आत्मनिन्दाष्टकम्
आत्मनिन्दाष्टकम् [[लेखकः :|]] १९२६ |
आत्मनिन्दाष्टकम् । श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकसिकीयं प्राप्ता मोहस्य घाटी तडिदिव विषमा हा हताः कुन यामः ॥ १॥ एकेनापि महाव्रतेन यतिनः खण्डेन भनेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् । हत्ला तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली ॥२॥ कल्यां चोलपटं तनौ सितपटं कृत्वा शिरोलञ्चनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्त्रे वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिर्ष वेषाडम्बरिणः खजीवनकृते विद्मो गति नात्मनः ॥ ३ ॥ मिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणवते कष्टेन खिद्यामहे । १. पुस्तकेऽवचूरिकृतो नाम नोपालब्धम्, २. एतदष्टकमस्मभ्यं बृहत्खरतरगच्छ- मण्डनायमानजङ्गमयुगप्रधानभधारकश्री १०६ श्रीपूज्यजिनमुक्तिसूरिभिः सांप्रतं जयपुर- मलकुर्वनिर्दत्तमस्ति. तत्र व पुस्तके कषुर्नाम नास्ति. काव्यमाला। आत्मारामतया तथा क्षणमपि प्रोज्य प्रमादद्विष खार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥ ४ ॥ पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे लोमाज्ञानवशात्तपांसि बहुधा मूद्वैश्चिरं तेपिरे । कापि कापि कथंचनापि गुरुभिभूत्वा मदो भेजिरे कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे ॥५॥ किं भावी नारकोऽहं किमुत बहुभवी दूरभव्यो न भव्यः किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोषात् । वहिज्वालेव शिक्षा व्रतमपि विषवत्खनधारा तपस्या खाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति ॥ ६॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्थोषधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि । गृह्णीमः परकीयमेव सुतरामाजन्मवृद्धा वयं यास्यामः कथमीडशेन तपसा तेषां हहा निष्क्रयम् ॥ ७ ॥ अन्तर्मत्सरिणां बहिः शमवतां प्रच्छन्नपापात्मनां नवम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम्(). पाखण्डनतधारिणां बकशां मिथ्याशामीहशां । बद्धोऽहं धुरि तावदेव चरितस्तन्मे हहा का गतिः ॥ ८॥ येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । ताक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे संविना वयमात्मनिन्दनमिदं कुर्मः पुनर्योषये ।। ९ ।। रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुजृम्भते द्वेषो मां भजति क्षण क्षणमयो मैत्री समालिङ्गति । दैन्यं पीडयति क्षणं क्षणमयो हर्षोऽपि मां बापते कोपेयं कृपणो कृपापरिवृतैः(1) कार्य हहा कर्ममिः ॥१॥ इत्यात्मनिन्दाष्टकम्