म्यबलाननुशीलनेनेति।
भवति चात्र॥

अस22.12
ज्ञानबुद्धिप्रदीपेन यो नाविशति योगिवत्।
आतुरस्यान्तरात्मानं न स गोरांश्चिकित्सति॥

अस22.13
द्वाविमौ व्याधितौ व्याधिस्वरूपस्याप्रकाशकौ।
तद्यथैको गुरुव्याधिः सत्वदेहबलाश्रयात्॥

अस22.14
लघुव्याधिवदाभाति लघुव्याधिरतोन्यथा।
बाह्यावयवमात्रेण तयोर्मुह्यति बालिशः॥

अस22.15
ततोल्पमल्पवीर्यं वा विपरीतमतोऽथवा।
पथ्यंविपर्यये युञ्जन् प्राणान् मुष्णाति रोगिणाम्॥

अस22.16
ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते।
बुभुत्सेत भिषक् तस्मात् तत्वं तन्त्रानुशीलनात्॥

अस22.17
अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा।
न जातु स्खलति प्राज्ञो विषमेपि क्रियापथे॥

अस22.18
आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमतिप्रवृद्धः।
तत्रानुबन्धं प्रकृतिञ्च सम्यक् ज्ञात्वा ततः कर्म समारभेत॥
इति द्वाविंशोऽध्यायः॥

अथ त्रयोविंशोऽध्यायः।

अस23.1
अथातो भेषजावचरणीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस23.2
भेषजमवचारयन् प्रागेव तावदेवमातुरं परीक्षेत।
कस्मिन्नयं देशे जातः संवृद्धो व्याधितो वा कस्मिंश्च देशे मनुष्याणामिदमाहारजातमिदं विहारजातमेतावत् बलमेवांविधं सत्वमेवंविधं सात्म्ममियं भक्तिरिमे व्याधयो हितमिदमहितमिदमिति।
प्राग्ग्रहणेन केन वा निदानविशेषेणास्यकुपितो दोषः।
दोषस्य ह्येकस्यापि बहवः प्रकोपे हेतवः।
तस्माद्यथास्वलक्षणैः कर्मभिश्च बुध्वा भिषक्दोषमेवमवगमयेत्।
तद्यथा।
किमाहारेण कुपितो वायुः किं विहारेण तथा रूक्षेण लघुना शिशिरेण वा साहसेन वेगरोधेन वा भयेन शोकेन वेति।
ततश्च तत्प्रतिपक्षमौषधं प्रयुज्यमानमाशु सिद्धये सम्पद्यते।
तत्र मधुराम्ललवणा रसाः कटुतिक्तकषायाश्चेतरेतरप्रतिपक्षाः।
तदनन्तरञ्चोपलभेत।
मृदुमध्यातिमात्रविकल्पनया कथं निदानमासेवितम् एकरूपस्यापि हि हेतोः मृद्वादिविभागेन पृथक् समवेतानाञ्च दोषाणामंशांशबलविकल्पविशेषात् व्याधेर्बलाबलविशेषः।
तत्रानेकदोषात्मकेषु व्याधिष्वनेकरसेषु च भेषजेषु रसदोषप्रभावमेकैकशोऽभिसमीक्ष्य व्याधिभेषजप्रभावतत्वं व्यवस्येत।
नत्वेवं सर्वत्र॥

अस23.3
न हि विषमविकृतिसमवेतानां नानात्मकानां परस्परेणोपगृहीतानामुपहतानाञ्चान्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभावतत्वमध्यवसितुं शक्यम्।
तथाविधे हि समुदाये समुदायप्रभावमेवोपलभ्य व्याध्यौषधप्रभावतत्वमवगच्छेत्।
तथा कस्य धामाधिष्ठाय व्याधिरयमवस्ह्तित इति निरूपयेत्।
प्रविसृतो हि दोषः स्वमेव स्थानमातङ्कायाधितिष्ठन् मूर्द्धादीन् वा दुस्तरो भवति।
ततश्च स्थानविशेषेण भेषजविशेषः पर्येषितव्यः॥

अस23.4
ततश्चैवमालोचयेत्।
कस्यायमौषधस्य व्याधिरातुरो वा योग्यः।
कियतो वा।
दोषानुरूपो हि भैषज्यवीर्यप्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति॥

अस23.5
सहसातिबलानि संशोधनौषधान्याग्नेयवायव्यान्यतिसौम्यान्यतिमात्राणि वा।
तथाग्निक्षारशस्त्रकर्माण्यल्पसत्वमातुरमल्पबलं वातिपाययेयुः।
संशमनानि तु व्याधिबलादधिकानि तमुपशमय्य व्याधिं व्याधिक्षपितदेहे शीघ्रमन्यमावहन्ति।
शरीरबलाधिकानि ग्लानिमूर्च्छामदमोहबलक्षयान्।
अग्निबलादधिकानि ग्लानिमग्निसादश्च॥

अस23.6
अपि च।
अतिस्थूलोऽतिकृशो दुर्बलो दुर्बद्धमांसशोणितास्थ्यंगावयवोऽल्पाग्निरल्पाहारोऽसात्म्याहारोपचितः साररहितो वा व्याधिबलमेव तावदसमर्थसोढुम्।
किं पुनस्तथाविधो भेषजमेवंवेगम्।
तस्मात्तादृशमविषादकरैर्मृदुसुखैरुत्तरोत्तरगुरुभिरविभ्रमैश्चोपाचरेदौषधैर्विशेषादबलाः।
ताह्यनवस्थितमृदुविक्लवहृदयाः प्रायःसुकुमाराः परायत्ताश्च।
ततोऽपि विशेषेण शिशवः।
तथा बलवति व्याध्यातुरेऽल्पबलमल्पं वा भेषजमकिञ्चित्करं भूय एव दोषमुत्क्लेश्य व्याधिमुदीरयेत्॥

अस23.7
योग्यमपि चौषधमेवं परीक्षेत।
इदमेवंरसवीर्यविपाकमेवंगुणमेवंद्रव्यमेवंकर्मैवंप्रभावमस्मिन् देशे जातमस्मिन्नृतावेवंगृहीतमेवंनिहितमेवंविहितमेवंनिषिद्धमेवमुपसस्कृतमेवंसंयुक्तमेवंयुक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काल एतावन्तं दोषमपकर्षत्युपशमयति वा।
अन्यदपि चैवंविधं भेषजमभूत् तन्मानेन वा विशेषेण प्रयुक्तमिदमकरोत्।
सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहाररससात्म्यसत्वप्रकृतिवयसामवस्थान्तराणि।
यान्यनालोचितानि निहन्युरातुरम्।
आलोच्यमानानि तु विपुलबुद्धिमपि चिकित्सकमाकुलीकुर्युः।
किं पुनरल्पबुद्धिम्।
तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत यज्ञाम्।
अपि च।
सन्ति व्याधयो ये शास्त्र उत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः।
तत्र प्राज्ञ एव दोषादिगुरुलाघवेन सम्यगध्यवस्येदन्यतरनिष्ठायाम्॥

अस23.8
कालश्च भेषजस्य योग्यतामादधाति।
स क्षणलवमुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्रागपि च।
शीतोष्णवर्षलक्षणस्त्रिविधः कालः।
तत्र शीतोष्णयोर्वृष्टिशीतयोश्चान्तरे साधारणौ वसन्तजलदात्यायु।
ग्रीष्मवर्षकालयोस्तु प्रारम्भो वृष्टेः प्रावृडिति विकल्प्यते।
तेषु साधारणेष्वहस्सु वमनादीनां प्रवृत्तिर्न्निवृत्तिरितरेष्वयोगातियोगभयात्।
साधारणा हि मन्दशीतोष्णवर्षतया सुखत्वात् भवन्त्यविकल्पकाः शरीरौषधानाम्।
विपरीतास्त्वितरे॥

अस23.9
तथा हि शीतकालेऽतिमात्रशीतोपहितत्वाच्छरीरमत्यर्थशीतवातविष्टब्धमतिस्तब्धबहुगुरुदोषं भवति।
तदनु प्राप्तञ्च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोपहतत्वान्मन्दवीर्यतां गतमयोगाय जायते।
शरीरञ्च वातप्रायोपद्रवाय।
तद्वद्वर्षास्वपि समन्तादतिघनेन बहलेन घनसम्पातेनावतते नभसि उपरुद्धतेजःयसरेषु दिनकरकरेषु जलपटलोत्प्लावनोद्दामकर्दमायां भूमावत्यर्थोपक्लिन्नमवसन्नानलबलमादानदुर्बलं शरीरं भवति॥

अस23.10
औषधग्रामस्तु जलदोदरप्रततप्रमुक्तधारावपातसम्भृताम्बुनिवहोपप्लावितमूलजालसारविटपो बहलकोमलपल्लवोपचितस्कन्धशाखः पुनरिव बालतामुपगतोऽल्पवीर्यो भवति।
अपरिसंस्थिततया च क्षितिमलप्नायाभिरम्लविपाकाभिः खगमृगसरीसृपादिशवधातुमूत्रपुरीषसंस्पृष्टाभिरद्भिः सलिलशिशिरशीकरानुविद्धशिशिरपवनसम्पृक्तेन च धाराधरोष्मणा कोमलत्वादपरिणतस्यास्य सुतरां विदाहो जन्यते।
ततश्चासावपथ्यतामुपगतो ध्रुवमयोगाय प्रथमसंगृहीतमपिचौषधं तोयदतोयानुगतमारुतोपहते जगतीति॥

अस23.11
ग्रीष्मे पुनरादानोपहतत्वाच्छरीरमुष्णरूक्षवातातपाध्मातमतिस्विन्नमतिशिथिलमतियलीनदोषं भवति।
भेषजं पुनरनुष्णमपि तपनकरनिपातादुष्णतीक्ष्णतामुपगतमतियोगायोपकल्पते।
शरीरञ्च पिपासाभ्रमक्लमोपद्रवाय।
तस्मात्साधारणेष्वेव तदन्तरालेषु वमनादीनि योजयेन्नचेदात्ययिको व्याधिः।
आत्ययिके तु कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन संयोगसंस्कारप्रमाणविकल्पैश्चोपपाद्यौषधमेवावहितोऽवचारयेत्॥

अस23.12
आतुरावस्थासु तु कलाः कालसंज्ञाः।
तद्यथास्यामवस्थायामस्यौषधस्य कालोऽकालो वा।
नह्यप्राप्तातीतकालमौषधं यौगिकं भवति।
तस्यत्वेकादशधावचारणम्।
तद्यथा।
अभक्तं प्राग्भक्तं मध्यभक्तमधोभक्तं सभक्तमन्तरभक्तं सामुद्गं मुहुर्मुहुः सग्रासं ग्रासान्तरा निशि च॥

अस23.13
तत्राभक्तं नाम केवलमेवौषधं निरन्नोपयोगादतिवीर्यम्।
कफोद्रेकविमुक्तामाशयस्रोताः प्रातर्बलवानुपयुञ्जीत।
इतरस्तु प्राग्भक्तादिकमन्नसंसर्गेण हितं नातिग्लानिकरं भवति॥

अस23.14
प्राग्भक्तं नाम यदनन्तरभक्तम्।
तदपानानिलविकृतावधः कायस्य च बलाधानार्थं तद्गतेषु च व्याधिषु प्रशमनाय कृशीकरणार्थञ्च योज्यम्॥

अस23.15
मध्यभक्तं मध्ये भक्तस्य तत् समानानिलविकृतौ।
कोष्ठगतेषु च व्याधिषु पैत्तिकेषु च॥

अस23.16
अधोभक्तं भक्तादनन्तरम्।
तत्तुव्यानविकृतौ प्रातराशान्तमुदानविकृतौ पुनः सायमाशान्तम्।
पूर्वकायस्य च बलाधानार्थं तद्गतेषु व्याधिषु च श्लैष्मिकेषु च प्रशमाय स्थूलीकरणार्थञ्च॥

अस23.17
सभक्तं यदन्नेन समं साधितं पश्चाद्वा समालोडितम्।
तत् बालेषु सुकुमारेष्वौषधद्वेषिष्वरुचौ सर्वाङ्गगेषु च रोगेषु॥

अस23.18
अन्तराभक्तं यत् पूर्वाह्णे भक्ते जीर्णे मध्याह्ने भेषजमुपयुज्यते।
तस्मिंश्च जीर्णे पुनरपराह्णे भोजनम्।
एतेन रात्रिर्व्याख्याता।
तद्दीप्ताग्नेर्व्यानजेष्वामयेषु॥

अस23.19
सामुद्गं यदादावन्ते च भुक्तस्य।
तत्तु लघ्वल्पान्नयुक्तं पाचनावलेहचूर्णादि हिध्मायां कम्पाक्षेपयोरूर्ध्वाधस्संश्रये च दोषे॥

अस23.20
मुहुर्मुहुस्तु पुनःपुनर्भुक्ते यदभुक्ते वा।
तच्छवासकासहिध्मातृट्छर्दिषु विषनिमित्तेषु च विकारेषु॥

अस23.21
सग्रासं यत् ग्राससम्पृक्तम्।
ग्रासान्तरं यत् ग्रासयोर्ग्रासयोर्मध्ये द्वयमप्येतत् प्राणानिलविकृतौ।
तथा सग्रासं चूर्णलेहवटकादिकमग्निदीपनं वाजीकरणानि चोपयुञ्जीत।
ग्रासान्तरं हृद्रोगे वमनं धूमञ्च।
जत्रूर्ध्वामयेषु निशायाम्॥

अस23.22
तत्राद्ये काले तृषितः पीतशीताम्बुरजीर्णी क्षुधितः क्षामश्च भेषजं वर्जयेत्।
शेषेषु वाहृद्यमसात्म्यमतितीक्ष्णोष्णोग्रगन्धं भूरिमात्रञ्चेति।
भवति चात्र श्लोकः॥

अस23.23
रोगमादौ परीक्षेत तदनन्तरमौषधम्।
ततः कर्म भिषक् पश्चात् ज्ञानपूर्वं समाचरेत्॥

अस23.24
निवृत्तोऽपि पुनर्व्याधिरल्पेनायाति हेतुना।
देहे मार्गीकृते दोषैः शेषः सूक्ष्म इवानलः॥

अस23.25
तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना।
सिद्धानामपि योगानां पूर्वेषां दार्ढ्यमावहन्॥

अस23.26
सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्।
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः॥

अस23.27
मनसोर्थानुकूल्येन तुष्टिरूर्जा रुचिर्बलम्।
सुखोपभोगता च स्यात् व्याधेश्चातः परिक्षयः॥

अस23.28
लौल्याद्दोषक्षयाद्व्याधिवैषम्येण च या रुचिः।
तासु पथ्योपचारज्ञो योगेनाद्यं विकल्पयेत्॥

अस23.29
शीतोष्णवर्षानिचितं चैत्रश्रावणकार्तिके।
क्रमात् साधारणे श्लेष्मवातपित्तं हरेद्द्रुतम्॥

अस23.30
प्रावृट्शरद्वसन्तानां मासेष्वेतेषु वा हरेत्।
साधारणेषु विधिना त्रिमासान्तरितान्मलान्॥

अस23.31
कृस्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्।
प्रयोजयेत् क्रियां प्राप्तां क्रियाकालं न हापयेत्॥

अस23.32
सप्ताहेन गुणालाभे क्रितामन्यां प्रयोजयेत्।
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः।
गुणेऽल्पेपि तु तामेव विशेषोत्कर्षलब्धये॥

अस23.33
भेषजं नृपतेर्हृद्यमल्पमल्पात्ययं शुचिः।
शुद्धागमं बहुगुणं बहुकृत्वः प्रयोजितम्॥

अस23.34
अनन्यकार्योऽवहितः तथा तन्मन्त्रिसम्मतः।
आस्वादितं परिचरैःस्वयञ्चानुप्रयोजयेत्॥

अस23.35
उचितो यस्य यो देशस्तज्जं तस्यौषधं हितम्।
देशेऽन्यत्रापि वसतस्तत्तुल्यगुणजन्म च॥

अस23.36
वीर्यवद्भावितं सम्यक् स्वरसैरसकृल्लघु।
रसगन्धादिसम्पन्नं काले जीर्णे च मात्रया।
एकाग्रमनसा युक्तं भषज्यममृतायते॥
इति त्रयोविंशोऽध्यायः॥

अथ चतुर्विंशोऽध्यायः।

अस24.1
अथातो द्विविधोपक्रमणीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस24.2
उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः।
एकस्सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः।
बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ॥

अस24.3
बृंहणं यत् बृहत्वाय लङ्घनं लाघवाय यत्।
देहस्यं भवतः प्रायो भौमापमितरच्च ते॥

अस24.4
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनञ्च यत्।
भूतानां तदपि द्वैध्यात् द्वितयं नातिवर्तते॥

अस24.5
शोधनं शमनञ्चेति द्विधा तत्रापि लङ्घनम्।
यदीरयेत् बहिर्दोषान् पञ्चधा शोधनञ्च तत्॥

अस24.6
निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः।
न शोधयति यद्दोषान् समान्नोदीरयत्यपि॥

अस24.7
समीकरोति विषमान् शमनं तच्च सप्तधा।
पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः।
बृंहणं शमनन्त्वेव वायोः पित्तानिलस्य च॥

अस24.8
बृंहयेद् व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्।
भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान्॥

अस24.9
गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानप्पि।
मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः॥

अस24.10
स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः।
मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः।
विसर्पविद्रधिप्लीहशिरःकण्ठाक्षिरोगिणः॥

अस24.11
स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि।
तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्।
आमदोषज्वरच्छर्दिरतीसारहृदामयैः॥

अस24.12
विबन्धगौरवोद्गारहृल्लासादिभिरातुरान्।
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः॥

अस24.13
एभिरेवमयैरार्तान् हीनस्थौल्यबलादिकान्।
क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान्मध्यबलैर्दृढान्॥

अस24.14
समीरणातपायासैः किमुताल्पबलैर्नरान्।
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्।
युक्त्या वा देशकालादिबलतस्तानुपाचरेत्॥

अस24.15
बृंहिते स्यात् बलं पुष्टिस्तत्साध्यामयसंङ्क्षयः।
विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः॥

अस24.16
क्षुत्तृट्सहोदयश्शुद्धहृदयोद्गारकण्ठता।
व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घते॥

अस24.17
अनपेक्षितमात्रादिसेविते कुरुतस्तु ते।
अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः।
रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घते॥

अस24.18
तत्र शोधनमुद्दिश्य स्थौल्याद्याः प्रगुदाहृताः।
गुर्वादिवृद्धसंलीनश्लेष्ममिश्रोऽन्नजो रसः॥

अस24.19
आम एव श्लथीकुर्वन् धातून् स्ह्तौल्यमुपानयेत्।
अतिस्थौल्यादतिक्षुत्तृट्प्रस्वेदश्वासनिद्रताः॥

अस24.20
आयासाक्षमता जाड्यमल्पायुर्बलवेगता।
दौर्गन्ध्यं गद्गदत्वञ्च भवेन्मेदोतिपुष्टितः॥

अस24.21
स्रोतस्तु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः।
चरन् प्रज्वलयत्यग्निं क्षुत्तृषौ स्तस्ततोऽधिकम्॥

अस24.22
स्थूलं कोटरवद्वृद्धौ दहतोऽग्न्यनिलौ च तम्।
स्वेदवाहिसिरामूलभावाद्विष्यन्दनादपि।
मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता॥

अस24.23
कोष्ठ एव विपक्वेऽस्य संरुद्धस्रोतसो रसे।
सर्वत्रालब्धवृत्तित्वात् प्रयो मेदः प्रचीयते॥

अस24.24
तच्छेषोऽल्परसोऽल्पत्वान्नालं रक्तादिपुष्टये।
तुल्येपि वाय्वादिचये प्राक्चितं चीयतेतराम्।
मेदस्तेनासमस्तेन धातूनां विदधाति तत्॥

अस24.25
श्वासादीनचिराच्चान्यान् ज्वरोदरभगन्दरान्।
मेहोरुस्तम्भपिटकाविद्रधिप्रभृतीन् गदान्॥

अस24.26
अयथोपचयोत्साहश्चलस्फिगुदरस्तनः।
अतिस्थूलः स्मृतो योज्यं तत्रान्नं मारुतापहम्॥

अस24.27
श्लेष्ममेदोहरं यच्च कुलत्था यवका यवाः।
जूर्णश्यामाकमुद्गाद्याः पानेऽरिष्टं मधूदकम्॥

अस24.28
मस्तु तक्रं च तीक्ष्णोष्णं रूक्षं छेदि च भेषजम्।
चिन्ताव्यवायव्यायामशोधनास्वपनं भजेत्॥

अस24.29
देहापेक्षी तथा रूक्षं स्नानमुद्वर्तनादि च।
मधुना त्रिफलां लिह्यात् गुडूचीमभयां घनम्।
रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः॥

अस24.30
शिलाह्वस्य प्रयोगश्च साग्निमन्थरसो हितः।
विडङ्गं नागरं क्षारः काललोहरजो मधु॥

अस24.31
यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित्।
मदनं त्रिफला मुस्ता सप्ताह्वारिष्टवत्सकम्॥

अस24.32
सपाठारग्वधं पीतमतिबृंहणरोगजित्।
तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयम्॥

अस24.33
समुस्तपाठाखदिरत्रिफलानिम्बगोक्षुरम्।
मदनादीनि चालेपः स्ननादिष्वपि योजयेत्॥

अस24.34
हिङ्गुगोमेदकव्योषकुष्ठक्रौञ्चास्थिगोक्षुरम्।
एलावृक्षकषड्ग्रन्थाखराश्वोपलभेदकम्॥

अस24.35
तक्रेण दधिमण्डेन पीतं कोलरसेन वा।
मूत्रकृछ्रं कृमीन् मेहं स्थूलतां च व्यपोहति॥

अस24.36
कृमिघ्नत्रिफलं तैलसक्तुत्र्यूषणदीप्यकैः।
लोहोदकाप्लुतो मन्थः शस्तो बृंहणरोगिणाम्॥

अस24.37
व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः।
हिङ्गुसौचर्चलाजाजीयवानीधान्यचित्रकाः॥

अस24.38
निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्।
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्॥

अस24.39
सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्।
अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान्।
हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्॥

अस24.40
बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम्।
योज्यं तथा यथाव्याधि स्वेदासृक्स्रावणान्यपि॥

अस24.41
अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः।
स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजःक्षुत्स्वरक्षयः॥

अस24.42
बस्तिहृन्मूर्द्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः।
प्रलापोर्ध्वानिलग्लानिः छर्द्दिः पर्वास्थिभेदनम्॥

अस24.43
वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्।
अतिकार्श्येन नायासवर्षशीतोष्णतृट्क्षुधः॥

अस24.44
तृप्तिव्याध्यौषधमनान् सहतेऽल्पबलत्वतः।
श्वासकासक्षयप्लीहगुल्मार्शोवह्निमन्दताः॥

अस24.45
कृशं प्रायश्च धावन्ति रक्तपित्तानिलामयाः।
कार्श्यमेव वरं स्थौल्यान्न हि स्थूलस्य भेषजम्।
बृंहणं लङ्घनं नालमतिमेदोऽग्निवातजित्॥

अस24.46
मधुरस्निग्धसौहित्यैर्यत् सौख्येन च नश्यति।
क्रशिमा स्थविमात्यन्तविपरीतनिषेवणैः॥

अस24.47
शुष्कस्फिगुदरग्रीवाः स्थूलपर्वा सिराततः।
उच्यतेऽतिकृशस्तत्नप्रागुक्तो बृंहणो विधिः॥

अस24.48
अश्वगन्धाविदार्याद्या वृष्याश्चौषधयो हिताः।
अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च॥

अस24.49
स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति।
लङ्घनोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत्।
यत्तदात्वे समर्थं स्याद्यच्चाभ्यासेन पुष्टये॥

अस24.50
सद्यः क्षीणो यतः सद्यो बृंहणेनोपचीयते।
चिरं क्रमेण च क्षीणस्तदभ्यासेन तत्र च॥

अस24.51
बृंहणं देहमात्राग्निबलादीन् वीक्ष्य योजयेत्।
न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत्।
मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः॥

अस24.52
क्रव्यान्मांसरसांस्तस्माद्दकलावणिकान् लघून्।
वेशवारीकृतैस्तद्वज्जाङ्गलैश्च कृताकृतान्।
रसांस्तथा च क्षीरादीन् तर्पणांस्तर्पणान् पुनः॥

अस24.53
युञ्ज्यात् कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणाम्।
तृष्यतामूध्ववातानां मूढमारुतवर्चसाम्॥

अस24.54
समैः कृष्णासितातैलक्षौद्राद्यैद्र्व्यंशतर्पणैः।
मन्थस्तद्वत् सिताक्षौद्रमदिरासक्तुयोजितः॥

अस24.55
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्।
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं परम्॥

अस24.56
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः।
परूषकैः सामलकैः सद्यस्तृष्णादिरोगजित्॥

अस24.57
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा।
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः॥

अस24.58
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे।
यवगोधूममुभयोस्तद्योग्याहितकल्पनम्॥

अस24.59
स्यौल्यकार्श्ये प्रकृत्यापि स्यातां तत्राप्ययं विधिः।
सततं व्याधिततया सदा योज्यो विभज्य च॥

अस24.60
मात्रादियुक्ते सेवेत यस्तु लङ्घनबृंहणे।
समधात्वग्निदेहोऽसौ समसंहननो भवेत्॥

अस24.61
दृढेन्द्रियबलत्वाच्च न द्वन्द्वैरभिभूयते।
दोषगत्यातिरिच्यन्ते ग्राहिभेद्यादिभेदतः।
उपक्रमा न तु द्वित्वाद्भिन्ना अपि गदा इव॥
इति चतुर्विंशोऽध्यायः॥

अथ पञ्चविंशोऽध्यायः।

अस25.1
अथातः स्नेहविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस25.2
स्नेहादिषूपयोगाय तद्व्यापच्छमनाय च।
कुर्यात् प्रागेव तद्योगिद्रव्यसम्भारसङ्ग्रहम्॥

अस25.3
गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम्।
औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम्॥

अस25.4
सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्।
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्॥

अस25.5
माधुर्यादविदाहित्वाज्जन्माद्येव च शीलनात्।
पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्।

अस25.6
घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च।
द्वाध्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्॥

अस25.7
स्नेहाशया दधिक्षीरं मांसास्थिफलदारु च।
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः।
वृद्धबालावलकृशा रूक्षाः क्षीणास्ररेतसः॥

अस25.8
वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः।
स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः।
ऊरुस्तम्भातिसारामगलरोगगरोदरैः॥

अस25.9
मूर्छार्छद्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः।
अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने॥

अस25.10
तत्र धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम्।
ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु॥

अस25.11
तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु।
वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु॥

अस25.12
रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च।
शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च॥

अस25.13
तथादग्धाहतभ्रष्टयोनिकर्णाशिरोरुजि।
तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे।
सर्वं सर्वस्य च स्नेहं युञ्ज्यात् भास्वति निर्मले॥

अस25.14
ऋतौ साधारणे दोषसाम्येऽनिलकफे कफे।
दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि॥

अस25.15
त्वरमाणे तु शीतेऽपि दिवा तैलं च योजयेत्।
उष्णेऽपि रात्रौ सर्पिश्च दोषादीन्वीक्ष्य चान्यथा॥

अस25.16
निश्यश्नुते वातकफाद्रोगानहनि पित्ततः।
युक्यावचारयेत् स्नेहं भक्ष्याद्यन्नेन बस्तिभिः।
नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः॥

अस25.17
रसभेदैककत्वाभ्यां चतुष्षष्टिर्विचारणाः।
स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः॥

अस25.18
यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा।
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्॥

अस25.19
द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्।
ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रासीयसीम्॥

अस25.20
कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम्।
अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयम्॥

अस25.21
तत्र दुर्बलमन्दाग्निबालवृद्धसुखात्मकैः।
अपथ्यरिक्तकोष्ठत्वज्वरातीसारकासिभिः॥

अस25.22
ह्रस्वा पेया सुखा सा हि परिहारेऽनुवर्तते।
चिराच्च बल्या न रुजे व्यापन्नापि प्रकल्पते॥

अस25.23
मेहोरुःपिटकाकुष्ठवातशोणितपीडितैः।
मध्यमा मृदुकोष्ठैश्च स्नेहनी स्यात्सुखेन सा॥

अस25.24
न बलक्षपणी मन्दविभ्रंशा शुद्धयेऽप्यलम्।
महादोहानलबलक्षुत्तृट्क्लेशसहिष्णुभिः।
गुल्मोदावर्तवीसर्पदंशाभिपीडितैः॥

अस25.25। उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा।
सर्वमार्गानुसारेण जयेद् व्याधीन् सुयोजिता॥

अस25.26
ह्यस्तेन जीर्ण एवान्ने स्नेहोच्छः शुद्धये बहुः।
शमनः क्षुद्वयोऽनन्नो मध्यमात्रश्च शस्यते॥

अस25.27
बृंहणो रसमद्याद्यैः सभक्तोऽल्पो हितः स च।
बालवृद्धपिपासाअर्तस्नेहद्विण्मद्यशीलिषु॥

अस25.28
स्त्रीस्नेहनित्यमन्दाग्निसुखितक्लेशभीरुषु।
मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च॥

अस25.29
स्नेहः प्राग्भोजनात् कुर्यादूरुजङ्घाकटीबलम्।
वेगानुलोम्यमारोग्यमधःकायगदक्षयम्॥

अस25.30
मध्ये बृहत्त्वाग्निबलस्थिरताकुक्षिरुक्शमान्।
इन्द्रियस्थिरतामूर्ध्वमूर्ध्वजत्रुगदक्षयम्॥

अस25.31
वाते सलवणं सर्पिः पित्ते केवलमिष्यते।
वैद्यो दद्यात् बहुकफे क्षारत्रिकटुकान्वितम्॥

अस25.32
वार्युष्णमच्छेऽनुपिबेत्स्नेहे तत्सुखपक्तये।
आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु॥

अस25.33
उष्णोपचारः स्नेहे स्यादुष्णो ह्युष्णैर्विरुध्यते।
ततो गुरुप्रावरणो निवातशयनस्थितः।
जरणान्तं प्रतीक्षेत तृष्यन्नुष्णाल्पवारिपः॥

अस25.34
शिरोरुग्भ्रमनिष्ठीवमूर्च्छासादारतिक्लमैः।
जानीयाद् भेषजं जीर्यज्जीर्णं तच्छान्तिलाघावात्॥

अस25.35
अनुलोमनिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः।
जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्।
तेनोद्गारविशुद्धिः स्तात्ततश्च लघुता रुचिः॥

अस25.36
भोज्योऽन्नं मात्रया पास्यन् श्वःपिबन् पीतवानपि।
द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्॥

अस25.37
उष्णोदकोपचारी स्यात् ब्रह्मचारी क्षपाशयः।
व्यायामवेगसंरोधशोकवर्षहिमातपान्॥

अस25.38
प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः।
नीचात्युच्चोपधानाहस्स्वप्नधूमरजांसि च॥

अस25.39
यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्।
सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः॥

अस25.40
उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्।
स्नेहस्य पानात् पूर्वं च दातव्यं मृदुभेषजम्।
उत्तेजनं हुताशस्य कोष्ठलाघवकारि च॥

अस25.41
त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्।
सम्यक्स्निग्धोऽथवायावदतःसात्मीभवेत् परम्॥

अस25.42
सात्मीभूतो हि कुरुते न मलानामुदीरणम्।
अतियोगेन वा व्याधीन् यथाम्ब्बोधोतियोजनात्॥

अस25.43
विहत्य सेतुं मृत्कोष्ठात् स्रवति क्षपयन् मृदम्।
स्नेहोऽप्यग्निं तथा हत्वा स्रवति क्षपयंस्तनुम्॥

अस25.44
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्।
मृदुस्निग्धाङ्गताग्लानिःस्नेहोद्वेगोऽथलाघवम्॥

अस25.45
विमलेन्द्रियता सम्यक् स्निग्धे रूक्षे विपर्ययः।
पाण्ड्वामयाग्गसदनघ्राणवक्त्रगुदस्रवाः।
गुददाहारुचिश्छर्दिमूर्छातृष्णाप्रवाहिकाः॥

अस25.46
शुक्तोद्गारभ्रमश्वासकासाः स्नेहातिसेवनात्।
अमात्रयाहितोऽकाले मिथ्याहारविहारतः।
स्नेहः करोति शोफार्शस्तन्द्रानिद्राविसंज्ञताः॥

अस25.47
कण्डूकुष्ठज्वरोत्क्लेशशूलानाहबलक्षयान्।
जठरेन्द्रियदौर्बल्यजाड्यामस्तम्भवाग्ग्रहान्॥

अस25.48
तांस्तान् स्वदोषहेतूत्थान् पाण्ड्वादींश्चातियोजनात्।
क्षुत्तृष्णोक्लेखनस्वेदरूक्षपानान्नभेषजम्।
तक्रारिष्टखलोद्दालयवश्यामाककोद्रवाः॥

अस25.49
पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु।
यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्॥

अस25.50
विरूक्षणे लङ्घनवत् कृतातिकृतलक्षणम्।
स्नेहेन पैत्तिकस्याग्निर्यदा तीव्रतरीकृतः।
स्नेहमाशु जरां नीत्वा पुनरोजोऽभितश्चरन्॥

अस25.51
उदीरयेत् सोपसर्गां पिपासामस्य बाधिकाम्।
सोऽसूंस्त्यजेद्यद्युदकं न पिबेदाशु शीतलम्॥

अस25.52
शीतसेकावगाहान् वा तत्तृष्णापीडितो भजेत्।
स्नेहाग्निना दह्यमानः स्वविषेणेव पन्नगः॥

अस25.53
अजीर्णे बलवत्या तु शीतैर्दिह्याच्छिरोमुखम्।
छर्दयेत्तदशान्तौ च पीत्वा शीतोदकं पुनः॥

अस25.54
रूक्षान्नमुल्लिखेद्भुक्त्वा तादृश्यां तु कफानिले।
समदोषश्च निःशेषं स्नेहमुष्णाम्बुनोद्धरेत्॥

अस25.55
ततो दोषादिबलतः पूर्वोक्तं च विधिं श्रयेत्।
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः।
सर्वं ह्यनुव्रजेद्देहं हत्वा संज्ञां च मारयेत्॥

अस25.56
स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत्।
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः॥

अस25.57
एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः।
तिलमाषदधिक्षीरगुडमत्स्यरसादिभिः॥

अस25.58
मासला मेदुरा भूरिश्लेष्माणो विषमाग्नयः।
स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः॥

अस25.59
संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते।
अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः॥

अस25.60
बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु।
योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत्॥

अस25.61
प्रभूतमांसनिष्क्वाथान् जाङ्गलानूपजान् रसान्।
स्नेहभृष्टेषु वा तेषु यवागूं नातिसंहताम्॥

अस25.62
तिलचूर्णं च सस्नेहं फाणितं कृसरां तथा।
तिलकाम्बलिकं भूरिस्नेहं सर्पिष्मतीमपि॥

अस25.63
पेयां सुखोष्णा क्षैरेयीं पात्रे वा ससिताघृते।
सर्पिर्लवणयुक्तं वा सद्योदुग्धं तथा पयः॥

अस25.64
पेयां च पञ्चप्रसृतां स्नेहैस्तण्डुलपञ्चमैः।
पायसं माषमिश्रं च बहुस्नेहसमूयुतम्।
तैलशुण्ठीगुडरसं जीर्णे मांसरसाशिनः॥

अस25.65
स्नेहं वैकं सुराच्छेन दध्नो वा सगुडं सरम्।
वसां वराहजां सर्पिः पिप्पलीं लवणं तिलान्॥

अस25.66
पिप्पलीं लवणं स्नेहांश्चतुरो दधिमस्तुकम्।
दध्ना सिद्धं व्योषगर्भं धात्रीद्राक्षारसे घृतम्॥

अस25.67
यवकोलकुलत्थाम्बुक्षारक्षीरसुरादधि।
घृतं च सिद्धं तुल्यांशं सद्यःस्नेहनमुत्तमम्॥

अस25.68
सिद्धांश्च चतुरः स्नेहान् बदरत्रिफलारसैः।
योनिशुक्रामयहरान् सद्यःस्नेहान् प्रयोजयेत्॥

अस25.69
लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्।
तद्धि विष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च॥

अस25.70
गुडानूपामिषक्षीरतिलमाषसुरादधि।
कुष्टशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्॥

अस25.71
त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्।
स्नेहान्यथास्वमेतेषां योजयेदविकारिणः॥

अस25.72
क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्।
दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः।
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः॥
इति पञ्चविंशोऽध्यायः॥

अथ षड्विंशोऽध्यायः।

अस26.1। अथातः स्वेदविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस26.2
चतुर्विधोऽग्निस्वेदो भवति तापोपनाहद्रवोष्मभेदेन।
तत्र तापस्वेदः पाणिकांस्यफालवालुकावस्त्रघटिकादिभिः साक्षादग्निना च प्रयोक्तव्यः॥

अस26.3
उपनाहस्वेदस्तु सर्वगन्धधान्यसर्षपकिण्ववचादेवदारुरास्नैरण्डमूलमधुकशताह्वासुराकिट्टादिवातहरद्रव्यचूर्णैर्यवगोधूमशकलैरानूपासृक्पित्तशिरःपादामिषवेशवारैश्च।
तथा श्लेष्मसंसृष्टे वायौ सुरसादिभिः।
पित्तसंसृष्टे च पद्मकादिभिः।
पृथक् सहितैर्वा।
क्षीरशुक्तधान्याम्ललवणमस्तुप्रगाढैः सुस्निग्धैः सुखोष्णैः साल्वलाभिधानैस्तैर्बहुशः प्रदिह्योष्णवीर्यापूतिसृदुरोमचर्मभिस्तदभावे घनवातहरपत्राविककौशेयैरुपनद्धमङ्गमहस्थितं विदाहपरिहारार्थं निशि मुञ्चेत्।
दिवा निशि बद्धम्।
दोषकालवलवशेन वा॥

अस26.4
द्रवस्वेदस्तु द्विविधिः।
परिषेकोऽवगाहश्च।
तत्र शिग्रुवरणाम्रातकमूलकसर्षपसुरसार्जकवासावंशाश्मन्तकाशोकशिरीषार्ककरञ्जैरण्डमालतीपत्रभङ्गपूतीकदशमूलादिवातहरैर्द्रव्यैर्मस्तुसलिलसुराक्षीरशुक्तादिभिः क्वथितैः पूर्वोक्तैश्च यथादोषं पृथक् सहितैर्वा कुम्भीर्वर्षलिकाः प्रणालीर्वा पूरयित्वा वातहरसिद्धस्नेहाभ्यक्तमनभ्यक्तं वोपविष्टं किलिञ्जे वा शयानमेकाङ्गे सर्वाङ्गे वा वस्त्रावच्छन्ने परिषेचयेत्।
तैरेवाद्भिः पूर्णे महति कटाहे कुण्डे द्रोण्यांवावगाहयेत्॥

अस26.5
ऊष्मस्वेदः पुनरष्टधा भिद्यते।
पिण्डः संस्तरो नाडी घनाश्म कुम्भी कूपः कुटी जेन्ताकश्च।
तत्र मृत्कपालपाषाणलोष्टलोहपिण्डानग्निवर्णान् सन्दंशेन गृहीत्वाम्भस्यम्ले वा निमज्जयेत् तैरार्द्रावकिवस्त्रेण वेष्टितैः श्लेष्ममेदोभूयिष्ठं सरुजमङ्गं ग्रन्थिमद्वा स्वेदयेत्।
पांसुसिकतागवादिपुरीषधान्यबुसपुलाकपललैर्वाम्लोत्क्वथितैः पूर्ववद्वेष्टितैः।
गवादिशकृतार्द्रेण पिण्डीकृतेनोपनाहद्रव्योत्कारिकाकृसरमांसपिण्डैर्वा वातरोगेष्विति पिण्डस्वेदः।
स एव सङ्कराख्यः॥

अस26.6
यथार्हस्वेदद्रव्याणि पिहितमुखायामुखायां सम्यगुपस्वेद्य निवातशरणशयनस्थे किलिञ्जे प्रस्तीर्याविककौशेयवातहरपत्रान्यतमोत्तरप्रच्छदे रौरवाजिनप्रावारादिभिः स्ववच्छन्नं स्वेदयेदिति संस्तरस्वेदः॥

अस26.7
पूर्ववदेवोपस्वेद्योखामुखेऽन्यामुख।
नाडीमूलच्छिद्रप्रमाणपार्श्वच्छिद्रामुपसन्धायावलिप्य च पार्श्वच्छिद्रस्थया नाड्या शरोषिकावंशदलकिलिञ्जकरञ्जपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घयाध्यर्द्धव्यामदीर्घया वा स्वायामचतुर्भागाष्टभागपरिणाहमूलाग्रस्रोतसा सर्वतोवातहरपत्रसंवृतछिद्रया द्विस्त्रिर्वा विनमितया सुखोपविष्टस्य स्वभ्यक्तप्रावृतेङ्गे बाष्पमुपहरेत्।
बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः॥

अस26.8
पुरुषायाममात्रमधिकं वा घनं समं च शिलातलं भूप्रदेशं वा वातहरदारुदीप्तेनाग्निना सर्वतस्तापयित्वाग्निमपोह्योष्णोदकाम्लादिभिरभ्युक्ष्य यथोक्तप्रच्छदे संस्तरवत्स्वेदयेदिति घानाश्मस्वेदः॥

अस26.9
पूर्ववत् स्वेदद्रव्याणि कुम्भ्यामुत्क्वाथ्याश्लिष्योपविष्टस्तद्वदूष्माणं गृह्णीयात्।
भूमौ वा तां निखाय तदूर्ध्वमासनं शयनं वा नातिघनप्रच्छदं परितः प्रलम्बमानकुथाकम्बलगोणिकं निधाय तत्रस्थस्योष्माणं गृह्णतः कुम्भ्यामग्निवर्णानयोगुडानुपलांश्च शनैर्निमज्जयेदिति कुम्भीस्वेदः॥

अस26.10
शयनस्याधोविस्तारद्विगुणखाते कूपे वातहरदारुकरीषान्यतरपूर्णदग्घे विगतधूमे स्वास्तीर्णशयनस्थं स्वेदयेदिति कूपस्वेदः॥

अस26.11
कुटीं नात्युच्चविस्तारां वृत्तामच्छिद्रामुपनाहकल्कघनप्रदिग्धकुड्यां सर्वतोविधूमप्रदीप्तखदिराङ्गारपूर्णहसन्तिकासमूहपरिवृतां विधाय तन्मध्ये च शय्यां तत्रस्थं स्वेदयेदिति कुटीस्वेदः॥

अस26.12
अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत।
पूर्वस्यामुत्तरस्यां वा दिशि गुणवति प्रशस्तभूमिभागे।
देशे कृष्णमृत्तिके वा।
सुवर्णवर्णमृत्तिके परिघापुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले।
दक्षिणे पश्चिमे वा सुतीर्थे समसुविभक्तभूमिभागे।
सप्ताष्टौ वारत्नीरपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाभिमुखतीर्थं कूटागारं कारयेत्।
उत्सेधविस्तारतः परमरत्नयः षोडश।
समन्तात्सुवृत्तं मृत्कर्मसंपन्नमनेकवातायनम्।
अस्य च कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोच्छ्रायां पिण्डिकां कारयेदाकवाटात्।
मध्ये चास्य कूटागारस्य किष्कुमुक्तं द्विपुरुषप्रमाणं मृन्मयं कन्दुसंस्थानंबहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सापिधानं कारयेत्।
तं च खादिराणामश्वकर्णानां वा काष्ठानां पूरयित्वा दीपयेत्।
स यदा जानीयात्साधुदग्धानि काष्ठानि विगतधूमान्यवतप्तं सर्वमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति।
तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्।
अनुशिष्यात्सौम्य प्रविश कल्याणायारोग्याय च।
प्रविश्य चैनां पिण्डिकामारुह्य षार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः।
न च त्वरयास्वेदमूर्छापरीतेनापि पिण्डिकैषा विमोक्तव्याप्राणोच्छ्वासात्।
भ्रश्यमानो ह्यतः पिण्डिकावकाशाद् द्वारमनधिगच्छन् स्वेदमूर्च्छा परीततया सद्यः प्राणान् जह्याः।
तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः।
त्वं यदा जानीया विगताभिष्यन्दमात्मानं सम्यक् प्रस्रुतस्वेदपिच्छं सर्वस्रोतो विमुक्तं लघुभूतमपगतविबन्धस्तम्भसुप्तिवेदनाग रवमिति।
ततः पिण्डिकानुसारेण द्वारं प्रपद्येथाः।
निष्क्रम्य च चक्षुषोः परिपालनार्थमतिस्विन्नोऽपि न सहसा शीतोदकमनुप्रविशेथाः।
सम्यक् स्विन्नस्त्वपगतसन्तापक्लमो मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयादिति जेन्ताकस्वेदः॥

अस26.13
तेषां विशेषतस्तापोष्मस्वेदौ कफे प्रयोजयेत्।
उपनाहमनिले।
किञ्चित् पित्तसंसृष्टेऽन्यतरस्मिन् द्रवमिति॥

अस26.14
अनाग्नेयं पुनर्मेदःकफावृते वायौ निवातसदनगुरुप्रावरणबहुमद्यपानव्यायामक्षुदातपनियुद्धाध्वभारभरणामर्षभयैः।
उपनाहं च पित्तान्वये पूर्वोक्तेनैव विधिनाग्निरहितमिति।
भवति चात्र॥

अस26.15
निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्।
व्याधिव्याधितदेशर्त्तुवशान्मध्यवरावरम्॥

अस26.16
कफार्तो रूक्षणं रूक्षो रूक्षस्निग्धं कफानिले।
आमाशयगते वायौ कफे पक्वाशयाश्रिते॥

अस26.17
रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः।
अल्पं वङ्क्षणयोः स्वल्पं दृङ्भुष्कहृदये न वा॥

अस26.18
पद्मोत्पलादिभिः सक्तुपिण्ड्या वाच्छाद्य चक्षुषी।
शीतैर्मुक्तावलीपद्मकुमुदोत्पलभाजनैः॥

अस26.19
मुहुः करैश्च तोयर्द्रैः स्विद्यते हृदयं स्पृशेत्।
शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे।
स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्॥

अस26.20
पित्तास्रकोपतृण्मूर्च्छास्वराङ्गसदनभ्रमाः।
सन्धिपीडाज्वरश्यावरक्तमण्डलदर्शनम्॥

अस26.21
स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम्।
विषक्षाराग्न्यतीसारछर्दिमेहातुरेषु च॥

अस26.22
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा।
द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम्॥

अस26.23
स्वेदनं स्तम्भनं श्लक्ष्णरूक्षसूक्ष्मसरद्रवम्।
प्रायस्तिक्तं कषायं च मधुरं च समासतः॥

अस26.24
स्तम्मितः स्यात् बले लब्धे यथोक्तामयसङ्क्षयात्।
स्तम्भत्वक्स्नायुसङ्कोचकम्पहृद्वाग्घनुग्रहैः॥

अस26.25
पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्।
न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छतान्।
स्तम्भनीयक्षतक्षीणाक्षाममद्यविकारिणः॥

अस26.26
तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः।
पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्॥

अस26.27
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्।
क्षुत्तृष्णाकमलापाण्डुमेहिनः पित्तपीडितान्॥

अस26.28
गर्भिणीं पुष्पितां सूतां मृदु वात्ययिके गदे।
श्वासकासप्रतिश्यायहिध्माध्मानविबन्धिषु।
स्वरभेदानिलव्याधिपक्षाघातापतानके॥

अस26.29
अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे।
महत्त्वे मुष्कयोः खल्यामायांमे वातकण्टके॥

अस26.30
मूत्रक्र्च्छ्रार्बुदग्रन्थिशुक्राघाताढ्यमारुते।
वेपथुश्वयथुस्वापस्तम्भजृम्भाङ्गगौरवे॥

अस26.31
कर्णमन्याशिरःकोष्ठजङ्घापादोरुरुक्षु च।
स्वेदं यथायथं कुर्यात्तदौषधविभागतः॥

अस26.32
स्विन्नोऽन्नं पथ्यमश्नीयाद्दोषरोगानुरोधतः।
तदहः स्विन्नसर्वाङ्गो व्यायामं सुतरां त्यजेत्॥

अस26.33
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्।
कुर्यात् स्वेदो जाड्यतन्द्रापहारं स्तब्धान् सन्धींश्चेष्टयत्याशु चास्य॥

अस26.34
स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः।
दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्रियन्ते॥
इति षड्विंशोऽध्यायः॥

अथ सप्तविंशोऽध्यायः।

अस27.1
अथातो वमनविरेचनविधिं नामाध्ययं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

अस27.2
दोषहरणमूर्ध्वभागं वमनाख्यमधोभागं विरेचनाख्यमुभयं वा मलविरेचनाद्विरेचनमित्युच्यते॥

अस27.3
तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाषीण्यौषधानि स्ववीर्येण हृदयमुपेत्य सौक्ष्म्यात् व्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृतेऽन्तश्शरीरे स्वेदोष्मणार्द्रदारुवद्विष्यण्णे स्थूलाणुस्रोतेभ्यः सकलमपि दोषसङ्घातमौष्ण्यात् पुनर्विष्यन्दयन्ति।
तैक्ष्ण्याद्विकाषित्वाच्च विच्छिन्दयन्ति।
स विष्यण्णविच्छिन्नो दोषसङ्घातः पारिप्लवः स्नेहाक्तभाजनस्थ इवोदकाञ्जलिरसज्जन्ननुप्नसरणभावादामाशयमनुगम्य उदानप्रणुन्नः अग्निवाय्वात्मकत्वात् ऊर्ध्वभागप्रभावाच्चौषधस्योर्ध्वं प्रवर्तते।
स्लिलपृथिव्यात्मकत्वादधोभागप्रभावाच्च औषधस्याधः।
उभयतश्चोभयगुणात्मकत्वादुभयभागप्रभावाच्च॥

अस27.4
तत्रोत्कृष्टे श्लेष्मणि पित्तसंसृष्टे वा तत्स्थानगते वा पित्ते अनिले वा श्लेष्मोत्तरे च वमनमाचरेत्।
पित्ते तु विरेकं श्लेष्मसंसृष्टे वा तत्स्थानगते वा श्लेष्मणीति॥

अस27.5
तत्र वमनसाध्या विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णान्ननवज्वरराजयक्ष्मातीसाराधोरक्तपित्तविषूचिकालसकाविपाकारोचकापचिग्रन्थ्यर्बुदश्लीपदमेदोगदगरोन्मादापस्मारश्वासकासहृल्लासवीसर्पप्रमेहकुष्ठपाण्डुवर्त्ममुखघ्राणकपालरोगकर्णरोधशोफस्तन्यदोषादयो दोषभेदीयोक्ताश्च श्लेष्मव्याधयो विशेषेण।
एते हि परं वमनेन नाशमुपयान्ति सलिलापगमनेनानिष्पन्नशाल्यादिवत्॥

अस27.6
अवाम्यास्तु गर्भिणीसुकुमारान्यकार्यव्यग्ररूक्षरूक्षाशनप्रायातिदीप्ताग्निभाराध्वकर्मनित्यक्लान्तक्षतक्षीणातिस्थूलकृशवृद्धबालदुर्बलश्रमभयशोकक्रोधमदमूर्छाक्षुत्पिपासार्त्तोपवासव्यवायव्यायामाध्ययनचिन्ताप्रसक्तच्छर्दिरूर्ध्वरक्तपित्तवातास्थापितानुवासितसंवृतकोष्ठदुश्छर्दितहृद्रोगोदावर्तमूत्राघातगुल्मप्लीहोदराष्ठीलार्शःस्वरोपघाततिमिरभ्रमानिलार्तार्दिताक्षेपकाक्षिणिरःशङ्खकर्णपार्श्वशूलिनोऽनास्थापितकृमिणकोष्ठ इति।
अन्यत्रामगरीवषविरुद्धाभ्यवहोरभ्यः शीघ्रकारित्वादेषाम्।
तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणरोगप्राप्तिः स्यात्।
सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः।
अन्यकार्यव्यग्रस्यौषधं न प्रवर्तते।
कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात्।
रूक्षस्य वायुरङ्गग्रहणम्।
रूक्षाशनप्रायस्यं वायुना क्षपितदेहत्वाद् बलक्षयः स्यात्।
तथातिदीप्ताग्नेरग्निबलेन भाराध्वकर्मनित्ययानक्लान्तानां चायासेन क्षतस्य भूयःक्षणनाद्रक्तातिप्रवृत्तिः।
क्षीणादीनामौषधबलाक्षमत्वाद्देहबलोपरोधोऽन्तःक्षतभयं च।
प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयोरुदान उत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्।
ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः।
संवृतकोष्ठस्य दुश्छर्दितस्य वातिमात्रप्रवाहणादन्तः कोष्ठसमुत्क्लिष्टैर्दोषैर्विसर्पस्तम्भजाड्यवैचित्यानि मरणं वा।
हृद्रोगिणो हृदयोपरोधः।
उदावर्तादिभिरार्तानामर्दितादिभिश्च यथायथमामयप्रवृद्धिर्मरणं वा।
कृमिणकोष्ठस्यास्थापनेनाधःपूर्वमनिर्हृतैः कृमिभिरतिबहुत्वादशेषानिस्सरणेन हृदयमतिकर्षद्भिश्छर्दिषोऽतिप्रवृत्तिः स्यात्॥

अस27.7
गर्भिण्यादिचिन्ताप्रसक्तान्ताश्चात्र धूमान्तैः प्रायः सर्वकर्मभिर्वक्ष्यमाणः परिहर्तव्याः।
अजीर्णी तु सर्वैरेव च वमनवर्ज्जैरामदोषभयात्।
नवज्वरस्य दोषस्तम्भभयादिति॥

अस27.8
अथ विरेचनसाध्या जीर्णज्वरोर्ध्वरक्तपित्तगुल्मविद्रधिप्लीहार्शोभगन्दरोदरकृमिणकोष्ठमूत्राघातरेतोयोनिदोषवातशोणितहलीमकव्यङ्गतिमिरकाचाभिष्यन्दाक्षिपाकक्षाराग्निदग्धकुष्टव्रणशिरःपक्वाशयशूलोदावर्तविबन्धच्छर्दिविस्फोटादयो वाम्योक्ताश्च विषूचिकादयो दोषभेदीयोक्ताश्च पित्तव्याधयः।
विशेषेणैते हि परं विरेचनेन नाशमुपयान्त्यग्न्यपनयनेनाग्निगृहतापवत्॥

अस27.9
अविरेच्याः पुनर्नवज्वरातिसार्यधोरक्तपित्तक्षतगुदलङ्घतरात्रिजागरितास्थापिताल्पाग्निराजयक्ष्ममदात्ययार्ताध्मातसशल्याभिहततिस्निग्धरूक्षक्रूरकोष्ठाः तत्र नवज्वरस्याविपक्वान् दोषान्न निर्हरेत्।
वातमेव च कोपयेत्।
अतीसार्यधोरक्तपित्तयोरतिप्रवृत्त्या हन्यात्।
क्षतगुदस्य गुदे प्राणोपरोधकरीं राजयक्ष्मार्तस्य क्षीणधातुतया मलबलत्त्वम्।
तदभावाद्देहनाशः स्यात्।
मदात्ययार्तस्य मद्यक्षीणे देहे वायुः प्राणोपरोधाय।
आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत्।
सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्।
अतिस्निग्धस्यातियोगो भवेत्।
क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः।
गर्भिण्यादीनां पूर्वोक्तदोषः स्यात्॥

अस27.10
अथ साधारणे काले सम्यक्स्निग्धस्विन्नमनुपहतमानसंश्वः च्छर्दयितव्यमिति ग्राम्यानूपौदकशृतमांसरसक्षीरदधिमाषतिलपललशाकादिभिर्द्रवप्रायैः समुत्क्लेशितश्लेष्माणं सुखोषितं जीर्णाहारं पूर्वाह्णे स्नातानुलिप्तं स्रग्विणमहतवाससं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तं कृतहोमबलिमङ्गलप्रायश्चित्तस्वस्तिवचनं जानुसमसंस्तृतसोपधानोपाश्रयासनोपविष्टं निरन्नभीषत्स्निग्धं वा यवागू मण्डेन घृतमात्रां पीतवन्तं भीरुकृशबालवृद्धसुकुमारान् वा दोषानुरोधेनाकण्ठं पीतक्षीरतक्रयूषेक्षुमांसरसमद्यतुषोदकयवागूमण्डान्यतमं नक्षत्रतिथिकरणमुहूर्तोदये प्रशस्ते यथाव्याधिदोषदूष्यादिविहितामौषधमात्रां मधुसैन्धवयुक्तां सुखोष्णां ब्राह्मणप्रयुक्ताभिराशीर्भिराभिमन्त्रितां, पुनश्च॥

अस27.11
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः।
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः॥

अस27.12
रसायनीमवर्षीणाममराणाभिवामृतम्।
सुधेवोत्तमनागानां भैषज्यभिदमस्तु ते॥

अस27.13
औम् नामो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय तथागतायार्हते सम्यक्सम्बुद्धाय।
तद्यथा।
औम्।
भैषज्ये भैषज्ये महाभैषज्ये भैषज्यसमुद्गते स्वाहा।
इत्येवमभिमन्त्र्योदग्मुखः प्राङ्मुखमातुरं पाययेत्॥

अस27.14
ततः पीतवानूरुन्यस्तभुजो वमनानुगतमानसोग्नितप्तैः पाणिभिरुपतप्यमानो मुहूर्तमनुपालयेत्।
स यदा जानीयात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं, रोमहर्षेण च स्थानेभ्यः प्रविचलितं, कुक्ष्याध्मानेन च कुक्षिमनुसृतं च क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभिमुखीभूतम्।
अथ समुपस्थितानेकप्रतिग्राहः पार्श्वललाटोपग्रहणे नाभिप्रपीडने पृष्ठप्रतिलोमोन्मर्दने च प्रवृत्ताव्यपत्रपणीयपुरुषो विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीरयन् नाप्रवृत्तान् न प्रवर्त्तयन् प्रवृत्तांश्चानुप्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलीभ्यामुत्पलकुमुदैरण्डनालैर्वा कण्ठमभिमृशन् वमेत्।
नात्युन्नतो नात्ववनतो न पार्श्वापवृत्तो वा।
तत्रात्युन्नतस्य पृष्ठहृदयपीडा भवति।
अत्यवनतस्य शिरःकोष्ठपीडा।
पार्श्वापवृत्तस्य पार्श्वकोष्ठहृदयोर्ध्वजत्रुपीडेति॥

अस27.15
एवं कटुतीक्ष्णोष्णैः कफे छर्दयेत्।
स्वादुभिः पित्तयुक्ते।
अम्लैः सस्नेहैरनिलसंसृष्टे।
यावत् कफच्छेदः केवलमौषधप्रवृत्तिः पित्तदर्शनं वा॥

अस27.16
हीनवेगस्तु पिप्पल्यामलकसर्षपकल्कलवणोष्णोदकैः पुनःपुनः प्रवर्तयेत्।
प्रभूतवमनासहिष्णुर्द्व्यहं त्र्यहं वा विश्रम्य।
असात्म्यबीभत्सदुर्दर्शदुर्गन्धानि वमनानि विदध्यात्।
विपरीतानि तु विरेचनानि।
सर्वेषु च वमनेषु सैन्धवं मधु च विदध्यात्कफविलयनविच्छेदनार्थम्।
वेगांश्चास्य प्रतिग्राहगतानावेक्षेत॥

अस27.17
तत्राप्रवृत्तिः केवलस्य वा भेषजस्य प्रवृत्तिर्विबन्धो वा वेगानामयोगलक्षणम्।
ततश्चारोचकगौरवाध्मानकण्डूस्फोटकोठालस्यशूलप्रतिश्यायलोमहर्षप्रसेकशोफशीतज्वरादयः॥

अस27.18
योगलक्षणं पुनः काले क्रमात् कफपित्तानिलप्रवृत्तिर्नातिमहती व्यथा स्वयं चावस्थानं ततश्च स्वस्थता मनःप्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यं च॥

अस27.19
अतियोगे तु फेनिलरक्तचन्द्रिकोद्गमनम्।
ततश्च क्षामतास्वरक्षयदाहकण्ठशोषभ्रममोहोन्मादमूर्च्छाशिरःशून्यताहृद्धूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्णशूलार्द्दितवाक्सङ्गहनुसंहननजिह्वाप्रवेशनिर्गमाक्षिव्यावृत्तिविसंज्ञतानिद्राबलाग्निहानयो भवन्ति।
जीवशोणितप्रवृत्त्या मरणं वा।
एषां सिद्धिषु साधनं वक्ष्यते॥

अस27.20
योगेन तु खल्वेनं छर्दितवन्तं सुविशोधितपाणिपादमुखं मुहूर्तमाश्वास्य धूमत्रयस्यान्यतमं सामर्थ्यतः पाययित्वा पुनरुपस्पृष्टोदकं सम्मानितसुरभिताम्बूलं निवातागारशय्यास्थितं स्नेहोक्तेनाचारविधिनानुशिष्यात्॥

अस27.21
ततोग्निबलमवेक्ष्य क्षुधं च सायाह्ने अपरे वाह्नि सुखोदकपरिषिक्तः पुराणानां रक्तशालितण्डुलानां सुसिद्धमन्नमस्नेहलवणकटुकमल्पस्नेहलवणकटुकं वा द्रवप्रायमुष्णोदकानुप्रायं सायं प्रातरुपभुञ्जानो विधिमिममवेक्षेत पेयादीनाम्॥

अस27.22
पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्।
क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः॥

अस27.23
यथाणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण।
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः॥

अस27.24
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ।
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथास्याद् द्विचतुर्गुणश्च॥

अस27.25
पित्तावसानं वमनं विरेकादर्द्धं कफान्तं च विरेकमाहुः।
द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके वमने तु पीतम्॥इति

अस27.26
अथ वमितवन्तं पुनरेवं स्नेहस्वेदाभ्यामुपपाद्यश्वो विरेचयितव्य इति सुजरमश्लेष्मलं स्निग्धं फलाम्लमुष्णमुष्णोदकानुपानं जाङ्गलरसौदनं भोजयेत्। ततः सुखोषितं पूर्वोक्तेन विधिनातीते श्लेष्मकाले निरन्नं विभज्य कोष्ठं यथार्हौषधमात्रां पाययेत्।
न त्वकृतवमनमन्यत्रातिक्रूरकोष्ठात्॥

अस27.27
अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते।
उरसि वावरुद्धमवतिष्ठते।
ततो नालं विरेकाय।
सम्यग्विरिक्तस्यापि चाधःस्रस्तः श्लेष्मा ग्रहणीं छादयित्वा गौरवमापादयति।
प्रवाहिकां वा।
न त्वेष दोषोऽतुक्रूरकोष्ठस्य वाय्वात्मकत्वात्॥

अस27.28
श्लेष्मकाले त्वकृतवमनोक्तदोषाः शूलाध्मानगौरवाणि वा कृत्वा छर्दिक्षीणे श्लेष्मण्यपराह्णे रात्रौ वा विरेचयेत्।
तेनान्नावृतमपि तुल्यम्।
छर्द्रिं च पुनस्तज्जनयति।
अविरिक्तस्य तु श्लेष्मकाले च वमनं निरन्नं योज्यम्।
तथोर्ध्वं सुखेन निर्हरणात्॥

अस27.29
कोष्ठस्तु त्रिविधो भवति।
मृदुः क्रूरो मध्यमश्च।
तत्र बहुपित्तो मृदुः।
स विरिच्यते क्षीरेक्षुरसाम्लतक्रमस्तुगुडकृसरसर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफलादिभिरपि।
बहुवातः क्रूरः।
स दुर्विरेच्यस्त्रिफलातिल्वकत्रिवृन्नीलिनीफलादिभिरपि।
बहुश्लेष्मासमदोषश्च मध्यः स साधारणः।
ये च स्निह्यन्त्यच्छपानेन प्रायशः त्रिसप्तपञ्चरात्रैरिति॥

अस27.30
तत्र कषायमधुरद्रव्यैः पित्ते विरेचनम्।
मूत्रकटूष्णैः कफे।
स्निग्धोष्णलवणैर्वाते।
पीतमात्र एव चौषधे छर्दिविघाताय शीताम्बुना मुखमस्य सहसा सिञ्चेत्।
ततश्चोष्णोदकेन सोऽन्तर्मुखं विशोध्यार्द्रसुरभिमृन्मातुलुङ्गजम्बीरसुमनःसौगन्धिकादिहृद्यगन्धानुपजिघ्रेत्।
निवातसुखशय्यास्थितश्चाविबन्धार्थमल्पाल्पमुष्णोदकमनुकण्ठयंस्तन्मना वेगान्न धारयन् ईरयमाणाश्च शय्यासन्ने प्रतिग्राहेऽशीतस्पृग्विरिच्येत।
यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तन्ते तथा विरेचने वातमूत्रपुरीषपित्तकफाः।
पुनश्चान्ते वायुः।
दोषाणां हि देहे तथा सन्निवेशान्मार्गवैपरीत्याच्च शोधनयोरिति॥

अस27.31
अप्रवृत्तौ तु भेषजोत्तेजनार्थमुष्णोदकं पाययेत्।
पाणितापैश्च जठरं स्वेदयेत्।
प्रवृत्ते च दीप्ताग्नेः स्निग्धवपुषा बहुदोषस्याल्पदोषे नैव वा प्रवृत्तेऽल्पदोषस्यापि जीर्णभैषज्यस्याहःशेषं बलं चापेक्ष्य भूयो मात्रां विदध्यात्।
न त्वजीर्णौषधस्यातियोगभयात्॥

अस27.32
तदहर्वा भुक्तवतोऽन्येद्युरदृढस्नेहं वा दशरात्रादूर्ध्वमुपस्कृतदेहमवहितो भूयः पाययेत्॥

अस27.33
ह्रीभयलोभैश्च वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजश्च भवन्ति।
तस्मादेते वेगधारणप्रवृद्धवातत्वात्सदातुरा दुर्विरेच्याश्च।
तान् सुस्निग्धान् शोधयेत्॥

अस27.34
अन्यानपि चाकालनिर्हारविहाराहारान्।
ततश्चैषां सदातुरत्वादल्पोऽप्यामयो दुःसाध्यो भवति।
तेषां पुनः क्रियाविधिः स्नेहव्यापत्सिद्धावुपदेक्ष्यते॥

अस27.35
तत्रासम्यग्विरेकात् कुक्षिहृदयाविशुद्धिराध्मानमरुचिः प्रसेकः कफपित्तोत्क्लेशछर्दिभ्रमाः कण्डू पिटका विदाहो गौरवमग्निसादस्तन्द्रा स्तैमित्यं प्रतिश्यायो वातविण्मूत्रसङ्गश्च।
सम्यग्विरेकात् व्याध्युपशमो यथोक्तविपर्ययश्च।
अतिविरेकात्तु केवलं दोषरहितमुदकं रक्तं वा मेदोमांसधावनोपमं कृष्णं वा प्रवर्तते।
परिकर्तिका हृदयोद्वेष्टनं गुदनिस्सरणं नयनप्रवेशः पिपीलिकासञ्चार इवाङ्गे वमनातियोगतुल्यता च॥

अस27.36
सम्यग्विरिक्तं चैनं वमनोक्तेन धूमवर्ज्येन विधिनोपपादयेत्।
अथ वमितवानिव क्रमेणान्नान्युपयुञ्जानः प्रकृतिभोजनमागच्छेदिति।
भवति चात्र॥

अस27.37
जीर्णेऽन्ने वमनं योज्यं कफे जीर्णे विरेचनम्।
मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्॥

अस27.38
अदृष्टजीर्णलिङ्गं च लङ्घयेत् पीतभेषजम्।
स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते॥

अस27.39
संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः।
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्॥

अस27.40
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्।
पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः॥

अस27.41
अपक्वं वमनं दोषान् पच्यमानं विरेचनम्।
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्॥

अस27.42
ऊर्ध्वाधोरेचनं युक्तं वैपरीत्येन जायते।
यदा तदा छर्दयतः सिञ्चेदुष्णेन वारिणा।
पादौ शीतेन चोर्ध्वाङ्गं विपरीतं विरेचने॥

अस27.43
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्।
विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्॥

अस27.44
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः।
अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्।
वरं तदसकृत् पीतमन्यथा संशयावहम्॥

अस27.45
हरेद् बहूंश्चलान् दोषानल्पानल्पान् पुनःपुनः।
दुर्बलस्य मृदुद्रव्यैरल्पान् संशमये त्तुतान्।
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः॥

अस27.46
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः।
सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्॥

अस27.47
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्।
दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति॥

अस27.48
तेभ्यो बस्तिं पुरो दद्यात्ततः स्निग्धं विरेचनम्।
शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्त्तिभिः।
प्रवृत्तं हि मलं सिग्धो विरेको निर्हरेत्सुखम्॥

अस27.49
विषाभिघातपिटकाकुष्ठशोफविसर्पिणः।
कामलापाण्डुमेहार्तान् नातिस्निग्धान् विशोधयेत्॥

अस27.50
सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान्॥

अस27.51
कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे।
स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च॥

अस27.52
ऊषादिभिर्यथोत्क्लेश्य ह्रियते वाससो मलः।
तथैव वपुषः स्नेहस्वेदमाषतिलादिभिः॥

अस27.53
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः।
दारुशुष्कमिवानामे शरीरं तस्य दीर्यते॥

अस27.54
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते।
नातिग्लानिकरं नापि हृदि पायौ च रुक्करम्॥

अस27.55
अन्तराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति।
विरेचनं निरूहं वा तत्तीक्ष्णमिति निर्दिशेत्॥

अस27.56
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्।
नवं मात्राधिकं किञ्चित् तुल्यवीर्यैः सुभावितम्॥

अस27.57
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्।
अतो विपर्यये मन्दं मन्दतां च प्रपद्यते॥

अस27.58
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः।
बलापेक्षं हितं तेषु तीक्ष्णं मध्यं मृदु क्रमात्॥

अस27.59
अप्रवर्त्य मलान् द्रव्यं सात्मीभूतं हि जीर्यति।
वमनं वा विरेकं वा तस्मात्सात्म्यं न योजयेत्॥

अस27.60
विभ्रंशो विषवत्सम्यग्योगो यस्यामृतोपमः।
कालेऽवश्यं प्रयोज्यं च यस्माद्यत्नेन तत् पिबेत्॥

अस27.61
बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्ह्तिरत्वं ज्वलनस्य दीप्तिम्।
चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्॥
इति सप्तविंशोऽध्यायः॥

अथाष्टविंशोऽध्यायः।

अस28.1
अथातो बस्तिविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस28.2
बस्तिरनिलप्रधानेषु दोषेषु प्रयुज्यते।
बस्तिना दीयते बस्तिं वा पूर्वमन्वेत्यतो बस्तिः॥

अस28.3
स च सर्वोपक्रमाणां प्रधानतमः शीघ्रं बृंहणादिकारित्वाद्विकृतानिलोच्छेदित्वाच्च॥

अस28.4
अनिलो हि दोषाणां नेता।
सर्वशरीरचेष्टैककारणम्।
पञ्चात्मतया अङ्गप्रत्यङ्गव्यापी।
विधाता विविधबाह्याध्यात्मिकभावानां सर्गस्थितिप्रलयानां हेतुः मार्गत्रयजानामपि रोगाणामिति॥

अस28.5
सुखत्वादेव च बस्तिर्बालवृद्धकृशस्थूलक्षीणधात्विन्द्रियेषु च स्त्रीषु चानिलोपसर्गादप्रजासु कृच्छ्रप्रजासुचोपदिश्यते।
तथाग्निबलवर्णमेधास्वरायुःसुखप्रदो वयःस्थापनः पङ्गूरुस्तम्भभग्नसङ्कुचितानिलाध्मानशूलारोचकोदावर्तपरिकर्तिकादिषु हित इति॥

अस28.6
स तु बस्तिस्त्रिविधः।
आस्थापनमनुवासनमुत्तरबस्तिश्च।
तत्रास्थापनं दोषदूष्याद्यनुसारेण नानाद्रव्यसंयोगादिनिर्वृत्तम्।
तस्य भेदाः।
उत्क्लेशनं संशोधनं संशमनं लेखनं बृंहणं वाजीकरणं पिच्छाबस्तिर्माधुतैलिकमित्यादयः।
माधुतैलिकस्य पर्यायाः यापनो युक्तरथो दोषहरः स्निग्धबसतिरिति।
तेषां नामभिरेव स्वरूपमाख्यातम्॥

अस28.7
तद्वयःस्थापनाद्दोषस्थापनाद्वास्थापनमित्युच्यते शरीरारोहणाद्दोषनिर्हरणादचिन्त्यप्रभावतया यस्मिन्नूहासम्भवान्निरूह इति॥

अस28.8
अनुवासनं यथार्हौषधसिद्धः स्नेहनार्थः स्नेहः स्नेहविधौ स चतुर्धाभिहितः।
तस्य भेदो मात्राबस्तिः।
स पेयस्नेहह्रस्वमात्रातुल्यः॥

अस28.9
सेव्यः सदा च माधुतैलिकवत्।
बालवृद्धाध्वभारयानव्यायामचिन्तास्त्रीनित्यस्त्रीनृपेश्वरसुकुमारदुर्बलानिलभग्नाल्पाग्निभिर्निष्परिहारतया सुखो बल्यो वर्ण्यः सृष्टमलो दोषघ्नश्च तथापि तौ नाजीर्णे योज्यौ न च दिवास्वप्नः सेव्यः।
यतश्च सोऽन्नमनुवसन्नपि न दुष्यत्यनुवासरमपि वा दीयत इत्यनुवासनम्॥

अस28.10
उत्तरबस्तिरपि स्नेहोनुवासनवच्छोधनं निरूहवदपि केचिदाहुः स निरूहादुत्तरमुत्तरेण वा मार्गेण दीयत इत्युत्तरबस्तिः॥

अस28.11
तत्रास्थाप्या गुल्मप्लीहानाहशूलशुद्धातीसारजीर्णज्वरप्रतिश्यायाढ्यरोगहृदयकुक्षिपार्श्वग्रहपर्वाभितापपार्श्वयोनिशूलाङ्गसुप्तिशोषकम्पगौरवातिलाघवान्त्रकूजनवातवर्चोमूत्रशुक्रसङ्गाश्मरीशर्करावृद्धिशुक्रार्तवस्तन्यनाशरजःक्षयोन्मादरेतोदोषक्रिमिणकोष्ठविषमाग्निसशब्दाल्पाल्पोग्रगन्धोत्थानादयो दोषभेदीयोक्ताश्च वातव्याधयो विशेषेणैते हि परं बस्तिना नाशमुपयान्ति मूलच्छेदेन वृक्षवत्॥

अस28.12
अनास्थाप्यास्त्वतिस्निग्धोत्क्लिष्टदोषक्षतोरस्कातिकृशा निरन्नाः कृतवमनविरेचननस्यप्रसक्तच्छर्दिनिष्ठीविकाकासश्वासहिक्कार्शोबद्धच्छिद्रदकादेराध्मानालसकविषूचिकामातीसारारोचकाल्पाग्निगुदशोफकुष्ठमधुमेहार्ताः।
गर्भिणी चाप्रवृत्ताष्टममासा।
तत्रातिस्निग्धोत्क्लिष्टदोषयोर्दोषानुक्लेश्योदरं मूर्च्छां श्वयथुं वा निरूहो जनयेत्।
क्षतोरस्कस्यातिकृशस्य च क्षोभमापन्नः शरीरमाशु पीडयेत्।
अनिरन्नस्य वक्ष्यते।
कृतवमनविरेकयोस्तु रिक्तं देहं क्षतं क्षार इव दहेत्।
स्नेहबस्तिस्तु सद्योऽग्निमवसाद्य श्लेष्मामयाय स्यात्॥

अस28.13
कृतनस्यस्याम्यविभ्रंशं विऋव्तोध्वस्रोतस्तया कुर्यात्।
अनुवासनं तु दोषोत्क्लेशम्।
प्रसक्तच्छर्द्यादीनां वायुर्निरूहमूर्ध्वं नयेत्।
अनुवासनं च।
अर्शसस्यावृतमार्गत्वादनागच्छन्बस्तिः प्राणान् हिंस्यात्।
स्नेहः पुनरर्शांस्यभिष्यन्द्याध्मानाय स्यात्।
बद्धोदराद्याध्मानान्तानां भृशतरमाध्मानान्मृत्युः।
अलसकार्तादीनां चामदोषात्।
अरोचकार्तादीनां यथास्वमामयवृद्धिः।
गर्भिण्याः पूर्वोक्तो दोषः॥

अस28.14
य एवास्थाप्यास्त एवानुवास्याः।
रूक्सातिदीप्ताग्रयः केवलानिलार्ताश्च विशेषेण।
एते परमनुवास नेनाप्याय्यन्ते।
मूलसेकेन वृक्षवत्।
य एवानास्थाप्यास्त एवाननुवास्याः।
तथा निरन्ननवज्वरपाण्डुरोगकामलाप्रमेहप्रतिश्यायप्लीहकफोदराढ्यवातवर्चोभेदार्तपीतविषगरपित्तकफाभिष्यन्दगुरुकोष्ठातिस्थूलश्लीपदगलगण्डापचीक्रिमिणकोष्ठाः।
तत्रातिस्निग्धादीनां यथास्वमुक्ताः पृथग्दोषाः।
अपि च॥

अस28.15
अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनम्।
सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते॥

अस28.16
तेन वायोर्जयो न स्याद्वातस्थाने ह्यतिष्ठता।
कायाग्नेराशु नाशश्च विशेषादनिवर्तनात्॥

अस28.17
स्नेहःसद्योशिताहाररुद्धे त्वामाशयेऽनिलम्।
पक्वस्थं हन्ति पक्वस्थश्च्यवते चान्नपाकतः॥

अस28.18
निरूहश्च समीरश्च तीक्ष्णवेगावुभावपि।
तावन्नमूर्च्छितौ तीक्ष्णावधोऽन्नेन सहागतौ॥

अस28.19
ऊर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ठ एव वा।
समलाहारविष्टब्धौ हरेतामाशु जीवितम्॥

अस28.20
भुक्तवाननुवास्योऽस्मान्न निरूह्यस्तु भुक्तवान्।
पाण्डुरोगार्तादीनां दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत्।
प्रैश्यायादिमतां भूय एव दोषं वर्धयेत्॥

अस28.21
तयोस्तु नेत्रं सुवर्णादिधातुमणिशङ्खशृङ्गदन्तास्थिवेणुनलखदिरकदरतिनिशतिन्दुकादिदारुसारमयमृज्वककशं गोपुच्छाकृतिगुलिकामुखमूनवर्षवार्षिकसप्तद्वादशषोडशवर्षाणां विंशतिप्रभृतिषु च क्रमात् पञ्चषट्सप्ताष्टनवद्वादशाङ्गुलप्रमाणम्।
मूलेऽग्रे चातुराङ्गुष्ठकनिष्ठिकापरिणाहमर्धाग्गुलात् प्रभृत्यर्धाङ्गुलप्रवृद्धत्र्यङ्गुलपर्यन्तप्रवेशमूलच्छिद्रम् वनमुद्गमुद्गमाषकलायक्लिन्नकलायर्ककन्धुवाह्यग्रच्छिद्रम् मूलछिद्रप्रमाणाङ्गुलैरग्रे यथास्वं सन्निविष्टकर्णिकं कर्णिकान्तःप्रतिबद्धसूत्रान्तर्गृहीताग्रपिधानघनचैलवर्ति।
मूले द्व्यङ्गुलान्तराले कर्णिकाद्वयं कारयेत्।
वर्षान्तरेषु च वयोबलशरीराण्यवेक्ष्य नेत्रप्रमाणमुत्कर्षयेत्॥

अस28.22
ततोजाविवराहहरिणगोमहिषान्यतमजं स्नेहमुद्गविमृदितं विगतच्छिद्रसिराग्रन्थिस्कन्धं नातिवर्तुलं मृदु दृढं कषायरक्तं सुखसंस्थाप्यौषधप्रमाण न्युब्जं विवृताननं निवेश्य बस्तिं कर्णकयोर्दृढेन सूत्रेण घनं समं च बध्वा परिवर्त्त्य पुनश्चान्यद्वस्तिमुखबन्धनार्थं सूत्रमुपधायानुगुप्तं निधापयेत्॥

अस28.23
बस्त्यभावे प्लवनीच्छागलाङ्कपादमधूच्छिष्टोपदिग्धघनसूक्ष्मतान्तवान्यतमं निवेशयेत्॥

अस28.24
आस्थापनमात्रा तु प्रथमे वर्षे प्रकुञ्चः।
ततः परं प्रतिवर्षं प्रकुञ्चमभिवर्धयेदाषट्प्रसृतात्।
ततश्चोर्ध्वं प्रसृताभिवृद्धिः।
प्राप्तानतीताष्टादशसप्ततेस्तु द्वादश प्रसृताः।
परं चातो दशैव।
अन्ये पुनर्द्वादशप्रसृतस्याप्यष्टाविच्छन्ति॥

अस28.25
यथास्वमास्थापनमात्रा पादहीना माधुतैलिके प्रयोज्या।
अनुवासने स्वेवमेवास्थापनस्य पाद इति॥

अस28.26
अथास्थापनीयमातुरं स्नेहस्वेदोपपन्नं कृतवमनविरेकमासेवितपेयादिसंसर्गक्रममुपजातबलमनुवासनार्हं पूर्वमेवानुवासयेत्।
शीतवसन्तयोर्दिवा अन्यथा रात्राववेक्ष्य वा दोषादीन्।
अन्यथा हि स्हेहोक्तामयप्रादुर्भावः॥

अस28.27
धन्वन्तरीयाः पुनराहः।
न रात्रौ प्रणयेद्बस्तिं स्नेहोत्क्लेशो हि रात्रिजः।
अह्नि स्थानस्थिते दोषे वह्नौचन्नरसान्विते॥

अस28.28
स्फुटस्रोतोमुखं देहं स्नेहो यत् परिसर्पति।
अल्पपित्तकफं रूक्षं भृशं वातरुजार्दितम्॥

अस28.29
भुक्तं जीर्णाशनं कामं रात्रावप्यनुवासयेत्।
केवलानिलनिपीडितं त्वशुद्धमप्यनिरूपितबलं चाप्यनुवासयेदात्ययिकत्वात् व्याधेः।
तस्य विधिर्वमनादधिकतरं कृतमङ्गलमनुसुखमभ्यक्तमुष्णाम्बुस्नातं युक्तस्नेहमुचितात् पादहीनं द्रवपूर्वं लघूष्णं सानुपानमशनमशितवन्तं कृतचङ्क्रमणमुत्सृष्टविण्मूत्रमशनार्द्रहस्तमशङ्कनीयपरिचारकं निवाते वेश्मनि प्रतत शयने नात्युच्छ्रिते स्वास्तृते ईषदुन्नमितपाददेशे वामपाश्वन प्राक्शिरसं संवेशयेत्।
अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात् स्नेहो मदमूर्च्छाग्निसादहृल्लासान् जनयति।
रूक्षाशिनो विष्टम्भं बलवर्णहानिं वा।
अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चानावृतेन तदावृतात् व्यापदम्।
चिरमशितवतो विदाहाभिमुखभक्तस्य ज्वरं कुर्यात्।
यतश्च वामपार्श्वाश्रयाणि वह्निग्रहणीगुदवलामुखानि तानि तत्पार्श्वशायिनो निम्नानि भवन्त्यतस्तदौषधमस्खलितमाप्नोति प्रवेशनिर्गमाविति।
संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुञ्चितेतरं तस्यैव चोपरिप्रसारितदाक्षणबाहुं कारयेत्॥

अस28.30
पूर्वमेव तु वैद्यो वर्त्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजनस्योपरि कृत्वा दक्षिणपादाङ्गुष्ठाङ्गुलीभ्यां कर्णिकाया उपरिष्टान्निष्पीड्याविबन्धाय शताह्वासैन्धवचूर्णावचूर्णितं प्रगेव नेत्रस्पर्शात् पूर्ववदाभिमन्त्रितं यथार्हं यथार्हौषधाविपक्व सुखोष्णं बस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निस्सारितवातबुद्बुदमौषधान्ते सूत्रेण द्विस्त्रिर्वा बस्तिमुखमावेष्ट्य दक्षिणपाणौ नेत्रमुपरिधाय तिष्ठेत्।
ततो घृताभ्यक्ते पायौ वामहस्तप्रदेशिन्याभ्यक्तप्रवेशप्रदेशमपनीतवर्त्युत्तानवामहस्ताङ्गुष्ठोदरपिहिताग्रं मध्यमाप्रदेशिन्युपगृहीतकर्णिकमृज्वनुपृष्ठवंशमनुसुखमेकमना लाघवेन निष्कम्पमद्रुतमविलम्बितं नेत्रमाकर्णिकं प्रवेशयेत्।
आतुरोऽपि तदनुलोमयन्नवलम्बेत।
ततश्च वैद्यो बस्तिमुखं दक्षिणहस्ताङ्गुष्ठप्रदोशिनीभ्याममुञ्चन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किञ्चिदवशेषयन् शनैश्शनैरवेगमनुपीडयेत्।
अन्यथा हि व्यापदो भवन्ति।
ताः ससाधनाः सिद्धिषु वक्ष्यन्ते॥

अस28.31
अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः।
न च बस्तौ दीयमाने क्षवकासहासजृम्भास्पन्दनान्याचरेत्।
विण्मूत्रानिलवेगे तु नेत्रमाकृष्य वेगान्ते शेषं प्रणयेत्।
अन्ते चोत्तानस्य स्थिजौ पाणितलेन त्रिचतुरो वारांस्ताडयेत्।
तथा तत्पार्ष्णिभ्याम्।
पादतश्च शय्यां त्रिरुत्क्षिपेत्।
सोपधानस्य च प्रसारितसर्वाङ्गस्य पार्ष्णिके मुष्टिना हन्यात्।
तथा पार्ष्ण्यङ्गुलिपादतलपिण्डिकाः।
सरुजं चाङ्गं स्नेहेन प्रतिलोमं वाक्शतमात्रं शनैर्विमृद्नीयात्।
एवमाशु स्नेहो न निवर्तते।
समनुगच्छति चासमन्तात्सिराः।
ततः परं तु स्नेहोक्तमाचार्मनुवर्तते॥

अस28.32
दीप्तानिं च सायं लघ्वन्नं भोजयेत्।
नैव चानागतस्नेहं द्वितीयेऽहनि।
न च तमनुवासयेत्।
आगमनकालस्तु परो यामत्रयम्।
ततः परमनागच्छन्तमहोरात्रमुपेक्षेत।
तदाप्यनिवर्तमाने फलवर्तिभिर्लवणारनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत्।
स्नेहव्यापत्सिद्धिं चावेक्षेत।
अतिरौक्ष्यादनागच्छन्नचेज्जाड्याद्युपद्रवाय् स्यात् तथाप्युपेक्ष्यः।
शीघ्रनिवृत्ते तु विना मलेन केवले स्नेह स्नेहमन्यं पुनर्योजयेत्।
न ह्यसावतिष्ठन् कार्यकरो भवति।
सुखोषितं चैनं तथाकृतवमनविरेकास्थापनान्यतमं प्रायः शुण्ठीधान्यक्वाथमितरच्चोष्णोदकं वा स्नेहशेषजरणाय वातकफोपशान्तये च पाययेत्॥

अस28.33
ततोऽन्नकाले यथोक्तमन्नमश्नीयात्।
न चानुवासितं पेयां पाययेत्।
सा हि सस्नेहकोष्ठमेनमभिष्यन्दयति।
पुनश्च तृतीयेऽहन्यनुवासयेत् पञ्चमे वा।
यदा वा स्नेहपक्तिः स्यादतश्च दाप्ताग्निरूक्षवातोल्बणव्यायामनित्यान् प्रत्यहम्।
एवममुना क्रमेण दोषाद्यनुसारतस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतोविशुद्ध्यर्थमास्थापयेत्।
वाताधिक्यादस्निग्धं तु स्नेहनेन॥

अस28.34
अथैनं तृतीये पञ्चमे वाहनि किञ्चिदावृत्ते माध्याह्ने कृतमङ्गलस्वस्त्ययनमभ्यक्तदेहं स्वेदितमुत्सृष्टमलमनाशितं नातिक्षुधितमवेक्ष्यातुरमार्यावलोकितं नाथमार्यतारामात्मभुवं धातारमश्विनाविन्द्रमात्रेयं सप्तर्षीन् काशिराजं विदेहपतिप्रभृतीनग्निवेशादींश्च तन्त्रकारान् दीपगन्धफलबलिधूर्पैर्यज्ञ इव प्रकल्पितभागान् कृत्वौषधीवृद्धवैद्यद्विजातींश्च संपूज्य तद्विद्यसहितो दोषौषधादिबलेन यथार्हमुपकल्पयेद्वस्तिम्॥

अस28.35
तत्र विंशतिमात्राणि पलान्यौषधानां मदनफलाष्टकं च क्वाथकल्पेन विपचेत्।
क्वाथाच्चतुर्थांशां स्नेहमनिले षष्ठांशं पित्ते स्वस्थवृत्ते चाष्टमांशं तु कफे।
सर्वस्य चाष्टमांशं कल्कस्य स्याद्यावता नात्यच्छसान्द्रता भेवेत्।
गुडस्य पलं युक्त्या मधुसैन्धवे यथायोग्यं च शेषाणि कल्पयेत्॥

अस28.36
सर्वाणि चैकध्यमुष्णोदककुम्भीबाष्पाभितप्तानि खजमथितानि बस्तौ प्रक्षिप्यानुवासनवन्निरूहं प्रणयेत्।
नात्युष्णशीतं नातिमृदुतीक्ष्णं नातिस्निग्धरूक्षं नातितनुसान्द्रं न हीनातिमात्रं नालवणातिलवणं नात्यम्लं च।
तत्र बाष्पमात्रानुतापादौषधस्य विदाहो न भवति।
खजप्रमथनात्तु क्वाथस्नेहादयः सम्यक् सम्प्रयुक्ताः सम्यगेव योगमारभन्ते।
अन्यथा पुनः क्वाथादीनामुल्बणोन्यतमं यथास्वं दोषमीरयेत्।
अत्युष्णादीनां तु पृथग्व्यापदः साधनानि च सिद्धिषूत्तरकालमुपदेक्ष्यन्ते॥

अस28.37
अपि च।
तिर्यक्प्रणीते हि न याति धारा गुदे व्रणः स्याच्चलिते च नेत्रे।
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावेदतिपीडितस्तु॥

अस28.38
स्तम्भं विधत्तेऽतिमृदुर्हिमश्च तप्ताम्लतीक्ष्णो भ्रमदाहमोहान्।
स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्॥

अस28.39
करोति मात्राभ्यधिकोऽतियोगं क्षोभ तु सान्द्रः सुचिरेण चैति।
दाहातिसारौ लवणोऽति कुर्यात्तस्मात्सुयुक्तं सममेव दह्यात्॥

अस28.40
मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक्।
कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्॥

अस28.41
सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्।
माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्॥

अस28.42
आवपेत निरूहाणामेष संयोजने विधिः॥

अस28.43
दत्तमात्रे तूत्तानः सोपधानो निरूहवीर्येण देहव्याप्तये तन्मनास्थिष्ठेत्।
उदीर्णवेगश्चोत्कुटिको विसृजेत्।
आगमनकालस्तु परो मुहूर्तः।
तदा ह्यनागच्छन्नाशु मृत्यवे स्यात्।
अतस्तत्रानुलोमिकं स्नेहक्षारमूत्राम्लं स्निग्धतीक्ष्णोष्णमन्यं प्रयोजयेत्।
फलवर्तिस्वेदभयोत्त्रासादींश्च।
बस्तिव्यापत्सिद्धिं चावेक्षेत॥

अस28.44
स्वयं निवृत्ते तु पूर्ववद् द्वितीयं तृतीयं चतुर्थं च दद्याद्यावद्वा सुनिरूढः स्यात्॥

अस28.45
तत्राद्योऽनिलं स्वमार्गादपकर्षति।
द्वितीयः पित्तम्।
तृतीयः श्लेष्माणमिति॥

अस28.46
तस्य हीनसम्यगतियोगास्तु विरिक्तवत्।
सम्यङ्निरूढं तु कोष्णसलिलावसिक्तं तनुना जाङ्गलरसेन भोजयेत्।
स्नाताशितस्यास्य चला दोषशेषाः स्वस्थानमाश्रयन्ते॥

अस28.47
ततः पुनर्वातार्तमातुरं बृंहणीयमन्यं वा तद्विधमशितानन्तरं सायं वा पुनरल्पलघ्वशितं यथास्वमलिलादिषु दशमूलादिसाधितेन तैलेनानुवासयेत्।
तस्य हीनसम्यगतियोगाः स्नेहपीतवत्॥

अस28.48
विशेषस्तु सम्यगनुवासिते किञ्चित्कालं स्थित्वा स्नेहः सपुरीषोनिलानुगतः प्रवर्तत इति।
भवति चात्र॥

अस28.49
एवं कफे स्नेहबस्तिमेकं त्रीन् वा प्रयोजयेत्।
प्ञ्च वा सप्त वा पित्ते नवैकादश वानिले॥

अस28.50
पुनस्ततोप्ययुग्मांस्तु पुनरास्थापनं ततः।
कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात्।

अस28.51
वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः।
बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः॥

अस28.52
ग्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ।
पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ॥

अस28.53
आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः।
रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे॥

अस28.54
त्रयश्च सन्निपातेऽपि दोषान् घ्नन्ति यतः क्रमात्।
नाचार्यचरकस्यातो बस्तिस्त्रिभ्यः परं मतः।
न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति॥

अस28.55
उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्।
त्रिधैव कल्पयेद्बस्तिमित्यन्येऽपि प्रचक्षते।
दोषौषधादिबलतः सर्वमेतत् प्रमाणयेत्॥

अस28.56
सम्यङ्निरूढलिङ्गं तु नासंभाव्य निवर्तयेत्॥

अस28.57
प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च।
सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः॥

अस28.58
कालः पञ्चदशैकोत्र प्राक्स्नेहोऽन्ते त्रयस्तथा॥

अस28.59
षट् पञ्च बस्त्यन्तारताः योगोष्टौ बस्तयोऽत्र तु।
त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुमौ॥

अस28.60
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्।
उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्॥

अस28.61
तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः।
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्॥

अस28.62
अष्टादशाष्टादशकान् बस्तीनां यो निषेवते।
विधिना ना यथोक्तेन स भवेदजरोऽरुजः॥

अस28.63
सहस्रायुः श्रुतधरो वीतपाप्मामरप्रभः।
वाजिस्यदो नागबलः स्थिरबुद्धीन्द्रियानलः॥

अस28.64
बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च।
द्वित्रास्थापनशुद्धेभ्यो विदध्याद्वस्तिमुत्तरम्॥

अस28.65
आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्।
वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्॥

अस28.66
सिद्धार्थकर्पवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्।
कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम्॥

अस28.67
तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा॥

अस28.68
अथ स्नाताशितस्यास्य स्नेहब्स्तिविधानतः।
ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ॥

अस28.69
हृष्टे मेढ्रे स्थिते चर्ज्जु शनैः स्रोतोविशुद्धये।
मालतीपुष्पवृन्ताग्रपरिणाहां घनामृजुम्॥

अस28.70
श्लक्ष्णां शलाकां प्रणयेत्तया शुद्धेऽनुसीवनीम्।
आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः॥

अस28.71
पीडितेऽनुगते स्नेहे स्नेहबस्तिक्रमो हितः।
बस्तीननेन विधिना दद्यात् त्रींश्चतुरोऽपि वा॥

अस28.72
अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्॥

अस28.73
स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः।
विदधीत तदा तस्मादनृतावपि चात्यये॥

अस28.74
योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे॥

अस28.75
नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्।
अपत्यमार्गे योज्यं स्याद्द्व्यङ्गुलं मूत्रवर्त्मनि॥

अस28.76
मूत्रकृच्छ्रविकारेषु बालानां शुक्तिरेव तु॥

अस28.77
उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी।
ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्॥

अस28.78
बस्तींस्त्रिरामत्रेवं तु स्नेहमात्रां विवर्धयेत्।
त्र्यहमेवं च विश्रम्य प्रणिदध्यात् पुनस्त्र्यहम्॥

अस28.79
पक्साद्विरेको वमिते ततः पक्षान्निरूहणम्।
सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरोचितः॥

अस28.80
यथा कुसुम्भादियुतात्तोयाद्रागं हरेत् पटः।
तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्॥
इति अष्टाविंशोऽध्यायः॥

अथ एकोनत्रिंशोऽध्यायः।

अस29.1
अथातो नस्यविधिर्नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस29.2
नासायां प्रणीयमानमौषधं नस्यम्।
नावनं नस्तःकर्मेति च संज्ञां लभते।
नासा हि शिरसो द्वारम्।
तत्रावसेचितमौषधं स्रोतःशृङ्गाटकं प्राप्य व्याप्य च मूर्धानं नेत्रश्रोत्रकण्ठादिसिरामुखानि च मुञ्जादिषीकामिवासक्तामूर्ध्वजत्रुगतां वैकारिकीमशेषामाशु दोषसंहतिमुत्तमाङ्गादपकर्षति॥

अस29.3
तत्तु त्रिविधं विरेचनं बृंहणं शमनं च।
तेषां विरेचनं जत्रूर्ध्वगौरवशोफोपदेहकण्डूस्तम्भाभिष्यन्दपाकप्रसेकवैरस्यारोचकस्वरभेदक्रिमिप्रतिश्यायापस्मारगन्धाज्ञानग्रन्थ्यर्बुददद्रुकोठादिषु श्लेष्मजेषु तीक्ष्णेन स्नेहेन शिरोविरेचनद्रव्यैर्वा सिद्धेन तेषां वा क्वाथचूर्णस्वरसैस्तैरेव वा यथार्हद्रवश्लक्ष्णकल्कितालोडितैर्मधुसैन्धवासवपित्तमूत्रैर्यथास्वं चोपदिष्टैर्योज्यम्॥

अस29.4
तत्र भीतक्लीबकृशसुकुमारेषु स्नेहः।
गलरोगसन्निपातज्वरातिनिद्रामनोविकारक्रिमिविषाभिपन्नाभिष्यण्णसर्पदष्टविसंज्ञेषु शोषाः।
तेष्वेव भूयसि दोषे शीघ्रकारिणि च चूर्णः।
स हि निहितो नासाग्र आवेगकरतरो भवति॥

अस29.5
बृंहणं सूर्यावर्तार्धावभेदकक्रिमिशिरोरोगाक्षिसङ्कोचस्पन्दतिमिरकृच्छ्रावबोधदन्तकर्णशूलनादनासामुखशोषवाक्यसङ्गस्वरोपघातमन्यारोगापतानकापबाहुकनिद्रानाशादिष्वनिलोत्थेषु स्निग्धमधुरद्रव्यैस्तत्सिद्धैर्यथायथं चोपदिष्टैः स्नेहैर्निर्यासैर्धन्वमांसरसरक्तैश्च॥

अस29.6
शमनमकालवलीपलितखलतिदारुणकरक्तराजीव्यङ्गनीलिकारक्तपित्तादिषु यथास्वमुपदिष्टैः स्नेहैर्भेषजस्वरसादिभिः क्षीरोदकाभ्यां वा समदोषे वाणुतैलेनेति॥

अस29.7
तत्र स्नेहो मात्राभेदाद् द्विधा।
मर्शः।
प्रतिमर्शश्च।
विरेचनः शमनो वा नासया प्रणीयमानः कल्कोऽवपीडसंज्ञो विरेचनचूर्णस्तु प्रधमनाख्यः।
परिशेषं तु नावनमवपीडकसंज्ञम्।
कल्कीकृतादौषधादवपीडितः स्रुतो रसोऽवपीड इत्यपरेषाम्।
तत्र पुनस्तीक्ष्णे वैशेषिकी शिरोविरेचनसंज्ञा।
तथान्ये सर्वमेव विरेचनं नस्यमित्याहुः।
सद्यः श्लेष्मविरेचनसामान्यात्॥

अस29.8
अथाणुतैलस्य विधानमुच्यते।
अणुतैलविधानं तु मञ्जिष्ठामधुकप्रपौण्डरीकजीवकर्षभककाकोलीद्वयपयस्यासारिवानन्तानीलोत्पलाञ्जनरास्नाविडङ्गतण्डुलमधुपर्णीश्रावणीमेदाकाकनासासरलसालभद्रदारुचन्दनः सुपिष्टैरष्टगुणं षड्गुणेन पयसा तैलं पचेत्।
घृतं वा पित्तोल्बणेषु दोषेषु॥

अस29.9
अथवा चन्दनागरुपत्रदार्वीत्वङ्मधुकबलाद्वयबिल्वोत्पलपद्मकेसरप्रपौण्डरीकविडङ्गोशीरह्रीबेरवन्यत्वङ्मुस्तासारिबाबृहतीद्वयांशुमतीद्वयजीवन्तीदेवदारुसुरभिशतावरीः शतगुणे दिव्येऽम्भसि दशभागावशिष्टं क्वाथयेत् ततस्तस्य क्वाथस्य दशमांशेन समांशं तैलं साधयेत्।
दशमे चात्र पाके तैलतुल्यमाजमपि पयो दद्यात्।
एतदप्यणुतैलं पूर्वस्माद्विशेषेणेन्द्रियदार्ढ्यकरं केश्यं त्वच्यं कण्ठ्यं प्रीणनं बृंहणं दोषत्रयघ्नं च॥

अस29.10
अनस्यार्हास्तु भुक्तभक्तस्नेहमद्यगरतोयपीतपातुकामशिरः स्नातस्नातुकामसिरादिव्यधस्रुतरक्तमूत्रितोच्चारिताभिहतकृतवमनविरेकबस्तिकर्मगर्भिणीसूतिकानवप्रतिश्यायश्वासकासिनोऽनार्तवदुर्दिनेष्वपि।
तत्र भुक्तभक्तस्य नस्येरितो दोष ऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रतिश्यायान् जनयेत्।
स्नेहादिपीतपातुकामानामक्षिनासास्यस्यन्दोपहतितिमिरशिरोरोगान्।
शिरःस्नातस्य शिरोऽक्षिकर्णशूलकण्ठरोगपीनसहनुमन्यास्तम्भार्दितशिरःकम्पान्।
स्नातुकामस्य मूर्धस्तैमित्यजाड्यारुचिपीनसान्।
स्रुतरक्तस्य क्षामतामरुचिमग्निसादं च।
मूत्रितोच्चारितयोर्भृशतरं वेगधारणजान् विकारान्।
अभिहतस्य तीव्रतरां रुजम्।
कृतवमनादीनां श्वासकासस्वरेन्द्रियहानिशिरोगौरवकण्डूकृमिदोषान्।
गर्भिण्या भक्तद्वेषज्वरमूर्च्छार्धावभेदकाः स्युरपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा।
सूतिकायाः स्रुतरक्तोक्तान् दोषान्।
नवप्रतिश्यायस्य स्रोतोरोधाद्दुष्टप्रतिश्यायकेशशातकृमिकण्डूविचर्चिकाः।
श्वासकासिनोर्व्याधिवृद्धिः।
अकाले दुर्दिने सहसैव शैत्याच्छिरोरुग्वेपथुस्तैमित्यतालुनेत्रकण्डूपाकमन्यास्तम्भकण्ठरोगप्रतिश्यायारूषिकाः॥

अस29.11
तेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशोरोवक्त्रलेपसेकतीक्ष्णावपीडधूमगण्डूषादीनाचरेत्।
विशेषेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीकपिकच्छुभिः शृतं पयः पिबेत्।
बलाविदार्यंशुमतीमेदाभिर्वा।
एभिरेव च शृतं हविः वातहरसिद्धश्च स्नेहः शिरोबस्तौ कर्णपूरणे च योज्यः।
सर्वं च बृंहणमन्नपानम्।
भुक्तभक्तादिष्वपि चात्ययिकव्याध्यातुरमपेक्षेत॥

अस29.12
मर्शप्रमाणं तु प्रदेशिन्यङ्गुलीपर्वद्वयान्निमग्नेद्धृताद्यावत् पतति स बिन्दुः।
अमी दशाष्टौ षड्बिन्दव उत्तममध्यमकनीयस्यो मात्राः।
क्वाथादीनामष्टौ षट् चत्वारः।
प्रधमनस्य तु षडङ्गुलद्विमुखया नाड्यामुखानिलेरितस्याकण्ठगतेर्दोषानुरोधतश्च पुनःपुनर्योजनमिति॥

अस29.13
अथ नस्यार्हं नरमव्याहतवेगं धौतान्तर्बहिर्मुखं स्निग्धस्विन्नशिरसं नातिक्षुधितं प्रायोगिकधूमपानविशुद्धस्रोतसं स्वास्तीर्णनिवातशयनस्थुत्तानशीर्षमीषदुन्नतपादं प्रसारितकरचरणं जत्रूर्ध्वं पाणितापेन पुनः पुनः स्वेदयेत्।
ततः कनकरजतताम्रान्यतमशुक्तिस्थितं प्रदेयमौषधत्रिभागमुष्णाम्बुप्रतप्तं किञ्चित् प्रलम्बितशिरसो वामहस्ताङ्गुष्ठकनिष्ठिकाभ्यामाक्रम्य नयनप्रच्छादनं चतुर्गुणं वासो मध्यमया नासाग्रमुन्नमय्य प्रदेशिन्यनामिकाभ्यां चैकैकं नासापुटं पर्यायेण पिधायेतरस्मिन् नासास्रोतसि दक्षिणहस्तेन प्रनाड्या पिचुना वानवच्छिन्नमासिञ्चेत्॥

अस29.14
वातपित्तकफामयेषु क्रमेणापराह्णमध्याह्नपूर्वाह्णेषु।
लालास्रावसुप्तप्रलापदन्तकटकटायनक्रथनकृच्छ्रोन्मीलनपूतिमुखकर्णनादतृष्णार्दितशिरोरोगश्वासकासोन्निद्रेषु रात्रौ।
स्वस्थवृत्ते तु शीते मध्याह्ने शरद्वसन्तयोः प्राह्णे ग्रीष्मेऽपराह्णे वर्षास्वादित्यदर्शने।
पञ्चकर्माण्याचरतो बस्तिकर्मोत्तरकालमेव॥

अस29.15
न च हीनाधिकं सकृदेव सर्वमत्युष्णशीतमत्युन्नतावनतशिरसे सङ्कुचितगात्रावयवाय देयम्।
तत्र हीनं दोषमुत्क्लेश्य न निर्हरेत्।
गौरवारुचिकासप्रसेकपीनसच्छर्दिकण्ठरोगान् कुर्यात्।
अधिकमतियोगदोषान्।
सकृदेव सर्वं दत्तमुत्स्नेहनशिरोरोगप्रतिश्यायघ्राणक्लेदानुच्छ्वासोपरोधं च।
अत्युष्णं दाहपाकज्वररक्तागमशिरोरुग्दृष्टिदौर्बल्यमूर्च्छाभ्रमान्।
अतिशीतं हीनदोषान्।
अत्युन्नतशिरसोऽपि सम्यक्शिरोऽप्रतिपद्यमानं तानेव। अत्यवनतशिरसोऽतिदूरगमनान्मूर्छाजाड्यकण्डूदाहज्वरान्।
सङ्कुचितगात्रस्य सम्यग्धमनीरव्याप्नुवद्दोषोत्क्लेशं वेदनां स्तम्भं वा।
यदि च नस्ये दीयमाने भेषजवेगादसात्म्यतया वा मूर्च्छा स्यात् ततः शिरोवर्जं शीताम्भसा सिञ्चेत्।
न च नस्ये निषिच्यमाने कोपहास्यव्याहारस्पन्दनोच्छिङ्खनान्याचरेत्।
तथा हि शिरोरुक्प्रतिश्यायकासतिमिरखलतिपलितव्यङ्गतिलकालकमुखदूषिकाणां सम्भवः॥

अस29.16
दत्तमात्रे तु नस्ये कर्णललाटकेशभूमिगण्डमन्यास्कन्धपाणिपादतलान्यनुसुखं मर्दयेत्।
शनैश्चोच्छिङ्खेत्।
अनभ्यवहरंश्च वामदक्षिणपार्श्वयोरौषधं निष्ठीवेत्।
सकफं हि तदभ्यवहृतमग्निमवसादयेत्।
दोषं च संवर्धयेत्।
एकपार्श्वनिष्ठीवनेन सर्वाः सिरा भेषजेन सम्यग्व्याप्यन्ते।
पुनः पुनश्चैनं स्वेदयेदाभेषजदर्शनान्नोछिङ्खेन्निष्ठीवेच्चाततश्चैवमेव द्वितीयमंशमनुषेचयेत्तथा तृतीयं दोषादिबलेन वा।
विरेचने त्ववपीडे दोषबलमपेक्ष्य पश्चात् स्नेहमनुषेचयेत्।
निवृत्तनस्यं चैवमुन्निद्रमुत्तानं वाक्शतमात्रं शाययेत्।
ततः पुनरप्युत्क्लिष्टदोषशेषोपशान्तये वैरेचनिकं यथार्हं वा धूमं पाययित्वोष्णोदकगण्डूषान् धारयेत्।
अथास्य स्नेहोक्तमाचारमादिशेत्।
अतिद्रवपानं च वर्जयेत्।
पुनश्च तृतीयेऽहनि नस्यमवसेचयेत्।
हिध्मास्वरोपघातमन्यास्तम्भापतानकेषु शिरसि चानिलार्त्याद्यभिभूते प्रत्यहं सायंप्रातरुभयकालं वा।
अनेन विधिना पञ्च सप्त नव वा दिनानि दद्यादासम्यग्योगाद्वा॥

अस29.17
तत्र सम्यक्स्निग्धे मूर्धनि विरिक्ते वा सुखोच्छ्वासनिश्वासक्षवथुस्वप्नप्रबोधशिरोवदनेन्द्रियविशुद्धयो भवन्ति।
यथोक्तव्याध्युपशमश्च।
अयोगातियोगयोस्तु यथास्वं वातकफविकारास्तान्यथास्वमेव साधयेत्।
अन्यांश्च पूर्वोक्तान् विकारान्॥

अस29.18
प्रतिमर्शस्तु क्षामक्षततृष्णामुखशोषवृद्धबालभीरुसुकुमारेष्वप्यकालवर्षदुर्दिनेष्वपि च योज्यः।
न तु दुष्टप्रतिश्यायबहुदोषक्रिमिणशिरोमद्यपीतदुर्बलश्रोत्रेषु।
एषां ह्युदीर्णदोषत्वात् तावता दोषोत्क्लेशो भवति।
तस्य पञ्चदश कालास्तेषां च गुणाः।
प्रातर्दत्ते भुक्तवतश्चान्ते स्रोतोविशुद्धिः शिरोलाघवं मनःप्रसादश्च भवति।
विण्मूत्रशिरोभ्यङ्गाञ्जनकवलान्ते दृष्टिप्रसादः।
दन्तधावनान्ते दन्तदृढता सौगन्ध्यं च।
अध्वव्यायामव्यवायान्ते श्रमक्लमस्वेदस्तम्भनाशः।
दिवास्वप्नान्ते निद्राशेषगौरवप्रणाशो मनःप्रसादश्च।
अतिहसितान्तेऽनिलप्रशमः।
छर्दितान्ते स्रोतोलीनश्लेष्मव्यपोहः।
दिनान्ते स्रोतोविशुद्धिः सुखनिद्राप्रबोधश्च भवति।
भवति चात्र॥

अस29.19
प्रमाणं प्रतिमर्शस्य बिन्दुद्वितयमिष्यते।
बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते॥

अस29.20
निष्ठ्यूते यत्र वा स्नेहो न साक्षादुपलक्ष्यते।
न नस्यमूनसप्ताबदे नातीताशीतिवत्सरे॥

अस29.21
न चोनाष्टादशे धूमः कवलो नोनपञ्चमे।
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ॥

अस29.22
आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्।
मर्शवच्च गुणान् कुर्यात् स हि नित्योपसेवनात्॥

अस29.23
न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्।
तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते।
शिरसः श्लेष्मधामत्वात् स्नेहाः स्वस्थस्य नेतरे॥

अस29.24
आशुकृच्चिरकारित्वं गुणोत्कृष्ताव्कृष्टता।
मर्शे च प्रतिमर्शे च न विशेषो भवेद्यदि।
को मर्शं सपरीहारं सापदं च भजेत्ततः॥

अस29.25
अच्छपानविचाराख्यौ कुटीवातातपस्थिती।
अन्वासमात्राबस्ती च तद्वदेव च निर्दिशेत्॥
इति एकोनत्रिंशोऽध्यायः॥

अथ त्रिंशोऽध्यायः।

अस30.1
अथातो धूमपानविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस30.2
धूमो हि शिरोऽक्षिकर्णशूलाभिष्यन्दगौरवार्धावभेदकपीनसकासश्वासास्यवैरस्यप्रसेकवैस्वर्यपूतिघ्राणमुखहिध्मागलरोगदन्तशूलदौर्बल्यारुचिहनुमन्याग्रहक्रिमिकण्डूपाण्डुत्वक्वेशदोषक्षवथुनाशबाहुल्यतन्द्रातिनिद्राक्रथनादिजत्रूर्ध्वगतवातकफव्याधिप्रशमाय प्रयुज्यते।
तथा शिरःकपालेन्द्रियमनोबृंहणप्रसादनाय च॥

अस30.3
शीतद्रव्यनिर्वृत्तोऽप्यग्निसंयोगादुष्णतया पित्तरक्तविरुद्धः।
स त्रिविधो भवति।
शमनो बृंहणः शोधनश्च।
तथा कासघ्नो वामनो व्रणधूपनश्च।
तत्र शनमः प्रायोगिको मध्यम इति पर्यायः।
बृंहणः स्नेहनो मृदुरिति।
शोधनो विरेचनस्तीक्ष्ण इति च॥

अस30.4
अधूमार्हास्तु विरिक्तदत्तबस्तिरात्रिजागरिताभिहतशिरोमधुदधिदुग्धमद्यस्नेहयवागूविषपयःपीतमत्स्याशितपाण्डुरोगप्रमेहोदराध्मानोर्ध्ववाततिमिररोहिणिकारक्तपित्तिनोऽत्युष्णोऽन्येपि च।
एषां हि भ्रमज्वरशिरोऽभितापेन्द्रियोपघाततालुशोषपाकधूमायनच्छर्दिमूर्छारक्तपित्तार्दितानि मृत्युं वा धूमो जनयति।
अतिमात्रश्चान्येषामपि॥

अस30.5
तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिःकषायपाननस्यास्यालेपनाञ्जनपरिषेकान् स्निग्धरूक्षशीतान् प्रयुञ्जीत।
एतेन सर्वधूमोपघातप्रतिकारा व्याख्याताः॥

अस30.6
विशेषतस्तु सर्वस्रोतोगते धूमे भवन्त्यूषाध्माननेत्ररोगश्वासकासपीनसाङ्गस्वरसादाम्लकाः।
तत्र घृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनम्।
कटुतिक्तैरपि च नस्यगण्डूषाः॥

अस30.7
पानकालास्त्वष्टौ प्रायोगिकस्य निशामूत्रशकृद्दन्तधाचनस्वेदनस्याहारशस्त्रकर्मान्ताः।
एकादश मृदोः।
क्षुतव्यवायहसितचिरासितजृम्भितमूत्रशकृद्दन्तधावनतर्पणपुटपाकशस्त्रकर्मान्ताः।
पञ्च तीक्ष्णस्य नस्याञ्जनछर्दितस्नानाहस्स्वप्नान्ताः।
एषु हि कालेषु वातकफोत्क्लेशो भवति॥

अस30.8
नेत्रं तु बस्तिनेत्रद्रव्यभवं गोपुच्छाकारमग्रमूलयोः कनिष्ठिकाङ्गुष्ठपरिणाहं राजमाषवाहिधूमवर्तिप्रवेशाच्छिद्रमृजु त्रिकोशं श्लक्ष्णं शिथिलशलाकागर्भं शमनादिषु क्रमादातुराङ्गुलमानेन चत्वारिंशद्द्वात्रिंशच्चतुर्विंशत्यङ्गुलं कुर्यात्।
कासघ्ने वमने च दशाङ्गुलम्।
व्रणधूपनार्थेऽष्टाङ्गुलम् कलायपरिमण्डलं कुलत्थवाहि स्रोत इति।
एवं हि धूमो दूरात् प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्नबाधको भवति॥

अस30.9
कासघ्नादिषु तु नेत्राभावे नलवंशैरण्डादीनामन्यतमा नाडीं योजयेत्॥

अस30.10
यथास्वं च धूमद्रव्याणां कल्केन श्लक्ष्णेनाक्षमात्रेण द्वादशाङ्गुलामिषीकामम्भस्यहोरात्रोषितां कृत्वा लेपयेत्।
तत्र च नवाङ्गुलगर्भां पञ्चप्रलेपामङ्गुष्ठस्थूलां यवमध्यां छायाशुष्कां वर्तिं कृत्वा विगतेषीकां च स्नेहाक्तामङ्गारेषु प्रदीप्य नेत्रमूलच्छिद्रे च निधाय यथार्हं पानायोपनयेत्॥

अस30.11
अथ धूमार्हः सुमना ऋजूपविष्टः प्राक्कृतोच्छ्वासनिश्वासो विवृतौष्ठदशनो नेत्रग्रनिविष्टदृष्टिः पर्यायेणैकैकं नासापुटं पिधायेतरेणाक्षिप्य मुखेनोत्सृजेत्।
मुखेन तु मुखेनैव।
न नासया दृग्विघातभयात्॥

अस30.12
तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन् वापानां स्त्रींश्च पर्यायान्।
कण्ठादूर्ध्वमुत्क्लिष्टे दोषे पूर्वं नासया ततो मुखेन।
कण्ठे तु पूर्वमास्येन।
परं चाहोरात्रस्य द्विः पिबेत्॥

अस30.13
स्नेहिकं त्रींस्त्रींश्चतुरश्चतुरो वापानान् यावद्बास्रप्रवृत्तिस्तथा सकृदहोरात्रस्य॥

अस30.14
तीक्ष्णं नासाभ्यामेव चतुरश्चतुरश्चापानान् यावद्वा स्रोतोलाघवम्।
तथा त्रिश्चतुर्वाहोरात्रस्य।
तत्राक्षेपविसर्गावापानमित्याहुः॥

अस30.15
कासघ्नं तु चूर्णं गुटिकां वा निर्धूमदीप्तस्थिराङ्गारपूर्णे सुसस्थिते शरावे प्रक्षिप्यान्येन मूर्ध्नि प्रवृत्तच्छिद्रेण शरावेणापिधाय निधाय च तत्स्रोतसि नेत्रं कृत्वा मुखेनैव धूमं पिबेत्।
उरःप्राप्तं च मुखेनैवोद्वमेत्।
प्रशान्ते च धूमे पुनः क्षिपेत्।
पिबेच्चादोषशुद्धेर्लाघवाद्वा॥

अस30.16
तद्वद्वामनमपि कृसरामनतिघनां पीत्वा पिबेत्।
तद्वच्च व्रणमपि धूपयेद्वैशद्याय क्लेदवेदनोपशमनाय च॥

अस30.17
धूमस्यायोगे दोषोत्क्लेशाद्रोगवृद्धिः।
अतियोगे प्रागुक्तमिति।
भवति चात्र॥

अस30.18
हृत्कण्ठेन्द्रियसंशुद्धिः शिरसो लाघवं शमः।
यथेरितानां रोगाणां सम्यक्पीतस्य लक्षणम्॥

अस30.19
शमनो वातकफयोः संसर्गे स्वस्थकर्मणि।
बृंहणो मारुते शस्तो धूमः संशोधनः कफे॥

इति त्रिंशोऽध्यायः॥