प्रमुखा विकल्पसूचिः उद्घाट्यताम्


           ॥ आत्मबोधः ॥ 

तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् ।

मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १॥

बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।

पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ २॥

अविरोधितया कर्म नाविद्यां विनिवर्तयेत् ।

विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् ॥ ३॥

परिच्छन्न इवाज्ञानात्तन्नाशे सति केवलः । वर्  अवच्छिन्न

स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव  ॥ ४॥

अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् ।

कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ ५॥

संसारः स्वप्नतुल्यो हि रागद्वेषादिसङ्कुलः ।

स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥ ६॥

तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।

यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ७॥

उपादानेऽखिलाधारे जगन्ति परमेश्वरे ।

सर्गस्थितिलयान् यान्ति बुद्बुदानीव वारिणि ॥ ८॥

सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः ।

व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ९॥

यथाकाशो हृषीकेशो नानोपाधिगतो विभुः ।

तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १०॥

नानोपाधिवशादेव जातिवर्णाश्रमादयः । वर्  जातिनामाश्रमादयः

आत्मन्यारोपितास्तोये रसवर्णादि भेदवत् ॥ ११।

पंचीकृतमहाभूतसंभवं कर्मसंचितम् ।

शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२॥

पंचप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।

अपंचीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १३॥

अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते ।

उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४॥

पंचकोशादियोगेन तत्तन्मय इव स्थितः ।

शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५॥

वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः ।

आत्मानमन्तरं शुद्धं विविञ्च्यात्तण्डुलं यथा ॥ १६॥

 वर्  विद्यर्थ विविञ्च्यात।, आशीर्लिङ्ग बेनेदिcतिवे विविच्यात्

सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते ।

बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् ॥ १७॥

देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् ।

तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८॥

व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।

दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९॥

आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ।

स्वक्रियार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः । २०॥

देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि ।

अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ॥ २१॥

अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ।

कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः । २२॥

रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते ।

सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३॥

प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता ।

स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४॥

आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम् ।

संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५॥

आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ।

जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २६॥

रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं  वहेत् ।

नाहं जीवः परात्मेति ज्ञातं चेन्निर्भयो भवेत् ॥ २७॥

आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि ।

दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८॥

स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः ।

न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९॥

निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः ।

विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३०॥

आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम् ।

एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१॥

देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः ।

शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च ॥ ३२॥

अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ।

अप्राणो ह्यमनाः शुभ्र इत्यादि श्रुतिशासनात् ॥ ३३॥

(एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥) दोउब्त्फ़ुल् अद्दितिओन्

निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरंजनः ।

निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः ॥ ३४॥

अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ।

सदा सर्वसमः सिद्धो निःसङ्गो निर्मलोऽचलः ॥ ३५॥

नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् ।

सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ ३६॥

एवं निरन्तराभ्यस्ता ब्रह्मैवास्मीति वासना ।

हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥ ३७॥

विविक्तदेश आसीनो विरागो विजितेन्द्रियः ।

भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८॥

आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।

भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९॥

रूपवर्णादिकं सर्व विहाय परमार्थवित् ।

परिपुर्णंचिदानन्दस्वरूपेणावतिष्ठते ॥ ४०॥

ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते ।

चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत् ॥ ४१॥ वर्  हि ॥

एवमात्मारणौ ध्यानमथने सततं कृते ।

उदितावगतिर्ज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२॥

अरुणेनेव बोधेन पूर्वं सन्तमसे हृते ।

तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३॥

आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया ।

तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४॥

स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता ।

जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५॥

तत्वस्वरूपानुभवादुत्पन्नं ज्ञानमंजसा ।

अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६॥

सम्यग्विज्ञानवान् योगी स्वात्मन्येवाखिलं जगत् ।

एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७॥

आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न विद्यते ।

मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक्षते ॥ ४८॥

जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणान्स्त्यजेत् ।

सच्चिदानन्दरूपत्वात् भवेद्भ्रमरकीटवत् ॥ ४९॥

तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान् ।

योगी शान्तिसमायुक्त आत्मारामो विराजते ॥ ५०॥

बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः ।

घटस्थदीपवत्स्वस्थं स्वान्तरेव प्रकाशते ॥ ५१॥

   वर्  दीपवcछश्वदन्तरेव

उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः ।

सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत् ॥ ५२॥

उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः ।

जले जलं वियद्व्योम्नि तेजस्तेजसि वा यथा ॥ ५३॥

यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।

यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४॥

यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः ।

यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५५॥

तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम् ।

अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५६॥

अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽद्वयम् ।  वर् ऽव्ययम्

अखण्डानन्दमेकं यत्ततद्ब्रह्मेत्यवधारयेत् ॥ ५७॥

अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः ।

ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखिलाः ॥ ५८॥

तद्युक्तमखिलं वस्तु व्यवहारस्तदन्वितः । वर् व्यवहारश्चिदन्वितः

तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५९॥

अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् ।

अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ६०॥

यद्भासा भास्यतेऽर्कादि भास्यैर्यत्तु न भास्यते ।

येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥ ६१॥

स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् ।

ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत् ॥ ६२॥

जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन ।

ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३॥

दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।

तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४॥

सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते ।

अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥ ६५॥

श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापितः ।

जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स्वयम् ॥ ६६॥

हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोऽपहृत् ।

सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ॥ ६७॥

दिग्देशकालाद्यनपेक्ष्य सर्वगं

शीतादिहृन्नित्यसुखं निरंजनम् ।

यः स्वात्मतीर्थं भजते विनिष्क्रियः

स सर्ववित्सर्वगतोऽमृतो भवेत् ॥ ६८॥

॥ इति शंकराचार्यविरचित आत्मबोधः समाप्तः ॥

 

"https://sa.wikisource.org/w/index.php?title=आत्मबोधः&oldid=201305" इत्यस्माद् पुनः प्राप्तिः