अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः २७

← अध्यायः २६ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः २८ →

अध्यायः २७

मधुरं लवणं किञ्-चिद् अ-शीतोष्णम् अ-संहतम् ।
पद्मेन्द्रगोप-हेमावि-शश-लोहित-लोहितम् ॥ १ ॥

लोहितं प्रभवः शुद्धं तनोस् तेनैव च स्थितः ।
तत् पित्त-श्लेष्मलैः प्रायो दूष्यते कुरुते ततः ॥ २ ॥

२७.२av लोहितं प्रवदेच् छुद्धं विसर्प-विद्रधि-प्लीह-गुल्माग्नि-सदन-ज्वरान् ।
मुख-नेत्र-शिरो-रोग-मद-तृड्-लवणास्य-ताः ॥ ३ ॥

कुष्ठ-वातास्र-पित्तास्र-कट्व्-अम्लोद्गिरण-भ्रमान् ।
शीतोष्ण-स्निग्ध-रूक्षाद्यैर् उपक्रान्ताश् च ये गदाः ॥ ४ ॥

सम्यक् साध्या न सिध्यन्ति ते च रक्त-प्रकोप-जाः ।
तेषु स्रावयितुं रक्तम् उद्रिक्तं व्यधयेत् सिराम् ॥ ५ ॥

न तून-षो-डशातीत-सप्तत्य्-अब्द-स्रुतासृजाम् ।
अ-स्निग्धा-स्वेदितात्य्-अर्थ-स्वेदितानिल-रोगिणाम् ॥ ६ ॥

२७.६av न न्यून-षो-डशातीत- गर्भिणी-सूतिका-जीर्ण-पित्तास्र-श्वास-कासिनाम् ।
अतीसारोदर-च्छर्दि-पाण्डु-सर्वाङ्ग-शोफिनाम् ॥ ७ ॥

स्नेह-पीते प्रयुक्तेषु तथा पञ्चसु कर्मसु ।
ना-यन्त्रितां सिरां विध्येन् न तिर्यङ् नाप्य् अन्-उत्थिताम् ॥ ८ ॥

२७.८dv न तिर्यङ् नाप्य् अन्-उच्छ्रिताम् नाति-शीतोष्ण-वाताभ्रेष्व् अन्य-त्रात्ययिकाद् गदात् ।
शिरो-नेत्र-विकारेषु ललाट्यां मोक्षयेत् सिराम् ॥ ९ ॥

२७.९dv लालाट्यां मोक्षयेत् सिराम् २७.९dv लालाट्या मोक्षयेत् सिराः २७.९dv ललाट्या मोक्षयेत् सिराः अपाङ्ग्याम् उपनास्यां वा कर्ण-रोगेषु कर्ण-जाम् ।
नासा-रोगेषु नासाग्रे स्थितां नासा-ललाटयोः ॥ १० ॥

२७.१०av अपाङ्ग्या उपनास्या वा पीनसे मुख-रोगेषु जिह्वौष्ठ-हनु-तालु-गाः ।
जत्रूर्ध्व-ग्रन्थिषु ग्रीवा-कर्ण-शङ्ख-शिरः-श्रिताः ॥ ११ ॥

२७.११cv जत्रूर्ध्वं ग्रन्थिषु ग्रीवा- उरो-ऽपाङ्ग-ललाट-स्था उन्मादे ऽपस्मृतौ पुनः ।
हनु-संधौ समस्ते वा सिरां भ्रू-मध्य-गामिनीम् ॥ १२ ॥

२७.१२av उरो-ऽपाङ्ग-ललाट-स्थाम् २७.१२dv सिरा भ्रू-मध्य-गामिनीः विद्रधौ पार्श्व-शूले च पार्श्व-कक्षा-स्तनान्तरे ।
तृतीयके ऽंसयोर् मध्ये स्कन्धस्याधश् चतुर्थके ॥ १३ ॥

प्रवाहिकायां शूलिन्यां श्रोणितो द्व्य्-अङ्गुले स्थिताम् ।
शुक्र-मेढ्रामये मेढ्र ऊरु-गां गल-गण्डयोः ॥ १४ ॥

गृध्रस्यां जानुनो ऽधस्-ताद् ऊर्ध्वं वा चतुर्-अङ्गुले ।
इन्द्र-वस्तेर् अधो ऽपच्यां द्व्य्-अङ्गुले चतुर्-अङ्गुले ॥ १५ ॥

ऊर्ध्वं गुल्फस्य सक्थ्य्-अर्तौ तथा क्रोष्टुक-शीर्षके ।
पाद-दाहे खुडे हर्षे विपाद्यां वात-कण्टके ॥ १६ ॥

२७.१६av ऊर्ध्वं गुल्फस्य संध्य्-अर्तौ चिप्ये च द्व्य्-अङ्गुले विध्येद् उपरि क्षिप्र-मर्मणः ।
गृध्रस्याम् इव विश्वाच्यां यथोक्तानाम् अ-दर्शने ॥ १७ ॥

मर्म-हीने यथासन्ने देशे ऽन्यां व्यधयेत् सिराम् ।
अथ स्निग्ध-तनुः सज्ज-सर्वोपकरणो बली ॥ १८ ॥

कृत-स्वस्त्य्-अयनः स्निग्ध-रसान्न-प्रतिभोजितः ।
अग्नि-तापातप-स्विन्नो जानूच्चासन-संस्थितः ॥ १९ ॥

मृदु-पट्टात्त-केशान्तो जानु-स्थापित-कूर्परः ।
मुष्टिभ्यां वस्त्र-गर्भाभ्यां मन्ये गाढं निपीडयेत् ॥ २० ॥

२७.२०dv मन्ये गाढं प्रपीडयेत् दन्त-प्रपीडनोत्कास-गण्डाध्मानानि चाचरेत् ।
पृष्ठतो यन्त्रयेच् चैनं वस्त्रम् आवेष्टयन् नरः ॥ २१ ॥

२७.२१dv वस्त्रम् आवेष्टयेन् नरः कन्धरायां परिक्षिप्य न्यस्यान्तर् वाम-तर्जनीम् ।
एषो ऽन्तर्-मुख-वर्ज्यानां सिराणां यन्त्रणे विधिः ॥ २२ ॥

२७.२२bv तस्यान्तर् वाम-तर्जनीम् २७.२२cv एषो ऽन्तर्-मुख-वर्जानां ततो मध्यमयाङ्गुल्या वैद्यो ऽङ्गुष्ठ-विमुक्तया ।
ताडयेद् उत्थितां ज्ञात्वा स्पर्शाद् वाङ्गुष्ठ-पीडनैः ॥ २३ ॥

२७.२३dv स्पर्शाङ्गुष्ठ-प्रपीडनैः कुठार्या लक्षयेन् मध्ये वाम-हस्त-गृहीतया ।
फलोद्देशे सु-निष्-कम्पं सिरां तद्-वच् च मोक्षयेत् ॥ २४ ॥

ताडयन् पीडयंश् चैनां विध्येद् व्रीहि-मुखेन तु ।
अङ्गुष्ठेनोन्नमय्याग्रे नासिकाम् उप-नासिकाम् ॥ २५ ॥

२७.२५av ताडयन् पीडयन् वैनां २७.२५av ताडयन् पीडयेच् चैनां अभ्युन्नत-विदष्टाग्र-जिह्वस्याधस् तद्-आश्रयाम् ।
यन्त्रयेत् स्तनयोर् ऊर्ध्वं ग्रीवाश्रित-सिरा-व्यधे ॥ २६ ॥

पाषाण-गर्भ-हस्तस्य जानु-स्थे प्रसृते भुजे ।
कुक्षेर् आरभ्य मृदिते विध्येद् बद्धोर्ध्व-पट्टके ॥ २७ ॥

विध्येद् धस्त-सिरां बाहाव् अन्-आकुञ्चित-कूर्परे ।
बद्ध्वा सुखोपविष्टस्य मुष्टिम् अङ्गुष्ठ-गर्भिणम् ॥ २८ ॥

२७.२८dv मुष्टिम् अङ्गुष्ठ-गर्भिणीम् ऊर्ध्वं वेध्य-प्रदेशाच् च पट्टिकां चतुर्-अङ्गुले ।
विध्येद् आलम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम् ॥ २९ ॥

प्रहृष्टे मेहने जङ्घा-सिरां जानुन्य् अ-कुञ्चिते ।
पादे तु सु-स्थिते ऽधस्-ताज् जानु-संधेर् निपीडिते ॥ ३० ॥

२७.३०cv पादे तु भू-स्थिते ऽधस्-ताज् गाढं कराभ्याम् आ-गुल्फं चरणे तस्य चोपरि ।
द्वितीये कुञ्चिते किञ्-चिद्-आरूढे हस्त-वत् ततः ॥ ३१ ॥

बद्ध्वा विध्येत् सिराम् इत्थम् अन्-उक्तेष्व् अपि कल्पयेत् ।
तेषु तेषु प्रदेशेषु तत् तद् यन्त्रम् उपाय-वित् ॥ ३२ ॥

मांसले निक्षिपेद् देशे व्रीह्य्-आस्यं व्रीहि-मात्रकम् ।
यवार्धम् अस्थ्नाम् उपरि सिरां विध्यन् कुठारिकाम् ॥ ३३ ॥

२७.३३dv सिरां विध्यन् कुठारया २७.३३dv सिरां विध्येत् कुठारया २७.३३dv सिरां विध्येत् कुठारिकाम् सम्यग्-विद्धा स्रवेद् धारां यन्त्रे मुक्ते तु न स्रवेत् ।
अल्प-कालं वहत्य् अल्पं दुर्-विद्धा तैल-चूर्णनैः ॥ ३४ ॥

२७.३४av सम्यग्-विद्धे स्रवेद् धारा २७.३४bv यन्त्रे मुक्ते च न स्रवेत् २७.३४dv दुर्-विद्धा तैल-चूर्णितैः स-शब्दम् अति-विद्धा तु स्रवेद् दुःखेन धार्यते ।
भी-मूर्छा-यन्त्र-शैथिल्य-कुण्ठ-शस्त्राति-तृप्तयः ॥ ३५ ॥

क्षाम-त्व-वेगि-ता-स्वेदा रक्तस्या-स्रुति-हेतवः ।
अ-सम्यग् अस्रे स्रवति वेल्ल-व्योष-निशा-नतैः ॥ ३६ ॥

सागार-धूम-लवण-तैलैर् दिह्यात् सिरा-मुखम् ।
सम्यक्-प्रवृत्ते कोष्णेन तैलेन लवणेन च ॥ ३७ ॥

२७.३७dv तैलेन लवणेन वा अग्रे स्रवति दुष्टास्रं कुसुम्भाद् इव पीतिका ।
सम्यक् स्रुत्वा स्वयं तिष्ठेच् छुद्धं तद् इति नाहरेत् ॥ ३८ ॥

यन्त्रं विमुच्य मूर्छायां वीजिते व्यजनैः पुनः ।
स्रावयेन् मूर्छति पुनस् त्व् अपरे-द्युस् त्र्य्-अहे ऽपि वा ॥ ३९ ॥

वाताच् छ्यावारुणं रूक्षं वेग-स्राव्य् अच्छ-फेनिलं ।
पित्तात् पीतासितं विस्रम् अ-स्कन्द्य् औष्ण्यात् स-चन्द्रिकम् ॥ ४० ॥

२७.४०dv अ-स्कन्द्य् औष्ण्यात् स-चन्द्रकम् वातिकं शोणितं शीघ्रं भूमिः पिबति चावृतम् ।
मक्षिकाणाम् अ-कान्तं च रक्तं भवति पैत्तिकम् ॥ ४०+१ ॥

श्लैष्मिकं मक्षिकाक्रान्तं शुष्यत्य् अपि न चेणयत् ॥ ४०+२अब् ॥
कफात् स्निग्धम् असृक् पाण्डु तन्तु-मत् पिच्छिलं घनम् ।
संसृष्ट-लिङ्गं संसर्गात् त्रि-दोषं मलिनाविलम् ॥ ४१ ॥

अ-शुद्धौ बलिनो ऽप्य् अस्रं न प्रस्थात् स्रावयेत् परम् ।
अति-स्रुतौ हि मृत्युः स्याद् दारुणा वा चलामयाः ॥ ४२ ॥

२७.४२av अ-शुद्धं बलिनो ऽप्य् अस्रं तत्राभ्यङ्ग-रस-क्षीर-रक्त-पानानि भेषजम् ।
स्रुते रक्ते शनैर् यन्त्रम् अपनीय हिमाम्बुना ॥ ४३ ॥

प्रक्षाल्य तैल-प्लोताक्तं बन्धनीयं सिरा-मुखम् ।
अ-शुद्धं स्रावयेद् भूयः सायम् अह्न्य् अपरे ऽपि वा ॥ ४४ ॥

२७.४४cv अ-शुद्धौ स्रावयेद् भूयः स्नेहोपस्कृत-देहस्य पक्षाद् वा भृश-दूषितम् ।
किञ्-चिद् धि शेषे दुष्टास्रे नैव रोगो ऽतिवर्तते ॥ ४५ ॥

स-शेषम् अप्य् अतो धार्यं न चाति-स्रुतिम् आचरेत् ।
हरेच् छृङ्गादिभिः शेषं प्रसादम् अथ-वा नयेत् ॥ ४६ ॥

शीतोपचार-पित्तास्र-क्रिया-शुद्धि-विशोषणैः ।
दुष्टं रक्तम् अन्-उद्रिक्तम् एवम् एव प्रसादयेत् ॥ ४७ ॥

रक्ते त्व् अ-तिष्ठति क्षिप्रं स्तम्भनीम् आचरेत् क्रियाम् ।
लोध्र-प्रियङ्गु-पत्तङ्ग-माष-यष्ट्य्-आह्व-गैरिकैः ॥ ४८ ॥

मृत्-कपालाञ्जन-क्षौम-मषी-क्षीरि-त्वग्-अङ्कुरैः ।
विचूर्णयेद् व्रण-मुखं पद्मकादि-हिमं पिबेत् ॥ ४९ ॥

ताम् एव वा सिरां विध्येद् व्यधात् तस्माद् अन्-अन्तरम् ।
सिरा-मुखं वा त्वरितं दहेत् तप्त-शलाकया ॥ ५० ॥

२७.५०cv सिरा-मुखं च त्वरितं उन्-मार्ग-गा यन्त्र-निपीडनेन स्व-स्थानम् आयान्ति पुनर् न यावत् ।
दोषाः प्रदुष्टा रुधिरं प्रपन्नास् तावद् धिताहार-विहार-भाक् स्यात् ॥ ५१ ॥

नात्य्-उष्ण-शीतं लघु दीपनीयं रक्ते ऽपनीते हितम् अन्न-पानम् ।
तदा शरीरं ह्य् अन्-अवस्थितासृग् अग्निर् विशेषाद् इति रक्षितव्यः ॥ ५२ ॥

२७.५२cv तदा शरीरं ह्य् अन्-अवस्थितास्रम् २७.५२dv अग्निर् विशेषाद् इति रक्षणीयः २७.५२dv अग्निर् विशेषेण च रक्षितव्यः प्रसन्न-वर्णेन्द्रियम् इन्द्रियार्थान् इच्छन्तम् अ-व्याहत-पक्तृ-वेगम् ।
सुखान्वितं पुष्टि-बलोपपन्नं विशुद्ध-रक्तं पुरुषं वदन्ति ॥ ५३ ॥

रक्त-जा व्यङ्ग-कुष्ठाद्याः कण्ठास्याक्षि-शिरो-गदाः ।
पलितारूंषिकाबाधाः शाम्यन्त्य् एते सिरा-व्यधात् ॥ ५३+१ ॥

निर्-व्याधि-नीलोत्पल-पत्त्र-नेत्रं सु-व्यक्त-मूलासित-बद्ध-केशम् ।
चन्द्रोपमं पद्म-सु-गन्धि वक्त्रं भवेल् ललाटे तु सिरा-व्यधेन ॥ ५३+२ ॥