अथ द्वितीयः प्रश्नः

प्रथमोऽध्यायः

अथातः पुंसवनम् । तृतीयमास्यापूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिस्तीर्य व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्रो धात्रीर्जुहोति । इमं मे वरुण तत्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिम् इति वाचयित्वा स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मणसम्भाषाम् पत्नीम् अपरेणाग्निं मण्डलाकारे प्राचीमुपवेश्य वृषासि इति दक्षिणे पाणौ यवमादधाति आण्डौ स्थ इत्यभितो यवसर्षपौ धान्यमाषौ वा । श्वापृतद् इति दधिद्रप्सं तदैनां प्राशयति । आचान्ताया उद्ररमभिमृशति आभिष्ट्वाहं दशभिरभिमृशामि दशमास्याय सूतवे इति । न्यग्रोधशृङ्गं वा घृतेन कोशकारीं वा प्रैयङ्गवेण संयावेन यूपशकलं वोत्तरपूर्वस्याभिष्टेरग्निं वा निर्मथ्य मूर्मपधानाय इति तस्या दक्षिणे नासिकाच्छिद्रे प्रणयेत् । यदि गर्भः स्रवेदार्द्रेणास्याः पाणिना त्रिरूर्ध्वं नाभेरुन्मार्ष्टि । पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धने । स ऋतूनुपशेष्वा दश मासो अवीरहा इति १
अथातः सीमन्तोन्नयनम् । प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्रो धात्रीर्जुहोति । इमं मे वरुण तत्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मनसम्भाषामपरेणाग्निं मण्डलाकारे प्राङ्मुखमुपवेश्य त्रैण्या शलल्या शलालुद्रप्समुपसंगृह्य पुरस्तात् प्रत्यङ् तिष्ठन् व्याहृतिभी राकामहं यास्ते राक इति द्वाभ्यामूर्ध्वं सीमन्तमुन्नीयाभिमन्त्रयते सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः । विवृत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे । विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः इति २
विजननकाले क्षिप्रं सुवनम् । शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीम् अथास्या उदरमभिमृशति । यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणापसर्पतु इत्यद्भिर्मार्ष्टि । जाते अश्मनि परशुं निधायोपरिष्टाद्धिरण्यं तेषूपरिष्टात् कुमारं धारयति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि जीव त्वं शरदः शतम् । अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे आत्मा वै पुत्रनामासि स जीव शरदः शतम् इति । यद्यपरा न पतेत् तदञ्जलिना उदकमादाय मूर्धानमस्या विसिञ्चेत् तिलदेऽवपद्यस्व न मांसमसि नो दलमवपद्यस्व स्वस्त्या इति । उपनिर्हरन्त्यौपासनाग्निमतिहरन्ति सूतकाग्निम् । स एष उत्तपनीय एव । नास्मिन् किञ्चन कर्म क्रियतेऽन्यत्रोद्धूपनात् । अथैनं कणैः सर्षपमिश्रैर्धूपयति । शण्डो मर्क उपवीरः शाण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहा । आलिखविलिखन्ननिमिषन् किं वदन्त उपश्रुति स्वाहा । अर्यम्णः कुम्भिशत्रुं पात्रपाणिं निपुणिं स्वाहा । आन्त्रमुखं सर्षपाणिरुणो नश्यतादितः स्वाहा । केशिनी स्वलोमिनी खजापोजोपकाशिनी अपेत नश्यतादितः स्वाहा । कौवेरिका विश्ववासा रक्षोराजेन प्रेषिताः । ग्रामं सजानयो यन्तीप्सन्तोऽपरिजाकृतान् स्वाहा । एतान् घ्नतैतान् बध्नीतेत्ययं ब्रह्मणो दूतः । तानग्निः पर्यसरत् तानिन्द्रस्तान् बृहस्पतिः । तानहं वेद ब्राह्मणान् प्रमृशतः कूटदन्तान् विकेशान् लम्बनस्तनान् स्वाहा । नक्तंचारिण उरस्पेशान् शूलहस्तान कपालपान् स्वाहा ।पूर्व एषां पितेत्युच्चैःश्राव्यकर्णकः । माता जघन्या गच्छन्ती ग्रामे मिथुनमिच्छन्ती स्वाहा । नक्तंचारिणी स्वसा सन्धिना प्रेक्षते कुलम् । या स्वपत्सु जागर्ति तस्यै विजातायां मनः स्वाहा । तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्ने अक्षीणि निर्दह स्वाहा इति प्रतिमन्त्रमङ्गारेष्वावपति । ततः पाणिं प्रक्षाळ्य भूमिमालभते यत्ते सुसीमे हृदयं दिवि दन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् । वेदसे भूमि हृदयं दिवि चन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् इति ३
अथातो मेधाजननम् । अथ दर्भेण हिरण्यं प्रवध्य तदन्तर्धाय प्राञ्चं धार्यमाणं घृतं प्राशयति भूरृचस्त्वयि जुहोमि स्वाहा । भुवो यजूँषि जुहोमि स्वाहा । स्वः सामानि त्वयि जुहोमि स्वाहा । भूर्भुवःस्वः अथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा इति । अथैनमुष्णशीताभिरद्भिः स्नापयति क्षेत्रियै त्वा निरृत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षं सह वातेन ते शं ते चतस्रः प्रदिशो भवन्तु । सूर्यमृतं तमसो ग्राह्या यद् देवा अमुञ्चन्नसृजन् व्येनसः । एवमहमिमं क्षेत्रियाज्यामि शंसाद् द्रुहो मुञ्चामि वरुणस्य पाशाद् इति । अथैनं मातुरुपस्थ आदधाति या देवीश्चतस्रः प्रदिशो वातपत्नीरभि सूर्यो विचष्टे । तासां त्वा जरस आदधामि प्रयक्ष्म एतु निरृतिं पराचैः इति । आधायाभिमन्त्रयत्रे मा ते पुत्रं रक्षो हिंसीर्मा धेनुरतिधारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे इति । प्रक्षाळ्य दक्षिणं स्तनमाधापयति अयं कुमारो जरां धयति सर्वमायुरेति । यस्मै त्वँ स्तन प्रप्यायायुः कीर्तिर्वर्चो यशो बलम् इति । एवं सव्यं स्तनं च । नामयति न रुदति यत्र वयं वदामसि । यत्र चाभिमृशाम इति मातापितरौ कुमारमभिमृशतः । आपो गृहेषु जाग्रत । यथा देवेषु जाग्रत । एवमस्यै सुपुत्रायै जाग्रत इति सम्पूर्य मातुः शिरःस्थाने अपिहितमुदकुम्भं निदधाति । प्रतिदिवसं कणैरुद्धूपनं कर्तव्यम् ४
द्वादश्यां मातापुत्रयोः स्नानानन्तरं गृहमलङ्करोति । सृतकाग्निमुद्रास्यौपासनाग्निं निधाय जातस्य कुमारस्य नाम धास्यावः इति मातापितरौ सङ्कल्पं कुरुतः । अनन्तरमौपासनाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्र आहुतीः सीमन्तवद् हुत्वा अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे पयः स्वाहा । अनुमत्या इदम् । अन्विदनुमते त्वं मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्रण आयूँषि तारिषः स्वाहा । अनुमत्या इदम् । अनुमन्यतामनुमन्यमाना प्रजावन्तँ रयिमक्षीयमाणम् । तस्यै वयँ हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । यस्यामिदं प्रदिशि यद् विरोचतेऽनुमतिं प्रतिभूषन्त्यायवः । यस्या उपस्थ उर्वन्तरिक्षँ सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्क्थ्यं स्वाहा । राकाया इदम् । यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषँ सुभगा रराणा स्वाहा । राकाया इदम् । सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवी दिदिड्ढि नः स्वाहा । सिनीवाल्या इदम् । या सुपाणिः स्वङ्गुरिः सुषूमा बहुमूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन स्वाहा । सिनीवाल्या इदम् । कुहूमहँ सुभगां विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितॄणां तस्यास्ते देवि हविषा विधेम स्वाहा । कुह्वा इदम् । इति द्वादश त्रयोदश वाहुतीर्हुत्वा इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजायते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्तात् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमित्रि वाचयित्वा पुत्रस्य नाम दद्यात् । द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तम् । यत्र वा स्वित्युपसर्गः स्यात् तद्धि प्रतिष्ठितम् इति विज्ञायते । पिता मातेत्यग्नेऽभिव्याहरेयाताम् । विज्ञायते च मम नाम प्रथमं जातवेद इति । द्वे नामनी कुर्यात् । विज्ञायते च तस्माद् द्विनामा ब्राह्मणोऽर्धुक इति । नक्षत्रनाम द्वितीयं स्यात् । अन्यतरद् गुह्यं स्यात् । अन्यतरेणैनमामन्त्रयेरन् । सोमयाजी तृतीयं नाम कुर्वीत इति विज्ञायते । प्रवासादेत्य आगतं वा पुत्रमभिमृशति सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा इति । पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ । आयुषे वर्चसे हुतम् इति मूÞर्यभिघ्रायाथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । आयुष्टे विश्वतो दधद् इति दक्षिणे कर्णे जपति यथा पुरस्तात् । ५
अथातःपुंसवनम् अथातःसीमन्तोन्नयनं विजनन
काले अथातो मेधाजननं द्वादश्यां पञ्च ।
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः

संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु मासि मासि वा जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुव इति द्वाभ्याम् । अथ नक्षत्रदेवताभ्याम् ऋग्भ्यां जुहोति यथालिङ्गम् अनु नोऽद्यानुमतिः अन्विदनुमते इति द्वाभ्याम् । अवत्ते स्विष्टकृत्यथाज्याहुतीरुपजुहोति । नक्षत्रदेवताभ्यो हुत्वा चन्द्रमसे स्वाहा । प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यः स्वाहा । अर्धमासेभ्यः स्वाहा । मासेभ्यः स्वाहा इति मासि मासि वा ऋतुभ्यः स्वाहा इत्यृतावृतौ संवत्सराय स्वाहा इति संवत्सरे । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । आयुरसि इति प्रागन्नप्राशनादाज्यशेषं प्राशयति । आचामति जठरमभिमृशति यत इन्द्र भयामहे ततो नो अभयं कृधि स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । एतदायुष्यमायुष्यम् १
अत ऊर्ध्वं संवत्सरे संवत्सरे जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुव इति द्वाभ्याम् । अथ नक्षत्रदेवताभ्यामृग्भ्यां जुहोति यथालिङ्गं नवो नवो भवति जायमान इत्येतेनानुवाकेन । प्रत्यृचं द्वाभ्यां द्वाभ्यामाग्नेयमपोद्धृत्यानुमतीं जुहोति । अवत्ते स्विष्टकृत्स्यथाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो हुत्वा चन्द्रमा वा अकामयत इत्येतेनानुवाकेन स्वाहाकारैः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । आयुरसि इति हुतशेषमन्नं प्राशयति । आचामति जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । एतदायुष्यमायुष्यम् २
अत ऊर्ध्वं चतुर्थे मास्युपनिष्क्रामणं षष्ठेऽष्टमे वा हस्ते तिष्यपुनर्वस्वनूराधाश्विरेवत्यामेकतमस्मिन् नक्षत्रे कृतस्वस्त्ययनमपदातिं शिशुं मात्रा छत्रिणं चतुष्पथे नयेत् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति ३
अथ षष्ठे मास्यन्नप्राशनम् । आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथैनं दधि मधु घृतमिति त्रिवृत् प्राशयति भूस्त्वयि ददामि भुवस्त्वयि ददामि स्वस्त्वयि ददामि भूर्भुवःस्वस्त्वयि ददामि इति । अथैनमन्नं प्राशयति अपां त्वौषधीनां रसं प्राशयामि । शिवास्त आप ओषधयो भवन्तु । अनमीवास्त आप ओषधयो भवन्तु इति ४
तृतीये वर्षे चौळकर्म । आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अपरेणाग्निं प्राङ्मुखः कुमार उपविशति । उत्तरतो माता ब्रह्मचारी वा आनडुहं शकृत्पिण्डं धारयति येनास्य केशान् प्रतिगृह्णाति । अथोष्णाः शीताभिरपः संसृजति । शीतासूष्णा आनीय आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे इति दक्षिणं गोदानमनक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्नमोषधीरन्तर्दधाति । स्वधिते मैनँ हिंसीः इति क्षुरेणाभिनिदधाति । देवश्रूरेतानि प्रवपे इति प्रवपति । एवमितरान् प्रदक्षिणम् । येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योजेमं रय्या वर्चसा सँसृजाथ इति पश्चात् येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चापुषेऽवपत् तेनदेऽहं वपाम्यसौ इत्युत्तरतः यथा ज्योक् सुमना असाः । ज्योक् च सूर्यं दृशे इति पुरस्ताद् उप्त्वा यथोदितं चौळं कारयति । यथऋषि वा । सन्न्यस्य केशान् यत्र पूषा बहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथिवी अपः सुवः इति गोष्ठौदुम्बरे दर्भस्तम्बे वा निखनति योऽस्य रातिर्भवति । यथाश्रद्धं ब्राह्मणाय ददाति । सर्पिष्मन्तमोदनं नापिताय प्रयच्छति । इत्येवं विहितं षोडशे वर्षे गोदानकर्म सशिखं वापयते । शिखामात्रमतिशिनष्टि इत्येकेषाम् । अग्निगोदानो वा भवति । गुरवे गां ददाति ५
संवत्सरेसंवत्सरे अतऊर्ध्वं
चतुर्थेमास्युपनिष्क्रामणम् अथषष्ठे मास्यन्नप्रशनं तृतीयेवर्षे पञ्च ।
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः

अथ शुचौ समे देशेऽग्न्यायतने शकलेन त्रिः समुद्धत्य शकलं निरस्याप उपस्पृश्याग्निमद्भिरवोक्ष्योद्धन्ति । यदेवास्यामेध्यं तदपहन्त्यपोऽवोक्षति शान्त्या इति ब्राह्मणम् । पञ्चप्रस्थं शुचि शुक्लं सिकतमनार्द्रं विविच्य स्थण्डिलं कृत्वा समचतुरश्रमरत्निमात्रम् उदक्प्राक्प्रवणं प्रादेशमात्रं व्रीहिभिर्दक्षिणतः प्राचीं लेखां लिखति एवं मध्यममेवमुत्तरतः । व्रीहिभिः पश्चादुदीचीं लेखां लिखति एवं मध्यममेवं पुरस्तात् । व्रीहीनपोह्याप उपस्पृश्याद्भिरवोक्ष्य ॐ भूर्भुवःस्वरॐ प्रतिष्ठ इत्यग्निमुपसमाधाय बर्हिररत्निमात्रं षट्त्रिंशदङ्गुलं तिस्रः शम्याः परिधयो मध्यमाङ्गुल्यानामिकया कनिष्ठिकयेति स्थविष्ठो मध्यमोऽणीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरतः समिद्द्वादशाङ्गुष्ठमष्टादश याज्ञिकं काष्ठं प्रोक्षणीमाज्यस्थालीं प्राजापत्यभाजनं प्रस्थचतुर्भागं पूर्णप्रस्थद्विभागं प्रणीताप्रणयनं प्रस्थचरुस्थालीं वदानप्रमाणमङ्गुष्ठपर्वोक्तम् आहुतिप्रमाणं चतुरङ्गुलं दर्वीप्रभाणमेकविंशतिमङ्गुष्ठं तस्याश्चतुर्दशाङ्गुष्ठं पूर्वभागं तस्य द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवं स्रुक् प्रादेशमात्रं पवित्रमेवमुपवेषणमिति होमप्रमाणनिर्देशो व्याख्यातः १
अथातो नान्दीमुखेभ्यः पितृभ्यः पूर्वेद्युः कर्म व्याख्यास्यामः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्वः करिष्यामीति श्वो भूते वान्नं संस्कृत्य शुचीन् श्रोत्रियान् ब्राह्मणानामन्त्रयते । शुचि शुक्लमनार्द्रमाच्छाद्य यज्ञोपवीत्यप आचम्य चतुर्वारं शुक्लान् वलीन् हरति दधितण्डुलसुरभिशुक्लाः सुमनस इति अग्न्यायतने प्रागग्रान् दर्भान् संस्तीर्य तेष्वष्टौ बलीन् ददाति अग्नये सोमाय प्रजापतये विश्वेभ्यो देवेभ्यः ऋषिभ्यो भूतेभ्यः पितृभ्यः सर्वाभ्यो देवताभ्यो नमः इति । हविष्यमन्नं ब्राह्मणेभ्यः प्रदापयति । दध्ना माषमत्स्यमांसभक्ष्याशनमित्यपरम् । अथ चतुष्टयमादाय व्रीहियवपुष्यसर्षपाणीति सह तैरेवोदकुम्भमादाय ॐ मनः समाधीयतां प्रसीदन् भवन्तः इत्युक्त्वा सप्रणवनान्दीमुखाः पितरः प्रीयन्ताम् इत्येवं यथार्थयितरे प्रतिब्रूयुः । अस्य कर्मणः पुण्याहं वक्ष्यामः । स्थण्डिलाद्युपनान्दिं कृत्वापआदिशिखान्तिकं करोति । पुनःकल्पनाद्यानमस्कारं कृत्वान्वाहार्यादिप्रणवादिकं करोति । अन्यत्र जातकर्मनामकरणयोः पूर्वेद्युः
सन्तिष्ठते नान्दीश्राद्धः सन्तिष्ठते नान्दीश्राद्धः २
तत्र तत्र विनिर्दिष्टं पुण्याहादिविवाचनम्
कर्माङ्गं च विशुद्ध्यर्थं विस्तरेण मयोच्यते
पुण्याहं वाचयिष्यन् हि शुक्लाम्बरधरः शुचिः
पवित्रपाणिराचान्तः ततः कर्म समारभेत्
श्रोत्रियान् क्षाळितपदानाचान्तांश्च द्विजोत्तमान्
दर्भोपकॢप्तासनेषु शुचीन् युग्मान् प्रवेशयेत्
उपविश्य नवं कुम्भमद्भिः प्रक्षाळय पूरयेत्
शुभाननमकल्माषमाढकापूरितं ततः
अर्चयेद् गन्धपुष्पाद्यैरक्षतैश्च फलान्वितैः
सादयित्वाथ दर्भेषु सकूर्चं पिहिताननम्
अर्चयेत्तु ततः सम्यगुपविष्टान् द्विजोत्तमान्
आपो गन्धाः सुमनस इति दद्याज्जलादिकम्
शिवा आपः सन्त्विति च सुमन्धाः पान्त्वितीति च
सौमनस्यमिति ब्रूयुरस्त्वन्तमितरे द्विजाः
शिवं कर्मेति चेत्युक्त्वा ब्राह्मणानां ददौ जलम्
आपः स्वस्ति शिवं कर्मेत्यस्त्वन्तमितरे द्विजाः
भोज्यं दद्यात् ततस्तेभ्यो अन्वाहार्य इति द्विजः
ओदनं तण्डुलं वापि स्वन्वाहार्योऽस्त्वितीतरे
गृह्णीयुर्दक्षिणां दद्याद् दक्षिणा इति च द्विजाः
स्वस्त्यादि दक्षिणाः पान्तु बहु देयमितीतरे
अस्त्वन्तं प्रतिगृह्णीयुर्दद्यादक्षतमक्षतम्
इत्यक्षतं चारिष्टं चेत्यस्त्वन्तं ब्रूयुरर्चिताः
वाचयेत्तु करस्थाना नामे भुक्तवतः श्रिते
उत्तिष्ठेयुस्ततः पश्चान्मनः समाधीयतामिति
समाहितमनसः स्मः प्रसीदन्तु भवन्त्विति
प्रसन्नाः स्म इति ब्रूयुः शान्तिपुष्टीति चोच्यते
तुष्टिऋद्धी अविघ्नमस्त्विति आयुष्यमिति चोच्यते आरोग्यं शिवं कर्मास्तु
इत्यूचुर्ब्राह्मणा निशम् । सप्रणवम् अस्तु इति ब्रूयुः । प्रजापतिः प्रीयताम् । प्रीयतां भगवान् प्रजापतिः । एवं तत्तत्कर्मणि विहिता वाच्याः । पुण्याहं भवन्तो ब्रुवन्तु । ॐ पुण्याहम् इति ॐ पुरमस्वामिनाम्निः स्वस्तिं भवन्तो ब्रुवन्तु । ॐ स्वस्ति । ॐ ऋद्धिं भवन्तो ब्रुवन्तु । ॐ ऋद्ध्यताम् । ॐ त्रिः । पुण्याहसमृद्धिरस्तु शिवं कर्मास्तु । एवं प्रतिवचनम् । नान्दीमुखाः पितरः प्रीयन्ताम् । भगवन्तो नान्दीमुखाः पितरः इति प्रतिवचनम् । आपोहिष्ठादिभिर्मन्त्रैः प्रणीताप्रोक्षणवद् आत्मानं प्रोक्षयेत् । पुण्याहं समाप्तम् ४
अथ कौतुकं व्याख्यास्यामः परमस्वामिशर्मणः कुमारस्य कौतुकबन्धं करिष्य इति सङ्कल्प्य तण्डुलमुदकुम्भं वराहविषाणं च कण्टकिनं च शङ्खमादर्शमञ्जनं कौतुकतन्तुं चादाय एकत्र निधाय निशायां गृहं सभाच्छादनविधा नाद्यैरलङ्कृत्य गोमयेनोपलिप्य व्रीहिभिः स्थणि!डिलं कृत्वा स्थण्डिलोत्तरे कुम्भं निधाय कुम्भस्य दक्षिणतः सम्भारान् निधाय सुप्रक्षाळितपाणिपादान् चतुरो ब्राह्मणान प्रतिदिशमुपवेश्य दर्भेष्वासीनः कर्मोपक्रमं करोति । संस्कार्यं कुमारमात्मनो दक्षिणत उपवेश्य आपो हि ष्ठा मयोभुव इति तिसृभिः स्वहृदयं प्रोक्ष्य ब्राह्मणैः सहैताननुवाकान् जपति कृणुष्व पाजः प्रसितिं न पृथ्वीम् इन्द्रं वो विश्वतस्परि हवामहे आशुःशिशान इति । ममाग्ने वर्चो विहवेष्वस्तु अग्नेर्मन्वे प्रथमस्य प्रचेतसः इन्द्रो दधीचो अस्थभिः चक्षुषो हेते मनसो हेते भ्रातृव्यं पातयामसि इत्यन्तम् । एताननुवाकान् जपित्वा मातुलः कुमारस्य समीप उपविश्य त्रीणि शलल्यादिशङ्खपर्यन्तान्यादाय कुमारस्य दक्षिणं बाहुमन्ववहृत्य त्रिः प्रदक्षिणमावर्तयते । अथाञ्जनमादाय दक्षिणेनाङ्क्ते । आदर्शमादाय मुखं दर्शयति । तन्तुमादाय रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रयिष्ठमुपयामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् विश्वेत्ताते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते । पारावतं यत्पुरुसंभृतं वस्वपावृणोः शरभाय ऋषिबन्धवे इति तन्तुं प्रबध्य बृहत्साम क्षत्रभृद् वृद्धवृष्णियं त्रिष्टुभौजः शुभितमुग्रवीरम् । इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष इति रक्षां करोति । अथ तण्डुलमादाय वसवस्त्वा रुद्रैः पुरस्तात् पान्तु सर्पिर्ग्रीवी पीवर्यस्य जाया आशिषमेवैतामाशास्ते पूर्णपात्रे नवो नवो भवति जायमानः त्रियम्बकं यजामहे विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इत्येवमादिऋग्यजुर्भिः रक्षां करोति । एवं स्त्र्यापः सव्यं बाहुमनु पर्यावृत्य प्रदक्षिणमावर्तयते । यत्र नान्दीश्राद्धं तत्र कौतुकमित्याह भगवानाग्निवेश्यः ५
अथशुचौसमेदेशे अथातोनान्दीमुखेभ्यः तत्रतत्र अथवैभवतिश्रद्धया
अथकौतुकं पञ्च ।
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः

शालां करिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोरेतेषु स्नायात् । यत्रापस्तद् गत्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाहतं वासः परिधायाप उपस्पृश्य देवस्य त्वा इत्यग्निमादाय परिलिखितम् इति त्रिः प्रदक्षिणं परिलिख्य यथार्थम् अवटान् खात्वाभ्यन्तरे पांसून् करोति । हैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणाम् । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा अनुसञ्चरेम इति दक्षिणां द्वारस्थूणामुच्छ्रयति । हैव ध्रुवा प्रतितिष्ठ शालेऽश्ववती गोमती सूनृतावती । ऊर्जस्वती पयसा पिन्वमानोच्छ्रयस्व महते सौभगाय इत्युत्तराम् । आ त्वा कुमारस्तरुण आवत्सो जगतः सह । आ त्वा हिरण्मयः कुम्भ आदध्नः कलशीरयन् इति सम्मितेऽभिमृशति । एवमेव स्थूणावुच्छ्रयति । एवमभिमृशति । ऋतेन स्थूणावधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथास्मभ्यं सहवीरां रयिं दा इति पृष्ठवंशणरोपयति । मा नः सपत्नी शरणा स्योना देवीर्देवेभिर्विमितास्यग्रे । तृणं वसाना सुमना स्त्वं शन्न एधि द्विपदे शं चतुष्पदे इति छन्नामभिमृशति । ततो रुराळे वास्तुशमं निशायामन्तरागारेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति वास्तोष्पते वास्तोष्पते इति द्वे १
वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व स्वाहा । अपैतु मृत्युरमृतं न आगन् वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभिः नः श्रीयताँ रयिः सचतां नः शचीपतिः स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्म्ते शृष्वते ते ब्रवीमि मा नः प्रजाँ रीरिषो मोत वीरान् स्वाहा । इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति इत्याह भगवानाग्निवेश्यः २
अथ तटाककल्पं व्याख्यास्यामः नाभ्यर्च्य यूपमुपतिष्ठते । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् इति । अथ प्रदक्षिणमावृत्य प्रत्यगधिश्रित्य जघनेन यूपं स्थण्डिलं कृत्वाग्निमुपसमाधाय संपरिस्तीर्याग्निमुखात् कृत्वा जुहोति इमं मे वरुण तत्त्वा यामि इति द्वाभ्याम् । ओषधिवनस्पतिभ्यां पक्वाज्जुहोति या जाता ओषधय इति द्वाभ्याम् । अथ प्रासादात् पक्वाज्जुहोति वास्तोष्पते वास्तोष्पत इति द्वाभ्याम् । अथाज्याहुतीरुपजुहोति । ब्रह्मणे स्वाहा । रुद्राय स्वाहा । यमाय स्वाहा । वरुणाय स्वाहा । निरृत्यै स्वाहा । श्रियै स्वाहा । यशस्कराय स्वाहा । अह्ने स्वाहा । रात्र्यै स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । नक्षत्रेभ्यः स्वाहा इति द्वादशाहुतीर्जुहोति । कूप्याभ्यः स्वाहा अद्भ्यः स्वाहा इत्येतमभ्यनुवाकम् । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । पायसतिलचूर्णं पयोमिश्रं सलक्षणं सम्पूर्णं बलिं कृत्वा बलीन् संप्रकीर्य यमसूक्तं पुरुषसूक्तं वाचयित्वोर्मिमन्तम् उदधिं कृत्वा स्नात्वाचम्याहतं वासः परिधाय दक्षिणां ददाति । हिरण्यं धान्यं ब्राह्मणेभ्यो ददाति । नृत्तगीतवाद्यादीनि घोषयित्वा सर्वलोकमलङ्कृत्य विष्णुलोकं गच्छतीत्याह भगवानाग्निवेश्यः ३
अथ कूश्माण्डैर्जुहुयाद् याऽपूत इव मन्येत यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चति । अत्र स्वप्नान्तरे रेतः पतेदपिवा स्त्रीकामो वा । अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा स्नातः शुद्धवासा ब्रह्मचारिकल्पेन व्रतमुपैति वत्सरं मासं चतुर्विं शतिमहोरात्रं द्वादशरात्रं षड्रात्रं त्रिरात्रं वा । न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेतानृतात् । पयोभक्ष इति प्रथमः कल्पः । यावकं वोपयुञ्जानः कृच्छ्रं द्वादशराशं चरेत् । भिक्षेद्वा । यवागूं राजन्यो वैश्य आमिक्षाम् । पूर्वाह्णे पाकयज्ञिधर्मेणाग्निं प्रणीयोपसमाधाय यद्देवा देवद्देळनं यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इत्येतैस्त्रिभिरनुवाकैः प्रत्यृचमाज्येन हुत्वा सिंहे व्याघ्र उत या पृदाकौ इति चतस्र आहुतीः अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति चतस्र आहुतीर्हुत्वा समित्पाणिः यजमान आयतनेऽवस्थाय वैश्वानराय प्रतिवेदयाम इति द्वादशर्चेन सूक्तेनोपस्थाय यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मात् तस्मान्मेळितो मोग्धि त्वँ हि वेत्थ यथातथं स्वाहा इति समिधमाधाय वरं ददाति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । एकस्मिन्नेवाग्नौ परिचर्य अथाग्न्याधेये यद्देवा देवहेळनम् यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इति पूर्णाहुतिं हुत्वाग्निहोत्रमारप्स्यमानो दशहोतारं हुत्वा दर्शपूर्णमासावारप्स्यमानश्चतुर्होतारं हुत्वा चातुर्मास्यमारप्स्यमानः पञ्चहोतारं हुत्वा पशुबन्धं षड्ढोतारं सोमे सप्तहोतारम् । कर्मादिष्वेतैर्जुहुयादिति विज्ञायत इति हि ब्राह्मणम् इति ब्राह्मणम् ४
अथातः पूतकामोऽग्नीनाधास्यमानो वान्यत्तु महत् कर्म समारभेद्वा । पूर्वपक्षे पुण्ये नक्षत्रे पूर्वकालमुपोष्योपव्युषसि ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य कृतशौचः कृताचमनो यथोदितं स्नानं कृत्वा नदीषु वा शुद्धजलाशये वा गृहं प्रत्येत्य शुचिः शुक्लमनार्द्रमाच्छाद्याग्निमुपसमाधाय दर्शवत् कृत्वा निर्वपणकाले देवस्य त्वा इत्यनुद्रुत्य गणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । आज्येन श्रपयति । आ अग्निमुखात् कृत्वा घृतान्नेन जुहुयात् । क्ष्मापवित्रः सहस्राक्षो मृगारांहोमुचौ गणौ । पावमान्यं च कूश्माण्ड्यो वैश्वानर्य ऋचश्चायः प्रत्यृचं जुहुयात् । इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इत्याहुतीर्जुहुयात् । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अत्र गुरवे मां दत्त्वा पत्नीभिः सह कृतमङ्गळश्चतुष्पथं गत्वा गोमयेन गोचर्यमात्रं चतुरश्रं स्थण्डिलमुपलिप्य पात्रं निधाय परिस्तीर्याद्भिः पूरयस्यवेक्षमाणः पाप्मानो विधत्वायति सिंहे मे मन्युः इत्यान्तादनुवाकम् । अथ पात्रमादाय प्राङ्मुखस्तिष्ठन् अपेहि पाप्मन् पुनरपनाशिनो भवा नः पाप्मन् सुकृतस्य लोके पाप्मन् धेह्यविहृतो यो नः पाप्मन्न जहाति तमु त्वा जहि नो वयम् । अन्यत्रास्मिन्निविशतात् सहस्राक्षो अमर्त्यः । यो नो द्वेष्टि स ऋष्यन्ति यमु द्विष्मस्तमु जहि इति पृष्ठतो निधायाप उपस्पृश्य प्रदक्षिणमावर्तयेत् । एवमेव सप्ताहं सवनत्रयम्
कुर्यान्मौनी हविष्याशी निगृहीतेन्द्रियक्रियः
मुच्यते सर्वपापेभ्यो महतः पातकादपि
वृद्धत्वे यौवने बाल्ये वा कृतः पापसञ्चयः
पूर्वजन्मसु वा जातस्तस्मादपि विमुच्यते
भोजानान्ते द्विजातीनां पायसान्नेन सर्पिषा
गोभूतिलहिरण्यानि भुक्तवद्भ्यः प्रदापयेत्
एवं कृत्वा सर्वान् लोकान् जयतीत्याह भगवानाग्निवेश्यः ५
अथ शताभिषेकं व्याख्यास्यामः । सहस्रमासं पर्यवसितमिति चेच्छतसंवत्सर उदगयनापूर्यमाणे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनम् ऋद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं प्रतिदिशं व्रीहितण्डुलैः सर्वासु दिक्षु चतुरश्रं स्थण्डिलं कृत्वा फलैः पुष्पैस्तण्डुलैरक्षतैर्यवैस्तिलैः संप्रकीर्य प्रादेशमात्रे समे प्राचीनाग्रे कूर्चे कृत्वा प्रागग्रैः कूर्चैः स्थण्डिलं निधायाथ स्वर्णं रजतं ताम्रं मृण्मयं वा पञ्चविंशतिं कलशान् सूत्रेण परिवेष्टयित्वा स्थण्डिलेषु निधाय संपरिस्तीर्य जलपवित्रं निधाय सर्वगन्धैः फलैः पुष्पैस्तिलैः संयुक्ते जलपवित्र उदकमानयति । कूर्चं निधायाक्षतगन्धपुष्पधूपदीपाद्यैः कलशानलङ्कृत्य सर्वासां दिशां कलशेष्वावाहयति । अथास्य मध्ये ब्रह्माणमावाहयामि । प्रजापतिमावाहयामि । परमेष्ठिनमावाहयामि । हिरण्यगर्भमावाहयामि । स्वयंभुवमावाहयामि । इति आवाह्य पुरस्तादनुक्रमेण इन्द्रादीन् कलशेष्वावाहयामीत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा अर्ध्यपाद्यादिभिराराध्य यथाविध्ययैनं स्नापयति । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वैतैरेव नामधेयैः अमुष्मै नमोऽमुष्मै नम इति तर्पयति । गन्धपुष्पाक्षतधूपान् दद्याद् अहतेन वाससा प्रच्छाद्य । द्वदशकलशं वरुणसूक्तं शेषतादन्तः शापधेत्रिकोदकेन यदिवा परेपरेतीतः इति चतसृभिरनुच्छन्दसम् अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । अथैतैः अभिषेचनं करोति । अथ प्रक्षाळितपाणिपाद आचम्य अहतेन वाससा परिधत्ते । एवमेवोर्ध्वं सर्वगन्धैः चन्दनागरुसंयुतं सर्वाननुलेप्य अथादित्या मुदीक्षयति आ सत्येन इति । अथैनम् उपतिष्ठते उदूयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्देवहितं य उदगात् इति । एरकामास्तीर्य तस्यां प्राङ्मुख उपविश्याथाज्याहुतीरुपजुहोति ब्रह्म जज्ञानम् इति षड्भिः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दर्भस्तम्बे हुतशेषं निधाय आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः आयुर्दा अग्ने इति द्वाभ्याम् अथाज्यशेषे हिरण्यं निधाय इन्द्राय त्वा तेजस्वते तेजस्वन्तम् इति चतसृभिः अनुच्छन्दसैश्चार्धर्चैः आज्यशेषे प्रतिच्छायां दर्शयति । ममाग्न आयुषे वर्चसे कृधि इत्यनेन ब्राह्मणाय ददाति । आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । यतो वासो मनोजवाः इत्यन्तैश्चतसृभिरनुच्छन्दसैरनुब्राह्मणैराशीर्वाचनमाह । त्रिवृतान्नेन ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा ब्राह्मणेन प्रीयताम् इति । अथाशामायुष ग्रामं प्रदक्षिणं करोति । अथाच्छादनविशेषैरुपसर्जनैश्चामरैस्तालवृन्तैर्वहति। अथ शङ्खैर्गेयादिनिर्घोषयुक्तैश्च रयवाहनमारोप्य स्वस्तिसूक्तं जपेत् स्वस्ति नोऽमिमीत इत्यादि स्वस्ति सम्बाधेष्वभयं नो अस्तु इति समानम् । अथ द्वारबलिं करोति । अथ गेहान्तरं गत्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वाथ बालानामाहुः । सहस्रमायुः सहस्रमासस्तरुणेन्दुं दर्शयित्वाथ पुत्रपौत्रैः ब्राह्मणः सायुज्यं सलोकतां प्राप्नोति इत्याह भगवानाग्निवेश्यः ६
अथ ब्राह्मणस्य महापातकादिपतितकर्माणि भवन्ति चेदत्र सपिण्डः किं कुर्यादिति ।
निन्दितेऽह्नि सायाह्ने सपिण्डाः सह तिष्ठन्ति
चतुष्पथे तथा कार्यं गोमयेनोपलेपनम्
निन्दितं चैव शीतोष्णमुदकुम्भं प्रतिष्ठिपेत्
अस्यदासी ततः पश्चादद्भिः कुम्भं प्रपूरयेत्
उत्तिष्ठन्तः सपिण्डास्तमिदं वचनमब्रुवन्
सम्भाषणं च संयानं सभाशयनमेव च
अशनं च तथा तेन न च कुर्यादितः परम्
इति वाचं विसृज्यैव कुर्यात् कुम्भं प्रदक्षिणम्
ताडयेद् वामपादस्य पार्ष्ण्या तत् तस्य सन्निधौ
अनवेक्षमाणास्ते सर्वे गत्वा पश्चाद् यथोदितम्
प्रायश्चित्तं यथाशास्त्रं विविधं चाथ चेत् कृतम्
एवं पूतस्ततः पश्चात् स्नात्वा शुद्धे जलाशये
पुण्याहं वाचयित्वा तु प्रविशेच्च चतुष्पथम्
गोमयेनोपलिप्याथ नवकुम्भं प्रतिष्ठिपेत्
दासेराद्भिः प्रपूर्याथ सपिण्डान् पर्युपासयेत्
स्वस्तिवाक्यं ततः कृत्वा कुम्भं कुर्यात् प्रदक्षिणम्
उदं पीत्वाथ कुम्भस्थं स्वगेहं तु प्रवेक्षयेत्
ब्राह्मणान् भोजयित्वाथ सपिण्डैः सह भोजयेत्
एवं हि शुद्धात्मानं पितृपितामहप्रपितामहा अस्य कुलवृद्धाश्चाशिषो वाचयित्वा अत ऊर्ध्वं सर्वान् कामान् स हि कुर्यादिति कुर्यादिति ७
अथ शुभाशुभनिमित्तानां वायसानां बलिविधिं व्याख्यास्यामः । ग्रामात् प्राचीमुदीचीं दिशमुपनिष्क्रम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरवोक्ष्य प्रदक्षिणं वायसानामासनं कल्पयति । अङ्कतेभ्यः कल्पयामि । कङ्कतेभ्यः कल्पयामि । कद्रुपुत्रेभ्यः कल्पयामि । वासेभ्यः कल्पयामि । ब्रह्मपुत्रेभ्यः कल्प्लयामि । अथैतानावाहयति । न कपिलान् न कोकिलान् नारिष्टान् न महारिष्टान् वायसमात्रकान् । आयान्तु शकुनाः शीघ्रं वायसा बलिभोजिनः । अङ्कतानामाहयामि । कङ्कतानावाहयामि । कद्रुपुत्रानावाहयामि । वायसानावाहयामि । ब्रह्मपुत्रानावाहयामि इत्यावाह्य आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्यधूपदीपैरभ्यर्च्य अमुष्मै स्वाहामुष्मै स्वाहा इति पायसोदनेन पिण्डं प्रदक्षिणं दद्यात् । अमुष्मै
नमोऽमुष्मै नम इत्युपस्थाय
सत्याः स्थ सत्यं वदत सत्ये रमत वायसाः
तत्सत्यमिह नो ब्रूयान्न मिथ्याबलिमश्नीयात्
इत्याह
अथैनं मातृघातेन पितृघातेन वा पुनः
तद् दुष्कृतं प्रतिगृह्णीयाद् यो मिथ्याबलिमश्नीयात्
कपिलानां शतं हुत्वा ब्राह्मणानां विशेषतः
दुष्कृतं प्रतिगृह्णीयाद् यो मिथ्याबलिमश्नीयात्
इति ब्रूयात्
भावाय पूर्वं गृह्णीयादभावाय तु दक्षीणम्
नास्तीत्यपरं चैव भविष्यत्यपि वोत्तरम्
मध्ये सर्वार्थलाभाय इत्याह । एवं ज्ञात्वा सर्वकर्माण्यारभेत् सर्वकर्माण्यारभेदिति ८
अथ यज्ञोपवीतविधिं व्याख्यास्यामः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे ब्राह्मणकन्या ब्राह्मणविधवा वा सुप्रक्षाळितपाणिपादा शुचिः शुक्लमनार्द्रमाच्छाद्य यत्र कार्पासस्तिष्ठति तत्र गत्वा पकफलं परिगृह्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य तन्मध्ये यन्त्रं प्रतिष्ठाप्य प्राङ्मुखी उदङ्मुखी वा उपविश्य उपर्युपरि तन्तुं तत्य न कदाचन नीचं करोति । ब्राह्मणाय ददाति । अथ ब्राह्मणो हिरण्येन परिक्रीय वा धान्येन वा धनेन वा सुप्रक्षाळितपाणिपाद अप आचम्य पवित्रपाणिः प्राङ्मुख उदङ्मुखो वोपविश्य दक्षिणहस्ताङ्गुलीभिः श्लिष्टाभिः षडधिकेन नवत्या परिगण्य त्रिगुणीकृतमथाद्भिर्मार्जयति आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन । ब्राह्मणानाहूय प्रागेकः स्थित्वा प्रत्यग् द्वौ स्थित्वा दक्षिणहस्तं परिव्राजेन भूर्भुवःस्वः इति सूत्रं कृत्वा त्रिगुणीकृत्य याज्ञिके वृक्षे विसृजति । तृणेन ताडयति । हस्तेन हस्तं सूत्रमादाय जानुभ्यां परिवेष्टयति भूरग्निं च पृथिवीं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ द्वितीयं भुवो वायुं चान्तरिक्षं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ तृतीयं स्वरादित्यं च दिवं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ ग्रन्थिं कृत्वा भूर्भुवःस्वश्चन्द्रमसं च दिशश्च मां च । त्रींश्च लोकान् संवत्सरं च प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति । अथ यज्ञोपवीती भवति यज्ञस्योपवीतेन उपव्ययामि दीर्घायुष्ट्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसाय इति । आचान्तः सर्वकर्मार्हो भवति सर्वकर्मार्हो भवति ९
अथ देवताराधनं व्याख्यास्यामः । शुचि शुक्लमनार्द्रमाच्छाद्य पवित्रपाणिराचान्तः सन्ध्यामुपास्याथ कृताग्निकार्यो देवमावाहयेत्
मण्डले स्थण्डिले वाप्सु हृदि दीप्ते च पावके
तथैव प्रतिमायां वा हरिमावाह्य पूजयेत्
हृदयाभ्यन्तरे पद्मं मनसा चिन्तयेद् बुधः
पद्मस्य कर्णिकामध्ये तस्य ज्योतिर्व्यवस्थितम्
ज्योतिर्मध्ये महाविष्णुः शङ्खचक्रगदाधरः
एवं द्वादशनामभिरावाह्य केशवायेति
चन्दनादि प्रदीपान्तैः पूजयेच्च ततः परम्
मण्डळे च तथा सर्वं स्थण्डिले च तथैव च
तथैव पावके दीप्ते हरिमावाह्य पूजयेत्
अथ चेत् प्रतिमां कुर्वन् स्वर्णमयेन वा लोहमयेन वा अशक्तौ शिलामयेन वा
शङ्खचक्रगदाधरं चतुर्भुजं कृत्वा अगारे वा विमाने वा प्रतिष्ठाप्य आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनाभिषेकं करोति । अथ देवमावाहयामि इति केशवादिनामभिरावाह्य अथ वस्त्रं प्रदाय युवं वस्त्राणि इति अथ गन्धं प्रदाय गन्धद्वाराम् इति अथ पुष्पं प्रदाय योऽपां पुष्पं वेद इति अथ धूपं प्रदाय धूरसि इति अथ दीपं प्रदाय उद्दीप्यस्व इति तच्छेषेणानुलेपनं करोति । अर्हणीयमुदकम् इत्यथार्घ्यं पाद्यमुदकम् इति पाद्यं दद्याद् आचमनीयमुदकम् इत्याचमनीयम् । अथ चरुं श्रपयति । आढकेन आढकार्धेन वा प्रस्थेन वाज्येन वा पयसि श्रपयति । अथान्नं भवति । प्रदाय सत्यं त्वर्त्तेन परिषिञ्चामि इति ऋतं त्वा सत्येन परिषिञ्चामि इति परिषेचनं करोति । अथान्नमभिमृश्य अहमस्मि प्रथमजा ऋतस्य इति दशर्चेन सूक्तेन अमृतोपस्तरणमसि इति उपस्तरणं करोति । अथ प्राणाहुतिः । प्राणे निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा इति प्राणाय अपाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा इत्यपानाय व्याने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । व्यानाय स्वाहा इति व्यानाय उदाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । उदानाय स्वाहा इत्युदानाय समाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय समानाय स्वाहा इति समानाय एवं पञ्चविधां प्राणाहुतिं करोति । अथ देवमुपस्थाय केशवादिद्वादशनामभिः विष्णोर्नुकं वीर्याणि प्रवोचम् इति जपति । अथावरणं करोति अमृतापिधानमसि इत्यप आनीय पिधाय योऽपामायतनं वेद । आयतनवान् भवति इत्याचमनीयं करोति । अथ ताम्बूलं प्रदाय देवमुद्रासयति । क्षीरार्णवे वा मेरौ वा आदित्यमण्डले वा केशवमुद्वास्य नैवेद्यमप्सु निधाय चतुर्थाशं ब्राह्मणाय ददाति इत्याह भगवानाग्निवेश्यः १०
अथातो रविकल्पं व्याख्यास्यामः । आयुष्कामस्य वा तेजस्कामस्य वा यशस्कामस्य वा भूतिकामस्य वा पुत्रकामस्य वा रूपकामस्य वा भवति । न नक्तमश्नीयात् मृच्छयश्च मैथुनवर्जम् । शुचि शुक्लमनार्द्रमाच्छाद्य प्रयतः शुचिर्भवति । अथ श्वोभूते आदित्यवारे आदित्येऽभ्युदितमात्रे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य मध्ये स्वर्णमथवा रजतं वा पद्मं निधाय अथवा भूमौ
विलिखेदष्टपत्रं सकर्णिकम्
पूर्वपत्रे न्यसेत् सूर्यमाग्नेय्यां च दिवाकरम्
न्यस्य याम्ये विवस्वन्तं नैरृत्यां तु भगं न्यसेत्
वरुणं पश्चिमे पत्रे वायव्ये चेन्द्रमेव च
सवितारमथैशान्यामादित्यं चोत्तरे न्यसेत्
सकर्णिकापूर्वपत्रे न्यसेदर्कं सवाजिनम्
सहस्रांशुं दक्षिणे च मार्ताण्डं पश्चिमे दिशि
उत्तरे तु रविं देवं तन्मध्ये भास्करं न्यसेत्
एवं द्वादशादित्यान् यथाक्रमं विन्यस्य मध्ये सर्वादित्यरूपं विन्यस्याथाद्भिर्मार्जयते आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन । अथ रक्तचन्दनेन रक्तपुष्पेण रक्तवर्ण आचार्यः अमुष्मै नमोऽमुष्मै नमः इति गन्धपुष्पधूपदीपैरभ्यर्च्य पाद्ममुदकं नमस्कारं कृत्वा अमुष्मै नमोऽमुष्मै नम इति अथ दैवतानुद्वासयति । द्वादशनामभिर्यथा पूर्वमावाहनं करोति तथोद्वासनम् । गुरवे यथाशक्ति दक्षिणां दद्यात् । एवं संवत्सरस्यार्कवारेषु पूजां कृत्वा ब्राह्मणान् भोजयित्वा आयुष्कामी दीर्घमायुरवाप्नुयात् । तेजस्कामी तेजस्वी यशस्कामी यशस्वी भूतिकामी भूतिमान् भवति पुत्रकामी
पुत्रं लभते । सर्वकामी सर्वं लभते । इत्याह भगवानाग्निवेश्यः ११
प्रणवं चाग्निदैवत्यं परब्रह्मस्वरूपिणम्
छन्दस्तु देवी गायत्री ऋषिर्ब्रह्मेति कीर्तितः
प्रणवं नमस्करोमि सर्वदेवतामयं शृणु विष्णुमब्रवीदिति प्रणवं त्र्यक्षरेण
अकारोकारमकाराक्षरेण । अकारोऽग्निः उकारः सूर्यः मकारश्चन्द्रः । अकारो ब्रह्मा उकारो विष्णुः मकार ईश्वरः । अकारो नपुंसकः उकारः पुल्लिँङ्गः मकारः स्त्रीलिङ्गः । अकारो मिश्रवर्णः उकारो रक्तवर्णः मकारः श्वेतवर्णः । उपमारहिताः औमकारात्मकाः कालत्रयात्मकाः लोकत्रयात्मकाः ऋग्यजुस्सामात्मकाः अवस्थात्रयात्मकाः प्रणवोच्चारणेन महदैश्वर्यदायकाः मूलाधारानाहतभ्रूमध्ये स्थिताः अकारोकारमकाराः उदात्तानुदात्तस्वरिताः वक्ष्याम्य् तिरहस्यमिति । ऋग्वेदे प्रणवं यजुर्वेदे प्रणवं सामवेदे प्रणवं त्रिः ब्रूयात् । तस्योत्तरा भूयसे निर्वचनाय १२
अथशालांकरिष्यन् वास्तोष्पते अथतटाककल्पंव्याख्यास्यामः अथकूश्माण्डैर्जुहुयाद् अथातःपूतकामः अथशताभिषेकम् अथब्राह्मणस्यमहापातकादि अथशुभाशुभनिमित्तानाम् अथयज्ञोपवीतविधिम् अथदेवताराधनम् अथातोरविकल्पंव्याख्यास्यामः प्रणवंचाग्निदैवत्यं द्वादश
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्यामः
अश्रद्दधानमहुतमजपं त्यक्तमङ्गलम्
ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम्
ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम्
उपहारान् प्रवक्ष्यामि शान्त्यर्थं तु यथाविधि
मासि मास्यृतावृतावयने चन्द्रग्रहे सूर्यग्रहे जन्मनक्षत्रे विषुवे शुभाशुभे वा
तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानः सर्वान् कामानवामोतीति । उक्तमेकाग्निविधानं कृत्वा
भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ
सोमपुत्रगुरू चैव तावुभौ पीतकौ स्मृतौ
कृष्णं शनैश्चरं विद्याद् राहुकेतू तथैव च
ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत्
बलिं चैवोपहारं च गन्धमाल्यं तथैव च
यथाक्रमेणोपहरेत् सर्वेषामनुपूर्वशः । इति
अर्कसमिधमादित्याय पालाशं सोमाय स्वादिरमङ्गारकाय अपामार्गं बुधाय
अश्वत्थं बृहस्पतये औदुम्बरं शुक्राय शमीं शनैश्चराय राहोः दूर्वां केतोः कुशमिति । मध्ये वृत्तमादित्याय आग्नेय्यां चतुरश्रं सोमाय दक्षिणे त्रिकोणमङ्गारकाय ईशान्यां वाणाकारं बुधाय उत्तरे दीर्घचतुरश्रं बृहस्पतये प्राक् पञ्चकोणं शुक्राय पश्चिमे धनुराकारं शनैश्चराय निरृत्यां शूर्पाकारं राहवे वायव्यां ध्वजाकारं केतुभ्यः । परिधानप्रभृत्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति । आ सत्येन अग्निं दूतं वृणीमहे एषामीशे इत्यादित्याय । आप्यायस्व अप्सु मे सोमो अब्रवीत् गौरी मिमाय इति सोमाय । अग्निर्मूर्धा स्योना पृथिवि क्षेत्रस्य पतिना इत्यङ्गारकाय । उद्बुध्यस्व इदं विष्णुः विष्णो रराटमसि इति बुधाय । बृहस्पते अति इन्द्र मरुत्वः ब्रह्म जज्ञानम् इति बृहस्पतये । प्र वः शुक्राय इन्द्राणीम् इन्द्रम् वो विश्वतस्परि इति शुक्राय । शन्नो देवीः प्रजापते न त्वत् इमं यम प्रस्तरमा हि सीद इति शनैश्चराय । कया नश्चित्र आभुवत् आ यं गौः यत्ते देवी निरृतिरावबन्ध इति राहवे । केतुं कृण्वन् ब्रह्मा देवानां सचित्र चित्रं चितयन्तमस्मै इति केतवे । घृतान्वक्तानां समिधामष्टसहस्रमष्टशतमष्टाविंशतिं वा प्रत्यृचं हविषा जुहुयात् । प्रत्यृचमाज्येन जुहुयात् । हविष्यान्नमादित्याय घृतपायसं सोमाय गुळौदनमङ्गारकाय क्षीरौदनं बुधाय दध्योदनं बृहस्पतये घृतौदनं शुक्राय तिलमिश्रपिष्टमाषौदनं शनैश्चराय राहोर्मासौदनं केतोश्चित्रौदनम् इत्युपहारः सर्वेषामलाभे हविष्यम् । अर्यमणं सोमं राजानम् इति स्विष्टकृतं जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अग्रेणाग्निं ग्रहानभ्यर्चयति । आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य नमस्कृत्य प्रवाह्य जघनेनाग्निं प्राङ्मुख उपविश्य अद्भिर्मार्जयते आपो हि ष्ठा मयो भुव इत्यादिभिः । अथ दक्षिणां ददाति । कपिलां धेनुमादित्याय शङ्खं सोमाय रक्तमनड्वाहमङ्गारकाय काञ्चनं बुधाय वासो बृहस्पतये रजतं शुक्राय कृष्णां गां शनैश्चराय राहोश्छागं केतोः कुञ्जरमिति । सर्वेषामलाभे हिरण्यं
वा येन वा तुष्यत्याचार्यः
यथा समुत्थितं यन्त्रं यन्त्रेण प्रतिहन्यते
एवं समुत्थितं घोरं शीघ्रं शान्तिं नयेत् सदा
यथा शस्त्रप्रहाराणां कवचं भवति वारणम्
एवं दैवोपघातानां शान्तिर्भवति वारणम्
अहिंसकास्य दान्तस्य धर्मार्जितधनस्य च
नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः
देवता ग्रहरूपेण दर्शयन्ति शुभाशुभम्
दर्शयन्ति शुभाशुभमिति १
अथ यद्यकाले स्थूणा विरोहेत् व कपोतो
वागारमध्येऽधिपतेद् गौर्वा गां धयेत् गौरात्मानं प्रत्यङ् धयेत् अनड्वान्वा समुल्लिखेत् अनग्नौ वा धूमो जायेत अनग्नौ वा दीप्येत मधु वा जायेत निर्यासं वोपजायेत छत्राकं वोपजायेत मण्डूको वा भूमौ ददृशे श्वानः प्रसूते वा गृहपतिं जायां वोपतपति अन्येषु चाद्भुतोत्पातेषु । अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा जुहोति वास्तोष्पते इति द्वे । वास्तोष्पते शं नः इन्द्राग्नी कया नश्चित्र आ भुवत् को अद्य युङ्क्ते भवतं नः समनसौ इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अपरेणाग्निं शमीपर्णेषु हुतशेषं निदधाति शं नो देवीरभिष्टय इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानीयैतेषूत्पातेषु निनयेत् । प्रोक्षयेद्वा तच्छंयोरा वृणीमहे इति । अन्नं संस्कृत्य ब्राह्मणान् सम्पूज्याशिषो वाचयति शिवं शिवम् इति । अद्भुतो व्याख्यातः २
आहुतानुकृतिरायुष्यहोमचरुः संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु मासेषु मासि मासि वा जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा व्रीहीन् निर्वपति अग्नय आयुष्मते वो जुष्टं निर्वपामि इति । तूष्णीं वा । अथ धान्यान् निर्वपति प्राणाय वो जुष्टं निर्वपामि इति । तूष्णीं वा । तानभ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य निदधाति । अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुलानावपति । अथाज्यमधिश्रित्योभयं पर्यग्नि कृत्वा मेक्षणं च स्रुवं च संमार्ष्टि। अथैतं चरुं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । स एष एव सर्वेषां स्थालीपाकानां चरुकल्पः । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति आयुष्टे विश्वतो दधद् इति पुरोनुवाक्यामनूच्य आयुर्दा अग्ने हविषो जुषाणः इति याज्यया जुहोति । आज्याहुतीरुपजुहोति । अथान्तरेणाग्निं चाज्यस्थालीं चरुस्थालीं निदधाति । सहस्रसंपाताभिहुतं करोति । यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा । विभ्राजमानः सरिरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् । स मृत्युपाशादपनुद्य घोरादिहायुषे नो घृतमत्तु देवः स्वाहा । ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात् पुरुरूपं जयन्तम् । सुवर्णरम्भग्रहमर्कमर्चं तमायुषे वर्धयामो घृतेन स्वाहा । श्रियं लक्ष्मीमौपलामम्बिकां गां षष्ठीं जयामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन स्वाहा । दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः । ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्तां स्वाहा । दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमन्थन्तु वीरान् । तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाँ रीरिषो मोत वीरान् स्वाहा । एकःपुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनँ सांपराये स नो हविर्घृतमिहायुषेऽत्तु देवः स्वाहा । वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाश्चँ पितॄंश्च विश्वान् । भृगून् सर्पाँश्चाङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्या महयाम शश्वत् स्वाहा । इति षड्विंशतिशतं कृत्वा तदाहुतीनामष्टसहस्रं संपद्यते । इतरस्मात् पक्वात् सौविष्टकृतं जुहोति । हव्यवाहमभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दूर्वास्तम्बे हुतशेषं निदधाति मा नो महान्तं मा नस्तोक इति द्वाभ्याम् । अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः स्थालीपाकं सगणः प्राश्नाति आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात् सर्वमायुर्गेषम् इति । प्राश्याचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । कुमाराणां ग्रहगृहीतानामायुष्येण घृतसूक्तेनाहरहः स्वस्त्ययनार्थं स्वाध्यायमधीयीत । एतैरेव मन्त्रैराहुतीर्जुहुयात् । एतैरेव मन्त्रैर्बलिं हरेत् । अगतो हैव भवति । तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः पञ्चशोडाय सर्पाहुतिर्गन्धर्वाहुतिरिति । अगतो हैव भवति । तदेतदृद्धमयनं हुताहुतानुकृतयोऽन्ये होमा आश्रमानुकृतयः संश्रया इति ३
अथातोऽपमृत्युञ्जयकल्पं व्याख्यास्यामः । पुण्ये नक्षत्रे जन्मनक्षत्रे जन्मवारे वा कृष्णाष्टम्यां चतुर्दश्यां वा देवालये नदीतीरे गोष्ठे पुण्यतमे स्थले वा स्वगृहे वा गोमयेनोपलिप्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा ॐ भूर्भुवःस्वः स्वाहा इति प्रायश्चित्तं हुत्वा श्वेतदूर्वाः पालाशसमिधोऽष्टसहस्रमष्टशतमष्टाविंशतिं वा दधिमधुघृतपयांसि समुदायुत्य त्रियम्बकं यजामहे इति मन्त्रेण हुत्वाथ अपैतु मृत्युः परं मृत्यो मा नो महान्तं मा नस्तोके त्रियम्बकम् ये ते सहस्रम् इति हुत्वा स्विष्टकृतमवदायाथाज्याहुतीश्चोपजुहोति नक्षत्रे राशौ जातस्य शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भूः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भुवः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां स्वः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवःस्वः स्वाहा इति । अथ स्विष्टकृतं हव्यवाहमभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाभ्यातानान् राष्ट्रभृतः इति हुत्वा तन्त्रशेषं समाप्य दर्भस्तम्बे हुतशेषं निदधाति तच्छंयोरा वृणीमहे इति । अथ दक्षिणां दद्यात् । यथाचार्यस्तुष्टः प्रसन्नहृदयो भवेत् तथा दद्यात् । शेषेभ्योऽपि यथाशक्ति दत्त्वा ब्राह्मणान् भोजयेत् ४
अथ जयानामेव होमो जयाहे नाष्ट्यं तु कल्पयते । वाधःस्रुवं च स्रुचश्च वाधक एवैनं वैभीतकमिध्ममभ्यज्याबाधकेन स्रुवेणोपसृज्य बाधकायां स्रुचि चतुर्गृहीतेन जुहोति । चतुष्पादः पशवः । पशूनेवावरुन्धे । चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञानं च विज्ञातं च मनश्च शक्वरीश्च दर्शश्च पूर्णमासश्च बृहच्च रथन्तरं च प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहा इति । अथ वैभीतकमिध्ममिति । देवासुराः संयत्ता आसन् स इन्द्रः प्रजापतिमुपाघावत् तस्मा एताञ्जयान् प्रायच्छत् तानजुहोत् ततो वै देवा असुरानजयन् यदजयन् तज्जयानां जयत्वं स्पर्धमानेनैते होतव्या जयत्येव तां पृतनाम् इति । ब्राह्मणमह्नैव भवति येन कर्मणेर्त्सेत् तत्र होतव्या इति स यत्कर्मेर्त्सेदिदं मे समृद्ध्यत इति ५
प्रजार्थिहोमं व्याख्यास्यामः । नदीतीरेऽश्वत्थच्छायायां वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्राच्यां दिशि ब्रह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं विधातारं च दक्षिणतो धातारं वामतो विधातारं कृष्णवर्णं धातारं श्वेतवर्णं विधातारं चतुर्मुखं चित्रवर्णं ततस्तानर्चयेत् । पूर्वं ब्रह्माणमावाहयेत् । परमेष्टिनमावाहयेत् । हिरण्यगर्भमावाहयेत् इत्यावाह्य प्रनवेन आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा शुद्धान्नं ब्रह्मणे मुद्गान्नं धात्रे पीतान्नं विधात्रे । यजमानस्यथैनां स्त्रियमाहूय तत्त्वमसि ज्योतिरसि विश्वेशानं गता नामदा इति अमावास्यायां पौर्णमास्यामयनद्वये च व्यतीपाते विषुवे तिष्यरोहिण्यां श्रवणायां तस्या जन्मनि ऋतुस्नातायाम् अहतं वासः परिधाप्य हिरण्यमाचार्याय दत्त्वाक्लिष्टानि वासांसि परिधायाचम्य गन्धशुक्लपुष्पैरलङ्कृत्य अथ देवयजनोल्लेखनप्रभृत्यग्निमुपसमाधाय संपरिस्तीर्य सप्त ते अग्ने समिधः सप्त जिह्वा सप्तऋषयः सप्त धाम प्रियाणि इति स्त्रीषु दक्षिणोपविश्य परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वात् पुरुषसूक्तेन जुहुयात् । जुहोति याज्यां पुरोनुवाक्यामिति द्वौ द्वौ । प्रत्यृचमथाज्याहुतीरुपजुहोति । सावित्र्याष्टोत्तरसहस्रं जुहुयात् । अप उपस्पृश्य सुदर्शनेनाष्टसहस्रम् अग्निबीजेनाष्टसहस्रं सप्रणवं जुहोति । अष्टसहस्रं सप्रणवमष्टशतमष्टाविंशतिं वा । मध्यमं जुहोत्यष्टशतमिति कीर्तितम् । स्विष्टकृतात् प्रभृति सिद्धमा धेनुवरप्रदानात् । अथैनं सम्पातं मूर्ध्नि जुहोति । प्रणवेन नमस्कारान्तं यज्ञवास्तु कुर्वीत । तदस्य गर्भिणी भवति । एवमुत्पादितपुत्रा न लुप्यन्ते कदाचन न लुप्यन्ते कदाचनेति । अथ विष्णुं द्वादश्यां भगवन्तमर्चयित्वा सुदर्शनेनाष्टसहस्रं जप्त्वा त्रिः पर्यायम् आवश्यकः पुत्रो भवतीत्याह पुत्रो भवतीत्याह । शैवोक्तेषु कालेषु नदीषु वा शुद्धजलाशये वा मध्यमेन च पलाशपर्णेन वाष्टसहस्रेणाष्टशतेन वाष्टाविंशत्या वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनाभिषेचनं कृत्वा गायत्र्याष्टसहस्रेणाभिषेचनं करोति । पुरुषसूक्तेन च सहस्रशीर्षा पुरुष इत्येतेनानुवाकेन । पुत्रो भवतीत्याह भगवानाग्निवेश्यः ६
अथ विष्णुबलिः । अष्टमे मासि पूर्वपक्षे पुण्ये नक्षत्रे द्वादश्यां सप्तम्यां रोहिण्यां श्रवणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावाहयामि ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ स्वः पुरुषमावाहयामि ॐ भूर्भुवःस्वः पुरुषमावाहयामि इत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वाथाद्भिस्तर्पयते केशवं नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति । एतैरेव नामभिः गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नम इति । अथ वैष्णवाहुतीर्जुहोति विष्णोर्नुकं तदस्य प्रियं प्र तद्विष्णुः परो मात्रया विचक्रमे त्रिर्देव इति । जयाप्रभृति सिद्धमाधेनुवरप्रदानात् । गुळपायसं घृतमिश्रमथान्नस्य बलि मुपहरति अमुष्मै स्वाहामुष्मै स्वाहा इति द्वादशभिर्यथालिङ्गम् । वैष्णवीभिः ऋग्यजुःसामाथर्वभिः स्तुतिभिः स्तुवन्ति । व्याहृतीभिः पुरुषमुद्वासयति पुरुषमुद्वासयामि इति । अन्नशेषं पत्नीं प्राशयति पुमांसं जनयतीति विज्ञायते ७
अथ शूलगवः संवत्सरे संवत्सरे मार्गशीर्षपौर्णमास्यां क्रियेत । अपि वार्द्रायाम् अरण्येऽग्निमुपसमाधाय संपरिस्तीर्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति ईशानाय त्वा जुष्टमुपाकरोमि इति । तूष्णीमित्येके । तामत्रैव प्रतीचीनशिरसीम् उदीचीनपदीं सज्ञपयति । तस्यै संज्ञप्ताया अद्भिरभिषेकम् । प्राणानाप्याय्य तूष्णीं वपामुत्खिद्य हृदयमुद्धारयति । प्रज्ञातानि चावदानानि । तान्ये तेष्वेव शूलेषूपनीक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति । अथैतानि शूलेभ्योऽपरिक्षिप्य पुनः कुम्भ्यां निश्रपयन्ति । अथैतानि अभिघारितान्युद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमावाहयति आ त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजितैर्मघवद्भिर्मनोजवैरायाहि शीध्रं मम हव्याय शर्वोम् इति । अथ स्रुवेणोषस्तीर्णाभिघारितां जुहोति । सहस्राणि सहस्रश इति पुरोनुवाक्यामनूच्य ईशानं त्वा भुवनानामभिश्रियम् इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति । अत्रैतान्यवदानानीडासूने प्रच्छिद्यौदनं मांसं यूषमित्याज्येन समुदायुत्य मेक्षणेनोपघातं पूर्वार्धे जुहोति । भवाय देवाय स्वाहा शर्वाय देवाय स्वाहा ईशानाय देवाय स्वाहा पशुपतये देवाय स्वाहा रुद्राय देवाय स्वाहा उग्राय देवाय स्वाहा भीमाय देवाय स्वाहा महते देवाय स्वाहा इति । अथ मध्ये भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहा ईशानस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा उग्रस्य देवस्य पत्न्यै स्वाहा भीमस्य देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहा इति । अथापरार्धे जुहोति । भवस्य देवस्य सुताय स्वाहा शर्वस्य देवस्य सुताय स्वाहा ईशानस्य देवस्य सुताय स्वाहा पशुपतेर्देवस्य सुताय स्वाहा रुद्रस्य देवस्य सुताय स्वाहा उग्रस्य देवस्य सुताय स्वाहा भीमस्य देवस्य सुताय स्वाहा महतो देवस्य सुताय स्वाहा इति । अथाज्याहुतीर्जुहोति । नमस्ते रुद्र मन्यव इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथापरेणाग्निमर्कपर्णेषु हुतशेषं निदधाति यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानीय वेतसशाखयावोक्ष्य त्रिः प्रदक्षिणं गाः पर्येति आ गावो अग्मन्नुत भद्रमक्रन् इत्येतेन सूक्तेन । महत् स्वस्त्ययनमाचक्षते । अथ यदि गां न लभते मेषमजं वालभते । ईशानस्थालीपाकं वा श्रपयति यद् गवा कार्यम् । स शूलगवो व्याख्यातः । एवमेवाष्टम्यां प्रदोषे क्रियेतैतावदेव नाना । नात्रोपाकरणं पशोः ८
अथातो गृहकर्मणो गृहवृद्धिमिच्छन् मासि मासि ऋतावृतौ संवत्सरे संवत्सरे पूर्वपक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेत । अपामार्गपालाशशिरीषौदुम्बरसदाभद्रा अमृततृणमिन्द्रवल्लीभिर्बद्ध्वा गृहान् परिसंमार्ष्टि । परिसमूह्यापोऽभ्युक्ष्य पञ्चगव्येन दर्भमुष्टिना सम्प्रोक्ष्य सर्षपान् संप्रकीर्याग्निमुखात् कृत्वा मध्ये वास्तोष्पते वास्तोष्पते इति द्वे आहुती हुत्वा सावित्र्या सहस्रं जुहुयात् । ततो दक्षिणपुरस्तात् ततो दक्षिणपश्चात् तत उत्तरपश्चात् मध्ये वा । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गां वासो हिरण्यं दक्षिणां ददाति ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा । एवं प्रयुञ्जान आन्तं महान्तं पोषं पुष्यति । बहवः पुत्रा अस्य भवन्ति । न च बालाः प्रमीयन्ते । नाग्निर्दहति । न दंष्ट्रिणः खादयेयुः । न तस्कराः सपत्ना रक्षांसि पिशाचा अपि बाधन्ते । यदि गावः प्रतप्येरन् गवां मध्ये आहुतिसहस्रं जुहुयात् । एतेनैव कल्पेनाश्वोष्ट्रखराजाविकमहिषहस्तिकुलमन्यतरद् द्विपदां चतुष्पदां च व्याख्यातम् ९
वृष्टिकामस्य सम्भारान् । कृष्णं वासः कृष्णाश्वः कृष्णतूषं कृष्णोरभ्रः कृष्णाजिनं च कृष्णव्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवः करीरसक्तवश्च वर्षाभूणां स्रजस्नीणि च पुष्करपर्णानि दशसहस्रं वैतससमिधामित्येतेऽस्य संभारा उपकॢप्ता भवन्ति । अग्निमुपसमाधाय यस्मिन् काले पश्चाद्वातो वाति तस्मिन् काले कृष्णं वासः कृष्णतूषम् परिधत्ते मारुतमसि मरुताम् ओजोऽपां धारां भिन्धि रमयत मरुतः श्येनमायिनं मनोजवसं वृषणँ सुवृक्तिम् । येन शर्ध उग्रमवसृष्टमेति तदश्विना परिधत्तं स्वस्ति । अग्रेणाग्निं कृष्णमश्वं कृष्णमभ्रं पुरस्तात् प्रत्यञ्चं धारयन्तो दक्षिणत आमां कुम्भीं निमिञ्चन्ति वर्षाभूणां स्रजः पश्चात् स्थापयन्ति । संपरिस्तीर्य निर्वपान् कृत्वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां वरुणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाल्य तिरःपवित्रं स्थाल्याम् अप आनीयाधिश्रित्य पर्यग्नि कृत्वाभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा तस्मिन् खर्जूरसक्तूंश्च करीरसक्तूंश्च कृष्णमधुषा संयौति मान्दा वाशाश्शुन्ध्यूरजिरा ज्योतिष्मतीस्तमस्वरीरुन्दतीः सुफेनाः इति । त्रीन् पिण्डान् कृत्वैतेषु पुष्करपर्णेषूपनिनह्य कृष्णमुरभ्रमनुलेपनं करोति । यच्चिद्धि ते यत् किञ्चेदं कितवासः इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि अव ते हेड उदुत्तमं त्रियम्बकं यजामहे इत्येतैर्दशभिर्मन्त्रैः शतशोऽभ्यस्य प्रतिमन्त्रं समिधो जुहुयात् । एतैर्मन्त्रैरेवमभ्यस्य हविषो जुहुयात् । तथैवाभ्यस्याज्यस्य जुहुयात् । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । कृष्णमश्वमद्भिरभ्युक्षति दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद्व्युन्दन्ति आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । विपर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः इति । सयति कृष्णोऽश्वोद्भिरभ्युक्ष्य उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनुरथा अवृत्सत इति । सयेति कृष्णोरभ्री रद्भिरभ्युक्ष्य आधूनुते वर्षति यदि शकृत्करोति वा वर्षति यदि पलायते वोपविशति वा न वर्षति इति । आमां कुम्भीमद्भिः संपूरयति । सृजा वृष्टिं दिव आद्भिः समुद्रं पृण । अब्जा असि प्रथमजा बलमसि समुद्रियम् अन्नम्भय पृथिवीं भिन्धि दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् । स यद्यामां कुम्भीमद्भिः सम्पूर्णां भिद्यते वर्षति यदि धारयते न वर्षति । अपां पूर्णां स्रुचं वर्षाह्वया जुहोति उन्नम्भय पृथिवीम् इति । अथ यदि न वर्षेदेतेषामेव कृष्णव्रीहीणां स्थालीपाकं श्रपयित्वा सप्ताहं सवनत्रयहोमं कुर्यात् । सन्तिष्ठते वृष्टिकामः सन्तिष्ठते वृष्टिकामः १०
अथ भूतबलिं व्याख्यास्यामः । वृष्टिकामोऽधिकारी कृष्णं वासः कृष्णा गौः कृष्णयोरभ्री कृष्णा व्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवश्च सर्पिश्च त्रीणि पुष्करपर्णानीत्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । यद् भूतेभ्यो बलिं हरति तद् भूतयज्ञः सन्तिष्ठते इति ब्राह्मणम् । संवत्सरे संवत्सरे षट्सु षट्सु मासेषु यदामावास्यां शुष्यो भवति यदा वृष्टेरुदघातं विन्देदथ भूतबलिं दद्यात् । तटाकं गत्वा शुचौ देशे उद्धत्यमानम् इत्युद्धत्य शन्नो देवीः इत्यवोक्ष्य देवयजनं परिगृह्य परिलिखितम् इति परिलिखति । यस्मिन् काले पश्चाद् वातो वाति तस्मिन् काले ब्राह्मणो मारुतमसि मरुतामोज इति कृष्णं वासः परिधाय अप उपस्पृश्य यज्ञोपवीतं धृत्वाप आचम्य उदपात्रमादाय पश्चाद् भूतं प्रतिष्ठाप्यार्चयति । व्याहृतिपर्यन्तं कृत्वाष्टौ वातनामानि जुहोति पुरो वातो वर्षञ्जिन्वरावृत् स्वाहा इति । अथ कृष्णव्रीहीणां चरूणां जुहोति मित्रावरुणाभ्यां स्वाहा अग्नये धामच्छदे स्वाहा मरुद्भ्यः स्वाहा सूर्याय स्वाहा अग्नये स्विष्टकृते स्वाहा इति । वारुण्यादिस्विष्टकृदन्तं हुत्वाथ कंसे वा शरावे वान्नशेषं खर्जूरसक्तुं समवदाय सर्पिषा मधुना वा संयौति । मान्दा वाशा इति द्वाभ्याम् । अपरेणाग्निं त्रिषु पुष्करपर्णेषु निर्वपेद् देवा वसव्या इति । तिसृभिरन्नशेषस्यार्धं निवेदयति देवस्य त्वा इति । तत उदकं गत्वावशिष्टस्य त्रीन् पिण्डान् श्रप्सु जुहोति । उद्नो दत्तोदधिं भिन्त इति त्रिभिः स्वाहाकारान्तैः । अथाञ्जलिनाप उपहत्योत्क्षिपेत् उदीरयथा मरुत इति द्वाभ्याम् । अथ वास्तुदेवं गत्वा । ये वास्तुदैवताः क्रूररक्षोभूतगणाश्च ये । तेभ्यो बलिं वृष्टिकामो हरामि शान्ताः शान्तिं कुर्वन्तु । नमः सर्वेभ्यो नमो भूतेभ्यो नमो इत्यामां कुम्भीं चाद्भिः पूरयित्वा उन्नम्भय पृथिवीम् इति कृष्णां गां च । ये देवा दिवि भागा इत्यथ देवता उपतिष्ठते । यन्तु नदयो वर्षन्तु पर्जन्या इति पर्जन्यान् उपतिष्ठते पुण्याहं वाचयित्वा ब्राह्मणान् भोजयित्वा । यदि वर्षेत् तावत्येव होतव्यं यदि न वर्षेत् श्वोभूते हविर्निर्वपेत् इति ब्राह्मणम् ११
अथ बीजनिवापनं व्याख्यास्यामः । रोहिण्यां तिष्यमूयोः विशाखयोर्मघासु श्रवणायां रेवत्यां मित्रावरुणयोर्मरुत उत्तरास्वेकस्मिन् नक्षत्रे बीजानादाय दत्वाधिवासं करोति । एषु नक्षत्रेषु एकस्मिन् नक्षत्रे क्षेत्रं गत्वा पूर्वायां दिशि गन्धादिभिराराध्य शिरीषपर्णैरवकीर्य गन्धशेषैरात्मानमुपलिप्य कर्षकाय गन्धादि दत्त्वा बीजानि वपेद् या जाता ओषधय इत्येतेनानुवाकेन । अथालह्वानात् पूर्वं चरूर्जं श्रपयित्वाथ पुण्याहं वाचयित्वा अद्भिर्मार्जयित्वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनाथ पिण्डं ददाति क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु अथ दक्षिणापुरस्तात् ततो दक्षिणापश्चात् ततः पुरस्तादुत्तरतः पश्चाद् अथ मध्ये यथोदितं लवनं करोति । तेन धान्येन पश्चादाग्रयणं करोति । १२
अथातोग्रहातिथ्यबलिकर्मोपहारान् अथयद्यगारेस्थूणाविरोहेद् आहुतानुकृतिः अथातोऽपमृत्युञ्जयकल्पं व्याख्यास्यामः अथ जयानामेव प्रजार्थिहोमम् अथविष्णुबलिः अथशूलगवः अथातोगृहकर्मणो
वृष्टिकामस्य अथभूतबलिम् अथबीजनिवापनं द्वादश ।
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः

अथ षष्ठोऽध्यायः

अथात आचमनविधिं व्याख्यास्यामः । प्राङ्मुख उदङ्मुखो वा द्वौ पाणी प्रक्षाळ्य बद्धशिखो यज्ञोपवीती जले वाथ स्थले वान्तर्जानु नविवराङ्गुळीभिः गोकर्णाकृतिवत् करं कृत्वा तिष्ठन् न प्रणतो न हसन्न जल्पन् न व्रजन् नोष्णाभिर्न विवर्णाभिर्न बुद्बुदाभिः न चलो जलं माषमग्नमात्रं पिबेत् । ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि पञ्च दैवतानि भवन्ति । अङ्गुलीमध्ये दैवं तीर्थं अङ्गुल्यग्रे आर्षं तीर्थम् अङ्गुष्ठतर्जन्योर्मध्ये पैतृकं तीर्थम् अङ्गुष्ठमूलस्योत्तरतो रेखासु ब्राह्मं तीर्थम् मध्ये अग्नितीर्थम् । अङ्गुष्ठे अग्निः प्रदेशिन्यां वायुः मध्ये प्रजापतिः अनामिकायां ब्रह्मा कनिष्ठिकायामिन्द्रः । अथ त्रिराचामेत् प्रणवेन । प्रथमं यत् पिबति तेन ऋग्वेदं प्रीणाति । द्वितीयं यत् पिबति तेन यजुर्वेदं प्रीणाति । तृतीयं यत् पिबति तेन सामवेदं प्रीणाति । प्रथमं यत् परिमृजति तेनाथर्ववेदं प्रीणाति । द्वितीयं यत् परिमृजति तेन इतिहासं प्रीणाति । यद् उपस्पृशति तेनाग्निं यत् पादावभ्युक्षते तेन विष्णुं सह्यं पितॄन् चिरस्या ऋषीन् तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छ्रोत्रं तेन दिशो यद्बाहू तेन इन्द्रं यन्नाभिं तेन पृथिवीं यद् हृदयं तेन रुद्रं यच्छिरस्तेन सप्तर्षीन् प्रीणाति । अङ्गुष्ठानामिकाभ्यां तु चक्षुषी समुपस्पृशेत् प्रदेशिन्यङ्गुष्ठाभ्यां तु नासिके अङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे मध्यमाङ्गुष्ठाभ्यां बाह्वोः अङ्गुष्ठेन नाभौ अङ्गुल्यग्रेण हृदि सर्वेषामङ्गुलीतलानां तु शिरसि इति सर्वान् कामान् समर्धयन्तु इति । अथ
ऊर्ध्वं स्नानविधिं व्याख्यास्यामः । स्नानार्थं मृदमुत्खनति
मृत्तिके हन मे पापं यन्मया दुष्कृतं कृतम्
त्वया हतेन पापेन जिवामि शरदः शतम्
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् । इति
अप आनयति
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम्
इति पिण्डीकरोति १
अथ हस्तपादौ प्रक्षाळ्य कमण्डलुं मृत्पिण्डं च संगृह्य
तीर्थं च गत्वा त्रिः पादौ प्रक्षाळयते । त्रिरात्मानम् । अथ हैके ब्रुवते श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणाः नप्रक्षाळ्य पादौ तत्र न प्रवेष्टव्यम् इति । अथापोऽभिप्रपद्यते हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।
यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः
यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम्
तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः । इति
अथाञ्जलिना अप उपहरति सुमित्रा न आप ओषधयः सन्तु इति । तां दिशं
निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः इति । अथाप उपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तते यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् इति । अप्सु निमज्ज्योन्मज्ज्य नाप्सुमतः प्रयमणं विद्यते । न वाससः पत्पूलनं नोपस्पर्शनं यद्यवरुद्धाः स्युस्तेन तेनोपतिष्ठते । नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः इत्युत्तीर्याचम्य आचान्तः पुनराचामेत् आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिः ब्रह्म पूता पुनातु माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा इति । पवित्रे कृत्वाद्भिर्मार्जयते । आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वान्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि वासांसि परिधायाप आचम्य दर्भेष्वासीनो दर्भान् धारयमाणः सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशावरमिति । अथादित्यमुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्द्देवहितं य उदकात् इति । अथाप्युदाहरन्ति प्रणवो व्याहृतयः सावित्री चेत्येते पञ्च ब्रह्मयज्ञा अहरहः ब्राह्मणं किल्बिषात् पावयन्ति । पूतः पञ्चभिर्ब्रह्मयज्ञैरथोत्तरं देवतास्तर्पयतीति २
अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । वसून् तर्पयामि । पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । रुद्रान् तर्पयामि । मित्र इन्द्रो महापितर आपो विश्वेदेवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । आदित्यान् तर्पयामि । वसवो वरुणोऽज एकपाद् अहिर्बुध्न्यः पूषा अश्विनौ यम इत्येतानि उदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । विश्वान् देवान् तर्पयामि । साध्यान् तर्पयामि । ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । परमेष्ठिनं तर्पयामि । ॐ भूर्भुवःस्वः पुरुषं तर्पयामि । ॐ भूस्तर्पयामि । ॐ भुवस्तर्पयामि । ॐ स्वस्तर्पयामि । ॐ महस्तर्पयामि । ॐ जनस्तर्पयामि । ॐ तपस्तर्पयामि । ॐ सत्यं तर्पयामि । ॐ भवं देवं तर्पयामि । शर्वं देवं तर्पयामि । ईशानं देवं तर्पयामि । पशुपतिं देवं तर्पयामि । रुद्रं देवं तर्पयामि । उग्रं देवं तर्पयामि । भीमं देवं तर्पयामि । महान्तं देवं तर्पयामि । भवस्य देवस्य पत्नीं तर्पयामि । शर्वस्य देवस्य पत्नीं तर्पयामि । ईशानस्य देवस्य पत्नीं तर्पयामि । पशुपतेर्देवस्य पत्नीं तर्पयामि । रुद्रस्य देवस्य पत्नीं तर्पयामि । उग्रस्य देवस्य पत्नीं तर्पयामि । भीमस्य देवस्य पत्नीं तर्पयामि । महतो देवस्य पत्नीं तर्पयामि । भवस्य देवस्य सुतं तर्पयामि । शर्वस्य देवस्य सुतं तर्पयामि । ईशानस्य देवस्य सुतं तर्पयामि । पशुपतेर्देवस्य सुतं तर्पयामि रुद्रस्य देवस्य सुतं तर्पयामि । उग्रस्य देवस्य सुतं तर्पयामि । भीमस्य देवस्य सुतं तर्पयामि । महतो देवस्य सुतं तर्पयामि । रुद्रांश्च तर्पयामि । रुद्रपार्षदांश्च तर्पयामि । रुद्रपार्षदीश्च तर्पयामि । सनत्कुमारं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । षष्ठीं तर्पयामि । विशाखं तर्पयामि । स्कन्दपार्षदांश्च तर्पयामि । स्कन्दपार्षदीश्च तर्पयामि । विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । गणपतिं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । विघ्नपार्षदांश्च तर्पयामि । विघ्नपार्षदीश्च तर्पयामि । वैवस्वतं तर्पयामि । यमं तर्पयामि । सृत्युं तर्पयामि । वैवस्वतपार्षदान् तर्पयामि । वैवस्वतपार्षदीस्तर्पयामि । विष्णुं तर्पयामि । श्रियं देवीं तर्पयामि । पुष्टिं तर्पयामि । सरस्वतीं तर्पयामि । विष्णुपार्षदांस्तर्पयामि । विष्णुपार्षदीस्तर्पयामि । विद्यां तर्पयामि । मित्रं तर्पयामि । धन्वन्तरं तर्पयामि । धन्वन्तरपार्षदांस्तर्पयामि । अथ निवीती । ऋषींस्तर्पयामि । परमऋषींस्तर्पयामि । ब्रह्मर्षींस्तर्पयामि । राजऋषींस्तर्पयामि । देवऋषींस्तर्पयामि । श्रुतऋषींस्तर्पयामि । तपर्षींस्तर्पयामि । सप्तर्षींस्तर्पयामि । काण्डर्षींस्तर्पयामि । ऋषिकांस्तर्पयामि । ऋषिपुत्रीस्तर्पयामि । ऋषिपुत्रांस्तर्पयामि । बोधायनं तर्पयामि । आपस्तम्बं तर्पयामि । सूत्रकारं तर्पयामि । सत्याषाढं तर्पयामि । हिरण्यकेशिनं तर्पयामि । व्यासं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस्तर्पयामि । सावित्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । इतिहासपुराणांस्तर्पयामि । सर्वदेवजनांस्तर्पयामि । सर्वभूतानि तर्पयामि । अथर्वाणं तर्पयामि । प्राचीनावीती । पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि । मातॄः स्वधा नमस्तर्पयामि । पितामहीः स्वधा नमस्तर्पयामि । प्रपितामहीः स्वधा नमस्तर्पयामि । मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुः प्रपितामहान् स्वधा नमस्तर्पयामि । मातामहीः स्वधा नमस्तर्पयामि । मातुः पितामहीः स्वधा नमस्तर्पयामि । मातुः प्रपितामहीः स्वधा नमस्तर्पयामि । आचार्यान् स्वधा नमस्तर्पयामि । आचार्यपत्नीः स्वधा नमस्तर्पयामि । गुरून् स्वधा नमस्तर्पयामि । गुरुपत्नीः स्वधा नमस्तर्पयामि । सखीन् स्वधा नमस्तर्पयामि । सखिपत्नीः स्वधा नमस्तर्पयामि । ज्ञातीन् स्वधा नमस्तर्पयामि । ज्ञातपत्नीः स्वधा नमस्तर्पयामि । अमात्यान् स्वधा नमस्तर्पयामि । अमात्यपत्नीः स्वधा नमस्तर्पयामि । सर्वान् स्वधा नमस्तर्पयामि । अनुतीर्थम् अप उत्सिञ्चन्ति ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन् तृप्यत तृप्यत इति ॥ नार्द्रवासा नैकवस्त्रो दैवतानि कर्माण्यनुसंचरेत् । पितृसंयुक्तानि चेत्येकेषामेकेषाम् ३
अथातः स्वाध्यायविधिं व्याख्यास्यामः । प्राङ्मुखो वा उदङ्मुखो वा ग्रामान्निष्क्रम्य अप आप्लुत्य यज्ञोपवीत्याचान्तोऽक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्योपस्थानं कृत्वा दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा एष ओषधीनां रसो यद् दर्भाः सरसमेव ब्रह्म करोति द्यावापृथिव्योः सन्धिमीक्षमाणः सम्मील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम् । ॐपूर्वा व्याहृतयः । सावित्रीमन्वाह पच्छोऽर्धर्चशः सर्वामिति तृतीयम् । अथ स्वाध्यायमधीयीत ऋचो यजूँषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीति । यदृचोऽधीते पयसः कूल्या अस्य पितॄन् स्वधा उपक्षरन्ति यद्यजूँषि घृतस्य कूल्या यत्सामानि मध्वः कूल्या यदथर्वाङ्गिरसः सोमस्य कूल्या यद् ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृतस्य कूल्याः । स यावन्मन्येत तावदधीत्यैतया परिदधाति नमो ब्रह्मणे नमो अस्त्वग्रये नमः पृथिव्यै नम ओषधीभ्यो नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि इति । अत ऊर्ध्वं देवयज्ञः सर्वेषामुपदिश्यते । यत्रात्माविरोधेन प्रतिनियतानामोषधीनां कोद्रवचीनराजमाषममूरकुलत्थवरकवर्जं निर्वपाणि यवानां तण्डुलानां प्रातः पत्नीं दद्यात् । स्वयं वाथ श्रपयेत् । सुसंमृष्टगृहद्वारोपलेपनः प्रतिनियतः सायंप्रातः अन्यदावश्यकान् कुर्यात् अग्नये जातवेदसे स्वाहा इत्यग्नौ तूष्णीं द्वितीयम् । उदुत्यं जातवेदसम् इत्यादित्यमुपतिष्ठते । ब्रह्मणे नम इति ब्रह्मस्थले बलिं हरेत् । सोमाय इत्युदकुम्भे वायव इति वास्तुगृहे गृहपतय इति गृहद्वारि प्रजापतय इति गर्गगृहे विश्वेभ्यो देवेभ्यः इति देवगृहे शन्नो देवीः इत्यभ्रिण्यादिक्षु तत्पुरुषेभ्य इति प्रतिदिशं गृहेभ्य इत्यन्तरिक्षे सर्वतः पशूनां पतये नमो देवेभ्य इति प्रागुदीच्यां ब्रह्मस्थले वा स्वधा पितृभ्य इति दक्षिणे निदधाति । अनेन वा पूर्वोक्तेन वासबलिहरणेन वा बलिम् ४
वैश्वदेवं हुत्वा आगोर्दोहमात्रक्षणमाकाङ्क्षे
दतिथीन् । श्रोत्रियो वेदव्रती यतिर्धर्मनैष्ठिकः समानवृत्तिः
मनस्वत्याहुतिस्तस्य प्रायश्चित्तं विधीयते
द्व्यहं त्र्यहं वा विच्छिन्ने प्रमादादकृतेषु च
तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्यजेत्
दशाहं द्वादशाहं वा विच्छिन्नेषु तु सर्वशः
चतस्रोऽभ्यावर्तनीर्हुत्वा कार्यस्तान्तुमतश्चरुः
यस्य स्त्री वानुपेतो वा गृहेष्वग्निबलिं हरेत्
कूश्माण्ड्यस्तत्र होतव्यो हुत्वा यज्ञसमृद्धये
प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते
पञ्चानां महतामेषां स यज्ञैः सह गच्छति
प्रवासे कुरुते चैनान् यदन्नमुपपद्यते
न चेदुत्पद्यते चान्नमद्भिरेना समाविशेत्
अद्भिरेव व्रतं कुर्याद्यथालाभमनुव्रतम्
देवानां देवयज्ञेन द्विजो गच्छति साम्यताम्
पितॄणां पितृयज्ञेन भूतानां यज्ञभूतिकैः
मनोर्मनुष्ययज्ञेन ब्रह्मणो ब्रह्मयज्ञतः
एतेषां साम्यतां गत्वा दैवतानां शतं समाः
आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययम् । इति
अथास्यातिथिर्भवति गुरोः समानवृत्तिर्वैखानसो यदि स्नातको वा राजा वा
धर्मयुक्तः । तेषामभ्युत्थायासनं पाद्यमर्हणमर्ध्यं प्रयच्छति । यास्तत्र ओषधयः सन्ति ता देयाः । अन्यां वा प्रक्रियां प्रकुर्वीत । ओषधिविभागस्तु विभववता कार्यः । अभावे भूमिरुदकं तृणानि कल्या वागिति एतानि वै सतोऽगारे न क्षीयन्ते कदाचन इति । तानेतान् परं ब्रह्मेत्याचक्षते । तेषां ग्रहणे द्वादशरात्रं व्रतं चरेद् अक्षारलवणभोजनम् अधश्शयनं ब्रह्मचर्यम् । त्रिरात्रोपोचित्तः उत्क्षेपणौ परौ गृह्णीयात् । बलिहरणं व्याख्यातम् ५
अथ मधुपर्कं व्याख्यास्यामः । चत्वारि पात्राणि कांस्यतुर्याणि दधि मधु घृतं कूर्चत्रयं च वाससी कुण्डलयुग्मं च दर्भेषु सादयित्वा दर्भैरपिदधाति । तिरःपवित्रं प्रोक्षणीः संस्कृत्येमानि प्रोक्ष्य पवित्रान्तर्हिते पात्रेऽप आनीयोत्पूय अर्हणीयार्थान्नधायैवमेव पाद्यमेवमेवाचमनीयकं कंसे तिरःपवित्रं दधि मधु घृतमानीय पुनराहारं त्रिरुत्पूय मधुपर्कार्थान्निधायाचार्यश्वशुरपितृव्यमातुलस्नातकातिथिराजभ्यो दद्यात् । विवाहे वराय । अथाद्भ्यः कर्मणि च दद्याद् अयं कूर्च इति कूर्चम् । तस्मिन् प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति । अथास्मै कूर्चाभ्यां परिगृह्यार्हणीयं दद्याद् अर्हणीयमुदकम् इति । तदभिमन्त्रयते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदञ्जलिनोऽअसंगृह्य प्राक् सेक्तवा इत्युक्त्वा प्राञ्चं विसृजति । एवमेव पाद्यं दद्यात् पाद्यमुदकम् इति । तदभिमन्त्रयते यशोऽसि यशो मयि धेहि राष्ट्रमसि राष्ट्रं मयि धेहि इति । तेनास्य पादावन्यः प्रक्षाळयति । अवनेक्तुः पाणिं संमृशति मयि महो मयि भर्गो मयि यशः इति । उपस्पृश्य मयीन्द्रियं वीर्यम् इत्यात्मानं प्रत्यभिमृशति । आचमनीयमुदकम् इति । तेनाचामति अमृतोपस्तरणमसि इति । आचम्य अथास्मै मधुपर्कं दद्याद् अयं मधुपर्क इति । तदभिमन्त्रयते स मावतु स मा पातु स मा जुषताम् इति । वाससी कुण्डले च दद्यात् । स्वामा तनूराविश इत्यहतं वासः परिधायैवमासंग्यं कुण्डले च गृह्य यज्ञोपवीतं कृत्वाप आचम्य मधुपर्कं गृह्णाति श्रीरस्येहि मयि श्रयस्व इति । तदङ्गुष्ठेन महानाम्श्य्राचोपसंगृह्यावजिघ्रति ग्राणेमं ते बलिं हरामि श्रैष्ठ्यं म आधिपत्यं गमय इति । अप उपस्पृश्य अङ्गुळीभिः समुदायुत्याचामति प्रियतमो नामासि देवयादुर्मह्यं त्वा श्रियै यशसे गृह्णामि इति । सोमोऽसि सोमपं मा कुरु इति द्वितीयम् । अन्नमस्यन्नादं मा कुरु इति तृतीयम् । पीत्वोच्छिष्टं निधाय अमृतापिधानमसि इत्याचमनीयेनाचम्य उपवीतं गामभिमन्त्रयते जहि मे पाप्मानमुपवेत्तुश्च इति । तामुद्वा सृजत कुरुतेति वा ब्रूयात् । यद्युत्सृजति तामभिमन्त्रयते गौर्धेनुर्भव्या इति द्वाभ्याम् । तस्यामुत्सृष्टायां मेषमजं वालभते । आरण्येन वा मांसेन । न त्वेवामांसोऽर्घ्यः स्यात् । अशक्तौ वा
यवसक्तुमिश्रमोदनं यथालाभं दद्यात् ६
पञ्च यज्ञान् ततः कृत्वा ब्रह्मयज्ञाद्यनुक्रमात्
देवयज्ञं ततः कृत्वा पितृयज्ञं ततः परम्
भूतयज्ञं च कृत्वा तु यज्ञं मानुष्यमेव च
कृत्वैवं पञ्चधा यज्ञान् यथाशास्त्रानुसारतः
गोमयं मण्डलं कृत्वा गृहद्वारे तु देशतः
पतिताय शुनादिभ्यः पिण्डान् सम्यङ् निवेदयेत्
देवविहितां पूजां कृत्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य
क्षत्रियस्य त्रिकोणमुपलिप्य वैश्यस्य वृत्तमुपलिप्य भोजनं कुरुते ।
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशन एव च
मण्डलेनोपजीवन्ति तस्मात् कुर्वीत मण्डलम्
यातुधानाः पिशाचाश्च यक्षराक्षसकिन्नराः
घ्नन्ति वै बलमन्नस्य मण्डलेन विवर्जितम् । इति
वचनात् प्रयत्नतो मण्डलं कृत्वार्द्रपादः प्राङ्मुख उपविश्य भूमौ सव्यं पादं
प्रतिष्ठाप्याधोमुखो वाग्यतः पर्णमयं वा कांस्यमयं वा पात्रं सव्येन हस्तेन संस्पृष्ट्वा स्नेहलवणव्यञ्जनाद्यन्नेनाज्येनाकूरो दातव्यः । ततो भोक्तव्यमित्याहुः । उदक्यादिभिर्न दर्शितमन्नम् । दर्शनमात्रे आ मस्तकादा हृदयाद्वा दक्षिणं पाणिमुद्धरेत् । आज्येनाभिघारयति । अथोदकेन प्रदक्षिणं परिषिञ्चति । ऋतं त्वा सत्येन परिषिञ्चामि इति सायम् । सत्यं त्वर्त्तेन परिषिञ्चामि इति प्रातः । पाणिं प्रक्षाळ्यान्नसूक्तेनान्नमभिमृशति अहमस्मि प्रथमजा ऋतस्य इति दशर्चेन सूक्तेन । अथ अप आचामयति अमृतोपस्तरणमसि इति । अथ प्राणाहुतीर्जुहोति प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा इति प्राणाय । अपाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय अपानाय स्वाहा इत्यपानाय । व्याने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय व्यानाय स्वाहा इति व्यानाय । उदाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय उदानाय स्वाहा इत्युदानाय । समाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय समानाय स्वाहा इति समानाय । प्राणाय स्वाहा अपानाय स्वाहा व्यानाय स्वाहा उदानाय स्वाहा समानाय स्वाहा इति वा । एता आहुतीर्हुत्वा यथाकामं भुङ्क्ते मूलफलादिव्यञ्जनानि न दन्तेन खादेत् पादोद्धृतानि सर्वाणि स्नेहद्रव्याणि व्यञ्जनानि । पुनः पुनः पानेनास्ति दोषः । दध्ना हविर्मिश्रेन त्रिवृतान्नेन यथाकर्म हुत्वाथाप आचम्य अमृतापिधानमसि इत्याचान्तः पुनराचम्य प्राणानां ग्रन्थिरसि स मा विस्रस इति नाभिदेशमभिमृशति । एवं भोजने भोजने कुर्वन् अहोरात्रोपवासफलमश्नुते । यदि शयनमिच्छेन्नोदक्च्छिरा न वंशवशो न द्वाराय पादाभ्यां न पर्वणे नोत्सवेषु न भसि च न ग्रहायतनभूतायतनाग्न्यायतनेषु न नग्नो नाशुचिः न सन्ध्ययोर्न विशीर्नखट्वायां न श्मशानायतनमहावृक्षच्छायासु नान्यत् प्रमादमस्तीति मन्यते । प्राक्च्छिरा दक्षिणशिरा वा संविशेदिति ७
अथापराह्णे ताम्रमयं वा मृण्मयं वा कमण्डलुमादाय ग्रामात् प्राचीमुदिचीं वा दिशमुपनिष्क्रम्य तीर्थे गत्वोदकं गृहीत्वा शुचौ देशे शौचार्थे मृदं परिगृह्य नसिक्तं नपुरीषं नोषरं नवल्मीकं नशर्करामिश्रं नशाड्वलमिश्रं कर्णस्थब्रह्ममूत्रः पवित्रमसि इति तृणैरवकीर्य तेषु मूत्रपुरीषं विसृजति । न चित्यां न नद्यां न शाड्वलोपवनदिव्यच्छायासु न पथि न भस्मनि न क्षेत्रमध्ये कृष्णे न गोमये न श्मशानमहावृक्षवल्मीकच्छायासु । दिवासन्ध्ययोरुदङ्मुखः रात्रौ चेद् दक्षिणामुखः । शिश्नं गृहीत्वोत्थाय यथा गन्धलेपक्षयकरं तथातन्द्रितः शौचं कुर्यात् । एकया च कमण्डलुमुपस्पृश्य प्रक्षाळ्य पाणिपादौ चाचम्य ॐकारं मनसा ध्यात्वा शुचिर्भवेत् । अथास्तंगतेऽर्के अद्भिर्मार्जयते दधिक्राविष्णोऽकारिपम् इति । अथापोऽश्नाति अग्निश्च मा मन्युश्च इत्येतेनानुवाकेन । अप आचम्याद्भिर्मार्जयते आपो हि ष्ठा मयोभुव इति तिसृभिः । तूष्णीं प्रदक्षिणमुदकेन प्रवर्तयेत् । अथाञ्जलिनोदकमादायोत्थायादित्याभिमुखस्तिष्टन् प्रणवेन व्याहृतीभिः सह गायत्र्याभिमन्त्र्य त्रिरूर्ध्वं प्रक्षिपेत् । ततः प्रदक्षिणं कुर्यात् । अथोपविश्याद्भिस्तर्पयते धातारं तर्पयामि । अर्यम्णं तर्पयामि । मित्रं तर्पयामि । वरुणं तर्पयामि । अंशुमन्तं तर्पयामि । भगं तर्पयामि । इन्द्रं तर्पयामि । विवस्वन्तं तर्पयामि । पूषणं तर्पयामि । पर्जन्यं तर्पयामि । त्वष्टारं तर्पयामि । विष्णुं तर्पयामि इति । अथोदकसमीपे दर्भैरवकीर्योपविश्य पवित्रपाणिः प्रत्यङ्मुख उपविश्य गायत्रीं मनसावाहयेत् । आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरॐ गायत्रीमावाहयामि । सावित्रीमावाहयामि । सरस्वतीमावाहयामि । इत्यावाह्य ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इत्येतमनुवाकं त्रिरभ्यस्य त्रीन् प्राणायामान् धारयित्वा नक्षत्राणामुदयात् पूर्वं प्रणवेन व्याहृतीभिः सह सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वो वा दशावरं वा । अथ देवीमुद्वासयेत् उत्तमे शिखरे इति । अथोत्थाय वारुणीं दिशमुपतिष्ठते यच्चिद्धि ते विशो यथा इति तिसृभिः इमं मे वरुण श्रुधी हवम् इति द्वाभ्याम् । दक्षिणं बाहुमनुपर्यावृत्य दक्षिणां दिशमुपतिष्ठते यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । इति । एवमेव उत्तरां दिशमुपतिष्ठते ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः । इति । एवमेव पर्यावृत्य प्रत्यङ्मुखः स्थित्वा यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति इति मुखमभिमृशति । पिशङ्गभृष्टिमंभृणं पिशाचमिन्द्र संवृणु । सर्वं रक्षो निबर्हय इति स्कन्धमभिमृशति । त्रीणि प्रदक्षिणानि कृत्वाभिवादनं करोति । एवं प्रातःसन्ध्यामुपास्यापोशनकाले सूर्यश्च मामन्युश्च इत्येतेनानुवाकेनाभिमन्त्र्य प्राश्नाति । प्राङ्मुखस्तिष्ठन् सावित्रीं जपेत् । प्राचीं दिशमुपतिष्ठते मित्रस्य चर्षणीधृत इति तिसृभिः । प्रसिद्धं स्नानं कृत्वा मध्याह्ने सन्ध्यामुपास्य आपः पुनन्तु पृथिवीम् इत्यपोऽश्नाति । अथोदकमादाय आ सत्येन इत्यभिमन्त्र्योर्ध्वं प्रक्षिप्यादित्यमुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रम् इति तिसृभिः तच्चक्षुर्देवहितं य उदगात् इति द्वाभ्यां च । दिशोपस्थानमेव । स्नानविधियुक्तेन वा सन्तिष्ठते सन्ध्योपासनः सन्तिष्ठते इति ८
अथातआचमनविधिंव्याख्यास्यामः अथहस्तपादौप्रक्षाळ्य अग्निः प्रजापतिः अथातःस्वाध्यायविधिं वैश्वदेवंहुत्वा अथमधुपर्कंव्याख्यास्यामः पञ्चयज्ञान् अथापराह्णे अष्टौ
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः

पुनरुपनयनं व्याख्यास्यामः । अगुरोरुच्छिष्टभक्षी मधुमांसभक्षी भवति । सन्ध्याकार्य उदकुम्भेऽग्निकार्ये चिरलोपी भवति । अगुरोः स्प्रेतमनुगच्छेद् दहेद्वा । उभयत्र दशाहानि कुलान्यन्नवेजञ्च ब्रह्मचर्यक्षतिर्भवति । एतैश्चान्यैश्च निमित्तानि भवन्ति चेत् पूर्वपक्षे पुण्ये नक्षत्रे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य यमनियमयन्त्रैः व्रतोपवासैश्च प्रायश्चित्तं कृत्वा अग्निमुपसमाधाय सम्परिस्तीर्या दण्डप्रदानात् पूर्ववदुपनयनं कृत्वा सावित्रीं
वाचयति
भिक्षां न कुर्वन्नश्नाति न च श्मश्रूणि वापनम्
शिरोमुण्डं न कुर्वन्न वाससः परिधापनम्
नालङ्कारं ततः कुर्वन् ब्रह्मसूत्रस्य धारणम्
मेखलाधारणं चैव न चैवाम्बरधारणम्
न चाभिमन्त्रणं कुर्वन् नाजिनस्य च धारणम्
न प्रदानं च दण्डस्य न भैक्षाचरणं तथा
वाससो ग्रहणं नास्ति व्रतोपनयनं तथा
एवं हि विधिवत् कृत्वा पूतो भवति मानवः
पुनःसंस्कारं कृत्वा पूतो भवति । तदहरेव सावित्रीव्रतं कृत्वा तदहरेव
विसृजेद् इत्याह १
यः पाणिग्रहादिरग्निस्तमौपासन इत्याचक्षते । तस्मिन् गृह्णाणि कर्माणि क्रियन्ते । तस्यौपासनेनाग्निहोत्रित्वं यथा पार्वणेन चरूणां दर्शपूर्णमासयाजित्वम् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः । उपवासश्चानुगते भार्यायाः पत्युर्वा । एताश्चाहुतीर्जुहुयात् मित्राय स्वाहा वरुणाय स्वाहा सोमाय स्वाहा सूर्याय स्वाहा अग्नये स्वाहा अग्नये तपस्वते जनद्वते पावकवते स्वाहा अग्नये शुचये स्वाहा अग्नये ज्योतिष्मते स्वाहा अग्नये व्रतपतये स्वाहा इति व्याहृतीभिर्विहृताभिः समस्ताभिश्च । अथ यदि द्व्यहं त्र्यहं वा सायंप्रातर्विच्छिन्नो भवति अग्नये तन्तुमते जुहुयात् । यदि स्थालीपाकस्यातिपातनं भवति अग्नये पथिकृते अग्नये वैश्वानराय वा जुहुयात् । अस्यापि व्याख्यातावाग्रयणपिण्डपितृयज्ञौ । द्वादशाहानि विच्छिन्नः पुनराधेयः प्रतिसंख्याय वा होमान् जुहुयात् । पुनराधानं वक्ष्यामः । परिश्रिते उद्धत्यावोक्ष्य सिकतोपोप्त उदुम्बरशाखाभिः प्लक्षशाखाभिः पालाशशाखाभिर्वा प्रच्छाद्य याज्ञिकात् काष्ठादग्निं मथित्वा श्रोत्रियागाराद्वाहृत्य सते कृत्वा प्रज्वलयित्वा शाखाम् अपोह्य ॐ भूर्भुवःस्वरॐ प्रतिष्ठ इति न्युप्योपसमादधाति । व्याहृतिपर्यन्तं कृत्वा तिस्रस्तन्तुमतीर्जुहोति तन्तुं तन्वन् उद्बुध्यस्वाग्ने त्रयस्त्रिँशत्तन्तवः इति । अथ चतस्रोऽभ्यावर्तनीर्जुहोति अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति । एतां प्राजापत्यां मनस्वतीं साप्तपतीं च हुत्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इति । प्रायश्चित्तीयां जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा घृतोऽयसा हव्यमूहिषे अयानो धेहि भेषजं स्वाहा इति । दशहोतारं मनसानुद्रुत्य सगृहं हुत्वा इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा प्रसिद्ध आग्नेयः स्थालीपाकः । अत्र गुरवे वरं ददाति वाससी धेनुमनड्वाहं वा । यदि प्रवसेद् ॐ भूर्भुवःस्वः इति उपस्थाय प्रवसेत् । यदि प्रयायाद् व्याख्यातमात्मन्यरण्योः समारोपणमुपावरोहणं च । समिधि वा समारोपनमुपावरोहणं च । समिधि वा समारोपयेदरणीकल्पेन । यत्र वासस्तस्मिन् श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य यस्यां समारूढतामादधाति । व्याख्यातो होमकल्पः । २
अथ गृहस्थस्य द्वे भार्ये । अग्निमुपसमाधाय संपरिस्तीर्याज्यं बिलाप्य उत्पूय स्रुक्स्रुवौ निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वान्वारब्धायां पत्न्यां यजमानो जुहोति नमस्तर्षे गद । अव्यवायै त्वा स्वधायै त्वा । मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवा ब्रह्मन् तवेदस्तु स्वाहा इति । अथैनमग्निं समारोपयते अयं ते योनिरृत्विय इति । समारोप्य पूर्वाग्नौ समिधमाधाय आजुह्वानः उद्बुध्यस्व इति द्वाभ्यां संपरिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवौ निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वान्वारब्धयोः पत्न्योः यजमानो जुहोति यो ब्रह्मा ब्रह्मण उज्जहार इत्येतेन सूक्तेनैकैकशश्चतुर्गृहीतं गृहीत्वा । आ प्रणीताभ्यः कृत्वा चतुश्शरावमोदनं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति । समितं संकल्पेथाम् इति पुरोनुवाक्यामनूच्य अग्ने पुरीष्याधिपा भवा त्वन्न इति याज्यया जुहोति । अधाज्याहुतीरुपजुहोति पुरीष्यस्त्वमग्ने इत्यान्तादनुवाकस्य । स्विष्टकृत् प्रभृति सिद्धमा धेनुवरप्रदानात् । सन्तिष्ठते औपासनतन्त्रः सन्तिष्ठते औपासनतन्त्रः ३
अथ गृह्यप्रायश्चित्तानि जुहोति अनुगतेऽग्नौ कालातिक्रमे होमयोः दर्शपूर्णमासयोश्च आग्रयणमकृत्वा नवान्नप्राशनेऽकृतसीमन्तायां प्रसूतायां भार्यायां स्त्रीषु गोषु च यमळजनने परागमने रजस्वलागमने दिवामैथुने कुमारस्याजातसंस्कारे मन्त्रविपर्यासे कर्मविपर्यासे ब्रह्मचारिणो व्रतविपर्यासे मेखलाच्छेदने दण्डभिन्ने यज्ञोपवीतस्याधारणे सन्ध्यालोपे अग्निकार्यलोपे उदकुम्भलोपे इत्येतैश्चान्यैश्च कल्पदृष्टमग्निमुपसमाधाय संपरिस्तीर्य घृतं चतुर्गृहीतं गृहीत्वा पाहि नो अग्न एनसे स्वाहा इति । पुरस्ताच्चोपरिष्टाच्च महाव्याहृतीभिर्हुत्वा एतदेवास्य प्रायश्चित्तमविच्छिन्नकरणं सन्ततं भवतीति । उपनयनाग्निर्विवाहाग्निः सूतकाग्निः श्मशानाग्निरा चतुरहादा दशाहादा सञ्चयनादुद्वातः स्यात् अपहता असुरा रक्षाँसि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः इत्यद्भिरवोक्ष्य क्षिप्रं भस्मसमारोपणम् । अयं ते योनिरृत्विय इति श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य परिषिच्य प्रायश्चित्तं जुहोति अयाश्चाग्नेः पञ्चहोतारं ब्राह्मण एकहोतारं मनस्वतीमिन्दाहुतीव्याहृतीभिः । अथापिवा चतुरहःसद्यस्कालं ब्रह्मचर्यं विच्छिनत्ति सारस्वतेन होमेन मनस्वतीमिन्दाहुतीमहाव्याहृतीनां सप्रणवं जुहुयात् ४
अथ ब्रह्मचार्यवकीर्णी भवति योऽयोनौ रेतःपातेन वा सन्ध्यालोपेन वोदकुम्भलोपेनाग्निकार्यलोपेन वा । अन्यानि निमित्तानि भवन्ति चेच्छुक्लमनार्द्रमाच्छाद्य कृतोपवासः कृतनियमयन्त्रोऽमावास्यायां रात्र्यामग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा द्विराज्यस्योपघातं जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहा इति । पुनर्मामैत्विन्द्रियम् इत्येतमनुवाकमष्टशतमाज्यस्य जुहुयात् । यद्देवा देवहेळनम् इत्येतमनुवाकं प्रत्यृचमाज्यस्य जुहुयात् । वारुण्यादिजयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । अथ स्वप्ने शुक्लं पतेद् वासांसि विसृज्यान्यत् परिदधाति । उपव्युषसि ग्रामात् प्राचीमुदीचीं दिशमुपनिष्क्रम्य
नदीषु स्नायात् ।
समुद्रगानदीस्नानात् त्रिरात्रं फलमश्नुते
समुद्रगानदीस्नानात् पक्षोपोषणमेव च
सरित्पतेस्त्वमावास्यामनन्तमयने विषौ
इत्येवं स्नानं यथाविधि तथा करोति । पुनर्मामैत्विन्द्रियम् इत्येतेनानुवा
केन जप्त्वा पूतो भवतीत्याह भगवानाग्निवेश्यः ५
अथर्तुस्नानाद् भर्तुर्मुखे नान्वीक्षमाणा प्रयत्नाद्वाहर्मुखं दर्शयेत् न तदहः संवेशनं कुर्यात् । यदि
संवेशयेत्
तदहर्जायते पुत्रः सोऽल्पायुर्धनवर्जितः
पञ्चम्यां तु श्रमेद्या वा वन्ध्यां नारीं प्रसूयते
षष्ठ्यां तु या श्रमेत् साध्वी पुत्रपौत्रवती भवेत्
सप्तम्यां तु तथा नारी अष्टम्यां षण्मुखोपमः
परिप्रिया नवम्यां तु दशम्यामुत्तमः सुतः
एकादश्यां तु दुष्टात्मा द्वादश्यां तु धनेश्वरः
त्रयोदश्यां तु दौर्भाग्या चतुर्दश्यघवान् सुतः
लभेत् पतिव्रतां नारीं पञ्चदश्यां तथैव च
षोडश्यां लभते पुत्रं ब्रह्मकीर्त्तिं नतादृशम्
तदूर्ध्वोपयमं नास्ति कामभोगैव केवलम्
तस्मात् सर्वप्रयत्नेन षोडश्यन्तं प्रतिश्रमेत्
शुक्लोत्कर्षे लभेत् पुत्रं शोणितस्य स्रियं लभेत्
निन्दितेऽहनि संवेशं न कुर्यात्तु प्रयत्नतः
यदि प्रमादात् कुर्याच्चेज्जपेत् तां वैष्णवीमृचम्
केशवादीनि नामानि जपेत्तु विविधानि च
अग्न्यगारे ततो गत्वा हुत्वा पूर्णाहुतिं ततः
एवं जन्मत्रयं वापि श्रवणं च न संविशेत्
पर्वद्वये च तत्कुर्यात् श्राद्धं दत्त्वा न वाहनि
सोमवारेऽर्कवारे च भौमवारे शनैश्चरे
विषुवे अयने चैव व्यतीपाते च सङ्क्रमे
एतान्यन्यानि निन्द्यानि दिवसानि न संविशेत्
विष्टिरष्टम्यथान्ये च पक्षच्छिद्रास्तथैव च
षोडशे द्वादशे वापि पञ्चदश्यां तथैव च
चतुर्दश्यां नवम्यां च षष्ठ्यामष्टम एव च
एतान्यन्यतमं वीक्ष्य शौचं कुर्याद्यथोदितम्
अभिवीक्ष्य सुनक्षत्रं पुण्यं चैव ग्रहोदयम्
प्रक्षाळ्य पाणिपादौ द्वावाचम्य मनसा हरिम्
ध्यात्वा नारायणं देवं शङ्खचक्रगदाधरम्
अस्या दक्षिणहस्तेन भगं चैव प्रदर्शयेत्
शिवेन त्वाभिमृशामीति शिश्नं योनौ प्रवेशयेत्
एकया ऋषभेणेति ऋचा सम्यगनीक्षणः
यथा रत्यन्तं कृत्वा तथा शौचं कृत्वा पश्चाज्जपेदृचः सम्यक् आते योनिम्
इति । य एवं ज्ञात्वाभिमृशति स सत्पुत्रं लभते बुधः । एवमेव मासि मासि ऋतुवेळायां कृत्वा पुत्रं चारुबुद्धिमन्तं बलिष्टं लभते बलिष्ठं लभत इत्याह
भगवानाग्निवेश्यः ६
ब्रह्मकूर्चं प्रवक्ष्यामि कायशोधनमुत्तमम्
वेदादिजयहोमं च मन्त्रहीनमसंस्कृतम्
शुद्रान्नभोजने चैव वेदानां विक्रयेषु च
काकश्वानावलीढे चोत्कण्ठके मृगपक्षिणाम्
पञ्चमम्लेच्छसंस्पर्शे पञ्चगव्यं विशोधनम्
नीलवर्ण्यास्तु गोमूत्रं कृष्णागोमयमुद्धरेत्
ताम्रवर्णीपयश्चैव श्वेताया दधिरेव च
कपिलाया घृतं ग्राह्यं महापातकनाशनम्
अलाभे सर्ववर्णानां कपिलादेकात्तु ग्राह्यकम्
गोमूत्रैकपलं दद्यादङ्गुष्ठार्धं तु गोमयम्
क्षीरं सप्तपलं दद्याद् दधि त्रिपलमेव च
घृतमेकपलं दद्यात् तथैव च कुशोदकम्
सावित्र्या ग्राह्य गोमूत्रं गन्धद्वारेति गोमयम्
आप्यायस्वेति च क्षीरं दधिक्राव्ण्ण इति वै दधि
आज्यं शुक्रमसीत्येवं देवस्य त्वा कुशोदकम्
आपो हि ष्ठा मयोभुव इत्यालोड्य मा नस्तोके
इत्यभिमन्त्र्य प्रणवेनोद्धृत्य प्रणवेन निर्मथ्य प्रणवेनैव पिबेत् । अग्नये सोमाय
इरावती इदं विष्णुर्विचक्रमे मा नस्तोके प्रजापते गायत्रीं च हुत्वा मध्यमेन
पलाशपर्णेन पद्मपत्रेण तत् पिबेत्
यत् त्वगस्थिगतं पापं देहे निष्ठति मामके
ब्रह्मकूर्चोदकात् सर्वे दहत्यग्निरिवेन्धनम् । इति ७
अथातो नैमित्तिकानि प्रायश्चित्तानि व्याख्यास्यामः । सर्वत्र वैष्णवर्चं जपेत्
विष्णोर्नुकं वीर्याणि प्रवोचम् इति । अथ कर्मान्तरे यदि क्षुधेद्वा निष्ठीवेद्वा सहस्रशीर्षा पुरुष इति जपति । अप उपस्पृश्याङ्गुष्ठानामिकाभ्यां दक्षिणकर्णमुपस्पृशेत् यदि मूत्रं कुर्यात् पादौ प्रक्षाळ्याचम्य ॐकारं मनसा ध्यात्वा शुचिर्भूत्वा पुरुष एवेदँ सर्वम् इति द्वे ऋचौ जपेत् । यदि मेहेत् पूर्ववच्छौचं कृत्वा त्रिपादूर्ध्व उदैत्पुरुष इति तिस्र ऋचो जपेत् । यद्यशुचिस्पर्शे शुद्धजलाशये स्नात्वाम आचम्य तस्माद्यज्ञात्सर्वहुत इति चतस्र ऋचो जपेत् । यदि चण्डालपतितादिदर्शे अप आचम्य आदित्यमभिवीक्ष्य ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याँ शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत इति तिस्र ऋचो जपेत् । यदि होमो मध्ये विच्छिन्नः स्याद् वेदाहमेतं पुरुषं महान्तम् इति तिस्र ऋचो जपेत् । द्वे मिन्दाहुती हुत्वा पुनः शेषं समापयेत् । यदि पात्राणि शुनाद्यवलीढे दारुमयान्यग्नौ प्रक्षिपेत् मृण्मयानि चाप्सु प्रक्षिपेत् लोहमयानि भस्मना शुध्यन्ति । अन्यानि नवानि पात्राणि संगृह्य विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इति द्वे ऋचौ जपेत् । यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने इति षडाहुतीर्जुहुयात् । यद्यग्निमुदक्याद्यवलीढे अग्निमुद्वास्य पूर्ववत् शौचं कृत्वा अग्निं मथित्वा लौकिकं वाहृत्य स्रुक्स्रुवौ निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुतिं हुत्वा पूर्ववत् संस्कारं करोति । यद्यरण्यशुचिर्भवेद् अन्यामाहृत्यैव चतुर्गृहीतं गृहीत्वा पुरुषसूक्तेन मनसानुद्रुत्य जुहोति । यदि सूतको मृतको भवेत् तन्मध्ये होमं न करोति स्थालीपाकं च तान्याहानि । व्यतीपाते तद्द्रव्यं ब्राह्मणाय ददातीत्याह भगवानाग्निवेश्यः ८
अथातो गृह्याणि प्रायश्चित्तानि स्मर्यन्ते तानि वक्ष्यामः । शेषाणि वैतानिकानि । य आहिताग्नेर्धर्मस्स धर्मो य आहिताग्नेः लोकस्स औषासनिकस्य इति शाट्यायनीयं ब्राह्मणं भवति । तत्र ये पुरोडाशास्त इह चरवः । पयोदधिपृषदाज्यानाम् आज्यवत् संस्कारो न दध्नोऽधिश्रयणं प्रत्यसनं प्रतिवेषणम् अग्नि रौद्रराक्षसपैतृकनैरृतच्छेदनभेदननिरसनात्माभिमर्शनानि च कृत्वा अप उपस्पृशेत् । सर्वत्र स्कन्ने भिन्ने क्षामे दग्धे विपर्यासेऽन्तरिते च द्वे मिन्दाहुती जुहुयात् यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदाद् इति । स्कन्ने सन्त्वा सिञ्चामि इति स्कन्नमभिमन्त्र्यापोह्यावसिच्य भूः इत्युपस्थाय अस्कान्द्यौः पृथिवीम् इति द्वे आहुती जुहुयात् । आज्यं चेद् देवाञ्जनवनस्पतिमंहस इति चानुमन्त्र्य किञ्चिच्च दद्यात् । अथ भिन्ने भूमिर्भूम्ना इति भिन्नमभिमन्त्र्य उन्नम्भय पृथिवीम् इत्यपोह्यावसिच्य त्रयस्त्रिंशत्तन्तव इत्येतया जुहुयात् । अग्नौ प्रक्षिपेद् दारुमयाणि । अथ क्षामे निरृत्यै त्वा इति दग्धमभिमन्त्र्य किञ्चित् त्वं पराची त्वमवाची त्वं रक्षाँसि गच्छ इति दक्षिणापरमुत्तरापरं वा दिशं प्रतिनिरस्य अग्नी रक्षाँसि सेधति इति तिस्र आज्याहुतीर्जुहुयात् । हविषामभिगमनस्यैकदेशं चेदुद्धृत्य तत्कृत्वैतया जुहुयात् । एतेनाशृतदुःशृतौ व्याख्यातौ । अपोऽभ्यवहरेत् । रुद्राय त्वा इत्यश्रृतमभिमन्त्र्य यमाय त्वा इति दुःशृतमथ परिस्तरणदाहे अग्नये क्षामवते नमो नमः क्षामवन्मा मा हिंसीः मा मे गृहं मा मे धनं मा मे पशून् इत्यभिमन्त्र्य अग्नये क्षामवते स्वाहा इति जुहुयात् । इन्द्रं वो विश्वतस्परि इति पुनः परिस्तिर्य इन्द्राय स्वाहा इति जुहुयात् । अथ परिधिदाहे प्रदाव्यायाग्नये नमो नमः प्रदाव्याय इति । समानमत ऊर्ध्वम् अग्नेः समिदसि इति पश्चार्धं यमस्य समिदसि इति दक्षिणार्धम् सोमस्य समिदसि इत्युत्तरार्धम् । इन्धानास्त्वा शतं हि मा इति द्वे आहुती जुहुयात् । जुष्टेऽन्यं परिदध्यात् गन्धर्वोऽसि इति प्रतिमन्त्रम् । अथ विपर्यासे त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते इति चतस्र आहुतीर्जुहुयात् । एता एवान्तरिते मनो ज्योतिः पञ्चमीमन्तरितं च कुर्यात् । संस्थिते चेत् किञ्चिच्च दद्यात् । उत्तरस्मिन् काल आगते होमश्चेद् अनिवृत्तः पूर्वस्य सेयं कालातिपत्तिस्तस्यां प्रायश्चित्तं मनो ज्योतिः इति पूर्वस्य जुहुयात् । तथापरस्य जुहुयात् । एवं प्रतिहोमम् आ दशरात्रात् प्राणायामः । एकादशीप्रभृत्या विंशतिरात्रादुपवासस्त्रिंशद्रात्रादत ऊर्ध्वं प्राजापत्यं विहितम् । एकादशीप्रभृति तिस्रस्तन्तुमतीर्द्वादशाहानि विच्छिन्नः पुनराधेय इत्युक्तमेवं वा । अथ पर्वण्यतीते मनो ज्योतिः अयाश्चाग्ने यदस्मिन् स्वस्ति न इन्द्र इति चतस्र आहुतीर्हुत्वाग्नये पथिकृते स्थालीपाकं कुर्यात् प्रागष्टमात् । अत ऊर्ध्वं सोपवासः कार्यः द्वे त्रिषु च तिस्र इत्येवमतीतेषु प्रायश्चित्तं पार्वणवद्धोमः पितृयज्ञेऽतीते पक्षद्वये चोपवासः कार्य इति सिद्धम् । अथ महायज्ञानाम् एकस्मिन्नहनि मनो ज्योतिः इति द्वयोस्त्रिषु चतुर्षु पञ्चसु वा षट्सु प्रभृतीति तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेत् इमं मे वरुण तत्त्वा यामि यत्किञ्च अव ते हेड इत्या नवरात्रात् । अत ऊर्ध्वमा दशरात्राच्चतस्रोऽभ्यावर्तिनीर्जुहुयात् । सर्वेषामन्ततो व्याहृतीभिरिति सिद्धम् ९
अत ऊर्ध्वं वानप्रस्थविधिं व्याख्यास्यामः । अनवद्यं गृहधर्मं चरित्वा यज्ञान् यजति । पुत्रमुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विधाय गुणवति पुत्रे कुडुम्बभारं नियोज्य उत्तरायणे पूर्वपक्षे पुण्ये नक्षत्रे कुशचीरचर्मवल्कलवासा जटी कृष्णाजिनोत्तरीयः कृतप्रस्थानलिङ्गोऽग्निमात्मसमारोपणं कृत्वा सपत्नीको वाप्यपत्नीको वा वनमाश्रयेत् । श्रमणमग्निमाधाय वेणुश्यामाकनीवारादिभिरारण्यमूलफलैरोषधीभिः सायंप्रातरग्निं परिचरेत् । फालाकृष्टाभिः देवब्राह्मणपितृभूतमनुष्ययज्ञानहरहर्हुत्वारण्योर्वा काले शक्तितः शरीरं परिशोषयेद् यमनियममन्त्रोपवासादिभिः । जीर्णपर्णाहारः दन्तोलूखलिकः शैलकुट्टो ये काल आगच्छेयुस्तेभ्योऽपि दद्यात् । स्थण्डिलशायी ऊर्ध्वरेताः अतिथिप्रियः अमत्सरी विवादपैशुन्यमृषावादवजीं सदाशुचिः ग्रामस्य छदिं न दर्शेदरण्यवासग्नियोऽभयदायी सर्वभूतानां परैरभिमृष्टान्याश्रमान्तरहितानि नाभ्यवहरेदेकाग्निपरायणः अप्रमादी सबीजां प्रोषितां भूमिं नाक्रमेत् । तपोधिकाय यज्ञाधिकाय वयोधिकाय फलोदकं दद्यात् । एवं मृगैः सह चरित्वापरिस्पन्द्यसहवासी स्वकालं व्यपोह्य स्वर्गलोकं गमिष्यतीति । अथवा तृतीयमायुर्भागं वानप्रस्थव्रतं चरित्वा चतुर्थमायुर्भागं परिव्रजेद्वा १०
अथातः संन्यासविधिं व्याख्यास्यामः । उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पूर्वकालमुपोष्य संभारानुपकल्पयते । कापायवाससी प्लक्षपवित्रपादुकासनवैणवदण्डशिक्यकमण्डल्वलावुपात्रं कुशबन्धमित्येवमादिसंभारानुपकल्पयते । अग्निमारोप्य वनाद् ग्रामं प्रविश्य केशश्मश्रूणि वापयित्वा नदीषु स्नायात् शुद्धे जलाशये वा । अप आचम्य नदीतीरे देवगृहे वा ब्राह्मणानभिगम्याक्रोधनोऽद्वेषणः सर्वकर्माणि संन्यसेत् । न वेद संन्यसेत् । वेदसंन्यासाच्छूद्रो भवति । तस्माद् वेदं न संन्यसेत् । ब्राह्मणसन्निधौ मन्त्रमुक्त्वापः पिबेत् संन्यस्तं मया इति । गृहस्थेनोपनीतान् वैणवान्तान् संभारान् परिगृह्य सवितृमण्डलमुद्वीक्षमाणः संन्यस्तं मया इति त्रिरुचैः प्रब्रूयात् । अथ ब्राह्मणं निवीतं बहुयाजिनमभिगम्य दण्डान्दातवा इत्युक्त्वा दण्डान् परिगृह्य कृतनामानिकृतोऽनुज्ञातो यतेर्धर्मान् सम्यक् परिचरेत् नित्यशिखी नित्ययज्ञोपवीती नित्यसन्ध्योपासी नित्यप्रातःस्नायी नित्यं भैक्षाशी नित्यं यमनियमयन्त्रव्रतोपवासी नित्यमीश्ररोपासी नित्यं गोदेवगृहवासी अपगतभयकामक्रोधलोभमोहमदमात्सर्यः इति । एवमादिधर्मं चरित्वा स्वर्गलोकं गमिष्यति । अथवा ब्राह्मणेषु क्षीयमाणेषु पूर्ववच्छौचं कृत्वा सर्वकर्माणि संन्यस्य प्रैषणमपोऽश्नाति । ईश्वरमेवोपास्य पूतो भवतीत्याह भगवानाग्निवेश्यः ११
पुनरुपनयनंव्याख्यास्यामः यःपाणिग्रहादिरग्निः अथगृहस्थस्यद्वेभार्ये अथगृह्यप्रायश्चित्तानिजुहोति अथब्रह्मचार्यवकीर्णी भवति अथर्तुस्नानात् ब्रह्मकूर्चं प्रवक्ष्यामि अथातोनैमित्तिकानि अथातोगृह्याणिप्रायश्चित्तानि
अतऊर्ध्वंवानप्रस्थविधिम् अथातःसंन्यासविधिम् एकादश ।
इत्याग्निवेश्यगृह्यसूत्रे द्वितीयप्रश्ने सप्तमोऽध्यायः
द्वितीयः प्रश्नः समाप्तः