अथ तृतीयः प्रश्नः

प्रथमोऽध्यायः

अमावास्यायामपराह्णे मासिकम् अपरपक्षस्य वायुक्ष्वहस्सु पितृभ्योऽन्नं संस्कृत्य दक्षिणाग्रान् दर्भानासनानि कल्पयित्वा ब्राह्मणान् शुचीन् मन्त्रवतः समाङ्गानयुग्मानामन्त्रयते । योनिगोत्रमन्त्रसम्बन्धान् अर्थापेक्षो न भोजयेत् । अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य एकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य संस्कृत्य ततः अपसव्यं परिषिञ्चति । औदुम्बरमिध्ममभ्याधाय औदुम्बर्या दर्व्या जुहोति । आज्यभागान्तं कृत्वा प्राचीनावीती पितॄनावाहयति आयात पितरः सौम्या गम्भीरैः पथिभिः पूर्व्यैः प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च इति । एतामेव दिशमभ्यपः प्रसिञ्चति आपो देवीः प्रहिणुताग्निमेते यज्ञं पितरो नो जुषन्ताम् । आसीनामूर्जमुत ये भजन्ते ते नो रयिं सर्ववीरान् नियच्छतात् इति । व्याहृतिपर्यन्तं कृत्वा प्राचीनावीती जुहोति सोमाय पितृमते स्वधा नमः स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । याः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य भर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः स्वाहा । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः स्वाहा । अन्तर्दध ऋतुभिः सर्वैरहोरात्रैः ससन्धिभिः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमः स्वाहा । अथ नामधेयैर्जुहोति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इति । यन्मे माता प्रलुलोभ चरत्यननुव्रता तन्मे रेतः पिता वृङ्क्तामाभुरन्योऽवपद्यतां स्वधा नमः स्वाहा । एवं द्वितीयम् । तथा तृतीयम् । यन्मे पितामही यन्मे प्रपितामही इति मन्त्रं सन्नमति १
ये चेह पितरो ये च नेह याँश्च विद्म याँ उच न प्रविद्य । अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रत्तं स्वधया मदन्ति कामैः स्वधा नमः स्वाहा । यद्वः क्रव्यादङ्गमदहल्लोकाननयन् प्रणयन् जातवेदाः । तद्वोऽहं पुनरावेदयाम्यरिष्टाः सर्वैरङ्गैः संभवन्तु पितरः स्वधा नमः स्वाहा । वहाज्यं जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । आज्यमस्य कूल्या उप तां क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः स्वाहा । एवं द्वितीयं तथा तृतीयम् । पितामहेभ्यः प्रपितामहेभ्य इति मन्त्रं सन्नमति । एवमन्नस्य जुहोति । वहान्नम् इति मन्त्रं सन्नमति । अथ सौविष्टकृतीं जुहोति अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति । दक्षिणार्धपूर्वार्धे हुत्वानुप्रहृत्य दर्वीमथान्नमभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिन् लोके पृथिवीं समन्तस्समेऽग्निरुपद्रष्टा दत्तस्याप्रमादाय ऋचस्ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोकेऽन्तरिक्षं समन्तस्समे वायुरुपश्रोता दत्तस्याप्रमादाय यजूँषि ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके द्यौः समन्तस्समे आदित्योऽनुख्याता दत्तस्याप्रमादाय सामानि ते महिमा इति । ब्राह्मणानुपस्पर्शयति । भुक्तवतोऽनुवृत्त्या शेषम् अनुज्ञाप्य २
उदकुम्भं दर्भमुष्टिं चादाय दक्षिणाग्रान् दर्भान् परिस्तीर्य तेष्ववाचीनपाणिर्दक्षिणापवर्गांस्त्रीनुदपात्रानुपरि निनयति मार्जयन्तां पितरः सौम्यासः मार्जयन्तां पितामहाः सौम्यासः मार्जयन्तां प्रपितामहाः सौम्यासः इति । असाववनेनिङ्क्ष्व असाववनेनिङ्क्ष्व इति वा तेष्ववाचीनपाणिर्दक्षिणापवर्गान् त्रीन् पिण्डान् ददाति । एतत्ते तत असौ इति पित्रे पिण्डं ददाति एतत्ते पितामह असौ इति पितामहाय एतत्ते प्रपितामह असौ इति प्रपितामहाय । तूष्णीं चतुर्थम् । स कृताकृतो वा । यदि नामधेयानि न विद्यात् स्वधा पितृभ्यः पृथिवीषद्भ्य इति पित्रे पिण्डं ददाति । स्वधा पितामहेभ्योऽन्तरिक्षसद्भ्य इति पितामहाय । स्वधा प्रपितामहेभ्यो दिविषद्भ्य इति प्रपितामहाय । अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति । आङ्क्ष्वासावाङ्क्ष्वासौ इति त्रिराञ्जनम् । अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासौ इति त्रिरभ्यञ्जनम् । एतानि वः पितरो वासांस्यतो नोऽन्यत् पितरो मा योढुम् एतानि वः पितामहा वासांस्यतो नोऽन्यत् पितामहा मा योढुम् एतानि वः प्रपितामहा वासांस्यतो नोऽन्यत् प्रपितामहा मा योढुम् इति दशामूर्णास्तुकां वा छित्त्वा न्यस्यति पूर्वे वयसि स्वं लोम छित्त्वा उत्तरे । अथ पात्रं संक्षिप्य निनयति पुत्रान् पौत्रानभितर्पयन्तीरापो मधुमतीरिमाः । स्वधां पितृभ्योऽमृतं दुहाना आपो देवीरुभयाँस्तर्पयन्तु इति । न्युब्जपात्रं पाणी व्यत्यस्य नमो वः पितरो रसाय इति षड्भिर्नमस्कारैरुपतिष्ठते । उदकान्तं गत्वा त्रिरुदकाञ्जलिदानेनोदकाञ्जलीन् ददाति एष ते तत पितुर्मधुमाँ ऊर्मिः सरस्वान् यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाग्निरक्षितोऽनुपदस्त एवं मे तताय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ ऋचस्ते महिमा एष ते पितामह पितुर्मधुमाँ ऊर्मिः सरस्वान् यावान् वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथा वायुरक्षितोऽनुपदस्त एवं मे पितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ यजूँषि ते महिमा । एष ते प्रपितामह पितुर्मधुमाँ ऊर्मिः सरस्वान् यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथादित्योऽक्षितोऽनुपदस्तः एवं मे प्रपितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्यँ स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमा इति । प्रत्येत्य प्रतिष्ठितमुदपात्रेणाप उपप्रवर्तयति परायात पितरः सौम्या गम्भीरैः पथिभिः पूर्व्यैः प्रजामस्मभ्यं ददतो रयिम् । अथ मासि पुनरायात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः इति । एतेन अर्घ्यावर्ष व्याख्याततन्त्रम् । मांसं नियतं मांसाभावे शाकम् ३
अमावास्यायामपराह्णे
येचेहपितरः उदकुम्भंदर्भमुष्टिं त्रीणि
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः

अष्टकां करिष्यमाण उपकल्पयते उक्षाणं वा वेहतं व्रीहीनन्नं मधुश्च सर्पिश्च । प्रसिद्धं शौचम् । अनूराधायामग्निमुपसमाधाय परिस्तीर्यापरेणाग्निं व्रीहीनेकपवित्रोऽथ निर्वपति इममपूपं चतुश्शरावं विर्वपामि क्लेशापहं पितॄणां संपराये । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यस्त्वा जुष्टं निर्वपामि इति पितृभ्यस्त्वा पितृभ्यस्त्वा इत्येवं चतुश्शरावं निर्वपति । प्रोक्ष्य तूष्णीं हविष्कृता वाचं विसृज्य यथा पुरोडाशमेवमेवैतमपूपं पदकपालमधिश्रयति । एककपालं वा । शृते तस्मिन्नाज्यं दधि विलाप्योत्पूयाथ परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतःप्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इति उत्तरतःप्राचीनं देव सवितः प्रसुव इति सर्वतः प्रदक्षिणं परिषिच्याघारावाघार्य आज्यभागौ जुहोति । आज्येन प्रायश्चित्तं जुहोति या तिरश्ची निपद्यसेऽहं मर्यादा विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणीं कामैः स्वधा नमः स्वाहा इति । अथैतस्यापूपस्य मध्यादवदायोपस्तीर्णाभिघारितमौदुम्बर्या दर्व्या जुहोति । अपूपं जुहोति घृतवन्तमद्य स्वधावन्तं पितॄणां तर्पणाय वह हव्यं पितृभ्य आहुतीर्जुहोमि कामैः स्वधा नमः स्वाहा इति अथ पुरस्ताद्दक्षिणतोऽवदाय पश्चादर्षीयो जुहोति इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एनां महिमानः सचन्ते कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति औलूखला ग्रावाणो घोषमक्रत अपः पितृभ्यः कृण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजा वीरवन्तो वयँ स्याम पतयो रयीणाम् कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायती । संवत्सरस्य या नी पत्नी सा नो अस्तु सुमङ्गला कामैः स्वधा नमः स्वाहा इति । पञ्चमीं जुहोति प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां कामैः स्वधा नमः स्वाहा इति । षष्ठीं जुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्व ँ! स्विष्टं सुहुतं करोतु मे अग्नये स्विष्टकृत सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे कामैः स्वधा नमः स्वाहा इति । दवीं प्रक्षाळ्य निधाय तथैव परिमृज्य परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वात्रैतमपूपं घृतवन्तं मधुमन्तं श्रद्धाभिमर्शनेनाभिमृशति २
पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिन् लोके पृथिवी समन्तस्समेऽग्निरुपद्रष्टा दत्तस्याप्रमादाय ऋचस्ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोकेऽन्तरिक्षं समन्तस्समे वायुरुपश्रोता दत्तस्याप्रमादाय यजूँषि ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके द्यौः समन्तस्समे आदित्योऽनुख्याता दत्तस्याप्रमादाय सामानि ते महिमा इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलीन् ददाति एष ते तत पितुर्मधुमाँ ऊर्मिस्सरस्वान् यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाग्निरक्षितोऽनुपदस्तः एवं मे तताय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासावृचस्ते महिमा ३
एष ते पितामह पितुर्मधुमाँ ऊर्मिस्सरस्वान् यावान् वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यया वायुरक्षितोऽनुपदस्त एवं मे पितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ यजूँषि ते महिमा । एष ते प्रपितामह पितुर्मधुमाँ ऊर्मिस्सरस्वान् यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथादित्योऽक्षितोऽनुपदस्त एवं मे प्रपितामहाय पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वँ स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमा इति । एतावदेतत् तदहःकर्म भवति । एतद्धस्म वै तद्विद्वांसः पूर्व ऋषय एवमष्टक्यमपूपं चतुश्शरावमेवमकल्पयंस्तेन वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयंस्ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् । स यो ह वा एवं विद्वान् ऐतमष्टक्यमपूपं चतुश्शरावमेवं कल्पयति । तेन वै स पितॄंस्तर्पयति येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभिर्मित्रं कुरुते । मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वान् एतमष्टक्यमपूपं चतुश्शरावमेवं कल्पयति ४
श्वो ज्येष्ठायामग्निमुपसमाधाय संपरिस्तीर्य तथैव परिषिच्याघारावाघार्याज्यभागौ जुहोति । प्रायश्चित्तीयां हुत्वोपाकरणीयां जुहोति इमां पितृभ्यो गामुपाकरोत्यूर्जस्वतीं स्वधावतीं तन्मे जुषन्तां पितरः परेताः । सा मे पितॄन् संपराये धिनोतु कामैः स्वाहा इति । अथैभ्यो गामृपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमि इति । अथैनां प्रोक्षति पितृभ्यस्त्वा जुष्टां प्रोक्षामि इति । तामत्रैव प्रतीचीनशिरसं दक्षिणापदीं संज्ञपयन्ति । तस्यै संज्ञप्ताया अद्भिः प्राणान् आप्याययति तूष्णीम् । अथास्यै वपामुद्धृत्य विशालयोपतृणत्ति तूष्णीमेव अथास्यै हृदयमुद्धारयन्ति प्रज्ञाते च मतस्ने । तान्येतेष्वेव शूलेषु संप्रणीक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति । शृतेषु त्रेधा वपां विच्छिद्योदुम्बरदर्व्या उपस्तीर्णाभिघारितां जुहोति वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कूल्या उप तान् क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः स्वाहा इति । अथैतस्य मांसस्योपस्तरणाभिघारितौदुम्बर्या दर्व्योपघातं जुहोति ५
एकाष्टकां पश्यत दोहमानामन्नं मांसवद् घृतवत् स्वधावत् । तद् ब्राह्मणैरतिपूतमनन्तमक्षय्यं स्फीतिं गच्छतु कामैः स्वधा नमः स्वाहा इति । द्वितीयां जुहोति एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तां दोहमुपजीवाथ पितरः सहस्रधा मुच्यमानां कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुराणामभवच्छचीभिः कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति औलूखला ग्रावाण इति । पञ्चमीं जुहोति यां जनाः प्रतिनन्दन्ति इति । षष्ठीं जुहोति प्रजापते इति । सप्तमीं जुहोति यदस्य कर्मणोऽत्यरीरिचम् इति । दर्वीं प्रक्षाळ्य निधाय तथैव परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभिमृशति पृथिवी ते पात्रम् इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलिं ददाति एष ते तत पितुः इति । एतावदेवैतदहःकर्म भवति । एतद्धस्म वैतद्विद्वांसः पूर्व आचार्या एवमष्टक्यां गामेवमकल्पयंस्तया वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन् ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् । स यो ह वा एवं विद्वानेतामष्टक्यां गामेवं कल्पयति । तेन वै स पितॄंस्तर्पयति । ते येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभिर्मित्रं कुरुते मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वानेतामष्टक्यां गामेवं कल्पयति ६
तृतीयेऽह्नि भूयोऽथ श्राद्धमन्नं च धनं च कल्पयित्वाग्निमुपसमाधाय परिस्तीर्य तथैव परिषिच्याघारावाघार्याज्यभागौ हुत्वाज्येन प्रायश्चित्तीयां हुत्वाथैतस्यान्नस्योपस्तीर्णाभिघारितौदुम्बर्या दर्व्या जुहोति वहान्नं जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान् पराके । अन्नस्य कूल्या उप तान् क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः स्वाहा इति । द्वितीयां जुहोति संवत्सरस्य प्रतिमां यां त्वा रात्र्युपासते । प्रजां सुवीरां कृत्वा विश्वमायुर्व्यश्नुवत् कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति यां जनाः प्रतिनन्दन्ति इति । चतुर्थीं जुहोति प्रजापते इति । पञ्चमीं जुहोति यदस्य कर्मणोऽत्यरीरिचम् इति अनुप्रहृत्य दर्वीं तथैव परिषिच्य पिण्डावृतैतान् पिण्डान दत्त्वा श्रद्धाभिमर्शनेनाभिमृशति पृथिवी ते पात्रम् इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलिं ददाति । एष ते तत इति । एतावदेवैतदहःकर्म भवति । एतद्धस्म वैतद्विद्वांसः पूर्वे श्रोत्रिया एवमष्टक्यमन्नमेवमकल्पयंस्तेन वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन् ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् स यो ह वा एवं विद्वानेतमष्टक्यमन्नमेवं कल्पयति । तेन वै स पितॄंस्तर्पयति । ते येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभिर्मित्रं कुरुते मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वान् तृतीयेऽह्नि यथाश्रद्धमन्नं च धनं च ददाति ततो वै तस्यापरिमितान्नधनाः पशवो भवन्ति । य एवं विद्वान् तृतीयेऽह्नि यथाश्रद्धमन्नं धनं च न ददाति तस्यापरिमितान्नधना न वै पशवो भवन्ति ७
अष्टकांकरिष्यमाणः अथपुरस्ताद्दक्षिणतोऽवदाय पृथिवीतेपात्रं एषतेपितामहपितुः श्वोज्येष्ठायाम् एकाष्टकां तृतीयेऽह्नि सप्त
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः

अथातः श्राद्धशेषं वक्ष्यामः । पूर्वेद्युः सायमौपासनं हुत्वा प्राणासायम्य संकल्प्य श्वः पितृभ्यो मासिश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः नक्षत्रश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः त्रिपक्षश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः षण्मासश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः संवत्सरश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः सपिण्डीकरणश्राद्धं करिष्य इति वा संकल्प्य ब्राह्मणान् शुचीन् श्रोत्रियान् दरिद्रान् वेदज्ञान् समाङ्गान् अगोत्रानसमानार्षेयान् क्षणं करोति । द्वौ विश्वेदेवेभ्यः त्रयः पितॄणाम् । सपिण्डीश्राद्धं चेदेकोऽधिकम् । प्रेतश्राद्धेष्वेकमेव वरयेत् । श्वः पितृभ्यो मासिश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति एवमेव श्वः पितृभ्योऽष्टकाश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति श्वः पितृभ्यो नित्यश्राद्धम् एकोद्दिष्टं नक्षत्रश्राद्धमिति सर्वत्रोक्त्वा गन्धादिभिराराध्य तिलपिष्टादिभिर्भक्ष्यद्रव्यैर्यथावकाशोऽस्ति तथाराध्य ताम्बूलादि दद्यात् । श्वोभूते प्रातरौपासनं हुत्वावटौ खनति । प्रेतश्राद्धेष्वेकमेव खनति । सपिण्डीकरणे त्रीन् खात्वा अवटे तिलदर्भान् प्रकीर्य ब्राह्मणानाहूय क्षणं करोति । उत्तरेऽवटे विश्वेदेवयोः पादान् प्रक्षाळ्य मध्यमे पितॄणां दक्षिणे प्रतस्य पादौ प्रक्षाळ्य तानाराध्य ताम्बूलं दद्यात् । पादप्रक्षाळनक्रमेण सर्वं कुर्यात् प्राचीनावीती । अपराह्णे ब्राह्मणभोजनार्थमौपासने स्थालीपाकं कुर्यात् । पितॄणामावाहनकाले प्राचीनावीती दक्षिणाभिमुखः स्थित्वा आवाह्य ब्राह्मणानाहूय यथोक्तं दिङ्मुखमुपवेशयति । यथाविधि हुत्वा यत्र यत्रोक्तेषु पिण्डावृतैतान् पिण्डान् ददाति । पात्रसादनकाले एकस्मिन् पात्रे आ प आगन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णान् । अस्मिन् यज्ञे सर्वकामान् लभन्तेऽक्षीयमाणमुपदुह्यन्ताम् इमां पितृभ्यो वोऽर्घ्यं गृह्णामि इति पितृभ्यः पितामहेभ्यो वोऽर्घ्यं गृह्णामि इति पितामहेभ्यः प्रपितामहेभ्यो वोऽर्घ्यं गृह्णामि इति प्रपितामहेभ्यः अथान्यस्मिन् पात्रे प्रेताय ते गृह्णामि इति प्रेताय अप आनयति । तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वध एहि पितॄनिमान् लोकान् प्रीणयाहि नः स्वधा नमः इति तिलानावपति । पितामहान् प्रपितामहान् इमान् लोकान् प्रीणयाहि नः स्वधा नमः इति च । प्रेताय इमान् लोकान् इति च १
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधु जक्तमुतोषसि मधुमत्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु न इति मध्वानयति । कुशलवमादाय सोमास्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाह्यवेष्टा दन्तशूका इति मथित्वा निरस्तं नमुचेः शिरःइति फेनं निरस्य दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य शन्नो देवीः इत्यवोक्ष्य गन्धादिभिरलङ्कृत्य स्वधां यत्र गुप्तं मन्यते तत्र निदधाति । पूर्ववत् पादप्रक्षाळनं कृत्वा यथोदङ्मुखानुपवेश्य विश्वेदेवान् क्षणं करोति विश्वेदेवाः क्षणः कर्तव्य इति । प्रतिवचनम् ॐ तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । मासिश्राद्धे क्षणः कर्तव्य इति मासि अष्टकाश्राद्धे क्षणः कर्तव्य इत्यष्टकासु नित्यश्राद्धे क्षणः कर्तव्य इति नित्यश्राद्धे एकोद्दिष्टश्राद्धे क्षणः कर्तव्य इत्येकोद्दिष्टे नक्षत्रश्राद्धे क्षणः कर्तव्य इति नक्षत्रे त्रिपक्षश्राद्धे क्षणः कर्तव्य इति त्रिपक्षे षण्मासश्राद्धे क्षणः कर्तव्य इति षण्मासे संवत्सरश्राद्धे क्षणः कर्तव्य इति संवत्सरे सपिण्डीकरणश्राद्धे क्षणः कर्तव्य इति सपिण्डीकरणे प्रतिवचनम् ॐ तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो गन्धादिभिराराध्य स्वधापात्रमाराध्य वस्त्रयुग्मं कुण्डलमङ्गुलीयकं च दत्त्वाथान्नमभिमृशति पृथिवी ते पात्रम् इति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि इति । ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचान्तेभ्यस्तिलोदकं प्रदाय पवित्रं पितृहस्ते निधाय स्वधामानयति पितृभ्यो हस्ते स्वधास्तु इति । अस्तु स्वधा इति प्रतिवचनम् । एवं पितामहायैवम् प्रपितामहायैवं प्रेताय । तथैव शुद्धोदकं प्रदाय अस्तु शुद्धोदकम् इति प्रतिवचनम् । यथाशक्ति दक्षिणां दत्त्वा प्रदक्षिणं कृत्वा अन्नशेषैः किं क्रियताम् इति इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रत्येत्य शेषं सगणः प्राश्नाति । यदि नित्यश्राद्धं कुर्वन् शशं वा मृगं वा कूर्मं वोपाकरोति श्रपयित्वा हिरण्येन परिक्रीय वा यथाष्टकासु द्वितीयेऽह्नि तथा करोति । एकोद्दिष्टवत् त्रिपक्षश्राद्धं कुर्वन्ति । त्रिपक्षवत् षण्मासश्राद्धं कुर्वन्ति । षण्मासवत् संवत्सरश्राद्धं कुर्वन्ति । एवमा संवत्सरात् प्रेतस्य दहननक्षत्रेष्वेवमेवं कुर्वन्ति २
अथा
तः श्राद्धशेषंवक्ष्यामो मधुवाताऋतायते इति द्वे ।
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः

अथातो दहनविधिः । आहिताग्नेरनाहिताग्नेः स्त्रियाश्चैव मरणसंशये शुचौ समे देशे गोमयेनोपलिप्य अवोक्ष्य सिकताभिरवकीर्य तासु दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु दक्षिणाशिरसमेनं निधायास्वधायुक्ता ब्रह्माण्यभिश्रावयेत् आयुषः प्राणँ सन्तनु इति । अथ प्राणेषूत्क्रान्तेषु प्राचीनावीत्यवाचीनपाणिः हिरण्यशकलमास्ये प्रत्यस्याङ्गुष्ठबन्धं प्रबध्य ग्राम्येणालङ्कारेणालङ्कृत्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य सायमाहुतिं हुत्वा मातराहुतिं हुत्वा पौर्णमास्येनेष्ट्वामावास्येनेष्ट्वाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीये जुहोति मृत्योरधिष्ठानाय स्वाहा इति । चतुरो ब्राह्मणान् बाहयित्वा ग्रामाभिमुखेन चतुष्पथे निधाय मुखं दर्शयित्वा श्मशानाभिमुखेन वाहयित्वा श्मशानं निर्हृत्य सहाग्निभिः प्रेतं तत्रैनं निधाय दहनं जोषयेत् दक्षिणाप्रत्यक्प्रवणमभङ्गुरमनिरिणमसुषिरं समं वा । अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तैर्यमो ददात्ववसानमस्मै इति हरिण्या पलाशशाखयौदुम्बरशाखया वा सतं सम्मृज्य दक्षिणतः शाखां निरस्य अप उपस्पृश्याद्भिरवोक्ष्य हिरण्यशकलमवधाय अपसर्पत प्रेता ये के चेह पूर्वजाः स्वस्ति नः कुरुत माश्रुपातः पुनरागमत् इति दक्षिणापवर्गाः स्फ्येन परशुना वा तिस्रः कर्षूः खात्वाद्भिरवोक्ष्य तिलतण्डुलानां मुष्टिं पूरयित्वा यमाय पितृपतये पितृभ्यः स्वधा नम इति प्रथमायां निवपति । एवं द्वितीयायां तथा तृतीयायाम् । शेषांस्तिलतण्डुलान् यद्याहिताग्निर्भवति तस्य कृष्णाजिनं छित्त्वा दक्षिणाग्रीवमधरलोमास्तृणाति । एतस्मिन् काले स्नात्वोदकेनौषधीभिश्च कुम्भं पूरयित्वा तेन दशहोत्रा पत्तोग्रात् स्नापयेत् । अथाहतं वासः परिधाप्यालङ्कृत्य ततश्चितामारोप्याथ सप्तप्राणायतनेषु सप्त हिरण्यशकलान् प्रत्यस्यालाभ आज्यबिन्दून्वा मुखे प्रथममास्ये दधितण्डुलांश्च तिलांश्च जुहोति इदं त आत्मनः शरीरमयं त आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनद्मि भूर्भुवःस्वरसौ स्वर्गाय लोकाय स्वाहा इति । दशहोतारं चित्तिः स्रुग् इत्यादि ग्रहवर्जमेवमेवाग्रे नासिकाच्छिद्रयोर्द्विर्जपेत् । आसीदिति सर्वेषु होतृपदेष्वनुषजत्यन्यत्र षड्ढोतृपदेभ्यः । आस्तामिति द्विवचनादिषु । चतुर्होतारं पृथिवी होता इति मुखे सृक्किकटयोर्द्विः पञ्चहोतारम् अग्निर्होता इति कर्णयोर्द्विष्षड्ढोतारं सूर्यम् त इति कीकसासु द्विस्सप्तहोतारं महाहविर्होता इति १
अथाज्यानि गृह्णीते दर्शपूर्णमासवत् तूष्णीं जुह्वां घृतं दध्युपभृति दधि मधु घृतमिति ध्रुवायां पयोऽग्निहोत्रहवण्याम् । अपिवाज्यमेव सर्वासु । अत्र पात्राण्युपचिनोति । यानि पात्राण्यासेचनवन्ति तानि सम्पूरयित्वाभ्युक्षतीतराण्यरिक्तताया इति विज्ञायते । तस्य दक्षिणहस्ते जुहूं स्फ्यं चादधाति । सव्य उपभृतमुरसि ध्रुवामुपवेषमरणीं च मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवावाज्यस्रुवौ वा कर्णयोः प्राशित्रहरणं भित्त्वैकैकम् । हन्वोरुलूखलमुसले दत्सु ग्रावाणो भवन्ति । शिरसि कपालानि । ललाट एककपालमुदरे ड्ष्टिसंयवनीं पात्रीं नाभ्यामाज्यस्थालीं पत्त उपावहरणीयं कूर्चं शिरस्त उपसादनीयं कूर्चं पार्श्वयोः शूर्पं छित्त्वैकैकं वा घ्राणयोः सान्नाय्यकुम्भ्यौ यदि सन्नयन् भवति अण्डयोर्दृषदुपले शिश्ने वृषरवं शम्यां च पृष्ठयोरग्निहोत्रस्थालीमन्वाहार्यस्थालीम् इडापात्रं वेदं शिखायाम् । अथवावशिष्टान्यन्तरेण सक्थिनी निवपति । तस्य कृष्णाजिनशेषेण दक्षिणाग्रीवमुत्तरलोम्ना प्रच्छाद्य बान्धवाः सिग्वातेनोपवीजयन्ति । त्रयः सिग्वाता भवन्ति ग्रामे पथि चितायां च । वातास्ते वान्तु पथि पुण्यगन्धा मनःशुभा गात्रशुभा अनुलोमाः । त्वचस्सुखा मांससुखा अस्थिसौख्या वहन्तु त्वा मरुतः सुकृतां यत्र लोकाः इति २
यद्याहिताग्निर्भवति अप नः शोशुचदघम् इत्यङ्गुष्ठबन्धं विसृज्य पत्न्युदकुम्भमादायाध्वर्युर्वा शीर्षन्नधिनिधाय त्रिरपसलैः परिषिञ्चन् पर्येति । किञ्चित् परशुना प्रहरति । अथ धारामनुमन्त्रयते इमा आपो मधुमत्योऽस्मिंस्ते लोक उपदुह्यन्ताम् इति । द्वितीयं परिगतायां पश्चात् प्रहरति इमा आपो मधुमत्योऽन्तरिक्षे ते लोक उपदुह्यन्ताम् इति । तृतीयं परिगतायां पश्चात् प्रहरति इमा आपो मधुमत्यः स्वर्गे ते लोक उपदुह्यन्ताम् इति । भिनत्ति कृम्भम् । यदि पुरस्तात् पतति पापीयान् भवति यदि पश्चात् पतति वसीयान् भवति इति । अथ कपालशेषा अपः प्रेतस्य प्राणस्थानेषु निनयति दिवि जाता अप्सु जाता इति । आर्द्रा ओषधीरालभ्योत्तिष्ठति । गां पश्यति । ब्राह्मणान् पश्यति । हिरण्यमालभते । अत्र गुरवे वरं ददाति ३
अथास्मा अध्वर्युर्दक्षिणपूर्वस्यां दिश्याहवनीयमादीपयति नैरृत्यामन्वाहार्यपचनं वायव्यां गार्हपत्यमुत्तरतः सभ्यावसक्थ्यौ । संभारैः अग्निर्यजुर्भिः पत्नीभिः सेनेन्द्रस्य इत्येतैः उपोषयेत् । ग्रहैः वाचस्पते विधे नामन् वाचस्पते वाचो वीर्येण सोमः सोमस्य वाचस्पतेऽच्छिद्रया वाचा वाचस्पते हृदिधे नामन् इत्येतैः ऋतुमुखीयेन वाग्घोता इत्येतेन ब्राह्मण एकहोता इति चोपस्थानम् । आहवनीय एकेषां कपालः । सन्तपनाग्निना वाजसनेयिनः समामनन्ति । तमभिनिवर्तते यं घर्मोऽग्निरभिजिहर्त्ति यां गतिं यान्ति युधि युद्धशूरा विधृतपापा विरजा विशोकास्तां गतिं याहि सुरभिर्नाकपृष्ठः स्वधा नम इति । यद्यनाहिताग्निर्भवति यां गतिं यान्ति युधि युद्धशुरास्तनुत्यजो मोक्षविदो मनीषिनः सुकृतिनोऽग्निहोत्रहविष्ठास्तां गतिं याहि सुरभिर्नाकपृष्ठः स्वधा नम इति । ततो यज्ञोपवीती सं त्वा सिञ्चामि यजुषा इति शान्तिं कृत्वा ज्योतिष्मत्या आदित्यमुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रम् इति । पुत्रभ्रातृसपिण्डाः संविशन्ति । अनवेक्षमाणास्तीर्थमायान्ति । राजपुरुषो वा तानसगोत्रो वा पर्णशाखया शमीशाखयौदुम्बरशाखया वारयति मा तरत इति । न पुनरागमिष्यामह इत्युक्त्वातुरव्यञ्जनानि कृत्वा केशान संप्रकीर्य पांसूनोप्यैकवाससोऽहतवाससो वा दक्षिणामुखाः सकृदुन्मज्ज्योत्तीर्य सव्यं जानुं भूमौ निधाय वासः पीडयित्वोत्थायाञ्जलिनोदकमादाय तिलमिश्रा अपस्तं प्रति असावेतत्त उदकम् इति एवं द्वितीयं तृतीयं च कृत्वा अथाप्रतीक्षा ग्राममायान्ति । कनिष्ठप्रथमाः पिपीलिका यान्ति । निवेशनद्वारे निम्बपत्रं प्राश्याप आचम्य गोमयं हिरण्यमपोऽग्निं सर्षपांस्तैर्लामत्युपस्पृश्य शिरः प्राणान् संमृश्याश्मानमाक्रम्य गृहं प्रविश्य यत् स्त्रिय आहुस्तत् कुर्वन्ति । यत्र प्राणा उत्क्रान्ता भवन्ति तस्मिन् गोमयेनोपलिप्य वत्सं प्रतिष्ठाप्य तिलतण्डुलान्युदकमिश्राणि संप्रकीर्य स्वस्त्यस्तु गृहाणां शेषे शिवमास्ताम् इति पवनं कृत्वापक्वाशी स्त्रिया अत ऊर्ध्वं ब्रह्मचर्यमा दशरात्रात् । सायंप्रातः सकृदुदकमुत्सिच्य दशमेऽहनि त्रिरुदकमुत्सिच्य दशम्यां विकृताहारम् ४
अथातोऽस्थिसंचयनं व्याख्यास्यामः । अनिवृत्तेऽग्नौकरणे द्व्यहे त्र्यहे चतुरहे पञ्चाहे सप्ताहे वा नवकुम्भमादाय श्मशानं नीत्वा पालाशशङ्कुना शमीशङ्कुनौदुम्बरशङ्कुना वाङ्गुष्ठोपकनिष्ठिकाभ्यां वा सर्वाभिरङ्गुलीभिर्वास्थीनि समुदायुत्य क्षीरेण प्लावयित्वा घृतं निनयेद् इदं त आत्मनः शरीरमयं त आत्मा आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनद्मि भूर्भुवःस्वरसौ स्वर्गाय लोकाय स्वाहा इति । अथ यदि न दहेयुरुल्मुकमादाय पुनर्दहेद् अस्मात्त्वमधिजातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय स्वर्गाय लोकाय स्वाहा इति । अथास्थ्यादाय नदीतीरेषु वा समुद्रतीरेषु वापाहरेयुः । अपि वा गजसम्मितं पुरुषसम्मितं वा गर्तं खात्वास्थिकुम्भमवधाय पुनरभ्यज्य पुरीषेण पूरयेत् यवदेव तद् भवति तावत् स्वर्गे लोके महीयते इति ५
अथातोदहनविधिः अथाज्यानिगृह्णीते यद्याहिताग्निर्भवति अथास्मा अध्वर्युः
अथातोऽस्थिसंचयनं पञ्च ।
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

अथ यद्याहिताग्निर्निर्मारं गच्छति उपतपता वा जरया वा अग्निष्ठ एवास्य यजमानायतने शयनं कल्पयेयुर्जघनेन वा गार्हपत्यम् । तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते । स यद्युहागदो भवति पुनरेति । यद्यु वै प्रैति न पयः समासिञ्चति । अथेदमग्निहोत्रं सायमुपक्रमं प्रातरपवर्गमाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि सायंहुतेऽग्निहोत्रे प्रेयात् प्रतिकृष्य प्रातरग्निहोत्रं जुहुयात् । अथ यदि प्रातरग्निहोत्रे हुते कुशलम् । अथेमौ दर्शपूर्णमासौ पौर्णमास्यमावास्यासंस्थावाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि पौर्णमास्यां वृत्तायां प्रेयात् प्रतिकृष्यामावास्यां यजेतेति । अथ यद्यमावास्यायां वृत्तायां कुशलम् । अथ यस्योभे पर्वणी अतिपन्ने स्याताम् अतिपन्नप्रायश्चित्तं कुर्वीत । अथ यद्यार्तस्याग्निहोत्रं विच्छिद्येत यद्यस्य पुत्रो वान्तेवासी वालं कर्मण्यः स्यात् सोऽरण्योरग्निं समारोप्योदवसाय मथित्वाग्नीन्विहृत्याग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति । शरावं दक्षिणां ददाति । सा प्रसिद्धेष्टिः सन्तिष्ठते । दिवि प्रक्रान्ते प्रेयात् तूष्णीमेतत् तन्त्रम् संस्थाप्यापोभक्षानभ्यवहरेयुः । अपोभक्षानभ्यवहरन्ति इति विज्ञायते । अथैनमादायान्तरेण वेद्युत्करावुदङ्मुखमुपनिर्हृत्याथैनं परिश्रयन्ति । तस्य दक्षिणा द्वारं कुर्वन्ति । अथास्य केशश्मश्रूणि वापयित्वा लोमानि संहृत्य नखानि निकृन्तयीत । अथास्य दक्षिणं कुक्षिमुपाकृष्य निस्पुरीषं कृत्वाद्भिः प्रक्षाळ्य सर्पिषान्त्राणि पूरयित्वा दर्भैः संसीव्यति । तदु तथा न कुर्यात् क्षोधुका अस्य प्रजा भवन्ति इति विज्ञायते । अपिवा सपुरीषमेवाप्लाव्याच्छाद्यालङ्कृत्याथैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हपत्यमुपसादयन्त्यत्र हविर्निरुप्यत इति । अथैनम् आदायान्तर्वेदि प्राक्च्छिरसमासादयन्त्यत्र हविरासाद्यत इति । अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीयेऽधास्य दक्षिणं बाहुमन्वारभ्य जुहोति १
परेयुवांसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्यत स्वाहा इति । एतेनैव गार्हपत्ये जुहोति । तूष्णीमन्वाहार्यपचने हुत्वाथैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हपत्यमासन्द्यां कृष्णाजिने दक्षिणाशिरसं संवेश्य शिरस्तो नळदमालां प्रतिमुच्य पत्तोदशेनाहतेन वाससा प्रोर्णोति इदं त्वा वस्त्रं प्रथमं न्वागन् इति अथैतदपोहति अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा विबन्धुषु इति । तदस्य पुत्रो वान्तेवासी वा पत्नी वा परिदधीत । तदु हाजरसमेव वसीताहश्शेषं वा । अथ त्रीञ्छकलानुपकल्पयते । अथ यदि न शकला भवन्ति अन्तर्वेदि परागवहतानां कृष्णानां व्रीहीणाम् अन्वाहार्यपचने त्रीन् चरून् श्रपयत्येकं वा । गार्हपत्य आमिक्षां श्रपयति । अथैनान् संभारानुपकल्पयते दधि च सर्पिर्मिश्रमाज्यं चोदकुम्भं च दर्भाश्च परिस्तरणीयान् हिरण्यं चाजं च शासं चेडसूनं च कुम्भीं च प्रच्यावनीं सिकताश्च शुल्बे च तिस्रः पर्णशाखाश्च । कथमु खल्वेनं दहेयुः इति । यो बहुयाजी स्यात् तं पूर्वाग्निना दहेयुरित्येतदेकम् । अजस्रैरेनं दहेयुरित्येतदेकम् । निर्मन्थ्यैरेनं दहेयुरित्येतदेकम् । अपिवा तिस्र उलपराजीरादीप्य यत्राग्नयः संगच्छेरन् तत्रोल्मुकमादाय तेनैनं दहेयुरित्येतदेकमपरम् २
अथातोऽनुस्तरणीकल्पः । आनयन्त्येतां कृष्णां कूटां जरतीं मूर्खां तज्जघन्यामनुस्तरणीं प्रतिबद्धाम् । सव्यप्रतिबद्धा भवति इति विज्ञायते । एतस्मिन् कालेऽस्यामात्याः प्रकीर्णकेशास्तिसृभिरङ्गुलीभिः उपहत्य पांसूनंसेष्वावपन्ते खल्वघं नास्य खल्वो एवाघम् इति । अथास्य भार्याः कनिष्ठप्रथमाः प्रकीर्णकेश्यो व्रजेयुः पांसूनंसेष्वावपमानाः खल्वघं नास्य खल्वो एवाघम् इति । एतस्मिन् काले गार्हपत्ये पालाशं काष्ठमातप्याथोल्मुकप्रथमाः प्रतिपद्यन्ते । स्वधितिरथाग्नयोऽथ पात्राणि दध्याज्यं दर्भा राजगवीति । अथैनमेतयासन्द्या तल्पेन वा कटेन वा संवेष्ट्य दासाः प्रवयसो वा वहेयुः । अथैनमनसा वहन्ति इत्येकेषाम् । अनश्चेद् युञ्ज्याद् इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनं सुकृतां चापि गच्छतात् इति समारोप्याग्नीन् हरन्ति । समारोप्य वान्तरेण वा कृत्वाग्नीन् हरन्ति ३
अथैनमाददते । आदीयमानमनुमन्त्रयते पूषा त्वेतश्च्यावयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददात् पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः इति । तृतीयमेतस्याध्वनो गत्वा निदधति । अथैतेषां शकलानामेकमशस्त्रेण प्लक्ष्णोति । अथ यदि न शकला भवन्ति चरुं मेक्षणेन प्रयौति । अथवा एक एव स भवति चरोस्तृतीयं मेक्षणेन प्रयौति । लोष्टानुपसंहृत्य तेषूपमृज्य कनिष्ठप्रथमाः प्रकीर्णकेशास्त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्तः । एवममात्या एवं स्त्रियः संयम्य केशान् यथेतं त्रिः पुनः परियन्ति । अथैनमाददते । आदीयमानमनुमन्त्रयते पूषेमा आशा अनुवेद सर्वाः सो अस्माँ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयृच्छन् पुर एतु प्रविद्वान् इति । अर्धमेतस्याध्वनो गत्वा निदधति । अथैतेषां शकलानामेकमशस्त्रेण प्लक्ष्णोति । अथ यदि न शकला भवन्ति चरुं मेक्षणेन प्रयौति । लोष्टानुपसंहृत्य तेषूपमृज्य कनिष्ठप्रथमाः प्रकीर्णकेशास्त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्तः । एवममात्या एवं स्त्रियः संयम्य केशान् यथेतं त्रिः पुनः परियन्ति । अथैनमाददते । आदीयमानमनुमन्त्रयते आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु इति । समस्तमेतस्याध्वनो गत्वा निदधति । अथैतेषां शकलानामेकमशस्त्रेण प्लक्ष्णोति । अथ यदि शकला न भवन्ति चरुं मेक्षणेन प्रयौति । यद्यु वा एक एव भवति चरोरवशिष्टं मेक्षणेन प्रयौति । लोष्टानुपसंहृत्य तेषूपमृज्य कनिष्ठप्रथमाः प्रकीर्णकेशाः त्रिरपसलैः परियन्ति सिग्भिरुपवातयन्तः । एवममात्या एवं स्त्रियः संयम्य केशान् यथेतं त्रिः पुनः परियन्ति । अथैतां चरुस्थालीं सुभिन्नां भिनत्ति यथास्यै कपालेषूदकं न तिष्ठेदिति । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ४
अथास्यावकाशं जोषयते । पश्चादुदकमनूषरमनुपहतमस्रुतहार्यमनिरिणमभङ्गुरमवल्मीकमजागर्तिबहुलौषधि यत्र क्षीरिणो वृक्षा ओषधयो व्यतिषक्ताः स्युः यस्माद् दक्षिणाप्रतीच्य आपः शनैः प्रतिष्ठेरन् ताः प्रदक्षिणमभिपर्यावृत्य महानदीमभ्युपेत्य प्राच्यः संपद्येरन् । दक्षिणाप्रत्यक्प्रवणमित्येकेषाम् । अपिवा या समा सुभूमिः । तस्माद्वीरुध उद्धारयन्ति । काळां च पृश्नोपणीं च तिल्वकां चापाघां चापामार्गं च शुण्ठीं च बहुपुत्रीं च विस्रंसिनीकां च राजक्षपणीं च याश्चान्या क्षीरिण्य ओषधयो भवन्ति । अथैनमुद्धत्यावोक्ष्य हिरण्येन परिक्रीय पर्णशाखयापोहति अपेत वीत वि च सर्पतात इति । दारुचितां कुर्वन्ति दक्षिणाप्राचीम् एषा हि पितृणां प्राची दिग् इति विज्ञायते । जघनेन चितां दक्षिणाप्राचीं विहारं कल्पयित्वा दर्भैरग्निं प्रेतं चितां च परिस्तीर्य दक्षिणेन विहारं दक्षिणाग्नान् दर्भान् संस्तीर्य तेष्वेकैकशो न्यञ्चि पात्राणि सादयति । एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य प्रेतं चितां चाज्यं निरुप्याधिश्रित्य पर्यग्निकृत्वोद्वास्योत्पूय तूष्णीं दर्भैः पात्राणि संमृज्य तूष्णीं तूष्णीं दार्शपूर्णमासिकाज्यानि गृहीत्वा ५
अथास्य राजगवीमुपाकरोति भुवनस्य पते इति । तस्यां निपद्यमानायां सव्यानि जानून्युपनिघ्नते पुरुषस्य सयावर्यपेदघानि मृज्महे । यथा नो अत्र नापरः पुरा जरस आयति इति । तामत्रैव शस्त्राद् घ्नन्ति । अथैतस्यै प्राणान् विस्रस्यमानाननुमन्त्रयते पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् । शरीरेण महीमिहि स्वध एहि पितॄनुप प्रजयास्मानिहावह इति । उपोत्थाय पांसूनमवमृशन्ते मैवं मांस्ता प्रियेऽहं देवी सती पितृलोकं यदैषि । विश्ववारा नभसा सं व्ययन्त्युभौ नो लोकौ पयसाभ्याववृत्स्व इति । अथैनं संशास्ति अङ्गादङ्गादनस्थिकानि पिशितानि प्रच्छिद्यासंश्रावयन्तोऽप्रच्यावयन्त एकोल्मुकेन श्रपयन्तः प्रज्ञातां वपां निधत्त प्रज्ञातं हृदयं प्रज्ञातां जिह्वां प्रज्ञातं चर्म सशीर्षवालपादं प्रज्ञाते च मतस्रे प्रज्ञातं मेद इति । अथास्य भार्यामुपसंवेशयति इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्यप्रेतम् । विश्वं पुराणमनु पालयन्ती तस्यै प्रजां द्रविणं चेह धेहि इति । तां पतिहितः सव्ये पाणौ गृहीत्वोत्थापयति उदीर्ष्व नार्यभि जीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वमेतत् पत्युर्जनित्वमभि संबभूव इति । अथास्य स्वर्णेन हस्तौ निमृजते स्वर्णे हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति ब्राह्मणस्य धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्रायौजसे बलाय । अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति राजन्यस्य मणिं हस्तादाददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति वैश्यस्य । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति । अथैनमेतयासन्द्या सह चितावादधाति । अपकृष्य रज्जूरासन्दीमपविध्यन्ति । कृष्णाजिने चैव रज्जुषु चोत्तानः शेते । तस्य प्राणेषु हिरण्यशकलान् प्रत्यस्यति । नाना चतुर्गृहीताभ्यामक्ष्णोर्जुहोति चित्रं देवानामुदगादनीकम् इत्यर्धर्चाभ्यां जुहोतीति विज्ञायते ६
कथमु खल्वस्य पात्राणि युञ्ज्यादिति । दध्ना सर्पिर्मिश्रेण पूरयित्वा मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवौ अक्ष्णोः हिरण्यशकलौ आज्यस्रुवौ वा कर्णयोः प्राशित्रहरणं भित्त्वैकैकं हन्वोरुलूखलमुसले शिरसि कपालानि ललाटे एककपालं शिरस्तः प्रणीताप्रणयनं चमसं निदधाति इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सौम्यानाम् । एष यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् इति । दक्षिणे हस्ते जुहूं सव्ये उपभृतमुरसि ध्रुवामुपवेषमरणीं च दक्षिणे अंसे मेक्षणं सव्ये पिष्टोद्वपनीं पृष्ठे स्फ्यमुदरे दारुपात्रीं कुक्षौ चमसौ सान्नाय्यपिधानं चेडोपवहनं च वङ्क्ष्णयोः सान्नाय्यकुम्भ्यौ पादयोरग्निहोत्रस्थालीमन्वाहार्यस्थालीं चोर्वोरुलूखलमुसले अण्डयोर्दृषदुपले शिश्ने वृषारवं शम्यां च पार्श्वयोः शूर्पं छित्त्वैकैकं शिरस्त उपसादनीयं कूर्चं निदधाति । पत्त उपावहरणीयं कूर्चम् । अथावशिष्टान्यन्तरेण सक्थिनी निवपेयुः । अपो मृण्मयान्यभ्यवहरेयुः । अपो मृण्मयान्यभ्यवहरन्ति इति विज्ञायते । अत्रैवोपनिदध्युः । ब्राह्मणेभ्योऽयस्मयानि लोहमयानि च दद्युः । तेषां यान्यासेचनवन्ति तानि दध्ना सर्पिर्मिश्रेण पूरयेत् । संस्पृशेदितराणि । अरिक्तानि भवन्ति इति विज्ञायते । अत्रैवाध्यस्यन्त्युपवाजिनं खारीं नल्वम् । अथास्याद्मिक्षामुद्धृत्य पाण्योरादध्यात् मित्रावरुणाभ्यां त्वा इति । अथास्य मतस्नामुल्लिख्य पाण्योरादध्यात् श्यामशबळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यं हृदये हृदयमास्ये जिह्वां यथाङ्गमङ्गैरितराणि संप्रच्छाद्य वपयास्य मुखं प्रच्छादयति । मेदसा स्रुचौ प्रोर्णोति इति विज्ञायते । अथैनं चर्मणा सशीर्षवालपादेनोत्तरलोम्ना प्रर्णोति अग्नेर्वर्म परिगोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन् पर्यङ्खयातै इति ७
अथ यद्यनुस्तरणीं नानुस्तरिष्यन्तो भवन्त्युत्सृजेद्वैनाम् । ब्राह्मणेभ्यो वा दद्यात् । दत्त्वात्रैव श्रेयसे भवन्ति इति विज्ञायते । अथ यद्युत्स्रक्ष्यन् भवति तामपसलैः पर्याणयति अपश्याम युवतिमाचरन्तीम् इति तिसृभिस्त्रिः पर्याणीयोत्तरतः प्रतिष्ठितामनुमन्त्रयते ये जीवा ये च मृता इत्येतया । अथास्याः कर्णलोमान्युत्पाट्य पाण्योरेवादध्यात् श्यामशवळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यम् । अथैनामुत्सृजति माता रुद्राणां दुहिता वसूनां स्वसातित्यानाम् अमृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत इति । अथैनमुपोषयति पुरस्तादाहवनीयेन दक्षिणतोऽन्वाहार्यपचनेन पश्चाद् गार्हपत्येनोत्तरतः सभ्यावसक्थ्याभ्याम् । अत्राप्युत्प्रेक्षा भवन्ति । तं यद्याहवनीयः प्रथममभ्युज्ज्वलेद् देवलोकमभ्यजैषीदित्येनं जानीयात् । अथ यद्यन्वाहार्यपचनः पितृलोकम् । अथ यदि गार्हपत्यः स्वर्गलोकम् । अथ यदि सभ्यावसक्थौ सप्तर्षीणां लोकम् । अथ यदि सर्व एव सहाभ्युज्ज्वलेद् ब्रह्मलोकमभ्यजैषीद् इत्येनं जानीयात् । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ८
अथयद्याहिताग्निः परेयुवांसम् अथातोऽनुस्तरणीकल्पः अथैनमाददतेआदीयमानमनुमन्त्रयते अथास्यावकाशंजोषयते अथास्यराजगवीमुपाकरोति कथमुखल्वस्यपात्रा
णियुञ्ज्यात् अथयद्यनुस्तरणीम् अष्टौ ।
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने पञ्चमोऽध्यायः

अथ षष्ठोऽध्यायः

अथैनमादीपयते । आदीप्यमानमनुमन्त्रयते मैनमग्ने विदहो माभिशोचो मास्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोऽथेमेनं प्रहिणुतात् पितृभ्यः इति । प्रज्वलितमनुमन्त्रयते शृतं यदा करसि जातवेदोऽथेमेनं परिदत्तात् पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति इति । अत्र षड्ढोतारं व्याचष्टे सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति । अत्रैनमजं चित्यन्तेऽबलेन शुल्बेन बध्नाति अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमं सुकृतां यत्र लोकाः इति । स यद्यहो द्रवति नैनमावर्तयति । प्रागु हैक उपोषणात् । उदकुम्भेन त्रिरपसलैः परियन्ति वारुणीभिः । तत्प्रच्छाद्येन पर्णमयेन स्रुवेणोपघातं जुहोति य एतस्य पथो गोप्तारस्तेभ्यः स्वाहा इति नव स्रुवाहुतीः । अथान्यां जुहोति अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककुज्जातवेदो वहेमं सुकृतां यत्र लोकाः स्वाहा इति । अत्रैव स्रुवमनु प्रहरति । अत्रैतान्यवदानानीडमूने प्रच्छाद्यौदुम्बर्या दर्व्योपघातं जुहोति अग्नये रयिमते स्वाहा इति । अत्रैव दर्वीमनुप्रहरति जघनेन चिताम् । अथैनं नवर्चेन याम्येन सूक्तेनोपतिष्ठते प्रकेतुना बृहता भात्यग्निः इति (तैआ ६.३.१ ) । आसीनः पराचानुशंसति । जघनेन दहनं तिस्रो दक्षिणाः कर्षूः कुर्वन्ति । अथैना अद्भिरनुप्लाव्य सिकताभिरवकीर्य संगाहन्ते यवीयान् यवीयान् पूर्वः संगाहन्ते । अश्मन्वती रेवतीः संरभध्वमुत्तिष्ठत प्रतरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान् वयमभि वाजानुत्तरेम इति । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्ति यद्वै देवस्य सवितुः पवित्रं सहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै तेनाहं मां सर्वतनुं पुनामि इति । जघन्यो व्युदस्यति या राष्ट्रात् पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः । धातुस्ताः सर्वाः पवनेन पूताः प्रजयास्मान् रय्या वर्चसा संसृजाथ इति । यत्रापस्तद्यन्त्यनवेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिकाः प्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याचम्यादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति १
एतस्मिन् कालेऽस्यामात्याः प्रकीर्णकेशाः केशश्मश्रूणि वापयन्ते ये सन्निधाने भवन्ति । विकल्प इतरेषु । वापयेरन् निवर्तयेरन्वा । श्रुतवता तु वप्तव्यमेवासन्निधानेऽपीति मतं बोधायनस्य कल्पे । न समावृत्ता वपेरन्नन्यत्र विहारादित्येके । मातरि पितर्याचार्य इति त्रिरात्रं क्षारलवणवर्जितभोजनमधःशयनं ब्रह्मचर्यं त्र्यहं षडहं द्वादशाहं संवत्सरं यावद्ग्रहणं द्वादशाहापरार्धम् परमगुरुष्वेवमघोदकम् इतरेषु त्रिरात्रम् यावज्जीवं प्रेतपत्नी । अथ यद्याहिताग्निरन्यत्र प्रेयादादीप्यमानैराहूयमानैर्वसीरन् यावदस्य शरीरमग्निभिः समागमयेरन् । अथैतदभिवान्यायै पयो दोहयित्वा गार्हपत्ये ऽभिविष्यन्दयित्वाहवनीयेऽभिविष्यन्दयेत् । अधस्तात् समिधमाहरन्त्युपरिष्टाद्धि देवेभ्यो हरन्ति इति विज्ञायते । अथैनमादायान्तरेण वेद्युत्करावुदगुपनिर्हृत्य प्रसिद्धमुपोषेयुः । अथ यद्याहिताग्निरन्यत्र प्रेयादुदकान्ते त्रीनग्न्यगारानालिख्य सकृत् प्रविश्य निमील्य निगृह्य स्कन्दक्षिणान्तानादित्यमुदीक्षेत् । परिकुर्वीत च । अनेनैव त्रिर्विदेशस्थे । अथ यदि दग्धः स्यादस्थीन्याहृत्यान्तर्वेदि शरीराणां कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुः । अथ यद्यस्थीनि न विन्देत त्रयाणां षष्टिशतानां पर्णत्सरूणामेव कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुः । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च इति विज्ञायते । पुरुषाहुतिर्ह्यस्य प्रियतमा इत्येतामनुख्यातां दहनस्य ब्रुवते । अथाप्युदाहरन्ति शरीरदायादा ह वाग्नयो भवन्ति इति । तदपि दाशतये विज्ञायते शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः इति २
अथातः संचयनम् । एकस्यां व्युष्टायां तिसृषु वा पञ्चसु वा सप्तसु वा नधस्वेकादशसु वायुग्मेष्वहस्सु अर्धमासेषु मासेषु ऋतुषु संवत्सरेषु वा सम्पाद्य सञ्चिनुयुरिति । स उपकल्पयते सतं च क्षीरं चाज्यं च उदकुम्भं च दर्भांश्च परिस्तरणीयान् नीललोहिते सूत्रे बृहतीफलं चाश्मानं चापामार्गं च वैतसशाखां च सिकताश्च शुल्बे च तिस्रश्च पर्णशाखाश्च । अत एव दहनादङ्गारान्निर्वर्त्य तिस्रो अवसर्जनीया जुहोति अवसृज पुनरग्ने पितृभ्यः संगच्छस्व पितृभिः यत्ते कृष्णः शकुन आतुतोद इति । एतस्मिन् सते क्षीरं चोदकुम्भं च निक्षिप्य वैतसशाखयावोक्ष्य सम्पादयत्यप्रकाथयन् शरीराणि यं ते अग्निममन्थाम इति षड्भिः । प्रथमां वोत्तमां द्विरभ्यावर्तयेयुः । अथैतदादहनमुदकुम्भैः स्ववोक्षितमवोक्ष्य या अस्य स्त्रीणां मुख्या सा सव्ये पाणौ बृहतीफलं नीललोहिताभ्यां मूत्राभ्यां विश्रथ्याश्मानमन्वास्थायापामार्गेण सकृदुपमृज्यानन्वीक्षमाणा पत्तः शिरस्तो वास्थीनि गृह्णाति उत्तिष्ठातस्तनुवं संभरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु इति । इदं त एकम् इति द्वितीयम् । पर ऊत एकम् इति तृतीयम् । तृतीयेन ज्योतिषा संविशस्व इति चतुर्थम् । संवेशनस्तनुवै चारुरेधि इति पञ्चमम् । प्रियो देवानां परमे सधस्थे इति षष्ठम् । अथैनं सुसञ्चितं संचित्य पिण्डीकरोति । तं तथा करोति यथास्य कपोतः छायायां नोपविशेदिति । अथैनम् अपरिमितैः क्षुद्रमिश्रैरश्मभिः परिचिनोति न तेन परिचिनुयाद् यथास्य कपोतः छायायामुपविशेत् । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कुम्भे वा सते वा कृत्वोपोत्तिष्ठति उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् इति । संप्रवेशं कुम्भं निधाय अथातो हविर्यज्ञियं निवपनम् यं कामयेतानन्तलोकः स्यात् इति । तमस्या उद्धते सिकतोपोप्ते परिश्रिते निदधाति पृथिव्यास्त्वा अक्षित्या अपामोषधीनां रसे स्वर्गे लोके नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुमसौ इति । अनन्तलोको हवै भवति इति विज्ञायते । जघनेन कुम्भं तिस्रो दक्षिणाः कर्षूः कुर्वन्ति । तत् पुरस्ताद् व्याख्यातम् । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्ति । तत् पुरस्तात् व्याख्यातम् । यत्रापस्तद्यन्त्यनवेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिकाः प्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याचम्याथादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यश्चात्र स्त्रिय आहुस्तत् कुर्वन्ति ३
अथ यदि पुनर्धक्ष्यन्तो भवन्ति पुरस्तादेवावशेषयेयुर्जुहूं चारणीं च कृष्णाजिनं दृषदुपले शम्यामिति । अथ यद्यनुहृताः स्युर्यस्यकस्यचिदश्वत्थस्यारणी गृहीत्वा मथित्वाग्निमुपसमाधाय परिस्तीर्य कृष्णाजिने शम्यायां दृषदुपले युक्त्वास्थीन्येवाञ्जनं पिष्ट्वा पुराणेन सर्पिषा समुदायुत्य जुह्वा प्रसेकं जुहोति अस्मात्त्वमधिजातोऽस्मयं त्वदधिजायताम् । अग्नये वैश्वानराय स्वर्गाय लोकाय स्वाहा इति । अत्रैवानुप्रहरति जुहूं चारणीं च कृष्णाजिनं दृषदुपले शम्यामिति । अत्राप्युत्प्रेक्षा भवन्ति । तं यदि ज्वालोर्ध्वमभ्युज्ज्वलेद् देवलोकमभ्यजैषीदित्येनं जानीयाद् अथ यदि मुहूर्तमुदेत्य वा भ्रमेदन्तरिक्षमभ्यजैषीदित्येनं जानीयाद् अथ यदीमामनुविनमेदिहैवेत्येनं जानीयात् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति । न चास्यात ऊर्ध्वं श्मशानं कर्तुमाद्रियेत । कृतीर्वास्य दहने वपेदपस्याभिर्वा परिचिनुयात् । तमभ्येवादित्यस्तपति अभि वा वातः पवते स नादित्यस्य सकाशान्न वायोर्नापां स्पर्शाच्छिद्यते । यमेवं निदध्युर्य उ चैनमेवं विदुरेवमु हाहीना हायना वाश्वत्थं निदध्युस्तं हो एवं चक्रे तस्यो हेमेऽहीना हायना श्रेयसी श्रेयसी ह्यस्मै वस्यसी वस्यसी प्रजा भवति । यमेवं निदध्युर्य उ चैनमेवं विदुरेतां ह कौषीतकिर्विदांचकार । तस्यो हेमे कौषीतकिनः श्रेयसी श्रेयसी ह्यस्मै व्युच्छन्ती व्युच्छन्त्यस्मै वस्यसी वस्यसी प्रजा भवति यमेवं निदध्युर्य उ चैनमेवं विदुर्य उ चैनमेवं विदुः ४
अथैनमादीपयते आदीप्यमानमनुमन्त्रयते एतस्मिन्काले
अस्यामात्या अथातः संचयनम् अथयदिपुनर्धक्ष्यन्तः चत्वारि ।
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः

अथ गृहानेष्यन्नुपकल्पयते वारणं स्रुचं च स्रुवं च वारणान् परिधीन् कुशमयं बर्हिः पर्णमयमिध्मं रोहितं चर्मानडुहं नवं च सर्पिराञ्जनं चाश्मानं चानड्वाहं च शमीशाखां च कुशतरुणकानि च दर्भस्तम्भं चाजं च यवांश्च इति । अथान्तरेण ग्रामं च श्मशानं च तद्वृधाग्निमुपसमाधाय कृशमयं बर्हिस्तीर्त्वा वारणान् परिधीन् परिधाय पर्णमयमिध्ममभ्यज्य स्वाहाकारेणाभ्याधायाथैतद्रोहितं चर्मानडुहं जघनेनाग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति । तदारोहन्ति यावन्तोऽस्य ज्ञातयो भवन्ति आरोहतायुर्जरसं गृणाना अनुपूर्वं यतमानाय तिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दिर्घमायुः करतु जीवसे व इति । अथैनाननुपूर्वं कल्पयन्ति यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति कॢप्ताः । यथा न पूर्वमपरो जहात्येवा धातरायूँषि कल्पयैषाम् इति । अथ वारणेन स्रुवेण वारण्यां स्रुचि चतुर्गृहीत्वा जुहोति न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति ते जनं पुनर्जरायुगौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघं मृत्यवे स्वाहा इति । अथ वारणेन स्रुवेणोपघातं जुहोति अप नः शोशुचदघम् इति द्वादश स्रुवाहुतीः । अथोपोत्थाय अनुड्वाहमन्वारभन्ते अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः संपारणो भव इति । प्राञ्चो यान्ति इमे जीवा विमृतैराववर्तिन्नभूद् भद्रा देवहूतिं नो अद्य । प्राञ्चो गामानृतये हसाय द्राघीय आयुः प्रतरां दधानाः । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः इति १
अथान्तरेनाग्निं च ग्रामं चाश्मानमवदधाति इमं जीवेभ्यः परिधिं दधामि मा नोऽनुगादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दद्महे पर्वतेन इति । अथैताः पत्नयो नवेन सर्पिषा संमृशन्ते इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संमृशन्ताम् इति । कुशतरुणकैः त्रैककुदेनाञ्जनेनाङ्क्ते यदाञ्जनं त्रैककुदं जातं हिमवतस्परि । तेनामृतस्य मूलेनारातीर्जम्भयामसि इति । अथैतानि कुशतरुणकानि समुच्चित्य दर्भस्तम्बे निदधाति । यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि । एवमिम उद्भिन्दन्तु कीर्त्त्या यशसा ब्रह्मवर्चसेन इति । प्रत्येत्य गृहानासन्दीं प्रेष्ठनीत्यारोहन्ति अनश्रवो अनमीवाः सुशेवा आरोहन्तु जनयो योनिमग्रे इति । अजं चैतदहः पचन्ते । यवौदनं च । अजं चाश्नाति । अजोऽस्यजास्मदधाद् द्वेषाँसि इति । यवौदनस्य प्राश्नाति । यवोऽसि यवयास्मदघाद् द्वेषाँसि इति । अथास्य श्राद्धं कुर्वन्ति । एकस्यां वा व्युष्टायां तिसृषु वा पञ्चसु वा सप्तसु वा नवसु वैकादशसु वायुग्मेष्वहस्सु अर्धमासेषु वा दद्यात् । काममहरहरेकादशमासान् दद्यात् । न द्वादशमासमभ्यारोहयेत् । संवत्सरे संवत्सरे वा एतस्मिन्नहनि दद्यात् । स एष एवं विहितः । एवमनाहिताग्नेः स्त्रियाः पुल्लिङ्गाः पात्रचयेष्टकाः केशवपनवर्जं पितुर्मातुराचार्यस्य वा क्रियेत । सहस्रदक्षिणो वाप्यन्यत्र । सन्तिष्ठते पितृमेधः सन्तिष्ठते पितृमेधः २
यथो एतदाहिताग्नेर्निर्मारं गच्छतः प्रतिकृष्य प्रातरग्निहोत्रं जुहुयात् प्रतिकृष्यामावास्यां यजेतेति । तयैते कर्मणी अभिसञ्चरेद्यथा वा जीवतः कृते स्याताम् । सो चेदहुते प्रातरग्निहोत्रेऽव्युष्टायाममावास्यायां प्रेयात् तदानीमेवास्य तूष्णीं प्रातरग्निहोत्रं यादृक् कीदृक् च होतव्यं तदानीमेवास्य तूष्णीममावास्यायां यादृशीं कीदृशीं वा यजेत । सो चेत् पुनरगदः स्यात् पुनरेवास्य प्रातरग्निहोत्रं काल्यमव्यापन्नं होतव्यम् । पुनरेवास्याममावास्यायां काल्यामव्यापन्नां यजेतेति । यथो एतन्न पयः समासिञ्चत्यामिक्षार्थं पयोऽवशेषयेदित्येवेदमुक्तं भवति । यथो एतदासन्द्यामित्येवेदमुक्तं भवति । यथो एतदन्तर्वेदि शरीराणां कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रतिच्छाद्य प्रसिद्धमुपोषेयुरिति विज्ञायते । पात्रचयनप्रभृति सिद्धमत ऊर्ध्वम् । एतावदेव नाना नात्र गोरालम्भोऽनुस्तरणीकाले कुशतरुणकैः शुष्कमोमयैर्घृतेनेत्यनुस्तृणीयाद् अग्नेर्वर्म परि गोभिर्व्ययस्व इत्येतदेव पर्णत्सरुषु । अपि वा यथेष्टिकल्पे । अपि वा तूष्णीमेव सर्वं क्रियेतान्यत्र चैव गोरालम्भादिति । अथ वै भवति । प्रजापतिः प्रजाः सृष्ट्वा वृत्तोऽशयत् । तं देवा ब्राह्मणं रसं तेजस्सम्भृत्य तेनैनमभिषज्यन्निति । चतुर्होतारमित्येवं ब्रूयात् । तस्य सग्रहैः होतृभिर्होमः भर्तुः सूक्तेन भरणं पत्नीभिरुपसंवेशनं दक्षिणाप्रतिग्रहैर्निर्मार्गो हृदयैर्हिरण्यशकलान् सम्भारैश्च पात्रचयो व्योतिष्यतीभिरुपोषणं नारायणाभ्यां ब्राह्मण एकहोता इति चोपस्थानं प्रयासाय स्वाहा इत्याज्याहुतीः चित्तं सन्तानेन इति पिशितहोमो मृत्युसूक्तेनानुशंसनं सौम्यया संगाहनम् ईयुष्ट्यावगाहनं सौर्येणादित्यस्योपस्थानमिति । तानेतान् परं ब्रह्मेत्याचक्षते । तान्न साधारणे श्मशाने प्रयुञ्जीत नानाचार्याय नाश्रोत्रियाय नागुरवे । पथो एतद्धविर्यज्ञियं निवपनं पुनर्दहनं चेति यदहः संचिनुयात् तदहरेवैतत् कुर्यात् । कुम्भान्तमनाहिताग्नेश्च स्त्रियाश्च । निवपनान्तं हविर्यशयाजिनः पुनर्दहनान्तं सोमयाजिनः चित्यन्तमग्निचितः । यदीतरं यदौतरमघोदकमुत्सिच्य दशरात्रमाशौचं कृत्वा शान्तिः । अथ यदि चितिश्चित्यन्ते शौचम् । चित्याः प्राक् कर्षूभ्यः कृत्वा श्वोभूते धुवनेनैव प्रतिपद्यते । सिद्धमत ऊर्ध्वम् ३
अथैतेषामुदकसपिण्डानां वान्धवानां मातुश्च योनिसम्बन्धेभ्यः पितुश्च सप्तमात् पुरुषादाचार्यान्तेवासिनोश्च सपत्नीकानां सापत्यानां सपिण्डानां दशरात्रम् । त्रिरात्रमितरेषाम् । बाले देशान्तरस्ये च सद्यः शौचमित्येके । एवं नित्योदकतर्पणेऽनुस्मरणं स्त्रीयाज्यशिष्याणाम् । न प्राक् चौळात् प्रमीतानां दहनं विद्यते । आपशुयाजिनां गोरालम्भः नासन्नयतामामिक्षा नाग्निचितां चितिः । न स्त्रीणां केशवपनं विद्यते न चितिर्नेष्टका न पुनर्दाहः । दारुवत् स्त्रीणां पात्राणि भवन्ति । बह्वृचां पितृमेधे स्त्रीणामिमान् मन्त्रानपोद्धरेत् । इयं नारी पतिलोकम् उदीर्ष्व नार्यभि जीवलोकं स्वर्णं हस्तादाददाना मृतस्य धनुर्हस्तादाददाना मृतस्य मणिं हस्तादाददाना मृतस्य मैनमग्ने विदहो माभिशोचः मृतं यदा करसि जातवेदः अजो भागस्तपसा तं तपस्व अयं वै त्वमस्मादधि त्वमेतत् इदं त एकं पर ऊत एकं यौ ते श्वानौ यत्ते कृष्णः शकुन आतुतोद उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व अस्मात्त्वमधिजातोऽसि अपेत वीत वि च सर्पतातः उच्छ्मञ्चस्व पृथिवि मा विवाधिया इति । मृतपत्नीकः क्रतूनाहरिष्यन् जायामुपयम्याग्नीनादध्यात् । विज्ञायते च तस्मादेको द्वे जाये विन्दत इति । मृतपतिकाया औपासनेन पितृमेधः । नह्यस्या अपतित्वात् पुनरग्न्याधेयं विद्यते । विज्ञायते च तस्मान्नैका द्वौ पती विन्दते इति । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्यविशेषाद् जायापत्योराहिताग्न्योरित्येवेदमुक्तं भवति । तयोर्यः पूर्वो म्रियेत तस्याग्नित्रेतया यज्ञपात्रैश्च पितृमेधः यः पश्चात् तस्यौपासनेन । सहप्रमीतयोः सहैकः पितृमेधः । औपासनं चोल्मुकार्थं स्यात् । औपासनेनानाहिताग्नेः स्त्रियाश्च निर्मन्थ्येन । उत्तपनीयेनैके समामनन्ति । निर्मन्थ्येन स्त्रीकुमारं दहेयुरित्येकेषाम् । मृतपत्नीकसमाग्निभिर्जायायां दग्धायामौपासनेन का प्रतिपत्तिरिति । क्रतुं चेदाहरिष्यन् स्याद् ब्राह्मोदनिकमेनं कुर्यात् । वनं चेदातिष्ठेद् औपासनमेवोपास्यं स्यात् । अथ चेत् संन्यसेन्नैनमाद्रियेत । नाशुचिः काम्यं तप आतिष्ठेन्न यजेन्न स्वाध्यायमधीयीतान्यत्राग्निहोत्रदर्शपूर्णमासाभ्यां दद्यात् । काममृत्विग्भ्यो दद्यात् । यथो एतद् गृहानेप्यन्नुपकल्पयते इति स्वान् गृहस्थधर्मान् प्रतिपत्स्यन्नित्येवेदमुक्तं भवति । कथमु खलु प्राचीनावीतिना पितृमेधः कार्यो यज्ञोपवीतिनेति । प्राचीनावीतिनेत्येवं ब्रूयात् । पितृणां वा एष मेधो देवानां वा अन्ये मेधा इति । निवीतिनश्चैवेदम् हरेयुश्चितायां चादध्युश्चितायां चादध्युः ४
अथगृहानेष्यन्नुपकल्पयते अथान्तरेणाग्निंचग्रामंच यथोएतदाहिताग्नेः
अथैतेषामुदकसपिण्डानां चत्वारि
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने सप्तमोऽध्यायः

अथाष्टमोऽध्यायः

एकाहं धुनुपुस्त्रीण्यहानि धुनुयुः पञ्चसप्तनवैकादशार्धमासान् धुनुयुः अयुग्मरात्रीरर्धमासान् मासानृतून् संवत्सरं वा संपाद्य धुनुयुरिति । स उपकल्पयते दधि च वाजिनमिश्रं कुम्भीं च शतातृष्णां तिस्रः पालाश्यो मेध्यो रोहितं चर्मानडुहम् आहननार्थमपसलावृत्तरज्जुं परिव्ययणीं च षट्च्छतानीष्टका आममया अपरिमिताश्च लोकंपृणा द्वया धानास्तिलमिश्राश्चातिलभिश्राश्चाभिवान्यायै दुग्धमर्धपात्रं समूलं बर्हिर्नलेषिकां भुक्तभोगं च वासः क्षेत्रवितॄण्णीं चतुरो लोष्टान् पञ्च चरून् पञ्चापूपान् घृतेनैकः क्षीरेणैको दध्नैको मधुनैकः चतुरः स्तम्बान् अर्जुनस्तम्बं दूर्वास्तम्बं काशस्तम्बं कुशस्तम्बं चतुरो नानावृक्ष्यान् परिधीन् पर्णमयवारणवेतसशमीमयान् द्वे द्वे वारणशाखां च क्षेत्रवितृण्णीं विधृतिं यवमयं सर्वौषधं च सिकताश्च शुल्बञ्च तिस्रश्च पलाशशाखाः । अथान्तरेण वा ग्रामं च श्मशानं चागारं वा विमितं वा कारितं वा भवति । तद्वृधाग्निमुपसमाधायापरेणाग्निं तिस्रः पालाश्यो मेध्यो निहत्य तासामन्तरेणास्थिकुम्भं निधाय तदुपरिष्टाच्छतातृण्णामध्युद्यम्य दध्ना वाजिनमिश्रेण पूरयति वैश्वानरे हविरिदं जुहोमि इमं समुद्रं शतधारमुत्सम् इति द्वाभ्याम् । अनुमन्त्रयते द्रपसश्चस्कन्द इति । अथैतत्पुरस्ताद्रोहितेन चर्मणानडुहेनाभिघातं त्रिरपसलैः परियन्ति । अजिनमौ अजिनमौ इति । त्रिस्त्रिरेव रात्रेः परियन्ति त्रिरह्नः । एवममात्या एवं स्त्रियः । तदनु नर्तक्यश्चानुनृत्येयुः । यश्चाहन्यते स्वार्यां वा पल्वले वा समवशमयन्ते । यदेषां समवशमयितं सम्भवति ते न तथा प्रययुर्यदहर्न पुरस्तान्न पश्चाच्चन्द्रमसं पश्येयुः । ते महारात्र उत्थाय प्रययुर्ज्ञात्वा श्मशानकरणम् । अथैते ब्राह्मणाश्चत्वारोऽभ्रिमादायोत्तरतो गत्वा लोष्टानुपसंहरन्तीष्टका वा । अथैतदादहनमुदकुम्भैः स्ववोक्षितमवोक्षति अपेत वीत वि द्च सर्पतातः इति । यथाजीवमुपसर्पे स्यात् न जीवन्तमभिदध्याज्जीवतो ह्येष प्राणानभिनिदध्यात् इति । पर्नशाखया पीडयित्वा अपसलवृत्तया रज्ज्वा परियन्ति प्रेमां मात्रामुपस्नुहि इति । तस्य मात्रा यदि ग्रीवदघ्नं पुरस्तान्नाभिदघ्नं पश्चाद्यदि जानुदघ्नं पुरस्ताद् गुल्फदघ्नं पश्चाद्यदि गुल्फदघ्नं पुरस्तात् समं भूमेः पश्चात् पुरुषमात्रं भवतीति विज्ञायते । उक्तविधाभ्यां समनु स्पन्द्यां लेखां लिखति । अपोद्धत्य स्पन्द्यां कर्षूः खानयन्ति । उच्छ्रयन्त्यस्या दक्षिणतः पश्चाद् भूयसीः कुर्वन्ति १
अथ द्वाभ्याम् आत्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निम् यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्यान्तः शर्करामिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथैतत्पुरस्तादेवौदुम्बरं युगलाङ्गलं कारितं भवति सप्तगवं वा शयोदशगवं वा शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यन्तां शुनमुष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम् शुनासीराविमां वाचम् इति द्वाभ्याम् । सीतां प्रत्यवेक्षते सीते वन्दामहे त्वार्वाची सुभगे भव । यथा नः सुभगा ससि यथा नः सुफला ससि इति । अथास्थिकुम्भं सीतायां निदधाति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव इति । अथानडुहो विमुञ्चति विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम सुवरगन्म इति । अत एतेऽध्वर्ययो भवन्ति यदि दक्षिणावान् पितृमेधः । यद्यु वै सत्रियोऽग्निर्यथागवं व्युदञ्चति । यत्रैवानड्वाहस्तद्युगलाङ्गलमिति । अथैनमुपवातयते प्रवाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति इति । अग्निवत्सर्वौषधीर्वपति यथा यमाय हार्म्यमवपन् पञ्च मानवाः । एवं वपामि हार्म्यं यथा साम जीवलोके भूरयः इति । अत्र सिकता निवपति अग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसम् । अथोर्ध्वचित उपदधाति चितस्स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथानुव्यूहति आ प्यायस्व इति गायत्र्या ब्राह्मणस्य । सं ते पयाँसि इति त्रिष्टुभा राजन्यस्य यथासुष्टु यथाशर्करमनुव्यूहति । अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्याभिद्रवणं जपति अपामिदं न्ययनं नमस्त इति द्वे । अथ क्षेत्रवितृण्ण्यां चतुरो लोष्टानुपदधाति उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहँरिषम् । एताँ स्थूणां पितरो धारयन्तु तेत्रा यमस्सादनात्ते मिनोतु इति पुरस्तादुपदधाति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णं मृदा युवतिर्दक्षिणावत्येषा त्वा पातु निरृत्या उपस्थे इत्युत्तरतः । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथासि चाभ्येनं भूमि वृणु इति पश्चात् । उच्छ्मञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहास्मै शरणाः सन्त्वत्र इति दक्षिणतः । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिलमिश्राभिर्धानाभिरुपकिरति एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहाः सन्त्वनपस्फुरन्तीः इति । अथैनमभिवान्यायै दुग्धमर्धपात्रं दक्षिणत उपदधाति एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ इति यजमानस्य नाम गृह्णाति । तया देवतं कृत्वा सूददोहसं करोति । दक्षिणतः समूलं बर्हिरुपदधाति इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं यमेन त्वं यम्या संविदानः इति । तया देवतं कृत्वा सूददोहसं करोति । अथ नलेषिकामुपदधाति नळं प्लवमारोहैतन्नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा सन्तर प्रतरोत्तर इति । तया देवतं कृत्वा सूददोहसं करोति । अथैनमस्थिकुम्भं भुक्तभोगेन वाससा निर्णिज्य यथाङ्गं चिनोति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव इति । अत्र षड्ढोतारं व्याचष्टे षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति परं भृत्योरनुपरेहि पन्थाम् इति च । अथैनमुपवातयति शं वातः शं हिते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः इति । अथैनान् पञ्च चरून् सापूपानुपदधाति अपूपवान् घृतवांश्चरुरेह सीदतूत्तभ्नुवन् पृथिवीं द्यामुतोपरि । योनिकृतः पथिकृतः सपर्यत ये देवानां घृतभागा इह स्थ एषा ते यमसादने स्वधा निधीयते गृहेऽसौ इति यजमानस्य नाम गृह्णाति । दशाक्षरा तां रक्षस्व तां गोपायस्व तां ते परिददामि । तस्यां त्वामादभन् पितरो देवता प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्व द्ध्रुवा सीद इति पुरस्तादुपदधाति । अपूपवाञ्छृतवान् इति दक्षिणतः अपूपवान् क्षीरवान् इति पश्चात् अपूपवान् दधिवान् इत्युत्तरतः अपूपवान् मधुमान् इति मध्ये शताक्षरा सहस्राक्षरा इति प्रतिदिशमनुषजति । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिलमिश्राभिर्धानाभिरुपकिरति एतास्ते स्वधा अमृताः करोमि इति । तया देवतं कृत्वा सूददोहसं करोति । अथ चतुरः स्तम्बानुपदधाति २
चरूणामुपरिष्टात् त्वामर्जुनौषधीनां पयो ब्रह्माण इद्विदुः । तासां त्वा मध्यादाददे चरुभ्यो अपि धातवे इति पुरस्ताद् अर्जुनस्तम्बं दूर्वाणां स्तम्बमाहरैतां प्रियतमां मम । इमां दिशं मनुष्याणां भूयिष्ठानुविरोहतु इत्युत्तरतो दूर्वास्तम्बं काशानां स्तम्बमाहर रक्षसामपहत्यै । य एतस्यै दिशः पराभवन्नघायवो यथा ते नाभवान् पुनः इति पश्चात् काशस्तम्बं दर्भाणां स्तम्बमाहर पितृणामोषधीं प्रियाम् । अन्वस्यै मूलं जीवादनुकाण्डमथो फलम् इति दर्भस्तम्बं दक्षिणतः । चतुर्णां स्तम्बानाम् अग्रे मध्यं च चरुमुपदधाति एतैरेव चतुर्भिर्मन्त्रैः । तया देवतं कृत्वा सूददोहसं करोति । अथ चतुरो नानावृक्ष्यान् परिधीन् परिदधाति मा त्वा वृक्षौ संबाधिष्टं मा माता पृथिवि त्वम् । वैवस्वतं हि गच्छासि यमराज्ये विराजसि इति वैतसशमीमयौ पुरस्ताच्चोत्तरतश्च । तया देवतं कृत्वा सूददोहसं करोति । अथ क्लेषीकावित्येके । अथ लोष्टानुपदधाति । पृथिव्यास्त्वा लोके सादयामि । प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति शतं पुरस्तादुपदधाति अन्तरिक्षस्य त्वा लोके सादयामि इति शतमुत्तरतः दिवस्त्वा लोके सादयामि इति शतं पश्चात् दिशां त्वा लोके सादयामि इति शतं दक्षिणतः नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयामि इति द्विशतं मध्ये । तया देवतं कृत्वा सूददोहसम् करोति । अथ लोकंपृणा उपदधाति लोकं पृणच्छिद्रं पृण इति लोकंपृणाभिः सहस्रं सम्पद्यते । द्विषाहस्रादिष्वेतावदेव पुनः पुनरुपदध्यात् । काठकाग्निचितावपि पञ्चाशीतिशतमुपदध्यात् । विज्ञायते अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्यामिक्षया वा इति काठकाग्नीनां ब्राह्मणम् । तया देवतं कृत्वा सूददोहसं करोति । अथैनमुपवातयति शं वातः शं हिते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां ते दिशः सर्वाः इति । अथैनमभिमृशति इदमेव मेतोऽपरामार्तिमारामकाञ्चन । तथा तदश्विभ्यां कृतं मित्रेण वरुणेन च इति । पुरस्ताद् वारणशाखां निदधाति वरणो वारयादिदं देवो वनस्पतिः आर्त्यै निरृत्यै द्वेषाच्च वनस्पतिः इति । उत्तरतः क्षेत्रवितृण्णीं निदधाति विधृतिरसि विधारयास्मदघाद् द्वेषाँसि इति । पश्चाच्छमीशाखां निदधाति शमि शमयास्मदघाद् द्वेषाँसि इति । दक्षिणतो यवान् निदधाति यव यवयास्मदघाद् द्वेषाँसि इति । अथैनमुपतिष्ठते पृथिवीं गच्छान्तरिक्षं गच्छ दिवं गच्छ दिशो गच्छ स्वर्गच्छ स्वर्गच्छ दिशो गच्छ दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छापो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति । जघनेन चितां तिस्रो दक्षिणाप्राचीः कर्षूः कुर्वन्तीति । तत् पुरस्ताद् व्याख्यातम् । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्तीति । तत् पुरस्तात् व्याख्यातम् । यत्रापस्तद्यन्त्यनवेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिका आप्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योचीर्याचम्यादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति । अत्र शानिं कुर्वन्ति सौत्रामण्याः प्रत्याम्नायो भवतीति । अत्रामिक्षया कुर्यात् । सन्तिष्ठते लोष्टचितिः सन्तिष्ठते लोष्टचितिः ३
एकाहंधुनुयुः अथद्वाभ्यामा
त्मन्यग्निंगृह्णीते चरूणामुपरिष्टात् त्रीणि ।
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने अष्टमोऽध्यायः

अथ नवमोऽध्यायः

अथ यदि नष्टाग्निरपहृताग्निर्वा यजमानः प्रेयाद् यद्यस्य पुत्रो वान्तेवासी बालंकर्मण्यः स्यात् । प्राचीनावीतं कृत्वोद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यस्यायतने अरणीं निधाय प्रेतस्य दक्षिणं बाहुमन्वारभ्य मन्थति येऽस्याग्नयो जुह्वतो मांसकामाः संकल्पयन्ते यजमानं जायन्तु ते हविषे स्वादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु इति । तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेन मनसानुद्रुत्याहवनीये जुहोति । एतेनैव गार्हपत्ये जुहोति । तूष्णीमन्वाहार्यपचने हुत्वा ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्येत । यथो एतत्परोक्षं प्रेतस्य यजमानस्यास्थीन्याहृत्य संस्कुर्यात् । कथमत्राहरणं विद्यत इति । शिरस्तः प्रथमं गृहीत्वाथोरस्तोऽथ जठरतोऽथोरुबाहुभ्यामथ पत्त इति त्रयस्त्रिंशतमस्थीनि गृह्णातीति विज्ञायते त्रयस्त्रिंशत् पुरुषः इति । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कण्याजिनं दक्षिणाग्रीवमुत्तरलोमास्तीर्य तस्मिन्नस्थीनि संभरति इन्द्रो दधीचो अस्थभिः इत्येतेनानुवाकेन । तया देवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथ सूददोहसं करोति ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः इति । दीर्घवंशे विग्रथ्याक्षारलवणाशिनो मृण्मयभाजने आहरन्ति । तानि ग्राममर्यादायां निधायाग्नीनाहरेयुः । यद्यतिहरेयुरग्नयो लौकिकाः सम्पद्येरन् । विज्ञायते च प्रवसन् यजमानोऽग्निभ्यः परिदाय गृहानेति । यतो ग्राममर्यादां नातिव्रजन्ति । तस्माद् ग्राममर्यादां नातिहरेत् इति १
अथ यद्यात्मनि समारूढेष्वग्निषु अरण्योर्वा यजमानः प्रेयाद् यद्यस्य पुत्रो वान्तेवासी वालंकर्मण्यः स्यात् । प्राचीनावीतं कृत्वोद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यस्यायतने लौकिकमग्निमुपसमाधाय प्रेतस्य प्रदक्षिणं बाहुमन्वारभ्य जपति उपावरोह जातवेद इमं प्रेतं स्वर्गाय लोकाय नय प्रजानन् । आयुः प्रजां रयिमस्मासु धेहि प्रेताहुतीश्चास्य जुषस्व सर्वाः इति । अपि वारण्योरुपावरोह्य मन्थेदिति । तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा दुर्गां मनस्वतीं महाव्याहृतीर्हुत्वा तद्यमो राजा इति द्वाभ्यां पूर्णाहुतिं हुत्वा यद्यर्थिनो विन्देरन् तेभ्यो धेनुं ददाति । अथ परोक्षगतप्रेतस्य यजमानस्य दिगेव प्रज्ञायते । तां दिशं विहारं कल्पयित्वा असावेहि इति नामग्राहमाहूय पर्णत्सरूणामेव कृष्णाजिने पुरुषाकृतिं कृत्वा तेषूपरि पात्राणि चित्वा कुशतरुणकैः प्रच्छाद्य प्रसिद्धमुपोषेयुः । यद्येवं कृतेऽग्निभिस्तीर्य यजमानः पुनरागच्छेत् कथं तत्र कुर्यादिति २
अथ याज्ञिकात् काष्ठादग्निं मथित्वा अग्निमुपसमाधाय परिस्तीर्याग्निमुखात् कृत्वा पक्वाज्जुहोति हिरण्यगर्भः समवर्तताग्रे इति द्वाभ्याम् । अथाज्याहुतीरुपजुहोति सहस्रशीर्षा पुरुषः इत्येतेनानुवाकेन स्वाहाकारैः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अपरेणाग्निं सौवर्णेन पात्रेण नवेन वा मृण्मयेन कृष्णाजिनेन वा दृतिभूतेन घृतेना पाभिः पूरयित्वा जीवपितुश्चेत् पिताभिमन्त्रयते विष्णुर्योनिं कल्पयतु इति । अथैनं प्रवेशयति यां पूषन् शिवतमामेरयस्व इति । स गर्भो भूत्वा कृष्णाजिने दृतिभूते रात्रिं वसति । व्युष्टायां जघनार्धादात्मानं प्रतिकृष्य जायेत । जातस्य जातकर्मप्रभृति संस्कारान् कारयित्वा दशरात्रव्रतं चरेत् । तथैव जाययाग्नीनाधाय व्रात्येन पशुनेष्ट्वा गिरिं गत्वाग्नये कामायेष्टिं निर्वपेदायुष्मतीं शतकृष्णलाम् । दिशामवेष्ट्या यजेत । अत ऊर्ध्वं ईप्सितैर्यज्ञक्रतुभिर्यजेतेति
विज्ञायते ।
हिरण्यगर्भः सम्भूतो ब्राह्मणस्तीर्णनिर्णयः
प्रत्युत्थानं न कस्यापि कुर्याद् देवसमस्तु सः
इति विज्ञायते
तस्मात् प्रोषिते यजमाने चतुर्विंशतिवर्षाणि परिपाल्याग्निहोत्रं संस्कुर्यादिति स
यद्यश्रुतः स्यात् । अथाग्रयणेष्टिपशुचातुर्मास्याध्वराणामसमाप्ते व्रतान्तराळे प्रमीयेत यद्यस्य पुत्रो वान्तेवासी वा शेषांश्चैकतन्त्रं समाप्नुयात् । यद्दैवत्यं पशुमालभेत तद्दैवत्यं पुरोडाशमामिक्षां वा यजेत । अथ वै भवति तमसो वा एष तमः प्रविशति सह तेनाहिताग्निमन्यैरग्निभिः संस्कुर्याद् इति । अथाप्युदाहरन्ति शरीरदायादा ह वाप्नयो भवन्ति इति । मरणे क्षेयोऽस्ति । य एवं विद्वानुदगयने प्रमीयते सौर्येण पथा स्वर्गं लोकमेत्यथ यो दक्षिणे प्रमीयते चान्द्रमसेन पथा पितृलोकमेति इति विज्ञायते । ता सूर्याचन्द्रमसा विश्वभृत्तमा महद् इत्याहुतीभिरेवैनं रात्रावपरपक्षे दक्षिणायनेन यदुदगयने आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति । अन्येषु नियमभूतेषु सत्रेषु दीक्षितप्रमीतवदेकाहेऽहीने च कुर्यादिति ३
अथयदिनष्टाग्निः अथय
द्यात्मनिसमारूढेषु अथयाज्ञिकात्काष्टात् त्रीणि
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने नवमोऽध्यायः

अथ दशमोऽध्यायः

अथ हैके तूष्णीमितरेषाम् इत्यत्रोदाहरन्ति
भार्यासंज्ञिता नारी पुरुषो ब्राह्मणसंज्ञकः
त एते होतृसंस्कारा इतरेऽमन्त्रसंस्कृताः । इति
ताननु व्याख्यास्यामः । अनुपेत उन्मत्तो जळोऽन्धो मूको बधिरः कृष्ठी
किलासी कुब्जः पङ्गुर्हीनाङ्गोऽधिकाङ्गः सहाञ्जगतो ब्राह्मणोऽनाथो राजन्योऽनग्निर्गृहस्थो वैश्यस्य स्त्रियामुत्पन्नपुत्राः कन्या विधवा बन्ध्या चेति । तेषां प्राणेषूत्कान्तेषु तूष्णीं स्नापयेत् । श्मशानं नीत्वा दहनं जोषयेदमन्त्रेण । शाखया संभृज्य सम्प्रकीर्य तिलतण्डुलान् सम्प्रकीर्य चितां कल्पयित्वा चितायां प्रेतं निधायाव्येनास्ये निनयेत् इदं त आत्मनः शरीरम् अयं त आत्मा आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनत्ति भूर्भुवस्वरसौ स्वर्गाय लोकाय स्वाहा इति । मन्त्रेण सिग्वातेनोपवीजयन्ति । तूष्णीमुदकुम्भेनापसव्यं परिषिञ्चति । उत्तपनेनाग्निना संयोजयेत् अस्मात्त्वमधिजातोऽसि अयं त्वदधिजायताम् । अग्नये वैश्वानराय स्वर्गाय लोकाय स्वाहा इति । तीर्थेऽभिषिञ्चेत् १
अथ गर्भिण्यास्तैष्यां कृतायाम् अत ऊर्ध्वं स्रियेत भर्ता श्मशानं नीत्वा दहनं जोषयेत् । चितां कल्पयित्वापरेण चितायाः प्रेतं निधाय नाभेः सव्यस्योपरिष्टाद् लेख्येन हिरण्यगर्भः समवर्तताग्रे इत्यवलेखनम् । कुमारं दृश्यमानमनुमन्त्रयते जीवतान्मम पुत्र इति । अथ कुमारं स्नापयेयुः । हिरण्यमन्तर्धाय जीवता ग्राममायान्ति । यस्ते स्तनः शशयः इति स्तनं प्रदाय तस्मिन्नुदर आज्याहुतीर्जुहोति शतायुधाय शतवीर्याय इत्येताभिः पञ्चभिः प्रयासाय स्वाहा इत्येतेनानुवाकेन । प्राणाय स्वाहा व्यानाय स्वाहा इत्येतेनानुवाकेनाव्रणं कुर्यात् । प्रेतं चितामारोप्य विधिना दाहयेत् । अष्टकाधेनुं तिलधेनुं भूमिधेनुं वा दद्यात् । अथ नराणामशुचिर्भवेद् ब्राह्मणक्षत्रियवैश्यानां सूतके प्रेतके वान्येष्वशुचिर्मृतिः पञ्चगव्येन सुरभिमत्या अब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरग्निर्मूर्धेत्यान्तादनुवाकस्य शतरुद्रीयं प्रोक्षयित्वा यथाशक्ति दक्षिणां दत्त्वा पैतृमेधिककर्म प्रतिपद्यत इति २
अथ गृहस्थो बहुजायां विन्देत दासामन्यतमा म्रियेताग्निनैव पैतृमेधिकम् कर्म प्रतिपद्येत । अथ ऊर्ध्वं दशरात्रं व्रतं चरेत् । अधःशयनं ब्रह्मचर्यम् अनङ्गवेषमनक्ताशनं नासपिण्डान्योन्यस्पर्शनमन्योन्यान्नभोजनमित्येवमादि व्रतं चरेत् । अन्येष्वघाहेषु च । एकादश एकोद्दिष्टं कुर्वन्ति । इतराभिः पत्नीभिरग्निमन्वाधाय तस्मिन् गृह्याणि कर्माणि क्रियन्ते । गृहस्थो बहुजायां विन्देदौपासनं तन्त्रं न कृत्वा तस्यां वा म्रियेत प्रसिद्धं तत्र कल्पेन तन्त्रं कृत्वाग्निना दाहयेत् । अत ऊर्ध्वमितराभिः पत्नीभिरग्निमन्वाधाय तस्मिन् गृह्याणि कर्माणि क्रियन्ते । तासामपरा म्रियेत पूर्वाग्निमुपसमाधाय संपरिस्तीर्य स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा अन्वारब्धायां पत्न्यां यजमानो जुहोति नमस्तर्षे गद । अव्यधायै त्वा स्वधायै त्वा । मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवाब्रह्मन् तवेदस्तु स्वाहा इति । अथैनमग्निं समारोप्य अयं ते योनिरृत्विय इति अपराग्नौ समिधमभ्यादधाति आजुह्वानः उद्बुध्यस्व इति द्वाभ्याम् । सम्परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वान्वारब्धप्रेतस्य दक्षिणं बाहुमन्वारभ्य जुहोति यो ब्रह्मा ब्रह्मण उज्जहार इत्येतेन सूक्तेन । एकैकशश्चतुर्गृहीतं गृहीत्वा प्रणीताभ्यः कृत्वा चतुश्शरावमोदनं श्रपयित्वा अभिघार्योदञ्चमुद्वास्याधिष्ठितमभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति समितं सङ्कल्पेथाम् इति पुरोनुवाक्यामनूच्य अग्ने पुरीष्याधिपा भवा त्वन्न इति याज्यया जुहोति । श्वभ्रे काष्ठेऽथाज्याहुतीरुपजुहोति पुरीष्यस्त्वमग्न इत्यान्ताननुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । विधिना दाहयेत् । दशरात्रादत ऊर्ध्वं इतराभिः
पत्नीभिरग्निमन्वाधाय तस्मिन् गृह्याणि क्रियन्ते ३
प्रणम्य वन्दनं कायैः सदाख्यं परमेश्वरम्
पतीनां प्रेतसंस्कारविधिं वक्ष्ये विशेषतः
विप्रो गृहस्थः शुद्धात्मा यतिसंस्कारमाचरेत्
शिक्ये शरीरमारोप्य गन्धमाल्यैरलङ्कृतम्
तुषाग्निमत्र चोद्वास्य संस्कर्तानुहरेद्यतिम्
घोषितं जयशब्देन दुन्दुभीनां रवैरपि
प्राचीमुदीचीं वा गत्वा शुद्धं देशं समाश्रयेत्
खात्वा व्याहृतिभिर्देशं दण्डायामप्रमाणकम्
सप्तव्याहृतिभिः प्रोक्ष्य तत्र दारुचितिं क्रियात्
याज्ञिकैस्तु यथाशक्ति काष्ठैरन्यैरथापि वा
ततः शरीरं प्रक्षिप्य सावित्र्या शुद्धमानसः
विष्णो इव्यं रक्षस्वेति हविस्तस्यां निधापयेत्
पवित्रं तेति मन्त्रेण पवित्रं स्थापयेन्मुखे
त्रिदण्डं दक्षिणे पाणाविदंविष्ण्वादिना न्यसेत्
सव्ये शिक्यं यदस्येति स्वाहान्तेन निधापयेत्
सावित्र्या तूदरे पात्रं गुह्यस्थाने कमण्डलुम्
भूमिर्भूम्ना ममाग्नेति स्थापयेत् कौपनं ततः
अध्येन क्षिप्तसर्वसाधनसंयुतम्
शरीररं होतृभिः कर्ता सग्रहैरुपतिष्ठते
तुषाग्निना दहेद् देहं यातवातह सह भविष्यति
अथाप्युदाहरन्त्येयं वेदार्थनिपुणा बुधाः
विषेकादिश्मशानान्ता विधयो ब्राह्मणाश्रयाः
तस्मिन् यतेश्च संस्कारं मन्त्रवत् कुरुते गृही
आत्मन्यग्निं समारोप्य यः प्रेतमवदह्यति
तस्य पुत्रो विधानेन ह्यवरोप्याग्निना दहेत्
अपि होतृविधानेन गायत्र्या प्रणवेन च
सन्निकृष्टे तु संन्यस्ते पितर्युपरते सुतः
दहनं तस्य कर्तव्यं श्राद्धं पिण्डोदकक्रिया
आदावेव विकल्पेन ब्रह्मचारी यतिर्भवेत्
तत्र श्राद्धं गृहस्थस्य कर्तव्यं सन्निधौ भवेत्
यतिं वहन् दहन् स्पर्शन् स्नानमात्रेण शुध्यति
अश्वमेधफलं सर्वे प्राप्नुवन्ति पृथक् सुतैः
कर्मनिष्टे तु संन्यस्ते पितर्युपरतेऽस्य तैः
दाहस्तस्य न कर्तव्यः श्राद्धं पिण्डोदकक्रिया
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च
न तस्य दहनं कार्यं नाशौचं नोदकं ततः ४
अथातः पुनःसंस्कारं व्याख्यास्यामः । त्रीणि षष्टिशतानि पलाशवृन्तानां तैः
कृष्णाजिने पुरुषाकृतिं कृत्वा यदि शरीरं नश्येयुः पुनः संस्कारं कुर्वन्ति । अहरहरञ्जलिनैकोत्तरवृद्धिरा त्र्यहात् तस्याग्निभिर्दहेयुः इति विज्ञायते । पलाशवल्कैः कुशैर्वा सन्धिषु संवेष्टयति । चत्वारिंशता शिरः दशभिर्ग्रीवां विंशत्योरस्त्रिंशतोदरं पञ्चाशता पञ्चाशतैकैकं बाहुं तेषामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्पयते । सप्तत्या सप्तत्यैकैकं पादं तेषामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्पयते । अष्टाभिः शिश्नं द्वादशभिर्वृषणम् । तान् स्नापयित्वालङ्कृत्य अहतेन वाससा प्रच्छाद्यान्तर्वेद्यां निधाय बान्धवाः पर्युपविश्याभिमन्त्रयन्ते यमस्यासौ यमस्य स इमे यमग्नय इति । एतदादिकर्म प्रतिपद्यन्ते ५
अथहैकेतूष्णीम् अथगर्भिण्यास्तैष्यांकृतायाम् अथगृहस्थोबहुवायांविन्देत प्रणम्य
वन्दनं अथातःपुनःसंस्कारं पञ्च ।
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने दशमोऽध्यायः

अथ एकादशोऽध्यायः

अथातो मृतबलिं व्याख्यास्यामः केशश्मश्रूणि वापयित्वा स्नात्वोदकं क्रियेत । प्राग्दक्षिणायतने चतुरश्रं गोमयेनोपलिप्य त्रिरश्मानं मध्ये निधाय सकृदुल्लिख्याद्भिरभ्युक्ष्य दक्षिणाग्रान् दर्भान् संस्तीर्य सकृत्तिलमिश्रं चरुमवद्यति मुष्टिप्रमाणं कुक्कुटाण्डप्रमाणं वा । प्रकीर्णकेशः सव्यं जानुं भूमौ निधायाश्मनि पिण्डं दद्यात् । एतत्तेऽमुष्मै पिण्डं दद्यात् । आञ्जनाभ्यञ्जने वासश्च दद्यात् । पात्रेणोदकं प्रदक्षिणं निनयेत् । अत्र प्रेताः काकादभिहरन्ति । एवं सायंप्रातः कृत्वा दशम्यां विकृताहारं सायं बलिं दत्त्वाव्युष्टकाले उपनिनीय ब्राह्मणान् हीनाङ्गानतिरिक्ताङ्गान् कुष्ठीन् कुनस्वीन् श्यावदन्तान् रोगीन् वृषळीपतीन् उन्मत्तान् पापीन् वर्जयित्वा शुचीन् श्रोत्रियान् सुवृत्तान् अध्ययनसम्पन्नान् गृहस्थान् दरिद्रान् क्रियापूर्वान् पात्रभूतान् सद्योऽधिगम्यान् असगोत्रसम्बन्धयुक्तान् आयन्त्र्य कर्मसु व्याख्यातान् एतत्ते पिता समनसो यत् किञ्चित् प्रेतायानुमतः श्वोभूते मे पितुरेकोद्दिष्टश्राद्धं भुञ्जतां भवन्त इति । भुज्यते इति प्रतिवचनम् १
एकादश्यामेकोद्दिष्टं कुर्वन्ति । अव्युष्टे काले ब्राह्मैणमाहूय किञ्चिद्दत्त्वा निवेद्यानुमन्त्रयते श्वोभूतेऽन्नं संस्कृत्य लुप्तश्मश्रुलोमनखाय ब्राह्मणाय दन्तकाष्ठं दत्त्वा धनधान्यपात्रं संस्पृष्ट्वा देशे पात्राणीत्यादि दत्त्वा ब्राह्मणमुदङ्मुखमुपवेशयेत् । तिलमिश्रेणोदकार्थं दद्यादन्यत्र प्राचमनात् । एकपवित्रान्तर्हिते पात्रेऽप आनीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । ब्राह्मणाय गन्धादि दत्त्वा पिण्डं निवपामि इत्याह । पिण्डं निवप इति प्रतिवचनम् । अथ दर्भेषु पिण्डं निदध्यात् अयमोदनः कामदघुओ!ऽस्त्वनन्तोऽक्षीयमाणः सुरभिः सर्वकामैः । स त्वोपतिष्ठत्वजरो नित्यभूतः स्वधां दुहानाममृतांस्तर्पयन्त्वसौ इति । एकं पिण्डं दत्त्वा तिलोदकैः प्रसव्यं परिषिञ्चति ऊर्जस्वतीः स्वधया वन्दमानास्तास्ते श्रयन्तीः स्योना ऊर्जं वहन्तीः स्वधामक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतम् इति । अञ्जनादिना पिण्डमलङ्कृत्य ब्राह्मणं सम्पूज्याङ्गुष्ठमूलमुपसंगृह्य भुङ्क्ष्व इत्याह भुज्यत इत्युक्त्वा अथ भुञ्जाने सर्वेषामुच्छिष्टं निधायाचान्ते बर्हीष्यवकीर्य न्युब्जपात्रं स्वदितम् इति ब्राह्मणो ब्रूयात् । अथ पवित्रं निधायान्युब्जेतनप्रमाण स्वधास्त्वित्युञ्चैः इत्युक्त्वा अस्तु स्वधा इति प्रतिवचनम् । यज्ञोपवीत्यवोक्ष्य दक्षिणां दत्त्वोत्थाप्य अन्नशेषैः किं क्रियताम् इत्याह । इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रदक्षिणीकृत्य प्रत्येत्य पिण्डं त्याज्याप्सु स्नात्वा देवागारं प्रविश्य अदक्षिणं कृत्वाञ्जलिं कृत्वालङ्कृत्य गृहानेत्य पुण्याहादीनि वाचयित्वा अन्नशेषं सगणः प्राश्नाति । पश्यति पुत्रं पश्यति पौत्रं न च शूद्रोच्छिष्टं जायत इति कुशहारीतः २
संवत्सरे सपिण्डीकरणं कुर्यात् । प्राचीनावीत्यग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य तेषु चत्वार्युदपात्राणि निधाय एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य तेषामेकं दक्षिणतः प्रेतपात्रं निधायार्धोदकपात्रमानीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । इतरेषु त्रिष्वप आनयति ऊर्जस्वतीः स्वधया वन्दमाना इति । दक्षिण आञ्जनाभ्यञ्जनमुदकुम्भं निधाय दक्षिणतो ब्राह्मणान् सुप्रक्षाळितपाणिपादान् दर्भेष्वासनेषु विश्वान् देवान् प्राङ्मुखानुपवेश्य इतरानुदङ्मुखानुपवेश्य प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो धूपदीपवर्जं पूजां कृत्वा ततोऽपसव्यं परिषिञ्चति । औदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्या जुहोति । होमार्हेणाज्येन सोमाय पितृमत इत्यादिषड्भिर्मन्त्रैर्हुत्वाथ नामधेयैर्जुहोति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इत्यष्टाबाहुतयः । एता अष्टौ जुहोति । एवमन्नस्य हुत्वा अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा इति दक्षिणार्धपूर्वार्धे हुत्वानुप्रहृत्य दर्वीमपसव्यं परिषिच्य दक्षिणतो दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वेकं प्रेतपिण्डं निदध्यात् अयमोदनः कामदुघ इति । ऊर्जस्वतीः स्वधया वन्दमाना इति तिलोदकैरपसव्यं परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभिमृश्यैतेन ब्राह्मणान् विद्यावतः परिविशति भुङ्क्ष्वेति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचान्तेभ्यस्तिलोदकं प्रदाय स्वधास्तु इति वाचयित्वा अस्तु स्वधा इति प्रतिवचनम् । यथाशक्ति दक्षिणां दत्त्वा ततः प्रेतपात्रं पितृपात्रेषु निनयेत् समानी च आकूतिः इत्यावर्त्य । ततः प्रेतपिण्डं पितृपिण्ढ्षेउ! निदध्यात् संगच्छध्वं संवदध्वं समानो मन्त्रः समितिः इति द्वाभ्याम् । तानुपतिष्ठते ये समानाः ये सजाताः इति द्वाभ्याम् । अत्र पैतृकमनुवाकं जपति उशन्तस्त्वा हवामह इति । ऊर्ध्वं पितुः क्रिया स्यात् । सर्वतः शेषं समवदायाश्नीयात् । सिद्धमेतत् सपिण्डीकरणम् ३
अथातो नारायणब्लिं व्याख्यास्यामः । दक्षिणोत्तरायणेऽपरपक्षस्य द्वादश्यां क्रियेत । श्रुतवृत्तसम्पन्नान् द्वादश षड्वा ब्राह्मणानामन्त्रयते । देवगृहे नदीतीरे वाथ देवयजनोल्लेखनप्रभृत्य्राप्फ्! हअस भ्यांत्र प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं देवमावाहयामि ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ स्वः पुरुषमावाहयामि ॐ भूर्भुवःस्वः पुरुषमावाहयामि ओम् इत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा सहस्रशीर्षा पुरुष इत्येतेनानुवाकेनाक्षतगन्धपुष्पधूपदीपैरष्टाक्षरेण वा दद्यात् । पश्चिमां दिशमुपवेश्य प्रधानाहुतीर्जुहोति विष्णोर्नुकं वीर्याणि प्रवोचम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इति द्वादश स्रुवाहुतीः । गुळपायसं घृतमिश्रं देवस्य त्वा इति महाविष्णवे हविर्निवेदयति । केशवाय इति द्वादशभिर्नमस्कारैर्ब्राह्मणानाहूय सदर्भोपकॢप्तेष्वासनेषु उदङ्मुखानुपवेश्य वासोऽङ्गुळीयं च दक्षिणां दद्यात् । त्रिवृतान्नेन ब्राह्मणान् परितोषयति । स्वस्ति वाचयित्वानुज्ञाप्य वाचं यच्छेत् । आज्यं तिलं हविः समुदायुत्येडापात्रमानीय हस्तेन जुहुयात् पितृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्येभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सखिभ्यः स्वधा नमो विष्णवे स्वाहा । सखिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्येभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वेभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वाभ्यः स्वधा नमो विष्णवे स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो विष्णवे स्वाहा इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमः साध्येभ्यो देवेभ्यो नमः सर्वेभ्यो देवेभ्यो नमः सर्वाभ्यो देवताभ्यो नमः असाविदं ते नमो ब्राह्मणेभ्यो नमः नमो ब्रह्मप्रियाय नमः । यस्तु सर्वान् समधिगच्छति पितृभ्यो नारायणाय बलिं ददाति । उपर्युक्तं प्रेतविधानम् । एवमेव शस्त्रविपरज्जुजलदर्वीकरमारुततरुपाषाणोच्छासनादिष्वात्मनिहतस्य वा गोब्राह्मणविधवापतितेष्वापतितस्य वा शरीरसंस्कारान् वर्जयेत् । देशान्तरमृते संग्रामहते व्याघ्रहते शरीरमानीय विधिना दाहयेत् । यद्येकाङ्गं दर्शयेद् द्विरङ्गं वा पृथिवीं शरीरं सक्त्वार्धयितः कुर्यात् । मधुसर्पिषाभ्यज्य विधिना दाहयेत् । अथ यदि जीवेत् पुनरागच्छेदिति ४
अथातोमृतबलिम् एकादश्यामेकोद्दिष्टंकुर्वन्ति संवत्सरेसपिण्डीकरणं
कुर्यात् अथातोनारायणबलिं चत्वारि
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने एकादशोऽध्यायः

अथ द्वादशोऽध्यायः

भुक्त्वा श्राद्धं ततो विद्वान् यथाशास्त्रमगर्हितम्
छर्दयेत्तु ततः सम्यक् कुशवारिजलं पिबेत्
पुनर्जलाशये स्नात्वा मानस्तोकऋचं जपेत्
गायत्र्यष्टशतं जप्त्वा प्राणायामांस्तु षोडश
भुक्तं चेन्मासिकश्राद्धं प्राजापत्येन शुध्यति
अष्टकां हि ततो भुक्त्वा पूर्वोकेन विशुध्यति
एकोद्दिष्टं ततो भुक्त्वा तत्र चान्द्रायणं चरेत्
अतिकृच्छ्रं चरेद् विद्वान् भुक्त्वा नक्षत्रभोजनम्
कृच्छ्रातिकृच्छ्रं षण्मासे त्रिपक्षे तप्तमेव च
तथा संवत्सरे श्राद्धे सपिण्डे तु तथैव च
बलिं नारायणं भुक्त्वा कृच्छ्रमेकं चरेद् बुधः
अशक्तौ तु तथा सर्वं कृच्छ्रमेकं चरेद् बुधः
अथवापि त्रिरात्रं स्यादेकाहं वापि दुर्बलम्
तस्मात् सर्वप्रयत्नेन श्राद्धगेहं न गच्छति
दातारं तारयेत् पक्वात् त्वामदाता तु ग्रन्थिनम्
तस्मात् सर्वप्रयत्नेन आमश्राद्धं प्रतिग्रहेत्
सर्वाण्यादाय द्रव्याणि नयेद् ब्राह्मणसन्निधौ
सर्वाणीमानि गृह्णीष्व मे पितुः पुष्टिकाङ्क्षया
भगवन्ननुगृह्णीष्व पिण्डं देयं हि मद्गृहे
निवपेत् पिण्डमित्युक्त्वा निवपेयमितीतरः
ब्राह्मणेनाभ्यनुज्ञातो गत्वा तु स्वगृहं प्रति
दत्त्वा पिण्डं यथाशास्त्रमुदकस्याञ्जलिं तथा
स्वधामादाय तद् गत्वा ब्राह्मणस्याञ्जलौ नयेत्
स्वधास्त्विति ततः पश्चात् स्वधा मास्त्वादिनाब्रवीत्
एवमुक्ते ततो दत्त्वा दक्षिणां ब्राह्मणस्य तु
प्रदक्षिणं हि कृत्वा तु कृताञ्जलिपुटं तथा
द्रव्यप्रदानात् पूर्वं हि हुत्वा होमं यथाविधि
स्वगृहं प्राप्य तद् गत्वा सपिण्डैः सह भोजयेत् १
अथ सर्वप्रायश्चित्तानि जुहोति । पलाशशकलमौदुम्बरशकलं वान्यानि
याज्ञिकशकलानि वाष्टौ गृह्णीयात् । पञ्च महायज्ञान् कृत्वाग्निं परिस्तीर्याज्यं विलाप्योत्पूय समन्तं परिषेचनं करोति । पुरस्तादोपरिष्टाश्च व्याहृतिभिर्विहृताभिः समस्ताभिश्च हुत्वा शकलानाज्येनाभ्यज्य एकैकशो जुहुयात् देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । अन्यकृतस्यैनसोऽवयजनमसि स्वाहा । यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि स्वाहा । यद्विद्वाँसश्चाविद्वाँसश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा इति । तथैव परिषिच्य एवमेवाहरहः सायं प्रातः शकलहोमं हुत्वा सर्वस्मात् किल्बिषात् पूतो भवति सर्वस्मात् किल्बिषात् पूतो भवतीत्याह भगवानाग्निवेश्यः २
भुक्त्वाश्राद्धम् अथसर्वप्रायश्चित्तानि द्वे
इत्याग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने द्वादशोऽध्यायः
तृतीयः प्रश्नः समाप्तः
समाप्तं चाग्निवेश्यगृह्यसूत्रम्
शुभं भूयात्